[द्वितीयोऽध्यायः]
भागसूचना
आग्नीध्र-चरित्र
श्लोक-१
मूलम् (वचनम्)
श्रीशु1क उवाच
विश्वास-प्रस्तुतिः
एवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान आग्नीध्रो जम्बूद्वीपौकसः प्रजा औरसवद्धर्मावेक्षमाणः पर्यगोपायत्॥
मूलम्
एवं पितरि सम्प्र2वृत्ते तदनुशासने वर्तमान आ3ग्नीध्रो जम्बूद्वीपौकसः प्रजा औरसवद्धर्मावेक्षमाणः पर्यगोपायत्॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—पिता प्रियव्रतके इस प्रकार तपस्यामें संलग्न हो जानेपर राजा आग्नीध्र उनकी आज्ञाका अनुसरण करते हुए जम्बूद्वीपकी प्रजाका धर्मानुसार पुत्रवत् पालन करने लगे॥ १॥
वीरराघवः
एवं श्रावितप्रियव्रतचरित्रो मुनिस्तत्पुत्राणां चरित्रं विवक्षुस्तावदाग्नीधचरित्रमाह एवमिति । एवमुक्तविधज्ञानपूर्वकं पितरि प्रियव्रते संवृत्ते मुक्ते सति तस्य प्रियव्रतस्यानुशासने अनुपूर्वः शास्तिर्विविच्य ज्ञापने वर्तते, तदुपदिष्टहिताहितविवेके वर्तमानः आग्नीध्रः धर्ममवेक्षमाणः धर्मसञ्चयमेव कर्तुमुद्यतः जम्बूद्वीपे ओकः स्थानं यासां ताः प्रजा औरसवत्स्वपुत्रवत् परितः सर्वतः सर्वेभ्य उपद्रवेभ्योऽगोपायदरक्षत् । जम्बूद्वीपस्य स्वभागत्वाज्जम्बूद्वीपौकस इत्युक्तम् ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
स च कदाचित्पितृलोककामः सुरवरवनिताक्रीडाचलद्रोण्यां भगवन्तं विश्वसृजां पतिमाभृतपरिचर्योपकरण आत्मैकाग्र्येण तपस्व्याराधयाम्बभूव॥
मूलम्
स च कदाचित्पि4तृलोककामः सुरवरवनिताक्रीडाचलद्रोण्यां भगवन्तं विश्वसृजां पतिमाभृतपरिचर्योपकरण आत्मैकाग्र्येण तपस्व्याराधयाम्बभूव॥ २ ॥
अनुवाद (हिन्दी)
एक बार वे पितृलोककी कामनासे सत्पुत्रप्राप्तिके लिये पूजाकी सब सामग्री जुटाकर सुरसुन्दरियोंके क्रीडास्थल मन्दराचलकी एक घाटीमें गये और तपस्यामें तत्पर होकर एकाग्रचित्तसे प्रजापतियोंके पति श्रीब्रह्माजीकी आराधना करने लगे॥ २॥
वीरराघवः
सः आग्नीध्रः कदाचित्पितृलोककामः सन्तानार्थं पितृलोकस्य सन्तानवता प्राप्यत्वात् पितृलोककाम इत्युक्तम् । पितृलोकप्रापकसन्तानार्थीत्यर्थः । “पित्तरो हि प्रजया पितृभ्यः” इति श्रुत्युक्तरीत्या सन्तानाय कृतर्णैः प्राप्यन्ते सुराणां वनिताः तासामाक्रीडाचलो मन्दरः आक्रीडन्त्यस्मिन्नित्याक्रीडः ततोस्त्वचलपदेन कर्मधारयः, तेन सुरवनितापदेन षष्ठीसमासस्तस्य द्रोण्यामाहृतानि सम्पादितानि परिचर्योपकरणानि पूजासाधनानि पुष्पादीनि येन कायिकव्यापारोऽनेनोक्तः, चित्तैकाग्र्यरूपेण तपसा विश्वसृजां पतिं ब्रह्माणमाराधयाम्बभूव ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
तदुपलभ्य भगवानादिपुरुषः सदसि गायन्तीं पूर्वचित्तिं नामाप्सरसमभियापयामास॥
मूलम्
तदुपलभ्य भगवानादिपुरुषः सदसि गायन्तीं पूर्वचित्तिं नामाप्सरसमभियापयामास॥ ३ ॥
अनुवाद (हिन्दी)
आदिदेव भगवान् ब्रह्माजीने उनकी अभिलाषा जान ली। अतः अपनी सभाकी गायिका पूर्वचित्ति नामकी अप्सराको उनके पास भेज दिया॥ ३॥
वीरराघवः
तदाराधनमुपलभ्य ज्ञात्वा भगवानादिपुरुषो ब्रह्मा स्वसदने गायन्तीं गानं कुर्वन्तीं पूर्वचित्तिं नाम पूर्वचित्त्याख्यामप्सरसमभियापयामास भोगार्थं प्रस्थापितवान् । सन्तानार्थमप्सरःप्रेषणं न तु तपोविघ्नार्थम् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
सा च तदाश्रमोपवनमतिरमणीयं विविधनिबिडविटपिविटपनिकरसंश्लिष्टपुरटलतारूढस्थलविहङ्गममिथुनैः प्रोच्यमानश्रुतिभिः प्रतिबोध्यमानसलिलकुक्कुटकारण्डवकलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकरमुपबभ्राम॥
मूलम्
सा च तदाश्रमोपवनमतिरमणीयं विविधनिबिडविटपिवि5टपनिकरसंश्लिष्टपुरटलतारूढस्थलविहङ्ग6ममिथुनैः प्रोच्यमानश्रुतिभिः प्रतिबोध्यमानसलिलकुक्कुटकारण्डवकलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकरमुपबभ्राम॥ ४ ॥
अनुवाद (हिन्दी)
