[एकोनत्रिंशोऽध्यायः]
भागसूचना
पुरंजनोपाख्यानका तात्पर्य
श्लोक-१
मूलम् (वचनम्)
प्राचीनबर्हिरुवाच
विश्वास-प्रस्तुतिः
भगवंस्ते वचोऽस्माभिर्न सम्यगवगम्यते।
कवयस्तद्विजानन्ति न वयं कर्ममोहिताः॥
मूलम्
भगवंस्ते वचोऽस्माभिर्न सम्यगवगम्यते।
कवयस्तद्विजानन्ति न वयं कर्ममोहिताः॥ १ ॥
अनुवाद (हिन्दी)
राजा प्राचीनबर्हिने कहा—भगवन्! मेरी समझमें आपके वचनोंका अभिप्राय पूरा-पूरा नहीं आ रहा है। विवेकी पुरुष ही इनका तात्पर्य समझ सकते हैं, हम कर्ममोहित जीव नहीं॥ १॥
वीरराघवः
एतदध्यात्मं पारोक्ष्येण प्रदर्शितमित्युक्तम् । तत्र अध्यात्मत्वे कथं पुरञ्ज1नादि पदव्युत्पत्तिरिति विवि2त्सया राजा पृच्छति - भगवन्निति । हे भगवन् ! अध्यात्मविदुत्तमस्य 3ते तव वचः परोक्षरूपं वाक्यमस्माभिः केवलं देहात्मबुद्धिभिः सम्यक् 4नावगम्यते4 नावबुध्यते । अध्यात्मविदस्तु त्वद्वचो जानन्ति, 5कर्मण्येव यज्ञादा6वेव मोहिताः । यद्वा कर्मणा पुण्यापुण्यादिकर्मणा तिरोहितस्वपरयाथात्म्याः वयं कथं जानीमः ? ॥ १ ॥
श्लोक-२
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
पुरुषं पुरञ्जनं विद्याद्यद् व्यनक्त्यात्मनः पुरम्।
एकद्वित्रिचतुष्पादं बहुपादमपादकम्॥
अनुवाद (हिन्दी)
श्रीनारदजीने कहा—राजन्! पुरंजन (नगरका निर्माता) जीव है—जो अपने लिये एक, दो, तीन, चार अथवा बहुत पैरोंवाला या बिना पैरोंका शरीररूप पुर तैयार कर लेता है॥ २॥
वीरराघवः
एवमापृष्टो भगवान्नारदः पुरञ्जनादीनि पदान्यध्यात्मपक्षानुकूलतया व्युत्पादयति - पुरुषमित्यादिना । पुरुषं क्षेत्रज्ञं पुरञ्जनं पुरञ्जनशब्दबोध्यं विद्यात् । पुरुषे पुरञ्जनपदप्रवृत्तौ निमित्तमाह - यः पुरुषः आत्मना मनसा सह पुरं शरीरं व्यनक्ति दृढतरं सम्बध्नातीति पुरञ्जनः । पूश्शब्दे उपपदे अञ्जेर्ल्युट् । पूश्शब्दस्तु शरीरे गौण्या वृत्त्या प्रयुज्यते, न ह्यत्र सर्वाणि पदानि मुख्यार्थान्येवेत्याग्रह इति भावः । पुरं विशिनष्टि । एकद्वित्र्यादयः पादा यस्य, बहवः पादा यस्य, न विद्यन्ते पादा यस्य तत् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
योऽविज्ञाताहृतस्तस्य पुरुषस्य सखेश्वरः।
यन्न विज्ञायते पुम्भिर्नामभिर्वा क्रियागुणैः॥
अनुवाद (हिन्दी)
उस जीवका सखा जो अविज्ञात नामसे कहा गया है, वह ईश्वर है; क्योंकि किसी भी प्रकारके नाम, गुण अथवा कर्मोंसे जीवोंको उसका पता नहीं चलता॥ ३॥
वीरराघवः
योऽविज्ञातशब्देनाहृत उक्तः, तस्य पुरञ्जनाख्यस्य पुरुषस्य सखा स ईश्वरः, तस्मिन्नविज्ञातशब्दप्रवृत्तिनिमित्तमाह । यत् यस्मात् पुम्भिर्नामादिभिर्न विज्ञायते इत्यविज्ञातः । यद्यपि हरिविष्ण्वादिनामभिः, जगद्व्यापारादिक्रियाभिः, सत्यज्ञानादिगुणैश्च शास्त्रतो ज्ञायत एव, तथापीयत्तया न ज्ञायते नामक्रियागुणानामानन्त्यादिति भावः । न विज्ञायते इति कर्मणि व्युत्पत्तिः, कर्तरि व्युत्पत्तेरप्युपलक्षणं सा च दर्शिता पुरस्तात् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
यदा जिघृक्षन् पुरुषः कात्स्न्र्येन प्रकृतेर्गुणान्।
नवद्वारं द्विहस्ताङ्घ्रि तत्रामनुत साध्विति॥
मूलम्
12यदा जिघृक्षन् पुरुषः कात्स्न्र्येन प्रकृतेर्गुणान्।
नवद्वारं द्विहस्ता13ङ्घ्रि14तत्रामनुत साध्विति॥ ४ ॥
अनुवाद (हिन्दी)
जीवने जब सुख-दुःखरूप सभी प्राकृत विषयोंको भोगनेकी इच्छा की तब उसने दूसरे शरीरोंकी अपेक्षा नौ द्वार, दो हाथ और दो पैरोंवाला मानव-देह ही पसंद किया॥ ४॥
वीरराघवः
यदायं पुरुषः क्षेत्रज्ञः प्रकृतेर्गुणान् ज्ञानकर्मोभयेन्द्रियविषयान् कार्त्स्न्येन अजिघृक्षत् ग्रहीतुमैच्छदनुभवितुमैच्छदित्यर्थः । तदा नव द्वाराणि छिद्राणि यस्य, द्वौ हस्तौ पादौ च यस्य, तन्मनुष्यशरीरं साधु समीचीनमित्यमनुत । तिर्यगादिशरीरेषु सर्वेन्द्रियाणामनभिव्यक्तेः सर्वविषयानुभवासम्भवात् मनुष्यशरीरमेव सर्वविषयानुभवयोग्यं मत्वा दैवात्तदुपलभ्य साध्वित्यमनुतेत्यर्थः । अनेन “सोऽन्वेषमाण शरणम्” (भाग० 4-25-11) इत्या15दिना, “कोकिलकूजितैः” (भाग. 4-25-19) इत्यन्तं व्याख्यातम् ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
बुद्धिं तु प्रमदां विद्यान्ममाहमिति यत्कृतम्।
यामधिष्ठाय देहेऽस्मिन् पुमान् भुङ्क्तेऽक्षभिर्गुणान्॥
मूलम्
बुद्धिं तु प्रमदां विद्यान्ममाहमिति यत्कृतम्।
यामधिष्ठाय देहेऽस्मिन् पुमान् भुङ्क्तेऽ16क्षिभिर्गुणान्॥ ५ ॥
अनुवाद (हिन्दी)
बुद्धि अथवा अविद्याको ही तुम पुरंजनी नामकी स्त्री जानो; इसीके कारण देह और इन्द्रिय आदिमें मैं-मेरेपनका भाव उत्पन्न होता है और पुरुष इसीका आश्रय लेकर शरीरमें इन्द्रियोंद्वारा विषयोंको भोगता है॥ ५॥
वीरराघवः
“बुद्धिं तु प्रमदां विद्यात्” (भाग. 4-29-5) तत्र प्रमदाशब्दप्रवृत्तौ निमित्तमाह । यद्यया बुद्ध्या ममाहमिति कृतं मदः चित्तविकारः अहम्ममाभिमानरूपमदहेतुत्वात् बुद्धिः प्रमदेत्युच्यत इत्यर्थः । किञ्च यां बुद्धिमधिष्ठाया17क्षिभिरिन्द्रियैः गुणान् शब्दादीन् 18विषयानस्मिन् देहे भुङ्क्ते गुणानुभवजन्यमदहेतुत्वाच्च प्रमदा बुद्धिरित्यर्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
सखाय इन्द्रियगणा ज्ञानं कर्म च यत्कृतम्।
सख्यस्तद्वृत्तयः प्राणः पञ्चवृत्तिर्यथोरगः॥
मूलम्
सखाय इन्द्रिय19गणो ज्ञानं कर्म च यत्कृतम्।
सख्यस्तद्वृत्तयः प्राणः पञ्चवृत्तिर्यथोरगः॥ ६ ॥
अनुवाद (हिन्दी)
दस इन्द्रियाँ ही उसके मित्र हैं, जिनसे कि सब प्रकारके ज्ञान और कर्म होते हैं। इन्द्रियोंकी वृत्तियाँ ही उसकी सखियाँ और प्राण-अपान-व्यान-उदान-समानरूप पाँच वृत्तियोंवाला प्राणवायु ही नगरकी रक्षा करनेवाला पाँच फनका सर्प है॥ ६॥
वीरराघवः
भृत्यैर्दशभि20रायान्तीमित्यर्थस्यार्थमाह - सखाय इति । इन्द्रिय[^11]गणः ज्ञानकर्मोभयेन्द्रिय21गणः सखायः 22भृत्याः । तत्र सखिशब्दप्रवृत्तिनिमित्तमाह । तद्वृत्तय इन्द्रियवृत्तयः, ज्ञानं शब्दादिविषयकं ज्ञानं, व्यवहृत्यादानगत्यादिरूपं कर्म च बुद्धिसाध्यम् । यत्कृतं येनेन्द्रियगणेन कृतं सह प्रवृत्तिमत्वेऽन्योन्यापेक्षत्वरूपं सखित्वमत्र विवक्षितम् । एकैकशतनायकैरित्यस्यार्थमाह - 23संख्य इति23 । तद्वृत्तयः इन्द्रियवृत्तयः सख्यः 24भवन्ति । पञ्चशीर्षाहिनेत्यस्यार्थमाह - प्राण इति । पञ्चवृत्तित्वात् पञ्चशिराः सर्प इव प्राणः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
बृहद्बलं मनो विद्यादुभयेन्द्रियनायकम्।
पञ्चालाः पञ्च विषया यन्मध्ये नवखं पुरम्॥
अनुवाद (हिन्दी)
दोनों प्रकारकी इन्द्रियोंके नायक मनको ही ग्यारहवाँ महाबली योद्धा जानना चाहिये। शब्दादि पाँच विषय ही पांचालदेश हैं, जिसके बीचमें वह नौ द्वारोंवाला नगर बसा हुआ है॥ ७॥
श्लोक-८
विश्वास-प्रस्तुतिः
अक्षिणी नासिके कर्णौ मुखं शिश्नगुदाविति।
द्वे द्वे द्वारौ बहिर्याति यस्तदिन्द्रियसंयुतः॥
मूलम्
अक्षिणी नासिके कर्णौ मुखं शिश्नगुदाविति।
द्वे द्वे द्वारौ बहिर्याति 27यस्तदिन्द्रियसंयुतः॥ ८ ॥
अनुवाद (हिन्दी)
उस नगरमें जो एक-एक स्थानपर दो-दो द्वार बताये गये थे—वे दो नेत्रगोलक, दो नासाछिद्र और दो कर्णछिद्र हैं। इनके साथ मुख, लिंग और गुदा—ये तीन और मिलाकर कुल नौ द्वार हैं; इन्हींमें होकर वह जीव इन्द्रियोंके साथ बाह्य विषयोंमें जाता है॥ ८॥
वीरराघवः
अन्यत्सुगममित्यभिप्रेत्य एकादशमहाभटा इत्यनेनोक्तमेकादशमहाभटमाह । स्वविषयेषु प्रसह्य प्रवर्तकत्वात् बृहद्बलं तत् अत एव ज्ञानकर्मोभयेन्द्रियाणां नायकं मन एकादशो महाभट इत्यर्थः । अत्र प्रकरणे पाञ्चालशब्दो बहुष्वर्थेषु प्रयुक्तः, दक्षिणपाञ्चालमुत्तरपाञ्चालमित्यत्र शास्त्रे, स पाञ्चालपतिरित्यत्रेन्द्रियेषु, पौरञ्जनो वंशः पाञ्चालेष्विति विषयेषु । तत्र मुख्यार्थमाह - पञ्चशब्दादयो विषयाः पञ्चालाः, पञ्च्यन्ते व्यक्ती क्रियन्ते इति व्युत्पत्तेः, तत्सम्बन्धिषु लाक्षणिकप्रयोगः अनेकार्थकल्पनायोगादिति भावः । सप्तोपरिकृता द्वार इत्यादेरर्थमाह । यत्पुरं मध्ये यस्य पुरस्य मध्ये, नवानां 28खानां द्वाराणां समाहारः नवखमक्षिनासिकादिरूपमित्यर्थः । यद्वा पुरं मध्ये यन्नवखं यानि नव द्वाराणि तत्र द्वे अक्षिणी द्वे नासिके द्वौ कर्णौ शिश्नगुदौ द्वौ इत्येवं द्वे द्वे द्वारौ मुखमेकमिति मिलित्वा नवखमित्यन्वयः । द्युमत्सख इत्यादेरर्थं संक्षेपेणाह । यस्तदिन्द्रियसंयुतः अक्ष्यादिच्छिद्रगतेन्द्रिययुक्तः स आत्मा ताभिर्द्वार्भिर्बहिर्याति बहिष्ठान् शब्दादिविषयान् अनुभवति ॥ ७, ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
अक्षिणी नासिके आस्यमिति पञ्च पुरः कृताः।
दक्षिणा दक्षिणः कर्ण उत्तरा चोत्तरः स्मृतः॥
अनुवाद (हिन्दी)
इसमें दो नेत्रगोलक, दो नासाछिद्र और एक मुख—ये पाँच पूर्वके द्वार हैं; दाहिने कानको दक्षिणका और बायें कानको उत्तरका द्वार समझना चाहिये॥ ९॥
वीरराघवः
पञ्चद्वारस्तु पौरस्त्या इत्यस्यार्थमाह - अक्षिणी, नासिके, आस्यं, मुखमित्येवं पञ्चद्वारः पूर्वभागे कृताः । अत्र व्याख्यायां क्रमो न विवक्षितः । दक्षिणोत्तरद्वारावाह - 31दक्षिणो दक्षिणः कर्णः । अत्र दक्षिणेति प्रतीकोपादानं दक्षिणः कर्ण इति तस्य व्याख्यानम्, एवमग्रेऽपि ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
पश्चिमे इत्यधोद्वारौ गुदं शिश्नमिहोच्यते।
खद्योताऽऽविर्मुखी चात्र नेत्रे एकत्र निर्मिते।
रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः॥
मूलम्
पश्चिमे इत्यधोद्वारौ 32गुदशिश्नविहोदि33तौ।
खद्योताऽऽविर्मुखी चात्र नेत्रे एकत्र निर्मिते।
रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः॥ १० ॥
अनुवाद (हिन्दी)
गुदा और लिंग—ये नीचेके दो छिद्र पश्चिमके द्वार हैं। खद्योता और आविर्मुखी नामके जो दो द्वार एक स्थानपर बतलाये थे, वे नेत्रगोलक हैं तथा रूप विभ्राजित नामका देश है, जिसका इन द्वारोंसे जीव चक्षु-इन्द्रियकी सहायतासे अनुभव करता है। (चक्षु-इन्द्रियोंको ही पहले द्युमान् नामका सखा कहा गया है)॥ १०॥
वीरराघवः
पश्चिमे द्वे इत्युक्ते पश्चिमे द्वारावाह - पश्चिम इतीति । तत्र पश्चिमे इति प्रतीकग्रहणं तस्याधो द्वाराविति व्याख्यानम् । ते चाधोद्वारौ के? इत्यत्राह गुदशिश्नाविहोदिताविति । इहास्मिन् प्रकरणे उदितौ कथितौ । खद्योताविर्मुखीत्यादेरर्थमाह - खद्योतेति । एकत्र निर्मिते लग्ने ये खद्योताविर्मुखीशब्दविवक्षिते द्वारौ ते अत्र प्रकरणे नेत्रे इत्यर्थः । अत्र नेत्र इति व्याख्यानं शेषः प्रतीकः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
नलिनी नालिनी नासे गन्धः सौरभ उच्यते।
घ्राणोऽवधूतो मुख्यास्यं विपणो वाग्रसविद्रसः॥
अनुवाद (हिन्दी)
दोनों नासाछिद्र ही नलिनी और नालिनी नामके द्वार हैं और नासिकाका विषय गन्ध ही सौरभ देश है तथा घ्राणेन्द्रिय अवधूत नामका मित्र है। मुख मुख्य नामका द्वार है। उसमें रहनेवाला वागिन्द्रिय विपण है और रसनेन्द्रिय रसविद् (रसज्ञ) नामका मित्र है॥ ११॥
वीरराघवः
एवं विभ्राजितमित्यस्य व्याख्यानं रूपमिति । शेषः प्रतीकः । ईश्वरः पुरञ्जनः । खद्योतादिशब्दास्तु गौणाः, अतोऽत्र न प्रवृत्तिनिमित्तमुक्तम् । नासे गन्ध इति च व्याख्यानम् । शेषः प्रतीकः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
आपणो व्यवहारोऽत्र चित्रमन्धो बहूदनम्।
पितृहूर्दक्षिणः कर्ण उत्तरो देवहूः स्मृतः॥
अनुवाद (हिन्दी)
वाणीका व्यापार आपण है और तरह-तरहका अन्न बहूदन है तथा दाहिना कान पितृहू और बायाँ कान देवहू कहा गया है॥ १२॥
वीरराघवः
घ्राण इति व्याख्यानमवधूत इति प्रतीकः । मुख्येति प्रतीकस्तस्य व्याख्यानमास्यमिति । रसज्ञविपणौ व्याचष्टेविपणो वागिति । विपण इति प्रतीकः वागिन्द्रियमिति व्याख्या । रसविदित्यर्थतः प्रतीकः रसज्ञविपणान्वित इति मूलात् । रसः रसनेन्द्रियमिति व्याख्यानम् । आपणबहूदनौ व्याचष्टे । आपण इति प्रतीकः । व्यवहारः वाग्व्यवहार इति व्याख्या । बहूदनमिति प्रतीकः । चित्रमन्धः अन्नमिति व्याख्या ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चालसंज्ञितम्।
पितृयानं देवयानं श्रोत्राच्छ्रुतधराद्वृजेत्॥
मूलम्
प्रवृत्तं च निवृत्तं च शास्त्रं 38पाञ्चालसंज्ञितम्।
पितृयानं देवयानं 39श्रोत्राच्छ्रुतधराद् वृजेत्॥ १३ ॥
अनुवाद (हिन्दी)
कर्मकाण्डरूप प्रवृत्तिमार्गका शास्त्र और उपासनाकाण्डरूप निवृत्तिमार्गका शास्त्र ही क्रमशः दक्षिण और उत्तर पांचाल देश हैं। इन्हें श्रवणेन्द्रियरूप श्रुतधरकी सहायतासे सुनकर जीव क्रमशः पितृयान और देवयान मार्गोंमें जाता है॥ १३॥
वीरराघवः
