०१

[प्रथमोऽध्यायः]

भागसूचना

प्रियव्रत-चरित्र

श्लोक-१

मूलम् (वचनम्)

राजोवाच

विश्वास-प्रस्तुतिः

प्रियव्रतो भागवत आत्मारामः कथं मुने।
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः॥

मूलम्

प्रियव्रतो भागवत आत्मारामः कथं मुने।
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः॥ १ ॥

अनुवाद (हिन्दी)

राजा परीक्षित् ने पूछा—मुने! महाराज प्रियव्रत तो बड़े भगवद‍्भक्त और आत्माराम थे। उनकी गृहस्थाश्रममें कैसे रुचि हुई, जिसमें फँसनेके कारण मनुष्यको अपने स्वरूपकी विस्मृति होती है और वह कर्मबन्धनमें बँध जाता है?॥ १॥

वीरराघवः

तृतीये “स्वायम्भुवस्यापि मनोर्वंशः परमसम्मतः । कथ्यतां भगवन्यत्र मैथुनेनैधिरे प्रजाः ॥ प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य च । धर्मं जुगुपतुः सप्तद्वीपवतीं महीम्” इति पृष्टं स्वायम्भुववंशं प्रक्रम्य तद्दुहितृवंशः ज्येष्ठपुत्रोत्तानपाद- वंशश्च कथितः प्रजाः सृजेत्यादिना चतुर्थस्कन्धान्तेन ग्रन्थेन । तावतैव शुश्रूषितं सर्वं श्रुतप्रायमिति मन्वानेन क्षत्त्रा प्रियव्रतचरित्रं न पृष्टं तत्र चतुर्थस्कन्धान्ते ‘यो नारदादात्मविद्यामधिगम्य पुनर्महीं भुक्त्वेत्यधिरातात्मविद्यस्यापि प्रियव्रतस्य पुनर्भोगानुभव उक्तः । तदिदमघटमानं पृच्छति राजा प्रियव्रत इत्यादिना चतुर्भिः । हे मुने! प्रियव्रतो भागवतः भगवद्धर्मनिष्ठः मुमुक्षुः आत्मारामः प्रकृतिविमुक्तब्रह्मात्मकस्वात्मयाथात्म्यानुभवनिष्ठः कथं गृहेऽरमत । गृहशब्दो देहापत्यकलत्रादीनामुपलक्षणमेवंभूतः कथं गृहासक्तोऽभूत् । भागवत आत्मारामोऽपि रमतां गृहे को विरोध इति चेत्तत्राह । कर्मबन्धः कर्मरूपो बन्धः तेन पराभवस्तिरस्कारः ज्ञानसङ्कोचश्च यन्मूलः या गृहासक्तिर्मूलं यस्य सः कर्मबन्धान्मुमुक्षोः कर्मबन्धहेतुभूतगृहासक्तिर्विरुद्धा तथासङ्कुचितज्ञानात्मयाथात्म्यनिष्ठस्य ज्ञानसङ्कोचकर्मबन्धनिमित्ता च गृहासक्तिर्न घटत इति भावः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ।
गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति॥

मूलम्

न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ।
गृहेष्वभिनिवे1शोऽयं पुंसां भवितुमर्हति॥ २ ॥

अनुवाद (हिन्दी)

विप्रवर! निश्चय ही ऐसे निःसंग महापुरुषोंका इस प्रकार गृहस्थाश्रममें अभिनिवेश होना उचित नहीं है॥ २॥

वीरराघवः

गृहादिष्वासक्तिर्हि तेषां प्रीतिविषयतयाऽदोषदर्शनरूपा तत्त्यागपूर्वकं निरतिशयप्रियस्वात्मपरमात्मस्वरूपमनुभवतां तेषु पुनः कुतः प्रीतिरित्याह नेति । हे द्विजर्षभ ! तादृशानां भागवतानामात्मारामाणां मुक्तसङ्गानां दुःखहेतुत्वानुसन्धानेन त्यक्तवेदापत्यकलत्राद्यभिनिवेशानां पुंसां पुनगृहेष्वभिनिवेशः पूर्वदोषदर्शनेन त्यक्ताभिनिवेशः भवितुं नार्हति नूनं निश्चयः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

महतां खलु विप्रर्षे उत्तमश्लोकपादयोः।
छायानिर्वृतचित्तानां न कुटुम्बे स्पृहामतिः॥

मूलम्

महतां खलु विप्रर्षे उत्तमश्लोकपादयोः।
छायानिर्वृतचित्तानां न कुटुम्बे स्पृहामतिः॥ ३ ॥

अनुवाद (हिन्दी)

इसमें किसी प्रकारका सन्देह नहीं कि जिनका चित्त पुण्यकीर्ति श्रीहरिके चरणोंकी शीतल छायाका आश्रय लेकर शान्त हो गया है, उन महापुरुषोंकी कुटुम्बादिमें कभी आसक्ति नहीं हो सकती॥ ३॥

वीरराघवः

दोषहेतुत्वेऽपि तादात्विकसुखहेतुत्वादस्त्वभिनिवेश इति चेत्तत्राह महतामिति । हे विप्रर्षे ! उत्तमश्लोकस्य भगवतः पादयोरच्छायायाश्छायावृत्तापत्रयनिरसनद्वारानन्दहेतुत्वादनुभूतिः छायाशब्देन विवक्षिता । भगवत्पादाब्जानुभूत्या निर्वृतं सुखितं चित्तं येषां महतां कुटुम्बे स्पृहारूपा मतिर्न सम्भवति । निरतिशयानन्दरूपभगवच्चरणानुभवसुखितचित्तानां दुःखमिश्रात्यल्पसुखहेतुषु बन्धनिमित्तेष्वभिनिवेशो न सम्भवतीत्यर्थः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

संशयोऽयं महान् ब्रह्मन‍् दारागारसुतादिषु।
सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता॥

मूलम्

संशयोऽयं महान् ब्रह्मन‍्दारागारसुतादिषु।
सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता॥ ४ ॥

अनुवाद (हिन्दी)

ब्रह्मन्! मुझे इस बातका बड़ा सन्देह है कि महाराज प्रियव्रतने स्त्री, घर और पुत्रादिमें आसक्त रहकर भी किस प्रकार सिद्धि प्राप्त कर ली और क्योंकर उनकी भगवान् श्रीकृष्णमें अविचल भक्ति हुई॥ ४॥

वीरराघवः

अस्तु वात्मारामस्य प्राक्तनबलप्रतिबन्धवशाद् गृहासक्तिः तथापि पुनर्गृहासक्तस्य भगवद्भक्तिस्ततो मुक्तिश्च कथं घटत इत्याह संशय इति । हे ब्रह्मन्नयं महान्संशयः कोऽसावित्यत्राह । दारगृहसुतधनादिष्वासक्तस्य कृष्णे मतिर्भक्तिस्ततो गार्हस्थ्यधर्मैरविच्छिन्ना या मुक्तिश्च कथमभूदिति यदयं महान्संशय इत्यर्थः ॥ ४ ॥

श्लोक-५

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्दरस आवेशितचेतसो भागवतपरमहंसदयितकथां किञ्चिदन्तरायविहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति॥

मूलम्

वा2ढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्दरस आवेशितचेतसो भागवतपरमहंसदयितकथां किञ्चिदन्तरायविहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति॥ ५ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजीने कहा—राजन्! तुम्हारा कथन बहुत ठीक है। जिनका चित्त पवित्रकीर्ति श्रीहरिके परम मधुर चरणकमल-मकरन्दके रसमें सराबोर हो गया है, वे किसी विघ्न-बाधाके कारण रुकावट आ जानेपर भी भगवद‍्भक्त परमहंसोंके प्रिय श्रीवासुदेव भगवान‍्के कथाश्रवणरूपी परम कल्याणमय मार्गको प्रायः छोड़ते नहीं॥ ५॥

वीरराघवः

एवमापृष्टो बादरायणिः सत्यमात्मारामस्य गृहासक्तिर्गृहासक्तस्य च पुनर्भक्तिश्च न घटत इति । आत्मारामस्य भागवतस्यापि उपाधिवशाद् गृहासक्तत्वेऽपि प्राचीननिवृत्तिधर्मानुष्ठानबलात्पुनः भक्तियोगोपसंहारः संभवत्येवेत्याह बाढमुक्तमिति । सत्यमुक्तमित्यर्थः गृहासक्तस्य भक्तियोगासम्भव इत्यत्रानङ्गीकारः, आत्मारामस्य पुनः गृहाद्यभिनिवेश इत्यत्राङ्गीकारः प्रियव्रतस्य स्वायंभुवः स्वयंभ्वादिप्रार्थनया गृहाश्रमपरिग्रहः न तु स्वाभिनिवेशेनेत्यात्मारामस्य गृहाद्यभिनिवेशो नास्त्येवेत्यभिप्रायः । ज्ञानिनोऽपि गृहाद्यभिनिवेशो नास्तीति तु सम्यगुक्तमपि तु गृहासक्तस्य पुनर्भक्त्युपसंहारो न घटत इत्यप्युक्तमित्याह किं त्विति । उत्तमैर्ब्रह्मादिभिः श्लोक्यतेस्तूयते इत्युत्तमश्लोकः उत्तमः श्लोकः स्तवो यस्येति वा तस्य भगवतः श्रीमतोः श्रिया सेव्यमानयोश्चरणारविन्दयोररविन्दवत्सौगन्ध्यसौकुमार्यलावण्यादिशोभायुक्तयोश्चरणयोर्यो मकरन्दः मकरन्दवत्प्रवाहः सुखरूपो भक्तिरसः तस्मिन्नावेशितं चेतो यैस्ते कथंचिदन्तरायेण विघ्नेन विहतां विच्छिन्नामपि कथंचिदित्यनेन भागवतैर्भक्तेरविचाल्यत्वं व्यष्यते, भागवता ये परमहंसा नितरां विशुद्धान्तःकरणाः तेषां दयितस्य प्रीतिविषयस्य भगवतः कथां कथाश्रवणादिजन्यां भक्तिं शिवतमां पदवीं मोक्षमार्गभूतां न हिन्वन्ति न त्यजन्ति, किन्तु पूर्ववासनया तामेवानुतिष्ठन्तीत्यर्थः । तथा चोक्तम् भगवता “पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।” इत्यादिना “तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम्। यतते च ततो भूयः संसिद्धौ कुरुनन्दन । पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः” इत्यनेन । अत्र प्रायशोन्तरायविहतामित्यन्वयः, भक्तियोगस्य विघ्नबहुलत्वात् न तु प्रायेण न हिन्वन्तीत्यन्वयः “जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्त्तते । प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्विषः ॥ अनेकजन्मसंसिद्धस्ततो याति परां गतिम्” इति ब्रह्मजिज्ञासायत्नवत्त्वमात्रेणापि भक्त्यत्यागाभिधानात् उपक्रान्तभक्तियोगानां कचिदपि तत्त्यागायोगात् ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

यर्हि वाव ह राजन् स राजपुत्रः प्रियव्रतः परमभागवतो नारदस्य चरणोपसेवयाञ्जसावगतपरमार्थसतत्त्वो ब्रह्मसत्रेण दीक्षिष्यमाणोऽवनितलपरिपालनायाम्नातप्रवरगुणगणैकान्तभाजनतया स्वपित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधानसमाधियोगेन समावेशितसकलकारकक्रियाकलापो नैवाभ्यनन्दद्यद्यपि तदप्रत्याम्नातव्यं तदधिकरण आत्मनोऽन्यस्मादसतोऽपि पराभवमन्वीक्षमाणः॥

मूलम्

यर्हि वाव ह राजन् स राजपुत्रः प्रियव्रतः परमभागवतो नारदस्य चरणोपसेवयाञ्जसावगतपरमार्थसतत्त्वो ब्रह्मसत्रेण दीक्षिष्यमाणोऽवनितलपरिपालनायाम्नातप्रवर3गुणगणैकान्तभाजनतया स्वपित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधानसमाधियोगेन समावेशितसकलकारकक्रियाकलापो नैवा4भ्यनन्दद्यद्यपि तदप्रत्याम्नातव्यं तदधिकरण आत्मनोऽन्यस्मादसतोऽपि पराभवमन्वीक्षमाणः॥ ६ ॥

अनुवाद (हिन्दी)