आग्नीध्रजीके आश्रमके पास एक अति रमणीय उपवन था। वह अप्सरा उसीमें विचरने लगी। उस उपवनमें तरह-तरहके सघन तरुवरोंकी शाखाओंपर स्वर्णलताएँ फैली हुई थीं। उनपर बैठे हुए मयूरादि कई प्रकारके स्थलचारी पक्षियोंके जोड़े सुमधुर बोली बोल रहे थे। उनकी षड्जादि स्वरयुक्त ध्वनि सुनकर सचेत हुए जलकुक्कुट, कारण्डव एवं कलहंस आदि जलपक्षी भाँति-भाँतिसे कूजने लगते थे। इससे वहाँके कमलवनसे सुशोभित निर्मल सरोवर गूँजने लगते थे॥ ४॥
वीरराघवः
सा च पूर्वचित्तिस्तस्याग्नीध्रस्याश्रमे यदुपवनं तदुपबभ्राम समीपे चचार । आश्रमोपवनं विशिनष्टि । अतिरमणीयं तदेव प्रपञ्चयति । विविधाश्च निबिडाः सान्द्राश्च ये विटपिनः वृक्षास्तेषां विटपाः शाखास्तेषां निकराः समूहास्तैः संश्लिष्टाः पुरटलताः स्वर्णवर्णा वल्ल्यस्तास्वारूढाः स्थिता विहङ्गमाः मयूरादयस्तेषां मिथुनैः स्त्रीपुंसद्वन्द्वैः प्रोच्यमानाभिः उच्चार्य्यमाणाभिः श्रुतिभिः षड्जादिस्वरैः करणभूतैः प्रबोध्यमाना ये सलिलकुक्कुटादयस्तैर्विचित्रं यथा भवति तथोपकूजिता नादिता अमला जलाशयास्तेषु कमलानि पङ्कजानि तेषामाकरमुपवनम् ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
तस्याः सुललितगमनपदविन्यासगतिविलासायाश्चानुपदं खणखणायमानरुचिरचरणाभरणस्वनमुपाकर्ण्य नरदेवकुमारः समाधियोगेनामीलितनयननलिनमुकुलयुगलमीषद्विकचय्य व्यचष्ट॥
मूलम्
तस्याः सुललितगमनपदविन्यासगतिविलासायाश्चानुपदं खणखणायमानरुचिरचरणाभरणस्वनमुपाकर्ण्य नरदेवकुमारः समाधियोगेनामीलितनयननलिनमुकुलयु7गलमीषद्विक8चय्य व्यचष्ट॥ ५ ॥
वीरराघवः
तस्या इति सुललिते गमने सुन्दरगतौ ये पदविन्यासास्तैर्गतिविलासा यस्यास्तस्याः पूर्वचित्त्याः खणखणेति ध्वनिं कुर्वतो रुचिरस्य चरणाभरणस्य स्वनं ध्वनिमुपाकर्ण्य श्रुत्वा नरदेवस्य प्रियव्रतस्य कुमारः आग्नीध्रः समाधियोगेन आमीलिते नयने एव नलिनमुकुले तयोर्युगलमीषद्विकचय्य किञ्चिदुन्मील्य व्यचष्ट ददर्श ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
तामेवाविदूरे मधुकरीमिव सुमनस उपजिघ्रन्तीं दिविजमनुजमनोनयनाह्लाददुघैर्गतिविहारव्रीडाविनयावलोकसुस्वराक्षरावयवैर्मनसि नृणां कुसुमायुधस्य विदधतीं विवरं निजमुखविगलितामृतासवसहासभाषणामोदमदान्धमधुकरनिकरोपरोधेन द्रुतपदविन्यासेन वल्गुस्पन्दनस्तनकलशकबरभाररशनां देवीं तदवलोकनेन विवृतावसरस्य भगवतो मकरध्वजस्य वशमुपनीतो जडवदिति होवाच॥
मूलम्
तामेवा9विदूरे मधुकरीमिव10सुमनस उपजिघ्रन्तीं दिविजमनुजम11नोनयनाह्लाददुघैर्गतिविहारव्रीडाविनयावलोकसुस्वराक्षरावयवैर्मनसि नृणां कुसुमायुधस्य विदधतीं विवरं निजमु12खविगलितामृतासवसहासभाषणामोदमदान्धमधुकरनिकरोपरोधेन द्रुतपदवि13न्यासेन वल्गुस्पन्दनस्तनकलशकबरभाररशनां देवीं तदवलोकनेन विवृतावसरस्य भगवतो मकरध्वजस्य वशमुपनीतो जडवदिति होवाच॥ ६ ॥
अनुवाद (हिन्दी)
पूर्वचित्तिकी विलासपूर्ण सुललित गतिविधि और पाद विन्यासकी शैलीसे पद-पदपर उसके चरणनूपुरोंकी झनकार हो उठती थी। उसकी मनोहर ध्वनि सुनकर राजकुमार आग्नीध्रने समाधियोगद्वारा मूँदे हुए अपने कमल-कलीके समान सुन्दर नेत्रोंको कुछ-कुछ खोलकर देखा तो पास ही उन्हें वह अप्सरा दिखायी दी। वह भ्रमरीके समान एक-एक फूलके पास जाकर उसे सूँघती थी तथा देवता और मनुष्योंके मन और नयनोंको आह्लादित करनेवाली अपनी विलासपूर्ण गति, क्रीडा-चापल्य, लज्जा एवं विनययुक्त चितवन, सुमधुर वाणी तथा मनोहर अंगावयवोंसे पुरुषोंके हृदयमें कामदेवके प्रवेशके लिये द्वार-सा बना देती थी। जब वह हँस-हँसकर बोलने लगती, तब ऐसा प्रतीत होता मानो उसके मुखसे अमृतमय मादक मधु झर रहा है। उसके निःश्वासके गन्धसे मदान्ध होकर भौंरे उसके मुखकमलको घेर लेते, तब वह उनसे बचनेके लिये जल्दी-जल्दी पैर उठाकर चलती तो उसके कुचकलश, वेणी और करधनी हिलनेसे बड़े ही सुहावने लगते। यह सब देखनेसे भगवान् कामदेवको आग्नीध्रके हृदयमें प्रवेश करनेका अवसर मिल गया और वे उनके अधीन होकर उसे प्रसन्न करनेके लिये पागलकी भाँति इस प्रकार कहने लगे—॥ ५-६॥