एवं क्रममनादृत्य तृतीयाध्यायस्थपदानि व्याख्याय सिंहावलोकनन्यायेन पुनरेतदध्यायस्थपदान्येवावशिष्टानि व्याख्येयानि व्याचष्टे - प्रवृत्तं चेति । दक्षिणपाञ्चालमुत्तरपाञ्चालमित्युक्तपाञ्चाल शब्दार्थमाह । प्रवृत्तं प्रवर्तकं, कर्तरि क्तः, त्रिवर्गतत्साधकस्वरूपावबोधनेन प्रवर्तकं शास्त्रं प्रवृत्तमित्युच्यते । निवृत्तं, निवर्तकं त्रिवर्गतत्साधनेभ्यस्तन्निवृत्तं त्रिवर्गस्यास्थिर फलत्वोपदेशपूर्वकं ततो निवृत्त्याऽनन्तस्थिरफलब्रह्मोपासनतत्स्वरूपरूपगुणादिप्रकाशकं शास्त्रं निवृत्तमित्युच्यते । तदेवं शास्त्रद्वयं पाञ्चालसं40ज्ञितमित्यर्थः । पञ्चते व्यक्तीकरोति त्रिवर्गतत्साधनतन्निवृत्तीः इति व्युत्पत्तेः । एवं पाञ्चालशब्दस्य प्रवृत्तिनिवृत्त्यात्मक शास्त्रद्वयपरत्वं सामान्येनाभिधाय तस्य दक्षिणोत्तराभ्यां विशेषितस्य प्रवृत्ते निवृत्ते च क्रमेण प्रवृत्तौ निमित्तमाह पितृयानमिति । पितरो हि दाक्षिणात्या तान् यान्त्यनेनेति पितृयानं प्रवृत्तशास्त्रोदितकर्मणा दाक्षिणात्यान् पितॄनाराध्य तान् प्राप्नुवन्तीति दाक्षिणात्यपितृप्राप्ति साधनप्रकाशकत्वात् पितृयानं शास्त्रम्, दक्षिणपाञ्चालमित्युच्यते । एवं देवयानमुत्तरपाञ्चालमिति, श्रुतधरान्वित इत्युक्तश्रुतधरपदार्थमाह - श्रोत्रादिति । श्रोत्रेन्द्रियात् श्रुतधरादिति प्रतीक । श्रोत्रादिति व्याख्यानं, तत्रान्वित इत्युक्तोऽन्वयः, किं रूपं इति विवित्सायां हेतुत्वेनेति द्योतनाय हेतुपञ्चमी प्रयुक्ता, किं प्रति हेतुत्वमिति विवित्साशान्तये व्रजेदित्युक्तं, क्षेत्रज्ञ इति शेषः । व्रज-गतौ सर्वे गत्यर्था ज्ञानार्था इति न्यायेन पितृयानदेवयानाऽपर पर्याये दक्षिणोत्तरपाञ्चाले शास्त्रे श्रोत्रेन्द्रियेण साधनरूपेण हेतुना अवगच्छति क्षेत्रज्ञ इत्यर्थः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
आसुरी मेढ्रमर्वाग्द्वार्व्यवायो ग्रामिणां रतिः।
उपस्थो दुर्मदः प्रोक्तो निर्ऋतिर्गुद उच्यते॥
मूलम्
आसुरी 41मेढ्रमर्वाग्द्वाः व्यवायो ग्रामिणां रतिः।
उपस्थो दुर्मदः प्रोक्तो निर्ऋतिर्गुद उच्यते॥ १४ ॥
अनुवाद (हिन्दी)
लिंग ही आसुरी नामका पश्चिमी द्वार है, स्त्रीप्रसंग ग्रामक नामका देश है और लिंगमें रहनेवाला उपस्थेन्द्रिय दुर्मद नामका मित्र है। गुदा निर्ऋति नामका पश्चिमी द्वार है॥ १४॥
वीरराघवः
“आसुरी नाम पश्चाद्वाः” (भाग 4-25-52) इत्यस्यार्थमाह - आसुरी मेढ्रमिति । आसुरीति प्रतीकः, मेढ्रमिति व्याख्या, पश्चादित्यस्य व्याख्या अर्वागिति, आसुरपदप्रवृत्तिनिमित्तं तु उक्तं पुरस्तादत्र अनुक्तिस्तु स्पष्टत्वात् । ग्राम्यकमित्यर्थतोऽनुवदति, ग्रामिणां रतिः तस्य, व्याख्या व्यवाय इति, मैथुनमित्यर्थः । दुर्मदशब्दानुवादेन तदर्थमाह उपस्थ इति । 42निरृतिर्नामेत्यस्यार्थमाह42 । निर्ऋतिरिति प्रतीकः, गुद इति व्याख्या ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
वैशसं नरकं पायुर्लुब्धकोऽन्धौ तु मे शृणु।
हस्तपादौ पुमांस्ताभ्यां युक्तो याति करोति च॥
मूलम्
वैशसं 43नारकं पायुर्लुब्धकोऽन्धौ तु मे शृणु।
44हस्तपादौ पुमांस्ताभ्यां युक्तो याति करोति च॥ १५ ॥
अनुवाद (हिन्दी)
नरक वैशस नामका देश है और गुदामें स्थित पायु-इन्द्रिय लुब्धक नामका मित्र है। इनके सिवा दो पुरुष अंधे बताये गये थे, उनका रहस्य भी सुनो। वे हाथ और पाँव हैं; इन्हींकी सहायतासे जीव क्रमशः सब काम करता और जहाँ-तहाँ जाता है॥ १५॥
वीरराघवः
वैशसशब्दानुवादेन तदर्थमाह - वैशसं नारकमिति । नरके भवं नारकं, दुःखमित्यर्थः । लुब्धक इति प्रतीकः, पायुरिति व्याख्या । अन्धावमीषामित्यस्यार्थमाह - अन्धौत्विति । मे मत्तः अन्धशब्दार्थौ श्रृणु पाणिपादान्धौ इति प्रतीकः, पाणिपादाविति व्याख्या, जातिपरोऽयं निर्देशः पाणी पादौ चेति विवक्षितोऽर्थः । अन्धपदप्रवृत्तिनिमित्तं तु निर्वाक्पेशस्करत्वं पूर्वमेवोक्तंशेषोऽनुवादः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
अन्तःपुरं च हृदयं विषूचिर्मन उच्यते।
तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्गुणैः॥
मूलम्
अन्तःपुरं च हृदयं विषू45चिर्मन उच्यते।
तत्र मोहं प्रसादं वा हर्षं 46प्राप्नोति तद्गुणैः॥ १६ ॥
अनुवाद (हिन्दी)
हृदय अन्तःपुर है, उसमें रहनेवाला मन ही विषूचि (विषूचीन) नामका प्रधान सेवक है। जीव उस मनके सत्त्वादि गुणोंके कारण ही प्रसन्नता, हर्षरूप विकार अथवा मोहको प्राप्त होता है॥ १६॥
वीरराघवः
स यर्हि इत्यस्यार्थमाह - अन्तः पुरमिति । अन्तःपुरमित्यनुवादः, हृदयमिति व्याख्या विषूचीनमित्य47स्यार्थतोऽनूद्यते विषूचीरिति मन इति तदर्थः, शेषोऽनुवादः, 48तद्गुणैः सङ्कल्पविकल्पादिभिः48 ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
यथा यथा विक्रियते गुणाक्तो विकरोति वा।
तथा तथोपद्रष्टाऽऽत्मा तद्वृत्तीरनुकार्यते॥
मूलम्
49यथा यथा विक्रियते गुणाक्तो विकरोति वा।
50तथा तथोपद्रष्टाऽऽत्मा तद्वृ51त्तीरनुकार्यते॥ १७ ॥
अनुवाद (हिन्दी)
बुद्धि (राजमहिषी पुरंजनी) जिस-जिस प्रकार स्वप्नावस्थामें विकारको प्राप्त होती है और जाग्रत्-अवस्थामें इन्द्रियादिको विकृत करती है, उसके गुणोंसे लिप्त होकर आत्मा (जीव) भी उसी-उसी रूपमें उसकी वृत्तियोंका अनुकरण करनेको बाध्य होता है—यद्यपि वस्तुतः वह उनका निर्विकार साक्षीमात्र ही है॥ १७॥
वीरराघवः
एवं कर्मस्वित्यादेः सङ्ग्रहेणार्थमाह - यदेति । यदा स्वप्ने विक्रियते, कर्मणि लकारः, बुद्धिरिति शेषः । यदा च जाग्रति विकरोतीन्द्रियाणि परिणमयति, तदा तदा स्वप्नजाग्रदवस्थयोस्तस्या गुणैः अक्तो-लिप्त आत्मा स्वभावतः उपद्रष्टापि तस्याः वृत्ती दर्शनश्रवणाद्याः प्रत्यनुकार्यते 52बलादनुवर्त्यते52 ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
देहो रथस्त्विन्द्रियाश्वः संवत्सररयोऽगतिः।
द्विकर्मचक्रस्त्रिगुणध्वजः पञ्चासुबन्धुरः॥
मूलम्
देहो रथस्त्विन्द्रियाश्वः संवत्सर53रयोऽगतिः।
द्विकर्मचक्रस्त्रिगुणध्वजः पञ्चा54सुबन्धुरः॥ १८ ॥
अनुवाद (हिन्दी)
शरीर ही रथ है। उसमें ज्ञानेन्द्रियरूप पाँच घोड़े जुते हुए हैं। देखनेमें संवत्सररूप कालके समान ही उसका अप्रतिहत वेग है, वास्तवमें वह गतिहीन है। पुण्य और पाप—ये दो प्रकारके कर्म ही उसके पहिये हैं, तीन गुण ध्वजा हैं, पाँच प्राण डोरियाँ हैं॥ १८॥
वीरराघवः
एवं प्रथमाध्यायस्थपदानि व्याख्यातानि 55अथ द्वितीयाध्यायस्थ पदानि व्याचष्टे - देह इति त्रिभिः । यो रथ उक्तः स देह, ये चाश्वे उक्तास्ते इन्द्रियरूपा एवाश्वाः, आशुगमित्यत्र विवक्षिता गतिः संवत्सररयः संवत्सरवेगतुल्या तूर्णप्रतिपत्तिः, 56स्वाप्नदेहप्रतिपत्तिर्हि तत्कालमात्रावसायित्वेनातितूर्णात्, द्वे पुण्यापुण्यरूपे कर्मणी चक्रे यस्य सः, पुण्यापुण्यकर्मणी एव द्विचक्रमिति चक्रशब्देन विवक्षिते इत्यर्थः । त्रिवेणुमित्यत्र विवक्षिता वेणवो ध्वजाः, सत्वरजस्तमोगुणा इत्यर्थः । पञ्च अनाः प्राणाः “एतदनमनग्नं कुरुते” (बृह. उ. 6-1-14) इति श्रुतेः । बन्धुरा बन्धनानि यस्य, बन्धुरत्वेन विवक्षिताः पञ्च प्राणा इत्यर्थः । पञ्चासुबन्धुर इत्यपपाठ व्याख्यायां विशेषानवगमात् ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
मनोरश्मिर्बुद्धिसूतो हृन्नीडो द्वन्द्वकूबरः।
पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः॥
मूलम्
मनोरश्मिर्बुद्धिसूतो हृन्नीडो द्वन्द्वकूबरः।
पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः॥ १९ ॥
अनुवाद (हिन्दी)
मन बागडोर है, बुद्धि सारथि है, हृदय बैठनेका स्थान है, सुख-दुःखादि द्वन्द्व जुए हैं, इन्द्रियोंके पाँच विषय उसमें रखे हुए आयुध हैं और त्वचा आदि सात धातुएँ उसके आवरण हैं॥ १९॥
वीरराघवः
रश्मिः प्रग्रहत्वेन यो विवक्षितः सः, मनः यः सूत उक्तः, स बुद्धिः यन्नीडं रथिन उपवेशनस्थानं, तद्धृत् हृदयस्थानं, द्वन्द्वं शोकमोहौ, कूबरं युगबन्धनस्थानं, यस्य, द्विकूबरमित्युक्तौ द्वौ पदार्थौ द्वन्द्वात्मकशोकमोहावित्यर्थः । पञ्चप्रहरणमित्युक्तानि पञ्चप्रहरणानि अनुभाव्याः पदार्थाः, पञ्चेन्द्रियार्थाः शब्दादय इत्यर्थः । पञ्चेन्द्रियार्थाः प्रक्षेपा यस्येति बहुव्रीहिः । सप्तधातवः वरूधाः स्वर्णाद्यावरणानि यस्य, सप्तवरूपमित्यत्र वरूधत्वेन रूपिताः सप्त पदार्थाः सप्त धातव इत्यर्थः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति।
एकादशेन्द्रियचमूः पञ्चसूनाविनोदकृत्॥
मूलम्
57आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति।
एकादशेन्द्रियचमूः पञ्चसूनाविनोदकृत्॥ २० ॥
अनुवाद (हिन्दी)
पाँच कर्मेन्द्रियाँ उसकी पाँच प्रकारकी गति हैं। इस रथपर चढ़कर रथीरूप यह जीव मृगतृष्णाके समान मिथ्या विषयोंकी ओर दौड़ता है। ग्यारह इन्द्रियाँ उसकी सेना हैं तथा पाँच ज्ञानेन्द्रियोंके द्वारा उन-उन इन्द्रियोंके विषयोंको अन्यायपूर्वक ग्रहण करना ही उसका शिकार खेलना है॥ २०॥
वीरराघवः
पञ्च विक्रममित्यत्र विक्रमत्वेन गतिप्रकारत्वेन विवक्षिता आकूतिः, पञ्च कर्मेन्द्रियाणीत्यर्थः । बाह्यः बहिष्ठविषयासक्तः एकादशेन्द्रियाण्येव चमूः सेना यस्य स, पञ्चसूना हिंसा एव विनोदस्तं करोतीति तथा, मृगतृष्णां मरीचिकावत्सुखाभासरूपविषयानुभूतिं करोतीत्यर्थः । अत्र “स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम्” (भाग 4-26-1) इत्यादीनां दशानां श्लोकानां स्वप्नावस्थापरत्वेन पूर्वैर्व्याख्यातत्वादस्माभिरपि स्वप्नावस्थापरत्वेनैव व्याख्याताः । तद्व्याख्यारूपमिदं “देहो रथस्त्विन्द्रियाश्वाः” (भाग 4-29-18) इति श्लोकत्रयं च तदनुरोधेन व्याख्यातम् । वस्तुतस्तु, दशश्लो58की जाग्रद्देहव्यापार परत्वेनैव व्याख्ये59या, व्याख्यानस्वारस्यात् । व्याख्याने हि संवत्सररयो गतिरित्युक्तं, न हि स्वाप्नदेहस्य संवत्सरवेगात्मकगतिः सम्भवति, तस्य तत्कालमात्रावसायित्वात्तस्य तत्सदृशप्रतीतिमात्रपरत्वे स्वारस्यमेकादशेन्द्रियचमूपतिरित्युक्तत्वाच्च । न हि स्वाप्ने एकादशेन्द्रियाणां व्यापृतिः सम्भवति तत्सम्बन्धमात्रविवक्षायामस्वारस्यं, पञ्चसूनाविनोदकृदित्युक्तत्वान्न हि पञ्चसूनानां स्वाप्नदेहनिष्पाद्यत्वं युक्तं, तस्मादिदं जाग्रद्देहव्यापारपरमेव व्याख्येयम् । तथा हि भोगायतनत्वख्यापनाय पूर्वं पुरवनरूपितं जाग्रदवस्थमनुष्यशरीरमेवेदानीं रथत्वेन रूप्यते, देही रथित्वेन इन्द्रियादयोश्वाऽदित्वेन । किमर्थमेवं रूपणमिति चेदुच्यतेरयोहि स्वाभिमतदेशान्तरप्रापणसमर्थः तद्वन्मनुष्यशरीरमपि वैष्णवपदप्राप्तिसाधनानुष्ठानोपयोगीति ज्ञापनाय रथभावेन रूप्यते । तथा हि कठवल्लीष्वाम्नायते - “आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयान्याहुर्विषयांस्तेषु गोचरान् ॥ आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः । (कठ. उ. 3-3,4) यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः ॥ (कठ. उ. 3-7) न स तत्पदमाप्नोति यस्मात् भूयो न जायते । विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ॥ सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्” (कठ.उ.3-7,9) इति । एतच्छ्रुत्यर्थ एवात्रोपबृंह्यत इति श्रुत्या रथादिभावेन रूपितानामेव देहादीनामत्रापि तद्भावरूपणरूपसंवादात् । तर्हि श्रुतौ मृगया नोक्ता अत्र तूच्यते इति चेत् विवक्षिता मृगया श्रुतावप्युक्तैव “यस्त्वविज्ञानवान् भवत्यमनस्कः” (कठ. उ. 3-7) इत्यत्र परब्रह्मप्राप्तिसाधनोपसंहारोपयुक्तशरीरं दैवाल्लब्धवतः क्षेत्रज्ञस्य ब्रह्मस्वरूपतदुपासनादिप्रकाशकवेदशास्त्रोल्लङ्घनेन पुनरनादिदुरित निमित्ताविवेकादिना निषिद्धकामचारो ह्यत्र मृगया विवक्षिता । सा च मुक्तिमार्गविरोधिनीति विवेकलब्धिप्रार्थनयाऽवगम्यते, एतदेव यस्त्वविज्ञानवानित्यादिनाऽवगम्यते । अविज्ञानवान् विविच्य ज्ञानं विवेकः सोऽस्यास्तीति विज्ञानवान्, स न भवतीत्यविज्ञानवान्, विवेकात्मकसात्त्विकबुद्ध्या विरहित इत्यर्थः, न विद्यते शुचिः कामचारादिना यस्य सोऽशुचिरित्यर्थावगमात्, श्लोकार्थस्तु पूर्वोक्त एव । न चैवं पृथक्स्वप्नावस्था न कथिता स्यात्ततश्च तद्गतदोषाननुकीर्तनेन श्रोतुर्वैराग्यादयो न स्यादिति वाच्यं, जाग्रदवस्थाप्रपञ्चेनैव स्वप्नावस्थाप्येवंविधेति ज्ञातुं शक्यत्वेन तस्याः पृथगवक्तव्यत्वात् । अत एव हि मूर्छावस्था पृथक् नोक्तेति सङ्ग्रहः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
संवत्सरश्चण्डवेगः कालो येनोपलक्षितः।
तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रयः स्मृताः।
हरन्त्यायुः परिक्रान्त्या षष्ट्युत्तरशतत्रयम्॥
मूलम्
संवत्सरश्चण्डवेगः कालो येनोपलक्षितः।
तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रयः स्मृताः।
हरन्त्यायुः 57परिक्रान्त्या षष्ट्युत्तरशतत्रयम्॥ २१ ॥
