[सप्तविंशोऽध्यायः]
भागसूचना
पुरंजनपुरीपर चण्डवेगकी चढ़ाई तथा कालकन्याका चरित्र
श्लोक-१
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
इत्थं पुरञ्जनं सम्यग्वशमानीय विभ्रमैः।
पुरञ्जनी महाराज रेमे रमयती पतिम्॥
अनुवाद (हिन्दी)
श्रीनारदजी कहते हैं—महाराज! इस प्रकार वह सुन्दरी अनेकों नखरोंसे पुरंजनको पूरी तरह अपने वशमें कर उसे आनन्दित करती हुई विहार करने लगी॥ १॥
वीरराघवः
एवं जाग्रत्स्वप्न सुषुप्त्यादिभिः अवस्थाभिस्संसरतो जीवस्य दुर्लभोऽपि कदाचिद्दैवात्सञ्जातपरितापस्य विवेकात्मकबुद्ध्युदयः 3उक्तः । इदीनीमेवं सञ्जातविवेकमपि अनन्तवासनारुचिप्रकृति सम्बन्धादियुक्तं पुमांसं “यया धर्ममधर्मञ्च कार्यञ्चाकार्यमेव च । अथवावत्प्रजानाति बुद्धिस्सापार्थ ! राजसी ॥, अधर्मं धर्मामिति या मन्यते तमसा वृता । सर्वार्थान्विपरीतांश्च बुद्धिस्सा पार्थ ! तामसी” (भ. गी. 18-31,32) इत्युक्तविधरजस्तमः प्रचुरा सती बुद्धिः पुनः प्रसह्य स्ववशीकृत्य संसारयामासेत्याह - इत्थमिति । हे महाराज ! इत्थं दैवात्कदाचित् सञ्जातविवेकमपि पुरञ्जनं विभ्रमैः, भ्रमजननद्वारेत्यर्थः । सध्र्यक् सम्यक् शनैः स्ववशमानीय पुरञ्जनी रजःप्रचुरा बुद्धिः पतिं रमयती स्वकार्यप्रवणं कुर्वती स्वयं रेमे व्यापृतवती । कथापक्षे तु सम्यगविभ्रमैः विलासैः, अन्यत् स्प प् । केचिदत्र “क्वचित्पुमान् क्वचिच्च स्त्री क्वचिन्नोभयमन्धधीः । देवो मनुष्यस्तिर्यग्वा यथाकर्मगुणं भवः” (भाग. 4-29-29) इति वदता तत्राऽऽदौ पुंस्त्वेन संसृतिरध्यायत्रयेणोक्ता, ततश्चैकेनाध्यायेन स्त्रीत्वेन संसृतिं प्रदर्श्य ईश्वरप्रसादाल्लब्धज्ञानेन मोक्ष इत्युक्तं, ततस्तदेव यथोप4योगं व्याख्यातमिति पञ्चाध्याय्यर्थः प्रतीयते । प्रतिपद मध्यात्म योजना तु दुर्घटा निष्प्रयोजना चेति स्वप्रौढि ख्यापनमतादृत्य यथोपयोगमेव व्याख्यास्यामः" - इत्याहुः । तत्र प्रतिपदमध्यात्मयोजनमनुपयुक्तञ्चेत् किमर्थं तत्कथनमिति 5प्रष्टव्यम् । न च कथासौन्दर्यायेति वक्तुं शक्यम् । अध्यात्मोपयुक्तांशकथनेनैव तत्सौन्दर्यलाभात्, अन्यथा कथासौन्दर्यार्थमनुपयुक्तांशानां बहूनां सत्वेन तेषामपि कथनापत्तेः । यदपि क्वचित्पुमा नित्यादि, तन्न, क्वचित्पुमानित्यादिग्रन्थस्य निगमनपरत्वेन प्रधानप्रतिपाद्यस्यैव निगमनीयत्वेन तस्य प्रतिपाद मध्यात्मयोजनाभावे प्रमाणत्वाभावात् । नहि यावन्तोऽर्था कथिताः ते सर्वेनिगमनीया इत्यस्ति नियमः । यदपि यथोपदेशं व्याख्यातमित्यादि, तदपि न, अप्रसिद्धपदव्युत्पत्तिकथनेन तदनुकूलतया प्रसिद्धव्युत्पत्तीनां पदानां व्याख्यातुं शक्यत्वेन तावन्मात्रव्युत्पत्ति प्रदर्शनात् । यदपि चोक्तं प्रतिपदमध्यात्मयोजना दुर्घटा निष्प्रयोजनाचेति; तत्र निष्प्रयोजनत्वं यथोपदेशं व्याख्यातेषु पुरञ्जनादिष्वप्यविशिष्टं, जीवस्य स्त्रीपुरुषवासनादार्ढ्येन विचित्रा संसृतिर्भवति । ईश्वरप्रसादलब्धेज्ञानेन मोक्ष