वीरराघवः
तामेव देवीमप्सरसं तदवलोकनेन विवृतावसरस्य प्रसक्तावकाशस्य भगवतो मकरध्वजस्य मन्मथस्य वशमुपनीतः प्राप्तः जडवत्स्त्रीणामनभिज्ञ इव इति वक्ष्यमाणश्लोकानुवाचेत्यन्वयः । जाडयानुकरणं वैदग्ध्येन तद्वशीकरणार्थं तदभिप्रायज्ञापनार्थं देवीं विशिनष्टि । अविदूरे समीपे मधुकरीं भ्रमरीमिव सुमनसं पुष्पमुपजिघ्रन्तीं गन्धमुपाददतीं दिविजानां मनुजानां च यानि मनांसि नयनानि च तेषामाह्लाददुघैः सुखकरैर्गत्यादिभिः नृणां मनसि कामस्य विवरं प्रवेशद्वारं विदधतीं गतिश्च वीडाविलासाभ्यां युक्तोऽवलोकश्च सुस्वराण्यक्षराणि चावयवाश्च नेत्रादयस्तैर्निजमुखाद्विगलितममृतमिव स्वादु आसवमिव मादकं यत्सुहासं सम्भाषणं तस्मिन्नामोदो निश्वासगन्धस्तेन मदान्धा ये मधुकराणां निकुरास्तैरुपरोध आवरणं तेन भयाद् द्रुतं शीघ्रो यः पदविन्यासस्तेन वल्गु सुन्दरं किश्चिच्चलनं स्तनयोः कबरभारे रशनायां यस्यास्ताम् ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
का त्वं चिकीर्षसि च किं मुनिवर्य शैले
मायासि कापि भगवत्परदेवतायाः।
विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे
किं वा मृगान्मृगयसे विपिने प्रमत्तान्॥
मूलम्
का त्वं चिकीर्षसि च किं मुनिवर्य14शैले मायासि कापि भगवत्परदेवतायाः।
विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे किं वा मृगान्मृगयसे विपिने प्रमत्तान्॥ ७ ॥
अनुवाद (हिन्दी)
‘मुनिवर्य! तुम कौन हो, इस पर्वतपर तुम क्या करना चाहते हो? तुम परमपुरुष श्रीनारायणकी कोई माया तो नहीं हो? [भौंहोंकी ओर संकेत करके—] सखे! तुमने ये बिना डोरीके दो धनुष क्यों धारण कर रखे हैं? क्या इनसे तुम्हारा कोई अपना प्रयोजन है अथवा इस संसारारण्यमें मुझ-जैसे मतवाले मृगोंका शिकार करना चाहते हो!॥ ७॥
वीरराघवः
तद्वचनमेवाह का त्वमिति । हे मुनिवर्य्य ! पुंस्त्वेन सम्बोधनं जात्यानुकरणं का त्वं कथञ्जातीया शैले गिरौ अस्मिन् किञ्चिकीर्षसि कर्तुमिच्छसि नूनं । भगवतः परदेवतारूपस्य मायासीति कृत्स्नां व्यक्तिमालक्ष्य भगवन्मायात्वेन निरूपयति । अथ भ्वाद्यवयवान् प्रत्येकमालक्ष्य धनुरादित्वेन रूपयति तत्र भ्रुवावालक्ष्याह । विज्ये निर्गुणे धनुषी बिभर्षि किं सुहृदः मादृशस्य आत्मनो वा अर्थे प्रयोजनाय आभ्यां किं कार्यमस्ति । किञ्चाप्रमत्तानजितेन्द्रियान् मृगान् मृगतुल्यानस्मदादीन् मृगयसे कान् विजेतुं किं धनुषी धारयसीत्यर्थः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
बाणाविमौ भगवतः शतपत्रपत्रौ
शान्तावपुङ्खरुचिरावतितिग्मदन्तौ।
कस्मै युयुङ्क्षसि वने विचरन्न विद्मः
क्षेमाय नो जडधियां तव विक्रमोऽस्तु॥
मूलम्
बाणाविमौ भगवतः शतपत्रपत्रौ शान्तावपुङ्खरुचिरावतितिग्मदन्तौ।
कस्मै युयुङ्क्षसि वने विचरन्न विद्मः क्षेमाय नो जडधियां तव विक्रमोऽस्तु॥ ८ ॥
अनुवाद (हिन्दी)
[कटाक्षोंको लक्ष्य करके—] तुम्हारे ये दो बाण तो बड़े सुन्दर और पैने हैं। अहो! इनके कमलदलके पंख हैं, देखनेमें बड़े शान्त हैं और हैं भी पंखहीन। यहाँ वनमें विचरते हुए तुम इन्हें किसपर छोड़ना चाहते हो? यहाँ तुम्हारा कोई सामना करनेवाला नहीं दिखायी देता। तुम्हारा यह पराक्रम हम-जैसे जड-बुद्धियोंके लिये कल्याणकारी हो॥ ८॥
वीरराघवः
कटाक्षावालक्ष्य तद्विवक्षया प्राह बाणाविमौ । शतपत्रे नेत्रकमले ते एव पत्राणि पिच्छानि ययोः शान्तौ विभ्रमेण मन्थरावपुङ्खरुचिरौ पुङ्खाभ्यां विनापि रुचिरौ सुन्दरौ पत्रतया कल्पितनेत्राभ्यां परभागस्य पुङ्खस्थानीयस्याभावादपुङ्खरुचिरावित्युक्तमतितिग्मौ तीक्ष्णौ दन्तावग्रभागौ ययोस्तौ यद्वा शतपत्रपत्रौ इति नेत्रविवक्षा अपुङ्खरुचिराविति कटाक्षविवक्षा । वने चरन्कस्मै युयुङ्क्षसि प्रयोक्तुमिच्छसीति न विद्मः । अतो भयादेतत्प्रार्थयामः तवायं विक्रमो जडधियामस्माकं क्षेमायास्तु ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
