३०

[त्रिंशोऽध्यायः]

भागसूचना

प्रचेताओंको श्रीविष्णुभगवान‍्का वरदान

श्लोक-१

मूलम् (वचनम्)

विदुर उवाच

विश्वास-प्रस्तुतिः

ये त्वयाभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः।
ते रुद्रगीतेन हरिं सिद्धिमापुः प्रतोष्य काम्॥

मूलम्

ये त्वयाऽभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः।
ते रुद्रगीतेन हरिं सिद्धिमापुः प्रतोष्य काम्॥ १ ॥

अनुवाद (हिन्दी)

विदुरजीने पूछा—ब्रह्मन्! आपने राजा प्राचीनबर्हिके जिन पुत्रोंका वर्णन किया था, उन्होंने रुद्रगीतके द्वारा श्रीहरिकी स्तुति करके क्या सिद्धि प्राप्त की?॥ १॥

वीरराघवः

एवं प्रचेतसां वृत्तमसमाप्यै1वान्तरे प्राचीनबर्हिषो वृत्तान्त उक्तः । इदानीं तद्वृत्तान्ताशेषशुश्रूषया पृच्छति विदुरः य इति । हे ब्रह्मन् ! मैत्रेय ! ये प्राचीनबर्हिषः पुत्रा स्त्वयाऽभिहिताः, ते रुद्रगीतेन स्तोत्रेण हरिं प्रतोष्य तोषयित्वा कां सिद्धिं 2किं फलं आपुः प्रापुः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

किं बार्हस्पत्येह परत्र वाथ
कैवल्यनाथप्रियपार्श्ववर्तिनः।
आसाद्य देवं गिरिशं यदृच्छया
प्रापुः परं नूनमथ प्रचेतसः॥

मूलम्

3किं बार्हस्पत्येह परत्र 4वाऽथवा कैवल्यनाथप्रियपार्श्ववर्तिनः।
आसाद्य देवं गिरिशं यदृच्छया प्रापुः परं नून5मथ प्रचेतसः॥ २ ॥

अनुवाद (हिन्दी)

बार्हस्पत्य! मोक्षाधिपति श्रीनारायणके अत्यन्त प्रिय भगवान् शंकरका अकस्मात् सान्निध्य प्राप्त करके प्रचेताओंने मुक्ति तो प्राप्त की ही होगी; इससे पहले इस लोकमें अथवा परलोकमें भी उन्होंने क्या पाया—वह बतलानेकी कृपा करें॥ २॥

वीरराघवः

हे बार्हस्पत्य ! मैत्रेय ! कस्याञ्चित् विद्यायां बृहस्पतेः मैत्रेयश्शिष्यः यदृच्छया गिरिशं प्राप्य कैवल्यनाथस्य मोक्षाधिपतेः भगवतो यः प्रियो रुद्रः तस्य पार्श्ववर्तिनः, तेन अनुगृहीताः प्रचेतसः नूनं परं मोक्षं प्रापुरेव; ततः पूर्वं तु इह अत्र लोके परत्र लोके वा किं प्रापुः ॥ २ ॥

श्लोक-३

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

प्रचेतसोऽन्तरुदधौ पितुरादेशकारिणः।
जपयज्ञेन तपसा पुरञ्जनमतोषयन्॥

मूलम्

प्रचेतसोऽन्तरुदधौ पितुरादेशकारिणः।
जपयज्ञेन तपसा 6पुरञ्जनमतोषयन्॥ ३ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजीने कहा—विदुरजी! पिताके आज्ञाकारी प्रचेताओंने समुद्रके अंदर खड़े रहकर रुद्रगीतके जपरूपी यज्ञ और तपस्याके द्वारा समस्त शरीरोंके उत्पादक भगवान् श्रीहरिको प्रसन्न कर लिया॥ ३॥

वीरराघवः

एवमापृष्टो मुनिः प्रचेतसां कथाशेषमाह - प्रचेतस इति । पितुः आज्ञाकारिणः अन्तरुदधौ समुद्रजलमध्ये रुद्रगीत जपयज्ञेन तपसा, तप-आलोचने, निदिध्यासनेन च निरञ्जनम् अपहतपाप्मानं परमपुरुषं अतोषयन् ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

दशवर्षसहस्रान्ते पुरुषस्तु सनातनः।
तेषामाविरभूत्कृच्छ्रं शान्तेन शमयन् रुचा॥

मूलम्

7दशवर्षसह8स्रान्ते पुरुषस्तु सनातनः।
तेषामाविरभूत्कृच्छ्रं शान्तेन शमयन् रुचा॥ ४ ॥

अनुवाद (हिन्दी)

तपस्या करते-करते दस हजार वर्ष बीत जानेपर पुराणपुरुष श्रीनारायण अपनी मनोहर कान्तिद्वारा उनके तपस्याजनित क्लेशको शान्त करते हुए सौम्य विग्रहसे उनके सामने प्रकट हुए॥ ४॥

वीरराघवः

सनातनः परमपुरुषः दशवर्षसहस्रान्ते दशसहस्रसंख्यातवत्सरपर्य9न्ततपश्चर्यान्ते तेषां कृच्छ्रं तपः क्लेशं रुचाकान्त्या शमयन् शान्तेन शुद्धसत्त्वमयेन वपुषा आविरभूत् ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

सुपर्णस्कन्धमारूढो मेरुशृङ्गमिवाम्बुदः।
पीतवासा मणिग्रीवः कुर्वन् वितिमिरा दिशः॥

मूलम्

सुपर्णस्कन्धमारूढो मेरुशृङ्गमिवाम्बुदः।
पीतवासा मणिग्रीवः कुर्वन् वितिमिरा दिशः॥ ५ ॥

अनुवाद (हिन्दी)

गरुड़जीके कंधेपर बैठे हुए श्रीभगवान् ऐसे जान पड़ते थे, मानो सुमेरुके शिखरपर कोई श्याम घटा छायी हो। उनके श्रीअंगमें मनोहर पीताम्बर और कण्ठमें कौस्तुभमणि सुशोभित थी। अपनी दिव्य प्रभासे वे सब दिशाओंका अन्धकार दूर कर रहे थे॥ ५॥

वीरराघवः

10हरिं विशिनष्टि - सुपर्णस्कन्धमिति सार्धद्वयेन । सुपर्णस्य गरुडस्य स्क11न्धम् आरूढः, तमुपलक्षयति मेरोः शृङ्गम् अम्बुदो नीलमेघ इवेति । पीतं पिशङ्गं वासो वस्त्रं यस्य सः, मणिः कौस्तुभः, ग्रीवायां यस्य सः, दिशः वितिमिराः प्रकाशबहुलाः कुर्वाणः ॥ ७ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

काशिष्णुना कनकवर्णविभूषणेन
भ्राजत्कपोलवदनो विलसत्किरीटः।
अष्टायुधैरनुचरैर्मुनिभिः सुरेन्द्रै-
रासेवितो गरुडकिन्नरगीतकीर्तिः॥

मूलम्

12काशिष्णुना कनकवर्णविभू13षणेन भ्राजत्कपोलवदनो विलसत्किरीटः।
अष्टायु14धैरनुचरैर्मुनिभिः सुरेन्द्रैः आसेवितो गरुडकिन्नरगीतकीर्तिः॥ ६ ॥

अनुवाद (हिन्दी)

चमकीले सुवर्णमय आभूषणोंसे युक्त उनके कमनीय कपोल और मनोहर मुखमण्डलकी अपूर्व शोभा हो रही थी। उनके मस्तकपर झिलमिलाता हुआ मुकुट शोभायमान था। प्रभुकी आठ भुजाओंमें आठ आयुध थे; देवता, मुनि और पार्षदगण सेवामें उपस्थित थे तथा गरुडजी किन्नरोंकी भाँति साममय पंखोंकी ध्वनिसे कीर्तिगान कर रहे थे॥ ६॥

वीरराघवः

15कनकमयशोभनवर्ण विभूषणेन अत 16एव भ्राजिष्णुना प्रकाशस्वभावेन भ्राजमानं कपोलं वदनं, च यस्य सः, किरीटयुक्तः अष्टायुधैः शङ्खचक्रगदापद्मशार्ङ्गशरखमखेटे, पद्मस्य आयुधानन्तर्भूतत्वेऽपि, छत्रिन्यायेन आयुधशब्दः प्रयुक्तः । परशुपाशाङ्कुशाद्यन्यतमो वा अत्र अष्टमो विवक्षितः । 17अष्टायुधैः इत्यनेन अष्टभुज इत्यपि विवक्षितः17 । अनुचरैः पार्षदैः मुनिभिः सुरेन्द्रैः ब्रह्मादिभिश्चासेवितः गरुड एव किन्नरः तस्य वेदात्मक पक्षध्वनिः गरुड किन्नर शब्दविवक्षितः तेन गीता कीर्तिः यस्य सः, यद्वा गरुडाः गरुडजातीयाः किन्नराश्च तैः गीता कीर्तिः यस्य सः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