अनुवाद (हिन्दी)
जिसके द्वारा कालका ज्ञान होता है, वह संवत्सर ही चण्डवेग नामक गन्धर्वराज है। उसके अधीन जो तीन सौ साठ गन्धर्व बताये गये थे, वे दिन हैं और तीन सौ साठ गन्धर्वियाँ रात्रि हैं। ये बारी-बारीसे चक्कर लगाते हुए मनुष्यकी आयुको हरते रहते हैं॥ २१॥
वीरराघवः
तस्य चण्डवेगस्य सम्बन्धिनो गन्धर्वा गन्धर्व्यश्च यथाक्रमं अहानि रात्रयश्च स्मृता इत्यर्थः । तत्र गन्धर्व 59पदप्रवृत्तौ निमित्तमाह । यतः षष्ट्युत्तरशतत्रयमहानि रात्रयश्च परिक्रान्त्या परिवर्तनेन गन्धर्ववत् परोक्षेपणः आयुः पुरुषायुषं हरन्ति, अतो गन्धर्वगुणयोगात् तत्पदबोध्या इत्यर्थः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
कालकन्या जरा साक्षाल्लोकस्तां नाभिनन्दति।
स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः॥
मूलम्
कालकन्या जरा साक्षाल्लोकस्तां नाभिनन्दति।
स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः॥ २२ ॥
अनुवाद (हिन्दी)
वृद्धावस्था ही साक्षात् कालकन्या है, उसे कोई भी पुरुष पसंद नहीं करता। तब मृत्युरूप यवनराजने लोकका संहार करनेके लिये उसे बहिन मानकर स्वीकार कर लिया॥ २२॥
वीरराघवः
कालकन्येत्यस्य व्याख्या जरेति । कालस्य पुरुषायुषं हरतः दुहितृवज्जरायाः प्रीत्यावहत्वात्सा कालदुहितेत्युच्यते । त्रिलोक्यां वरमिच्छन्तीत्यादेः । प्रज्वारस्त्वां प्रणेष्यतीत्यस्य सङ्ग्रहेणार्थमाह - लोकस्तां नाभिनन्दतीति । प्रज्वारोऽयं ममेत्यस्यार्थः स्वसारमिति सार्धेन, क्षयाय लोकस्येति शेषः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
आधयो व्याधयस्तस्य सैनिका यवनाश्चराः।
भूतोपसर्गाशुरयः प्रज्वारो द्विविधो ज्वरः॥
अनुवाद (हिन्दी)
आधि (मानसिक क्लेश) और व्याधि (रोगादि शारीरिक कष्ट) ही उस यवनराजके पैदल चलनेवाले सैनिक हैं तथा प्राणियोंको पीड़ा पहुँचाकर शीघ्र ही मृत्युके मुखमें ले जानेवाला शीत और उष्ण दो प्रकारका ज्वर ही प्रज्वार नामका उसका भाई है॥ २३॥
वीरराघवः
भीमाः सैनिका यस्येति, बहुव्रीह्यर्थं प्रत्युपसर्जनीभूत 63भीमसैनिकानाह । आधयः मनः पीडाः व्याधयो देहपीडाः 64तस्य भयनाम्नः सैनिकाः एते भूतानामुपसर्गाश्च, खला दुष्टाः यवनाः64 दुर्यवनवद्धिस्रत्वाद्यवनाः अतीव दुःखावहत्वादरयः । उपसर्गाः सुखदुःखरागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलोभमात्सर्येर्ष्यावमानक्षुत्पिपासाधिव्याधिजन्मजरामरणादयः । तत्राधिव्याधीनां भीमसैनिकत्वरूपणात् मृत्योस्तस्येति प्राधान्येन निर्देशात् तदूव्यतिरिक्तपर उपसर्गशब्दः । प्रज्वारपदार्थमाह विविधो ज्वर इति ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
एवं बहुविधैर्दुःखैर्दैवभूतात्मसम्भवैः।
क्लिश्यमानः शतं वर्षं देहे देही तमोवृतः॥
अनुवाद (हिन्दी)
इस प्रकार यह देहाभिमानी जीव अज्ञानसे आच्छादित होकर अनेक प्रकारके आधिभौतिक, आध्यात्मिक और आधिदैविक कष्ट भोगता हुआ सौ वर्षतक मनुष्यशरीरमें पड़ा रहता है॥ २४॥
वीरराघवः
एवं परोक्षेणोक्तमर्थं व्याख्याय कृत्स्नकथातात्पर्यमाह - एवमित्यादिना । त्रिभिस्तापैस्तदवान्तरभेदेन बहुविधैर्दुखैः एवं शतं वर्षं यावच्छरीरं क्लिश्यमानः देही क्षेत्रज्ञः तमोवृतस्तमसाज्ञानेन वृतोऽभिभूतः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
प्राणेन्द्रियमनोधर्मानात्मन्यध्यस्य निर्गुणः।
शेते कामलवान्ध्यायन्ममाहमिति कर्मकृत्॥
मूलम्
प्राणेन्द्रियमनोधर्मानात्म66न्यध्यस्य निर्गुणे67।
शेते काम68लवान्ध्यायन्ममाहमिति कर्मकृत्॥ २५ ॥
अनुवाद (हिन्दी)
वस्तुतः तो वह निर्गुण है, किन्तु प्राण, इन्द्रिय और मनके धर्मोंको अपनेमें आरोपित कर मैं–मेरेपनके अभिमानसे बँधकर क्षुद्र विषयोंका चिन्तन करता हुआ तरह-तरहके कर्म करता रहता है॥ २५॥
वीरराघवः
प्राणादिधर्मानात्मन्यध्यस्य पिपासुरहं, बुभुक्षुरहं, काणोऽहं, बधिरोऽहं, दुःख्यहं, मुख्यहमित्येवं प्राणादेर्धर्मानात्मन्यारोप्य सुखलेशान् चिन्तयन्नहम्ममाभिमानाभ्यां पुनर्देहान्तर प्राप्तिहेतुभूतकर्माणि कुर्वन् शरीरे वसति ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
यदाऽऽत्मानमविज्ञाय भगवन्तं परं गुरुम्।
पुरुषस्तु विषज्जेत गुणेषु प्रकृतेः स्वदृक्॥
मूलम्
यदात्मानमविज्ञाय भगवन्तं परं गुरुम्।
पुरुषस्तु विषज्जेत गुणेषु 69प्रकृतेस्स्वदृक्॥ २६ ॥
अनुवाद (हिन्दी)
यह यद्यपि स्वयंप्रकाश है, तथापि जबतक सबके परमगुरु आत्मस्वरूप श्रीभगवान्के स्वरूपको नहीं जानता, तबतक प्रकृतिके गुणोंमें ही बँधा रहता है॥ २६॥
वीरराघवः
कुतोऽयं संसार इति विवित्सायां स्वपरयाथात्म्यरूपोपासनापन्नज्ञानाभावादेवेत्याह- यदेति । स्वात्मानं हितोपदेष्टारं प्रकृतिपुरुषविलक्षणं षाड्गुण्यपूर्णं परमात्मानं चाज्ञात्वा क्षेत्रज्ञः स्वभावतः स्वदृक् स्वानुभवपरोऽपि प्रकृतेर्गुणेषु शब्दादिषु यदा विषज्जेत नितरां सक्तो भवेत् ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
गुणाभिमानी स तदा कर्माणि कुरुतेऽवशः।
शुक्लं कृष्णं लोहितं वा यथाकर्माभिजायते॥
मूलम्
गुणाभिमानी स तदा कर्माणि कुरुतेऽवशः।
शुक्लं कृष्णं लोहितं वा यथा70कर्माभिजायते॥ २७ ॥
अनुवाद (हिन्दी)
उन गुणोंका अभिमानी होनेसे वह विवश होकर सात्त्विक, राजस और तामस कर्म करता है तथा उन कर्मोंके अनुसार भिन्न-भिन्न योनियोंमें जन्म लेता है॥ २७॥
वीरराघवः
गुणेष्वेव शब्दादिष्वभिमानी भोम्यताबुद्धिमान्, अत एव विषयपरवशः विषयलाभसाधनतया शुक्लं सात्विकं, कृष्णं तामसं, लोहितं राजसमित्येवं रूपेण त्रिविधानि कर्माणि कुरुते । तदा 71यथास्वम् 72स्वस्वकर्मानुसारेणाभिजायते पुनर्जन्मान्तरं प्रतिपद्यते ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
शुक्लात्प्रकाशभूयिष्ठाँल्लोकानाप्नोति कर्हिचित्।
दुःखोदर्कान् क्रियायासांस्तमः शोकोत्कटान् क्वचित्॥
मूलम्
शुक्ला73त्प्रकाशभूयिष्ठान् लोकानाप्नोति कर्हिचित्।
दुःखोदर्कान् 74क्रियाऽऽयासान् तमश्शोकोत्कटान् क्वचित्॥ २८ ॥
अनुवाद (हिन्दी)
वह कभी तो सात्त्विक कर्मोंके द्वारा प्रकाशबहुल स्वर्गादि लोक प्राप्त करता है, कभी राजसी कर्मोंके द्वारा दुःखमय रजोगुणी लोकोंमें जाता है—जहाँ उसे तरह-तरहके कर्मोंका क्लेश उठाना पड़ता है—और कभी तमोगुणी कर्मोंके द्वारा शोकबहुल तमोमयी योनियोंमें जन्म लेता है॥ २८॥
वीरराघवः
तदेवाह - शुक्लात्सात्विकात् कर्मणो हेतोः प्रकाशभूयिष्ठान् प्रकाशः भूयिष्ठः प्रचुरो येषु तान् 75लोकान् देहान् कर्हिचित् प्राप्नोति । कर्हिचिदित्यनेन सात्विकं कर्म, तत्प्रयुक्तः सात्विको देहश्च दुर्लभ इत्युक्तम् । क्रियायाः राजसात्कर्मणः दुःखोदर्कम् उत्तरं येषां तान्, दुःखपरम्परासम्पादकानित्यर्थः, तान् लोकान् । तमस्तामसात् कर्मणः, विभक्तिलुगार्षः । यद्वा तमश्शोकौ अज्ञानशोकौ उत्कटौ येषु तान् । तामसात् कर्मण इति वा शेषः । क्वचिद्रजस्तमः प्रचुरम्लेच्छादिदेशेषु सात्त्विकादि 76कर्मस्वरूपं तत्कर्तृस्वरूपं तद्बुद्धिस्वरूपं च76 स्पष्टं गीतं भगवता- “नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म 77यत्तत्सात्विकमुच्यते ॥ यत्तु कामेप्सुना कर्म77 साहङ्कारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । मोहादारभ्यते कर्मयत्तत्तामसमुच्यते ।” (भ.गी. 18-23-25) इत्यादिना ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
क्वचित्पुमान् क्वचिच्च स्त्री क्वचिन्नोभयमन्धधीः।
देवो मनुष्यस्तिर्यग्वा यथाकर्मगुणं भवः॥
मूलम्
क्वचित् पुमान् क्वचिच्च स्त्री क्वचिन्नोभयमन्धधीः।
देवो मनुष्यस्तिर्यग्वा यथाकर्मगुणं भवः॥ २९ ॥
अनुवाद (हिन्दी)
इस प्रकार अपने कर्म और गुणोंके अनुसार देवयोनि, मनुष्ययोनि अथवा पशु-पक्षीयोनिमें जन्म लेकर वह अज्ञानान्ध जीव कभी पुरुष, कभी स्त्री और कभी नपुंसक होता है॥ २९॥
वीरराघवः
गुणकर्मानुसारेण जन्मापि न पुंस्त्वादिरूपेण नियतं प्राप्नोति किं त्वनियत78मेवेत्याह - क्वचिदिति । अन्धधीः अज्ञः, नोभयं नपुंसकं भवतीत्यर्थः । तत्रापि यथाकर्मगुणं कर्मगुणावनतिक्रम्य देवादिरूपेण भवः जन्म भवतीति शेषः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
क्षुत्परीतो यथा दीनः सारमेयो गृहं गृहम्।
चरन् विन्दति यद्दिष्टं दण्डमोदनमेव वा॥
मूलम्
क्षुत्परीतो यथा दीनः सारमेयो गृहं गृहम्।
चरन् विन्दति यद्दिष्टं दण्डमोदनमेववा॥ ३० ॥
वीरराघवः
एवंविधेषु जन्मसु सुखलाभो दुर्लभ इति सदृष्टान्तमाह - यथेति द्वाभ्याम् । यथा क्षुधा परिवृतः 79व्याप्तः अत एव दीनः, सारमेयः श्वा, प्रतिगृहमटन् यद्दिष्टं यत् स्वकर्मायत्तं दण्डेन ताडनं वा ओदनं वा विन्दति प्राप्नोति ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
तथा कामाशयो जीव उच्चावचपथा भ्रमन्।
उपर्यधो वा मध्ये वा याति दिष्टं प्रियाप्रियम्॥
मूलम्
80तथा कामाशयो जीव उच्चावचपथा भ्रमन्।
उपर्यधो वा मध्ये वा याति दिष्टं प्रियाप्रियम्॥ ३१ ॥
अनुवाद (हिन्दी)
जिस प्रकार बेचारा भूखसे व्याकुल कुत्ता दर-दर भटकता हुआ अपने प्रारब्धानुसार कहीं डंडा खाता है और कहीं भात खाता है, उसी प्रकार यह जीव चित्तमें नाना प्रकारकी वासनाओंको लेकर ऊँचे-नीचे मार्गसे ऊपर, नीचे अथवा मध्यके लोकोंमें भटकता हुआ अपने कर्मानुसार सुख-दुःख भोगता रहता है॥ ३०-३१॥
वीरराघवः
एवं जीवोऽपि कामव्याप्तः आशयो यस्य, उच्चावचपथा उत्कृष्टापकृष्टमार्गेण, उपरि ऊर्ध्वलोकेषु, अधः अधोलोकेषु नरकेषु, मध्ये इहलोकेषु भ्रमन् “ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः” (भ.गी. 14-18) इत्युक्तरीत्या भ्रमन्, दिष्टं दैवायत्तं प्रियमप्रियं वा याति प्राप्नोति ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
दुःखेष्वेकतरेणापि दैवभूतात्महेतुषु।
जीवस्य न व्यवच्छेदः स्याच्चेत्तत्तत्प्रतिक्रिया॥
मूलम्
दुःखेष्वेकतरेणापि 81दैवभूतात्महेतुषु।
जीवस्य न व्यवच्छेदः स्याच्चेत्तत्तत्प्रतिक्रिया॥ ३२ ॥
अनुवाद (हिन्दी)
आधिदैविक, आधिभौतिक और आध्यात्मिक—इन तीन प्रकारके दुःखोंमेंसे किसी भी एकसे जीवका सर्वथा छुटकारा नहीं हो सकता। यदि कभी वैसा जान पड़ता है तो वह केवल तात्कालिक निवृत्ति ही है॥ ३२॥
वीरराघवः
ननु तर्हि सुखस्य सम्भवात् दुःखस्य प्रतीकाररूपकर्मान्तरसम्भवान्नैकान्ततो हेयत्वं तत्राह - दुःखेष्विति । दैवभूतात्महेतुष्वाधिदैविकाधिभौतिकाध्यात्मिकतापरूपेण त्रिविधेषु दुःखेष्वन्यतरस्य प्रतिक्रिया स्याच्चेत्तथाप्यन्यतरेण न व्यवच्छेदनासम्बन्धः । भगवदुपासनमन्तरेण न तापत्रयविनाशनसमर्था प्रतिक्रियाऽस्तीति भावः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन्।
तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः॥
अनुवाद (हिन्दी)
वह ऐसी ही है जैसे कोई सिरपर भारी बोझा ढोकर ले जानेवाला पुरुष उसे कंधेपर रख ले। इसी तरह सभी प्रतिक्रिया (दुःखनिवृत्ति) जाननी चाहिये—यदि किसी उपायसे मनुष्य एक प्रकारके दुःखसे छुट्टी पाता है, तो दूसरा दुःख आकर उसके सिरपर सवार हो जाता है॥ ३३॥
वीरराघवः
प्रतिक्रियापि दुःखरूपेति दृष्टान्तमाह - यथा हीति । यथा पुमान् गुरुं भारं शिरसा उद्वहन् शिरसो विश्रान्तये तद्भारं स्कन्धेनाधत्ते उद्वहति तथा सर्वाः प्रतिक्रिया दुःखप्रतीकारास्तादात्विकाल्पविश्रान्तिकरास्ता अपि दुःखरूपा इत्यर्थः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम्।
द्वयं ह्यविद्योपसृतं स्वप्ने स्वप्न इवानघ॥
मूलम्
नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम्।
द्वयं ह्यविद्योपसृतं स्वप्ने स्वप्न इवानघ॥ ३४ ॥
अनुवाद (हिन्दी)
शुद्ध हृदय नरेन्द्र! जिस प्रकार स्वप्नमें होनेवाला स्वप्नान्तर उस स्वप्नसे सर्वथा छूटनेका उपाय नहीं है, उसी प्रकार कर्मफल-भोगसे सर्वथा छूटनेका उपाय केवल कर्म नहीं हो सकता; क्योंकि कर्म और कर्मफलभोग दोनों ही अविद्यायुक्त होते हैं॥ ३४॥
वीरराघवः
किञ्च प्रतीकारोऽपि कर्मात्मक एव, दुःखहेतुरपि कर्मैव तत्रोभयोरप्यज्ञानमूलत्वेन दुःखहेतौ कर्मण कर्मान्तरेण प्रतिकृतेऽपि न मूलं निवर्तते । ततश्च पुनरपि दुःखनिमित्तकर्मोदयान्नैकान्ततः कर्माणां प्रतीकारः सम्भवतीत्याह । केवलं जानविधुरं कर्म कर्मणां दुःखहेतूनामेकान्ततः निश्शेषतः प्रतीकारो न भवति । द्वयं निवर्त्यं निवर्तकं चेत्युभयविधं कर्म, हि यस्मात् अविद्योपसृतं देहात्मभ्रान्तिरूपाहङ्कारममकारात्मकाज्ञानेन उपसृष्टं गर्भितं तन्मूलमित्यर्थः । तत्र दृष्टान्तः - स्वप्ने स्वप्न इवेति, स्वशिरच्छेदादिविषये स्वप्ने जागरणेन निवृत्तेऽप्यज्ञानस्य मूलस्यानिवृत्तेः पुनः स्वप्नो भवति तद्वत्स्वप्ननिवर्तकंस्वप्नान्तरमिवेति वा ज्ञानहीनस्य कर्मणि प्रतिकृतेऽपि नाविद्यानिवृत्तिरित्यर्थः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते।