शिष्या इमे भगवतः परितः पठन्ति
गायन्ति साम सरहस्यमजस्रमीशम्।
युष्मच्छिखाविलुलिताः सुमनोऽभिवृष्टीः
सर्वे भजन्त्यृषिगणा इव वेदशाखाः॥
मूलम्
शिष्या इमे भगवतः परितः पठन्ति गायन्ति साम सरहस्यमजस्रमीशम्।
युष्मच्छिखाविलुलिताः सुमनोऽभिवृष्टीः सर्वे भजन्त्यृषिगणा इव वेदशाखाः॥ ९ ॥
अनुवाद (हिन्दी)
[भौंरोंकी ओर देखकर—] भगवन्! तुम्हारे चारों ओर जो ये शिष्यगण अध्ययन कर रहे हैं, वे तो निरन्तर रहस्ययुक्त सामगान करते हुए मानो भगवान्की स्तुति कर रहे हैं और ऋषिगण जैसे वेदकी शाखाओंका अनुसरण करते हैं, उसी प्रकार ये सब तुम्हारी चोटीसे झड़े हुए पुष्पोंका सेवन कर रहे हैं॥ ९॥
वीरराघवः
तदङ्गसौरभ्येनानुगच्छतो भ्रमरानालक्ष्य तद्विवक्षयाह शिष्या इति । इमे परितः अनुगच्छन्तः इति शेषः, भगवतस्तव शिष्या भ्रमरध्वनिमाश्रुत्य तद्विवक्षयाह । सरहस्यं सोपनिषत्सामाजस्रमविच्छेदेन पठन्ति । ईशेति पुंस्त्वनिर्देशः पूर्ववत् । शिखातो विलुलितपुष्पसंश्लिष्टभ्रमरानालक्ष्याह । युष्मच्छिखातो विलुलिताः गलिताः सुमनसामभितो वृष्टीः सर्वे तव शिष्याः भजन्ति । तत्र शुद्धत्वेनोपमा ऋषिगणा वेदशाखा इवेति ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
वाचं परं चरणपञ्जरतित्तिरीणां
ब्रह्मन्नरूपमुखरां शृणवाम तुभ्यम्।
लब्धा कदम्बरुचिरङ्कविटङ्कबिम्बे
यस्यामलातपरिधिः क्व च वल्कलं ते॥
मूलम्
वाचं परं चरणपञ्जरतित्तिरीणां ब्रह्मन्नरूपमुखरां शृणवाम तुभ्यम्।
लब्धा कदम्बरुचिरङ्कविटङ्कबिम्बे यस्यामलातपरिधिः क्व च वल्कलं ते॥ १० ॥
अनुवाद (हिन्दी)
[नूपुरोंके शब्दकी ओर संकेत करके—] ब्रह्मन्! तुम्हारे चरणरूप पिंजड़ोंमें जो तीतर बन्द हैं, उनका शब्द तो सुनायी देता है; परन्तु रूप देखनेमें नहीं आता। [करधनीसहित पीली साड़ीमें अंगकी कान्तिकी उत्प्रेक्षा कर—] तुम्हारे नितम्बोंपर यह कदम्ब-कुसुमोंकी-सी आभा कहाँसे आ गयी? इनके ऊपर तो अंगारोंका मण्डल-सा भी दिखायी देता है। किन्तु तुम्हारा वल्कल-वस्त्र कहाँ है?॥ १०॥
वीरराघवः
नूपुरादिचरणाभरणान्तर्गतमणिस्वनमाकर्ण्य तद्विवक्षयाह वाचमिति । तुभ्यं तव विभक्तिव्यत्यय आर्षः । पञ्जराकारस्थानीयचरणालङ्कारान्तर्गतानां तित्तिरीणामिति चरणाभरणरत्नविवक्षया तित्तिरीशब्दः पक्षिवक्तृजात्यापन्नयजुर्वेदप्रवरऋषिवचनः स चाभेदोपात्तमणिपरः तेषां वाचं परं केवलं शृणुमः । कथंभूतामरूपमुखरामदृश्यमानवक्तृकां मुखरीमुद्भूतां यद्वा चरणपञ्जरतित्तिरीणामिति नूपुरादिचरणाभरणविवक्षैव । अस्मिन्पक्षे अरूपमुखरामित्यस्यानभिव्यक्तवर्णध्वन्यात्मनोद्भूतामित्यर्थः । हे ब्रह्मन् ! नितम्बं परिधानवस्त्रं नितम्बकान्तित्वेन प्रकल्प्याह । कदम्बकुसुमस्य रुचिर्दीप्तिरङ्कविटङ्कबिम्बे अङ्कयोश्च विटङ्कविम्बयोः सुन्दरतरनितम्बयोश्च तेषां समाहारः प्राण्यङ्गत्वादेकवद्भावः, तस्मिन् क्व लब्धा । पाठान्तरे अङ्गेति सम्बोधनं, नितम्बमण्डले कदम्बरुचिः क्व लब्धेत्यर्थः । मेखलामालक्ष्याह । यस्यां कदम्बरुच्यामलातपरिधिः वर्तते अलातः साङ्गारकाष्ठं तद्भ्रमणनिमित्तेन वलयाकाररेखाकृतिमापन्नोऽग्निपरिधिः । वस्त्रं नितम्बकान्तित्वेन परिकल्प्य वस्त्रमदृष्ट्वैव पृच्छति । क्व च ते वल्कलमिति । जात्यानुकरणनिमित्तऋषित्वव्यपदेशाभिप्रायेण वल्कलशब्दप्रयोगः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
किं सम्भृतं रुचिरयोर्द्विज शृङ्गयोस्ते
मध्ये कृशो वहसि यत्र दृशिः श्रिता मे।
पङ्कोऽरुणः सुरभिरात्मविषाण ईदृग्
येनाश्रमं सुभग मे सुरभीकरोषि॥
मूलम्
किं सम्भृतं रुचिरयोर्द्विज शृङ्गयोस्ते मध्ये कृशो वहसि यत्र दृशिः श्रि15ता मे।