पीनायताष्टभुजमण्डलमध्यलक्ष्म्या
स्पर्धच्छ्रिया परिवृतो वनमालयाऽऽद्यः।
बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान्
पर्जन्यनादरुतया सघृणावलोकः॥

मूलम्

पीनायताष्टभुजमण्डलमध्यलक्ष्म्या स्पर्धच्छ्रिया परिवृतो वनमाल18याऽऽद्यः।
बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान् पर्जन्यनादरुतया सघृणावलोकः॥ ७ ॥

अनुवाद (हिन्दी)

उनकी आठ लंबी-लंबी स्थूल भुजाओंके बीचमें लक्ष्मीजीसे स्पर्धा करनेवाली वनमाला विराजमान थी। आदिपुरुष श्रीनारायणने इस प्रकार पधारकर अपने शरणागत प्रचेताओंकी ओर दयादृष्टिसे निहारते हुए मेघके समान गम्भीर वाणीमें कहा॥ ७॥

वीरराघवः

पीनाश्च ते आयताश्च अष्टौ भुजाः तेषां, मण्डलं समूहः, तन्मध्ये स्थितया लक्ष्म्या स्पर्धमाना श्रीः शोभा यस्याः तया वनमालया परिवृतः । आद्यः आदौ भवः जगत्कारण भूतः पुरुषः प्रपन्नान् बर्हिष्मतः सुतान् प्रति पर्जन्यनाद इव रुतं नादो यस्याः तया वाचा सघृणः कृपायुक्तोऽवलोको यस्य स आह ॥ ७ ॥

श्लोक-८

मूलम् (वचनम्)

श्री19भगवानुवाच

विश्वास-प्रस्तुतिः

वरं वृणीध्वं भद्रं वो यूयं मे नृपनन्दनाः।
सौहार्देनापृथग्धर्मास्तुष्टोऽहं सौहृदेन वः॥

मूलम्

वरं वृणीध्वं भद्रं वो यूयं मे नृपनन्दनाः।
सौहार्देनापृथग्धर्मास्तुष्टोऽहं सौहृदेन वः॥ ८ ॥

अनुवाद (हिन्दी)

श्रीभगवान‍्ने कहा—राजपुत्रो! तुम्हारा कल्याण हो। तुम सबमें परस्पर बड़ा प्रेम है और स्नेहवश तुम एक ही धर्मका पालन कर रहे हो। तुम्हारे इस आदर्श सौहार्दसे मैं बड़ा प्रसन्न हूँ। मुझसे वर माँगो॥ ८॥

वीरराघवः

हे नृपनन्दनाः ! यूयं मे मत्तः वरं वृणीध्वं । वः भद्रमस्तु, परस्परसौहृदेन अपृथक्-धर्माः तुल्यधर्माणः यूयं वः युष्माकं सौहृदेनाऽहं तुष्टः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

योऽनुस्मरति सन्ध्यायां युष्माननुदिनं नरः।
तस्य भ्रातृष्वात्मसाम्यं तथा भूतेषु सौहृदम्॥

मूलम्

योऽनुस्मरति 20शय्यायां युष्माननुदिनं नरः।
तस्य भ्रातृष्वात्मसाम्यं तथाभूतेषु सौहृदम्॥ ९ ॥

अनुवाद (हिन्दी)

जो पुरुष सायंकालके समय प्रतिदिन तुम्हारा स्मरण करेगा, उसका अपने भाइयोंमें अपने ही समान प्रेम होगा तथा समस्त जीवोंके प्रति मित्रताका भाव हो जायगा॥ ९॥

वीरराघवः

यो नराः अनुदिनं सायं प्रातः 21शय्यायां युष्मान् अनुस्मरति । तस्य नरस्य भ्रातृषु आत्मसाम्यं आत्मना तुल्यं स्वात्मनीव प्रीतिः तथा भूतेषु सौहृदञ्च भविष्यति ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

ये तु मां रुद्रगीतेन सायं प्रातः समाहिताः।
स्तुवन्त्यहं कामवरान्दास्ये प्रज्ञां च शोभनाम्॥

मूलम्

ये 22तु मां रुद्रगीतेन सायं प्रातः समाहिताः।
स्तुवन्त्यहं कामवरान् दास्ये प्रज्ञां च शोभनाम्॥ १० ॥

अनुवाद (हिन्दी)

जो लोग सायंकाल और प्रातःकाल एकाग्रचित्तसे रुद्रगीतद्वारा मेरी स्तुति करेंगे, उनको मैं अभीष्ट वर और शुद्ध बुद्धि प्रदान करूँगा॥ १०॥

वीरराघवः

ये नराः सायं प्रातः समाहितचित्तास्सन्तः रुद्रगीतेन मां स्तुवन्ति तेभ्योऽप्यहं कामवरान्, काम्यन्त इति कामाः । तान् वरान् अभीष्टान् 23वरान् प्रज्ञां च दास्ये, किं पुनर्युष्माकम् ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

यद्यूयं पितुरादेशमग्रहीष्ट मुदान्विताः।
अथो व उशती कीर्तिर्लोकाननु भविष्यति॥

मूलम्

यद्यूयं पितुरादेशमग्रहीष्ट मुदाऽन्विताः।
अथो व उशती कीर्तिः लोकाननुभविष्यति॥ ११ ॥

अनुवाद (हिन्दी)

तुमलोगोंने बड़ी प्रसन्नतासे अपने पिताकी आज्ञा शिरोधार्य की है, इससे तुम्हारी कमनीय कीर्ति समस्त लोकोंमें फैल जायगी॥ ११॥

वीरराघवः

यत् यस्मात् यूयं पितुरादेशमाज्ञां मुदा युक्तास्सन्तोऽग्रहीष्ट गृहीतवन्तः, अतो वः युष्माकं उशती कमनीया कीर्तिः लोकान् अनुभविष्यति प्राप्स्यति लोकेषु विस्तरिष्यतीत्यर्थः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

भविता विश्रुतः पुत्रोऽनवमो ब्रह्मणो गुणैः।
य एतामात्मवीर्येण त्रिलोकीं पूरयिष्यति॥

मूलम्

भविता विश्रुतः पुत्रो24ऽनवमो 25ब्रह्मणो गुणैः।
य एतामात्मवीर्येण त्रिलोकीं पूरयिष्यति॥ १२ ॥

अनुवाद (हिन्दी)

तुम्हारे एक बड़ा ही विख्यात पुत्र होगा। वह गुणोंमें किसी भी प्रकार ब्रह्माजीसे कम नहीं होगा तथा अपनी सन्तानसे तीनों लोकोंको पूर्ण कर देगा॥ १२॥

वीरराघवः

“कण्डोर्मुने दुहितरं यूयमुद्वहत” इति वक्ष्यमाणस्तावत् कण्डुं तत्कन्यां च प्रस्तौति - भवितेति । विश्रुतः विश्रुन्नाम्नः पुत्रः गुणैः, विश्रुतः पितुः, नावमः न न्यूनः । विश्रुता समः भविता भविष्यतीत्यर्थः । यो वै श्रुतः एतां त्रिलोकीमात्मनो वीर्येण सन्तानेन पूरयिष्यति ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

कण्डोः प्रम्लोचया लब्धा कन्या कमललोचना।
तां चापविद्धां जगृहुर्भूरुहा नृपनन्दनाः॥

मूलम्

कण्डोः प्रम्लोचया लब्धा कन्या 26कमललोचना।
तां चापविद्धां जगृहुः भूरु27हा नृपनन्दनाः॥ १३ ॥

अनुवाद (हिन्दी)

राजकुमारो! कण्डु ऋषिके तपोनाशके लिये इन्द्रकी भेजी हुई प्रम्लोचा अप्सरासे एक कमलनयनी कन्या उत्पन्न हुई थी। उसे छोड़कर वह स्वर्गलोकको चली गयी। तब वृक्षोंने उस कन्याको लेकर पाला-पोसा॥ १३॥

वीरराघवः

वैश्रुतस्य कण्डोः सकाशात् प्रम्लोचया तपोनाशार्थमिन्द्रेण प्रेषितया प्रम्लोचाख्यया अप्सरसा स्त्रिया या कन्या अमललोचना लब्धा, तां कन्यां अपविद्धां, पुनस्स्वर्गं प्रति गच्छन्त्या प्रम्लोचया वृक्षेषु त्यक्तां, भूरु28हो वनस्पतयः जगृहुः दुहितर ममन्यन्त हे नृपनन्दनाः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

क्षुत्क्षामाया मुखे राजा सोमः पीयूषवर्षिणीम्।
देशिनीं रोदमानाया निदधे स दयान्वितः॥

मूलम्

क्षुत्क्षामाया मुखे राजा सोमः पीयूषवर्षिणीम्।
देशिनीं रोदमानाया निदधे स दयान्वितः॥ १४ ॥

अनुवाद (हिन्दी)

