[अष्टाविंशोऽध्यायः]
भागसूचना
पुरंजनको स्त्रीयोनिकी प्राप्ति और अविज्ञातके उपदेशसे उसका मुक्त होना
श्लोक-१
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
सैनिका भयनाम्नो ये बर्हिष्मन् दिष्टकारिणः।
प्रज्वारकालकन्याभ्यां विचेरुरवनीमिमाम्॥
मूलम्
सैनिका भयनाम्नो ये बर्हिष्म1न्दिष्टकारिणः।
प्रज्वारकालकन्याभ्यां विचेरुरवनीमिमाम्॥ १ ॥
अनुवाद (हिन्दी)
श्रीनारदजी कहते हैं—राजन्! फिर भय नामक यवनराजके आज्ञाकारी सैनिक प्रज्वार और कालकन्याके साथ इस पृथ्वीतलपर सर्वत्र विचरने लगे॥ १॥
वीरराघवः
एवं जरादीनां उत्तरोत्तरहेतुत्वं सम्भूय मृतिहेतुत्वञ्च अभिधाय इदानीं एते सर्वे पुरञ्जनपुरीमाविश्य पीडयन्तः विप्लावयामासुः इति वदन् “यं यं वाऽपि स्मरन् भावं त्यजेदन्ते कलेबरम् । तंतमेवैति कौन्तेय सदा तद्भावभावितः" (भ.गी. 8-6) इत्युक्तरीत्या कथापक्षे पुरञ्जनस्य राज्ञः स्त्रीचिन्तया स्त्रीजन्मप्राप्ति कथनव्याजेन अध्यात्मपक्षेऽपि जीवस्य कर्मवशात्, स्त्रीत्वप्राप्तिं तत्र पुनरदृष्टविशेषात् भागवतसङ्गतिं ईश्वरप्रसादञ्चाऽऽह 2अष्टाविंशेन नारदः । हे बर्हिष्मन् भयनाम्नो ये सैनिकाः सेनायां भवास्सैनिकाः, दिष्टकारिणः आदेशकारिणः, ईश्वरस्य इति शेषः । प्रज्वार कालकन्याभ्यां सह इमां भूमिं विचेरुः पर्याटुः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
त एकदा तु रभसा पुरञ्जनपुरीं नृप।
रुरुधुर्भौमभोगाढ्यां जरत्पन्नगपालिताम्॥
मूलम्
त एकदा तु 3रभसा पुरञ्जनपुरीं नृप।
रुरुधुर्भौमभोगाढ्यां जरत्पन्नगपालिताम्॥ २ ॥
अनुवाद (हिन्दी)
एक बार उन्होंने बड़े वेगसे बूढ़े साँपसे सुरक्षित और संसारकी सब प्रकारकी सुख-सामग्रीसे सम्पन्न पुरंजनपुरीको घेर लिया॥ २॥
वीरराघवः
ते सैनिकाः कदाचिद्देहारम्भकप्रारब्धावसाने जरत्पन्नगेन जीर्णप्राणेन पालितां, भौमैः भूम्यां भवैः भोगैः शब्दादिविषयभोगैः, आढ्यां पुरञ्जनपुरी रुरुधुः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
कालकन्यापि बुभुजे पुरञ्जनपुरं बलात्।
ययाभिभूतः पुरुषः सद्यो निःसारतामियात्॥
मूलम्
कालकन्याऽपि बुभुजे पुरञ्जन4पुरं बलात्।
ययाऽभिभूतः पुरुषस्सद्यो निस्सारतामियात्॥ ३ ॥
अनुवाद (हिन्दी)
तब, जिसके चंगुलमें फँसकर पुरुष शीघ्र ही निःसार हो जाता है, वह कालकन्या बलात् उस पुरीकी प्रजाको भोगने लगी॥ ३॥
वीरराघवः
कालकन्या जरा 5पुरञ्जनपुरीं बलात् बुभुजे पुरञ्जनपुरं जराव्याध्यादिग्रस्तं अभूदित्यर्थः । कालकन्यां विशिनष्टि - यया कालकन्यया अभिभूतः पुरुषः निस्सारतां प्राप्नुयात् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
तयोपभुज्यमानां वै यवनाः सर्वतोदिशम्।
द्वार्भिः प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम्॥
मूलम्
तयोपभुज्यमानां वै यवनास्सर्वतोदिशम्।
द्वार्भिः प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम्॥ ४ ॥
अनुवाद (हिन्दी)
उस समय वे यवन भी कालकन्याके द्वारा भोगी जाती हुई उस पुरीमें चारों ओरसे भिन्न-भिन्न द्वारोंसे घुसकर उसका विध्वंस करने लगे॥ ४॥
वीरराघवः
तया कालकन्यया उपभुज्यमानां सकलां पुरञ्जनपुरीं यवनाः सर्वतोदिशं द्वार्भिः प्रविश्य चक्षुरादिषु रोगरूपेण प्रविश्य भृशम् अधिकं प्रार्दयन् पीडितवन्तः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
तस्यां प्रपीड्यमानायामभिमानी पुरञ्जनः।
अवापोरुविधांस्तापान् कुटुम्बी ममताकुलः॥
अनुवाद (हिन्दी)
पुरीके इस प्रकार पीड़ित किये जानेपर उसके स्वामित्वका अभिमान रखनेवाले तथा ममताग्रस्त, बहुकुटुम्बी राजा पुरंजनको भी नाना प्रकारके क्लेश सताने लगे॥ ५॥
वीरराघवः
तस्यां पुर्यां यवनादिभिः प्रपीड्यमानायां ममेयं पुरी इत्यभिमानी पुरञ्जनः कुटुम्बे बुद्धीन्द्रियमन आदि8रूपे या ममता तया आकुलः आक्षिप्तचित्तः बहुविधान् तापान् क्लेशान् प्राप ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
कन्योपगूढो नष्टश्रीः कृपणो विषयात्मकः।
नष्टप्रज्ञो हृतैश्वर्यो गन्धर्वयवनैर्बलात्॥
मूलम्
कन्योपगूढो नष्टश्रीः कृपणो विषयात्मकः।
नष्टप्रज्ञो 9हतैश्वर्यो गन्धर्वयवनैर्बलात्॥ ६ ॥
अनुवाद (हिन्दी)
कालकन्याके आलिंगन करनेसे उसकी सारी श्री नष्ट हो गयी तथा अत्यन्त विषयासक्त होनेके कारण वह बहुत दीन हो गया, उसकी विवेकशक्ति नष्ट हो गयी। गन्धर्व और यवनोंने बलात् उसका सारा ऐश्वर्य लूट लिया॥ ६॥
वीरराघवः
कन्यया बुद्ध्या उपगूढः दृढतरं संश्लिष्टः विषयेष्वेव आत्मा चित्तं यस्य । अतः कृपणः, अत एव 10नष्टप्रज्ञः नष्टविवेकः नष्टा श्रीः 11भोगात्मिका यस्य यवनैः बलात् हृतमैश्वर्यं उत्थानादिशक्तिरूपं यस्य सः । तत्प्रतिक्रियां न लेभे इति तृतीयेनाऽन्वयः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
विशीर्णां स्वपुरीं वीक्ष्य प्रतिकूलाननादृतान्।
पुत्रान् पौत्रानुगामात्याञ्जायां च गतसौहृदाम्॥
मूलम्
विशीर्णां स्वपुरीं वीक्ष्य प्रतिकूलाननादृतान्।
12पुत्त्रान्पौत्त्रानुगामात्याञ्जायाञ्च गतसौहृदाम्॥ ७ ॥
वीरराघवः
विशीर्णं शिथिलं स्वपुरं तथा प्रतिकूलान् अनपेक्षितविषयप्राणान्, अनादृतान् आदरमकुर्वाणान् स्वाधीनत्वा भावात् पुत्त्रान् इन्द्रियपरिणामरूपान्, पौत्त्रान् पुण्यापुण्यकर्मरूपान् तदनु 13गान् इन्द्रियाणि अमात्यान् इन्द्रियदेवताः गतं सौहृदं स्नेहः यस्या स्तां जायां तस्या अपि स्वाधीनत्वाभावात् ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
आत्मानं कन्यया ग्रस्तं पञ्चालानरिदूषितान्।
दुरन्तचिन्तामापन्नो न लेभे तत्प्रतिक्रियाम्॥
मूलम्
आत्मानं कन्य14या ग्रस्तं 15पाञ्चा16लानरिदूषितान्।
दुरन्तचिन्तामापन्नो न लेभे तत्प्रतिक्रियाम्॥ ८ ॥
अनुवाद (हिन्दी)
उसने देखा कि सारा नगर नष्ट-भ्रष्ट हो गया है; पुत्र, पौत्र, भृत्य और अमात्यवर्ग प्रतिकूल होकर अनादर करने लगे हैं; स्त्री स्नेहशून्य हो गयी है, मेरी देहको कालकन्याने वशमें कर रखा है और पांचालदेश शत्रुओंके हाथमें पड़कर भ्रष्ट हो गया है। यह सब देखकर राजा पुरंजन अपार चिन्तामें डूब गया और उसे उस विपत्तिसे छुटकारा पानेका कोई उपाय न दिखायी दिया॥ ७-८॥
वीरराघवः
कन्यया जरया ग्रस्तमात्मानं शरीरमरिभिः विघ्नादिभिः दूषितान् पाञ्चालान् विषयांश्च वीक्ष्य दृष्ट्वा अपारचिन्तामापन्नः तस्य पुरादिविशीर्णत्वादेः प्रतिक्रियां प्रति17कारं परिहारोपायं न लेभे ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
कामानभिलषन्दीनो यातयामांश्च कन्यया।
विगतात्मगतिस्नेहः पुत्रदारांश्च लालयन्॥
अनुवाद (हिन्दी)
कालकन्याने जिन्हें निःसार कर दिया था, उन्हीं भोगोंकी लालसासे वह दीन था। अपनी पारलौकिकी गति और बन्धुजनोंके स्नेहसे वंचित रहकर उसका चित्त केवल स्त्री और पुत्रके लालन-पालनमें ही लगा हुआ था॥ ९॥
वीरराघवः
कालकन्यया हेतुभूतया यातयामान् निस्सारानपि कामान् अभिलषन् दीनः कृपणः विगता आत्मनो गतिः पारलौकि20की ऐहिकः पुत्त्रादिस्नेहश्च यस्य पुत्त्रदारान् इन्द्रियपरिणामबुद्धीः लालयन् उपच्छन्दयन् ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
गन्धर्वयवनाक्रान्तां कालकन्योपमर्दिताम्।
हातुं प्रचक्रमे राजा तां पुरीमनिकामतः॥
मूलम्
गन्धर्व यवनाक्रान्तां कालकन्योपमर्दिताम्।
हातुं प्रचक्रमे राजा तां पुरीमनिकामतः॥ १० ॥
अनुवाद (हिन्दी)
ऐसी अवस्थामें उनसे बिछुड़नेकी इच्छा न होनेपर भी उसे उस पुरीको छोड़नेके लिये बाध्य होना पड़ा; क्योंकि उसे गन्धर्व और यवनोंने घेर रखा था तथा कालकन्याने कुचल दिया था॥ १०॥
वीरराघवः
गन्धर्वैः अहोरात्ररूपैः 21भुग्रां कुटिलां21 कालकन्यया अवमर्दितां पीडितां पुरीम् अनिकामतः अनिच्छयाऽपि, राजा पुरञ्जनो हातुं त्यक्तुं, प्रचक्रमे उपक्रान्तवान् ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