राजन्! राजकुमार प्रियव्रत बड़े भगवद‍्भक्त थे, श्रीनारदजीके चरणोंकी सेवा करनेसे उन्हें सहजमें ही परमार्थतत्त्वका बोध हो गया था। वे ब्रह्मसत्रकी दीक्षा—निरन्तर ब्रह्माभ्यासमें जीवन बितानेका नियम लेनेवाले ही थे कि उसी समय उनके पिता स्वायम्भुव मनुने उन्हें पृथ्वीपालनके लिये शास्त्रमें बताये हुए सभी श्रेष्ठ गुणोंसे पूर्णतया सम्पन्न देख राज्यशासनके लिये आज्ञा दी। किन्तु प्रियव्रत अखण्ड समाधियोगके द्वारा अपनी सारी इन्द्रियों और क्रियाओंको भगवान् वासुदेवके चरणोंमें ही समर्पण कर चुके थे। अतः पिताकी आज्ञा किसी प्रकार उल्लंघन करनेयोग्य न होनेपर भी, यह सोचकर कि राज्याधिकार पाकर मेरा आत्मस्वरूप स्त्री-पुत्रादि असत् प्रपंचसे आच्छादित हो जायगा—राज्य और कुटुम्बकी चिन्तामें फँसकर मैं परमार्थतत्त्वको प्रायः भूल जाऊँगा, उन्होंने उसे स्वीकार न किया॥ ६॥

वीरराघवः

यदुक्तं स्वात्मपरमात्मयाथात्म्यानुभवनिष्ठस्य कथं गृहाद्यभिनिवेश इति तत्परिजिहीर्षुस्तस्य प्रथमं निवृत्तिधर्मनिष्ठां स्वायम्भुवस्वयंभू प्रार्थनया गृहाश्रमपरिग्रहं चाह यर्हित्यादिना । वावेति निपातसमुदायः प्रसिद्विद्योतकः । यदा हि राज्ञः मनोः पुत्रः स प्रियव्रतः सर्वोत्कृष्टभागवतधर्मनिष्ठः नारदस्य गुरोश्चरणसेवयाञ्जसा सुखेनैव तत्त्वेन सहितः सतत्त्वः तत्त्वग्रहणं हितस्याप्युपलक्षणम्, अधिगतः परमपुरुषार्थः सतत्त्वः तत्त्वहिताभ्यां युक्तः येन अधिगततत्त्वहितपुरुषार्थ इत्यर्थः । अवगतपरमपुरुषार्थतत्त्व इति पाठेऽध्ययमेवार्थः पुरुषार्थतत्त्वग्रहणस्य उपायस्याप्युपलक्षणत्वात् । ब्रह्मसत्रेण ज्ञानयज्ञेन दीक्षिष्यमाणः स्वपरयाथात्म्यविज्ञाननिष्ठो भवेयमिति कृतसंकल्पः भगवति वासुदेव एवाविच्छिन्नध्यानयोगेन समाधियोगेनेति हेत्वर्थे तृतीया, हेतुरिह फलमध्ययनेन वसतीतिवत् अव्यवधानसमाधियोगार्थं समावेशितः ‘ब्रह्मार्पणं ब्रह्महविरि’ति न्यायेन भगवति समर्पितः सकलकारकाणि कर्त्रादीनि षट् तेषां क्रियास्तद्वयापारास्तासां च कलापः समूहो येन कर्तृकरणत्वादिकं ब्रह्मण एवानुसंदधत् कारकव्यापाराणां ब्रह्माराधनरूपतां चानुसंदधानः भक्तियोगानुग्राहकत्वेन फलासङ्गकर्तृत्वत्यागपूर्वकमीश्वराराधनैकवेषस्ववर्णाश्रमोचितधर्मानुष्ठानपर इत्यर्थः । स्वपित्रा स्वायंभुवमनुना उपामन्त्रणकर्ता आम्नाता राज्ञां गुणत्वेन नीतिशास्त्रेषु कथिता ये श्रेष्ठाः गुणास्तेषामेकान्तभाजनतया नियताश्रयत्वेन हेतुनाऽवनितलपालनाय उपामन्त्रित उपच्छन्दितोऽपि प्रार्थितोऽपि नैवाभ्यनन्दन्नैच्छत् अवनितलपालनमिति विभक्तिव्यत्ययेनानुषङ्गः । ननु “एतावदेव शुश्रूषा कार्या पितरि पुत्रकैः । वाढमित्यनुमन्येत सादरं यद्गुरोर्वचः ॥” इत्यादिशास्त्रार्थं जानन् सद्गुणाश्रयः कथं नैच्छदित्याशङ्कय समाधत्ते यद्यपीति । तत्पित्रोक्तं यद्यपि न प्रत्याख्येयं तथापि तदधिकरणे राज्याधिकरणे सर्वात्मनः अन्यस्मादसतः प्रकृतिपरिणामरूपाद्देहात्तत्प्रयुक्तरागादेश्च पराभवं ज्ञानसंकोचमन्वीक्षमाणः निरूपयन्नाभ्यनन्ददित्यनुषङ्गस्तेनैवान्वयो वा ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य परिबृंहणानुध्यानव्यवसितसकलजगदभिप्राय आत्मयोनिरखिलनिगमनिजगणपरिवेष्टितः स्वभवनादवततार॥

मूलम्

अथ5 ह भगवानादिदेव एतस्य गुणविसर्गस्य6 परिबृंहणानुध्यानव्यवसितसकलजगदभिप्राय आत्मयोनिरखिल7निगमनिजगणपरिवेष्टितः स्वभवनादवततार॥ ७ ॥

अनुवाद (हिन्दी)

आदिदेव स्वयम्भू भगवान् ब्रह्माजीको निरन्तर इस गुणमय प्रपंचकी वृद्धिका ही विचार रहता है। वे सारे संसारके जीवोंका अभिप्राय जानते रहते हैं। जब उन्होंने प्रियव्रतकी ऐसी प्रवृत्ति देखी, तब वे मूर्तिमान् चारों वेद और मरीचि आदि पार्षदोंको साथ लिये अपने लोकसे उतरे॥ ७॥

वीरराघवः

अथ पितृप्रार्थनानभिनन्दनानन्तरं हवावेति पूर्वप्रसिद्धिद्योतको निपातसमुदायः देवानामाद्यो भगवानात्मयो निर्ब्रह्मा गुणपरिणामरूपस्यैतस्य जगतः परिबृंहणं ज्ञानेन परितो व्याप्तिरनुध्यानमनुचिन्तनं ताभ्यामवसितः सकलजगदभिप्रायो येन सः स्वधर्मभूतज्ञानेनाभितो व्याप्य तद्बुद्धिविषयं साक्षात्कृत्य एवंविधोऽस्य लोकस्याभिप्राय इति कृतनिश्चय इत्यर्थः । अखिलैर्निगमैर्मूर्त्तिमद्भिर्वेदेर्निजगणैर्मरीच्यादिभिश्च परिवृतः स्वभावनात्सत्यलोकादवतीर्णः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभिरनुपथममरपरिवृढैरभिपूज्यमानः पथि पथि च वरूथशः सिद्धगन्धर्वसाध्यचारणमुनिगणैरुपगीयमानो गन्धमादनद्रोणीमवभासयन्नुपससर्प॥

मूलम्

स तत्र तत्र8 गगनतल उडुपतिरिव विमानावलिभिरनुपथममरपरिवृढैर9भिपूज्यमानः पथि पथि च वरूथशः सिद्धगन्धर्वसाध्यचारणमुनिगणैरुपगीयमानो गन्धमादनद्रोणीमवभासयन्नुपससर्प॥ ८ ॥

अनुवाद (हिन्दी)

आकाशमें जहाँ-तहाँ विमानोंपर चढ़े हुए इन्द्रादि प्रधान-प्रधान देवताओंने उनका पूजन किया तथा मार्गमें टोलियाँ बाँधकर आये हुए सिद्ध, गन्धर्व, साध्य, चारण और मुनिजनने स्तवन किया। इस प्रकार जगह-जगह आदर-सम्मान पाते वे साक्षात् नक्षत्रनाथ चन्द्रमाके समान गन्धमादनकी घाटीको प्रकाशित करते हुए प्रियव्रतके पास पहुँचे॥ ८॥

वीरराघवः

अवतरन्तं ब्रह्माणं विशिषन्प्रियव्रतसमीपं जगामेत्याह तत्रेति । तत्र तत्र लोकेऽर्वाचीने गगनतले उडुपतिश्चन्द्र इव प्रकाशमानः अनुपदं पदे पदे प्रतिक्षणमित्यर्थः । अमरश्रेष्ठैर्देवेन्द्रादिभिरभितः कार्त्स्न्येन पूज्यमानः प्रतिमार्गं वरूथशः संघीभूतैः सिद्धानां गणैः प्रत्येकं सिद्धादिसङ्घाभिप्रायेण गणशब्दः प्रयुक्तः, अतो न पौनरुक्त्यमुप समीपमेत्य गीयमानस्य गंधमादनस्य गिरेर्द्रोणीं प्रकाशयन्नुपससर्प समीपं गतः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

तत्र ह वा एनं देवर्षिर्हंसयानेन पितरं भगवन्तं हिरण्यगर्भमुपलभमानः सहसैवोत्थायार्हणेन सह पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे॥

मूलम्

तत्र ह वा एनं देवर्षि10हसयानेन पितरं भगवन्तं हिरण्यगर्भमुपलभमानः सहसैवोत्थायार्हणेन सह पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे॥ ९ ॥

अनुवाद (हिन्दी)

प्रियव्रतको आत्मविद्याका उपदेश देनेके लिये वहाँ नारदजी भी आये हुए थे। ब्रह्माजीके वहाँ पहुँचनेपर उनके वाहन हंसको देखकर देवर्षि नारद जान गये कि हमारे पिता भगवान् ब्रह्माजी पधारे हैं; अतः वे स्वायम्भुव मनु और प्रियव्रतके सहित तुरंत खड़े हो गये और सबने उनको हाथ जोड़कर प्रणाम किया॥ ९॥

वीरराघवः

तत्रह देवर्षिर्नारदः एनमवतरन्तं हंसवाहनेनोपलक्षणेन पितरं भगवन्तं चतुर्मुखमुपलभमानः हिरण्यगर्भोऽयमिति जानन् स आश्वेव पितापुत्राभ्यां मनुप्रियव्रताभ्यां सहोत्थायार्हणेन पूजया सह कृताञ्जलिर्बद्धाञ्जलिरुपतस्थे तुष्टाव । तदा मन्दरद्रोण्यां प्रियव्रतस्य ज्ञानोपदेशाय नारद आगत्य स्थित इति बोध्यम् ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

भगवानपि भारत तदुपनीतार्हणः सूक्तवाकेनातितरामुदितगुणगणावतारसुजयः प्रियव्रतमादिपुरुषस्तं सदयहासावलोक इति होवाच॥

मूलम्

भगवानपि भारत तदुपनीतार्हणः सूक्तवाकेनातितरामुदितगुणगणावतारसुजयः प्रियव्रतमादिपुरुषस्तं सदयहासाव11लोक इति होवाच12॥ १० ॥

अनुवाद (हिन्दी)

परीक्षित्! नारदजीने उनकी अनेक प्रकारसे पूजा की और सुमधुर वचनोंमें उनके गुण और अवतारकी उत्कृष्टताका वर्णन किया। तब आदिपुरुष भगवान् ब्रह्माजीने प्रियव्रतकी ओर मन्द मुसकानयुक्त दयादृष्टिसे देखते हुए इस प्रकार कहा॥ १०॥

वीरराघवः

हे भारत ! उपनीतं कृतमर्हणं पूजनं यस्य सम्यगुक्तेन वाक्येन समीचीनस्तुतिरूपेण वाक्येन नितरामुदितः वर्णितः गुणगणावतारः सत्यलोकादवरुह्य पृथिव्यामागमः तत्सम्बन्धिसुजयः सर्वोत्कर्षः स्वागतमिति यावत्, चतुर्मुखरूपेण भगवदावेशावतारस्तत्सम्बन्धी सुजयो वा यस्य सदयः दयायुक्तोऽवलोको यस्य सः तं प्रियव्रतमिति वक्ष्यमाणं वाक्यमुवाच ॥ १० ॥

श्लोक-११

मूलम् (वचनम्)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

निबोध तातेदमृतं ब्रवीमि
मासूयितुं देवमर्हस्यप्रमेयम्।
वयं भवस्ते तत एष महर्षि-
र्वहाम सर्वे विवशा यस्य दिष्टम्॥