जब वह भूखसे व्याकुल होकर रोने लगी तब ओषधियोंके राजा चन्द्रमाने दयावश उसके मुँहमें अपनी अमृतवर्षिणी तर्जनी अँगुली दे दी॥ १४॥

वीरराघवः

क्षुधा 29क्षमायाः पीडितायाः 30अतो रोदमानायाः तस्याः कन्यायाः मुखे वनस्पतीनां राजा सोम इति प्रसिद्धः अमृतस्राविणीं देशिनीं तर्जनीम् अ31ङ्गुलीं निदधे निहितवान् । अनेन अप्सरसो गर्भ सम्भवेन अमृताहारेण च तस्या लावण्यं क्लम-स्वेद-दौर्गन्ध्यादि-राहित्यञ्चोक्तम् ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

प्रजाविसर्ग आदिष्टाः पित्रा मामनुवर्तता।
तत्र कन्यां वरारोहां तामुद्वहत माचिरम्॥

मूलम्

प्रजाविसर्ग आदिष्टाः पित्रा मामनुवर्तता।
तत्र कन्यां वरारोहां तामुद्वहत माचिरम्॥ १५ ॥

अनुवाद (हिन्दी)

तुम्हारे पिता आजकल मेरी सेवा (भक्ति)-में लगे हुए हैं; उन्होंने तुम्हें सन्तान उत्पन्न करनेकी आज्ञा दी है। अतः तुम शीघ्र ही उस देवोपम सुन्दरी कन्यासे विवाह कर लो॥ १५॥

वीरराघवः

मामनुवर्तमानेन पित्रा बर्हिष्मता वः युष्मभ्यं प्रजासर्ग आदिष्ट आज्ञापितः, अतस्तत्र प्रजासर्गे यत्तमानाः यूयं तां पातिमाकाङ्क्षन्तीं कन्यां उद्वहत चिरं विलन्बं मा कुरुत ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

अपृथग्धर्मशीलानां सर्वेषां वः सुमध्यमा।
अपृथग्धर्मशीलेयं भूयात्पत्न्यर्पिताशया॥

मूलम्

अपृथग्धर्मशीलानां सर्वेषां वः सुमध्यमा।
अपृथग्धर्मशीलेयं भूया32त्पत्न्यर्पिताशया॥ १६ ॥

अनुवाद (हिन्दी)

तुम सब एक ही धर्ममें तत्पर हो और तुम्हारा स्वभाव भी एक-सा ही है; इसलिये तुम्हारे ही समान धर्म और स्वभाववाली वह सुन्दरी कन्या तुम सभीकी पत्नी होगी तथा तुम सभीमें उसका समान अनुराग होगा॥ १६॥

वीरराघवः

ननु बहूनां कथं एका भार्या स्यात् ? तत्राह - अपृथगिति अपृथक् धर्मः शीलं यस्याः सेयं सुमध्यमा पत्नी भूयात्, धर्मशीलयोः ऐक्यात् मद्वाक्याच्च न दृष्टिविरोध इति भावः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

दिव्यवर्षसहस्राणां सहस्रमहतौजसः।
भौमान् भोक्ष्यथ भोगान् वै दिव्यांश्चानुग्रहान्मम॥

मूलम्

दिव्यवर्षसहस्राणां 33सहस्रमहतौजसः।
भौमान् भोक्ष्यथ भोगान् वै दिव्यांश्चानुग्रहान्मम॥ १७ ॥

अनुवाद (हिन्दी)

तुमलोग मेरी कृपासे दस लाख दिव्य वर्षोंतक पूर्ण बलवान् रहकर अनेकों प्रकारके पार्थिव और दिव्य भोग भोगोगे॥ १७॥

वीरराघवः

दिव्यानां देवमान परिच्छिन्नानां वर्षसहस्राणां साहस्रं कालम् अमितौजसः अमित मोजः इन्द्रियशक्तिर्येषां ते यूयं भौमान् भोगान् भोक्ष्यथ ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

अथ मय्यनपायिन्या भक्त्या पक्वगुणाशयाः।
उपयास्यथ मद्धाम निर्विद्य निरयादतः॥

मूलम्

अथ मय्यनपायिन्या भक्त्या पक्वगुणाशयाः।
34उप35यास्यथ मद्धाम निर्विद्य निरयादतः॥ १८ ॥

अनुवाद (हिन्दी)

अन्तमें मेरी अविचल भक्तिसे हृदयका समस्त वासनारूप मल दग्ध हो जानेपर तुम इस लोक तथा परलोकके नरकतुल्य भोगोंसे उपरत होकर मेरे परमधामको जाओगे॥ १८॥

वीरराघवः

अनन्तरमव्यभिचारिण्या मयि भक्त्या पक्वगुणः दग्ध कामादिमलः आशयोऽन्तःकरणं येषां ते, अते निरयात् संसारानिर्विद्य निर्वेदं लब्ध्वा, पकगुणआश्रया इति पाठे शान्तसत्त्वादिगुणवासनाः मद्धाम मत्स्थानं 36उपयास्यथ प्राप्स्यथ ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम्।
मद्वार्तायातयामानां न बन्धाय गृहा मताः॥

मूलम्

गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम्।
मद्वार्तायातयामानां न बन्धाय गृहा मताः॥ १९ ॥

अनुवाद (हिन्दी)

जिन लोगोंके कर्म भगवदर्पणबुद्धिसे होते हैं और जिनका सारा समय मेरी कथावार्ताओंमें ही बीतता है, वे गृहस्थाश्रममें रहें तो भी घर उनके बन्धनका कारण नहीं होते॥ १९॥

वीरराघवः

ननु भौमभोगासक्तानां नः त्वद्भक्तिः कथं भविष्यति ? तत्राह - गृहेषु आविशतां प्रविष्टानामपि कुशलं अनभिसंहितफलं कर्म येषां मद्वार्ता यातयामानां मत्कथाक्षपित कालानां गृहाः बन्धाय न मताः बन्धका न भव37न्ति ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

नव्यवद्‍धृदये यज्ज्ञो ब्रह्मैतद‍्ब्रह्मवादिभिः।
न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः॥

मूलम्

38नव्यवद्‍धृदये यज्ज्ञो ब्रह्मैतत् ब्रह्मवादिभिः।
न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः॥ २० ॥

अनुवाद (हिन्दी)

वे नित्यप्रति मेरी लीलाएँ सुनते रहते हैं, इसलिये ब्रह्मवादी वक्ताओंके द्वारा मैं ज्ञान-स्वरूप परब्रह्म उनके हृदयमें नित्य नया-नया-सा भासता रहता हूँ और मुझे प्राप्त कर लेनेपर जीवोंको न मोह हो सकता है, न शोक और न हर्ष ही॥ २०॥

वीरराघवः

त्वद्वार्ताश्रोतॄणां गृहैः न बन्ध इति कुतस्तत्राह - नव्यवदिति । यत् यस्मात् यत्कथाश्रवणात् ज्ञः सर्वज्ञोऽह मीश्वरः ब्रह्मवादिभिः प्रवक्तृभिः निमित्तभूतैः श्रोतॄणां हृत् हृदयं नव्यवत् प्रतिपदं नूतनव दये प्राप्नोमि । 39मनस्यभिव्यक्तो भवामि ब्रह्मसाक्षात्कारो भवतीत्यर्थः । ननु त्वत्कथाश्रवणे कथं ब्रह्मसाक्षात्कारः ? तत्राह - योऽहमेतदेव ब्रह्म । तत्र हेतुः - यतो गताः यं मां प्राप्तास्सन्तः मोहशोकहर्षा न्न प्राप्नुवन्ति । अतो मत्कथाश्रवणेन नव्यवत् मम हृद्याविर्भावात्, अस्यैव ब्रह्मसाक्षात्कारत्वात् गृहेषु वसतामपि न बन्ध इत्यर्थः39 । न व्यवच्छिद्यते यज्ञ इति पाठे तु गृहेषु परब्रह्मभूतं मां कथयद्भिः यज्ञो मद्भक्यात्म40क ज्ञान यज्ञो, न व्यवच्छिद्यते विच्छिन्नो न भव41ति । यज्ञं विशिनष्टि - यतो 42ज्ञानयज्ञात्मद्गतिं42 गताः प्राकृतैः मोहादिभिः युक्ता न भव43न्ति ॥ २० ॥

श्लोक-२१

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

एवं ब्रुवाणं पुरुषार्थभाजनं
जनार्दनं प्राञ्जलयः प्रचेतसः।
तद्दर्शनध्वस्ततमोरजोमला
गिरागृणन् गद‍्गदया सुहृत्तमम्॥