भयनाम्नोऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः।
ददाह तां पुरीं कृत्स्नां भ्रातुः प्रियचिकीर्षया॥
मूलम्
भयनाम्नोऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः।
ददाह तां पुरीं कृत्स्नां भ्रा22तुः प्रियचिकीर्षया॥ ११ ॥
अनुवाद (हिन्दी)
इतनेमें ही यवनराज भयके बड़े भाई प्रज्वारने अपने भाईका प्रिय करनेके लिये उस सारी पुरीमें आग लगा दी॥ ११॥
वीरराघवः
भयनाम्नो योऽग्रजो भ्राता प्रज्वारः स उपस्थितः पुरञ्जनपुरीम् अधिष्ठितः, भ्रातुर्भयनाम्नः प्रियं कर्तुमिच्छया कृत्स्नां तां पुरीं ददाह । प्रज्वाराख्यो वैष्णवज्वरः शरीरं प्रविश्य भृशं तेपे इत्यर्थः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
तस्यां सन्दह्यमानायां सपौरः सपरिच्छदः।
कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः॥
मूलम्
तस्यां सन्दह्यमानायां सपौरः सपरिच्छदः।
कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः॥ १२ ॥
अनुवाद (हिन्दी)
जब वह नगरी जलने लगी, तब पुरवासी, सेवकवृन्द, सन्तानवर्ग और कुटुम्बकी स्वामिनीके सहित कुटुम्बवत्सल पुरंजनको बड़ा दुःख हुआ॥ १२॥
वीरराघवः
तस्यां पुर्यां नितरां प्रज्वारेण तप्यमानायां भार्यासहितः भृत्यवर्गसहितश्च कुटुम्बेन सह दीव्यतीति कौटुम्बिकः । कुटुम्बिन्या सह 23महिष्या सह23 सान्वयः पुत्रादिसहितः उपातप्यत ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
यवनोपरुद्धायतनो ग्रस्तायां कालकन्यया।
पुर्यां प्रज्वारसंसृष्टः पुरपालोऽन्वतप्यत॥
मूलम्
यवनोपरुद्धायतनो ग्रस्तायां कालकन्यया।
पुर्यां प्रज्वारसं24स्पृष्टः पुरपालोऽन्वतप्यत॥ १३ ॥
अनुवाद (हिन्दी)
नगरको कालकन्याके हाथमें पड़ा देख उसकी रक्षा करनेवाले सर्पको भी बड़ी पीड़ा हुई, क्योंकि उसके निवासस्थानपर भी यवनोंने अधिकार कर लिया था और प्रज्वार उसपर भी आक्रमण कर रहा था॥ १३॥
वीरराघवः
कालकन्यया पुर्यां ग्रस्तायां सत्यां यवनैः उपरुद्धानि आयतनानि यस्य सः, पुरपालः प्रजागरः प्रज्वारेण संस्पृष्टः अन्वतप्यत । स पुरपालः 25प्राणः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
न शेके सोऽवितुं तत्र पुरुकृच्छ्रोरुवेपथुः।
गन्तुमैच्छत्ततो वृक्षकोटरादिव सानलात्॥
अनुवाद (हिन्दी)
जब उस नगरकी रक्षा करनेमें वह सर्वथा असमर्थ हो गया, तब जिस प्रकार जलते हुए वृक्षके कोटरमें रहनेवाला सर्प उससे निकल जाना चाहता है, उसी प्रकार उसने भी महान् कष्टसे काँपते हुए वहाँसे भागनेकी इच्छा की॥ १४॥
वीरराघवः
पुरु बहु कृच्छ्रं दुःखं तेन उर्वेपथुः यस्य, 29पुरे इति पाठे पुर्याम् उषितुम् अवस्थातुं न शशाक नाशक्नोत् । किन्तु ततः पुर्याः अग्निसहितात् वृक्षकोटरात् सर्प इव गन्तुमैच्छत् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
शिथिलावयवो यर्हि गन्धर्वैर्हृतपौरुषः।
यवनैररिभी राजन्नुपरुद्धो रुरोद ह॥
अनुवाद (हिन्दी)
उसके अंग-प्रत्यंग ढीले पड़ गये थे तथा गन्धर्वोंने उसकी सारी शक्ति नष्ट कर दी थी; अतः जब यवन शत्रुओंने उसे जाते देखकर रोक दिया, तब वह दुःखी होकर रोने लगा॥ १५॥
वीरराघवः
यदा गन्धर्वैः शिथिला अवयवा यस्य, हृतं पौरुषं सामर्थ्यं यस्य, तदाऽयं हे राजन् ! यवनैः 32शत्रुभिः उपरुद्धः रुरोद व्याध्यादिभिः निरूद्धमार्गः 33घुर्घुरध्वनिं चकार34 ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
दुहितॄः पुत्रपौत्रांश्च जामिजामातृपार्षदान्।
स्वत्वावशिष्टं यत्किञ्चिद् गृहकोशपरिच्छदम्॥
मूलम्
दुहितॄः पुत्रपौत्रांश्च जामिजामातृपार्षदान्।
35स्वत्वावशिष्टं यत्किञ्चित् गृहकोशपरिच्छदम्॥ १६ ॥
वीरराघवः
दुहित्रादीन् दध्यौ ध्यातवान् इत्युत्तरेणान्वयः । दुहितृरिति देहानुबन्धि चिन्ताभिप्रायकम् । जामयोऽत्र स्नुषाः ताश्च जामातरः दुहितृृणां पतयः, पार्षदा भृत्याश्चेति द्वन्द्वः, तान् स्वत्वमात्रेणावशिष्टं, भोगस्तु प्रागेव क्षीणः, यत्किञ्चित् गृहादिरूपं वस्तु ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
अहं ममेति स्वीकृत्य गृहेषु कुमतिर्गृही।
दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते॥
मूलम्
अहं ममेति 36स्वीकृत्य गृहेषु कुमतिर्गृही।
दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते॥ १७ ॥
अनुवाद (हिन्दी)
गृहासक्त पुरंजन देह-गेहादिमें मैं-मेरेपनका भाव रखनेसे अत्यन्त बुद्धिहीन हो गया था। स्त्रीके प्रेमपाशमें फँसकर वह बहुत दीन हो गया था। अब जब इनसे बिछुड़नेका समय उपस्थित हुआ, तब वह अपने पुत्री, पुत्र, पौत्र, पुत्रवधू, दामाद, नौकर और घर, खजाना तथा अन्यान्य जिन पदार्थोंमें उसकी ममताभर शेष थी (उनका भोग तो कभीका छूट गया था), उन सबके लिये इस प्रकार चिन्ता करने लगा॥ १६-१७॥
वीरराघवः
तच्च अहम्ममाभिमानविषयं कृत्वा गृहेषु दारेषु कुमतिः कुत्सिता मतिः यस्य, आसक्तबुद्धिर्गृही पुरञ्जनः प्रमदया सह विप्रयोगे विश्लेषे उपस्थिते प्रतीते सति दध्यौ बुद्ध्यात्मिकां प्रमदां विहाय गमिष्यामि उत सहैवेति चिन्तामकरोत्37 ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
लोकान्तरं गतवति मय्यनाथा कुटुम्बिनी।
वर्तिष्यते कथं त्वेषा बालकाननुशोचती॥
अनुवाद (हिन्दी)
‘हाय! मेरी भार्या तो बहुत घर-गृहस्थीवाली है; जब मैं परलोकको चला जाऊँगा, तब यह असहाय होकर किस प्रकार अपना निर्वाह करेगी? इसे इन बाल-बच्चोंकी चिन्ता ही खा जायगी॥ १८॥
वीरराघवः
ध्यानमेवाह - मयि लोकान्तरं प्रति गतवति सति इयमनाथा कुटुम्बिनी बालकान् प्रति अनुशोचन्ती कथं वर्तिष्यते ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
न मय्यनाशिते भुङ्क्ते नास्नाते स्नाति मत्परा।
मयि रुष्टे सुसंत्रस्ता भर्त्सिते यतवाग्भयात्॥
मूलम्
न मय्य40नाशिते भुङ्क्ते नास्नाते स्नाति मत्परा।
मयि 41रुष्टे 42सुसन्त्रस्ता भर्त्सिते यतवाग्भयात्॥ १९ ॥
अनुवाद (हिन्दी)
यह मेरे भोजन किये बिना भोजन नहीं करती थी और स्नान किये बिना स्नान नहीं करती थी, सदा मेरी ही सेवामें तत्पर रहती थी। मैं कभी रूठ जाता था तो यह बड़ी भयभीत हो जाती थी और झिड़कने लगता तो डरके मारे चुप रह जाती थी॥ १९॥
वीरराघवः
मय्यानाशिते अभोजिते न भुङ्क्ते एवमुत्तरत्रापि । भर्त्सिते भर्त्सने कृते भयाद्यतवाक् नियता वाक् यस्याः सा, मौनं बिभर्तीत्यर्थः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
प्रबोधयति माविज्ञं व्युषिते शोककर्शिता।
वर्त्मैतद् गृहमेधीयं वीरसूरपि नेष्यति॥
मूलम्
प्रबोधयति 43माऽविज्ञं व्युषिते शोककर्शिता।
वर्त्मैतत् गृहमेधीयं वीरसूरपि नेष्यति॥ २० ॥
अनुवाद (हिन्दी)
मुझसे कोई भूल हो जाती तो यह मुझे सचेत कर देती थी। मुझमें इसका इतना अधिक स्नेह है कि यदि मैं कभी परदेश चला जाता था तो यह विरहव्यथासे सूखकर काँटा हो जाती थी। यों तो यह वीरमाता है, तो भी मेरे पीछे क्या यह गृहस्थाश्रमका व्यवहार चला सकेगी?॥ २०॥
वीरराघवः
अविज्ञमविवेकिनं मां प्रबोधयति 44विवेचयति44 व्युषिते देशान्तरं गते शोकेन कर्शिता गृहमेधीयं वर्त्मतत् गृहस्थधर्मं किं नेष्यत्यनुवर्तिष्यते । युक्तमेतद्यतो वीरसूः पुत्रवती । किं वा मद्विरहमसहमानामरिष्यति ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
कथं नु दारका दीना दारकीर्वापरायणाः।
वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ॥
अनुवाद (हिन्दी)
मेरे चले जानेपर एकमात्र मेरे ही सहारे रहनेवाले ये पुत्र और पुत्री भी कैसे जीवन धारण करेंगे? ये तो बीच समुद्रमें नाव टूट जानेसे व्याकुल हुए यात्रियोंके समान बिलबिलाने लगेंगे’॥ २१॥
वीरराघवः