मूलम्

निबोध तातेदमृतं ब्रवीमि मासूयितुं देवमर्हस्यप्र13मेयम्।
वयं भ14वस्ते तत एष म15हर्षिर्वहाम सर्वे विवशा यस्य दिष्टम्16॥ ११ ॥

अनुवाद (हिन्दी)

श्रीब्रह्माजीने कहा—बेटा! मैं तुमसे सत्य सिद्धान्तकी बात कहता हूँ, ध्यान देकर सुनो। तुम्हें अप्रमेय श्रीहरिके प्रति किसी प्रकारकी दोषदृष्टि नहीं रखनी चाहिये। तुम्हीं क्या—हम, महादेवजी, तुम्हारे पिता स्वायम्भुव मनु और तुम्हारे गुरु ये महर्षि नारद भी विवश होकर उन्हींकी आज्ञाका पालन करते हैं॥ ११॥

वीरराघवः

उक्तमेवाह निबोधेति नवभिः । भगवच्छासनमेवाहमुपदेक्ष्याम्यतो मदुपदेशरूपं भगवच्छासनमुल्लङ्घ्य त्वया भगवान्नासूयितव्य इत्याह निबोधेति । हे तात ! प्रियव्रत ! इदमृतं तथ्यं वचः कथयामि तन्निबोधावधानेन शृणु, अप्रमेयं प्राकृतकरणजन्यप्रमित्यविषयमतीन्द्रियमित्यर्थः । अपरिच्छिन्नमिति वा, देवं दीव्यमानं निरस्तसमस्तदोषं भगवन्तमसूयितुं दोषबुद्धया ग्रहीतुं नार्हसि कोऽसावप्रमेयस्तत्राह । यस्य भगवतो दिष्टमादिष्टं शासनं विवशास्तदधीनाः सन्तो भगवान् ते तव ततस्तातः पिता मनुरेष महर्षिर्नारदः वयं मत्प्रभृतयो मरीच्यादय इत्येते सर्वे वद्दाम कुर्म इत्यर्थः । वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः निरस्तनिखिलदोषो भगवान्सर्वस्य वशी सर्वस्येशानः त्वयास्माभिश्च सर्वैरनुल्लङ्घयः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

न तस्य कश्चित्तपसा विद्यया वा
न योगवीर्येण मनीषया वा।
नैवार्थधर्मैः परतः स्वतो वा
कृतं विहन्तुं तनुभृद्विभूयात्॥

मूलम्

न तस्य कश्चित्तपसा विद्यया वा न योगवीर्येण मनीषया वा।
नैवार्थधर्मैः परतः स्वतो वा कृतं विहन्तुं तनुभृद्विभूयात्॥ १२ ॥

अनुवाद (हिन्दी)

उनके विधानको कोई भी देहधारी न तो तप, विद्या, योगबल या बुद्धिबलसे, न अर्थ या धर्मकी शक्तिसे और न स्वयं या किसी दूसरेकी सहायतासे ही टाल सकता है॥ १२॥

वीरराघवः

तथा च श्रूयते “एतस्य वा अक्षरस्य प्रशासने गार्गि ! सूर्याचन्द्रमसौ विधृतौ तिष्ठतः” इत्यादिकेति भावः । एतदेव उपपादयति नेति । कश्चित्तनुभृद्देहभृत्तनुशब्दः करणानामप्युपलक्षणं यद्दत्तकरणकलेवरभृज्जीवः तस्य भगवतः कृतं भावे क्तः कृतिं प्रशासनात्मिकां कर्मणि वा क्तः तस्येति कर्त्तरि षष्ठी कृतं शासनमित्यर्थः । तपआदिभिरुपायैर्विहन्तुमन्यथा कर्त्तुं न विभूयान्न समर्थो भवेत् तपसाऽनशनादिना विद्यया शास्त्रीयज्ञानेन योगवीर्येणाणिमादियोगबलेन मनीषया विचारक्षमया बुद्ध्यार्थैर्द्धनैधर्मैर्यज्ञादिभिः परतः बलवदाश्रयणेन स्वतः तपआदिव्यतिरिक्तेन केनचित्सम्भावनीयेन स्वीयेनोपायेन वा ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

भवाय नाशाय च कर्म कर्तुं
शोकाय मोहाय सदा भयाय।
सुखाय दुःखाय च देहयोग-
मव्यक्तदिष्टं जनताङ्ग धत्ते॥

मूलम्

भवाय नाशाय च कर्म कर्तुं शोकाय मोहाय सदा भयाय।
सुखाय दुःखाय च देहयोगमव्यक्तदिष्टं जनताङ्ग धत्ते॥ १३ ॥

अनुवाद (हिन्दी)

प्रियवर! उसी अव्यक्त ईश्वरके दिये हुए शरीरको सब जीव जन्म, मरण, शोक, मोह, भय और सुख-दुःखका भोग करने तथा कर्म करनेके लिये सदा धारण करते हैं॥ १३॥

वीरराघवः

तनुभृदित्यनेन जीवस्य भगवत्संकल्पायत्तं देहभृत्त्वमुक्तं तदेव विवृण्वंस्तद्दत्तैतल्लील्लोपकरणैस्तन्वादिभिस्तच्छासनानुवर्तित्वमेव स्वरूपानुगुणमन्यथा दण्ड एव स्यादिति सद्दष्टान्तमाह भवायेति द्वाभ्याम् । अङ्ग हे प्रियव्रत ! जनता जनसमूहः अव्यक्तदिष्टं प्राकृतैश्चक्षुरादिभिर्नं व्यज्यते इत्यव्यक्तो भगवान् तेन दिष्टमादिष्टं तत्संकल्पायत्तमित्यर्थः । देहसम्बन्धं धत्ते । किमर्थमसावीश्वरो देहयोगमादिशति तत्राह भवायेति । भवाद्यर्थं कर्म कर्तुमुत्तरोत्तरं जन्मनाशादेर्निमित्तं कर्म कर्तुं प्राक्तनकर्मानुसारेण देहयोगमादिशतीत्यर्थः । यद्वा भवाद्यर्थं कर्म च कर्तुमव्यक्तदिष्टं देहयोगं धत्ते तत्र भवो जन्म नाशो मरणं शोकः प्रियार्थविच्छित्तिनिमित्तं दुःखं मोहो देहात्मभ्रमस्वतन्त्रात्मभ्रमादिरूपः भयमागामिदुःखदर्शनजं ज्ञानं सुखदुःखे इष्टानिष्टविषयके अनुकूलप्रतिकूलात्मके प्राचीनकर्मानुसारेण भवाद्यर्थमुत्तरभवादेर्निमित्तं कर्म च कर्तुमव्यक्तदिष्टमित्यर्थः । सदा अभयायेति च छेदः मुक्तये इत्यर्थः । स्वसाशनानुवर्त्तिनामनुग्रहार्थं तदतिवर्त्तिनां निग्रहार्थं च सत्त्वादिप्रचुरदेहयोगमादिशतीति भावः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

यद्वाचि तन्त्यां गुणकर्मदामभिः
सुदुस्तरैर्वत्स वयं सुयोजिताः।
सर्वे वहामो बलिमीश्वराय
प्रोता नसीव द्विपदे चतुष्पदः॥

मूलम्

यद्वाचि 17तन्त्यां गुणकर्मदामभिः सुदुस्तरैर्वत्स वयं सुयोजिताः।
सर्वे वहामो बलिमीश्वराय प्रोता नसीव द्विपदे चतुष्पदः॥ १४ ॥

अनुवाद (हिन्दी)

वत्स! जिस प्रकार रस्सीसे नथा हुआ पशु मनुष्योंका बोझ ढोता है, उसी प्रकार परमात्माकी वेदवाणीरूप बड़ी रस्सीमें सत्त्वादि गुण, सात्त्विक आदि कर्म और उनके ब्राह्मणादि वाक्योंकी मजबूत डोरीसे जकड़े हुए हम सब लोग उन्हींके इच्छानुसार कर्ममें लगे रहते हैं और उसके द्वारा उनकी पूजा करते रहते हैं॥ १४॥

वीरराघवः

हे वत्स ! यस्य भगवतो वाचि वेदादिकायां तन्त्यां दामन्यां रज्जौ गुणकर्मदामभिः गुणाः सत्त्वादयः कर्माणि सात्त्विकादिभेदेन भिन्नानि स्वस्ववर्णाश्रमोचितानि कर्माणि तान्येव दामानि नामभिरिति पाठे वर्णाश्रमनामानि एव निगडबन्धनग्रन्थियुतरज्जवः तैर्दृढतरैः सर्वे वयं सुयोजिता निबद्धाः सन्तः तस्मै ईश्वराय भगवते बलिं पूजां वहामः कुर्मः । यथा नसि नासिकायां छिन्नायां प्रोता बद्धरज्जवश्चतुष्पदो बलीवर्द्दाद्विपदे मनुष्याय कुर्वन्ति तद्वत् ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

ईशाभिसृष्टं ह्यवरुन्ध्महेऽङ्ग
दुःखं सुखं वा गुणकर्मसङ्गात्।
आस्थाय तत्तद्यदयुङ्‍क्त नाथ-
श्चक्षुष्मतान्धा इव नीयमानाः॥

मूलम्

ईशाभिसृष्टं ह्यवरुन्ध्महेऽङ्ग दुःखं सुखं वा गुणकर्मसङ्गात्।
आस्थाय तत्तद्यदयुङ्‍क्त नाथश्चक्षुष्मतान्धा इव नीयमानाः॥ १५ ॥

अनुवाद (हिन्दी)

हमारे गुण और कर्मोंके अनुसार प्रभुने हमें जिस योनिमें डाल दिया है उसीको स्वीकार करके, वे जैसी व्यवस्था करते हैं उसीके अनुसार हम सुख या दुःख भोगते रहते हैं। हमें उनकी इच्छाका उसी प्रकार अनुसरण करना पड़ता है, जैसे किसी अंधेको आँखवाले पुरुषका॥ १५॥

वीरराघवः

किंच न वयमिष्टानिष्टप्राप्तिपरिहारसाधकावबोधनतदुपसंहारसमर्था इत्याह । ईशावसृष्टमिति । अङ्ग ! हे प्रियव्रत नाथ ईश्वरो यद्यदयुङ्क्त योजितवान् तत्तद्वर्णो ! श्रमादिकं जात्यादिकं चास्थाय स्थिता वयं तत्तदीश्वरादिष्ट देवतिर्यगादिशरीरमास्थाय स्थिता वयमिति वा गुणकर्मणां सात्त्विकादिभिन्नानां कर्मणां संगात्संबन्धान्निमित्तात्तत्तत्कर्मानुरूपमित्यर्थः, अनेनेश्वरस्य वैषम्याभाव उक्तः, ईशेन भगवताभिसृष्टं दत्तं सुखं दुःखं चाऽवरुन्ध्महे प्राप्नुमः । ईश्वरस्य हिताहितज्ञत्वे अन्येषामनभिज्ञत्वे चक्षुष्मतेति च दृष्टान्तमाह यथा चक्षुष्मताऽविप्लुतचक्षुरिन्द्रियेण पुरुषेण छायामातपं वा नीयमानाः प्राप्यमाणाः अन्धाः प्राप्नुवन्ति तद्वत् । अतोऽस्माभिरीश्वरादिष्टैः प्रवृत्तिधर्म एवानुरोद्धव्य इति भावः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

मुक्तोऽपि तावद‍्बिभृयात्स्वदेह-
मारब्धमश्नन्नभिमानशून्यः।
यथानुभूतं प्रतियातनिद्रः
किं त्वन्यदेहाय गुणान्न वृङ्‍‍क्ते॥

मूलम्

मुक्तोऽपि तावद‍्बिभृयात्स्वदेहमारब्धमश्नन्नभिमानशून्यः।
यथानुभूतं प्रतियातनिद्रः किं त्वन्यदेहाय गुणान्न वृङ्‍‍क्ते॥ १६ ॥

अनुवाद (हिन्दी)

मुक्त पुरुष भी प्रारब्धका भोग करता हुआ भगवान‍्की इच्छाके अनुसार अपने शरीरको धारण करता ही है; ठीक वैसे ही जैसे मनुष्यकी निद्रा टूट जानेपर भी स्वप्नमें अनुभव किये हुए पदार्थोंका स्मरण होता है। इस अवस्थामें भी उसको अभिमान नहीं होता और विषयवासनाके जिन संस्कारोंके कारण दूसरा जन्म होता है, उन्हें वह स्वीकार नहीं करता॥ १६॥