पङ्कोऽरुणः सुरभिरात्मविषाण ईदृग् येनाश्रमं सुभग मे सुर16भीकरोषि॥ ११ ॥
अनुवाद (हिन्दी)
[कुंकुममण्डित कुचोंकी ओर लक्ष्य करके—] द्विजवर! तुम्हारे इन दोनों सुन्दर सींगोंमें क्या भरा हुआ है? अवश्य ही इनमें बड़े अमूल्य रत्न भरे हैं, इसीसे तो तुम्हारा मध्यभाग इतना कृश होनेपर भी तुम इनका बोझ ढो रहे हो। यहाँ जाकर तो मेरी दृष्टि भी मानो अटक गयी है। और सुभग! इन सींगोंपर तुमने यह लाल-लाल लेप-सा क्या लगा रखा है? इसकी गन्धसे तो मेरा सारा आश्रम महक उठा है॥ ११॥
वीरराघवः
स्तनावालक्ष्याह । हे द्विज ! सुन्दरयोः शृङ्गयोः किं सम्भृतं किम्पूर्णमस्ति मनोहरं किश्चिदस्तीत्येतावत्तु जानामि यतो मध्ये मध्यकाये कृशोऽपि त्वं कृच्छ्रेण शृङ्गद्वयं वहसि । अत्र शृङ्गयोर्मे दृशिराश्रिता संलग्नास्ति अन्यथेदं वहनं मम दृश्यासञ्जनं च न घटत इति भावः । स्तनगतं कुङ्कममालक्ष्याह । पङ्कोरुणः सुरभिरात्मनस्तव विषाणे स्तने ईदृगत्यपूर्वः, लिप्त इति शेषः । कुतः येन पङ्केन सुभगं ममाश्रमं सुरभीकरोषि ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
लोकं प्रदर्शय सुहृत्तम तावकं मे
यत्रत्य इत्थमुरसावयवावपूर्वौ।
अस्मद्विधस्य मनउन्नयनौ बिभर्ति
बह्वद्भुतं सरसराससुधादि वक्त्रे॥
मूलम्
लोकं प्रदर्शय सुहृत्तम तावकं मे यत्रत्य इत्थमुरसावयवावपूर्वौ।
अस्मद्विधस्य मनउन्नयनौ17 बिभर्ति बह्वद्भुतं स18रसराससुधादि वक्त्रे॥ १२ ॥
अनुवाद (हिन्दी)
मित्रवर! मुझे तो तुम अपना देश दिखा दो, जहाँके निवासी अपने वक्षःस्थलपर ऐसे अद्भुत अवयव धारण करते हैं, जिन्होंने हमारे-जैसे प्राणियोंके चित्तोंको क्षुब्ध कर दिया है तथा मुखमें विचित्र हाव-भाव, सरसभाषण और अधरामृत-जैसी अनूठी वस्तुएँ रखते हैं॥ १२॥
वीरराघवः
हे सुहृत्तम ! तावकं त्वत्सम्बन्धिनं लोकं स्थानं मे मह्यं प्रदर्शय यत्रत्यः यः तावकलोकस्थः जनः अस्मद्विधस्य मादृशस्य मनउन्नयन्नौ मनःक्षोभको उल्लासकरौ वा । रुत्वयत्वयलोपाः, यलोपस्यासिद्धत्वान्न गुणः । इत्थं ईदृशावपूर्वावयवौ श्रृंगरूपौ स्तनौ उरसा बिभर्त्ति वक्त्रे च बह्वद्भुतं बिभर्त्ति किं तत्सरसराससुधादि सरसो मधुरालापः रासो विलासस्ताभ्यां सहिता सुधा अधरामृतमादिशब्देन स्मितादिसंग्रहः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
का वाऽऽत्मवृत्तिरदनाद्धविरङ्ग वाति
विष्णोः कलास्यनिमिषोन्मकरौ च कर्णौ।
उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचि-
रासन्नभृङ्गनिकरं सर इन्मुखं ते॥
मूलम्
का वाऽऽत्मवृत्तिरदनाद्धविरङ्ग वाति विष्णोः कलास्यनिमिषोन्मकरौ च कर्णौ।
उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचिरासन्नभृङ्गनिकरं सर उन्मुखं ते॥ १३ ॥
अनुवाद (हिन्दी)
‘प्रियवर! तुम्हारा भोजन क्या है, जिसके खानेसे तुम्हारे मुखसे हवनसामग्रीकी-सी सुगन्ध फैल रही है? मालूम होता है, तुम कोई विष्णुभगवान्की कला ही हो; इसीलिये तुम्हारे कानोंमें कभी पलक न मारनेवाले मकरके आकारके दो कुण्डल हैं। तुम्हारा मुख एक सुन्दर सरोवरके समान है। उसमें तुम्हारे चंचल नेत्र भयसे काँपती हुई दो मछलियोंके समान, दन्तपंक्ति हंसोंके समान और घुँघराली अलकावली भौंरोंके समान शोभायमान है॥ १३॥
वीरराघवः
तव लोके आत्मनो देहस्य वृत्तिराहारः का वा ? अङ्ग ! हे सखे ! अदनाश्चर्वणाद्वहिः भक्षणव्यतिरेकेण भक्षणं विनैव तवात्मवृत्तिर्जीवनं संभवतीति भाति । सा कीदृशी । अदनाद्धविर्वातीति पाठे हविःशब्दस्तद्वन्धे उपचाराद्वर्तते अदनाचर्वणाद्धविः सम्बन्धिगन्धो वात्यायातीति ताम्बूलाभिप्रायं पूर्वोक्तपाठ एवं साधुः । विष्णोः कलासीति हेतूक्तेः, तथाहि तस्मिन्पाठे तव भोजनाद्वहिर्भूतैव वृत्तिरित्यवभातीत्यर्थः । कुतः यतस्त्वं विष्णोः कलांशोऽसि । विष्णुर्नाश्नाति “अनश्नन्नन्यो अभिचकाशीति” इति श्रुतेः विष्णोः कलासीत्यत्र हेतुः तव कर्णौ विष्णोरिवानिमिषोन्मकरावनिमेषौ रत्नश्रेष्ठत्वेन निमेषशून्यौ उल्लसन्तौ । मकरौ तदाकारे कुण्डले ययोस्तौ । किं च तव मुखं सर इत्सर इव तदेवाह । उद्विग्नं चञ्चलमीनयुगलमिव नेत्रद्वयं यस्मिन् द्विजाः दन्तास्तेषां पङ्कयोः शोचिः शोभा यस्मिन्, शोचिः शब्दः सान्तः, सरसि तु द्विजाः हंसाः आसन्नो भृङ्गनिकर एवं केशस्तोमः परिमल्लुब्धभृङ्गस्तोमो वा ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