मूलम्

एवं ब्रुवाणं पुरुषार्थ44भाजनं जनार्दनं प्राञ्जलयः प्रचेतसः।
तद्दर्शनध्वस्ततमोरजोमला गिराऽगृणन् गद‍्गदया सुहृत्तमम्॥ २१ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—भगवान‍्के दर्शनोंसे प्रचेताओंका रजोगुण-तमोगुण मल नष्ट हो चुका था। जब उनसे सकल पुरुषार्थोंके आश्रय और सबके परम सुहृद् श्रीहरिने इस प्रकार कहा, तब वे हाथ जोड़कर गद‍्गद वाणीसे कहने लगे॥ २१॥

वीरराघवः

45एवं भगवतोक्ता प्रचेतसः तमेव जनार्दनमगृणन्नित्याह मैत्रेयः45 । एवम् उक्तप्रकारेण ब्रुवाणं पुरुषार्थानामाश्रयं सुहृत्तमं जनार्दनं, तस्य जनार्दनस्य दर्शनेन ध्वस्तानि कामक्रोधादीनि रजआदि कार्यरूपाणि मलानि येषां ते, प्राञ्जलयः 46बद्धाञ्जलयो46 गद्गदगिरा अगृणन् तुष्टुवुः ॥ २१ ॥

श्लोक-२२

मूलम् (वचनम्)

प्रचेतस ऊचुः

विश्वास-प्रस्तुतिः

नमो नमः क्लेशविनाशनाय
निरूपितोदारगुणाह्वयाय।
मनोवचोवेगपुरोजवाय
सर्वाक्षमार्गैरगताध्वने नमः॥

मूलम्

नमो नमः क्लेशविनाशनाय निरूपितोदारगुणाह्वयाय।
मनो वचो वेगपुरोजवाय सर्वाक्षमार्गैरगता47ध्वने नमः॥ २२ ॥

अनुवाद (हिन्दी)

प्रचेताओंने कहा—प्रभो! आप भक्तोंके क्लेश दूर करनेवाले हैं, हम आपको नमस्कार करते हैं। वेद आपके उदार गुण और नामोंका निरूपण करते हैं। आपका वेग मन और वाणीके वेगसे भी बढ़कर है तथा आपका स्वरूप सभी इन्द्रियोंकी गतिसे परे है। हम आपको बार-बार नमस्कार करते हैं॥ २२॥

वीरराघवः

आध्यात्मिकादिदुःखानां नाशाय उदारगुणाः यस्याह्वयैः नामभिः निरूपिताः स निरूपितोदारगुणाह्वयः तस्मै, मनोवचसोः वेगादपि पुरोऽग्रतो वेगो यस्य, वाङ्मनसागोचरायेत्यर्थः । सर्वेषामक्षाणामिन्द्रियाणां मार्गाः वृत्तयः तैः, अगतः अविषयीकृतः अध्वा स्वप्राप्त्युपायः यस्य, इन्द्रियद्वारा अगोचरस्वप्राप्त्युपायायेत्यर्थः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

शुद्धाय शान्ताय नमः स्वनिष्ठया
मनस्यपार्थं विलसद्‍द्वयाय।
नमो जगत्स्थानलयोदयेषु
गृहीतमायागुणविग्रहाय॥

मूलम्

शुद्धाय शान्ताय नमः स्वनि48ष्ठ मनस्यपा49र्थे विलसद्‍द्व50याय।
नमो जगत्स्थान लयोदयेषु गृहीतमायागुणविग्रहाय॥ २३ ॥

अनुवाद (हिन्दी)

आप अपने स्वरूपमें स्थित रहनेके कारण नित्य शुद्ध और शान्त हैं, मनरूप निमित्तके कारण हमें आपमें यह मिथ्या द्वैत भास रहा है। वास्तवमें जगत‍्की उत्पत्ति, स्थिति और लयके लिये आप मायाके गुणोंको स्वीकार करके ही ब्रह्मा, विष्णु और महादेवरूप धारण करते हैं। हम आपको नमस्कार करते हैं॥ २३॥

वीरराघवः

शुद्धाय कर्मोपाधिरहिताय, शान्ताय ऊर्मिषट्करहिताय । तत्र हेतुः - स्वनिष्ठया स्वस्मिनिष्ठाऽविच्छेदः अविच्छिन्नस्वानुभूत्या अपार्थे अपगतपुरुषार्थे पुरुषार्थभूतस्वरूपज्ञानरहिते मनसि विलसत् परस्परवैलक्षण्येन स्फुरत् द्वयं देहात्मनोः द्वयं येषां ते विलसद्वयाः, स्वस्वरूपज्ञानविधुरेऽपि मनसि भगवत्प्रसादवशात् देहात्मज्ञानसम्पन्ना इत्यर्थः । तेषां जीवानां आत्मने निरतिशयप्रीतिविषवाय जगतः स्थानलयोदयेषु स्थितिलयोत्पत्तिषु निमित्तभूतासु जगतस्थित्याद्यर्थं गृहीता माया सङ्कल्पात्मकं ज्ञानं “माया वयुनं ज्ञानम्, (वेद.निघण्टुः- ३-९) इति ज्ञानपर्याक्त्वात् मायाशब्दस्य । गुणौ तमोरजसी एव विग्रहौ पृथक्सिद्ध्यनर्हौ यस्य, स्थित्यर्थं स्वेच्छोपात्ताप्राकृतदिव्यमङ्गलविग्रहः लयार्थमुत्पत्त्यर्थन्तु तमोरजः - प्रधानरुद्रब्रह्मविग्रहः तस्मै इत्यर्थः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

नमो विशुद्धसत्त्वाय हरये हरिमेधसे।
वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम्॥

मूलम्

नमो विशुद्धसत्त्वाय हरये हरिमेधसे।
वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम्॥ २४ ॥

अनुवाद (हिन्दी)

आप विशुद्ध सत्त्वस्वरूप हैं, आपका ज्ञान संसारबन्धनको दूर कर देता है। आप ही समस्त भागवतोंके प्रभु वसुदेवनन्दन भगवान् श्रीकृष्ण हैं, आपको नमस्कार है॥ २४॥

वीरराघवः

स्थित्य45र्थं विष्णुतनोः प्राकृतत्वशङ्कापरिहाराय प्राहुः - विशुद्धसत्त्वायेति हरये बन्धहारिणे हरिमेधसे दुरितहारिमनीषाविषयाय सर्वभूतान्तरात्मने आनन्दकराय सात्वतां भक्तानां प्रभवे ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

नमः कमलनाभाय नमः कमलमालिने।
नमः कमलपादाय नमस्ते कमलेक्षण॥

मूलम्

नमः कमलनाभाय नमः कमलमालिने।
नमः कमल51पादाय नमस्ते कम52लेक्षण॥ २५ ॥

अनुवाद (हिन्दी)

आपकी ही नाभिसे ब्रह्माण्डरूप कमल प्रकट हुआ था, आपके कण्ठमें कमलकुसुमोंकी माला सुशोभित है तथा आपके चरण कमलके समान कोमल हैं; कमलनयन! आपको नमस्कार है॥ २५॥

वीरराघवः

कमलं जगदुत्पत्तिस्थानात्मकं नाभौ यस्य, कमलमालाऽस्यास्तीति तस्मै व्रीह्मादित्वात् मत्वर्थीयः इनिः । “46अत इनिठनौ, (अष्टा. 5-2-115) इति तपरकरणात्46 । कमलवत्पादौ कोमलौ सुगन्धी सुन्दरौ च यस्य, कमलदलवत् विशाले अक्षिणी यस्य तस्मै ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

नमः कमलकिञ्जल्कपिशङ्गामलवाससे।
सर्वभूतनिवासाय नमोऽयुङ्क्ष्महि साक्षिणे॥

मूलम्

नमः कमलकिञ्जल्क पिशङ्गामलवाससे।
सर्वभूतनिवासाय नमोऽयुङ्क्ष्महि साक्षिणे॥ २६ ॥

अनुवाद (हिन्दी)

आप कमलकुसुमकी केसरके समान स्वच्छ पीताम्बर धारण किये हुए हैं, समस्त भूतोंके आश्रयस्थान हैं तथा सबके साक्षी हैं; हम आपको नमस्कार करते हैं॥ २६॥

वीरराघवः

कमलकिञ्जल्कवत् पिशङ्गम् अमलञ्च वासो वस्त्रं यस्य, सर्वभूतानां निवासाय आधाराय सर्वाणि भूतानि निवासः वासस्थानं शरीरं यस्येति वा । यद्यपीदं विशेषणद्वयं वासुदेवाय इत्यनेनैव 53गतं तथाऽपि तद्विवरणरूपमिदं व्याख्येयम् साक्षिणे सर्वसाक्षाद्दष्ट्रे तुभ्यं नमः 54अयुङ्क्ष्महि करवाम ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

रूपं भगवता त्वेतदशेषक्लेशसंक्षयम्।
आविष्कृतं नः क्लिष्टानां किमन्यदनुकम्पितम्॥

मूलम्

रूपं भगवता त्वेतदशेषक्लेशसंक्षयम्।
आविष्कृतं नः क्लिष्टानां किमन्यदनु55कम्पितम्॥ २७ ॥

अनुवाद (हिन्दी)