इत्युक्त्यैव चारितार्थ्येन पञ्चाध्याय्या वैयर्थ्यस्य स्पष्टत्वात् । दुर्घटा चेति परमवशिष्यते । तत्राऽत्यन्तदुर्घटं यत्पद मध्यात्मपक्षे, तद्विहाय अन्यानि पदानि सर्वाणि तत्पक्षे व्याख्येयान्येव । अनुपयुक्तं पदमगत्या कथासौन्दर्यायेति वक्तुं युक्तम् । यत्र श्लोकस्थानां सर्वेषामपि पदानां दौर्घट्यं “सा त्वं मुखं सुदति सुभ्व्रनुरागभार” (भाग. 4-26-23) इत्यादौ तत्र पदसङ्घातात्मकवाक्यार्थ द्योत्यत्वस्य कस्यचिदुपयुक्तार्थस्य योजना कर्तव्या ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
स राजा महिषीं राजन् सुस्नातां रुचिराननाम्।
कृतस्वस्त्ययनां तृप्तामभ्यनन्ददुपागताम्॥
अनुवाद (हिन्दी)
उसने अच्छी तरह स्नान कर अनेक प्रकारके मांगलिक शृंगार किये तथा भोजनादिसे तृप्त होकर वह राजाके पास आयी। राजाने उस मनोहर मुखवाली राजमहिषीका सादर अभिनन्दन किया॥ २॥
वीरराघवः
तथा ही हे राजन् ! स राजा पुरञ्जनः सुस्नातां कृतमङ्गलस्नानां रुचिरमुज्जवलमम्बरं यस्याः, कृतं स्वस्त्ययनं मङ्गलं कुङ्कुमसिन्दूरादिभिर्यस्या स्तां, तृप्तां स्वाद्वन्नपानादिभिः उपागतां समीपमागतां महिषीमभ्यनन्दत् । सुस्नातां रुचिराम्बरादिभिः सुन्दरतरां महिषीमभि8नन्दन्निव राजसीं बुद्धिमनुकूलाममन्यतेत्यर्थं ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
तयोपगूढः परिरब्धकन्धरो
रहोऽनुमन्त्रैरपकृष्टचेतनः।
न कालरंहो बुबुधे दुरत्ययं
दिवा निशेति प्रमदापरिग्रहः॥
मूलम्
तयोपगूढः परिरब्धकन्धरोरहोऽनुमन्त्रैरपकृष्टचेतनः।
न कालरंहो बुबुधे दुरत्ययं दिवा निशेति प्रमदापरिग्रहः॥ ३ ॥
अनुवाद (हिन्दी)
पुरंजनीने राजाका आलिंगन किया और राजाने उसे गले लगाया। फिर एकान्तमें मनके अनुकूल रहस्यकी बातें करते हुए वह ऐसा मोहित हो गया कि उस कामिनीमें ही चित्त लगा रहनेके कारण उसे दिन-रातके भेदसे निरन्तर बीतते हुए कालकी दुस्तर गतिका भी कुछ पता न चला॥ ३॥
वीरराघवः
तथा महिष्या उपगूढः आश्लिष्टाः परिरब्धा आश्लिष्टा महिष्याः कन्धरा येन सः । अनेन जीवबुद्ध्योरन्योन्यं दृढतरसम्बन्धः 9सूचितः, एकत्वेनानुसन्धानञ्च व्यज्यते । रह एकान्ते अनुकूलैर्गु10प्त भाषणैः शब्दादिविषयचिन्तनैः अपकृष्टा चेतना विवेको यस्य प्रमदेव प्रमादालस्यकारिणी बुद्धिरेव परिग्रहो न विवेको यस्य सः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
शयान उन्नद्धमदो महामना
महार्हतल्पे महिषीभुजोपधिः।
तामेव वीरो मनुते परं यत-
स्तमोऽभिभूतो न निजं परं च यत्॥
मूलम्
शयान उन्नद्धमदो महामना महार्हतल्पे महिषीभुजोप11धिः।
तामे12व वीरोऽ13मनुत व्यवायतस्तमोऽभिभूतो न निजं परं 14च 15तत्॥ ४ ॥
अनुवाद (हिन्दी)
मदसे छका हुआ मनस्वी पुरंजन अपनी प्रियाकी भुजापर सिर रखे महामूल्य शय्यापर पड़ा रहता। उसे तो वह रमणी ही जीवनका परम फल जान पड़ती थी। अज्ञानसे आवृत्त हो जानेके कारण उसे आत्मा अथवा परमात्माका कोई ज्ञान न रहा॥ ४॥