योऽसौ त्वया करसरोजहतः पतङ्गो
दिक्षु भ्रमन् भ्रमत एजयतेऽक्षिणी मे।
मुक्तं न ते स्मरसि वक्रजटावरूथं
कष्टोऽनिलो हरति लम्पट एष नीवीम्॥
मूलम्
योऽसौ त्वया करसरोजहतः पतङ्गो दिक्षु भ्रमन् भ्रमत एजयतेऽक्षिणी मे19।
मुक्तं न ते स्मरसि वक्रजटावरूथं कष्टोऽनिलो हरति लम्पट एष नीवीम्॥ १४ ॥
अनुवाद (हिन्दी)
तुम जब अपने करकमलोंसे थपकी मारकर इस गेंदको उछालते हो, तब यह दिशा-विदिशाओंमें जाती हुई मेरे नेत्रोंको तो चंचल कर ही देती है, साथ-साथ मेरे मनमें भी खलबली पैदा कर देती है। तुम्हारा बाँका जटाजूट खुल गया है, तुम इसे सँभालते नहीं? अरे, यह धूर्त वायु कैसा दुष्ट है जो बार-बार तुम्हारे नीवी-वस्त्रको उड़ा देता है॥ १४॥
वीरराघवः
त्वया करसरोजेन हतः योऽसौ पतङ्गः कन्दुकः दिक्षु भ्रमन् भ्रमतः भ्रमितचित्तस्य मेऽक्षिणी एजयते चञ्चलतां नयति । वक्रकेशसमूहं मुक्तबन्धनं न स्मरसि न बध्नासि किं, कष्टो धूर्त्तः लम्पटो लालसः एष अनिलो वायुः नीवीं हरत्यधराम्बरं हरति एतच्च न स्मरसि किम् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
रूपं तपोधन तपश्चरतां तपोघ्नं
ह्येतत्तु केन तपसा भवतोपलब्धम्।
चर्तुं तपोऽर्हसि मया सह मित्र मह्यं
किं वा प्रसीदति स वै भवभावनो मे॥
मूलम्
रूपं तपोधन तपश्चरतां तपोघ्नं ह्येतत्तु केन तपसा भवतो20पलब्धम्।
चर्तुं तपोऽर्हसि मया सह मित्र मह्यं किं वा प्रसीदति स वै भवभावनो मे21॥ १५ ॥
अनुवाद (हिन्दी)
तपोधन! तपस्वियोंके तपको भ्रष्ट करनेवाला यह अनूप रूप तुमने किस तपके प्रभावसे पाया है? मित्र! आओ, कुछ दिन मेरे साथ रहकर तपस्या करो। अथवा, कहीं विश्वविस्तारकी इच्छासे ब्रह्माजीने ही तो मुझपर कृपा नहीं की है॥ १५॥
वीरराघवः
हे तपोधन ! तपश्चरतां तपोविघ्नकरमेतद्रूपं भवता केन तपसोपलब्धं प्राप्तं हे मित्र ! मया सहितस्तपश्चर्तुमर्हसि । भवभावनः विश्वस्रष्टा स वै अजो ब्रह्मा किं वा मह्यं प्रसीदति त्वां भार्यां कल्पयतीत्यर्थः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
न त्वां त्यजामि दयितं द्विजदेवदत्तं
यस्मिन्मनो दृगपि नो न वियाति लग्नम्।
मां चारुशृङ्ग्यर्हसि नेतुमनुव्रतं ते
चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः॥
मूलम्
न त्वां त्यजामि दयि22तं द्विजदेवदत्तं यस्मिन्मनो दृगपि नो न वियाति लग्नम्।
मां चारुशृङ्ग्यर्हसि नेतुमनुव्रतं ते चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः॥ १६ ॥
अनुवाद (हिन्दी)
सचमुच, तुम ब्रह्माजीकी ही प्यारी देन हो; अब मैं तुम्हें नहीं छोड़ सकता। तुममें तो मेरे मन और नयन ऐसे उलझ गये हैं कि अन्यत्र जाना ही नहीं चाहते। सुन्दर सींगोंवाली! तुम्हारा जहाँ मन हो, मुझे भी वहीं ले चलो; मैं तो तुम्हारा अनुचर हूँ और तुम्हारी ये मंगलमयी सखियाँ भी हमारे ही साथ रहें’॥ १६॥
वीरराघवः
हे द्विज ! देवेन ब्रह्मणा दत्तं त्वां न त्यजामि, यस्मिंस्त्वयि नोऽस्माकं दृख्यानश्च लग्नं सन्न वियाति न ततो गच्छति हे चारुशृङ्गि ! यतस्ते चित्तं ततो मां त्वदधीनं नेतुमर्हसि । सचिव्यस्तव सख्योऽपि शिवा अनुकूलाः मां प्रतिसरन्त्वनुवर्त्तन्तां, यद्वा एतावत्पर्यन्तं मे याः सचिव्यः शिवा फेरवस्ताः प्रतिसरन्तु निर्यान्तु । यद्वा वनवासेन सह वसन्त्यो हरिण्यः शिवाः प्रतिसरन्तु प्रदक्षिणं गच्छन्तु । सरण्य इति पाठे सरन्तीति सरण्यो रात्रयः शिवाः मङ्गलरूपाः सरन्तु गच्छन्तु ॥ १६ ॥