वीरराघवः

ननु देहात्माभिमानिनः संसारिणो जीवस्य प्रवृत्तिधर्मानुवृत्तिर्युक्ता, अहं त्वधिकृतात्मविद्यो मुमुक्षुः कथं प्रवृत्तिधर्ममनुरुणध्मि बन्धकत्वादित्याशङ्कायां तावन्मुमुक्षोरप्यामुक्तेर्देहधारणमावश्यकं तदनुबन्धितया प्राप्तेषु केषुचित्प्रवृत्तोऽपि न बध्यत इत्याह मुक्तोऽपीति । प्रतियातनिद्रः निवृत्ताज्ञानः पुमान् यथानुभूतमनुभूतवज्ज्ञानोदयात् पूर्वमनुभूतकर्मवदज्ञानदशायां कर्मानुभवादिति यावत् ज्ञानोदयानन्तरमप्यारब्धं सुखदुःखादिफलप्रदानाय प्रवृत्तं पुण्यापुण्यरूपं कर्माश्नन्ननुभवन्नपि तत्राभिमानशून्यः सुखदुःखाद्यनुभवप्रयुक्तदेहगतस्थूलकार्श्याद्यभिमानमात्मन्यकुर्वाणः यावन्मुक्तो भवेत्तावत्स्वदेहं बिभृयादेव देहात्माभिमानरहितः आरब्धमश्नन्नपि यावन्मुक्तस्तावत्स्वदेहं बिभृयादिति वान्वयः । प्रारब्धस्य कर्मणोऽधिगतात्मविद्येनाप्यनुभाव्यत्वात्प्रारब्धायत्तत्वाच्छरीरस्य तद्धारणमवर्जनीयमित्यर्थः । तर्ह्यज्ञाज्ज्ञानिनः को विशेषस्तत्राह किंत्विति । अयं प्रतियातनिद्रः अन्यदेहाय देहान्तरारम्भाय निमित्तभूतानि सत्त्वादिगुणप्रयुक्तकर्माणि न वृङ्क्ते न भजति । प्रारब्धानुभवो देहधारणं चेत्युभयं तुल्यं पुनर्देहान्तरनिमित्तबन्धककर्माकरणं तु ज्ञानिनो विशेष इति भावः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

भयं प्रमत्तस्य वनेष्वपि स्याद्
यतः स आस्ते सहषट्सपत्नः।
जितेन्द्रियस्यात्मरतेर्बुधस्य
गृहाश्रमः किं नु करोत्यवद्यम्॥

मूलम्

भयं प्रमत्तस्य वनेष्वपि स्याद् यतः स 18आस्ते सहषट्सपत्नः।
जितेन्द्रियस्यात्मरतेर्बुधस्य गृहाश्रमः किं नु करोत्यवद्यम्॥ १७ ॥

अनुवाद (हिन्दी)

जो पुरुष इन्द्रियोंके वशीभूत है, वह वन-वनमें विचरण करता रहे तो भी उसे जन्म-मरणका भय बना ही रहता है; क्योंकि बिना जीते हुए मन और इन्द्रियरूपी उसके छः शत्रु कभी उसका पीछा नहीं छोड़ते। जो बुद्धिमान् पुरुष इन्द्रियोंको जीतकर अपनी आत्मामें ही रमण करता है, उसका गृहस्थाश्रम भी क्या बिगाड़ सकता है?॥ १७॥

वीरराघवः

अस्तु मुमुक्षोरपि देहधारणं प्रारब्धानुभवश्चेति वन्यैरपि देहधारणसम्भवाद्वन एवाहं वत्स्यामि गृहाश्रमस्य संसृतिहेतुत्वात्तत्राह भयमिति । प्रमादाप्रमादावेव हि भयाभयहेतू । अतः प्रमत्तस्य स्वपरयाथात्म्यविस्मरणेन देहेन्द्रियपारवश्यस्य वनेष्वपि अपि- शब्दाद्गृहेषु च वसतो भयं संसारः स्यादेव । ननु वने वसतो देहानुबन्धिनां कलत्रादीनां प्रसह्य प्रवर्त्तयतां ज्ञाननिष्ठाविरोधिनामभावात्सा प्रतिष्ठिता स्याद्गृहे तु विपरीतेत्यत्राह । यतः यस्मात्सः वनवासी सह षट्सपत्नः सहैव षट्सपत्नाः शत्रवो मनःसहितानि ज्ञानेन्द्रियाणि यस्य तथाभूत एव वने आस्ते “वोपसर्जनस्यः” इति वाग्रहणात्सहस्य सभावाभावः । “इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते” इति समनस्केन्द्रियवर्गस्य विषयप्रवणस्य ज्ञाननिष्ठाविरोधित्वाद्वनाश्रमिणोऽपीन्द्रियवर्गस्य सहैव विद्यमानत्वाद्भयं स्यादेव । अत इन्द्रियवर्ग एव नियन्तव्यः यद्येवं तर्हि किमपराद्धं ग्रहाश्रमेणेत्याह । जितेन्द्रियस्यात्मरतेः प्रकृतिविविक्तात्मानुभवशीलस्य बुधस्य ब्रह्मनिष्ठस्य पुंसः गृहाश्रमः किन्ववद्यं दोषं न करोति न कमपि दोष करोतीत्यर्थः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

यः षट् सपत्नान् विजिगीषमाणो
गृहेषु निर्विश्य यतेत पूर्वम्।
अत्येति दुर्गाश्रित ऊर्जितारीन्
क्षीणेषु कामं विचरेद्विपश्चित्॥

मूलम्

यः षट् सपत्नान् विजिगीषमाणो गृहेषु निर्विश्य यतेत पूर्वम्।
19अत्येति दुर्गाश्रित ऊर्जितारीन् क्षीणेषु कामं विचरेद्विपश्चित्॥ १८ ॥

अनुवाद (हिन्दी)

जिसे इन छः शत्रुओंको जीतनेकी इच्छा हो, वह पहले घरमें रहकर ही उनका अत्यन्त निरोध करते हुए उन्हें वशमें करनेका प्रयत्न करे। किलेमें सुरक्षित रहकर लड़नेवाला राजा अपने प्रबल शत्रुओंको भी जीत लेता है। फिर जब इन शत्रुओंका बल अत्यन्त क्षीण हो जाय, तब विद्वान् पुरुष इच्छानुसार विचर सकता है॥ १८॥

वीरराघवः

ननु यदीन्द्रियपारवश्यरूपप्रमाद एव भयहेतुस्तर्हि इन्द्रियाणि ज्ञाननिष्ठाविरोधीनि वन एव वसन् जेष्यामीत्यत्राह य इति । सपत्नान् ज्ञाननिष्ठाविरोधित्वेन शत्रुतुल्यानि षडिन्द्रियाणि यो विजिगीषमाणः विजेतुमिच्छन्सः पूर्वं प्रथमं गृहेषु निर्विश्य गृहाश्रम एव स्थित्वा यतेत इन्द्रियजयार्थं यतेत । तथा हि लोके यः कञ्चन शत्रून्विजिगीषमाणः विजेतुमिच्छन्प्रथमं दुर्गमाश्रित ऊर्जितान् बलिष्ठान् शत्रूनत्येति जयति ततः क्षीणेषु शत्रुषु बलहीनेषु सत्सु कामं यथेष्टं दुर्गेऽन्यत्र वा विचरेदेवं विपश्चिदपीत्यर्थः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

त्वं त्वब्जनाभाङ्घ्रिसरोजकोश-
दुर्गाश्रितो निर्जितषट्सपत्नः।
भुङ्क्ष्वेह भोगान् पुरुषातिदिष्टान्
विमुक्तसङ्गः प्रकृतिं भजस्व॥

मूलम्

त्वं त्वब्जनाभाङ्घ्रिसरोजकोशदुर्गाश्रितो निर्जितषट्सपत्नः।
भुङ्क्ष्वेह भोगान् पुरुषातिदिष्टान् विमुक्तसङ्गः प्रकृतिं भजस्व॥ १९ ॥

अनुवाद (हिन्दी)

तुम यद्यपि श्रीकमलनाभ भगवान‍्के चरणकमलकी कलीरूप किलेके आश्रित रहकर इन छहों शत्रुओंको जीत चुके हो, तो भी पहले उन पुराणपुरुषके दिये हुए भोगोंको भोगो; इसके बाद निःसंग होकर अपने आत्मस्वरूपमें स्थित हो जाना॥ १९॥

वीरराघवः

सत्यं प्रथमं दुर्गाश्रित एवारीनत्येति अहमपि भगवच्चरणारविन्दरूपं दुर्गमाश्रितः शत्रून् जेष्यामि न त्वतिहेयान् गृहानित्यत्राह त्वं त्विति । यद्यपि त्वमब्जनाभस्य भगवतश्चरणकमलकोशदुर्गाश्रितः यथा कमलकोशान्तर्गतभ्रमरं बाह्यातपवर्षादयो न बाधन्ते तद्वद्भगवञ्चरणारविन्दसमावेशितमनस्कमिन्द्रियाणि न बाधन्त इति ज्ञापनाय कोशशब्दः प्रयुक्तः । निर्जितः ज्ञानयोगविरोधिवहिरिन्द्रयवर्गो येन तथापि पुरुषेण परमपुरुषेणादिष्टान् भोगान् इह लोके भुक्त्वा ततो विमुक्तसङ्गः भगवद्भक्त्या प्रकृतिं स्वभावमाविर्भूतापहतपाप्मत्वादिगुणाष्टकस्वभावं भजस्वेति यावत् ॥ १९ ॥

श्लोक-२०

मूलम् (वचनम्)

20श्रीशुक उवाच

विश्वास-प्रस्तुतिः

इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनतशिरोधरो बाढमिति सबहुमानमुवाह॥

मूलम्

इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनतशिरोधरो बाढमिति सबहुमानमुवाह॥ २० ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—जब त्रिलोकीके गुरु श्रीब्रह्माजीने इस प्रकार कहा, तो परमभागवत प्रियव्रतने छोटे होनेके कारण नम्रतासे सिर झुका लिया और ‘जो आज्ञा’ ऐसा कहकर बड़े आदरपूर्वक उनका आदेश शिरोधार्य किया॥ २०॥

वीरराघवः

इतीत्थं ब्रह्मणा सम्यगभिहितः उक्तः महाभागवतः त्रिभुवनहितोपदेष्टुर्भगवतश्चतुर्मुखस्यानुशासनमात्मनः स्वस्य लघुतया हेतुना भोगाननुभवत एव पुनर्मुक्त्युपायप्रदर्शनात्मकत्वात्तच्छासनस्य सुकरत्वं यद्वा आत्मनो यदनुशासनं तदलघुतया गौरवेण बाढं करिष्यामीत्यवनतकन्धरः सन् सः प्रियव्रतः बहुमानं यथा भवति तथा उवाह जग्राहानुष्ठितवानिति यावत् ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रतनारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्‍‍मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत्॥

मूलम्

भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रतनारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्‍‍मनसं क्षयमव्य21वहृतं प्रवर्तयन्नगमत्॥ २१ ॥

अनुवाद (हिन्दी)

तब स्वायम्भुव मनुने प्रसन्न होकर भगवान् ब्रह्माजीकी विधिवत् पूजा की। इसके पश्चात् वे मन और वाणीके अविषय, अपने आश्रय तथा सर्वव्यवहारातीत परब्रह्मका चिन्तन करते हुए अपने लोकको चले गये। इस समय प्रियव्रत और नारदजी सरल भावसे उनकी ओर देख रहे थे॥ २१॥