मनसा लिङ्गरूपेण स्वप्ने विचरतो यथा॥
मूलम्
अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते।
मनसा लिङ्गरूपेण स्वप्ने विचरतो यथा॥ ३५ ॥
अनुवाद (हिन्दी)
जिस प्रकार स्वप्नावस्थामें अपने मनोमय लिंगशरीरसे विचरनेवाले प्राणीको स्वप्नके पदार्थ न होनेपर भी भासते हैं, उसी प्रकार ये दृश्यपदार्थ वस्तुतः न होनेपर भी, जबतक अज्ञान-निद्रा नहीं टूटती, बने ही रहते हैं और जीवको जन्म-मरणरूप संसारसे मुक्ति नहीं मिलती। (अतः इनकी आत्यन्तिक निवृत्तिका उपाय एकमात्र आत्मज्ञान ही है)॥ ३५॥
वीरराघवः
नन्वहम्ममाभिमानरूपाज्ञानमेव कर्मद्वारा दुःखहेतुरित्युक्तं, तर्हि अज्ञानमेव प्रतिक्रियतां तत्राह - अर्थ इति । अर्थे आत्मन्यविद्यमानेऽपि देवत्वमनुष्यत्वाद्याकाराभावेऽपि देहात्मभ्रान्तिमूला दुःखरूपा संसृतिर्न निवर्तते कुत इत्यत्राह - मनसेति । लिङ्गरूपेण जन्तुः देहात्माभिमानहेतुभूतमनस्सद्भावादित्यर्थः, मनसो भ्रान्तिजननद्वारा दुःखादिहेतुत्वे दृष्टान्तमाह - स्वप्न इति । यथा स्वप्ने विचरतः सङ्कल्प84विकल्पादिकं कुर्वतो मनसो हेतोर्देशान्तरगमनराज्याभिषेकस्वशिरश्छेदादिनिमित्तसुखदुःखादिकं भवति तथेत्यर्थः ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
अथात्मनोऽर्थभूतस्य यतोऽनर्थपरम्परा।
संसृतिस्तद्व्यवच्छेदो भक्त्या परमया गुरौ॥
मूलम्
अथात्मनोऽर्थभूतस्य यतोऽनर्थपरम्परा।
संसृतिस्तद्व्यवच्छेदो भक्त्या परमया 85गुरौ॥ ३६ ॥
अनुवाद (हिन्दी)
राजन्! जिस अविद्याके कारण परमार्थस्वरूप आत्माको यह जन्म-मरणरूप अनर्थपरम्परा प्राप्त हुई है, उसकी निवृत्ति गुरुस्वरूप श्रीहरिमें सुदृढ़ भक्ति होनेपर हो सकती है॥ ३६॥
वीरराघवः
अतः पुरुषार्थभूतस्यात्मनो देहात्मभ्रान्त्यहङ्कारममकारतन्मूलोच्चावचकर्मद्वारानर्थरूपसंसारहेतुत्वान्मनसस्तदेव वशीकर्तव्यं, वशीकरणोपायश्च भगवद्भक्तिरेवेत्याह - अथेति । अथातः पुरुषार्थभूतस्यात्मनः अनर्थपरम्परादुःखपरम्परारूपा संसृतिर्यतो मनसो भवति तद्व्यवच्छेदः तस्य मनसो व्यवच्छेदः, दुःखनिमित्तदेहात्मभ्रान्त्याद्यजनकत्वरूपो व्यवच्छेदः मुक्तिरिति यावत् गुरौ भगवति परमया भक्त्या भवति86 ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
वासुदेवे भगवति भक्तियोगः समाहितः।
सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति॥
मूलम्
वासुदेवे भगवति भक्तियोगः समाहितः।
सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति॥ ३७ ॥
अनुवाद (हिन्दी)
भगवान् वासुदेवमें एकाग्रतापूर्वक सम्यक् प्रकारसे किया हुआ भक्तिभाव ज्ञान और वैराग्यका आविर्भाव कर देता है॥ ३७॥
वीरराघवः
कथं तद्व्यवच्छेदहेतुसम्बन्धः तत्राह - वासुदेव इति । सध्रीचीनेन समीचीनेन प्रकारेण वासुदेवे भगवति समाहितो निहितः कृत इति यावत् भक्तियोगः परभक्तियोगः, वैराग्यं विषयेष्वनासक्तिं, ज्ञानं परज्ञानं च जनयिष्यति परभक्त्यादिप्रणाड्या सुखदुःखादिनिवर्तकः परमभक्तियोग उदेष्यतीत्यर्थः ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
सोऽचिरादेव राजर्षे स्यादच्युतकथाश्रयः।
शृण्वतः श्रद्दधानस्य नित्यदा स्यादधीयतः॥
मूलम्
सोऽचिरा87देव राजर्षे स्यादच्युतकथाश्रयः।
शृण्वतः श्रद्दधानस्य नित्यदा स्यादधीयतः॥ ३८ ॥
अनुवाद (हिन्दी)
राजर्षे! यह भक्तिभाव भगवान्की कथाओंके आश्रित रहता है। इसलिये जो श्रद्धापूर्वक उन्हें प्रतिदिन सुनता या पढ़ता है, उसे बहुत शीघ्र इसकी प्राप्ति हो जाती है॥ ३८॥
वीरराघवः
परभक्तियोगोऽपि कुतः स्यात्तत्राह - स इति । अच्युतकथाश्रयः अच्युतस्यैव कथाश्रयो यस्य सः, परभक्तियोगः अचिरादेव स्यात् । हे राजर्षे ! भगवत्कथाश्रवणात्परभक्तियोग उदेष्यतीत्यर्थः । अच्युतकथाश्रयः परभक्तियोगः कथम्भूतस्य स्यात्तत्राह - नित्यदा अच्युतकथाः शृण्वतः श्रद्धधानस्य कथाश्रवणविषयनिष्ठायुक्तस्य नित्यमधीयतः कथा अधीयानस्य ॥ ३९ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
यत्र भागवता राजन् साधवो विशदाशयाः।
भगवद्गुणानुकथनश्रवणव्यग्रचेतसः॥
वीरराघवः
कुत्र शृण्वतस्तत्राह - यत्रेति । हे राजन् ! साधवः विमलान्तः करणाः भगवतो गुणानुकथने श्रवणे च व्यग्रं सत्वरं चेतो येषां ते यत्र वसन्ति तत्रेत्यर्थः ॥ ४० ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
तस्मिन्महन्मुखरिता मधुभिच्चरित्र-
पीयूषशेषसरितः परितः स्रवन्ति।
ता ये पिबन्त्यवितृषो नृप गाढकर्णै-
स्तान्न स्पृशन्त्यशनतृड्भयशोकमोहाः॥
मूलम्
तस्मिन्महन्मुखरिता मधुभिच्चरित्रपीयूष90शेषसरितः परितः स्रवन्ति।
ता ये पिबन्त्य91वितृषो नृप गाढकर्णैः तान्न स्पृशन्त्यशनतृड्भयशोकमोहाः॥ ४० ॥
अनुवाद (हिन्दी)
राजन्! जहाँ भगवद्गुणोंको कहने और सुननेमें तत्पर विशुद्धचित्त भक्तजन रहते हैं, उस साधु-समाजमें सब ओर महापुरुषोंके मुखसे निकले हुए श्रीमधुसूदन भगवान्के चरित्ररूप शुद्ध अमृतकी अनेकों नदियाँ बहती रहती हैं। जो लोग अतृप्त-चित्तसे श्रवणमें तत्पर अपने कर्णकुहरोंद्वारा उस अमृतका छककर पान करते हैं, उन्हें भूख-प्यास, भय, शोक और मोह आदि कुछ भी बाधा नहीं पहुँचा सकते॥ ३९-४०॥
वीरराघवः
तत्र कथं श्रवणं लभ्यते 92श्रृण्वतां च कानि दुःखानि नश्यन्ति92 तत्राह - तस्मिन्निति । तस्मिन् देशे सद्भिर्मुखरिताः मधुभिदो 93भगवतः चरित्रमेव पीयूषं तदेव शेषः शिष्यत इति शेषः । असारांशरहितः सारांशो यासु ताः । सरितो नदीरूपा अच्युतकथाः परितः स्रवन्ति प्रवर्तन्ते भागवतप्रचुरे देशे सुलभमेव भगवत्कथाश्रवणमिति भावः । ताः सरिद्रूपाः भगवत्कथा ये जनाश्च अवितृषः अलम्बुद्धिशून्यास्सन्तो गाढैः सावधानैः कर्णैः पिबन्ति श्रृण्वन्ति तानशनादयः न स्पृशन्ति न बाधन्ते ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
एतैरुपद्रुतो नित्यं जीवलोकः स्वभावजैः।
न करोति हरेर्नूनं कथामृतनिधौ रतिम्॥
मूलम्
एतैरुपद्रुतो नित्यं जीवलोकः स्वभावजैः।
न करोति हरेर्नूनं कथामृतनिधौ रतिम्॥ ४१ ॥
अनुवाद (हिन्दी)
हाय! स्वभावतः प्राप्त होनेवाले इन क्षुधा-पिपासादि विघ्नोंसे सदा घिरा हुआ जीव-समुदाय श्रीहरिके कथामृत-सिन्धुसे प्रेम नहीं करता॥ ४१॥
वीरराघवः
भगवत्कथाश्रवणविरोधिनः अशनादय एवेत्याह - एतैरिति । स्वभावजैः देहस्वभावप्रयुक्तैरेतैरशनादिभिः नित्यमुपद्रुतो जीवलोकः हरेः कथामृतसमुद्रे रतिं न करोति, नूनं निश्चयः । भगवत्कथाश्रवणाभिमुख्यविरोधिनोऽशनादीन् शनैः सात्विकदेशस्थभागवतसङ्गतिलब्धभगवद्गुणश्रवणेन निरस्येदित्यर्थः ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
प्रजापतिपतिः साक्षाद्भगवान् गिरिशो मनुः।
दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः॥
मूलम्
प्रजापतिपतिस्साक्षाद्भगवान् गिरिशो मनुः।
दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः॥ ४२ ॥
वीरराघवः
एवं प्रथमं भागवतसङ्गः, ततो भगवद्गुणानुश्रवणं, ततो भगवदुपासनं, ततो विरागः, ततो भगवत्साक्षात्काररूपं परज्ञानं, ततो भगवदनुभवजन्यप्रीत्युत्कर्षरूपा परभक्तिः, ततो मुक्तिरिति प्रणाडी कथिता । इदानीं प्राप्यस्य परमात्मनो वाङ्मनसापरिच्छेद्यस्वरूपस्वभावस्य प्राप्त्युपयुक्तभक्तियोगानुष्ठानकारणं तदनुग्रहमन्तरेण नान्योऽस्तीत्याह - प्रजापतिपतिरित्यादिना । प्रजापतिपतिः चतुर्मुखः, गिरिशो रुद्रः, मनुः स्वायम्भुवः, प्रजाध्यक्षा दक्षादयः, आदिशब्देन कश्यपादयो ग्राह्याः, तथा नैष्ठिकब्रह्मचारिणः सनकादयः ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः।
भृगुर्वसिष्ठ इत्येते मदन्ता ब्रह्मवादिनः॥
मूलम्
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः।
भृगुर्वसिष्ठ इत्येते मदन्ता ब्रह्मवादिनः॥ ४३ ॥
वीरराघवः
मरीच्यादयो मत्पर्यन्ताः नारदपर्यन्ताः सर्वे ब्रह्मवादिनः ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
अद्यापि वाचस्पतयस्तपोविद्यासमाधिभिः।
पश्यन्तोऽपि न पश्यन्ति पश्यन्तं परमेश्वरम्॥
अनुवाद (हिन्दी)
साक्षात् प्रजापतियोंके पति ब्रह्माजी, भगवान् शंकर, स्वायम्भुव मनु, दक्षादि प्रजापतिगण, सनकादि नैष्ठिक ब्रह्मचारी, मरीचि, अत्रि, अंगिरा, पुलस्त्य, पुलह, क्रतु, भृगु, वसिष्ठ और मैं—ये जितने ब्रह्मवादी मुनिगण हैं, समस्त वाङ्मयके अधिपति होनेपर भी तप, उपासना और समाधिके द्वारा ढूँढ़-ढूँढ़कर हार गये, फिर भी उस सर्वसाक्षी परमेश्वरको आजतक न देख सके॥ ४२—४४॥
वीरराघवः
तथा च वाचस्पतयः बृहस्पतिव्यासादयोऽद्यापि तपोविद्याद्युपायैः पश्यन्तोऽपि उपासीना अपि सर्वज्ञं परमेश्वरं 96न पश्यन्ति96 इयत्तया न पश्यन्ति वाङ्मनसाऽपरिच्छेद्यस्वरूपस्वभावत्वादिति भावः ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
शब्दब्रह्मणि दुष्पारे चरन्त उरुविस्तरे।
मन्त्रलिङ्गैर्व्यवच्छिन्नं भजन्तो न विदुः परम्॥
मूलम्
शब्दब्रह्मणि दुष्पारे चरन्त उरुविस्तरे।
मन्त्रलिङ्गैर्व्यवच्छिन्नं भजन्तो न विदुः परम्॥ ४५ ॥
अनुवाद (हिन्दी)
वेद भी अत्यन्त विस्तृत हैं, उसका पार पाना हँसी-खेल नहीं है। अनेकों महानुभाव उसकी आलोचना करके मन्त्रोंमें बताये हुए वज्र–हस्तत्वादि गुणोंसे युक्त इन्द्रादि देवताओंके रूपमें, भिन्न-भिन्न कर्मोंके द्वारा, यद्यपि उस परमात्माका ही यजन करते हैं तथापि उसके स्वरूपको वे भी नहीं जानते॥ ४५॥
वीरराघवः
एत एव न जानन्ति किमु कर्मजडाः त्वादृशा न जानन्तीत्याह - शब्दब्रह्मणीति । उरु विस्तरे “अनन्ता वै वेदाः” इति श्रुतिविस्तरे दुष्पारे दुरधिगमतात्पर्ये शब्दब्रह्मणि शब्दात्मकेब्रह्मणि वेदे चरन्तः तत्र श्रुतपशुपुत्रवृष्ट्यन्नस्वर्गाद्यैहिकामुष्पिकफललिप्सवः मन्त्रलिङ्गैः मन्त्रश्रुतवज्रहस्तत्वादिगुणलिङ्गैः व्यवच्छिन्नं 97युक्तमिन्द्राद्यधिदेवतावर्गं भजन्तः समीहितसाधनतया यजन्तः, परं परमात्मानं न विदुः अपरिच्छेद्यस्वरूपस्वभावस्येयत्तया वेद्यत्वमसम्भवि । अपरिच्छिन्नत्वेन ज्ञानेऽपि तदुपासनमेव कारणं न केवलं कर्मेति भावः ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
यदा यमनुगृह्णाति भगवानात्मभावितः।
स जहाति मतिं लोके वेदे च परिनिष्ठिताम्॥
मूलम्
यदा 98यस्याऽनुगृह्णाति भगवानात्मभावितः।
स जहाति मतिं लोके वेदे च परिनिष्ठिताम्॥ ४६ ॥
अनुवाद (हिन्दी)
हृदयमें बार-बार चिन्तन किये जानेपर भगवान् जिस समय जिस जीवपर कृपा करते हैं, उसी समय वह लौकिक व्यवहार एवं वैदिक कर्म-मार्गकी बद्धमूल आस्थासे छुट्टी पा जाता है॥ ४६॥
वीरराघवः
यदा भगवानात्मभावित आत्मना स्वेनैव भावितः यदीयाऽऽनुषङ्गिक प्रासङ्गिकयादृच्छिकाद्यन्यतमाज्ञातसुकृतव्याजमात्रसन्तुष्टेन स्वेनैव भावितः रक्षणोन्मुखः यमनुगृह्णाति स पुमां लोके देहयापनोपयुक्ते कर्मणि शिश्नोदरादिव्यापारे वेदे च वेदपूर्वभागमात्रोदिते च कर्मणि परिनिष्ठितां मतिं जहाति भगवतानुगृहीत एवमुक्त्युपायोपसंहाराय प्रभवतीत्यर्थः ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
तस्मात्कर्मसु बर्हिष्मन्नज्ञानादर्थकाशिषु।
मार्थदृष्टिं कृथाः श्रोत्रस्पर्शिष्वस्पृष्टवस्तुषु॥
मूलम्
तस्मात्कर्मसु बर्हिष्मन्नज्ञानादर्थकाशिषु।
माऽर्थदृष्टिं कृथाः श्रोत्रस्पर्शिष्वस्पृष्टवस्तुषु॥ ४७ ॥
अनुवाद (हिन्दी)
बर्हिष्मन्! तुम इन कर्मोंमें परमार्थबुद्धि मत करो। ये सुननेमें ही प्रिय जान पड़ते हैं, परमार्थका तो स्पर्श भी नहीं करते। ये जो परमार्थवत् दीख पड़ते हैं, इसमें केवल अज्ञान ही कारण है॥ ४७॥
वीरराघवः
तस्माद्भगवदनुग्रहस्यैव कारणत्वात् हे बर्हिष्मन् ! भगवदनुग्रहानुप्राप्तसत्सङ्गः त्वमर्थकाशिषु स्वर्गादिफलशोभिषु कर्मस्वज्ञानादर्थदृष्टिं पुरुषार्थसाधनमतिं मा कृथाः । तत्र हेतुः - श्रोत्रस्पर्शिषु प्ररोचनया केवलं श्रोत्रप्रियेषु न स्पृष्टं वस्तु निरतिशयपुरुषार्थरूपं यैस्तेषु, अनित्याल्पफलेषु बह्वायासेष्वित्यर्थः ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
स्वं लोकं न विदुस्ते वै यत्र देवो जनार्दनः।
आहुर्धूम्रधियो वेदं सकर्मकमतद्विदः॥
अनुवाद (हिन्दी)
जो मलिनमति कर्मवादी लोग वेदको कर्मपरक बताते हैं, वे वास्तवमें उसका मर्म नहीं जानते। इसका कारण यही है कि वे अपने स्वरूपभूत लोक (आत्मतत्त्व)-को नहीं जानते, जहाँ साक्षात् श्रीजनार्दन भगवान् विराजमान हैं॥ ४८॥
वीरराघवः