दारकाः पुत्राः, दारिका दुहितरश्च, अपरायणाः न विद्यते परमयनमाश्रयो येषां ते अपरायणाः । मयि गते सति कथं नु वर्तिष्यन्ते भिन्ना नौर्येषां ते पुरुषाः उदधौ समुद्रे इवेति । अत्र लोकान्तरं गतवतीत्यनेन सर्वेन्द्रियपरिणामहेतुभूता जीवैकायत्ता बुद्धिर्लोकान्तरं गच्छता जीवेन सह गच्छति उत नेत्याशङ्कोत्थापिता वर्त्मैतत् गृहमेधीयमित्यर्द्धेन सहैव गच्छतीत्युक्तम् । तथा कथं दारका इत्यनेन परिणामपरिणामितदन्तबुद्धिवृत्ति 47करणानि इन्द्रियाण्यपि किं सहैव गच्छन्तीति उत नेति संशय्य सहैव गच्छन्तीत्युक्तं भवति । एतदेव कथासौन्दर्याय परोक्षमभिधीयते । तथा च गीतं भगवता “मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति । शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ॥ गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्” (भ.गी. 15-7,8) इति । बुद्धेर्मनोवृत्तिविशेषमात्रत्वेन मनसः सहगमनकथनेन बुद्धेरपि गमनं गीतं भवति हति गम्यते ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
एवं कृपणया बुद्ध्या शोचन्तमतदर्हणम्।
ग्रहीतुं कृतधीरेनं भयनामाभ्यपद्यत॥
मूलम्
एवं कृपणया बुद्ध्या शोचन्तमतदर्हणम्।
ग्रहीतुं कृतधीरेनं भयनामाऽभ्यपद्यत॥ २२ ॥
अनुवाद (हिन्दी)
यद्यपि ज्ञानदृष्टिसे उसे शोक करना उचित न था, फिर भी अज्ञानवश राजा पुरंजन इस प्रकार दीनबुद्धिसे अपने स्त्री-पुत्रादिके लिये शोकाकुल हो रहा था। इसी समय उसे पकड़नेके लिये वहाँ भय नामक यवनराज आ धमका॥ २२॥
वीरराघवः
एवं कृपणया बुद्ध्या शोचन्तम् अतदर्हणं शोकानर्हं वस्तुतः 48तस्य अपहतपाप्मत्वादि गुणाष्टक विशिष्टत्वात् एवं पुरञ्जनं ग्रहीतुं पुरात् विश्लेषयितुं, कृतधीः 49निश्चितबुद्धिः49 भयनामा मृत्युः प्राप्तः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
पशुवद्यवनैरेष नीयमानः स्वकं क्षयम्।
अन्वद्रवन्ननुपथाः शोचन्तो भृशमातुराः॥
अनुवाद (हिन्दी)
जब यवनलोग उसे पशुके समान बाँधकर अपने स्थानको ले चले, तब उसके अनुचरगण अत्यन्त आतुर और शोकाकुल होकर उसके साथ हो लिये॥ २३॥
वीरराघवः
यथा स्वकं स्वकीयकर्मानुगुणं स्थानं प्रति यवनैः पशुवन्नीयमानः तदाऽनुपथाः प्राणा इन्द्रियाणि च शोचन्तः यवनैः पीडिता अत एवाऽऽतुराः शोचन्तोऽन्वद्रवन् अनुसृत्य गतवन्तः । तथा च श्रुतिः “तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनुत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति” (बृह. उ. 4-4-3) इति प्राणो ज्ये52ष्ठ प्राणः सर्वे प्राणा इन्द्रियाणि इत्यर्थः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
पुरीं विहायोपगत उपरुद्धो भुजङ्गमः।
यदा तमेवानु पुरी विशीर्णा प्रकृतिं गता॥
अनुवाद (हिन्दी)
यवनोंद्वारा रोका हुआ सर्प भी उस पुरीको छोड़कर इन सबके साथ ही चल दिया। उसके जाते ही सारा नगर छिन्न-भिन्न होकर अपने कारणमें लीन हो गया॥ २४॥
वीरराघवः
यवनैः उपरुद्धः पुरीं स्थूलशरीरं तु विहायैव गतः भुजङ्गवत्, दह्यमानं वृक्षकोटरं विहाय यथा भुज56ङ्गमो गच्छति तद्वदित्यर्थः । यदा गतस्तदा तमेव तद्गमनानन्तरमेव पुरी विशीर्णा शिथिला सती प्रकृतिं महाभूतात्मतां गता प्राप्तवती । कथा पक्षे तु दारापत्यादयः सर्वे पुरञ्जनविश्लेषमसहमानाः तेनैव सह विनष्टा अभूवन् पुरी च विनष्टा अभूदित्यर्थः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
विकृष्यमाणः प्रसभं यवनेन बलीयसा।
नाविन्दत्तमसाऽऽविष्टः सखायं सुहृदं पुरः॥
अनुवाद (हिन्दी)
इस प्रकार महाबली यवनराजके बलपूर्वक खींचनेपर भी राजा पुरंजनने अज्ञानवश अपने हितैषी एवं पुराने मित्र अविज्ञातका स्मरण नहीं किया॥ २५॥
वीरराघवः
बलीयसा यवनेन प्रसभं पुरः पुर्या विकृष्यमाणः तमोऽज्ञानमाविष्टः सखायं स्वेन सह वर्तमानं, सहवृत्तिर्हि सख्युः धर्मः, सुहृदं विपुलापराधत्वेऽपि किञ्चित् आनुकूल्येन रिरक्षयि59षा बुद्धिमन्तं परमात्मानं नाविन्दत् न सस्मार ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
तं यज्ञपशवोऽनेन संज्ञप्ता येऽदयालुना।
कुठारैश्चिच्छिदुः क्रुद्धाः स्मरन्तोऽमीवमस्य तत्॥
मूलम्
तं यज्ञपशवोऽनेन संज्ञप्ता येऽदयालुना।
कुठारैश्चिच्छिदुः क्रुद्धाः स्मर60ह्यात्मवैशसम्॥ २६ ॥
अनुवाद (हिन्दी)
उस निर्दय राजाने जिन यज्ञपशुओंकी बलि दी थी, वे उसकी दी हुई पीड़ाको याद करके उसे क्रोधपूर्वक कुठारोंसे काटने लगे॥ २६॥
वीरराघवः
अदयालुना दयारहितेन अनेन पुरञ्जनेन यज्ञे कर्मेन्द्रियव्यापाररूपे यज्ञे ये पशवः संज्ञप्ता हिंसिताः, ते पशवः आत्मवैशसं स्वविषये कृतं द्रोहं स्मरन्तः अत एव क्रुद्धाः कुठारसदृशैः श्रृङ्गैरेनं चिच्छिदुः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
अनन्तपारे तमसि मग्नो नष्टस्मृतिः समाः।
शाश्वतीरनुभूयार्तिं प्रमदासङ्गदूषितः॥
मूलम्
अनन्तपारे तमसि मग्नो नष्टस्मृतिः समाः।
शाश्वतीरनुभूयाऽऽ61र्तीः प्रमदासङ्गदूषितः॥ २७ ॥
अनुवाद (हिन्दी)
वह वर्षोंतक विवेकहीन अवस्थामें अपार अन्धकारमें पड़ा निरन्तर कष्ट भोगता रहा। स्त्रीकी आसक्तिसे उसकी यह दुर्गति हुई थी॥ २७॥
वीरराघवः
अनन्तपारेऽपारे तमसि नरके मग्नः अत एव गतविवेकः शाश्वतीः समाः संवत्सरान्, “कालध्वनोरत्यन्तसंयोगे” (अष्टा. 2-3-5) इति द्वितीया । आर्तिं दुःखमनुभूय प्रमदासङ्गदूषितः प्रमदासङ्गेनदूषितचित्तः इत्यर्थः, प्रमदाऽत्र देहानुबन्धिनी भार्या विवक्षिता, न तु बुद्धिरूपा, बुद्धिसङ्गस्याऽऽसंसारमनुवर्तमानत्वेन सर्वेषां सर्वदा स्त्रीजन्मापत्तेः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
तामेव मनसा गृह्णन् बभूव प्रमदोत्तमा।
अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनि॥
मूलम्
तामेव मनसा गृह्णन् बभूव प्रमदोत्तमा।
अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनि॥ २८ ॥
अनुवाद (हिन्दी)
अन्त समयमें भी पुरंजनको उसीका चिन्तन बना हुआ था। इसलिये दूसरे जन्ममें वह नृपश्रेष्ठ विदर्भराजके यहाँ सुन्दरी कन्या होकर उत्पन्न हुआ॥ २८॥
वीरराघवः
ता62मेव भार्यामेव मनसा गृह्णन् अन्तकाले स्मरन् अनन्तरं राजसिंहस्य विदर्भस्य वेश्मनि प्रमदोत्तमा बभूव 63इत्यन्वयः । एवं तिर्यगादिरूपेण संसरतो जीवस्य अदृष्टविशेषपरिपाकवशात् मनुष्यजन्म प्राप्तस्य तत्रापि जाग्रत्स्वप्नसु64षुप्त्यवस्थासु दोषाननुकीर्त्य पुनर्दैवात् कदाचित् सञ्जातविवेकस्यापि प्रबलकर्मरूपप्रतिबन्धवशात् रजस्तमः प्रचुरबुद्धिपार[^62]वश्ये स्वदेहदेहानुबन्धिविषय अहम्ममाभिमानग्रस्तस्य जरामरणाद्यवस्थासु दोषान् अभिधाय इदानीं देहावसाने देहानुबन्धिप्रमदास्मरणनिमित्तस्त्रीजन्मप्राप्तिं, तत्रापि प्राक्तन कादाचित्कयादृच्छिकपुण्यवशात् सत्कुलप्रसूतिं, ततो महाभागवतभर्तृसम्बन्धं, तत्सेवाप्रकारं, ततः तेन तुष्टस्य भगवतः प्रसादात् ज्ञानोदयञ्चाह । तत्र कथापक्षे विदर्भादिपदानां श्रौत एवार्थः । अध्यात्मपक्षे तु विदर्भस्य विशिष्टं दर्भोपलक्षितं कर्म यस्य तस्य राजन्ते 65सत्कर्मानुष्ठानेनेति राजानः सत्कर्मानुष्ठानपराः तेषां मध्ये सिंहस्य श्रेष्ठस्य वेश्मनि गृहे प्रमदा बभूव पुरञ्जनः कर्मविशेषेण विशिष्टकुले स्त्रीत्वं प्राप्त इत्यर्थः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
उपयेमे वीर्यपणां वैदर्भीं मलयध्वजः।
युधि निर्जित्य राजन्यान् पाण्ड्यः परपुरञ्जयः॥
मूलम्
उपयेमे वीर्यपणां वैदर्भीं मलयध्वजः।
युधि निर्जित्य राजन्यान् पाण्ड्यः परपुरञ्जयः॥ २९ ॥
अनुवाद (हिन्दी)
जब यह विदर्भनन्दिनी विवाहयोग्य हुई, तब विदर्भराजने घोषित कर दिया कि इसे सर्वश्रेष्ठ पराक्रमी वीर ही ब्याह सकेगा। तब शत्रुओंके नगरोंको जीतनेवाले पाण्ड्यनरेश महाराज मलयध्वजने समरभूमिमें समस्त राजाओंको जीतकर उसके साथ विवाह किया॥ २९॥
वीरराघवः