वीरराघवः

ततो भगवान् ब्रह्मापि मनुना स्वायम्भुवेन यथाविधि कृतपूजः प्रियव्रतस्य योगभ्रंशान्नारदस्य शिष्याभावात् कुटिलमीक्षणं सम्भवेत्तत्तु नास्तीत्याह । अविषममकुटिलं यथा भवति तथा प्रियव्रतनारदयोरपि समीक्षमाणयोः सतोरवाङ्मनसक्षयं वाकूच मनश्च वाङ्मनसे “अचतुरविचतुरे"त्यादिना निपातनात् समासान्तोऽच्प्रत्ययः तयोः क्षयं वेद्यं “क्षि निवासगत्योः” इति गत्यर्थ- त्वाद्गत्यर्थस्य ज्ञानार्थत्वाद्वाङ्मनसक्षयमनेनार्वाचीनलोकापेक्षया वैचित्र्यं विवक्षितं, विचित्रान्तरमाह इदमवाङ्मनसगोचरमिति लोके प्रयोगो दृश्यते । युक्तं चैतत्परब्रह्मस्वरूपगुणानामेवापरिच्छिन्नत्वेन वाङ्मनसयोरविषयत्वात्कार्य्यवर्गस्य वाङ्मनसविषयत्वात्सत्यलोकस्यापि कार्यत्वादव्यवहितं द्विपरार्द्धावसानपर्यन्तं तत्रत्यानां जन्मजरामरणाद्यभावेन नष्टं जीर्णमित्यादिव्यवहाराविषयम्, तथा चोक्तं द्वितीये “यद्वै परार्थ्यं तदु पारमेष्ठयं न यत्र शोको न जरा न मृत्युर्नार्तिर्न चोद्वेग” इत्येवंविधमात्मनः समवस्थानं निवासस्थानं सत्यलोकमगमत् ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

मनुरपि परेणैवं प्रतिसन्धितमनोरथः सुरर्षिवरानुमतेनात्मजमखिलधरामण्डलस्थितिगुप्तय आस्थाप्य स्वयमतिविषमविषयविषजलाशयाशाया उपरराम॥

मूलम्

मनुरपि परेणैवं प्रतिसन्धितमनोरथः सुरर्षिवरानुमतेनात्मजमखिलधरामण्डलस्थितिगुप्तय आस्थाप्य स्वयमतिविषमविषयविषजलाशया22शाया उपरराम॥ २२ ॥

अनुवाद (हिन्दी)

मनुजीने इस प्रकार ब्रह्माजीकी कृपासे अपना मनोरथ पूर्ण हो जानेपर देवर्षि नारदकी आज्ञासे प्रियव्रतको सम्पूर्ण भूमण्डलकी रक्षाका भार सौंप दिया और स्वयं विषयरूपी विषैले जलसे भरे हुए गृहस्थाश्रमरूपी दुस्तर जलाशयकी भोगेच्छासे निवृत्त हो गये॥ २२॥

वीरराघवः

मनुः स्वायंभुवोऽपि परेण ब्रह्मणैवं प्रतिसन्धितः सम्पादितः मनोरथः राज्ये पुत्रमभिषिच्य वने यास्यामीत्येवंरूपो मनोरथो यस्य तथाभूतः सन् सुरर्षिवरो नारदस्तस्यानुमतेनानुमत्या भावे क्तः आत्मजं पुत्रं प्रियव्रतं निखिलभूमण्डलमर्यादारक्षणाय स्थापयित्वातिविषमा दुस्तरा ये विषयाः शब्दादयस्त एव विषजलाशयाः विषोदकाशयास्तद्रूपं यद्गृहं तस्मिन्नाशा भोगेच्छा तत उपरतोऽभूत् ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

इति ह वाव स जगतीपतिरीश्वरेच्छयाधिनिवेशित कर्माधिकारोऽखिलजगद‍्बन्धध्वंसनपरानुभावस्य भगवत आदिपुरुषस्याङ्घ्रियुगलानवरतध्यानानुभावेन परिरन्धितकषायाशयोऽवदातोऽपि मानवर्धनो महतां महीतलमनुशशास॥

मूलम्

इति ह वाव स जगतीपतिरीश्वरेच्छया23धिनिवेशितकर्माधिकारोऽखिलजगद‍्बन्धध्वंसनपरानुभावस्य भगवत आदिपुरुषस्याङ्घ्रियुगलानवरतध्यानानुभावेन परिरन्धितकषायाशयोऽवदातोऽपि मानवर्धनो महतां महीतलमनुशशास॥ २३ ॥

अनुवाद (हिन्दी)

अब पृथ्वीपति महाराज प्रियव्रत भगवान‍्की इच्छासे राज्यशासनके कार्यमें नियुक्त हुए। जो सम्पूर्ण जगत‍्को बन्धनसे छुड़ानेमें अत्यन्त समर्थ हैं, उन आदिपुरुष श्रीभगवान‍्के चरणयुगलका निरन्तर ध्यान करते रहनेसे यद्यपि उनके रागादि सभी मल नष्ट हो चुके थे और उनका हृदय भी अत्यन्त शुद्ध था, तथापि बड़ोंका मान रखनेके लिये वे पृथ्वीका शासन करने लगे॥ २३॥

वीरराघवः

इति ह वावेत्थं हि स जगतीपतिः प्रियव्रतः प्रथममात्मनः स्वस्येच्छया अभिनिवेशितः प्रापितः कर्माधिकारः भगवदाराधनरूपकर्माधिकारः यस्य सः, अखिलस्य जगतः बन्धनध्वंसनः बन्धननिवर्त्तकः, अत एव उत्कृष्टः अनुभावः प्रभावो यस्य तस्य भगवतः कृत्स्नजगदुद्यविभवलीलस्य यदङ्घ्रियुग्मं तस्य यदवच्छिन्नं ध्यानं तस्य प्रभावेण परिरन्धितकषायः दग्धरागादिमलः आशयोऽन्तःकरणं यस्यात एवावदातः निर्मलोऽपि महतां ब्रह्मादीनामाज्ञापालनेन मानवर्द्धनः भूमण्डलमनुशिष्टवान् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्यामु ह वाव आत्मजानात्मसमानशीलगुणकर्मरूपवीर्योदारान्दश भावयाम्बभूव कन्यां च यवीयसीमूर्जस्वतीं नाम॥

मूलम्

अथ च24 दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्यामुह वाव आत्म25जानात्मसमानशीलगुणकर्मरूपवीर्योदारान्दश भावयाम्बभूव कन्यां च यवीयसीमूर्जस्वतीं नाम॥ २४ ॥

अनुवाद (हिन्दी)

तदनन्तर उन्होंने प्रजापति विश्वकर्माकी पुत्री बर्हिष्मतीसे विवाह किया। उससे उनके दस पुत्र हुए। वे सब उन्हींके समान शीलवान्, गुणी, कर्मनिष्ठ, रूपवान् और पराक्रमी थे। उनसे छोटी ऊर्जस्वती नामकी एक कन्या भी हुई॥ २४॥

वीरराघवः

अनुशासनप्रकारमेव विवक्षुस्तावद्दारपरिग्रहमपत्यानि चाह अथेति । अथ चतुर्मुखादेशानन्तरं निवृत्तिनिष्ठोऽपि प्रवृत्तोऽभूदिति विस्मयते हीति । विश्वकर्मणः विश्वकर्मनाम्नः प्रजापतेर्ब्रह्मणो बर्हिष्मती नाम दुहितरमुपयेमे उदवोढ । उ इति विस्मये हवविति प्रसिद्धौ, तस्यां बर्हिष्मत्यामात्मसमानैः स्वतुल्यैः शीलादिभिर्गुणैरुदारान्महतः, औदार्यानिति पाठे आत्मसमाः शीलादयो येषामिति बहुव्रीहिः, तत्र शीलं स्वभावः सहृत्तिश्च गुणाः शौर्यादयः कर्मव्यापारः रूपं सौन्दर्यं वीर्यं पराभिभवसामर्थ्यं शौर्यं रणमध्ये स्वगृह इव प्रवेशसामर्थ्यमौदार्यं वदान्यता एवंविधान् दशात्मजान् भावयाम्बभूव उत्पादयामास तथा यवीयसीं दशानामात्मजानामनुजामूर्जस्वतीं नाम कन्यां भावयाम्बभूवेति पूर्वेणास्वयः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

आग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतोघृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति सर्व एवाग्निनामानः॥

मूलम्

आग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतोघृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति सर्व एवाग्निनामानः॥ २५ ॥

अनुवाद (हिन्दी)

पुत्रोंके नाम आग्नीध्र, इध्मजिह्व, यज्ञबाहु, महावीर, हिरण्यरेता, घृतपृष्ठ, सवन, मेधातिथि, वीतिहोत्र और कवि थे। ये सब नाम अग्निके भी हैं॥ २५॥

श्लोक-२६

विश्वास-प्रस्तुतिः

एतेषां कविर्महावीरः सवन इति त्रय आसन्नूर्ध्वरेतसस्त आत्मविद्यायामर्भभावादारभ्य कृतपरिचयाः पारमहंस्यमेवाश्रममभजन्॥

मूलम्

एतेषां कविर्महावीरः सवन इति त्रय आसन्नूर्ध्वरेतसस्त आत्मविद्यायामर्भभावादारभ्य कृतपरिचयाः पारमहंस्यमेवाश्रममभजन्॥ २६ ॥

अनुवाद (हिन्दी)

इनमें कवि, महावीर और सवन—ये तीन नैष्ठिक ब्रह्मचारी हुए। इन्होंने बाल्यावस्थासे आत्मविद्याका अभ्यास करते हुए अन्तमें संन्यासाश्रम ही स्वीकार किया॥ २६॥

वीरराघवः

पुत्रान्निर्दिशति आग्नीध्रेति । आग्नीध्रादीनामितरेतरयोगे द्वन्द्वः, सर्वेऽग्नीनां नामानि येषां तथाभूता ये तेषां दशानां पुत्राणां मध्ये कविर्महावीरः सवन इति त्रय ऊर्ध्वरेतसः जितेन्द्रिया आसन् । ते कव्यादयः त्रयः बाल्यादारभ्यात्मविद्यायां कृतः परिचयो यैस्ते पारमहंस्यं परमहंसाः शुद्धान्तःकरणाः तेषां संबन्धिनमाश्रममभजन् । केवलं निवृत्तिधर्मपरायणा अभवन्नित्यर्थः ॥ २५-२६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

तस्मिन्नु ह वा उपशमशीलाः परमर्षयः सकलजीवनिकायावासस्य भगवतो वासुदेवस्य भीतानां शरणभूतस्य श्रीमच्चरणारविन्दाविरतस्मरणाविगलितपरमभक्तियोगानुभावेन परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां भूतानामात्मभूते प्रत्यगात्मन्येवात्मनस्तादात्म्यमविशेषेण समीयुः॥

मूलम्

तस्मिन्नु25 ह वा उपशमशीलाः परमर्षयः सकलजीवनिकायावासस्य भगवतो वासुदेवस्य भीतानां शरणभूतस्य श्रीमच्चरणारविन्दाविरतस्मरणाविगलितपरमभक्तियोगानुभावेन परिभावितान्तर्हृदयाधिगते 26भगवति सर्वेषां भूतानामात्मभूते प्रत्यगात्मन्येवा27त्मनस्तादात्म्यमविशेषेण समीयुः॥ २७ ॥

अनुवाद (हिन्दी)

इन निवृत्तिपरायण महर्षियोंने संन्यासाश्रममें ही रहते हुए समस्त जीवोंके अधिष्ठान और भवबन्धनसे डरे हुए लोगोंको आश्रय देनेवाले भगवान् वासुदेवके परम सुन्दर चरणारविन्दोंका निरन्तर चिन्तन किया। उससे प्राप्त हुए अखण्ड एवं श्रेष्ठ भक्तियोगसे उनका अन्तःकरण सर्वथा शुद्ध हो गया और उसमें श्रीभगवान‍्का आविर्भाव हुआ। तब देहादि उपाधिकी निवृत्ति हो जानेसे उनकी आत्माकी सम्पूर्ण जीवोंके आत्मभूत प्रत्यगात्मामें एकीभावसे स्थिति हो गयी॥ २७॥

वीरराघवः

तस्मिन्नु ह वा पारमहंस्याश्रमे हि वर्तमानाः उपशम इन्द्रियनिग्रह एवं शीलं येषां ते अत एव परमर्षयः, सकलजीवानां निकामः समूहः स आवासः शरीरं यस्य निकायस्याधारस्तस्येति वा मृत्युभयं संसृतिभयं तेन भीतानां शरणभूतस्य रक्षणोपायभूतस्य रक्षितुश्च भगवतो वासुदेवस्य श्रीमतोश्चरणारविन्दयोर्यदविच्छिन्नं स्मरणं तेनाविगलितः अविच्छिन्नः अत्युत्कर्षरूपो यः परमभक्तियोगः तस्य प्रभावेण उपचयेन वा परिभावितं निरस्तरागादिकं निर्वासितमिति यावत् यदन्तर्हृदयं मनस्तस्मिन्नधिगते साक्षात्कृते सर्वेषां भूतानामात्मभूते अन्तः प्रविश्य शासनेन धारके प्रत्यगात्मनि प्रत्यग्जीवः आत्मा शरीरं यस्य तस्मिन् प्रतीचः आत्मनीति वा प्रत्यगात्मशरीरक इति वा भूतानामात्मभूते इत्यचैतन्यशरीरकत्वमुक्तं प्रत्यगात्मनीति जीवशरीरकत्वमेवंभूते भगवत्येव वर्तमानस्य भगवदपृथक्सिद्धविशेषणतया साक्षात्कृतस्यात्मनः स्वस्य तादात्म्यं तत्स्वभावतां साधर्म्यमित्यर्थः । अविशेषेण जगद्व्यापारवर्जं कार्त्स्न्येन समीयुः मुक्ता बभूवुरित्यर्थः । अविशिष्टाः सप्तपुत्राः पित्रधीनाः स्थिता इति भावः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