भगवन्! आपका यह स्वरूप सम्पूर्ण क्लेशोंकी निवृत्ति करनेवाला है; हम अविद्या, अस्मिता, राग-द्वेषादि क्लेशोंसे पीड़ितोंके सामने आपने इसे प्रकट किया है। इससे बढ़कर हमपर और क्या कृपा होगी॥ २७॥

वीरराघवः

भगवद्दर्शनेनैव आत्मनामवाप्तसमस्तपुरुषार्थतामाहुः - आविष्कृतमिति । अशेषाणां क्लेशानां संक्षयो यस्मात्, तदेतद्रूपं भवता तापत्रयातुराणामस्माकमाविष्कृतं प्रकटीकृतम् । इतोऽन्यत् किम् अनुकम्पनमस्ति ? इयमेव त्वया कर्तव्याऽनुकम्पेत्यर्थः । अतो नाऽस्माभिः वरणीयोऽसीति भावः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

एतावत्त्वं हि विभुभिर्भाव्यं दीनेषु वत्सलैः।
यदनुस्मर्यते काले स्वबुद्‍ध्याभद्ररन्धन॥

मूलम्

एता56वत्त्वं हि विभुभिः भाव्यं दीनेषु वत्सलैः।
यदनुस्मर्यते काले स्वबुद्‍ध्याऽभद्ररन्धन॥ २८ ॥

अनुवाद (हिन्दी)

अमंगलहारी प्रभो! दीनोंपर दया करनेवाले समर्थ पुरुषोंको इतनी ही कृपा करनी चाहिये कि समय-समयपर उन दीनजनोंको ‘ये हमारे हैं’ इस प्रकार स्मरण कर लिया करें॥ २८॥

वीरराघवः

हे अमङ्गलनिरासक ! वत्सलैः प्रभुभिः दीनेषु भाव्यं कर्तव्यम्, एतावदेव । किं तत् ? तदाह अस्मदीया एत इतिबुद्ध्या उचितकालेऽनुस्मर्यत इति यत्त्वया तु रूपमपि दर्शितमिति भावः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

येनोपशान्तिर्भूतानां क्षुल्लकानामपीहताम्।
अन्तर्हितोऽन्तर्हृदये कस्मान्नो वेद नाशिषः॥

मूलम्

येनोपशान्तिर्भूतानां क्षुल्लकानामपी57हताम्।
अन्तर्हितोऽन्तर्हृदये कस्मान्नोवेद 58नाशिषः॥ २९ ॥

अनुवाद (हिन्दी)

इसीसे उनके आश्रितोंका चित्त शान्त हो जाता है। आप तो क्षुद्र-से-क्षुद्र प्राणियोंके भी अन्तःकरणोंमें अन्तर्यामीरूपसे विराजमान रहते हैं। फिर आपके उपासक हमलोग जो-जो कामनाएँ करते हैं, हमारी उन कामनाओंको आप क्यों न जान लेंगे॥ २९॥

वीरराघवः

येनाऽनुस्मरणेन क्षुल्लकानां क्षुद्राणां उपशान्तिः दुरितोपशान्तिः भवति । किञ्च ईहतां कामयमानानां नोऽस्माकं अन्तः हृदये अन्तरात्मत्वेन स्थितो भवा नाशिषः कामान् कस्माद्धेतोः न वेद जानात्येवेत्यर्थः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

असावेव वरोऽस्माकमीप्सितो जगतः पते।
प्रसन्नो भगवान् येषामपवर्गगुरुर्गतिः॥

मूलम्

असावेव वरोऽस्माकमीप्सितो जग59तः पते।
प्रसन्नो भगवान् 60येषां अपवर्गगुरुर्गतिः॥ ३० ॥

अनुवाद (हिन्दी)

जगदीश्वर! आप मोक्षका मार्ग दिखानेवाले और स्वयं पुरुषार्थस्वरूप हैं। आप हमपर प्रसन्न हैं, इससे बढ़कर हमें और क्या चाहिये। बस, हमारा अभीष्ट वर तो आपकी प्रसन्नता ही है॥ ३०॥

वीरराघवः

तथाऽपि वक्तव्यं चेत् तर्हि येषामस्माकं भगवान् प्रसन्नः असावेव वरः कुतः यतस्त्वम् अपवर्गगुरुः मुक्तिसाधनोपदेष्टा गतिरपवर्गसाधनभूतश्च ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

वरं वृणीमहेऽथापि नाथ त्वत्परतः परात्।
न ह्यन्तस्त्वद्विभूतीनां सोऽनन्त इति गीयसे॥

मूलम्

वरं वृणीमहेऽथापि नाथ त्वत्परतः परात्।
न ह्य61न्तस्त्वद्विभूतीनां 62योऽनन्त इति गीयसे63॥ ३१ ॥

अनुवाद (हिन्दी)

तथापि, नाथ! हम एक वर आपसे अवश्य माँगते हैं। प्रभो! आप प्रकृति आदिसे परे हैं और आपकी विभूतियोंका भी कोई अन्त नहीं है; इसलिये आप ‘अनन्त’ कहे जाते हैं॥ ३१॥

वीरराघवः

यद्यप्येवम्, अथाऽपि हे नाथ ! परतो देहविलक्षणात्मनः पराद्विलक्षणात् 64त्वत् त्वत्तः प्रकृतिपुरुषविलक्षणात् त्वत्त इत्यर्थः । वरं वृणीमहे । कं वरं 65वृणुतेति विवित्सायां त्वदीयानन्तगुणगणानुकथनमनुश्रवण परायणानां भागवतानां सङ्गमिति वक्तुं तावदनन्तत्व 66माहुः । यद्यस्मात् त्वत् विभूतीना मन्तो न ह्यस्ति अतस्त्वम् अनन्त इति गीयसे ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

पारिजातेऽञ्जसा लब्धे सारङ्गोऽन्यन्न सेवते।
त्वदङ्घ्रिमूलमासाद्य साक्षात्किं किं वृणीमहि॥

मूलम्

पारिजातेऽञ्जसा लब्धे67 सारङ्गोऽ68न्यन्न सेवते।
त्वदङ्घ्रिमूलमासाद्य साक्षात्किं किं वृणीमहे69॥ ३२ ॥

अनुवाद (हिन्दी)

यदि भ्रमरको अनायास ही कल्पवृक्ष मिल जाय, तो क्या वह किसी दूसरे वृक्षका सेवन करेगा? तब आपकी चरणशरणमें आकर अब हम क्या-क्या माँगें॥ ३२॥

वीरराघवः

भागवतसङ्कलभ्यत्वद्गुणानुभवमन्तरेणाऽन्यं न वृणीमह इत्याहुः । पारिजाते मकरन्दनिर्भरे लब्धे सति सारङ्गो भृङ्गोऽन्यन्न सेवते, एवं त्वदङ्घ्रिमूलं निरतिशयसुखावहमासाद्य किं किं वृणीमहे न किमपीत्यर्थः ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभिः।
तावद‍्भवत्प्रसङ्गानां सङ्गः स्यान्नो भवे भवे॥

मूलम्

यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभिः।
तावद‍्भवत्प्रसङ्गानां सङ्गः स्यान्नो भवे भवे॥ ३३ ॥

अनुवाद (हिन्दी)

हम आपसे केवल यही माँगते हैं कि जबतक आपकी मायासे मोहित होकर हम अपने कर्मानुसार संसारमें भ्रमते रहें, तबतक जन्म-जन्ममें हमें आपके प्रेमी भक्तोंका संग प्राप्त होता रहे॥ ३३॥

वीरराघवः

एतावदेव प्रार्थयाम इत्याहुः । ते तव मायया स्पृष्टा मोहितास्सन्तो वयं स्वकर्मभिः इह संसारे यावद्भभ्रमामस्तावत् भवतः प्रसङ्गो येषां तेषां भागवतानां सङ्गः प्रतिजन्म नोऽस्माकं स्यादित्येष एव वरोऽस्माभिर्वरणीयः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

तुलयाम लवेनापि न स्वर्गं नापुनर्भवम्।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः॥

मूलम्

तुलयाम लवेनाऽपि न स्वर्गं नाऽपुनर्भवम्।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः॥ ३४ ॥

अनुवाद (हिन्दी)

हम तो भगवद‍्भक्तोंके क्षणभरके संगके सामने स्वर्ग और मोक्षको भी कुछ नहीं समझते; फिर मानवी भोगोंकी तो बात ही क्या है॥ ३४॥

वीरराघवः

ननु राज्यभोगस्वर्गान् हित्वा किमिदं प्रार्थ्यते तत्राहुः - तुलयामेति । भगवत्सङ्गिनां सङ्गस्य लवेनाऽपि स्वर्गादिकं न तुलयाम न तुल्यं मन्यामहे, किमुत मर्त्यानां मरणशीलानां आशिषः राज्यभोगादिरूपाः तुलयाम इत्यर्थः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