श्लोक-१७
मूलम् (वचनम्)
श्रीशुक23 उवाच
विश्वास-प्रस्तुतिः
इति ललनानुनयातिविशारदो ग्राम्यवैदग्ध्यया परिभाषया तां विबुधवधूं विबुधमतिरधिसभाजयामास॥
मूलम्
इति ललनानुनयातिविशारदो ग्राम्यवैदग्ध्यया परिभाषया तां विबुधवधूं विबुधमतिरधिसभाजयामास॥ १७ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—राजन्! आग्नीध्र देवताओंके समान बुद्धिमान् और स्त्रियोंको प्रसन्न करनेमें बड़े कुशल थे। उन्होंने इसी प्रकारकी रतिचातुर्यमयी मीठी-मीठी बातोंसे उस अप्सराको प्रसन्न कर लिया॥ १७॥
वीरराघवः
इतीत्थं ललनानुनये ताः स्वाधीनाः कर्तुमित्यर्थः । अतिनिपुणो ग्राम्येषु वैदग्ध्यं कौशलं यस्यास्तया परिभाषया तां विबुधवधूमप्सरसं मोहितचित्तः अधिसभाजयामास सबहुमानं तामनुकूलामकरोदित्यर्थः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपवयःश्रियौदार्येण पराक्षिप्तमनास्तेन सहायुतायुतपरिवत्सरोपलक्षणं कालं जम्बूद्वीपपतिना भौमस्वर्गभोगान् बुभुजे॥
मूलम्
सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपवयः24श्रियौदार्येण पराक्षिप्तमनास्ते25न सहायुता26युतपरिवत्सरोपलक्षणं कालं27 जम्बूद्वीपपतिना भौम28स्वर्गभोगान् बुभुजे॥ १८ ॥
अनुवाद (हिन्दी)
वीर-समाजमें अग्रगण्य आग्नीध्रकी बुद्धि, शील, रूप, अवस्था, लक्ष्मी और उदारतासे आकर्षित होकर वह उन जम्बूद्वीपाधिपतिके साथ कई हजार वर्षोंतक पृथ्वी और स्वर्गके भोग भोगती रही॥ १८॥
वीरराघवः
सा च पूर्वचित्तिः तस्य वीरयूथपतेः वीराणां यूथाः तेषां पतेराग्नीध्रस्य बुद्ध्यादीनां द्वन्द्वैक्यं तेन पराक्षिप्तमासक्तं मनो यस्याः सा जम्बूद्वीपपतिना तेनाग्नीध्रेण सह बहुकालं भौमस्वर्गाः नवखण्डाः तेषु ये भोगास्तान् बुभुजे ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
तस्यामु ह वा आत्मजान् स राजवर आग्नीध्रो नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मयकुरुभद्राश्वकेतुमालसंज्ञान्नव पुत्रानजनयत्॥
मूलम्
तस्यामु ह वा आत्म29जान् स राजवर30आग्नीध्रो नाभिकिम्पुरुषहरिवर्षेलावृत31रम्यकहिरण्मयकुरुभद्राश्वकेतुमालसंज्ञान्नव पुत्रानजनयत्॥ १९ ॥
अनुवाद (हिन्दी)
तदनन्तर नृपवर आग्नीध्रने उसके गर्भसे नाभि, किम्पुरुष, हरिवर्ष, इलावृत, रम्यक, हिरण्मय, कुरु, भद्राश्व और केतुमाल नामके नौ पुत्र उत्पन्न किये॥ १९॥
वीरराघवः
ततः स राजश्रेष्ठः आग्नीधः तस्यां पूर्वचित्त्यां नाभिप्रभृतीन्नवात्मजान् पुत्रानजनयत् पुमाख्यान्नरकान्त्रायत इति पुत्त्र इत्यवयवार्थावगमाय पुत्त्रशब्दः प्रयुक्तः, अतो न पौनरुक्त्यम् ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
सा सूत्वाथ सुतान्नवानुवत्सरं गृह एवापहाय पूर्वचित्तिर्भूय एवाजं देवमुपतस्थे॥
मूलम्
सा सूत्वाथ सुतान्नवानुवत्सरं गृह एवापहाय पूर्वचित्तिर्भूय एवाजं देवमुपत्तस्थे॥ २० ॥
अनुवाद (हिन्दी)
इस प्रकार नौ वर्षमें प्रतिवर्ष एकके क्रमसे नौ पुत्र उत्पन्न कर पूर्वचित्ति उन्हें राजभवनमें ही छोड़कर फिर ब्रह्माजीकी सेवामें उपस्थित हो गयी॥ २०॥
वीरराघवः
सा पूर्वचित्तिः प्रतिवत्सरमेकैकं पुत्रमिति नव सुतान् सूत्वा गृह एवापहाय विहाय पुनरजं देवं ब्रह्माणमुपतस्थेऽभजत् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव संहननबलोपेताः पित्रा विभक्ता आत्मतुल्यनामानि यथाभागं जम्बूद्वीपवर्षाणि बुभुजुः॥
मूलम्
आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव संहननबलोपेताः पित्रा विभक्ता आत्मतुल्यनामानि यथा32भागं जम्बूद्वीपवर्षाणि बुभुजुः॥ २१ ॥
अनुवाद (हिन्दी)
ये आग्नीध्रके पुत्र माताके अनुग्रहसे स्वभावसे ही सुडौल और सबल शरीरवाले थे। आग्नीध्रने जम्बूद्वीपके विभाग करके उन्हींके समान नामवाले नौ वर्ष (भूखण्ड) बनाये और उन्हें एक-एक पुत्रको सौंप दिया। तब वे सब अपने-अपने वर्षका राज्य भोगने लगे॥ २१॥