तां वैदर्भीं विदर्भस्य दुहितरं वीर्यं भगवद्भक्ति योगानुष्ठा66नसामर्थ्यमेव पणः शुल्कबन्धनं यस्यास्तां भागवतमेव वृणवानीत्येवं सङ्कल्पवतीं मलयध्वजः मलयपर्वतोपलक्षितो दक्षिणदेशः तत्र ध्वज इव दर्शनीयः, स हि विष्णुभक्तिप्रधानो देशः तत्र मुख्यो भागवत इत्यर्थः । तथा 67पाण्ड्यः पण्डा बुद्धिर्निश्चयात्मिका तामर्हतीति पाण्ड्यः । परस्य परमात्मनः पुरं पुरवद्वासस्थानं शरीरम् । “अथ यदिदमस्मिन् ब्रह्मपुरम्” (छन्दो उ. 8-1-1) इति श्रुतेः । तज्जयतीति पुरञ्जयः देहगुणाद्यजित इत्यर्थः । युधि इन्द्रियजयरूपे युद्धे राजन्यान् जितेन्द्रियान् निर्जित्य जितेन्द्रियश्रेष्ठोऽभूदित्यर्थः । उपयेमे, यद्यप्यत्र “राज्ञो जातावेवेति वाच्यम्” (अष्टा.वार्तिकम् 1635) इति जातौ नियमितोऽयं यत्प्रत्ययः तदन्तो राजन्यशब्दः क्षत्त्रियजातीयवचनस्तथाऽपि अत्र गौण्या वृत्त्या जितेन्द्रियपरः । क्षत्त्रियजातीयो हि जयेन राजत इति जयगुणयोगाज्जितेन्द्रिये तस्य वृत्तेः सम्भवात् ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
तस्यां स जनयाञ्चक्र आत्मजामसितेक्षणाम्।
यवीयसः सप्त सुतान् सप्त द्रविडभूभृतः॥
अनुवाद (हिन्दी)
उससे महाराज मलयध्वजने एक श्यामलोचना कन्या और उससे छोटे सात पुत्र उत्पन्न किये, जो आगे चलकर द्रविडदेशके सात राजा हुए॥ ३०॥
वीरराघवः
स मलयध्वजस्तस्यां वैदर्भ्याम् 70असितेक्षणां70 असिते श्रीकृष्णे ईक्षणं दृष्टिर्यया तां श्रीकृष्णसेवारुचिरूपाम् आत्मजां जनयाञ्चक्रे वैदर्भ्याः भागवतसङ्गेन भगवत्सेवारुचिरभूदित्यर्थः । तथा यवीयसः आत्मजाया 71अनु जातान् सप्तसुतान् “श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यम्" (भाग. 7-5-23) इत्येवं रूपान् । सख्यात्मनिवेदनयोस्तु भगवदनपायित्व तच्छेषतैकानुसन्धानरूपयोः भगवतैव उत्तरत्रोपदेक्ष्यमाणयोः इदानीमनुत्पत्तेः 72सप्तेत्युक्तम् । भगवद्धर्मरुच्या तच्छ्रवणकीर्तनादिकं जातमित्यर्थः । द्रविडभूमिपालकान्, द्रविडभूमिर्हि श्रवणादिभिरेव सुरक्षिता अस्तीति प्रसिद्धम् ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
एकैकस्याभवत्तेषां राजन्नर्बुदमर्बुदम्।
भोक्ष्यते यद्वंशधरैर्मही मन्वन्तरं परम्॥
अनुवाद (हिन्दी)
राजन्! फिर उनमेंसे प्रत्येक पुत्रके बहुत-बहुत पुत्र उत्पन्न हुए , जिनके वंशधर इस पृथ्वीको मन्वन्तरके अन्ततक तथा उसके बाद भी भोगेंगे॥ ३१॥
वीरराघवः
हे राजन् ! तेषां पुत्राणाम् एकैकस्य अर्बुद75मर्बुदं पुत्रा अभवन् । श्रवणकीर्तनादीनां प्रत्येकमनेकप्रकारा अभवन्नित्यर्थः । येषां वंशधरैर्यतः प्रसूतैः सम्प्रदायभेदैः मन्वन्तरम् अतः परं च मही भोक्ष्यते अनुभूयते श्रवणकीर्तनादिसम्प्रदाय भेदैर्मही व्याप्ता इत्यर्थः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
अगस्त्यः प्राग्दुहितरमुपयेमे धृतव्रताम्।
यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः॥
अनुवाद (हिन्दी)
राजा मलयध्वजकी पहली पुत्री बड़ी व्रतशीला थी। उसके साथ अगस्त्य ऋषिका विवाह हुआ। उससे उनके दृढ़च्युत नामका पुत्र हुआ और दृढ़च्युतके इध्मवाह हुआ॥ ३२॥
वीरराघवः
78अगस्त्यः अगस्त्योपलक्षितो मुमुक्षुः दृढव्रताम् अव्यभिचारिणीं दुहितरं भगवत्सेवारुच्यात्मिकामुपयेमे स्वीकृतवान् । दुहितरं विशिनष्टि– यस्यां दुहितरि इध्मवाहात्मजः इध्मवाहः समित्प्रापणं तेन तत्पूर्वकगुरूपसत्तिः लक्ष्यते “गुरुमेवाभिगच्छेत् सामेत्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्” (मुण्ड.उ.1-2-12) इति श्रुति प्रसिद्धरामिवद्वाहपूर्वकगुरूपसादात् जातो ब्रह्मोपदेशात्मको मुनिः उपदिष्टस्य अर्थस्य मननप्रचुरत्वात् मुनिः, दृढं व्रतं श्रवणोपयुक्तशमदमात्मकं व्रतं यस्य सः “प्रशान्तचित्ताय शमान्विताय” (मुण्ड. उ. 1-2-13) इति श्रुतेः । उपासनोपयुक्तशमादीनां श्रवणकालेऽभावाच्च जातः बभूव ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
विभज्य तनयेभ्यः क्ष्मां राजर्षिर्मलयध्वजः।
आरिराधयिषुः कृष्णं स जगाम कुलाचलम्॥
मूलम्
विभज्य तनयेभ्यः क्ष्मां राजर्षिर्मलयध्वजः।
आरिराधयिषुः कृष्णं स जगाम कुलाचलम्॥ ३३ ॥
अनुवाद (हिन्दी)
अन्तमें राजर्षि मलयध्वज पृथ्वीको पुत्रोंमें बाँटकर भगवान् श्रीकृष्णकी आराधना करनेकी इच्छासे मलय पर्वतपर चले गये॥ ३३॥
वीरराघवः
तनयेभ्यः श्रवणकीर्तनादिभ्यः पुत्रेभ्यः क्ष्मां स्वोपजीव्यां भगवद्भक्त्यात्मिकां पृथ्वीं विभज्य श्रवणकीर्तनादिसाध्यामनुसन्धाय स मलयध्वजः कृष्णमाराधयितुमिच्छुः कुलाचलं मलयपर्वतं प्रति जगाम 79गतः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा।
अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनीकरम्॥
मूलम्
हित्वा गृहान् 80सुतान् भोगान् वैदर्भीमदिरेक्षणा।
अन्व81पद्यत पाण्ड्येशं ज्योत्स्नेव रजनीकरम्॥ ३४ ॥
अनुवाद (हिन्दी)
उस समय—चन्द्रिका जिस प्रकार चन्द्रदेवका अनुसरण करती है—उसी प्रकार मत्तलोचना वैदर्भीने अपने घर, पुत्र और समस्त भोगोंको तिलांजलि दे पाण्ड्यनरेशका अनुगमन किया॥ ३४॥
वीरराघवः
गुरूपसत्तिपूर्वक शमादियुक्त श्रवणमननादिपूर्विकां श्रवणकीर्तनादिसा82ध्यभगवत्सेवारुचिं वैदर्भ्यामुत्पाद्य तया सह भगवन्तमाराधयितुं विविक्तं पुण्यदेशं ययावित्युक्तम्, अथ मलयध्वजस्य महाभागवतस्य अष्टाङ्गयुक्तभगवद्भक्तियोगानुष्ठान प्रकारं वैदर्भ्याः पत्युः परिचर्याप्रकारं च आह - हित्वेत्यादिना मनो दध इत्यन्तेन ग्रन्थेन । मदिरं भगवत्सेवाहर्षरूपमीक्षणं ज्ञानं यस्याः सा वैदर्भी सुखान् सुखप्रदान्, गृहान् सुखशब्दः तत्साधनेषु उपचारात्प्रयुक्तः । अत एव पुंस्त्वम् । 83त्यक्त्वा पाण्ड्येशं मलयध्वजमन्वधावत अनुसृत्य गतवती, यथा रजनीकरं चन्द्रं ज्योत्स्ना चन्द्रिका ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका।
तत्पुण्यसलिलैर्नित्यमुभयत्रात्मनो मृजन्॥
अनुवाद (हिन्दी)
वहाँ चन्द्रवसा, ताम्रपर्णी और वटोदका नामकी तीन नदियाँ थीं। उनके पवित्र जलमें स्नान करके वे प्रतिदिन अपने शरीर और अन्तःकरणको निर्मल करते थे॥ ३५॥
वीरराघवः
तत्र कुलाचले चन्द्र86मसा ताम्रपर्णी प्रसिद्धा नदी, तस्याः पुण्यैः सलिलैः आत्मनः स्वस्य उभयत्र अन्तर्बहिश्च मलं मृजन् स्नानपानादिभिः शोधयन् तप आस्थित इत्युत्तरेणान्वयः ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
कन्दाष्टिभिर्मूलफलैः पुष्पपर्णैस्तृणोदकैः।
वर्तमानः शनैर्गात्रकर्शनं तप आस्थितः॥
अनुवाद (हिन्दी)
वहाँ रहकर उन्होंने कन्द, बीज, मूल, फल, पुष्प, पत्ते, तृण और जलसे ही निर्वाह करते हुए बड़ा कठोर तप किया। इससे धीरे-धीरे उनका शरीर बहुत सूख गया॥ ३६॥
वीरराघवः
कन्दाष्टयः कन्दबीजानि कन्दाष्ट्यादिभिः पूर्वपूर्वालाभे उत्तरोत्तरैः वर्तमानः देहधारणं कुर्वाणः पश्चाच्छनैः गात्र89कर्शनं शरीरशोषणं तप अनशनतप आस्थित 90इत्यर्थः ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
शीतोष्णवातवर्षाणि क्षुत्पिपासे प्रियाप्रिये।
सुखदुःखे इति द्वन्द्वान्यजयत्समदर्शनः॥
मूलम्
शीतोष्णवातवर्षाणि क्षुत्पिपासे प्रियाप्रिये।
सुखदुःखे इति द्वन्द्वान्यजयत्समदर्शनः॥ ३७ ॥
अनुवाद (हिन्दी)
महाराज मलयध्वजने सर्वत्र समदृष्टि रखकर शीत-उष्ण, वर्षा-वायु, भूख-प्यास, प्रिय-अप्रिय और सुख-दुःखादि सभी द्वन्द्वोंको जीत लिया॥ ३७॥
वीरराघवः
ततः समदर्शनः शीतोष्णादिनिमित्तचित्तविकाररहितः शीतोष्णादिद्वन्द्वान्यजयत् ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
तपसा विद्यया पक्वकषायो नियमैर्यमैः।
युयुजे ब्रह्मण्यात्मानं विजिताक्षानिलाशयः॥
मूलम्
तपसा विद्यया पक्वकषायो नियमैर्यमैः।
युयुजे ब्रह्म91णाऽऽत्मानं विजिताक्षानिलाशयः॥ ३८ ॥
अनुवाद (हिन्दी)
तप और उपासनासे वासनाओंको निर्मूल कर तथा यम-नियमादिके द्वारा इन्द्रिय, प्राण और मनको वशमें करके वे आत्मामें ब्रह्मभावना करने लगे॥ ३८॥