यत्रेड्यन्ते कथा मृष्टास्तृष्णायाः प्रशमो यतः।
निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन॥

मूलम्

यत्रेड्यन्ते कथा मृष्टास्तृष्णायाः प्रशमो यतः।
निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन॥ ३५ ॥

अनुवाद (हिन्दी)

भगवद‍्भक्तोंके समाजमें सदा-सर्वदा भगवान‍्की मधुर-मधुर कथाएँ होती रहती हैं, जिनके श्रवणमात्रसे भोगतृष्णा शान्त हो जाती है। वहाँ प्राणियोंमें किसी प्रकारका वैर-विरोध या उद्वेग नहीं रहता॥ ३५॥

वीरराघवः

सत्सङ्गस्य श्रैष्ठ्यं प्रपञ्चयति - यत्रेति त्रिभिः । यत्र भागवतेषु मृष्टाः कर्तरि क्तः, पापशोधिका मधुरा वा कथाः भगवत्कथा ईड्यन्ते प्रस्तूयन्ते यतः याभ्यः कथाभ्यः श्रूयमाणाभ्यः तृष्णाया विषयबुभुक्षायाः 70प्रशमः प्रशान्तिः यत्र सत्सङ्गे सति 71भूतेषु निर्वैरं वैराभावः, यत्र सत्सङ्गे सति71 कश्चन उद्वेगः भयं च नास्ति ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

यत्र नारायणः साक्षाद‍्भगवान्न्यासिनां गतिः।
संस्तूयते सत्कथासु मुक्तसङ्गैः पुनः पुनः॥

मूलम्

यत्र नारायणः साक्षाद‍् 72भगवान् न्यासिनां गतिः72
73प्रस्तूयते सत्कथासु मुक्तसङ्गैः पुनः पुनः॥ ३६ ॥

अनुवाद (हिन्दी)

अच्छे-अच्छे कथा-प्रसंगोंद्वारा निष्कामभावसे संन्यासियोंके एकमात्र आश्रय साक्षात् श्रीनारायणदेवका बार-बार गुणगान होता रहता है॥ ३६॥

वीरराघवः

यत्र सत्कथासु मुक्तसङ्गैः सद्भिः पुनः पुनः भगवान्नारायण एवं न्यासिनां सन्यासिनां गति रिष्टोपायः प्रस्तूयते ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

तेषां विचरतां पद‍्भ्यां तीर्थानां पावनेच्छया।
भीतस्य किं न रोचेत तावकानां समागमः॥

मूलम्

तेषां विचरतां पद‍्भ्यां तीर्थानां पावनेच्छया।
भीतस्य किं न रोचेत तावकानां समागमः॥ ३७ ॥

अनुवाद (हिन्दी)

आपके वे भक्तजन तीर्थोंको पवित्र करनेके उद्देश्यसे पृथ्वीपर पैदल ही विचरते रहते हैं। भला, उनका समागम संसारसे भयभीत हुए पुरुषोंको कैसे रुचिकर न होगा॥ ३७॥

वीरराघवः

तेषां सतां तीर्थानां गङ्गादीनां पावनेच्छया गङ्गादीन् पवित्रीकर्तुमिच्छया पद्भ्यां चरतां तावकानां त्वद्भक्तानां समागमः सङ्गमः संसाराद्भीतस्य किं न रोचेत रोचेतैवेत्यर्थः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

वयं तु साक्षाद‍्भगवन् भवस्य
प्रियस्य सख्युः क्षणसङ्गमेन।
सुदुश्चिकित्स्यस्य भवस्य मृत्यो-
र्भिषक्तमं त्वाद्य गतिं गताः स्मः॥

मूलम्

वयं तु साक्षाद‍् 74भगवन् भवस्य 75प्रियस्य सख्युः क्षणसङ्गमेन।
सुदुश्चिकि76त्स्यस्य भवस्य मृत्योर्भिषक्तमं त्वाद्य गतिं गतास्स्मः77॥ ३८ ॥

अनुवाद (हिन्दी)

भगवन्! आपके प्रिय सखा भगवान् शंकरके क्षणभरके समागमसे ही आज हमें आपका साक्षात् दर्शन प्राप्त हुआ है। आप जन्म-मरणरूप दुःसाध्य रोगके श्रेष्ठतम वैद्य हैं, अतः अब हमने आपका ही आश्रय लिया है॥ ३८॥

वीरराघवः

सत्सङ्गस्य फलमस्माभिरेव अनुभूतमित्याहुः - वयन्त्विति । हे भगवन् ! त्वत्प्रियस्य त्वत्सखस्य भवरूपमृत्युचिकित्सकस्य भवस्य रुद्रस्य क्षणमात्रसङ्गमेन भिषक्तमं संसृतिरूपरोगनिवारकं त्वां गतिं शरणं गताः प्राप्तास्स्मः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

यन्नः स्वधीतं गुरवः प्रसादिता
विप्राश्च वृद्धाश्च सदानुवृत्त्या।
आर्या नताः सुहृदो भ्रातरश्च
सर्वाणि भूतान्यनसूययैव॥

मूलम्

यन्नः स्वधीतं गुरवः प्रसादिता विप्राश्च 78वृद्धाश्च सदानुवृत्त्या।
आर्या 79नतास्सुहृदो भ्रातरश्च 80सर्वाणि भूतान्य80नसूययैव॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

यन्नः सुतप्तं तप एतदीश
निरन्धसां कालमदभ्रमप्सु।
सर्वं तदेतत्पुरुषस्य भूम्नो
वृणीमहे ते परितोषणाय॥

मूलम्

यन्नः सुतप्तं तप एतदीश निरन्धसां कालमदभ्रमप्सु।
सर्वं तदेतत् पुरुषस्य भूम्नो वृणीमहे ते परितोषणाय॥ ४० ॥

अनुवाद (हिन्दी)

प्रभो! हमने समाहित चित्तसे जो कुछ अध्ययन किया है, निरन्तर सेवा-शुश्रूषा करके गुरु, ब्राह्मण और वृद्धजनोंको प्रसन्न किया है तथा दोषबुद्धि त्यागकर श्रेष्ठ पुरुष, सुहृद‍्गण, बन्धुवर्ग एवं समस्त प्राणियोंकी वन्दना की है और अन्नादिको त्यागकर दीर्घकालतक जलमें खड़े रहकर तपस्या की है, वह सब आप सर्वव्यापक पुरुषोत्तमके सन्तोषका कारण हो—यही वर माँगते हैं॥ ३९-४०॥

वीरराघवः

एवं सत्सङ्गं वृत्वा वरान्तरं वृणुते - यन्न इति द्वाभ्याम् । 81यदस्मदीय मध्ययनादिकं तदेतत्सर्वं सर्वान्तरात्मनः परमपुरुषस्य तव परितोषणाय वृणीमहे त्वत् परितोषणाय भवत्वित्यन्वयः81 । नोऽस्माभिः प्रसादिताः प्रसादं प्रापिताः सन्ततम् अनुवृत्त्या गुरवो वृद्धा विप्राश्च प्रसादिताः 82प्रसादं प्रापिताः82 आर्यागुर्वादयो नता नमस्कृताः तथा सुहृदादयः अनसूययैव प्रसादिताः निरन्धसां निरन्नानां नोऽ83स्माकमदभ्रं बहुकालमप्सु जलेषु यत्सुतप्तं तपः एतदध्ययनगुर्वादिप्रसादन नमस्कारतपादिकम् ॥ ३९-४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

मनुः स्वयम्भूर्भगवान् भवश्च
येऽन्ये तपोज्ञानविशुद्धसत्त्वाः।
अदृष्टपारा अपि यन्महिम्नः
स्तुवन्त्यथो त्वाऽऽत्मसमं गृणीमः॥

मूलम्

मनुस्स्वयम्भूर्भगवान् भवश्च येऽन्ये तपोज्ञानविशुद्धसत्त्वाः।
अदृष्टपारा अपि यन्महिम्नः स्तुवन्त्य84थो त्वाऽऽत्मसमं गृणीमः॥ ४१ ॥

अनुवाद (हिन्दी)

स्वामिन्! आपकी महिमाका पार न पाकर भी स्वायम्भुव मनु, स्वयं ब्रह्माजी, भगवान् शंकर तथा तप और ज्ञानसे शुद्धचित्त हुए अन्य पुरुष निरन्तर आपकी स्तुति करते रहते हैं। अतः हम भी अपनी बुद्धिके अनुसार आपका यशोगान करते हैं॥ ४१॥

वीरराघवः

अजानतामप्यस्माकं त्वत्स्तुतिर्नाऽयुक्ता इत्याहुः । मन्वादयः तत्र भवोरुद्रः तथा ये तपोज्ञानाभ्यां कर्मयोग - ज्ञानयोगाभ्यां विशुद्धं सत्त्वमन्तःकरणं येषां ते तव महिम्नोऽदृष्टं पारं यैस्ते तथाभूता अपि त्वाम् आत्मसमं स्वमत्यनुरूपं यथा तथा स्तुवन्ति 85अथो अतः वयमपि गृणीमः86 ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