वीरराघवः
नाभ्यादयः आग्नीध्रसुता मातुरनुप्रहादौत्पत्तिकेन स्वभावतः संहननं दृढाङ्गत्वं बलं च ताभ्यामुपेताः पित्रा आग्नीध्रेण विभक्ता विभागमनतिक्रम्य आत्मतुल्यनामान्यात्मभिः सह तुल्यनामानि जम्बूद्वीपवर्षाणि बुभुजुः । भारतवर्षस्यापि भरतसम्बन्धात्पूर्वमजनाभमिति व्यवहारादात्मतुल्यनामानीत्यस्य न विरोधः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
आग्नीध्रो राजातृप्तः कामानामप्सरसमेवानुदिनमधिमन्यमानस्तस्याः सलोकतां श्रुतिभिरवारुन्ध यत्र पितरो मादयन्ते॥
मूलम्
आग्नीध्रो राजातृप्तः कामानामप्सरसमेवानुदिनमधिमन्य33मानस्तस्याः सलोकतां श्रुतिभिरवारुन्ध यत्र पितरो माद34यन्ते॥ २२ ॥
अनुवाद (हिन्दी)
महाराज आग्नीध्र दिन-दिन भोगोंको भोगते रहनेपर भी उनसे अतृप्त ही रहे। वे उस अप्सराको ही परम पुरुषार्थ समझते थे। इसलिये उन्होंने वैदिक कर्मोंके द्वारा उसी लोकको प्राप्त किया, जहाँ पितृगण अपने सुकृतोंके अनुसार तरह-तरहके भोगोंमें मस्त रहते हैं॥ २२॥
वीरराघवः
आग्नीधो राजाऽतृप्तकामस्तामेवाप्सरसं पूर्वचित्तिमधिमन्यमानः तत्सङ्गनिमित्तान्तरमधिकं कामयमानः श्रुतिभिः श्रुत्युक्तसाधनैः कर्मभिस्तस्याः सलोकतामवरुन्धे प्राप कोऽसौ लोकस्तत्राह । यत्र लोके प्राप्ताः पितरो मोदन्ते ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
सम्परेते पितरि नव भ्रातरो मेरुदुहितॄर्मेरुदेवीं प्रतिरूपामुग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिमितिसंज्ञा नवोदवहन्॥
मूलम्
सम्परेते पितरि नव भ्रातरो मेरुदुहितॄर्मेरुदेवीं प्रतिरूपामुग्रदंष्ट्रीं लतां रम्यां35 श्यामां नारीं भद्रां देववीतिमि36तिसंज्ञा नवो37दवहन्॥ २३ ॥
अनुवाद (हिन्दी)
पिताके परलोक सिधारनेपर नाभि आदि नौ भाइयोंने मेरुकी मेरुदेवी, प्रतिरूपा, उग्रदंष्ट्री, लता, रम्या, श्यामा, नारी, भद्रा और देववीति नामकी नौ कन्याओंसे विवाह किया॥ २३॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चम38स्कन्धे आग्नीध्रवर्णनं नाम द्वितीयोऽध्यायः॥ २॥
वीरराघवः
पितर्याग्नीध्रे सम्परेते मृते सत्यनन्तरं नव भ्रातरः नाभिप्रभृतयः सुमेरोर्दुहितृर्मेरुदेवीप्रभृतीः नव उदवहन् विवाहितवन्तः ॥ २३ ॥
इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्य्यकृत भागवतचन्द्रचन्द्रिकायां द्वितीयोऽध्यायः ॥ २ ॥
-
प्राचीनपाठे ‘श्रीशुक उवाच’ - इत्यंशो न । ↩︎
-
प्राचीनपाठे ‘संप्रवृत्ते’ इयानंशः खण्डितः । ↩︎
-
अग्निध्रो । ↩︎
-
प्राचीनपाठे ‘पितृलोककामः ………’ त आरभ्य ‘सदसि गायन्ती’ पर्यन्तोऽशो न । ↩︎
-
विटपिनिकटपुरटलता । ↩︎
-
विहग । ↩︎
-
प्राचीनपाठे ‘बुगल’ इति पाठो न । ↩︎
-
मीषद्विहस्य । ↩︎
-
तामेव दूरे । ↩︎
-
प्राचीनपाठे ‘सुमनस’ इति पाठः खण्डितः । ↩︎
-
प्राचीन पाठे ‘मनी’ इति पाठो न । ↩︎
-
निजमुख भाषणामोदमदा । ↩︎
-
द्रुतपदन्यासेन । ↩︎
-
मुनिवर्यशीले । ↩︎
-
सृता मे । ↩︎
-
सुरभिं करोषि । ↩︎
-
उन्नयनैर्बिभर्ति । ↩︎
-
स्मरसराससुधादि । ↩︎
-
ते । ↩︎
-
भवतेह लब्धम् । ↩︎
-
भावनोऽसौ । ↩︎
-
दयितां । ↩︎
-
प्राचीने पाठे ‘श्रीशुक उवाच’ नास्ति । ↩︎
-
रूपविद्यावयः । ↩︎
-
प्राचीने पाठे ‘ते’ इति खण्डितोंऽशः । ↩︎
-
प्राचीने पाठे ‘यु’ खण्डितः । ↩︎
-
प्राचीने पाठे ‘कालं’ पाठः खण्डितः । ↩︎
-
भूमि । ↩︎
-
प्राचीने पाठे ‘जान’ पाठः खण्डितः । ↩︎
-
राजवर्य । ↩︎
-
प्राचीने पाठे ‘वृतरम्यकहिरण्मय…’ इत्यारभ्य २१स्थगद्ये ‘आत्मतुल्यनामानि’ इत्यशः खण्डितः । ↩︎
-
यथाविभागं । ↩︎
-
मधिगम्यमान । ↩︎
-
मोदयन्ते । ↩︎
-
रामां नारी । ↩︎
-
प्राचीने पाठे ‘मिति’ अयं पाठो न । ↩︎
-
संज्ञा अवहन् । ↩︎
-
पञ्चमे स्कन्धे द्वितीयोऽध्यायः । ↩︎