वीरराघवः
तपसा कर्मयोगेन विद्यया ज्ञानयोगेन च पक्वः निरस्तः कषायः धातुरागवदनिवर्त्यं पुण्यापुण्यात्मकं पापं यस्य स, यमैर्नियमैश्च विजितान्यक्षणीन्द्रियाणि अनिलः प्राणः, आशयोऽन्तः करणं च येन सः । ब्रह्मणा परमात्मना आत्मानं प्रत्यगात्मानं युयुजे । अधिकरणस्यैव करणत्वविवक्षया तृतीया । ब्रह्मण्यात्मानं युयुजे ब्रह्मात्मकं स्वात्मानमनुसंहितवानित्यर्थः ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं स्थिरः।
वासुदेवे भगवति नान्यद्वेदोद्वहन् रतिम्॥
मूलम्
आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं स्थि92रः।
वासुदेवे भगवति नान्यद्वेदोद्वहन् रतिम्॥ ३९ ॥
अनुवाद (हिन्दी)
इस प्रकार सौ दिव्य वर्षोंतक स्थाणुके समान निश्चलभावसे एक ही स्थानपर बैठे रहे। भगवान् वासुदेवमें सुदृढ़ प्रेम हो जानेके कारण इतने समयतक उन्हें शरीरादिका भी भान न हुआ॥ ३९॥
वीरराघवः
स्थाणुरिव एकत्र देशे दिव्यं वर्षशतं निश्चलः आस्ते उपविष्टवान् । भगवति वासुदेवे रतिमनुरागात्मिकां भक्तिमुद्वहन् कुर्वन् अन्यच्छरीरादिकं न वेद न सस्मार ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
स व्यापकतयाऽऽत्मानं व्यतिरिक्ततयाऽऽत्मनि।
विद्वान् स्वप्न इवामर्शसाक्षिणं विरराम ह॥
मूलम्
स व्यापकतयाऽऽत्मानं व्यतिरिक्ततयाऽऽत्मनि।
विद्वान् स्वप्न इवा93मृश्यसाक्षिणं विरराम ह॥ ४० ॥
वीरराघवः
स मलयध्वजः साक्षात् द्रष्टारमात्मानं परमात्मानमात्मनि जीवात्मनि व्यापकतया विलक्षणतया व्यापकत्वरूपवैलक्षण्येनेत्यर्थः । विद्वान् स्वप्न इवाऽऽमृश्य स्वप्न इवानित्यं देहवृत्तान्तमामृश्य तस्मात् विरराम केवलपरमात्मानुसन्धानपरोऽभूदित्यर्थः ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
साक्षाद्भगवतोक्तेन गुरुणा हरिणा नृप।
विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखम्॥
मूलम्
साक्षाद्भगवतोक्तेन गुरुणा हरिणा नृप।
विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखम्॥ ४१ ॥
अनुवाद (हिन्दी)
राजन्! गुरुस्वरूप साक्षात् श्रीहरिके उपदेश किये हुए तथा अपने अन्तःकरणमें सब ओर स्फुरित होनेवाले विशुद्ध विज्ञानदीपकसे उन्होंने देखा कि अन्तःकरणकी वृत्तिका प्रकाशक आत्मा स्वप्नावस्थाकी भाँति देहादि समस्त उपाधियोंमें व्याप्त तथा उनसे पृथक् भी है। ऐसा अनुभव करके वे सब ओरसे उदासीन हो गये॥ ४०-४१॥
वीरराघवः
साक्षात् भगवान् हरिरेव गुरुः तेनोक्तेन सर्वतोमुखं स्फुरता अकुण्ठितेन विशुद्धज्ञानदीपेन स्वपर याथात्म्यज्ञानदीपेन ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
परे ब्रह्मणि चात्मानं परं ब्रह्म तथाऽऽत्मनि।
वीक्षमाणो विहायेक्षामस्मादुपरराम ह॥
मूलम्
परे ब्रह्मणि चात्मानं परं ब्रह्म तथाऽऽत्मनि।
94वीक्षमाणो विहायेक्षामस्मादुपरराम ह॥ ४२ ॥
अनुवाद (हिन्दी)
फिर अपनी आत्माको परब्रह्ममें और परब्रह्मको आत्मामें अभिन्नरूपसे देखा और अन्तमें इस अभेद चिन्तनको भी त्यागकर सर्वथा शान्त हो गये॥ ४२॥
वीरराघवः
आत्मानं प्रत्यगात्मानं परे ब्रह्मणि, परं ब्रह्म प्रत्यगात्मनि च ईक्षमाणः उपास95नेन साक्षात्कुर्वन्नित्यर्थः । परे ब्रह्मणीति धारकत्वमुक्तं, परं ब्रह्मेति व्यापकत्वमुक्तम् । ततः ईक्षां विहाय उपरराम उपासनात्मकं ज्ञानं हित्वा उपरराम । यावत् उपरमम् आमरणमुपासितवानित्यर्थः ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
पतिं परमधर्मज्ञं वैदर्भी मलयध्वजम्।
प्रेम्णा पर्यचरद्धित्वा भोगान् सा पतिदेवता॥
मूलम्
पतिं परमधर्म96ज्ञं वैदर्भी मलयध्वजम्।
प्रेम्णा पर्यचरद्धित्वा भोगान् सा पतिदेवता॥ ४३ ॥
अनुवाद (हिन्दी)
राजन्! इस समय पतिपरायणा वैदर्भी सब प्रकारके भोगोंको त्यागकर अपने परमधर्मज्ञ पति मलयध्वजकी सेवा बड़े प्रेमसे करती थी॥ ४३॥
वीरराघवः
वैदर्भी भोगान् हित्वा पतिरेव देवता यस्याः सा भगवदाराधनरूपसर्वोत्कृष्टधर्मनिष्ठं मलयध्वजं पतिं प्रेम्णा पर्यचरत् 97परिचर्यां चक्रे97 ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
चीरवासा व्रतक्षामा वेणीभूतशिरोरुहा।
बभावुप पतिं शान्ता शिखा शान्तमिवानलम्॥
मूलम्
चीरवासा व्रतक्षामा वेणीभूतशिरोरुहा।
बभावुपपतिं शान्ता शिखा शान्तमिवानलम्॥ ४४ ॥
अनुवाद (हिन्दी)
वह चीर-वस्त्र धारण किये रहती, व्रत उपवासादिके कारण उसका शरीर अत्यन्त कृश हो गया था और सिरके बाल आपसमें उलझ जानेके कारण उनमें लटें पड़ गयी थीं। उस समय अपने पतिदेवके पास वह अंगारभावको प्राप्त धूमरहित अग्निके समीप अग्निकी शान्त शिखाके समान सुशोभित हो रही थी॥ ४४॥
वीरराघवः
चीरं वासो वस्त्रं यस्याः सा, व्रतेन अनशनादिना क्षामा वशीभूता, वेणीभूता जटीभूताः शिरोरुहाः केशाः यस्याः सा, उपपतिं समीपे पत्युः यद्वा पत्युः किञ्चिन्मात्रं न्यूना तत्समाना सतीत्यर्थः । “उपोधिके च” (अष्टा. 1-4-87) इति कर्मप्रवचनीय98त्वेन तद्योगे द्वितीया शान्तमङ्गारावस्थमनलं शान्ता निर्द्धूमा 99शुद्धा शिखा ज्वाला यथा भाति 100तथा बभौ ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
अजानती प्रियतमं यदोपरतमङ्गना।
सुस्थिरासनमासाद्य यथापूर्वमुपाचरत्॥
मूलम्
अजानती प्रियतमं यदोपरतमङ्गना।
सुस्थिरासनमासाद्य यथापूर्व101मुपाचरत्॥ ४५ ॥
अनुवाद (हिन्दी)
उसके पति परलोकवासी हो चुके थे, परन्तु पूर्ववत् स्थिर आसनसे विराजमान थे। इस रहस्यको न जाननेके कारण वह उनके पास जाकर उनकी पूर्ववत् सेवा करने लगी॥ ४५॥
वीरराघवः
यदा पतिरुपरराम तदानीमपि सुस्थिरमासनमासाद्य आबध्य अत एवोपरतं मृतं प्रियतमं पतिम् अजानती अङ्गना वैदर्भी यथापूर्वं पत्युरङ्घ्री उपाचरत् पर्यचरत् ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
यदा नोपलभेताङ्घ्रावूष्माणं पत्युरर्चती।
आसीत्संविग्नहृदया यूथभ्रष्टा मृगी यथा॥
मूलम्
यदा नोपलभेताङ्घ्रावूष्माणं पत्युरर्चती।
आसीत्संविग्नहृदया यूथभ्रष्टा मृगी यथा॥ ४६ ॥
अनुवाद (हिन्दी)
चरणसेवा करते समय जब उसे अपने पतिके चरणोंमें गरमी बिलकुल नहीं मालूम हुई, तब तो वह झुंडसे बिछुड़ी हुई मृगीके समान चित्तमें अत्यन्त व्याकुल हो गयी॥ ४६॥
वीरराघवः
यदा चार्च102न्ती पत्युरङ्ङ्घ्रौ ऊष्माणं नोपलभेत नोपलब्धवती तदा संविग्रहृदया दुःखितचित्ता आसीदभूत् । यूथात् स्वसमूहात् भ्रष्टा वियुक्ता मृगी हरिणी तद्वत् ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
आत्मानं शोचती दीनमबन्धुं विक्लवाश्रुभिः।
स्तनावासिच्य विपिने सुस्वरं प्ररुरोद सा॥
मूलम्
आत्मानं शोचती दीनम103बन्धुं विक्लबाश्रुभिः।
स्तनावासिच्य वि104पिने सुस्वरं प्ररुरोद 105ह॥ ४७ ॥
अनुवाद (हिन्दी)
उस बीहड़ वनमें अपनेको अकेली और दीन अवस्थामें देखकर वह बड़ी शोकाकुल हुई और आँसुओंकी धारासे स्तनोंको भिगोती हुई बड़े जोर-जोरसे रोने लगी॥ ४७॥
वीरराघवः
अबन्धुं पतिरहितमत एव दीनमात्मानं शोचन्ती विक्लबाश्रुभिः शोकोद्गतनेत्रजलैः स्तनावासिच्य एकान्ते सुस्वरं प्ररुरोद । हेति खेदे ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
उत्तिष्ठोत्तिष्ठ राजर्षे इमामुदधिमेखलाम्।
दस्युभ्यः क्षत्रबन्धुभ्यो बिभ्यतीं पातुमर्हसि॥
मूलम्
उत्तिष्ठोत्तिष्ठ राजर्षे इमामुदधिमेखलाम्।
दस्युभ्यः क्षत्रबन्धुभ्यो बिभ्रतीं पातुमर्हसि॥ ४८ ॥
अनुवाद (हिन्दी)
वह बोली, ‘राजर्षे! उठिये, उठिये; समुद्रसे घिरी हुई यह वसुन्धरा लुटेरों और अधार्मिक राजाओंसे भयभीत हो रही है, आप इसकी रक्षा कीजिये’॥ ४८॥
वीरराघवः
तदेवाह - हे राजर्षे ! जितेन्द्रियश्रेष्ठ ! उत्तिष्ठोत्तिष्ठ, क्षत्रबन्धुभ्योऽधार्मिकक्षत्रियेभ्यः, अत एव दस्युरूपेभ्यः केवलत्रिवर्ग निष्ठेभ्यः इत्यर्थः । बिभ्यतीं भयं प्रा106प्नुवतीं निवृत्तिमार्गलोपेन बिभ्यतीमित्यर्थः । इमामुदधिमेखलां समुद्रवेष्टितां भूमिं पातुं सम्यक् निवृत्तधर्मप्रवर्तनेन रक्षितुमर्हसि ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