अन्यस्यामपि जायायां त्रयः पुत्रा आसन्नुत्तमस्तामसो रैवत इति मन्वन्तराधिपतयः॥

मूलम्

अन्यस्यामपि जायायां त्रयः पुत्रा आसन्नुत्तमस्तामसो रैवत इति मन्वन्तराधिपतयः28॥ २८ ॥

अनुवाद (हिन्दी)

महाराज प्रियव्रतकी दूसरी भार्यासे उत्तम, तामस और रैवत—ये तीन पुत्र उत्पन्न हुए , जो अपने नामवाले मन्वन्तरोंके अधिपति हुए॥ २८॥

वीरराघवः

तथा अन्यस्यामपि भार्यायां त्रयः पुत्राः जातास्तान् तदधिकारं च निर्दिशति । उत्तम इति ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

एवमुपशमायनेषु स्वतनयेष्वथ जगतीपतिर्जगतीमर्बुदान्येकादश परिवत्सराणामव्याहताखिलपुरुषकारसारसम्भृतदोर्दण्डयुगलापीडितमौर्वीगुणस्तनितविरमितधर्मप्रतिपक्षो बर्हिष्मत्याश्चानुदिनमेधमानप्रमोदप्रसरणयौषिण्यव्रीडाप्रमुषितहासावलोकरुचिरक्ष्वेल्यादिभिः पराभूयमानविवेक इवानवबुध्यमान इव महामना बुभुजे

मूलम्

एवमुपशमायनेषु स्वतनयेष्वथ जगतीपतिर्जगतीमर्बुदान्येकादश परिवत्सराणामव्याहताखिलपुरुषकारसारसम्भृतदोर्दण्डयुगलापीडितमौर्वीगुणस्तनितविरमितधर्मप्रतिपक्षो बर्हिष्मत्याश्चानुदिनमेधमानप्रमोद29प्रसरणयौषि30ण्यव्रीडाप्रमुषितहासावलोकरुचिरक्ष्वेल्यादिभिः पराभूयमानविवेक31इवानवबुध्यमान इव महामना बुभुजे ॥ २९ ॥

अनुवाद (हिन्दी)

इस प्रकार कवि आदि तीन पुत्रोंके निवृत्तिपरायण हो जानेपर राजा प्रियव्रतने ग्यारह अर्बुद वर्षोंतक पृथ्वीका शासन किया। जिस समय वे अपनी अखण्ड पुरुषार्थमयी और वीर्यशालिनी भुजाओंसे धनुषकी डोरी खींचकर टंकार करते थे, उस समय डरके मारे सभी धर्मद्रोही न जाने कहाँ छिप जाते थे। प्राणप्रिया बर्हिष्मतीके दिन-दिन बढ़नेवाले आमोद-प्रमोद और अभ्युत्थानादि क्रीडाओंके कारण तथा उसके स्त्री-जनोचित हाव-भाव, लज्जासे संकुचित मन्दहास्य-युक्त चितवन और मनको भानेवाले विनोद आदिसे महामना प्रियव्रत विवेकहीन व्यक्तिकी भाँति आत्म-विस्मृतसे होकर सब भोगोंको भोगने लगे। किन्तु वास्तवमें ये उनमें आसक्त नहीं थे॥ २९॥

वीरराघवः

एवमुपशमायनेषु उपशमो गुणान्तराणामप्युपलक्षणमात्मसमानशीलेति पूर्वमुक्तत्वात् सद्गुणाश्रयेषु सत्स्वित्यर्थः । अथ जगतीपतिः प्रियव्रतः अर्बुदः कोटिः, अन्ये तु दशकोटिमर्बुदमित्याहुः, वत्सराणामेकादशार्बुदानि जगतीं बुभुज इत्यन्वयः । राज्ञां धर्मपरिपालनविषयभोगप्रभावैर्भाव्यं तत्रानायासेनैव धर्मपरिपालनमाह । अव्याहता अखिलाः पुरुषकाराः पौरुषाणि यस्य तेन सारेण बलेन संभृतौ पूर्णौ यौ दोर्दण्डौ तयोः युगलं तेनापीडित आकृष्टो यो मौर्वीगुणस्तस्य स्तनितं टङ्कारस्तेनैव युद्धं विना विरमिता निरस्ता धर्मविरोधिनो येन । भोगातिशयमाह बर्हिष्मत्यां स्वभार्यायामनुदिनमेधमानैः प्रमोदादिभिः पराभूयमानविवेक इवात एव विषयरुच्यानवबुद्धधमानः स बुभुजे । तत्र प्रमोदः पतिं दृष्ट्वा हर्षः ततः प्रसरणमभ्युत्थानादिलीलाः ततो यौषिण्यं योषित्स्वरूपकृतशृङ्गारादिभावप्रकाशनं ततो व्रीडया मुषिताः सङ्कोचिताः हासावलोकाः ततो रुचिरक्ष्वेल्यादयः मृदुतरपरिहासवाक्यादीनि तैः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

यावदवभासयति सुरगिरिमनुपरिक्रामन् भगवानादित्यो वसुधातलमर्धेनैव प्रतपत्यर्धेनावच्छादयति तदा हि भगवदुपासनोपचितातिपुरुषप्रभावस्तदनभिनन्दन् समजवेन रथेन ज्योतिर्मयेन रजनीमपि दिनं करिष्यामीति सप्तकृत्वस्तरणिमनुपर्यक्रामद् द्वितीय इव पतङ्गः॥

मूलम्

32यावदवभासयति सुरगिरिमनुपरिक्रामन् भगवानादित्यो वसुधातलमर्धेनैव प्रतपत्यर्धेनावच्छादयति तदा हि भगवदुपासनोपचितातिपुरुषप्रभावस्तदनभिनन्दन् समजवेन रथेन ज्योतिर्मयेन रजनीमपि दिनं करिष्यामीति सप्तकृत्वस्तरणिमनुपर्यक्रामद् द्वितीय इव पतङ्गः॥ ३० ॥

अनुवाद (हिन्दी)

एक बार इन्होंने जब यह देखा कि भगवान् सूर्य सुमेरुकी परिक्रमा करते हुए लोकालोकपर्यन्त पृथ्वीके जितने भागको आलोकित करते हैं, उसमेंसे आधा ही प्रकाशमें रहता है और आधेमें अन्धकार छाया रहता है, तो उन्होंने इसे पसंद नहीं किया। तब उन्होंने यह संकल्प लेकर कि ‘मैं रातको भी दिन बना दूँगा;’ सूर्यके समान ही वेगवान् एक ज्योतिर्मय रथपर चढ़कर द्वितीय सूर्यकी ही भाँति उनके पीछे-पीछे पृथ्वीकी सात परिक्रमाएँ कर डालीं। भगवान‍्की उपासनासे इनका अलौकिक प्रभाव बहुत बढ़ गया था॥ ३०॥

वीरराघवः

प्रभावातिशयमाह यावदिति । भगवानादित्यः सूर्यः सुरगिरिं मेरुमनुभ्रामन्परिक्रमन्प्रदक्षिणीकुर्वन् वसुधातलं भूमण्डलं यावदवभासयति अद्धेनैव प्रतपत्यर्द्धमेव प्रकाशयत्यर्धमाच्छादयति मेरोश्छायातस्तमसाच्छादयति मेरोः पार्श्वान्तरमवभासयन्नपि पार्श्वान्तरं न प्रकाशयतीत्यालोच्य तद्वसुधातलार्द्धावसानमनभिनन्दन्नसमीचीनं मन्वानः रजनीमपि दिवसं करिष्यामीति यत्सूर्येणानवभातं वसुधातलार्द्धं तदप्यवभासयामीति कृतसङ्कल्पः भगवदुपासनेनोपचितोऽतिपुरुषप्रभावः अमानुषप्रभावः यस्य समजवेन सूर्यसमान वेगेन तद्वत्प्रकाशबहुलेन च रथेन द्वितीयः पतङ्गः अपरः सूर्य इवातस्तरणिं सूर्यमनुसृत्य यथा तरणिर्गच्छति तथा मेरो परितः आक्रामति यदा मेरोर्दक्षिणस्यां दिशि सूर्य्योऽवभासते तदा स्वयमुत्तरस्यां यदा स उत्तरस्यां तदा स्वयं दक्षिणस्यामित्येवमचीचकासदित्यर्थः । अयमप्यस्यः प्रभावविशेषः सूर्योऽन्तरिक्षे चरन्नवभासयति अयं तु भूम्यां चरन्नुपर्यधश्चाचीचकासदिति ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

ये वा उ ह तद्रथचरणनेमिकृतपरिखातास्ते सप्त सिन्धव आसन् यत एव कृताः सप्त भुवो द्वीपाः॥

मूलम्

ये वा उ ह तद्रथचरणनेमिकृतपरिखातास्ते स33प्त सिन्धव आसन् यत एव कृताः सप्त भुवो द्वीपाः॥ ३१ ॥

अनुवाद (हिन्दी)

उस समय इनके रथके पहियोंसे जो लीकें बनीं, वे ही सात समुद्र हुए; उनसे पृथ्वीमें सात द्वीप हो गये॥ ३१॥

श्लोक-३२

विश्वास-प्रस्तुतिः

जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञास्तेषां परिमाणं पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो यथासंख्यं द्विगुणमानेन बहिः समन्तत उपक्लृप्ताः॥

मूलम्

जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञास्तेषां परिमाणं पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो यथासंख्यं द्विगुण34मानेन बहिः समन्तत उपक्लृप्ताः॥ ३२ ॥

अनुवाद (हिन्दी)

उनके नाम क्रमशः जम्बू, प्लक्ष, शाल्मलि, कुश, क्रौंच, शाक और पुष्कर द्वीप हैं। इनमेंसे पहले-पहलेकी अपेक्षा आगे-आगेके द्वीपका परिमाण दूना है और ये समुद्रके बाहरी भागमें पृथ्वीके चारों ओर फैले हुए हैं॥ ३२॥

वीरराघवः

प्रभावान्तरमप्याह य इति । ये हि सप्त तस्य प्रियव्रतस्य यद्रथचक्रं तस्य नेमिना कृताः परितो गर्ताः त एव सप्त सिन्धवः सप्तसमुद्रा आसन् यतः यैरेव सिन्धुभिः कृताः सप्तसंख्यकाः भुवो द्वीपाः, केऽमी द्वीपा के वा सप्त सिन्धवः इति विवित्सायां तावत् द्वीपान्निर्दिशति जम्ब्विति । तेषां द्वीपानां परिमाणं श्रृण्विति कथयामीति वा शेषः, पूर्वस्मात् लक्षयोजनादिपरिमाणविशिष्टाज्जम्ब्वादिपूर्वपूर्वात्तद्वीपादुत्तरोत्तरः प्लक्षादिद्वीपः यथासंख्येन द्विगुणेन द्विलक्षेण परिमाणेनेत्येवं बहिः पूर्वपूर्वद्वीपाद्बहिः परित उपक्लृप्ताः कल्पिताः ॥ ३१-३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

क्षारोदेक्षुरसोदसुरोदघृतोदक्षीरोददधिमण्डोदशुद्धोदाः सप्त जलधयः सप्त द्वीपपरिखा इवाभ्यन्तरद्वीपसमाना एकैकश्येन यथानुपूर्वं सप्तस्वपि बहिर्द्वीपेषु पृथक्परित उपकल्पितास्तेषु जम्ब्वादिषु बर्हिष्मती पतिरनुव्रतानात्मजानाग्नीध्रेध्मजिह्वयज्ञ बाहुहिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहोत्रसंज्ञान् यथा संख्येनैकैकस्मिन्नेकमेवाधिपतिं विदधे॥