ननु “अपाम सोमममृता अभूम अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम् ” (ऋक् . सं 6-4-11) इत्यादिभिः कर्मसाध्यफलस्यापि नित्यत्वावगमात् कथमस्पृष्टवस्तुष्वित्युक्तं तत्राह - ये धूम्रधियः रजस्तमः प्रचुरबुद्धयः धूमवदावरकत्वात् तमसो धूम्रधिय इत्युक्तम् । यत्र पूर्वोत्तरभागात्मके वेदे जनार्दनो भगवान् कर्मभिराराध्यत्वेनोपास्यत्वेन च प्रतिपन्नः तं वेदं सकर्मकं कर्मणा सहितं केवलकर्मतात्पर्यकमाहुस्ते अतद्विदः वेदतात्पर्यानभिज्ञाः न ब्रह्मवेदिन इत्यर्थः, यतस्ते स्वरूपभूतं लोकमात्मतत्त्वमपि न विदुः, केवलदेहात्मवेदिनः “अक्षय्यं ह वै” (ऋक्.सं. 6-4-11) इत्यादिवाक्यानि भगवदाराधनत्वेन कृतार्थानि । चातुर्मास्यादिकर्माणि भगवदुपासननिर्वर्तनद्वारा निश्श्रेयसरूपामृतत्वप्राप्तिप्रतिपादनपराणीत्येवं विधतात्पर्यमजानन्तः तानि वाक्यानि केवल स्वर्गादिसुखसाधनभूतकर्मपराणीति मन्वानाः केवलमज्ञा इत्यर्थः ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
आस्तीर्य दर्भैः प्रागग्रैः कात्स्र्न्येन क्षितिमण्डलम्।
स्तब्धो बृहद्वधान्मानी कर्म नावैषि यत्परम्।
तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया॥
मूलम्
आस्तीर्य दर्भैः प्रागग्रैः कात्स्र्न्येन क्षितिमण्डलम्।
101स्तब्धो बृहद्वधान्मानी कर्म नावैषि यत्परम्।
तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया॥ ४९ ॥
अनुवाद (हिन्दी)
पूर्वकी ओर अग्रभागवाले कुशाओंसे सम्पूर्ण भूमण्डलको आच्छादित करके अनेकों पशुओंका वध करनेसे तुम बड़े कर्माभिमानी और उद्धत हो गये हो; किन्तु वास्तवमें तुम्हें कर्म या उपासना—किसीके भी रहस्यका पता नहीं है। वास्तवमें कर्म तो वही है, जिससे श्रीहरिको प्रसन्न किया जा सके और विद्या भी वही है, जिससे भगवान्में चित्त लगे॥ ४९॥
वीरराघवः
तस्मात् त्वमपि केवलकर्मजडो भूत्वा प्रागग्रैर्दर्भैः कृत्स्नं क्षितिमण्डलमास्तीर्य आस्तरणपूर्वकमिष्ट्वा बृहद्वधात् बहु पशुहिंसया मानी महायज्वाहमित्यभिमानी अतः स्तब्धोऽविनीतः, कर्म भगवदाराधनरूपं कर्म नावैषि न जानासि, किं तत्कर्म ? यत्परं श्रेष्ठं परमपुरुषार्थभूतमोक्षसाधनभूतं निवृत्तिधर्मापरपर्यायम् ॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
हरिर्देहभृतामात्मा स्वयं प्रकृतिरीश्वरः।
तत्पादमूलं शरणं यतः क्षेमो नृणामिह॥
मूलम्
हरिर्देहभृतामात्मा स्वयं प्रकृतिरीश्वरः।
तत्पादमूलं शरणं यतः क्षेमो नृणामिह॥ ५० ॥
अनुवाद (हिन्दी)
श्रीहरि सम्पूर्ण देहधारियोंके आत्मा, नियामक और स्वतन्त्र कारण हैं; अतः उनके चरणतल ही मनुष्योंके एकमात्र आश्रय हैं और उन्हींसे संसारमें सबका कल्याण हो सकता है॥ ५०॥
वीरराघवः
अमुक्तिसाधनं कर्म विद्यां च निन्दति - तदिति । हरितोषं भगवत्तोषकारणं यत्तदेव कर्म प्रशस्तमितरत् निन्दितं यया विद्यया ज्ञानेन तन्मतिः हरिभक्तिः भवति सैव विद्या प्रशस्ता इतरा निन्दितेत्यर्थः । तथा चोक्तम् “तत्कर्म यन्नबन्धाय सा विद्या या विमुक्तये । आयासायापरं कर्म विद्यान्या शिल्पनैपुणम्’ (विष्णु.पु. 1-19-41) इति । काऽसौ विद्या यया हरिमतिरिति विवित्सायां तत्त्वहितपुरुषार्थज्ञानमेवेत्याह - हरिरिति । भगवान्निरस्तनिखिलदोषः समस्तकल्याणगुणाकरः ईश्वरः स्वयं प्रकृतिर्जगदुपादानकारणं देहभृतामात्मान्तः प्रविश्य धारकः निरस्तनिखिल97दौषसमस्तकल्याणगुणाकरत्व सर्वान्तरात्मत्व विशिष्टत्वरूपं परतत्वं भगवच्छरीरत्वतत्सृज्यत्वादिकं स्वस्य तत्त्वम् ॥ ५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
स वै प्रियतमश्चात्मा यतो न भयमण्वपि।
इति वेद स वै विद्वान् यो विद्वान् स गुरुर्हरिः॥
मूलम्
102स वै 103प्रियतमश्चात्मा यतो न भयमण्वपि।
इति वेद स वै विद्वान् यो विद्वान् 104स गुरुर्हरिः॥ ५१ ॥
अनुवाद (हिन्दी)
‘जिससे किसीको अणुमात्र भी भय नहीं होता, वही उसका प्रियतम आत्मा है’ ऐसा जो पुरुष जानता है, वही ज्ञानी है और जो ज्ञानी है, वही गुरु एवं साक्षात् श्रीहरि है॥ ५१॥
वीरराघवः
एवं तत्वमुक्तं हितमाह - तस्य भगवत आत्मनो निरुपाधिकशेषिणः पादमूलं शरणं समीहितोपायः इह यतः यत्पादमूलशरणवरणान्नृणां क्षेमः सुखं भवेदित्यर्थः । एवं हित उक्तः, स ह्युपायः । पुरुषार्थमाह - स वै भगवान् अस्य शरणं गतस्य प्रियतमः निरतिशयप्रीतिविषयः “प्रियो हि ज्ञानिनोऽत्यर्थम्” (भ.गी. 7-17) इति भगवदुक्तेः एवं 105पुरुषार्थः उक्तः105 निरतिशयसुखमेव हि पुरुषार्थः । भगवतो निरतिशयसुखरूपत्वस्य “आनन्दो ब्रह्मेति व्यजानात्” (तैत्ति. उ. 3-6) इत्यादि श्रुत्यावगमात् । “को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्, एष ह्येवानन्दयाति” (तैत्ति. उ. 2-7) इत्यानन्दावहत्वश्रवणाद्भगवदनुभव एव पुरुषार्थ इति भावः ॥ ५१ ॥
श्लोक-५२
विश्वास-प्रस्तुतिः
प्रश्न एवं हि संछिन्नो भवतः पुरुषर्षभ।
अत्र मे वदतो गुह्यं निशामय सुनिश्चितम्॥
मूलम्
प्रश्न एवं हि संछिन्नो भवतः पुरुषर्षभ।
अत्र मे वदतो गुह्यं निशामय सुनिश्चितम्॥ ५२ ॥
अनुवाद (हिन्दी)
श्रीनारदजी कहते हैं—पुरुषश्रेष्ठ! यहाँतक जो कुछ कहा गया है, उससे तुम्हारे प्रश्नका उत्तर हो गया। अब मैं एक भलीभाँति निश्चित किया हुआ गुप्त साधन बताता हूँ, ध्यान देकर सुनो॥ ५२॥
वीरराघवः
इत्युक्तविधा107नात् तत्त्वहितपुरुषार्थान् यो वेद स वै स एव विद्वान् यश्च विद्वान् स एव गुरुः यश्च गुरुः स एव हरिः “आचार्यों ब्रह्मणो मूर्तिः” (मनु.स्मृ. 2.226) इत्युक्तेः तत्त्वहितपुरुषार्थज्ञानमेवावश्यमुपादेयमिति भावः । “ब्रूहि मे विमलं ज्ञानं येन मुच्येयकर्मभिः” (भाग. 4-25-5) इति त्वया कृतस्य ज्ञानविषयप्रश्नस्येदमेव हरिर्देहभृतामित्युक्तं प्रधानमुत्तरम् । अन्यत्सर्वमेतदुपपादकमित्यभिप्रायेण उपसंहरति - प्रश्न इति । हे पुरुषर्षभ ! भवतः प्रश्न एवं संछिन्नः हेयोपादेयज्ञानविषयप्रश्नः तज्ज्ञानविवेचनात् दत्तोत्तरो जात इत्यर्थः ॥ ५२ ॥
श्लोक-५३
विश्वास-प्रस्तुतिः
क्षुद्रञ्चरं सुमनसां शरणे मिथित्वा
रक्तं षडङ्घ्रिगणसामसु लुब्धकर्णम्।
अग्रे वृकानसुतृपोऽविगणय्य यान्तं
पृष्ठे मृगं मृगय लुब्धकबाणभिन्नम्॥
मूलम्
क्षुद्रञ्चरं सुमनसां शरणे 108मिथित्वा रक्तं षडङ्घ्रिगणसामसु लुब्धकर्णम्।
अग्रे वृकानसु109तृपोऽविगणय्य यान्तं पृष्ठे मृगं 110मृगय लुब्धकबाणभिन्नम्॥ ५३ ॥
अनुवाद (हिन्दी)
‘पुष्पवाटिकामें अपनी हरिनीके साथ विहार करता हुआ एक हरिन मस्त घूम रहा है, वह दूब आदि छोटे-छोटे अंकुरोंको चर रहा है। उसके कान भौंरोंके मधुर गुंजारमें लग रहे हैं। उसके सामने ही दूसरे जीवोंको मारकर अपना पेट पालनेवाले भेड़िये ताक लगाये खड़े हैं और पीछेसे शिकारी व्याधने बींधनेके लिये उसपर बाण छोड़ दिया है। परन्तु हरिन इतना बेसुध है कि उसे इसका कुछ भी पता नहीं है।’ एक बार इस हरिनकी दशापर विचार करो॥ ५३॥
वीरराघवः
तदेवमात्मनो बन्धमोक्षकारणे कथिते अधुनैवं कथिताभ्यामपि नातिनिर्विण्णचित्तं पुत्रागमं प्रतीक्षमाणं सन्तं तत्क्षणमेव महाभयकम्पितसकलगात्रं गृहान्निर्यापयितुं हरिणरूपकमाह - अत्रेति । वदतो वचः सुनिश्चितं गुह्यं निशामय श्रृणु ॥ ५३ ॥
श्लोक-५४
मूलम् (वचनम्)
[अस्यार्थः]
विश्वास-प्रस्तुतिः
सुमनःसधर्मणां स्त्रीणां शरण आश्रमे पुष्पमधुगन्धवत्क्षुद्रतमं काम्यकर्मविपाकजं कामसुखलवं जैह्व्यौपस्थ्यादि विचिन्वन्तं मिथुनीभूय तदभिनिवेशितमनसं षडङ्घ्रिगणसामगीतवदतिमनोहरवनितादिजनालापेष्वतितरामतिप्रलोभितकर्णमग्रे वृकयूथवदात्मन आयुर्हरतोऽहोरात्रान्तान् काललवविशेषानविगणय्य गृहेषु विहरन्तं पृष्ठत एव परोक्षमनुप्रवृत्तो लुब्धकः कृतान्तोऽन्तःशरेण यमिह पराविध्यति तमिममात्मानमहो राजन् भिन्नहृदयं द्रष्टुमर्हसीति॥
मूलम्
111सुमनस्समानधर्मणां स्त्रीणां शरण आश्रयेपु112ष्पमधुगन्धवत्क्षुद्रत113मं काम्यकर्मविपाकजं कामसुखलवं 114जिह्वोपस्थ्यादि विचिन्वन्तं मिथुनीभूय 115रक्तं तदभिनिवेशितमान116सं षडङ्विगणसामगीतवदतिमनोहरवनि117तादिजनालापेष्वति118तरां प्रलोभितकर्णमग्रे वृकयूथवदात्मन आयुर्हरतोऽहोरा119त्रादिकान् काल120विशेषानविगणय्य गृहेषु विहरन्तं पृष्ठ121त एव “परोक्षामनुप्रवृत्तो लुब्धकः कृता122न्तः आत्तशरोऽयमिह परावि123ध्यति तमिममात्मानमहो राजन्124 निर्भिन्नहृदयं द्रष्टुम125र्हसीति यथा 126मृगयुहतं मृग126मिति॥ ५४ ॥
अनुवाद (हिन्दी)
राजन्! इस रूपकका आशय सुनो। यह मृतप्राय हरिन तुम्हीं हो, तुम अपनी दशापर विचार करो। पुष्पोंकी तरह ये स्त्रियाँ केवल देखनेमें सुन्दर हैं, इन स्त्रियोंके रहनेका घर ही पुष्पवाटिका है। इसमें रहकर तुम पुष्पोंके मधु और गन्धके समान क्षुद्र सकाम कर्मोंके फलरूप, जीभ और जननेन्द्रियको प्रिय लगनेवाले भोजन तथा स्त्रीसंग आदि तुच्छ भोगोंको ढूँढ़ रहे हो। स्त्रियोंसे घिरे रहते हो और अपने मनको तुमने उन्हींमें फँसा रखा है। स्त्री-पुत्रोंका मधुर भाषण ही भौंरोंका मधुर गुंजार है, तुम्हारे कान उसीमें अत्यन्त आसक्त हो रहे हैं। सामने ही भेड़ियोंके झुंडके समान कालके अंश दिन और रात तुम्हारी आयुको हर रहे हैं, परन्तु तुम उनकी कुछ भी परवा न कर गृहस्थीके सुखोंमें मस्त हो रहे हो। तुम्हारे पीछे गुप-चुप लगा हुआ शिकारी काल अपने छिपे हुए बाणसे तुम्हारे हृदयको दूरसे ही बींध डालना चाहता है॥ ५४॥
वीरराघवः
स्वयमेव लोकं प्रस्तुतेऽर्थे योजयन् व्याचष्टे - सुमनस इति । सुमनोभिः पुष्पैः समानो धर्मो यासां तासां परिणामविकारित्वात् स्त्रीणां, शरणे इति प्रतीकः । आश्र127ये इति व्याख्या । गृहस्थाश्रम इत्यर्थः । क्षुद्रञ्चरमिति व्याचष्टे - पुष्पेति । पुष्पगतमकरन्दलेशवदल्पं काम्यकर्मणां परिणामजं कामसुखलवं, काम्यन्त इति कामा विषयास्तेषां सुखलेशं 128जैह्वं जिह्वयाऽऽसादितमौप129स्थम् उपस्थेनेन्द्रियेणाऽऽसादितं चादिर्यस्य तद्विचिन्वन्तं, मिथित्वेत्यस्य व्याख्यानं मिथुनीभूयेति । रक्तमित्यस्य व्याख्या तदभिनिवेशितमनसमिति, तासु अभिनिवेशितं मनो येन तं, षडङ्घ्रिगणसामस्विति व्याचष्टे । भ्रमरगणानां सामगीतवन्मधुरध्वनिवदतिमनोहरा ये इच्छाविषयस्त्रीजनालापास्तेषु, लुब्धकबाणमिति व्याचष्टे । अतितरां प्रलोभितौ कर्णौ यस्य तम् अग्र इत्यादि व्याचष्टे । अग्रे पुरतः वृकसमूहवदात्मनः स्वस्यायुर्हरानहोरात्रादिकालविशेषानविगणय्य यान्तमिति व्याचष्टे । गृहेषु 130विहरन्तं वैषयिकसुखदुःखादिकमनुभवन्तं, पृष्ठे इति सप्तम्यन्तं सार्वविभक्तिकः तसिल्प्रत्ययान्तेनानूद्य व्याचष्टे पृष्ठतः, परोक्षमिति । लुब्धकबाणभिन्नमिति व्याचष्टे अनुप्रवृत्त इति । सामर्थ्य लब्धं लुब्धक इत्यस्य व्याख्यानम् । कृतान्त इति आत्तः स्वीकृतः मारणरूपो येन, इह शरीरिणं देहिनं पराविध्यति दूरादेव ताडयति । मृगयेति व्याचष्टे । तमिमं देहिनमात्मानं स्वात्मानं द्रष्टुमालोचयितुमर्हसि । तत्र दृष्टान्तः - यथेति ॥ ५४ ॥
श्लोक-५५
विश्वास-प्रस्तुतिः
स त्वं विचक्ष्य मृगचेष्टितमात्मनोऽन्त-
श्चित्तं नियच्छ हृदि कर्णधुनीं च चित्ते।
जह्यङ्गनाश्रममसत्तमयूथगाथं
प्रीणीहि हंसशरणं विरम क्रमेण॥
मूलम्
स त्वं विच131क्ष्य मृगचेष्टितमात्मनोऽन्तः चित्तं नियच्छ हृदि कर्णधुनीं च 132चित्ते।
जह्यङ्गना133श्रममसत्तमयूथगाथं प्रीणीहि हंसशरणं विरम क्रमेण॥ ५५ ॥
अनुवाद (हिन्दी)
इस प्रकार अपनेको मृगकी-सी स्थितिमें देखकर तुम अपने चित्तको हृदयके भीतर निरुद्ध करो और नदीकी भाँति प्रवाहित होनेवाली श्रवणेन्द्रियकी बाह्य वृत्तिको चित्तमें स्थापित करो (अन्तर्मुखी करो)। जहाँ कामी पुरुषोंकी चर्चा होती रहती है, उस गृहस्थाश्रमको छोड़कर परमहंसोंके आश्रय श्रीहरिको प्रसन्न करो और क्रमशः सभी विषयोंसे विरत हो जाओ॥ ५५॥
वीरराघवः
उपदेशसारमाह - स इति । स त्वमुक्तविधः त्वं मृगचेष्टितं विचक्ष्याऽऽलोच्य आत्मनः स्वस्यान्तर्हृदि 134हृदयगुहायां चित्तं मनः नियच्छ नियतं कुरु, चित्ते च कर्णधुनीं कर्णयोः धुनीं नदीमिव स्थितां ध्वनिना नदीव श्रूयमाणां, कर्मसुरुच्युत्पादिकामर्थवादात्मिकां श्रुतिं नियच्छ, कर्मसु रुचिं त्यजेत्यर्थः । कर्मयोः धुनीं वृत्तिमिति वा । अस्मिन्नपि पक्षे स एवार्थः, अङ्गनायाः स्त्रियाः आश्रमं 135गृहं जहि गृहाश्रमत्यज । कीदृशम् ? असत्तमानामतिकामुकानां यानि यूथानि तेषां गाथा वार्ता यस्मिन् । हंसानां जीवानां शरणमिष्टोपायं रक्षितारं च भगवन्तं वृणीहि वृणु शरणं गच्छ । असत्तमयूथनाथमिति पाठे असत्तमयूथः नाथः निर्वाहको यस्य तम् अङ्गनाश्रममित्यर्थः । विरम सांसारिकप्रवृत्तेरिति शेषः ॥ ५५ ॥
श्लोक-५६
मूलम् (वचनम्)
136राजोवाच
विश्वास-प्रस्तुतिः
श्रुतमन्वीक्षितं ब्रह्मन् भगवान् यदभाषत।
नैतज्जानन्त्युपाध्यायाः किं न ब्रूयुर्विदुर्यदि॥
मूलम्
श्रुतम137न्वीक्षितं ब्रह्मन् भगवान् यदभाषत।
नैतज्जानन्त्युपाध्यायाः किं न ब्रूयुर्विदुर्यदि॥ ५६ ॥
अनुवाद (हिन्दी)
राजा प्राचीनबर्हिने कहा—भगवन्! आपने कृपा करके मुझे जो उपदेश दिया, उसे मैंने सुना और उसपर विशेषरूपसे विचार भी किया। मुझे कर्मका उपदेश देनेवाले इन आचार्योंको निश्चय ही इसका ज्ञान नहीं है; यदि ये इस विषयको जानते तो मुझे इसका उपदेश क्यों न करते॥ ५६॥