एवं विलपती बाला विपिनेऽनुगता पतिम्।
पतिता पादयोर्भर्तू रुदत्यश्रूण्यवर्तयत्॥
अनुवाद (हिन्दी)
पतिके साथ वनमें गयी हुई वह अबला इस प्रकार विलाप करती पतिके चरणोंमें गिर गयी और रो-रोकर आँसू बहाने लगी॥ ४९॥
वीरराघवः
पतिमनुसृत्य विजनेऽरण्ये गता बाला वैदर्भी एवं विलपन्ती भर्तुः पादयोः पतिता रुद110न्ती अश्रूण्यवर्तयत् प्रवर्तयामास ॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम्।
आदीप्य चानुमरणे विलपन्ती मनो दधे॥
मूलम्
चितिं दारुमयीं चित्वा तस्यां पत्युः कलेबरम्।
111आदीप्य चानुमरणे विलपन्ती मनो दधे॥ ५० ॥
अनुवाद (हिन्दी)
लकड़ियोंकी चिता बनाकर उसने उसपर पतिका शव रखा और अग्नि लगाकर विलाप करते-करते स्वयं सती होनेका निश्चय किया॥ ५०॥
वीरराघवः
दारुमयीं चितिं कृत्वा विरचय्य तस्यां चित्यां पत्युः कलेबरं 112शरीरम् आदीप्य प्रज्वाल्य विलपन्ती, अनुमरणे सहगमने मनो दधे धृतवती ॥ ५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
तत्र पूर्वतरः कश्चित्सखा ब्राह्मण आत्मवान्।
सान्त्वयन् वल्गुना साम्ना तामाह रुदतीं प्रभो॥
मूलम्
तत्र पूर्वतरः कश्चित्सखा ब्राह्मण आत्मवान्।
सान्त्वयन् वल्गुना साम्ना तामाह रुदतीं प्रभो॥
अनुवाद (हिन्दी)
राजन्! इसी समय उसका कोई पुराना मित्र एक आत्मज्ञानी ब्राह्मण वहाँ आया। उसने उस रोती हुई अबलाको मधुर वाणीसे समझाते हुए कहा॥ ५१॥
वीरराघवः
तत्र तस्मिन्नवसरे पूर्वतरः पुरातनः ईश्वररूपः कश्चित् सखात्मवान् ब्राह्मणः आगत्य वल्गुना मधुरेण साम्ना सामवाक्येन सान्त्वयन् उपलालयन् रुदन्तीं प्रत्याह- हे प्रभो ! निरुपाधिकसखः ! यादृच्छिकसुकृतमात्रसन्तुष्टो भगवान् ब्राह्मणरूपेणागत्य वैदर्भी सान्त्वयन्नाह भागवतसम्बन्धमात्रतुष्टो भगवान् वैदर्भीम् अनुजग्राहेति यावत् ॥ ५१ ॥
श्लोक-५२
विश्वास-प्रस्तुतिः
का त्वं कस्यासि को वायं शयानो यस्य शोचसि।
जानासि किं सखायं मां येनाग्रे विचचर्थ ह॥
मूलम्
का त्वं कस्यासि को वाऽयं शयानो यस्य शोचसि।
जानासि किं 114सखायं मां येनाग्रे वि115चचर्थ ह॥ ५२ ॥
अनुवाद (हिन्दी)
ब्राह्मणने कहा—तू कौन है? किसकी पुत्री है? और जिसके लिये तू शोक कर रही है, वह यह सोया हुआ पुरुष कौन है? क्या तुम मुझे नहीं जानती? मैं वही तेरा मित्र हूँ, जिसके साथ तू पहले विचरा करती थी॥ ५२॥
उक्तिमेवाह - कात्वमित्यादिना तथैवान्तरमावयोरित्यन्तेन । का त्वमिति कथं जातीयकेति प्रश्नः । कस्यासि कस्य सम्बन्धिन्यसि, को वायमित्यपि, तथा यस्य शोचसि यदर्थं शोचसि शयानस्य स्वस्य च स्वरूपमुभयोः सम्बन्धं देहप्रयुक्तमविदित्वा किं वृथा शोचसीत्यभिप्रायः । सखायं मां जानासि किम् ? स्वस्वरूपमेव अजानती त्वं कथं मत्स्वरूपं जानासीत्यर्थः । तत्र हेतुः येन मया हेतुनाग्रे सृष्ट्यादौ विचकर्थ विकृतवानसि अनादित्वत्कर्मानुगुणमत्सङ्कल्पेन स्वपरस्वरूपं विस्मृत्य देवमनुष्यादिविकारं प्राप्तोऽसीत्यर्थः ॥ ५२ ॥
श्लोक-५३
विश्वास-प्रस्तुतिः
अपि स्मरसि चात्मानमविज्ञातसखं सखे।
हित्वा मां पदमन्विच्छन् भौमभोगरतो गतः॥
मूलम्
अपि स्मरसि चात्मानमविज्ञातसखं सखे।
हित्वा मां पदमन्विच्छन् 116भौमभोगरतो गतः॥ ५३ ॥
अनुवाद (हिन्दी)
सखे! क्या तुम्हें अपनी याद आती है, किसी समय मैं तुम्हारा अविज्ञात नामका सखा था? तुम पृथ्वीके भोग भोगनेके लिये निवास-स्थानकी खोजमें मुझे छोड़कर चले गये थे॥ ५३॥
वीरराघवः
यद्यपि मां न जानासि तथाप्यात्मानं त्वामविज्ञातसखमविज्ञातः कश्चिन्मे सरवा आसीदिति किं स्मरसि । हे सखे ! इति पुंस्त्वनिर्देशः । प्रकृतिविलक्षणपुरुषस्वरूपस्मरणाय सख्यं स्मारयन् स्ववियोगकृतमनर्थमाह - हित्वेति सार्धैः षड्भिः । मामन्तरात्मभूतं हित्वा ग्राम्यभोगः शब्दादिविषयानुभवः तस्मिन्नासक्तः पदं भोगस्थानं देवमनुष्यादिशरीरमन्विच्छन्, गतः मद्वियोगं प्राप्तः स्वपरयाथात्म्यज्ञानविधुरो जात इत्यर्थः ॥ ५३ ॥
श्लोक-५४
विश्वास-प्रस्तुतिः
हंसावहं च त्वं चार्य सखायौ मानसायनौ।
अभूतामन्तरा वौकः सहस्रपरिवत्सरान्॥
अनुवाद (हिन्दी)
आर्य! पहले मैं और तुम एक-दूसरेके मित्र एवं मानसनिवासी हंस थे। हम दोनों सहस्रों वर्षोंतक बिना किसी निवास-स्थानके ही रहे थे॥ ५४॥
वीरराघवः
हे आर्य ! त्वं चाहं च सहस्रपरिवत्सराननन्तकालम् अन्तरा वोकः शरीररूपगृहमध्य एव अन्तरेति मध्येऽव्ययम्, वा शब्दः एवार्थः, ओको गृहम् । मानसायनो हृत्पद्मगृहगतौ सखायौ हंसावभूताम् । सखिशब्दार्थसामानाधिकरण्यात् ‘शेषेप्रथमः’ (अष्टा. 1-4-108) इति प्रथम पुरुषः । अत्र हंसत्वविधानाय युष्मदस्मदर्थयोः सखित्वमुद्दिश्यते उद्देश्यानुगुणा च सर्वत्र तिङ् विभक्तिः प्रयुज्यते, तद्यथा “त्वं वाऽहमस्मि भगवो देवते, अहं वै त्वमसि भगवो देवते, तत्त्वमसि” इति । अत्र सखित्वं न विधेयं युष्मदस्मदर्थोद्देश्येन अत्र पूर्वतरः कश्चित् सखा अविज्ञात सखं सखे इत्यनेनैव प्राप्तत्वात् । हंसत्वं तु अप्राप्तम् । हंसत्वं शुद्धत्वं, हिनस्ति निरस्यति विकारानिति हंसः । ततश्च अयमर्थः अपास्तमरणौ स्वतो निरस्तविषयसुखाविति । औपाधिको हि जीवस्य विषयभोगः । कथापक्षे मानससरसि स्थितौ पक्षिणावभूताम् ॥ ५४ ॥
श्लोक-५५
विश्वास-प्रस्तुतिः
स त्वं विहाय मां बन्धो गतो ग्राम्यमतिर्महीम्।
विचरन् पदमद्राक्षीः कयाचिन्निर्मितं स्त्रिया॥
मूलम्
स त्वं विहाय मां 118बन्धो गतो ग्राम्यमतिर्महीम्।
विचरन् पदमद्राक्षीः कयाचिन्निर्मितं स्त्रिया॥ ५५ ॥
अनुवाद (हिन्दी)
किन्तु मित्र! तुम विषयभोगोंकी इच्छासे मुझे छोड़कर यहाँ पृथ्वीपर चले आये! यहाँ घूमते-घूमते तुमने एक स्त्रीका रचा हुआ स्थान देखा॥ ५५॥
वीरराघवः
स त्वं हंसः त्वं, बन्धुं सखायं मां विहाय विस्मृत्य, ग्राम्येषु शब्दादिषु मतिर्यस्य सः, महीं प्रकृतिमण्डलं 119गतः 120प्राप्तः तत्रापि पदं 121वासस्थानं 122विचरन् विचिन्वन् यद्वा मह्यां विचरन् कदाचित् पदमद्राक्षीः इत्यन्वयः । पदं विशिनष्टि - स्त्रिया प्रकृत्या निर्मितम्॥ ५५ ॥
श्लोक-५६
विश्वास-प्रस्तुतिः
पञ्चारामं नवद्वारमेकपालं त्रिकोष्ठकम्।
षट्कुलं पञ्चविपणं पञ्चप्रकृति स्त्रीधवम्॥
मूलम्
पञ्चारामं नवद्वारमेकपालं त्रिकोष्ठकम्।
ष123ट्कुलं पञ्चविपणं पञ्चप्रकृतिस्त्रीधवम्॥ ५६ ॥
अनुवाद (हिन्दी)
उसमें पाँच बगीचे, नौ दरवाजे, एक द्वारपाल, तीन परकोटे, छः वैश्यकुल और पाँच बाजार थे। वह पाँच उपादान-कारणोंसे बना हुआ था और उसकी स्वामिनी एक स्त्री थी॥ ५६॥
वीरराघवः
124पञ्चराम124 पञ्च आरामा उपवनानि यस्मिन्, नव द्वाराणि छिद्राणि यस्मिन्, एकः पालः पालको यस्मिन्, त्रीणि कोष्ठानि प्राकारा यस्मिन्, षट् कुलानि अभीष्टविषयसमर्पकाणि यस्मिन्, पञ्च विपणाः हट्टाः यस्मिन्, पश्च प्रकृतिरुपादानकारणं यस्य, स्त्री 125भार्या एव125 धवा स्वामिनी यस्मिन् तत् ॥ ५६ ॥
श्लोक-५७
विश्वास-प्रस्तुतिः
पञ्चेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो।
तेजोऽबन्नानि कोष्ठानि कुलमिन्द्रियसंग्रहः॥
मूलम्
पञ्चेन्द्रियार्था आरामा 126द्वारो घ्राणादयः प्रभो126।
तेजोऽबन्नानि कोष्ठानि 127कुलमिन्द्रियसङ्ग्रहः॥ ५७ ॥
वीरराघवः
स्वयमेव श्लोकं व्याचष्टे - पञ्चेति । पञ्चेन्द्रियार्थाः शब्दादयः, आरामाः प्राणायनाः प्राणाधीना इन्द्रियाणि चक्षुरादीनि तेषां प्राणायत्तप्रवृत्तित्वात् तदाश्रयत्वाच्च । नेत्रद्वयश्रोत्रद्वयादिरूपच्छि128द्राणिनव द्वारः एकः प्राणः पालो यस्मिन्निति स्पष्टत्वात् न व्याख्यातम् । तेजोबन्नानि तेजश्चापश्चान्नं पृथिवी च एतानि कोष्ठानीत्यर्थः । इन्द्रियसङ्ग्रहः मनसा सह ज्ञानेन्द्रियषट्कसमुदायः प्रत्येकं कुलवदभीष्टप्रापकत्वात् कुल129मित्यर्थः ॥ ५७ ॥