मूलम्

क्षारोदेक्षुरसोदसुरोदघृतोदक्षीरोददधिमण्डोदशुद्धोदाः सप्त जलधयः सप्त द्वीपपरि35खा इवाभ्यन्तरद्वीपसमाना एकैक36श्येन यथानुपूर्वं सप्तस्वपि बहिर्द्वीपेषु पृथक्परित37 उपकल्पितास्तेषु38 जम्ब्वादिषु बर्हिष्मतीपतिरनुव्रतानात्मजानाग्नीध्रेध्मजिह्वयज्ञ39बाहुहिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहोत्रसंज्ञान् 40यथासंख्येनैकैकस्मिन्नेकमेवाधिपतिं विदधे॥ ३३ ॥

अनुवाद (हिन्दी)

सात समुद्र क्रमशः खारे जल, ईखके रस, मदिरा, घी, दूध, मट्ठे और मीठे जलसे भरे हुए हैं। ये सातों द्वीपोंकी खाइयोंके समान हैं और परिमाणमें अपने भीतरवाले द्वीपके बराबर हैं। इनमेंसे एक-एक क्रमशः अलग-अलग सातों द्वीपोंको बाहरसे घेरकर स्थित हैं।* बर्हिष्मतीपति महाराज प्रियव्रतने अपने अनुगत पुत्र आग्नीध्र, इध्मजिह्व, यज्ञबाहु, हिरण्यरेता, घृतपृष्ठ, मेधातिथि और वीतिहोत्रमेंसे क्रमशः एक-एकको उक्त जम्बू आदि द्वीपोंमेंसे एक-एकका राजा बनाया॥ ३३॥

पादटिप्पनी
  • इनका क्रम इस प्रकार समझना चाहिये—पहले जम्बूद्वीप है, उसके चारों ओर क्षार समुद्र है। वह प्लक्षद्वीपसे घिरा हुआ है, उसके चारों ओर ईंखके रसका समुद्र है। उसे शाल्मलिद्वीप घेरे हुए है, उसके चारों ओर मदिराका समुद्र है। फिर कुशद्वीप है, वह घीके समुद्रसे घिरा हुआ है। उसके बाहर क्रौंचद्वीप है, उसके चारों ओर दूधका समुद्र है। फिर शाकद्वीप है, उसे मट्ठेका समुद्र घेरे हुए है। उसके चारों ओर पुष्करद्वीप है, वह मीठे जलके समुद्रसे घिरा हुआ है।

श्लोक-३४

विश्वास-प्रस्तुतिः

दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद्यस्यामासीद् देवयानी नाम काव्यसुता॥

मूलम्

दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद्यस्यामासीद् देवयानी नाम काव्यसुता॥ ३४ ॥

अनुवाद (हिन्दी)

उन्होंने अपनी कन्या ऊर्जस्वतीका विवाह शुक्राचार्यजीसे किया; उसीसे शुक्रकन्या देवयानीका जन्म हुआ॥ ३४॥

वीरराघवः

अथ सिन्धून्निर्दिशंस्तेषां परिमाणं चाह क्षारोदेति । दधिमण्डो मथितं दधि एते सप्त सिन्धवः सप्तद्वीपानां परिखा इव दृश्यन्ते अभ्यन्तरद्वीपसमानाश्चाभ्यन्तरद्वीपास्तत्समुद्रवेष्टिता द्वीपास्तैस्तत्परिखावद्वर्तमानाः समानपरिमाणाः सप्तद्वीपेषु यथापूर्वमेकैकशः बहिर्नान्तः पृथगसङ्कीर्णमुपकल्पिता इत्यर्थः । अयमर्थः प्रथमजम्बूद्वीपो लक्षयोजनविस्तारस्तत्परिखाभूतः क्षारोदोऽपि लक्षयोजनविस्तारः । ततः प्लक्षद्वीपो हि लक्षयोजनविस्तारः तत्परिखाभूतेक्षुरसोदश्च द्विलक्षयोजनविस्तारः ततः शाल्मलिश्चतुर्लक्षयोजनः सुरोदोऽपि चतुर्लक्ष इत्यादिना । नन्वल्पपरिमाणो ह्यधिकपरिमाणेन वेष्टितेन समपरिमाणेन कथमेतदुच्यते विस्तारसाम्येऽपि दैर्ध्याधिक्यादुपपत्तिः । तेषु जम्ब्वादिषु द्वीपेषु बर्हिष्मतीपतिः प्रियव्रतः अनुवर्तिनः आग्नीध्रादिसंज्ञकान् सप्तात्मजानेकस्मिन्नेकस्मिन् द्वीपे जम्ब्वादौ यथासंख्येन ज्येष्ठादिक्रमेण एकमेकमेवाधिपतिं विदधे चकार । ऊर्ज्जस्वतीं नाम दुहितरमुशनसे शुक्राय प्रादात्, यस्यामूर्ज्जस्वत्यां काव्यस्योशनसः सुता देवयानी नाम कन्यका आसीदुत्पन्नाभूत् ॥ ३३-३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

नैवंविधः पुरुषकार उरुक्रमस्य
पुंसां तदङ्घ्रिरजसा जितषड्गुणानाम्।
चित्रं विदूरविगतः सकृदाददीत
यन्नामधेयमधुना स जहाति बन्धम्॥

मूलम्

नैवंविधः पुरुषकार उरुक्रमस्य पुंसां तदङ्घ्रिरजसा जितषड्गुणानाम्।
चित्रं विदूरविगतः 41सकृदाददीत यन्नामधेयमधुना स42 जहाति बन्धम्॥ ३५ ॥

अनुवाद (हिन्दी)

राजन्! जिन्होंने भगवच्चरणारविन्दोंकी रजके प्रभावसे शरीरके भूख-प्यास, शोक-मोह और जरा-मृत्यु—इन छः गुणोंको अथवा मनके सहित छः इन्द्रियोंको जीत लिया है, उन भगवद‍्भक्तोंका ऐसा पुरुषार्थ होना कोई आश्चर्यकी बात नहीं है; क्योंकि वर्णबहिष्कृत चाण्डाल आदि नीच योनिका पुरुष भी भगवान‍्के नामका केवल एक बार उच्चारण करनेसे तत्काल संसारबन्धनसे मुक्त हो जाता है॥ ३५॥

वीरराघवः

एवमतिमानुषप्रियव्रतप्रभावं श्रुतवतो राज्ञस्तत्प्रभावविषयासम्भावनामाशङ्क्य न केवलमुक्त एव तस्य प्रभावः किन्त्वन्येऽपि सन्तीति वदन्ननन्तविविधविचित्रशक्तिं भगवन्तं सर्वात्मनोपासीनानां विचित्रभक्तीनां प्रभावो नासम्भवनीय इत्याह नैवमिति । उरुक्रमस्य पुंसां तदङ्घ्रिरजसा जितषड्गुणानां पुरुषकारः पुरुषव्यापार एवंविध उक्तविधः चित्रमसम्भावनीय इति न, किन्तूक्तविधा अन्येऽपि प्रभावाः सम्भाव्यन्ते एवेति भावः । तत्र हेतुः उरुक्रमस्य त्रिलोकीं पदत्रयेणाक्रान्तवतो विचित्रशक्तेर्भगवतः पुंसां भक्तानां तस्योरुक्रमस्याङ्घ्रिरजसा जिताः षड्गुणाः अशनायापिपासाशोकमोहजरामृत्यवो यैस्तेषामिति त्रिलोक्याक्रमणादिरूपानितरसाधारणप्रभावशीलं भगवच्चरणारविन्दमुपासीनानामनितरसाधारणप्रभावसम्भावना न कार्येति द्योतनयोरुक्रमस्य तदङ्घ्रिरजसेत्युक्तं किं वक्तव्यं तञ्चरणप्रभावोऽनितरसाधारण इति यतस्तन्नामप्रभावो न वाङ्मनसगोचर इत्याह । विदूरविगतः सत्पथादपेतः, अन्ये तु विदूरविगतः दूरतः परित्याज्योऽत्यज इति व्याचक्षते । यस्य भगवतो नामधेयं सकृदप्याददीताभिदध्यात् स विदूरविगतः । अधुना तत्क्षणमेव बन्धं संसारं विजहाति मुक्तो भवतीत्यर्थः, एवं सामान्येन नामस्मरणस्य मुक्तिसाधनत्वप्रतिपादकमेवंविधं वचनजातमन्तिमस्मरणस्य मुक्तिसाधनत्वपरं द्रष्टव्यं, “जन्मलाभः परः पुंसामन्ते नारायणस्मृतिः । नामानि येऽसुविगमे विवशा गृणन्ति । ते नैकजन्मशमलं सहसैव हित्वा संयान्ति” इति वचनान्तरानुरोधात् । अन्यथा “तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते” इति वेदनातिरिक्तोपायान्तरनिषेधश्रुतिविरोधापत्तेः । अन्तिमस्मरणं तु वेदनरूपतामापन्नं तत्साधनं भवतीति न विरोधः । ननु वेदनं हि नाम ज्ञानकर्मयोगानुगृहीताऽहरहरभ्यासाधेयातिशयमाप्रायणादनुवर्तमानमसकृदावृत्तिकं विजातीयप्रत्ययान्तराव्यवहितं प्रत्यक्षतापन्नं प्रीतिरूपात्मकं ज्ञानं तत्कथमन्तिमनामस्मरणमात्रमुक्तविधवेदनात्मतामापन्नं भवतीति उच्यते, नोक्ताकारा अपि वेदनशब्दवाच्याः, किन्तु परमात्मविषयं स्मरणात्मकं ज्ञानमेवान्तिमप्रत्ययरूपं तत्र प्रबलप्रतिबन्धानभ्यासविच्छेदव्यासङ्गान्तरद्वेषोऽपेक्षादिभिरन्तकाले कदाचिन्नाभूदित्यसम्भवपरिहारोपायतया ज्ञानकर्मयोगानुग्रहादय आकारा उपासनप्रकरणेषु कीर्त्तिताः । तत्र भगवत्प्रसादवशाज्जायमानस्वविषयस्मरणात्मकज्ञानस्य नोक्ताकारा अपेक्षिताः । अत एव हि रागद्वेषभयाद्यात्मकमपि भगवद्विषयमन्तिमं ज्ञानं मुक्तिसाधनमिति वक्ष्यति ‘गोप्यः कामाद्भयात्कंसः’ इति ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

स एवमपरिमितबलपराक्रम एकदा तु देवर्षिचरणानुशयनानुपतितगुणविसर्गसंसर्गेणानिर्वृतमिवात्मानं मन्यमान आत्मनिर्वेद इदमाह॥

मूलम्

स एवमपरिमितबलपराक्रम एकदा तु देवर्षिचरणानुशयनानुपतितगुणविसर्गसंसर्गेणानिर्वृतमिवात्मानं मन्यमान आत्मनिर्वेद इदमाह॥ ३६ ॥

अनुवाद (हिन्दी)

इस प्रकार अतुलनीय बल-पराक्रमसे युक्त महाराज प्रियव्रत एक बार, अपनेको देवर्षि नारदके चरणोंकी शरणमें जाकर भी पुनः दैववश प्राप्त हुए प्रपंचमें फँस जानेसे अशान्त-सा देख, मन-ही-मन विरक्त होकर इस प्रकार कहने लगे॥ ३६॥

वीरराघवः

यदप्युक्तं कथंचिदन्तरायविहताः स्वां शिवतमां पदवीं न प्रायेण हिन्वन्तीति तत्प्रियव्रतदृष्टान्तेन स्पष्टयितुं तस्य तावन्निर्वेदं वदति स इति । एवमपारौ बलपराक्रमौ यस्य सः प्रियव्रतः देवर्षेर्नारदस्य चरणयोरनुशयः सेवा तदनु पश्चात्पतितः प्राप्तगुणविसर्गसंसर्गः प्रकृतिमार्गसम्बन्धस्तेन स्वात्मानमनिर्वृतमसुखितमिव मन्यमानः । इवशब्देन तद्भौमभोगानां दुर्लभत्वं तेषु तस्य निरयौपम्यं च सूच्यते । तथा चोक्तं “एते वै निरयास्तात स्थानस्य परमात्मनः” इति । “वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम्” इति । अत एवात्मनि मनसि निर्वेदः परितापो यस्य स इदं वक्ष्यमाणमाह ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

अहो असाध्वनुष्ठितं यदभिनिवेशितोऽहमिन्द्रियैरविद्यारचितविषमविषयान्धकूपे तदलमलममुष्या वनिताया विनोदमृगं मां धिग्धिगिति गर्हयाञ्चकार॥