वीरराघवः
एवमुपदिष्ट चिदचिदीश्वरतत्त्वः कर्मसु समुत्पादितवैराग्यो राजा उक्तमभिनन्दन् पुनरन्यानि संशयपदानि आविष्कुर्वन् पृच्छति - श्रुतमिति 138त्रिभिः । हे ब्रह्मन् ! भगवन् भवान् यदभाषत तदान्वीक्षिकमात्मान्वीक्षणोपयोगि श्रोतव्यमर्थजातं मया श्रुतम् । 139अन्वीक्षितमिति पाठे विचारितमित्यर्थः । एतद्भवतोपदिष्टमस्मदुपाध्यायाः कर्मोपदेष्टारस्ते न जानन्ति । तत्र लिङ्गमाह - यदि विदुस्तर्हि किमर्थं न ब्रूयुः अतोऽकथानान्न जानन्त्येवातिगुह्यं भवतोपदिष्टमिति भावः ॥ ५६ ॥
श्लोक-५७
विश्वास-प्रस्तुतिः
संशयोऽत्र तु मे विप्र संछिन्नस्तत्कृतो महान्।
ऋषयोऽपि हि मुह्यन्ति यत्र नेन्द्रियवृत्तयः॥
मूलम्
संशयोऽत्र 140तु मे विप्र सञ्छिन्नस्तत्कृ141तो महान्।
ऋषयोऽपि 142हि मुह्यन्ति यत्र नेन्द्रियवृत्तयः॥ ५७ ॥
अनुवाद (हिन्दी)
विप्रवर! मेरे उपाध्यायोंने आत्मतत्त्वके विषयमें मेरे हृदयमें जो महान् संशय खड़ा कर दिया था, उसे आपने पूरी तरहसे काट दिया। इस विषयमें इन्द्रियोंकी गति न होनेके कारण मन्त्रद्रष्टा ऋषियोंको भी मोह हो जाता है॥ ५७॥
वीरराघवः
अतस्तत्कृत उपाध्यायकृतः तद्वाक्यविरोधेनात्मतत्त्वेऽसम्भावनारूपो महान् संशयः सञ्छिन्नस्त्वया । अत्रतु कश्चित्संशयोऽ143नुवर्तते । यत्र संशयपदे इन्द्रियवृत्तीनामप्रवृत्तिः तत्र ऋषयोऽपि मुह्यन्ति ॥ ५७ ॥
श्लोक-५८
विश्वास-प्रस्तुतिः
कर्माण्यारभते येन पुमानिह विहाय तम्।
अमुत्रान्येन देहेन जुष्टानि स यदश्नुते॥
मूलम्
कर्माण्यारभते येन पुमानिह विहाय तम्।
अमुत्रान्येन देहेन जुष्टा144न्यसकृदश्रुते॥ ५८ ॥
वीरराघवः
किमत्र संशयपदं तदाह - कर्माणीति । पुमान् येन देहेन कर्माणि पुण्यापुण्यरूपाणि अत्र लोके आरभते करोति तं देहमिहैव विहाय कर्मोपस्थापितेनान्येन देहेन जुष्टानि सेवितानि विषयीकृतानि सुखदुःखानि असकृत् पुनः पुनर्भुङ्क्ते ॥ ५८ ॥
श्लोक-५९
विश्वास-प्रस्तुतिः
इति वेदविदां वादः श्रूयते तत्र तत्र ह।
कर्म यत्क्रियते प्रोक्तं परोक्षं न प्रकाशते॥
मूलम्
इति वेदविदां 145वादः 146श्रूयते तत्र तत्र ह।
कर्म 147च क्रियते प्रोक्तं परोक्षं न प्रकाशते॥ ५९ ॥
अनुवाद (हिन्दी)
वेदवादियोंका कथन जगह-जगह सुना जाता है कि ‘पुरुष इस लोकमें जिसके द्वारा कर्म करता है, उस स्थूलशरीरको यहीं छोड़कर परलोकमें कर्मोंसे ही बने हुए दूसरी देहसे उनका फल भोगता है। किन्तु यह बात कैसे हो सकती है?’ (क्योंकि उन कर्मोंका कर्ता स्थूलशरीर तो यहीं नष्ट हो जाता है।) इसके सिवा जो-जो कर्म यहाँ किये जाते हैं, वे तो दूसरे ही क्षणमें अदृश्य हो जाते हैं; वे परलोकमें फल देनेके लिये किस प्रकार पुनः प्रकट हो सकते हैं?॥ ५८-५९॥
वीरराघवः
इत्येवंविधा वेदविदां भवादृशानां वाचः तत्र 148तत्र स्मृतिपुराणादिषु श्रूयन्ते । तथाहि सूत्रं - “वर्णाश्चाश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टकुलजाति149रूपाश्रयश्रुतवित्तसुखमेधसो जन्म प्रतिपद्यन्ते विष्वञ्चो विपरीता नश्यन्ति” इति । भवताप्युक्तं “गुणाभिमानी स तदा कर्माणि कुरुतेऽवशः । शुक्लं कृष्णम्” (भाग. 4-29-27) इत्यादिना । संशयविषयमुद्धारयति
- कर्म चेति । प्रोक्तं सुखदुःखहेतुत्वेन ब्रह्मवादिभिः प्रोक्तं पुण्यापुण्यरूपं कर्म क्रियते जनैः तच्चानन्तरक्षण एव परोक्षमदृश्यं सत् न प्रकाशते । न प्रकाशत इति वर्तमाननिर्देशेन प्राक्तनदेहकृतानां यथाऽस्मिन् देहे न प्रकाशस्तथैतद्देहकृतानामुत्तरजन्मन्यप्रकाशः । तथा यथैव 150पूर्वपूर्वक्षणगोचराणामुत्तरोत्तरक्षणागोचरत्वं तथेति च दृष्टान्तद्वयमभिप्रेतम् । चकारेण कर्मणि हेतुभूतं सत्त्वादिगुणयुक्तं मनः, तद्युक्तं शरीरं च न प्रकाशत इति विवक्षितम् । न हि पूर्वदेहकृतकर्माणि तन्निमित्तं सत्त्वादिगुणयुक्तं मनः तद्युक्तं च शरीरं चेदानीमुपलक्ष्यन्ते, अतस्ते कर्मगुणमनोदेहाः पूर्वं नाऽऽसन् अतस्ते नेदानीं सुखादिहेतवः । एवं तत्तद्देहकृतकर्मगुणमनोदेहाः उत्तरजन्मसुखदुःखादिहेतवो न भविष्यन्ति, किन्तु निर्निमित्तमेव सुखदुःखप्राप्तिरिति मे प्रतिभातीत्यर्थः ॥ ५९ ॥
श्लोक-६०
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
येनैवारभते कर्म तेनैवामुत्र तत्पुमान्।
भुङ्क्ते ह्यव्यवधानेन लिङ्गेन मनसा स्वयम्॥
अनुवाद (हिन्दी)
श्रीनारदजीने कहा—राजन्! (स्थूल शरीर तो लिंगशरीरके अधीन है, अतः कर्मोंका उत्तरदायित्व उसीपर है) जिस मनःप्रधान लिंगशरीरकी सहायतासे मनुष्य कर्म करता है, वह तो मरनेके बाद भी उसके साथ रहता ही है; अतः वह परलोकमें अपरोक्षरूपसे स्वयं उसीके द्वारा उनका फल भोगता है॥ ६०॥
वीरराघवः
एवमापृष्टो भगवान् नारदः तत्प्रश्नं परिहरति येनैवेति । तत्र यदुक्तमुत्तरोत्तर जन्मसुखदुःखादि हेतुभूतकर्माश्रय153पूर्वपूर्वदेहानां विनष्टत्वात्तन्निमित्तं सुखदुःखादिकमनुपपन्नं, न ह्याशुविनाशस्वभाव निराश्रय कर्मान्यकालिकसुखादिहेतुः, न हि विनष्टानां कुलालचीवरदण्डचक्रादिव्यापाराणां कालान्तरभाविघटादिहेतुत्वमिति येनैव मनसा निमित्तभूतेन पुरुषः कर्म आरभते तेनैवाव्यवधानेनाविश्लिष्टेन लिङ्गेन पुण्यापुण्यकर्म हेतुभूतेन मनसा स्वकं स्वकर्मानुगुणं सुखदुःखादिफलममुत्र परलोके भुङ्क्ते । स्थूलशरीरकर्मणो विनाशेऽपि मनसो लिङ्गभूतस्य साध्वसाधुकर्मनिमित्तभगवदनुग्रहनिग्रहरूपपुण्यापुण्यविषयस्य क्षेत्रज्ञस्य च देहान्तरेऽप्यनुवृत्तेः सुखाद्युपपत्तिरिति भावः । पुण्यापुण्ययोः भगवदनुग्रहनिग्रहरूपत्वं तदधिगमाधिकरणे भाष्यादौ स्पष्टमुक्तम् ॥ ६० ॥
श्लोक-६१
विश्वास-प्रस्तुतिः
शयानमिममुत्सृज्य श्वसन्तं पुरुषो यथा।
कर्मात्मन्याहितं भुङ्क्ते तादृशेनेतरेण वा॥
मूलम्
शयानमिममुत्सृज्य श्वसन्तं पुरुषो यथा।
कर्मात्मन्याऽऽहितं भुङ्क्ते तादृशेनेतरेण वा॥ ६१ ॥
अनुवाद (हिन्दी)
स्वप्नावस्थामें मनुष्य इस जीवित शरीरका अभिमान तो छोड़ देता है, किन्तु इसीके समान अथवा इससे भिन्न प्रकारके पशु-पक्षी आदि शरीरसे वह मनमें संस्काररूपसे स्थित कर्मोंका फल भोगता रहता है॥ ६१॥
वीरराघवः
लिङ्गात्मनोरनुवृत्त्या भोगोपपत्तिं दृष्टान्तेन स्पष्टयति - शयानमिति । शयानमिमं जाग्रद्देहं, श्वसन्तं जीवन्तमुत्सृज्य तदभिमानं त्यक्त्वा, आत्मनि मनस्याऽऽहितं दैवोपसादितं कर्म स्वप्नद्रष्ट्रेकानुभाव्यं तत्कालमात्रावस्थायि सुखदुःखादिस्वकर्मफलं यथा पुमान् तादृशेन शयानदेहसदृशेन मनुष्यदेहेनान्येन देवादिशरीरेण वा स्वप्ने भुङ्क्ते लिङ्गात्मनोरनुवृत्तेस्तथा लोकान्तरेऽपीति भावः ॥ ६१ ॥
श्लोक-६२
विश्वास-प्रस्तुतिः
ममैते मनसा यद्यदसावहमिति ब्रुवन्।
गृह्णीयात्तत्पुमान् राद्धं कर्म येन पुनर्भवः॥
मूलम्
154ममेते मनसा यद्यदसावहमिति ब्रुवन्।
गृह्णीयात्तत्पुमान् राद्धं कर्म येन पुनर्भवः॥ ६२ ॥
अनुवाद (हिन्दी)
इस मनके द्वारा जीव जिन स्त्री-पुत्रादिको ‘ये मेरे हैं’ और देहादिको ‘यह मैं हूँ’ ऐसा कहकर मानता है, उनके किये हुए पाप-पुण्यादिरूप कर्मोंको भी यह अपने ऊपर ले लेता है और उनके कारण इसे व्यर्थ ही फिर जन्म लेना पड़ता है॥ ६२॥
वीरराघवः
यदुक्तं कर्म क्रियमाणमन्तरक्षण एवं विनष्टं सत् कालान्तरानुभाव्यफलहेतुः कथमिति तत्राह - ममेति । पुमानसौ अहं ब्राह्मणोऽहं, क्षत्रियोऽहमिति ब्रुवन् देहात्माभिमानयुक्त इत्यर्थः । ममैतत् मत्फलसाधनत्वात् मदर्थमिदं कर्मेति मनसा यद्यत्कर्म गृह्णीयात् कुर्यादित्यर्थः । तत्तत्कर्मेति राद्धं सिद्धं कर्मणो विनाशेऽपि कर्मणः शक्तिरीश्वरस्य निग्रहानुग्रहरूपा सिद्धैवेत्यर्थः । कर्म विशिनष्टि - येन कर्मणा पुनर्भवः पुनर्जन्म भवेत् ॥ ६२ ॥
श्लोक-६३
विश्वास-प्रस्तुतिः
यथानुमीयते चित्तमुभयैरिन्द्रियेहितैः।
एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभिः॥
मूलम्
यथानुमीयते चित्तमुभयौरिन्द्रि155येहितैः।
एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभिः॥ ६३ ॥
अनुवाद (हिन्दी)
जिस प्रकार ज्ञानेन्द्रिय और कर्मेन्द्रिय दोनोंकी चेष्टाओंसे उनके प्रेरक चित्तका अनुमान किया जाता है, उसी प्रकार चित्तकी भिन्न-भिन्न प्रकारकी वृत्तियोंसे पूर्वजन्मके कर्मोंका भी अनुमान होता है (अतः कर्म अदृष्टरूपसे फल देनेके लिये कालान्तरमें मौजूद रहते हैं)॥ ६३॥
वीरराघवः
मनसः कर्मणः पुनर्जन्मनश्च सद्भावे प्रमाणमाह - यथेति । उभयैः ज्ञानकर्मरूपैरिन्द्रियेहितैः 156इन्द्रियाणामीहितैः156 कादाचित्कप्रवृत्तिभिर्मनोऽनुमीयते, सत्यपि सर्वेन्द्रियविषयसम्बन्धे युग157पज्ज्ञानानुपपत्तेः, तदुक्तमक्षपादेन “युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्” (न्या. सू. 1-16) इति । एवं चित्तवृत्तिभिरपि पूर्वदेहजं कर्म लक्ष्यते, तासामपि युगपदनुपपत्तेः । इन्द्रियैर्हितैरित्यपि पाठः । तत्र हितैर्गतैर्निवृत्तव्यापारैः इन्द्रियैः उभयैः ज्ञानकर्मरूपेण द्विविधैः मनोऽनुमीयते तेषां क्रमव्यापारदर्शनादित्यर्थः । एवं चित्तवृत्तिभिः पूर्वदेहकृतं कर्मानुमीयते ॥ ६३ ॥
श्लोक-६४
विश्वास-प्रस्तुतिः
नानुभूतं क्व चानेन देहेनादृष्टमश्रुतम्।
कदाचिदुपलभ्येत यद्रूपं यादृगात्मनि॥
मूलम्
नानुभूतं क्व चानेन देहेनादृष्टमश्रुतम्।
कदाचिदुपलभ्येत यद्रूपं यादृगात्मनि॥ ६४ ॥
अनुवाद (हिन्दी)
कभी-कभी देखा जाता है कि जिस वस्तुका इस शरीरसे कभी अनुभव नहीं किया—जिसे न कभी देखा, न सुना ही—उसका स्वप्नमें, वह जैसी होती है, वैसा ही अनुभव हो जाता है॥ ६४॥
वीरराघवः
तदेव विवृणोति - नानुभूतमित्यादिना । यादृगात्मनः मृदात्मको घट इतिवदयं निर्देशः, यादृशस्य वस्तुनो यद्रूपम् अनेन देहेनोपलक्षितेन पुंसा कुत्रचिदपि न दृष्टं न श्रुतमिन्द्रियान्तरेण प्रमाणान्तरेण 158च अननुभूतं तन्न कदाचित् स्वप्नमनोरथादिषूपलभ्यते न बुद्धिस्थं भवेत् । इहजन्मन्यननुभूतमपि किञ्चित्कदाचिद् बुद्धिस्थं भवति इच्छाविषयतया मनसि वर्तत इत्यर्थः ॥ ६४ ॥
श्लोक-६५
विश्वास-प्रस्तुतिः
तेनास्य तादृशं राजँल्लिङ्गिनो देहसम्भवम्।
श्रद्धत्स्वाननुभूतोऽर्थो न मनः स्प्रष्टुमर्हति॥
मूलम्
तेनास्य तादृ159शं राजन् लिङ्गिनो देहसम्भ160वम्।
श्रद्धत्स्वाननुभू161तोऽर्थो न मनः स्प्रष्टुमर्हति॥ ६५ ॥
अनुवाद (हिन्दी)
राजन्! तुम निश्चय मानो कि लिंगदेहके अभिमानी जीवको उसका अनुभव पूर्वजन्ममें हो चुका है; क्योंकि जो वस्तु पहले अनुभव की हुई नहीं होती, उसकी मनमें वासना भी नहीं हो सकती॥ ६५॥
ततः किमित्यत्राह - तेनेति । अस्य लिङ्गिनः मनोयुक्तस्य पुंसः तेन अनुभूतार्थस्यैव मनोरथविषयत्वेन हेतुना हे राजन् ! तादृशं मनोरथाविषयतदर्थानुभवयोग्यं देहसम्भवं श्रद्धत्स्व निश्चयेन मन्यस्व । अननुभूतार्थो न मनः स्प्रष्टुमर्हति । न ह्यननुभूतार्थो मनः मनसि स्प्रष्टुं स्फुरितुमर्हति न पूर्वकालाननुभूतार्थः कालान्तरे मनोरथविषयः स्यादित्यर्थः । अनुभूतार्थे एव मनोरथः इह जन्मन्यनुभूतार्थविषयमनोरथो वासनया सा च पूर्वानुभवादनुभवश्च देहयोगेनेति पूर्वजन्मसिद्धिः । जन्मतारतम्यनिर्हेतुकत्वायोगात् कर्मतारतम्य सिद्धिश्चेत्यर्थः ॥ ६५ ॥
श्लोक-६६
विश्वास-प्रस्तुतिः
मन एव मनुष्यस्य पूर्वरूपाणि शंसति।
भविष्यतश्च भद्रं ते तथैव न भविष्यतः॥
मूलम्
मन एव मनुष्यस्य पूर्वरूपाणि शंसति।
भविष्यतश्च भद्रं ते तथैव न भविष्यतः॥ ६६ ॥
अनुवाद (हिन्दी)
राजन्! तुम्हारा कल्याण हो। मन ही मनुष्यके पूर्वरूपोंको तथा भावी शरीरादिको भी बता देता है और जिनका भावी जन्म होनेवाला नहीं होता, उन तत्त्व-वेत्ताओंकी विदेहमुक्तिका पता भी उनके मनसे ही लग जाता है॥ ६६॥
वीरराघवः
मन एवेति । इदानीं सदसद्रुचिविशेषान्वितं “मन एव मनुष्यस्य पूर्वरूपाणि शंसति” (भाग 4-29-68) प्रकृष्टाप्रकृष्टवासनानिमित्त सत्त्वादिगुणप्रचुरपूर्वदेहयोगाननुमापयति । भविष्यतो देहयोगान् न भविष्यतः वर्तमानान् सत्वादिगुणप्रचुर देहयोगांश्च शंसति । सति सत्त्वैकनिष्ठे इति वक्ष्यमाणत्वात् । यद्वा न भविष्यतः अभविष्यतः वर्तमानमनुष्यरूपाणीत्यर्थः । भद्रं ते इति सम्यगवधारणार्थमाशिषाऽभिनन्दति ॥ ६६ ॥
श्लोक-६७
विश्वास-प्रस्तुतिः
अदृष्टमश्रुतं चात्र क्वचिन्मनसि दृश्यते।
यथा तथानुमन्तव्यं देशकालक्रियाश्रयम्॥
अनुवाद (हिन्दी)
कभी-कभी स्वप्नमें देश, काल अथवा क्रियासम्बन्धी ऐसी बातें भी देखी जाती हैं, जो पहले कभी देखी या सुनी नहीं गयीं (जैसे पर्वतकी चोटीपर समुद्र, दिनमें तारे अथवा अपना सिर कटा दिखायी देना, इत्यादि)। इनके दीखनेमें निद्रादोषको ही कारण मानना चाहिये॥ ६७॥
वीरराघवः