नमः समाय शुद्धाय पुरुषाय पराय च।
वासुदेवाय सत्त्वाय तुभ्यं भगवते नमः॥

मूलम्

नमः समाय शुद्धाय पुरुषाय पराय च।
वासुदेवाय सत्त्वाय तुभ्यं भगवते नमः॥ ४२ ॥

अनुवाद (हिन्दी)

आप सर्वत्र समान शुद्ध स्वरूप और परम पुुरुष हैं। आप सत्त्वमूर्ति भगवान् वासुदेवको हम नमस्कार करते हैं॥ ४२॥

वीरराघवः

एवमात्मनां स्तुत्यर्हतामाविष्कृत्य स्तुवन्तो नमस्कुर्वन्ति । समाय सर्वभूतसमाय वैषम्यरहितायेत्यर्थः । तत्र हेतुः शुद्धा87य अपापविद्धाय, पापहेतुकं हि वैषम्यं, परमपुरुषाय शुद्धसत्त्वमूर्तये वासुदेवाय नमः ॥ ४२ ॥

श्लोक-४३

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

इति प्रचेतोभिरभिष्टुतो हरिः
प्रीतस्तथेत्याह शरण्यवत्सलः।
अनिच्छतां यानमतृप्तचक्षुषां
ययौ स्वधामानपवर्गवीर्यः॥

मूलम्

इति प्रचेतोभिरभिष्टुतो हरिः प्रीतस्तथेत्याह शरण्यवत्सलः।
अनिच्छतां यानमतृप्तचक्षुषां ययौ स्वधामानपवर्ग88वीर्यः॥ ४३ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! प्रचेताओंके इस प्रकार स्तुति करनेपर शरणागतवत्सल श्रीभगवान‍्ने प्रसन्न होकर कहा—‘तथास्तु’। अप्रतिहतप्रभाव श्रीहरिकी मधुर मूर्तिके दर्शनोंसे अभी प्रचेताओंके नेत्र तृप्त नहीं हुए थे, इसलिये वे उन्हें जाने देना नहीं चाहते थे; तथापि वे अपने परमधामको चले गये॥ ४३॥

वीरराघवः

एवं प्रचेतोभिः अभिष्टुतो भगवान् प्रीतः तत्स्तुत्या तथेत्याह, युष्मद्वरणानुसारेण युष्पदिष्टसिद्धिः अस्त्वित्याह, स्वलावण्यानुभवेन अतृप्तानि चक्षूंषि येषां तेषाम्, अत एव स्वयानमनिच्छतां प्रचेतसाम् अनपवर्गवीर्यः अपारपराक्रमो भगवान् शरण्य वत्सलः 89स्वलोकं प्रति ययौ ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

अथ निर्याय सलिलात्प्रचेतस उदन्वतः।
वीक्ष्याकुप्यन्द्रुमैश्छन्नां गां गां रोद्‍धुमिवोच्छ्रितैः॥

मूलम्

अथ निर्याय सलिलात् प्रचेतस उदन्वतः।
वीक्ष्याकुप्यन् द्रुमैश्छन्नां 90गां गां रोद्‍धुमिवोच्छ्रितैः90॥ ४४ ॥

अनुवाद (हिन्दी)

इसके पश्चात् प्रचेताओंने समुद्रके जलसे बाहर निकलकर देखा कि सारी पृथ्वीको ऊँचे-ऊँचे वृक्षोंने ढक दिया है, जो मानो स्वर्गका मार्ग रोकनेके लिये ही इतने बढ़ गये थे। यह देखकर वे वृक्षोंपर बड़े कुपित हुए॥ ४४॥

वीरराघवः

अथ प्रचेतस उदन्वतः समुद्रस्य जलान्निर्गत्य गां स्वर्गं रोद्धुमिव उच्छ्रितैः उन्नतैः द्रुमैः गां महीं छन्नां वीक्ष्य द्रुमेभ्योऽकुप्यन् । तदा हि प्राचीनबर्हिषः प्रव्रजितत्वात् अराजके कृष्याद्यभावात् भूमिः द्रुमैः 91प्रच्छन्नाऽभूत् ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

ततोऽग्निमारुतौ राजन्नमुञ्चन्मुखतो रुषा।
महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये॥

मूलम्

ततोऽग्निमारुतौ राजन् अमुञ्चन् मुखतो रुषा।
महीं निर्वीरुधं कर्तुं 92संवर्तक इवा93त्यये॥ ४५ ॥

अनुवाद (हिन्दी)

तब उन्होंने पृथ्वीको वृक्ष, लता आदिसे रहित कर देनेके लिये अपने मुखसे प्रचण्ड वायु और अग्निको छोड़ा, जैसे कालाग्निरुद्र प्रलयकालमें छोड़ते हैं॥ ४५॥

वीरराघवः

94महीं निरस्ता वीरुधः यस्याः तथाभूतां कर्तुं संवर्तके कल्पान्ते 95अप्यये नाशे उपस्थिते सति यथा, तथा हे राजन् ! रुषास्वमुखेभ्य अग्निवाय् अमुञ्चन् ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

भस्मसात्क्रियमाणांस्तान्द्रुमान् वीक्ष्य पितामहः।
आगतः शमयामास पुत्रान् बर्हिष्मतो नयैः॥

मूलम्

भस्मसात् क्रियमाणांस्तान् द्रुमान् वीक्ष्य पितामहः।
आग96तश्शमयामास पुत्रान् बर्हिष्मतो नयैः॥ ४६ ॥

अनुवाद (हिन्दी)

जब ब्रह्माजीने देखा कि वे सारे वृक्षोंको भस्म कर रहे हैं, तब वे वहाँ आये और प्राचीनबर्हिके पुत्रोंको उन्होंने युक्तिपूर्वक समझाकर शान्त किया॥ ४६॥

वीरराघवः

ताभ्यां द्रुमान् भस्मराशीक्रियमाणान् तान् प्रचेतस श्च वीक्ष्य चतुर्मुखः आगत्य नयैः युक्तिभिः बर्हिष्मतः सुतान् शमयामास शान्तानकरोत् ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा।
उज्जह्रुस्ते प्रचेतोभ्य उपदिष्टाः स्वयम्भुवा॥

मूलम्

तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा।
97आजह्रुस्ते प्रचेतोभ्यः उपदिष्टास्स्वयम्भुवा॥ ४७ ॥

अनुवाद (हिन्दी)

फिर जो कुछ वृक्ष वहाँ बचे थे, उन्होंने डरकर ब्रह्माजीके कहनेसे वह कन्या लाकर प्रचेताओंको दी॥ ४७॥

वीरराघवः

तत्र तेषु शान्तेषु सत्सु अवशिष्टा ये वृक्षाः वृक्षाभिमानिदेवताः भीतास्सन्तः स्वयम्भुवोपदिष्टाः दुहितरं प्रचेतोभ्यः उपजह्रु समर्पयामासुः ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

ते च ब्रह्मण आदेशान्मारिषामुपयेमिरे।
यस्यां महदवज्ञानादजन्यजनयोनिजः॥

मूलम्

ते च ब्रह्मण आदेशान्मारिषामुपयेमिरे।
यस्यां महदवज्ञानादजन्यजनयोनिजः॥ ४८ ॥

अनुवाद (हिन्दी)

प्रचेताओंने भी ब्रह्माजीके आदेशसे उस मारिषा नामकी कन्यासे विवाह कर लिया। इसीके गर्भसे ब्रह्माजीके पुत्र दक्षने, श्रीमहादेवजीकी अवज्ञाके कारण अपना पूर्वशरीर त्यागकर जन्म लिया॥ ४८॥

वीरराघवः

ते च प्रचेतसः ब्रह्मण आज्ञयामारिषाख्यां स्त्रियमुपयेमिरे यस्यां मारिषाया मजनयोनिजः अजनो ब्रह्मा स एव योनिः तस्माज्जातो 98दक्षः महदवज्ञानात् रुद्रावहेलना द्धेतोः अजन्युत्पादितः प्रचेतोभिरिति शेषः ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते।
यः ससर्ज प्रजा इष्टाः स दक्षो दैवचोदितः॥

मूलम्

चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालवि99द्रुते।
यस्ससर्ज प्रजा 100इष्टाः स दक्षो दैवचोदितः॥ ४९ ॥

अनुवाद (हिन्दी)

इन्हीं दक्षने चाक्षुष मन्वन्तर आनेपर, जब कालक्रमसे पूर्वसर्ग नष्ट हो गया, भगवान‍्की प्रेरणासे इच्छानुसार नवीन प्रजा उत्पन्न की॥ ४९॥