मूलम्

अहो असाध्वनुष्ठितं यदभिनिवेशितोऽहमिन्द्रियैरविद्यारचितविषयान्धकूपे तदलमलममुष्या वनिताया विनोदमृगं मां धिग्धिगिति गर्हयाञ्चकार॥ ३७ ॥

अनुवाद (हिन्दी)

‘ओह! बड़ा बुरा हुआ! मेरी विषयलोलुप इन्द्रियोंने मुझे इस अविद्याजनित विषम विषयरूप अन्धकूपमें गिरा दिया। बस! बस! बहुत हो लिया। हाय! मैं तो स्त्रीका क्रीडामृग ही बन गया! उसने मुझे बंदरकी भाँति नचाया! मुझे धिक्‍कार है! धिक्‍कार है!’ इस प्रकार उन्होंने अपनेको बहुत कुछ बुरा-भला कहा॥ ३७॥

वीरराघवः

अहो इति निर्वेदद्योतको निपातः । मयाऽसाध्वसमीचीनमनुष्ठितमाचरितं किन्तद्यदसाध्वनुष्ठितं तत्राह । अहं प्रथमं केवलं निवृत्तिधर्मपरोऽहमिन्द्रियैः प्रमाथिभिरविद्यारचिता प्रकृतिपरिणामरूपा अज्ञानमूलया भोग्यतमबुद्ध्या रचिताः सम्पादिताः विषयाः परिणामविषोपमाः हेया ये विषयाः शब्दादयस्त एवान्धकूपः तृणावृतकूपः तस्मिन्नभिनिवेशितः पातित इति यत् तत्ततः अलमलं, विषयानुभवेन अमुष्या वनिताया बर्हिष्मत्या विनोदमृगं क्रीडामृगं मां धिग्धिगिति निन्दयामास आत्मानं निन्दितवान् ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

परदेवताप्रसादाधिगतात्मप्रत्यवमर्शेनानुप्रवृत्तेभ्यः पुत्रेभ्य इमां यथादायं विभज्य भुक्तभोगां च महिषीं मृतकमिव सहमहाविभूतिमपहाय स्वयं निहितनिर्वेदो हृदि गृहीतहरिविहारानुभावो भगवतो नारदस्य पदवीं पुनरेवानुससार॥
तस्य ह वा एते श्लोकाः—

मूलम्

परदेवताप्रसादाधिगतात्मप्रत्य43वमर्शेनानुप्रवृत्तेभ्यः पुत्रेभ्य इमां यथादायं वि44भज्य भुक्तभोगां च महिषीं मृतकमिव सहमहाविभूतिमपहाय स्वयं निहितनिर्वेदो हृदि गृहीतहरिविहारानुभावो भगवतो नारदस्य पदवीं पुनरेवानुससार॥ ३८ ॥
तस्य ह वा एते श्लोकाः—

अनुवाद (हिन्दी)

परमाराध्य श्रीहरिकी कृपासे उनकी विवेकवृत्ति जाग्रत् हो गयी। उन्होंने यह सारी पृथ्वी यथायोग्य अपने अनुगत पुत्रोंको बाँट दी और जिसके साथ उन्होंने तरह-तरहके भोग भोगे थे, उस अपनी राजरानीको साम्राज्यलक्ष्मीके सहित मृतदेहके समान छोड़ दिया तथा हृदयमें वैराग्य धारणकर भगवान‍्की लीलाओंका चिन्तन करते हुए उसके प्रभावसे श्रीनारदजीके बतलाये हुए मार्गका पुनः अनुसरण करने लगे॥ ३८॥

वीरराघवः

ततः परदेवतायाः भगवतः प्रसादेन “नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमपि” इत्यायुक्तप्रकारेण महाप्रभावशीलोपक्रान्तिमात्रनिवृत्तिधर्माराधितभगवत्प्रसादेनाधिगतं प्राप्तमात्मनः स्वात्मनः परमात्मनश्च यत्प्रत्यवमर्शनं यथावस्थितस्वरूपचिन्तनं तेन परिनिर्वृतः निरस्ततापत्रयः नितरां सुखितः अनुगतेभ्यः स्वानुवर्त्तिभ्यः पुत्रेभ्यः इमां सप्तद्वीपात्मिकां भूमिं यथादायं यथायोग्यं भागं विभज्य यद्वा दायं पितृक्रमागतं यथावद्विभज्याग्नीधादिप्रतिपुत्रं जम्ब्वादिप्रतिद्वीपं विभज्येत्यर्थः । भुक्तो भोगो यस्यास्तां पञ्चम्यर्थे बहुव्रीहिः महिषीं भार्यां बर्हिष्मतीं मृतकमिव शवभिव मन्यमान इति शेषः । महाविभूतिं महदैश्वर्यमपहाय महाविभूत्या सहितां महिषीं मृतकमिवापहायेति वा स्वयमुपदेशमन्तरेणैव विहितः कृतः निर्वेदः परितापो यस्य हृद्गृहीताः परिशीलिताः हरेर्भगवतः विहाराणां प्रभावाः यस्य सः भगवतो नारदस्य पदवीं पुनरप्यनुससार गन्धमादनद्रोण्यां श्रीनारदमेव सेवमानः सिद्धिं गत इत्यर्थः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम्।
यो नेमिनिम्नैरकरोच्छायां घ्नन् सप्त वारिधीन्॥

मूलम्

प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम्।
यो नेमिनिम्नैरकरोच्छायां घ्नन् सप्त वारिधीन्॥ ३९ ॥

अनुवाद (हिन्दी)

महाराज प्रियव्रतके विषयमें निम्नलिखित लोकोक्ति प्रसिद्ध है—
‘राजा प्रियव्रतने जो कर्म किये, उन्हें सर्वशक्तिमान् ईश्वरके सिवा और कौन कर सकता है? उन्होंने रात्रिके अन्धकारको मिटानेका प्रयत्न करते हुए अपने रथके पहियोंसे बनी हुई लीकोंसे ही सात समुद्र बना दिये॥ ३९॥

वीरराघवः

तस्य प्रियोव्रतस्यैते श्लोकाः तन्महिमोपनिबन्धने पूर्वप्रसिद्धा एव श्लोकाः कथ्यन्ते यथा वेदे ‘तदप्येष श्लोको भवती’ति । के ते श्लोकाः तत्राह प्रियव्रतेति प्रियव्रतेन कृतं ईश्वरं विनाऽन्यः को नाम कुर्यात् यः प्रियव्रतः छायां तमः घ्नन्निरस्यन् रथनेमिनिम्नैरेव सप्त वारिधीन् समुद्रानकरोत् ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

भूसंस्थानं कृतं येन सरिद‍्गिरिवनादिभिः।
सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागशः॥

मूलम्

भूसंस्थानं कृतं येन सरिद‍्गिरिवनादिभिः।
सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागशः॥ ४० ॥

अनुवाद (हिन्दी)

प्राणियोंके सुभीतेके लिये (जिससे उनमें परस्पर झगड़ा न हो) द्वीपोंके द्वारा पृथ्वीके विभाग किये और प्रत्येक द्वीपमें अलग-अलग नदी, पर्वत और वन आदिसे उसकी सीमा निश्चित कर दी॥ ४०॥

वीरराघवः

येन प्रियव्रतेन भूसंस्थानं द्वीपैर्भुवः संस्थानमवयवविन्यासः कृतं तथा द्वीपे द्वीपे भूतनिर्वृत्त्यै भूतानां कृत्यै सुखाय वा सरिदादिभिः विभागशः असङ्करेण सीमा च कृता ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम्।
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः॥

मूलम्

भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम्।
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः॥ ४१ ॥

अनुवाद (हिन्दी)

वे भगवद‍्भक्त नारदादिके प्रेमी भक्त थे। उन्होंने पाताल-लोकके, देवलोकके, मर्त्यलोकके तथा कर्म और योगकी शक्तिसे प्राप्त हुए ऐश्वर्यको भी नरकतुल्य समझा था’॥ ४१॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे45 प्रियव्रतविजये प्रथमोऽध्यायः॥ १॥

वीरराघवः

यः भौमं पातालजं दिव्यं स्वर्गजं मानुषं मृत्युलोकजं सुखं योगरूपकर्मजमणिमादिसिद्धिरूपं महित्वं माहात्म्यं योगस्य मनोव्यापाररूपत्वेन कर्मत्वव्यपदेशः । “वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् । शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ॥” इति मनुनापि मानसैः कर्मदोषैरिति मनोव्यापारे कर्मशब्दः प्रयुक्तः । निरयौपम्यं नरकसदृशं चक्रे अनुसंहितवान् “एते वै निरयास्तात स्थानस्य परमात्मनः” इत्यादिवचनार्थोऽत्रानुसन्धेयः । निरयौपम्यकृतौ कारणमाह । पुरुषस्य परमपुरुषस्यानुजना अनुचरा भक्ता एव प्रिया यस्य सः तेषां हि प्रिय इति वा ॥ ४१ ॥

इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्धे श्रीमद्वीरराघवाचार्यकृतभागवतचन्द्रचन्द्रिकायां प्रथमोऽध्यायः ॥ १ ॥


  1. प्रा० पा०-निवासोऽयम् । ↩︎

  2. प्राचीने पुस्तके ‘बाढमुक्तं…’ इत्यत आरभ्य ‘हिन्वन्ति’ एतदन्तो भागो नास्ति । ↩︎

  3. प्रवरगुणैकान्त । ↩︎

  4. न वाभ्यनन्दद्यदपि तदप्रत्याम्नातं । ↩︎

  5. प्राचीने पाठे ‘अथ ह’ इति न । ↩︎

  6. सर्गस्य बृंहणा । ↩︎

  7. रखिलनिजगणपरिवेष्टितः । ↩︎

  8. तत्र गगनतले । ↩︎

  9. ममपरिवृन्दैरभिपू । ↩︎

  10. प्राचीने पाठे ‘चारणमुनि’ त आरभ्य ‘पुरुषस्तं सदय’ इत्यवधिकोऽशः खण्डितः । ↩︎

  11. प्राचीने पाठे ‘वलोक इ’ इयान् अंशः खण्डितः । ↩︎

  12. होवाच भगवान् वाचम् । ↩︎

  13. मर्हस्यमेयम् । ↩︎

  14. भवस्ते य इमे । ↩︎

  15. महर्षयो । ↩︎

  16. प्राचीने पाठे ‘दिष्टम्’ इति न । ↩︎

  17. तन्त्र्यां । ↩︎

  18. प्राचीने पाठे ‘आस्ते’ शब्दः खण्डितः । ↩︎

  19. यर्ह्येषि दुर्गा । ↩︎

  20. प्राचीने पाठे ‘श्रीशुक उवाच’ इत्यंशो न । ↩︎

  21. मव्यवहितमगमत् । ↩︎

  22. जलाशयादुपरराम । ↩︎

  23. विनिवेशित । ↩︎

  24. अथ दुहितरं । ↩︎

  25. प्राचीने पाठे ‘आत्मनानात्म’ - इत्यंशो न । ↩︎ ↩︎

  26. प्राचीने पाठे ‘भगवति’ इति पाठो न । ↩︎

  27. वात्मतादात्म्यविशे । ↩︎

  28. मन्वन्तराधिपतयः सभक्तियोगानुभावेन । ↩︎

  29. प्रमोदमोदप्रसरण । ↩︎

  30. यौषण्यव्रीडाप्रमोदित । ↩︎

  31. विवेको नावबुध्यमा । ↩︎

  32. यदेवाभासयति । ↩︎

  33. सप्त सप्त सिन्ध ↩︎

  34. द्विगुणेन बहिः समन्ततः । ↩︎

  35. द्वीपरिखाभ्यन्तरे द्वीप । ↩︎

  36. एकैकस्येव । ↩︎

  37. पृथक् परिधय उपकल्पिता । ↩︎

  38. तेषु बर्हिष्मतीपति । ↩︎

  39. वाह । ↩︎

  40. यथासंख्यकमेकैकस्मिन्नेकमेवाधि । ↩︎

  41. सुकृदाददीत । ↩︎

  42. सहजातितत्त्वम् । ↩︎

  43. प्रत्यमर्षोऽनुपरिनिवृत्तत्वपुत्रे । ↩︎

  44. विभज्य भोगं च । ↩︎

  45. प्राचीने पाठे ‘प्रियव्रतविजये’ - इत्यंशो न । ↩︎