अननुभूतार्थानां मनोरथाविषयत्वं “नानुभूतं क्वचानेन” (भाग. 4-29-66) इति व्यतिरेकमुखेनाभिधायान्वयमुखेनाप्याह अदृष्टमिति । इह जन्मनि क्वचिदप्यदृष्टमश्रुतं च मनसि दृश्यते मनोरथगोचरो भवतीत्यर्थः, केनाकारेण मनोरथगोचरत्वं पूर्वानुभवश्च तत्राह - यथेति । देशकालक्रियाश्रयं देशाश्रयं कालाश्रयं क्रियाश्रयं च रूपं यथा यथा येन येन प्रकारेण बुद्धिस्थं भवति तत्तथानुमन्तव्यं न त्वेवम्भूतमिति कार्त्स्न्येन वक्तुं शक्यं, बुद्धिस्थानां रूपाणामानन्त्यादित्यर्थः । मम निवासदेश ईदृशः स्यात्, एवंविधः कालो भवेदहमेव करवाणीति मनुष्याणामसम्भावितमर्थविशेषं प्रति मनोरथ-सहस्रं यथारुचि मनसि वर्तते इति यावत् ॥ ६७ ॥
श्लोक-६८
विश्वास-प्रस्तुतिः
सर्वे क्रमानुरोधेन मनसीन्द्रियगोचराः।
आयान्ति वर्गशो यान्ति सर्वे समनसो जनाः॥
अनुवाद (हिन्दी)
मनके सामने इन्द्रियोंसे अनुभव होनेयोग्य पदार्थ ही भोगरूपमें बार-बार आते हैं और भोग समाप्त होनेपर चले जाते हैं; ऐसा कोई पदार्थ नहीं आता, जिसका इन्द्रियोंसे अनुभव ही न हो सके। इसका कारण यही है कि सब जीव मनसहित हैं॥ ६८॥
वीरराघवः
ततः किम् ? पूर्वजन्मनः कर्मणश्च सिद्धावित्यत्राह - सर्व इति । इह जन्मनि मनोरथविषयभूताः पदार्थाः पूर्वजन्मनि क्रमेणेन्द्रियगोचरा भूत्वा क्रमेणेति मनस्सद्भावोऽपि दर्शितः । मनसोऽभावे सर्वेन्द्रियसम्बन्धाद्युगपत्सर्वेन्द्रियवृत्तिप्रसङ्गः, तत्सद्भावे तु येनेन्द्रियेण मनसः संयोगः तस्यैवेन्द्रियस्य व्यापार इत्युपपत्तिः । अत्र क्रमेणेन्द्रियगोचरा भूत्वा मनसि वर्तन्ते पूर्वानुभवजनितवासनाविशेषेण हि प्रतिपुरुषं रुचिविशेषः । न हि विना कारणेन कार्यं भवति एवं मनसि वर्तमानमनोरथसहम्रानुगुणं वासनानुमीयते, सा च पूर्वानुभवमनुमापयति, इह जन्मनि तादृगनुभवाभावाद्देहान्तरेण तद्नुभव इति पूर्वजन्मसिद्धिः । जन्मतारतम्यस्य निर्हेतुकत्वायोगाद् विविधादृष्टसिद्धिरिति मनसः कर्मणः पूर्वजन्मनश्चोपादानं कृतं भवति । आयान्ति वासनोन्मेषादायान्ति बुद्धिस्था भवन्ति, यान्ति वासनाभिभवान्न बुद्धिस्था भवन्ति । यदि कश्चिदमना भवेत् तर्ह्येवं न स्यान्न त्वेतदस्तीत्याह - सर्व इति । अतः सर्वेषां समनस्कत्वात् मनसि च सर्वार्थानां क्रमाद्वासनानुसारेण प्रवेशान्नात्यन्ताननुभूतोऽर्थः कस्यापि कश्चिदस्तीत्यर्थः । नन्विह जन्मनि जन्मान्तरे वाऽनुभूतार्थ एव मनोरथविषय इत्युक्तम् । यद्येवं तर्हि मुक्तानन्दोऽपि मुमुक्षोः कदाचिन्मनोरथविषयो भवेदिति सोऽपि पूर्वमनुभूत एव स्यात् अस्त्विति चेन्न पुनर्जन्मानुपपत्तेः । “न च पुनरावर्तते” (छान्दो. उ. 1-15-1) इति श्रुतेः “अनावृत्तिश्शब्दात्” (ब्रह्म. सू. 4-4-22) इत्यादिसूत्रस्य च विरोधप्रसङ्गात् । मैवम्, प्रकृतिपरिणायात्मकदेहानुभाव्यानामेवाननुभूतानां मनोरथविषयत्वासम्भवाभिप्रायत्वात्तदुक्तेः । अस्तु वा मुक्तानन्दोऽपि मनोरथविषयस्तथापि मनोरथविषयो भवन् मुक्तानन्दः “सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा” (तैत्ति. उ. 2-1-1) इत्यादिवाक्यावगतनिरतिशयानन्दरूपत्वेन परोक्षमेव मनोरथविषयो विषयो भवेत् । अनुभवोऽपि पूर्वं शब्दजन्यप्रमिति विषयत्वेन परोक्षमेव स्यात् । अत एव हि “यद्रूपं याद्गात्मनि (भाग-4-29-64) “यथा तथानुमन्तव्यं देशकालक्रियाश्रयम्” (भाग 4-29-67) इत्युक्तम् । यादृग्रूपेण पूर्वमनुभूतं तादृग्रूपेणैव मनोरथविषयो भवतीति हि तदर्थः, ततश्चेदानीं मनोरथविषयस्यापि मुक्तानन्दस्य “सोऽश्रुते” (तैत्ति. उ. 2-1-1) इत्यादि मुक्तानन्दप्रकरणावगतप्रकारवैशिष्ट्येन परोक्षमेव मनोरथविषयत्वात्तस्य पूर्वानुभवोऽपि तादृश एव कल्प्यत इत्यपरोक्षमनुभूयमान एव मुक्तानन्दः पुनर्भवाभावहेतुरिति न श्रुतिसूत्रादिविरोधः । न च देशकालादयोऽप्यपरोक्षं न मनोरथविषया इति, तेषामपि परोक्ष एव पूर्वानुभव इति, न कस्यापि साक्षात् पूर्वानुभवोऽनुमीयते इति वाच्यम्, अपरोक्षं प्राकृतदेहानुभवयोग्यानामपि परोक्षानुभवकल्पनायां मानाभावात्, कल्पकस्य परोक्षाविषयमनोरथस्य परोक्षमपरोक्षं 167वा अनुभववस्तुविषयकत्वदर्शनादिति ॥ ६८ ॥
श्लोक-६९
विश्वास-प्रस्तुतिः
सत्त्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिनि।
तमश्चन्द्रमसीवेदमुपरज्यावभासते॥
मूलम्
सत्त्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिनि।
तमश्चन्द्रमसीवेदमुपरज्यावभासते॥ ६९ ॥
अनुवाद (हिन्दी)
साधारणतया तो सब पदार्थोंका क्रमशः ही भान होता है; किन्तु यदि किसी समय भगवच्चिन्तनमें लगा हुआ मन विशुद्ध सत्त्वमें स्थित हो जाय, तो उसमें भगवान्का संसर्ग होनेसे एक साथ समस्त विश्वका भी भान हो सकता है—जैसे राहु दृष्टिका विषय न होनेपर भी प्रकाशात्मक चन्द्रमाके संसर्गसे दीखने लगता है॥ ६९॥
वीरराघवः
168इदमेवाभिप्रेत्याह - सत्त्वैकनिष्ठ इति । सत्त्वैकप्रचुरे मनसि भगवत्पार्श्ववर्तिनि भगवद्धजनोपक्रमं कुर्वाणे सति तम अज्ञानं चन्द्रमस्युदिते सति तमस्तिमिरमिव उपरज्यावभासते उपरागवत् भूत्वावभासते ज्ञानशबलमवभासते, चन्द्रोदये हि आदित्योदय इव न निश्शेषतमः क्षयः, अपि तु ज्योत्स्नामिश्रं तमः, एवं भगवद्भजनोपक्रमदशायां ज्ञानमज्ञानशबलं वर्तते शास्त्रजन्यज्ञानस्य परोक्षरूपत्वात् ब्रह्मस्वरूपवदानन्दादयः परोक्षमेव विषया भवन्तीत्यर्थः । देहात्मभ्रमस्य देहसम्बन्धाधीनसुखदुःखादेश्चापरोक्षत्वात्ते साक्षादनुभवविषया एवेति भावः ॥ ६९ ॥
श्लोक-७०
विश्वास-प्रस्तुतिः
नाहं ममेति भावोऽयं पुरुषे व्यवधीयते।
यावद् बुद्धिमनोऽक्षार्थगुणव्यूहो ह्यनादिमान्॥
मूलम्
नाहं ममेति भा169वोऽयं पुरुषे व्यवधीयते।
170यावद् बुद्धिमनोऽक्षार्थगुण171व्यूहो ह्यनादिमान्॥ ७० ॥
अनुवाद (हिन्दी)
राजन्! जबतक गुणोंका परिणाम एवं बुद्धि, मन, इन्द्रिय और शब्दादि विषयोंका संघात यह अनादि लिंगदेह बना हुआ है, तबतक जीवके अंदर स्थूलदेहके प्रति ‘मैं-मेरा’ इस भावका अभाव नहीं हो सकता॥ ७०॥
वीरराघवः
किं वक्तव्यं संसारदशायां ब्रह्मस्वरूपतदानन्दादिकमपरोक्षं नावभासत इति यतः स्वात्मस्वरूपमेवापरोक्षं नावभासत इति सहेतुकमाह - 172अहमिति । अनादिमान् जीवः अक्षमिन्द्रियम्, अर्थाः शब्दादयः, गुणः सत्त्वादिः एतैः यावद्गूढः आवृतः । व्यूह इति पाठे यावद्बुद्ध्यादया व्यूहः सङ्गो यस्येत्यर्थः । तावदहम्ममेति भावो व्यवधीयते, व्यवधिवदाचर्यते स्वरूपतिरोधायकः अहम्ममाभिमानो न निवर्तते किन्त्वनुवर्तते इत्यर्थः ॥ ७० ॥
श्लोक-७१
विश्वास-प्रस्तुतिः
सुप्तिमूर्च्छोपतापेषु प्राणायनविघाततः।
नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि॥
मूलम्
सुप्तिमूर्च्छोपतापेषु प्राणायनविघाततः।
नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि॥ ७१ ॥
अनुवाद (हिन्दी)
सुषुप्ति, मूर्च्छा, अत्यन्त दुःख तथा मृत्यु और तीव्र ज्वरादिके समय भी इन्द्रियोंकी व्याकुलताके कारण ‘मैं’ और ‘मेरेपन’ की स्पष्ट प्रतीति नहीं होती; किन्तु उस समय भी उनका अभिमान तो बना ही रहता है॥ ७१॥
वीरराघवः
किमुत संसारिणो जीवस्य बुद्ध्यादिभ्यो विलक्षणं स्वस्वरूपमपरोक्षं नावभासत इति यतोऽनहमर्थोऽप्यज्ञानादहम्बुद्धिविषयत्वेनावभासमानो देहः सुषुप्त्यादौ नावभासत इत्याह- सुप्तीति । उपतापशब्देनातिशयितदुःखसम्भेदो विवक्षितः, मृत्युर्मरणं, प्रज्वारो ज्वरः, उपलक्षणमेतत् । ज्वरादिमूले मरणे चेति यावत्, एतास्ववस्थासु 173प्राणायनस्य173 प्राणाश्रयस्य जीवस्य, विघाततः ज्ञानस्यातिसङ्कोचात् । 174न हि ज्ञानसङ्कोचाद175परः तदानीं विघातः सम्भवति, तेनाहमिति ज्ञानं नेहते न स्फुरति देहेऽहम्बुद्धिर्नास्ति देहप्रतिपत्त्यभावादित्यर्थः ॥ ७१ ॥
श्लोक-७२
विश्वास-प्रस्तुतिः
गर्भे बाल्येऽप्यपौष्कल्यादेकादशविधं तदा।
लिङ्गं न दृश्यते यूनः कुह्वां चन्द्रमसो यथा॥
मूलम्
गर्भे बाल्येऽप्यपौष्कल्यादेकादशविधं 176तथा।
लिङ्गं न दृश्य177ते यूनः कुह्वां चन्द्रमसो यथा॥ ७२ ॥
अनुवाद (हिन्दी)
जिस प्रकार अमावास्याकी रात्रिमें चन्द्रमा रहते हुए भी दिखायी नहीं देता, उसी प्रकार युवावस्थामें स्पष्ट प्रतीत होनेवाला यह एकादश इन्द्रियविशिष्ट लिंगशरीर गर्भावस्था और बाल्यकालमें रहते हुए भी इन्द्रियोंका पूर्ण विकास न होनेके कारण प्रतीत नहीं होता॥ ७२॥
वीरराघवः
ननु 178सुप्त्यादावपि ज्ञानकर्मोभयेन्द्रियगुणस्य मनसश्च सद्भावादहमिति ज्ञानं कुतो नेहते ? तत्राह - गर्भ इति । यूनः तरुणस्य स्फुटं यदेकादशविधं लिङ्गं कर्मेन्द्रियज्ञानेन्द्रियमन आत्मकं लिङ्गं, व्यापारहेतुभूतं तद्गर्भे बाल्ये । अपिशब्दात् सुषुप्त्यादौ चापौष्कल्यात् अपुष्कलशक्तित्वान्न दृश्यते नाभिव्यक्तं नष्टप्रायं भवतीत्यर्थः । सतोऽप्यनभिव्यक्तौ दृष्टान्तः - कुह्वाममावास्यायां चन्द्रमसो लिङ्गं रूपमिवेति ॥ ७२ ॥
श्लोक-७३
विश्वास-प्रस्तुतिः
अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते।
ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा॥
मूलम्
अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते।
ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा॥ ७३ ॥
अनुवाद (हिन्दी)
जिस प्रकार स्वप्नमें किसी वस्तुका अस्तित्व न होनेपर भी जागे बिना स्वप्नजनित अनर्थकी निवृत्ति नहीं होती—उसी प्रकार सांसारिक वस्तुएँ यद्यपि असत् हैं, तो भी अविद्यावश जीव उनका चिन्तन करता रहता है; इसलिये उसका जन्म-मरणरूप संसारसे छुटकारा नहीं हो पाता॥ ७३॥
वीरराघवः
ननु यदि गर्भादौ लिङ्गमेकादशविधमनभिव्यक्तं तर्हि तद्व्यापारभावात् संसृतिर्न स्यादित्यत्राह - अर्थेति । अनभिव्यक्तशक्तित्वादिन्द्रियाणां तद्व्यापाराभावादर्थे शब्दादिविषये, अविद्यमानेऽपि शब्दादिविषयानुभवाभावेऽपि विषयान् ध्यायतः “वर्तमानसमीपे भूते लट् शत्रादेशः” विषयध्यानप्रयुक्तवासनाविशिष्टस्येत्यर्थः । संसृतिः 179न निवर्तते179 तद्रागानुवृत्या संसारोऽनुवर्तते यथा स्वाप्नपदार्थानां प्रबोधदशायामविद्यमानत्वेऽपि स्वाप्नार्थज्ञानसूचितसुखदुःखाद्यनर्थागमः तद्वदित्यर्थः । 180तथा च श्रुतिः - “यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मिंश्च स्वप्नदर्शने” इति । “अथ स्वप्ने पुरुषं कृष्णं कृष्णदन्तं पश्यति । स एनं हन्ति” इत्यादिका ॥ ७३ ॥
श्लोक-७४
विश्वास-प्रस्तुतिः
एवं पञ्चविधं लिङ्गं त्रिवृत् षोडशविस्तृतम्।
एष चेतनया युक्तो जीव इत्यभिधीयते॥
अनुवाद (हिन्दी)
इस प्रकार पंचतन्मात्राओंसे बना हुआ तथा सोलह तत्त्वोंके रूपमें विकसित यह त्रिगुणमय संघात ही लिंगशरीर है। यही चेतनाशक्तिसे युक्त होकर जीव कहा जाता है॥ ७४॥
वीरराघवः
एवं प्रश्नस्योत्तरमभिधाय पुनरपि स्मरणाय देहात्मनोराकारं वदन् देहसम्बन्धस्योत्तरोत्तरदेहसम्बन्धद्वाराऽनर्थहेतुत्वमाह - एवमिति । पञ्चविधं पञ्चप्रकारं पञ्चभूतात्मकं, षोडशविस्तरम् एकादशेन्द्रियतदाश्रयप्राणादिपञ्चकोपेतं, त्रिवृत् त्रिगुणात्मकं, लिङ्गं शरीरम् एवम्भूतमिति देहाकार उक्तः । जीवस्वरूपमाह - एष इति । चेतनया युक्तः एष जानामीति ज्ञानाश्रयतया स्फुटतरमवभासमानोऽहमर्थो जीव इत्यभिधीयत इत्यर्थः ॥ ७४ ॥
श्लोक-७५
विश्वास-प्रस्तुतिः
अनेन पुरुषो देहानुपादत्ते विमुञ्चति।
हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति॥
मूलम्
अनेन पुरुषो देहानुपादत्ते विमुञ्चति।
हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति॥ ७५ ॥
अनुवाद (हिन्दी)
इसीके द्वारा पुरुष भिन्न-भिन्न देहोंको ग्रहण करता और त्यागता है तथा इसीसे उसे हर्ष, शोक, भय, दुःख और सुख आदिका अनुभव होता है॥ ७५॥
वीरराघवः
अनेन लिङ्गेन युक्तः तदेदानीमवभासमानः स पुरुषः ईदृशान् बहुदेहानुपादत्ते, विमुञ्चति तत्कृतहर्षशोकादिकं च विन्दति, आगामिसुखविषयं ज्ञानं हर्षः, आगामिदुःखविषयं ज्ञानं भयं, तत्र देहानुपाद183दत् जीव अनेनोपादीयमानेन रमणीयदेहेन हर्षं सुखं च विन्दति, अनभिमतेन तु शोकं, विमुच्यमानेन तु भयं दुःखञ्च विन्दति, उपात्तदेहत्यागस्यानिष्टत्वात् ॥ ७५ ॥
श्लोक-७६
विश्वास-प्रस्तुतिः
यथा तृणजलूकेयं नापयात्यपयाति च।
न त्यजेन्म्रियमाणोऽपि प्राग्देहाभिमतिं जनः॥
वीरराघवः
अनिष्टतामेवाह - यथेति । यथेयं प्रसिद्धा तृणजलूका । स्वाव186ष्टब्धं तृणं हित्वा नोपयाति तृणान्तरं प्रति न गच्छति, किन्तु तदेव तृणमुप187याति दृढतरं संश्लिष्यति । एवं म्रियमाणोऽपि जनः मरणे प्राग्देहाभिमतिं न त्यजतीत्यर्थः । नापयात्यपयाति चेति पाठे यथैव दैववशादपयाति मनसा त्यक्तुं नेच्छति । देहाभिमानपरित्यागस्यावधिमाह - यावदिति । कर्मणां व्यवधानेन कर्मभिस्तिरोधानेन यावद्देहादन्यमात्मानं न विन्देत तावन्न त्यजेदित्यर्थः ॥ ७६ ॥
श्लोक-७७
विश्वास-प्रस्तुतिः
यावदन्यं न विन्देत व्यवधानेन कर्मणाम्।
मन एव मनुष्येन्द्र भूतानां भवभावनम्॥
मूलम्
यावदन्यं न विन्देत व्यवधानेन कर्म188णाम्।