श्लोक-५८
विश्वास-प्रस्तुतिः
विपणस्तु क्रियाशक्तिर्भूतप्रकृतिरव्यया।
शक्त्यधीशः पुमांस्त्वत्र प्रविष्टो नावबुध्यते॥
अनुवाद (हिन्दी)
महाराज! इन्द्रियोंके पाँच विषय उसके बगीचे थे, नौ इन्द्रिय-छिद्र द्वार थे; तेज, जल और अन्न—तीन परकोटे थे; मन और पाँच ज्ञानेन्द्रियाँ—छः वैश्यकुल थे; क्रियाशक्तिरूप कर्मेन्द्रियाँ ही बाजार थीं; पाँच भूत ही उसके कभी क्षीण न होनेवाले उपादान कारण थे और बुद्धिशक्ति ही उसकी स्वामिनी थी। यह ऐसा नगर था, जिसमें प्रवेश करनेपर पुरुष ज्ञानशून्य हो जाता है—अपने स्वरूपको भूल जाता है॥ ५७-५८॥
वीरराघवः
क्रियाशक्तिः कर्मेन्द्रियाणि पञ्च विपणाः पञ्च प्रकृतीत्यस्य व्याख्यानं भूतप्रकृतिरिति । भूतानि पञ्च पृथिव्यादीन्येव अव्यया नित्या प्रकृतिरुपादानकारणम् । अत्र भूतान्तर्गतानां तेजोऽबन्नानां त्रयाणां देहारम्भकत्वात् प्रकृतित्वम् । कोष्ठस्थानीयास्थिरुधिरमांसरूपेण परिणामात् । तेजोऽबन्नानि कोष्ठानीत्युक्तम् । तथा च श्रूयते - “अन्नमशितं त्रेधा विधीयते, तस्य यः स्थविष्टो भागः तत्पुरीषं, यो मध्यमः तन्मांसम् । आपः पीतास्त्रेधा विधीयन्ते, तासां यः स्थविष्टो भागः तन्मूत्रं, यो मध्यमस्तल्लोहितम्, तेजोऽशितं त्रेधा विधीयते, तस्य यः स्थविष्टो भागः तदस्थि” (छा. उ. 6-5-1) इति । यद्यपि कोष्ठस्थानीयत्वेन परिणतेषु तेजोऽबन्नेषु पञ्चीकरणप्रक्रियया वाय्वाकाशावपि प्रविष्टौ, तथापि भूतत्रयांशानां बाहुल्यात् त्रिकोष्ठमित्युक्तम् । भूतात्मकोपादानस्य प्रतिक्षणपरिणामशीलत्वेऽपि अवस्थावद् द्रव्यस्य प्रधानाख्यस्य नित्यत्वादव्ययेत्युक्तम् । तथा च श्रुतिः “गौरनाद्यन्तवती” (मन्त्रि.उ. 4) इति, “अजामेकाम्” (मना. 5-8-4) इति च । स्मर्यतेच “प्रकृति पुरुषं चैव विद्ध्यनादी उभावपि” (भा.गी. 13-19) इति । स्त्रीधवं इत्यस्य व्याख्या शक्त्यधीश इति । शक्तिः बुद्धिरधीशा यस्य, तद्वशस्सन् इत्यर्थः । पुमान् भवान् तत्र पदे प्रविष्टः नावबुध्यते स्वात्मानं मां च न जानाति ॥ ५८ ॥
श्लोक-५९
विश्वास-प्रस्तुतिः
तस्मिंस्त्वं रामया स्पृष्टो रममाणोऽश्रुतस्मृतिः।
तत्सङ्गादीदृशीं प्राप्तो दशां पापीयसीं प्रभो॥
मूलम्
तस्मिंस्त्वं 132रामया स्पृष्टो रममा133णोऽगतस्मृतिः।
तत्सङ्गादीदृशीं प्राप्तो दशां पापीयसीं 134विभो॥ ५९ ॥
अनुवाद (हिन्दी)
भाई! उस नगरमें उसकी स्वामिनीके फंदेमें पड़कर उसके साथ विहार करते-करते तुम भी अपने स्वरूपको भूल गये और उसीके संगसे तुम्हारी यह दुर्दशा हुई है॥ ५९॥
वीरराघवः
तस्मिन् पदे त्वं रामया स्त्रिया बुद्ध्या स्पृष्टोऽभिभूतः रममाणः विषयाननुभवन् अत एव गता स्मृतिः स्वपरयाथात्म्यज्ञानरूपा यस्य सः, तत्सङ्गात् बुद्धिनिमित्तदेहानुबन्धिस्त्रीसङ्गात् पापीयसीम् ईदृशीं स्त्रीयोनिरूपां दशांप्राप्तः । हे विभो ! धर्मतो व्यापकस्वभाव ! ॥ ५९ ॥
श्लोक-६०
विश्वास-प्रस्तुतिः
न त्वं विदर्भदुहिता नायं वीरः सुहृत्तव।
न पतिस्त्वं पुरञ्जन्या रुद्धो नवमुखे यया॥
मूलम्
न त्वं विदर्भदुहिता नायं 135वीरः सुहृत्तव।
न पतिस्त्वं पुरञ्जन्या रुद्धो नवमुखे यया॥ ६० ॥
अनुवाद (हिन्दी)
देखो, तुम न तो विदर्भराजकी पुत्री ही हो और न यह वीर मलयध्वज तुम्हारा पति ही। जिसने तुम्हें नौद्वारोंके नगरमें बंद किया था, उस पुरंजनीके पति भी तुम नहीं हो॥ ६०॥
वीरराघवः
एवं स्ववियोगनिमित्तप्रकृतिपरिणामरूपबुद्धिपारवश्यनिमित्तेयं संसृतिरूपानर्थ परम्परेत्यभिधाय सर्वं प्रकृतिपरिणामरूपवैचित्र्यं नात्मनो धर्मः, किन्तु बुद्धिसङ्गनिमित्तः औपाधिक आत्मनि प्रतीयत इति वदन् प्रकृति विलक्षणब्रह्मात्मकप्रत्यगात्मयाथात्म्यमुपदिशति - नेति । त्वं विदर्भस्य दुहिता न भवसि, अयं वीरो मलयध्वजस्तव पतिरपि न भवति, नवद्वारे पुरे यया बुद्ध्या रुद्धोऽसि, तस्याः पुरञ्जन्यास्त्वं पतिरपि न भवसि । विदर्भदुहितृत्वादीनां देहाकारत्वेनात्माकारत्वाभावादिति भावः ॥ ६० ॥
श्लोक-६१
विश्वास-प्रस्तुतिः
माया ह्येषा मया सृष्टा यत्पुमांसं स्त्रियं सतीम्।
मन्यसे नोभयं यद्वै हंसौ पश्यावयोर्गतिम्॥
मूलम्
माया ह्येषा मया सृष्टा यत्पुमांसं स्त्रियं 136सतीम्।
मन्यसे नोभयं 137यद्वा 138हसौ 139पश्याद्य नौ गतिम्॥ ६१ ॥
अनुवाद (हिन्दी)
तुम पहले जन्ममें अपनेको पुरुष समझते थे और अब सती स्त्री मानते हो—यह सब मेरी ही फैलायी हुई माया है। वास्तवमें तुम न पुरुष हो न स्त्री। हम दोनों तो हंस हैं; हमारा जो वास्तविक स्वरूप है, उसका अनुभव करो॥ ६१॥
वीरराघवः
यत् यस्माद्धेतोः पूर्वजन्मनि पुमांसमिदानीं सतीं श्रेष्ठां स्त्रियं मन्यसे एषा हेतुभूता मया सृष्टा मायैव । अतः उभयमपि आत्मनि न वस्तुतोऽस्ति । हि यस्मादावां, हंसौ शुद्धौ, नौ आवयोः, अद्य अधुना, गतिं वक्ष्यमाणं स्वरूपं पश्य विमर्शयेत्यर्थः ॥ ६१ ॥
श्लोक-६२
विश्वास-प्रस्तुतिः
अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भोः।
न नौ पश्यन्ति कवयश्छिद्रं जातु मनागपि॥
मूलम्
अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व 140भोः।
न नौ पश्यन्ति कवयश्छिद्रं जातुमनागपि॥ ६२ ॥
अनुवाद (हिन्दी)
मित्र! जो मैं (ईश्वर) हूँ, वही तुम (जीव) हो। तुम मुझसे भिन्न नहीं हो और तुम विचारपूर्वक देखो, मैं भी वही हूँ जो तुम हो। ज्ञानी पुरुष हम दोनोंमें कभी थोड़ा-सा भी अन्तर नहीं देखते॥ ६२॥
वीरराघवः
141किञ्च वक्ष्यमाणमेवाह141 - अहं भवान् भवच्छरीरकः त्वमेवाहं त्वद्रूप एवाहं त्वं कदाचिदपि न मच्छरीरत्वरहितः । अहं तव सदा आत्मा त्वं तु मम सदा शरीर142भूत इत्यर्थः । न च अन्यस्त्वमतो न 143त्वं मदन्यः143 न मत्सम्बन्धविधुर इत्यर्थः । विचक्ष्व विमर्शय । नौ आवयोः, च्छिद्रं सम्बन्धवैधुर्यं, मनागीषदपि, 144जातु कदाचित्144 कवयो 145विद्वांसः, न पश्यन्ति । एवं सम्बन्धनियमकथनेन अपृथक्सिद्धजातिगुणप्रभादिविशेषणविशिष्टव्यक्तिगुणिमण्यादिवज्जीवेश्वरात्मकं वस्तु विशिष्टरूपेणैकमेवेत्युक्तं भवति । 146भो इत्यव्ययं सम्बुद्धौ146 ॥ ६२ ॥
श्लोक-६३
विश्वास-प्रस्तुतिः
यथा पुरुष आत्मानमेकमादर्शचक्षुषोः।
द्विधाभूतमवेक्षेत तथैवान्तरमावयोः॥
अनुवाद (हिन्दी)
जैसे एक पुरुष अपने शरीरकी परछाईंको शीशेमें और किसी व्यक्तिके नेत्रमें भिन्न-भिन्न रूपसे देखता है वैसे ही—एक ही आत्मा विद्या और अविद्याकी उपाधिके भेदसे अपनेको ईश्वर और जीवके रूपमें दो प्रकारसे देख रहा है॥ ६३॥
वीरराघवः
एतदेव दृष्टान्तेन दर्शयति - यथेति । पुरुषं पुरुषाकारमात्मानं स्वम् आदर्शे महत्युपाधौ, चक्षुषि परस्य चक्षुष्यल्पे उपाधौ, द्विधाभूतं वृद्धिभाक्त्वेन ह्रासभाक्त्वेन च 149द्वेधाभूतं यथाऽवेक्षेत पश्येत् तथा आवयोरप्यन्तरं यथा जातिगुणाद्यपृथक्सिद्धविशेषणविशिष्टं पुरूषाख्यं मांसपिण्डं तत्तद्विशेषणव्युक्तमेकमेव विशिष्टं वस्त्वादर्शचक्षुराद्युपाधिप्रयुक्तवृद्धिह्रासादिगुणविशिष्टमवेक्षेत । एवं शरीरात्मभावेन नियतविशेषणविशेष्यभूतं जीवेश्वरात्मकं विशिष्टमेकमेव वस्तु स्थूलसूक्ष्मशरीरेषु अनुप्रविष्टमुपाधिवशात् नानाभूतमिव पश्यतीत्यर्थः । पुरुषमवेक्षेत इत्यनेन अयमर्थोऽवगम्यते - पुरुषो हि जातिगुणाद्यनेकविशेषणविशिष्टः जातिव्यक्त्योरिव, गुणगुणिनोरिव, प्रभाप्रभावतोरिव शरीरात्मनोरावयोर्भेद इति भावः । बिम्बप्रतिबिम्बयोरिव जीवेश्वरयोरौपाधिको भेदः न स्वाभाविक इति तु नार्थः । आदर्शचक्षुषोरित्युपाधिद्वित्वकथनादादर्श चक्षुर्गतयोः प्रतिबिम्बयोः बिम्बेन साकम् अभेदेऽपि तयोः परस्परं भेदसद्भावावगमात् । न ह्यादर्शप्रतिबिम्बात् चक्षुः प्रतिबिम्बोऽनन्यः । बिम्बप्रतिबिम्बयोरभेदं वदताप्यवश्यं प्रतिबिम्बानां भेदोऽभ्युपगन्तव्यः । अन्यथा बिम्बप्रतिबिम्बयोरिव तेषु वैलक्षण्यं न प्रतीयेत अभेदसाधकसामग्य्रभावाच्च । न ह्येकप्रतिबिम्बत्वं