वीरराघवः

कोऽसा वजनयोनिजः यो मारिषायां जातस्तत्राह - चाक्षुषे मन्वन्तरे प्राप्ते पूर्वमन्वन्तरसर्गे कालेन विद्रुते उपसंहृते सति दैवेनेश्वरेण चोदितस्सन् इष्टाः प्रजाः यः ससर्ज सृष्टवान् 101सः नाम्ना दक्षः ॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

यो जायमानः सर्वेषां तेजस्तेजस्विनां रुचा।
स्वयोपादत्त दाक्ष्याच्च कर्मणां दक्षमब्रुवन्॥

मूलम्

यो 102जायमानस्सर्वेषां तेजस्तेजस्विनां रुचा।
स्व103योपादत्त दाक्ष्याच्च कर्म104णा दक्षमब्रुवन्॥ ५० ॥

अनुवाद (हिन्दी)

इन्होंने जन्म लेते ही अपनी कान्तिसे समस्त तेजस्वियोंका तेज छीन लिया। ये कर्म करनेमें बड़े दक्ष (कुशल) थे, इसीसे इनका नाम ‘दक्ष’ हुआ॥ ५०॥

वीरराघवः

तस्मिन् दक्षशब्दस्य प्रवृत्तिनिमित्तमाह - इति । यो जायमानः स्वया रुचा प्रभया सर्वेषां तेजस्विनां 105तेजोयुक्तानां105 तेज उपादत्त आच्छादितवान्, तस्मात् दाक्ष्यात् परतेजः प्रच्छादनसमर्थत्वात्, कर्मणा च निमित्तेन कर्मणि दक्षत्वाच्च 106दक्ष इत्यब्रवुन् लोका इति शेषः ॥ ५० ॥

श्लोक-५१

विश्वास-प्रस्तुतिः

तं प्रजासर्गरक्षायामनादिरभिषिच्य च।
युयोज युयुजेऽन्यांश्च स वै सर्वप्रजापतीन्॥

मूलम्

तं प्रजासर्गरक्षायामना107दिर्भरतर्षभ।
युयोज 108युयुजेऽन्यांश्च 109स वै सर्वप्रजापतीन्॥ ५१ ॥

अनुवाद (हिन्दी)

इन्हें ब्रह्माजीने प्रजापतियोंके नायकके पदपर अभिषिक्त कर सृष्टिकी रक्षाके लिये नियुक्त किया और इन्होंने मरीचि आदि दूसरे प्रजापतियोंको अपने-अपने कार्यमें नियुक्त किया॥ ५१॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे त्रिंशोऽध्यायः॥ ३०॥

Misc Detail

ॐ नमो भगवते वासुदेवाय

वीरराघवः

यं च कर्मदाक्ष्यात् दक्षमब्रुवन् तमनादिर्भगवान् ब्रह्मा प्रजानां सर्गे रक्षायां च युयोज आदिदेश । स दक्षोऽन्यान् मरीच्यादीन् प्रजापतींस्तद्व्यापारेषु नियुक्तवान् ॥ ५१ ॥

इति श्रीमद्भागवते चतुर्थस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां त्रिंशोऽध्यायः ॥ ३० ॥


  1. A,B,T वाऽवान्तरे ↩︎

  2. A,B,J omit किं ↩︎

  3. M,Ma किं चेह नार्हन्त्यपरत्र वा सुखं; Ms किं वेह नार्हन्त्यपरत्र वा सुखं ↩︎

  4. V वा फलं ↩︎

  5. Ms मदभ्र ↩︎

  6. V नि ↩︎

  7. M,Ma,Ms दिव्य ↩︎

  8. Ms स्राणां ↩︎

  9. W न्तं ↩︎

  10. A,B,T पुरुषं ↩︎

  11. A,B,T न्धे ↩︎

  12. M,Ma,Ms कासि; W भ्राजि ↩︎

  13. J षितेन ↩︎

  14. M,Ma धैः करवरै ↩︎

  15. A,B,T add पुनः कीदृशः ? काशिष्णुनेति । ↩︎

  16. A,B,T add काशिष्णुना ↩︎

  17. W omits ↩︎ ↩︎

  18. M,Ma या यः ↩︎

  19. Ms वैकुण्ठः ↩︎

  20. A,B,G,I,J,M,Ma,Ms,T सन्ध्यायां ↩︎

  21. A,T सन्ध्यायां ↩︎

  22. V च ↩︎

  23. A,B,T omit वरान् ↩︎

  24. W नावमो ↩︎

  25. W विश्रुतो ↩︎

  26. W याऽमल ↩︎

  27. W हो ↩︎

  28. A,B,T हाः ↩︎

  29. W omits क्षामायाः ↩︎

  30. W omits अतो ↩︎

  31. W omits अङ्गुली ↩︎

  32. M,Ma प्रत्यर्पिता मया; Ms प्रत्यर्पिताशया; W प्रत्यर्पिताशया ↩︎

  33. T,W साहस्रममितौजसः ↩︎

  34. Ms,V उपा ↩︎

  35. T स्थास्यथ ↩︎

  36. T उपस्थास्यथ ↩︎

  37. A,B,T add इत्यर्थः ↩︎

  38. M,Ma,Ms न व्यवह्रियते ↩︎

  39. A,B,T omit ↩︎ ↩︎

  40. A,B,T ना ↩︎

  41. A,B,T add इत्यर्थः । ↩︎

  42. A,B,T योगात्मनि ↩︎ ↩︎

  43. A,B,T add इत्याह । ↩︎

  44. W साधनं ↩︎

  45. W omits ↩︎ ↩︎ ↩︎

  46. W omits ↩︎ ↩︎ ↩︎ ↩︎

  47. Ms त्मने ↩︎

  48. A,B,G,I,J,T,Ms,V,W ष्ट्या ↩︎

  49. A,B,G,I,J,T,V र्थ ↩︎

  50. W यात्मने ↩︎

  51. V नेत्राय ↩︎

  52. V लाङ्घ्रये ↩︎

  53. A,B,T अवगतं ↩︎

  54. W युङ्क्ष्महे ↩︎

  55. M,Ma,Ms कम्पया ↩︎

  56. W वदेव ↩︎

  57. M,Ma,Ms हितम् । ↩︎

  58. W आ ↩︎

  59. M,Ma,Ms तां ↩︎

  60. M,Ma ए ↩︎

  61. V न्तो यद्वि ↩︎

  62. A,B,G,I,J,T,V सो ↩︎

  63. M,Ma ते ↩︎

  64. T omits त्वत् ↩︎

  65. B वृणते इति ↩︎

  66. W ह ↩︎

  67. M,Ma,Ms लभ्ये ↩︎

  68. V न्यं न ↩︎

  69. A,B,G,I,J,T हि ↩︎

  70. W omits प्रशमः ↩︎

  71. A,T omit ↩︎ ↩︎

  72. W न्यासिनां परमा गतिः ↩︎ ↩︎

  73. A,B,G,I,J,T सं ↩︎

  74. M,Ma,Ms वत्प्रियस्य ↩︎

  75. M,Ma शिवस्य ↩︎

  76. A,B,J,M,Ma,T,V त्स ↩︎

  77. B,I,J,W स्म । ↩︎

  78. V सिद्धाश्च ↩︎

  79. M,Ma,Ms ह्यनाथास्सु ↩︎

  80. W भूतानि सर्वाण्य ↩︎ ↩︎

  81. T omits ↩︎ ↩︎

  82. W omits ↩︎ ↩︎

  83. W omits अस्माकम् ↩︎

  84. V थ ↩︎

  85. A,B,T add इत्यर्थः ↩︎

  86. A,B,T add विशुद्धाय ↩︎

  87. A,B,T स्वं ↩︎

  88. M,Ma,Ms विक्रमः । ↩︎

  89. A,B,T उच्चङ्गत्तैः ↩︎

  90. M,Ma,Ms गामारोढु मिवोत्थितैः । ↩︎ ↩︎

  91. A,B,T omit प्र ↩︎

  92. M,Ma,Ms सा ↩︎

  93. A,B,G,I,J,T त्य ↩︎

  94. A,B,T omit महीं ↩︎

  95. A,B,T अत्यये ↩︎

  96. W त्य श ↩︎

  97. A,B,G,I,J,T,V उज्जह्रु ↩︎

  98. A,B,T omit दक्षः ↩︎

  99. M,Ma,Ms प्लु ↩︎

  100. M श्शिष्टाः ↩︎

  101. A,B,T omit स ↩︎

  102. M,Ma,Ms न्यकचकार स ↩︎

  103. M,Ma,Ms योग्योपात्त ↩︎

  104. A,B,G,I,J,T णा ↩︎

  105. W omits ↩︎ ↩︎

  106. A,B,T दक्ष मब्रु ↩︎

  107. A,B,G,I,J,T दि रभिषिच्य च; M,Ma,Ms दिर्भगवानजः । ↩︎

  108. M,Ma युयुजु स्तं वै; Ms युयुजु स्ते वै; V युयुजेऽन्यान् वै ↩︎

  109. M,Ma,Ms सर्वेऽन्ये च प्रजेश्वराः । ↩︎