मन एव मनुष्येन्द्र भूतानां भवभावनम्॥ ७७ ॥
अनुवाद (हिन्दी)
जिस प्रकार जोंक, जबतक दूसरे तृणको नहीं पकड़ लेती, तबतक पहलेको नहीं छोड़ती—उसी प्रकार जीव मरणकाल उपस्थित होनेपर भी जबतक देहारम्भक कर्मोंकी समाप्ति होनेपर दूसरा शरीर प्राप्त नहीं कर लेता, तबतक पहले शरीरके अभिमानको नहीं छोड़ता। राजन्! यह मनःप्रधान लिंगशरीर ही जीवके जन्मादिका कारण है॥ ७६-७७॥
वीरराघवः
प्रकरणार्थमुपसंहरति - मन इति । हे मनुष्येन्द्र ! भूतानां भवभावनं जन्मर्हेतुर्मन एव । तदेवोपपादयति । अक्षैरिन्द्रियैश्चरितान् पूर्वमुपभुक्तान् विषयान् यद्येन मनसा ध्यायन् कर्माण्यसकृदाऽऽचिनुते करोति ॥ ७७ ॥
श्लोक-७८
विश्वास-प्रस्तुतिः
यदाक्षैश्चरितान् ध्यायन् कर्माण्याचिनुतेऽसकृत्।
सति कर्मण्यविद्यायां बन्धः कर्मण्यनात्मनः॥
मूलम्
189यदक्षैश्चरि190तं ध्यायन् कर्मा191ण्याचिनुतेऽसकृत्।
सति कर्मण्यविद्यायां बन्धः 192कर्मण्यनात्मनः॥ ७८ ॥
अनुवाद (हिन्दी)
जीव जब इन्द्रियजनित भोगोंका चिन्तन करते हुए बार-बार उन्हींके लिये कर्म करता है, तब उन कर्मोंके होते रहनेसे अविद्यावश वह देहादिके कर्मोंमें बँध जाता है॥ ७८॥
वीरराघवः
सति कर्मण्यविद्याया बन्धः, अविद्याया इति पञ्चमी, कर्मणि सति तत्कृतदेहेनाहङ्कार ममकाररूपाविद्याया आत्मनो बन्धः स्यात्, स चाविद्याया बन्धः कर्मकृतः, कर्म च विषयानुभवहेतुः अविद्यया कर्म, कर्मणा चाविद्येति अनादिः प्रवाहः इत्यर्थः । तन्मोचनोपायमाह - अत इति । तस्य देहविलक्षणस्य ब्रह्मात्मकस्य स्वात्मनः अवबोधार्थं सर्वात्मना करणत्रयेण हरिं भगवन्तं भज आत्मापरोक्षमपि भगवत्प्रसादादेव भवतीति भावः ॥ ८० ॥
श्लोक-७९
विश्वास-प्रस्तुतिः
अतस्तदपवादार्थं भज सर्वात्मना हरिम्।
पश्यंस्तदात्मकं विश्वं स्थित्युत्पत्त्यप्यया यतः॥
मूलम्
अतस्त193दवबोधार्थं भज सर्वात्मना हरिम्।
पश्यंस्तदात्मकं विश्वं स्थित्युत्पत्त्यप्यया यतः॥ ७९ ॥
अनुवाद (हिन्दी)
अतएव उस कर्मबन्धनसे छुटकारा पानेके लिये सम्पूर्ण विश्वको भगवद्रूप देखते हुए सब प्रकार श्रीहरिका भजन करो। उन्हींसे इस विश्वकी उत्पत्ति और स्थिति होती है तथा उन्हींमें लय होता है॥ ७९॥
वीरराघवः
कथम्भूत जानीयात्तत्राह - विश्वं चिदचिदात्मकं जगद्भगवदात्मकं पश्यन् विश्वस्य तदात्मकत्वे हेतुं वदन् हरिं विशिनष्टि । यतो हरेर्हेतोः विश्वस्य स्थितिरप्ययो नाशश्चेत्यमी भवन्ति हरेः विश्वस्थित्यादिकारणत्वाद्धर्यात्मकं विश्वं पश्यतीत्यर्थः । स्थित्यादीनां तदात्मकत्वे हेतुत्वं श्रुतम् । “सर्वं खल्विदं ब्रह्म तज्जलानिति” (छान्दो उ. ३-१४-१) इति ॥ ७९ ॥
श्लोक-८०
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
भागवतमुख्यो भगवान्नारदो हंसयोर्गतिम्।
प्रदर्श्य ह्यमुमामन्त्र्य सिद्धलोकं ततोऽगमत्॥
मूलम्
भागवतमुख्यो भगवान्नारदो हंसयोर्गतिम्।
प्रदर्श्य 194नृपमामन्त्र्य सिद्धलोकं ततोऽगमत्॥ ८० ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—विदुरजी! भक्तश्रेष्ठ श्रीनारदजीने राजा प्राचीनबर्हिको जीव और ईश्वरके स्वरूपका दिग्दर्शन कराया। फिर वे उनसे विदा लेकर सिद्धलोकको चले गये॥ ८०॥
वीरराघवः
संवादमुपसंहरति मुनिः । भागवतानां मध्ये मुख्यः भगवान्नारदो हंसयोः जीवपरयोर्गतिं स्वरूपं प्रदर्श्य उपदिश्य नृपं प्राचीनबर्हिषम् आमन्त्र्य अनुज्ञाप्य ततो ब्रह्मलोकमगात् ॥ ८० ॥
श्लोक-८१
विश्वास-प्रस्तुतिः
प्राचीनबर्ही राजर्षिः प्रजासर्गाभिरक्षणे।
आदिश्य पुत्रानगमत्तपसे कपिलाश्रमम्॥
अनुवाद (हिन्दी)
तब राजर्षि प्राचीनबर्हि भी प्रजापालनका भार अपने पुत्रोंको सौंपकर तपस्या करनेके लिये कपिलाश्रमको चले गये॥ ८१॥
वीरराघवः
ततः प्राचीनबर्हिः प्रजासृष्टौ तद्रक्षणे च स्वपुत्राननुज्ञाप्य स्वयं तपश्चर्तुं कपिलाश्रममगात् ॥ ८१ ॥
श्लोक-८२
विश्वास-प्रस्तुतिः
तत्रैकाग्रमना वीरो गोविन्दचरणाम्बुजम्।
विमुक्तसङ्गोऽनुभजन् भक्त्या तत्साम्यतामगात्॥
मूलम्
तत्रैकाग्रमना 197धीरो गोविन्दचरणाम्बुजम्।
विमुक्तसङ्गोऽनुभजन् भक्त्या त198त्साम्यतामगात्॥ ८२ ॥
अनुवाद (हिन्दी)
वहाँ उन वीरवरने समस्त विषयोंकी आसक्ति छोड़ एकाग्र मनसे भक्तिपूर्वक श्रीहरिके चरणकमलोंका चिन्तन करते हुए सारूप्यपद प्राप्त किया॥ ८२॥
वीरराघवः
तत्र चाश्रमे धीरो वशीकृतेन्द्रियः, एकाग्रचित्तः विविक्तो भगवच्चरणाम्बुजं ध्यायन् तद्भक्त्या तत्साम्यतां तेन साम्यं यस्येति बहुव्रीहिः तत्साम्यवत्तामित्यर्थः, इयादगात् । तत्सात्मतामिति पाठे तेन भगवता समानात्म199तां तत्साधर्म्यमित्यर्थः ॥ ८२ ॥
श्लोक-८३
विश्वास-प्रस्तुतिः
एतदध्यात्मपारोक्ष्यं गीतं देवर्षिणानघ।
यः श्रावयेद्यः शृणुयात्स लिङ्गेन विमुच्यते॥
मूलम्
एतदध्यात्मपारोक्ष्यं गीतं देवर्षिणाऽनघ।
यः श्रावयेद्यः शृणुयात्स लिङ्गेन विमुच्यते॥ ८३ ॥
अनुवाद (हिन्दी)
निष्पाप विदुरजी! देवर्षि नारदके परोक्षरूपसे कहे हुए इस आत्मज्ञानको जो पुरुष सुनेगा या सुनायेगा, वह शीघ्र ही लिंगदेहके बन्धनसे छूट जायगा॥ ८३॥
वीरराघवः
श्रवणश्रावणादिफलमाह - एतदिति । हे अनघ ! देवर्षिणा गीतमेतदध्यात्मपारोक्ष्यं यः 200पुमान् श्रावयेत् श्रृणुयाद्वा स लिङ्गेन संसृतिहेतुना मनसा, दुःखहेतुना बन्धेन वा विमुच्यते मुक्तो भवेदित्यर्थः ॥ ८३ ॥
श्लोक-८४
विश्वास-प्रस्तुतिः
एतन्मुकुन्दयशसा भुवनं पुनानं
देवर्षिवर्यमुखनिःसृतमात्मशौचम्।
यः कीर्त्यमानमधिगच्छति पारमेष्ठ्यं
नास्मिन् भवे भ्रमति मुक्तसमस्तबन्धः॥
मूलम्
एतन्मुकुन्दयशसा भुवनं पुनानं देवर्षिवर्यमुखनिस्सृतमात्मशौचम्।
यः कीर्त्यमानम201धिगच्छति पारमेष्ठ्यं नास्मिन् भवे भ्रमति मुक्तसमस्तबन्धः॥ ८४ ॥
अनुवाद (हिन्दी)
देवर्षि नारदके मुखसे निकला हुआ यह आत्मज्ञान भगवान् मुकुन्दके यशसे सम्बद्ध होनेके कारण त्रिलोकीको पवित्र करनेवाला, अन्तःकरणका शोधक तथा परमात्मपदको प्रकाशित करनेवाला है। जो पुरुष इसकी कथा सुनेगा, वह समस्त बन्धनोंसे मुक्त हो जायगा और फिर उसे इस संसार-चक्रमें नहीं भटकना पड़ेगा॥ ८४॥
वीरराघवः
एतदध्यात्मपारोक्ष्यं मुकुन्दयशसा युक्तमिति शेषः । अत एव भुवनं पुनानं पवित्रीकुर्वाणं नारदमुखान्निर्गलितमात्मशौचं मनश्शोधकं पारमेष्ठ्यं सर्वोत्कृष्टफलदं कीर्त्यमानं कथ्यमानं यः पुमानधिगच्छति स पुमान्निरस्तसमस्तबन्धः अस्मिन् भवे संसारे न भ्रमति ॥ ८४ ॥
श्लोक-८५
विश्वास-प्रस्तुतिः
अध्यात्मपारोक्ष्यमिदं मयाधिगतमद्भुतम्।
एवं स्त्रियाऽऽश्रमः पुंसश्छिन्नोऽमुत्र च संशयः॥
मूलम्
अध्यात्मपारोक्ष्यमिदं मया202भिहितमद्भुतम्।
एवं 203स्त्रियाऽऽश्रमः पुंसश्छिन्नोऽमुत्र च संशयः॥ ८५ ॥
अनुवाद (हिन्दी)
विदुरजी! गृहस्थाश्रमी पुरंजनके रूपकसे परोक्षरूपमें कहा हुआ यह अद्भुत आत्मज्ञान मैंने गुरुजीकी कृपासे प्राप्त किया था। इसका तात्पर्य समझ लेनेसे बुद्धियुक्त जीवका देहाभिमान निवृत्त हो जाता है तथा उसका ‘परलोकमें जीव किस प्रकार कर्मोंका फल भोगता है’ यह संशय भी मिट जाता है॥ ८५॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे विदुरमैत्रेयसंवादे प्राचीनबर्हिर्नारदसंवादो नामैकोनत्रिंशोऽध्यायः॥ २९॥
वीरराघवः
204उक्तार्थानुपसंहरति । 205अद्भुततम206मिदमध्यात्मपारोक्ष्यमध्यात्मतत्त्वस्य पारोक्ष्यं परोक्षवादो यस्मिन्, अत एवाद्भुतमाश्चर्यमध्यात्मस्य पारोक्ष्यं दुश्शकमित्यद्भुतमित्यर्थः । मया तुभ्यमभिहितं तथा पुंसः क्षेत्रज्ञस्य स्त्रियाश्रमः गृहस्थाश्रमत्वेन रूपितः कथितः, अमुत्र परलोके संशयः फलानुभवविषयो भवदीयसंशयश्च छिन्नः निरस्तः ॥ ८५ ॥
इति श्रीमद्भागवते चतुर्थस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां एकोनत्रिंशोऽध्यायः ॥ २९ ॥
-
A,B,T omit आदि ↩︎
-
A,B,T त्सायां ↩︎
-
W omits ते तव ↩︎
-
A,B,T कर्मस्वच ↩︎
-
W omits एव ↩︎
-
W द्यो ↩︎
-
Ms,W ना ↩︎
-
W मयापदम् ↩︎
-
M,Ma,Ms हृय ↩︎
-
M,Ma,Ms रूपैः ↩︎
-
T,V यदाऽजिघृक्षत् ↩︎
-
B,M,Ma,Ms,V,W ङ्घ्रि ↩︎
-
M,Ma पुरं मनुत; Ms,V तत्रामन्यत ↩︎
-
W दि ↩︎
-
A,B,G,I,J,T क्ष ↩︎
-
A,T क्ष ↩︎
-
W omits विषयान् ↩︎
-
A,B,G,I,J,T गणाः; Ms,V गुणाः ↩︎
-
W omits आयान्तीम् ↩︎
-
A,T गणाः ↩︎
-
W omits भृत्याः ↩︎
-
W omits भवन्ति ↩︎
-
M,Ma,Ms द्वनं ↩︎
-
A,B,G,I,J,M,Ma,T प ↩︎
-
M,Ma,Ms तत्त ↩︎
-
A,T omit खानां ↩︎
-
V चा ↩︎
-
A,B,G,I,J,T,W पुरः कृताः । ↩︎
-
A,T omit दक्षिणः ↩︎
-
A,B,G,I,J,T गुदं शिश्नमिहोच्यते ↩︎
-
M,Ma,Ms ते ↩︎
-
V मु ↩︎
-
M,Ma,Ms रस ↩︎
-
M,Ma भू ↩︎
-
M,Ma भूः ↩︎
-
A,B,G,I,J,V प ↩︎
-
M,Ma,Ms श्रोत्रं श्रुतधरो व्रजेत् । ↩︎
-
A,B,T ज्ञक ↩︎
-
M,Ma,Ms महेनार्थं द्वाः ↩︎
-
W न ↩︎
-
W पाणि ↩︎
-
Ms,V ची ↩︎
-
Ms वा ↩︎
-
A,B,T स्यार्थोऽ ↩︎
-
W यदा यदा ↩︎
-
W तदा तदा ↩︎
-
M,Ma,Ms त्तिरिति कीर्त्यते ↩︎
-
M,Ma,Ms वयो गतिः; V,W रयो गतिः ↩︎
-
W न ↩︎
-
A,T अद्य ↩︎
-
A,T स्वप्न ↩︎
-
A,B,T काः ↩︎
-
A,B,G,I,J,T,V चराः ↩︎
-
A,B,G,I,J,T,V र्गाशु रयः ↩︎
-
A,B,G,I,J,T,V द्वि ↩︎
-
T omits भीम ↩︎
-
B,J,V,W र्दे ↩︎
-
A,B,G,I,J,M,Ma,Ms,T णः ↩︎
-
M,Ma लवं ध्या ↩︎
-
M,Ma,Ms प्राकृतेष्वदृक् ↩︎
-
W स्वामभि ↩︎
-
A,B,T यथाकर्म ↩︎
-
A,B,T add शुक्लादि ↩︎
-
M,Ma न्प्र ↩︎
-
W क्रियायास्तान् ↩︎
-
W omits लोकान् ↩︎
-
W मित्याह ↩︎
-
A,T omit व्याप्तः ↩︎
-
V एवं ↩︎
-
W दे ↩︎
-
W मुहुरुद्ध ↩︎
-
A,B,G,I,J,M,Ma,T स आधत्ते; Ms समाधत्ते ↩︎
-
A,B,T omit विकल्प ↩︎
-
M,Ma,Ms हरौ ↩︎
-
A,B,T add परमभक्तियोगोऽपि न निर्निमित्तमुदेति । ↩︎
-
M,Ma दिव ↩︎
-
W विमला ↩︎
-
M,Ma णऽव्य ↩︎
-
M,Ma तदोय ↩︎
-
M,Ma,Ms नुसवं ↩︎
-
W omits भगवतः ↩︎
-
M,Ma,Ms तद्विष्णोः परमं पदम् ↩︎
-
W न्तः ↩︎
-
A,B,G,I,J,V यमनु ↩︎
-
M,Ma,Ms स्व ↩︎
-
Ms म ↩︎
-
M,Ma ततो ↩︎
-
T सोऽयं ↩︎
-
M,Ma,Ms प्रियतमो हास्य; V प्रियतमश्चास्य; W प्रेष्ठतमश्चात्मा ↩︎
-
M,Ma,Ms स्व ↩︎
-
A,B,T नान् ↩︎
-
Ms म ↩︎
-
M,Ma हृदो ↩︎
-
M,Ma यु ↩︎
-
A,B,G,I,J,T सुमनस्समधर्माणां; M,Ma सुमनसां समानधर्माणां; Ms सुमनसां सुमनस्सधर्मणां ↩︎
-
A,B,G,I,J,M,Ma,T मे ↩︎
-
M द्रं का ↩︎
-
A,B,G,I,J,Ms,T जैङ्घ्यौपस्थ्यादि, M,Ma जैङ्घ्योपस्थादि; W जैङ्घौपस्थादि ↩︎
-
A,B,G,I,J,M,Ma,Ms,T omit रक्तं ↩︎
-
A,B,G,I,J,M,Ma,Ms,T म ↩︎
-
A,B,G,I,J,M,Ma,T ताऽऽदिज ↩︎
-
A,B,G,I,J,M,Ma,T add अति ↩︎
-
A,B,G,T,J,M,Ma त्रान्तान्; Ms त्रादीन् ↩︎
-
A,B,G,I,J,T add लव ↩︎
-
A,B,G,I,J,T add एव ↩︎
-
A,B,G,J,I,T अन्तश्शरेण य; M,Ma,Ms शरेण य ↩︎
-
A,B,G,I,J,M,Ma,Ms,T omit इति ↩︎
-
A,B,G,I,J,M,Ma,Ms,T भिन्न ↩︎
-
Ms omits इति ↩︎
-
A,B,T मे ↩︎
-
A,B,T जैह्वं ↩︎
-
A,B,T स्थ्यम् ↩︎
-
A,B,T मृगमिव चरन्तं ↩︎
-
M,Ma,Ms क्ष्व ↩︎
-
M,Ma चित्तिम्: I,Ms,V चित्तम् ↩︎
-
M,Ma,Ms भ्रम ↩︎
-
A,B,T हृद्रु ↩︎
-
A,B,T omit गृहं ↩︎
-
Ms प्राचीनबर्हिः ↩︎
-
W मान्वीक्षिकं ↩︎
-
W omits त्रिभिः ↩︎
-
W आ ↩︎
-
M,Ma,Ms न ↩︎
-
M,Ma ते ↩︎
-
Ms,V वि ↩︎
-
W omits अनु ↩︎
-
A,B,G,I,J,T मि स यदश्रुते ↩︎
-
M,Ma,Ms वाचः ↩︎
-
M,Ma,Ms श्रूयन्ते ↩︎
-
A,B,G,I,J,T यत्क्रि ↩︎
-
A,B,T omit तत्र ↩︎
-
A,B,T रूपायुः ↩︎
-
A,B,T omit पूर्व ↩︎
-
Ms,V भ्यते ↩︎
-
A,B,G,I,J,T स्वयम् ↩︎
-
A,B,T omit पूर्व ↩︎
-
A,B,G,I,J,T ममैते ↩︎
-
M,Ma,V यैर्हितैः ↩︎
-
W पद्भावानु ↩︎
-
A,B,T वा ↩︎
-
M,Ma,Ms शो ↩︎
-
M,Ma,Ms वः ↩︎
-
M,Ma,Ms तार्थं ↩︎
-
M,Ma चेह ↩︎
-
W य ↩︎
-
Ma कर्मानु ↩︎
-
A,B,G,J,M,Ma,Ms,T वर्गशो; I बहुशो ↩︎
-
M,Ma,Ms सुमनसो जवात् ↩︎
-
W च ↩︎
-
T एवमे ↩︎
-
W वो यः ↩︎
-
M,Ma,Ms ता ↩︎
-
W गूढो ↩︎
-
यद्यपि नाहंममेत्यादिरूपः मुद्रितः श्लोकः, तथापि अहं ममेत्यादिरूप एव श्रीवीरराघवव्याख्यानुसारोपाठः आदृतः ↩︎
-
A,B,T सहि ↩︎
-
A,B,T add पयोयः ↩︎
-
A,B,G,I,J,M,Ma,Ms,T तदा ↩︎
-
M,Ma तेऽयूनः ↩︎
-
A,B,T सुषुप्त्या ↩︎
-
A,B,T य ↩︎
-
M,Ma,Ms एकं ↩︎
-
A,B,G,I,J,T,W विस्तृतम् ↩︎
-
A,B,T दत्तं ↩︎
-
M,Ma का व ↩︎
-
A,B,G,I,J,T ना ↩︎
-
A,B,T ष्टम्भतृणं ↩︎
-
W यान्ति ↩︎
-
W णा ↩︎
-
A,B,G,I,J,T यदाऽ ↩︎
-
A,B,G,I,J,T,W तान् ↩︎
-
V णि कुरुते ↩︎
-
M,Ma,Ms कर्मण्य आत्मनः; W कर्मज आत्मन । ↩︎
-
A,B,G,I,J,T दप वादार्थ; M,Ma दप बाधार्थ; Ms दव बाधार्थं । ↩︎
-
A,B,G,I,J,M,Ma,Ms,T ह्यमुमा ↩︎
-
Ms र्गेऽभि ↩︎
-
V णम् ↩︎
-
A,B,G,I,J,M,Ma,T वीरो ↩︎
-
V त्समता ↩︎
-
A,B,T add समानता ↩︎
-
A,B,T पुरुष ↩︎
-
V भि ↩︎
-
A,B,G,I,J,M,Ma,Ms,T धिगत ↩︎
-
M,Ma,Ms त्रैय्याऽऽश्रयः ↩︎
-
A,B,T अद्भुतम् ↩︎
-
A,T omit इदं ↩︎
-
A,T उक्तमर्थमुप ↩︎