साधकं प्रतिबिम्बाणां बिम्बावस्थात्वेन तासां भिन्नत्वात्, अत एव हि पिण्डत्वघटत्वकपालत्वाद्यवस्थानां परस्पर150भेदः एकमूद्द्रव्यावस्थात्वमात्रेणाभेदाभ्युपगमः प्रतीतिपराहतः । तस्मात् नात्र बिम्बप्रतिबिम्बयोः औपाधिकभेदप्रतिपादन परोऽयं श्लोकः, किन्तु यथोक्तार्थपर एव । अस्तु वा अत्र बिम्बप्रतिबिम्बयोरेव दृष्टान्तत्वं तथापि तयोर्यत् साधर्म्यं तदेवात्र दृष्टान्तीकृतं, न तु तादात्म्यमपि, अविरुद्धोपयुक्तांशमात्रेण दृष्टान्तसम्भवात् । जीवब्रह्मणोस्तादात्म्यं तु एतत्प्रकरणविरुद्धम् । स्वपरयाथात्म्यज्ञानाभावनिमित्त देहात्म151भ्रम स्वतन्त्रात्म151 भ्रमवतः तन्निवृत्तये क्रियमाणे अस्मिन् तत्त्वोपदेशप्रकरणे जीवपरयोः पारमार्थिकसखित्वप्रतिपादनात् । सखित्वं हि पदार्थद्वयनिरूपितम् । न च सखित्वमपि स्त्रीपुंसभावादिवत् औपाधिकमेव अत्र उपदिश्यत इति वक्तुं शक्यम् । तत्सहोपदिष्टानां हंसत्वादीनामपि औपाधिकत्वप्रसङ्गात् । “माया ह्येषा मया सृष्टा” (भा. ग 8-28-61) इति ईश्वरस्य संसारयितृत्वावगमाच्च । न हि सर्वज्ञईश्वरोऽनुन्मत्तः स्वानर्थरूपं संसारं स्वस्मिन्नारोपयतीति युक्तिमत् । किञ्च “येनाग्रे विचकर्य” (भाग 4-28-52), “माया ह्येषा मया सृष्टा” (भाग 4-28-61) इति स्रष्टृत्वाक्षिप्तसर्वज्ञत्वादिगुणविशिष्ट परमात्मवाचिनोऽहंशब्दस्य बोधनार्हतोपयोग्यज्ञत्व, संसारित्वविशिष्टजीववाचिनो भवच्छब्दस्य च मुख्यार्थपरित्यागेन चैतन्यमात्रैक्य प्रतिपादनपरत्वमस्वरसमिति दिक् । विस्तरस्तु तत्त्वमस्यादिवाक्यस्य जीवब्रह्मतादात्म्यपरत्वे भाष्योक्तदूषणानुसारेणानुसन्धेयः । स्वपक्षे उपपत्तिरपि तदुक्तरीत्या एव अनुसन्धेया ॥ ६३ ॥
श्लोक-६४
विश्वास-प्रस्तुतिः
एवं स मानसो हंसो हंसेन प्रतिबोधितः।
स्वस्थस्तद्व्यभिचारेण नष्टामाप पुनः स्मृतिम्॥
मूलम्
एवं स 152मानसो हंसो हंसेन प्रतिबोधितः।
स्वस्थस्तद्व्यभिचारेण नष्टामाप पुनः स्मृतिम्॥ ६४ ॥
अनुवाद (हिन्दी)
इस प्रकार जब हंस (ईश्वर)-ने उसे सावधान किया, तब वह मानसरोवरका हंस (जीव) अपने स्वरूपमें स्थित हो गया और उसे अपने मित्रके विछोहसे भूला हुआ आत्मज्ञान फिर प्राप्त हो गया॥ ६४॥
वीरराघवः
सख्योः संवादमुपसंहरति - एवमिति । हंसेन परमात्मना 153एवं प्रतिबोधितः आवेदितस्वपरयाथात्म्यो, मानसः मनसा सह वर्तमानो जीवः, तद्व्यभिचारेण पूर्वं स्वपरयाथात्म्यज्ञानाभावेन नष्टां स्मृतिं पुनराप स्वात्मनो भगवच्छेषतैकरसतामनुसन्दधानो मुक्तो बभूवेति भावः ॥ ६८ ॥
श्लोक-६५
विश्वास-प्रस्तुतिः
बर्हिष्मन्नेतदध्यात्मं पारोक्ष्येण प्रदर्शितम्।
यत्परोक्षप्रियो देवो भगवान् विश्वभावनः॥
मूलम्
बर्हिष्मन्नेतदध्यात्मं पारोक्ष्येण प्रदर्शितम्।
यत्परोक्षप्रियो देवो भगवान् विश्वभावनः॥ ६५ ॥
अनुवाद (हिन्दी)
प्राचीनबर्हि! मैंने तुम्हें परोक्षरूपसे यह आत्मज्ञानका दिग्दर्शन कराया है; क्योंकि जगत्कर्ता जगदीश्वरको परोक्ष वर्णन ही अधिक प्रिय है॥ ६५॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरञ्जनोपाख्यानेऽष्टाविंशोऽध्यायः॥ २८॥
वीरराघवः
उपाख्यानमुपसंहरति - हे बर्हिष्यन् ! एतद्वृत्तान्तम्, अध्यात्ममात्मानमधिकृत्य प्रवृत्तं, पारोक्ष्येणान्यापदेशमुखेन प्रदर्शितमतो न त्वया केवलकथामात्रबुद्धिः कर्तव्येति भावः । पारोक्ष्येण किमर्थमुपदिष्टं तत्राह । यत् यस्मात् विश्वस्य कारणभूतो भगवान् परोक्षप्रियः । “परोक्षप्रिया इव हि देवाः” (एते. 3-3-14) इति श्रुत्या देवानां परोक्षप्रियत्वावगमात् देवतासार्वभौमो भगवान् परोक्षवादेन नितरां तुष्यतीति एवमुक्तमित्यर्थः । इदं श्रोतुरस्मिन् श्रद्धाद्रढिम्ने उक्तम् - परोक्षप्रिया इव हि देवाः इत्यस्य अर्थवादत्वादन्यथा इति । साक्षात्कृतैः श्रवणकीर्तनादिभिः भगवतः तोषाभावप्रसङ्गाच्च । तस्मात् पारोक्ष्यकीर्तनं श्रोतुं बुद्ध्य154वतरणार्थमेवेति द्रष्टव्यम् ॥ ६५ ॥
इति श्रीमद्भागवते चतुर्थस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां अष्टाविंशोऽध्यायः ॥ २८ ॥
-
M,Ma,Ms नि ↩︎
-
W omits ↩︎
-
W सात् ↩︎
-
M,Ma पुरीं ↩︎
-
A,B,T add अपि ↩︎
-
V विश्य ↩︎
-
W म्बे ↩︎
-
A,B,T रूपेण ↩︎
-
A,B,G,I,J,T,V हृ ↩︎
-
W omits नष्टप्रज्ञः ↩︎
-
A,B,T ज्ञानात्मिका ↩︎
-
A,B,G,I,J,T पुत्रान्पौ ↩︎
-
A,B,T गानि ↩︎
-
V काग्र ↩︎
-
A,B,G,I,J,T प ↩︎
-
W लाश्चारि ↩︎
-
W कार्यं ↩︎
-
M,Ma,Ms गतात्मसंविन्निस्स्नेहः ↩︎
-
V गतिस्स्नेहात् ↩︎
-
W कः ↩︎
-
W तृप्रि ↩︎
-
A,B,G,I,J,T,W सृ ↩︎
-
W omits प्राणः ↩︎
-
A,B,G,I,J,T शेके सोऽवितुं; M,Ma शेके सेवितुं; Ms शेक उषितुं ↩︎
-
V यातु ↩︎
-
Ms,V सोऽहिराष्ट्र ↩︎
-
A,B,T पुरि ↩︎
-
Ms र्हत ↩︎
-
A,B,G,I,J,M,Ma,Ms,T ररिभी ↩︎
-
A,B,T omit शत्रुभिः ↩︎
-
A,B,T घर्घर ↩︎
-
A,B,T add इत्यर्थः ↩︎
-
M,Ma सत्त्वा; Ms स्मृत्वा ↩︎
-
V सात्कृत्वा ↩︎
-
A,B,T add इत्यर्थः । ↩︎
-
Ms पुरञ्जनः ↩︎
-
A,B,G,I,J,M,Ma,T षा ↩︎
-
M,Ma,Ms न ↩︎
-
M,Ma,Ms तुष्टे सुसन्तुष्टा ↩︎
-
W तु ↩︎
-
M,Ma मां नित्यं ↩︎
-
M,Ma,Ms दारिका ↩︎
-
A,B,G,I,J,T दारकीर्वाऽप; M,Ma,Ms दारका मत्प ↩︎
-
A,B,T का ↩︎
-
A,B,T omit तस्य ↩︎
-
M,Ma नैनैष; Ms,V नैरेवं ↩︎
-
W यथा स्वकम् । ↩︎
-
A,B,T ष्ठः प्राणः ↩︎
-
Ms,V यापगत; W यैव गत ↩︎
-
M,Ma विहङ्गमः; W भुजवत् ↩︎
-
M,Ma,Ms तदा ↩︎
-
W ङ्गो ↩︎
-
A,B,G,I,J,M,Ma,T मसाऽऽविष्टः ↩︎
-
M,Ma,Ms परम्; V पुरा ↩︎
-
A षया ↩︎
-
A,B,G,I,J,T,V न्तोऽमीवमस्य तत्: M,Ma,Ms न्तो वैशसं तु तत् ↩︎
-
A,B,G,I,J,T,V र्ति ↩︎
-
A,B,T omit एव ↩︎
-
W omits इत्यन्वयः । ↩︎
-
A,B,T पुप्ता ↩︎
-
B,W omit सत् ↩︎
-
W नमेव ↩︎
-
A,B,T omit पाण्ड्यः ↩︎
-
M,Ma सञ्ज ↩︎
-
V पुत्रान् ↩︎
-
W अनुजान् ↩︎
-
A,B,T सप्तैवेत्यु ↩︎
-
A,B,G,I,J,M,Ma,Ms,T भवत्तेषां ↩︎
-
A,B,G,I,J,M,Ma,Ms,T,W धरैः ↩︎
-
W omits अर्बुदं ↩︎
-
W व्रतो ↩︎
-
M,Ma,Ms सा ↩︎
-
A,B,T omit आगस्त्यः ↩︎
-
W omits गतः ↩︎
-
W सुखान् ↩︎
-
A,B,G,I,J,M,Ma,T धावत; Ms,V गच्छत ↩︎
-
A,T ध्यां भ ↩︎
-
A,T omit त्यक्त्वा ↩︎
-
A,B,G,I,J,T वसा; M,Ma,Ms वदा ↩︎
-
M,Ma,Ms वरो; V नवो ↩︎
-
A,B,T व ↩︎
-
M,Ma,Ms दि ↩︎
-
B,W कर्षणं ↩︎
-
B,W कर्षणं ↩︎
-
W omits इत्यर्थः ↩︎
-
A,B,G,I,J,T ण्या ↩︎
-
M,Ma,Ms तः ↩︎
-
A,B,G,I,J,T,V मर्श ↩︎
-
Ms,W ई ↩︎
-
W परिचरितवती ↩︎
-
V ज्ञा ↩︎
-
A,B,T omit शुद्धा ↩︎
-
A,B,T तद्वत् ↩︎
-
A,B,M omit इह ↩︎
-
Ms मिवा ↩︎
-
A,B,T ती ↩︎
-
W जने ↩︎
-
A,B,G,I,J,M,Ma,Ms,T सा ↩︎
-
G,I पन्ती ↩︎
-
W प्त ↩︎
-
W जने ↩︎
-
B,M,Ma,Ms न्त्य ↩︎
-
M,Ma सन्दीप्य ↩︎
-
A,B,T ती ↩︎
-
B,J,V,Va omit सेवमाना ↩︎
-
W omits शरीरम् ↩︎
-
Ms सहायं ↩︎
-
W चकर्थ ↩︎
-
W ग्राम्य ↩︎
-
Ms बद्धो; W बन्धु ↩︎
-
A,B,T omit गतः ↩︎
-
W omits प्राप्तः ↩︎
-
A,B,T निवास ↩︎
-
A,B,T omit विचरन् ↩︎
-
M,Ma,Ms कूलं ↩︎
-
A,B,G,I,J,T द्वारः प्राणा नव प्रभो; W द्वारः प्राणायना नव । ↩︎ ↩︎
-
M,Ma,Ms गोलकेन्द्रिय ↩︎
-
A,B,T add नवद्वारः प्राणायनाः इन्द्रियस्थानानि गोलकानि च्छिद्राणि इति यावत् ↩︎
-
W omits इत्यर्थ ↩︎
-
W णा ↩︎
-
A,B,G,I,J,T पुमांस्त्वत्र ↩︎
-
Ma मायया ↩︎
-
A,B,G,I,J,T,V णोऽश्रुत; M, Ma, Ms णो हत ↩︎
-
A,B,G,I,J,T,V प्रभो ↩︎
-
Ms वीरपतिः प्रभो ! ↩︎
-
M,Ma,Ms पतिम् । ↩︎
-
A,B,G,I,J,M,Ma,Ms,T यदज्वै ↩︎
-
M,Ma,Ms हंसं ↩︎
-
A,B,G,I,J,T पश्यावयोर्गतिम्; M,Ma,Ms पश्यात्मनोर्गतिम् ↩︎
-
A,G,I,T,W भोः ↩︎
-
W रम् ↩︎
-
W omits विद्वांसः ↩︎
-
A,B,G,I,J,M,Ma,Ms,T ष आत्मा ↩︎
-
M,Ma,Ms मि ↩︎
-
T,W द्विधा ↩︎
-
A,B,T भेदाः ↩︎
-
Ms adds श्रीनारदः ↩︎
-
W omits एवं ↩︎
-
A,B,T धानार्थं ↩︎