वीरराघवः
महार्हतल्पे उत्कृष्टशय्यायां हृदये षयानः अधितिष्ठन् 16कालरंहः कालवेग16मायुष्यं दुरत्ययं संसारिणोऽवर्जनीयं दिवानिशेत्येवं रूपेण न बुबुधे नाऽनुसंहितवानित्यर्थः । कथापक्षे तु 17स्पष्टोऽर्थः । महार्हतल्पे 18उत्कृष्टशय्यायां18 हृदये महिष्या भुज एव उपधिः, उपधीयतेऽस्मिन् शिर इत्युपधि रुपधानमुच्छीर्षकं यस्य यः शयानः । अनेन बुद्धिपारवश्यं सूचितम् । व्यवायतः विषयभोगात्तमोऽभिभूतः अज्ञानतिरोहितः तामेव महिषीमेव बुद्धिसङ्गकृतं वैषयिकसुखमेव पुरुषार्थममनुत न तु निजं स्वरूपं तत्परं परमात्मस्वरूपञ्च नाऽन्वमन्यत इत्यर्थः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
तयैवं रममाणस्य कामकश्मलचेतसः।
क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वयः॥
मूलम्
तयैवं रममाणस्य कामकश्मलचेतसः।
क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वयः॥ ५ ॥
अनुवाद (हिन्दी)
राजन्! इस प्रकार कामातुर चित्तसे उसके साथ विहार करते-करते राजा पुरंजनकी जवानी आधे क्षणके समान बीत गयी॥ ५॥
वीरराघवः
तया महिष्या एवं तत्पारवश्येन रममाणस्य संसरतः अत एव कामैः शब्ददिभिरनुभूयमानैः कश्मलं मलिनं चेतो यस्य । हे राजेन्द्र ! नवं नूतनं वयः क्षणार्धमिव व्यतिक्रान्तं देहविशिष्टस्यैव भोक्तृत्वाद्देहाभिप्रायेण नवं वयः 19व्यतिक्रान्तमित्युक्तम् । पक्षान्तरेऽप्ययमेवार्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
तस्यामजनयत्पुत्रान् पुरञ्जन्यां पुरञ्जनः।
शतान्येकादश विराडायुषोऽर्धमथात्यगात्॥
मूलम्
तस्या20मजनयत्पुत्रान् पुरञ्जन्यां पुरञ्जनः।
शतान्येकादश विराडायुषोऽर्धमथाऽत्यगात्॥ ६ ॥
वीरराघवः
तस्यां महिष्यां पुरञ्जनः पुत्त्रा निन्द्रियपरिणामरूपान् एकादश शतानि अजीजनदुत्पादयामास । हे विराट् ! इति सम्बोधनम् । आयुषः 21पुरुषायुषः21 शतसंवत्सरात्मकस्याऽर्धं पञ्चाशद्वर्षात्मक मतिक्रान्तमभूत् । इदमपि देहाभिप्रायेणोक्तम् ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
दुहितॄर्दशोत्तरशतं पितृमातृयशस्करीः।
शीलौदार्यगुणोपेताः पौरञ्जन्यः प्रजापते॥
मूलम्
दुहितॄर्दशोत्तरशतं पितृ22भ्रातृयशस्करीः।
शीलौदार्यगुणोपेताः पौरञ्जन्यः प्रजापते॥ ७ ॥
अनुवाद (हिन्दी)
प्रजापते! उस पुरंजनीसे राजा पुरंजनके ग्यारह सौ पुत्र और एक सौ दस कन्याएँ हुईं, जो सभी माता-पिताका सुयश बढ़ानेवाली और सुशीलता, उदारता आदि गुणोंसे सम्पन्न थीं। ये पौरंजनी नामसे विख्यात हुईं। इतनेमें ही उस सम्राट्की लंबी आयुका आधा भाग निकल गया॥ ६-७॥
वीरराघवः
दुहितृरिन्द्रियपरिणामानन्तर भाविनीर्बुद्धिवृत्तिरूपाः दशाधिकशतं पित्रोर्जीवबुद्ध्योः भ्रातृणामिन्द्रियपरिणामानाञ्च यो गुणः, तेनोपेताः युक्ताः अजीजनदित्यनुषङ्गः । सर्वा अपि दुहितरो दशाधिकशतं पौरञ्जन्यः, पुरञ्जनस्याऽपत्यत्वात्पौरञ्जन्य इत्युच्यते । हे प्रजापते ! अत्र पुत्त्रसंख्या बाहुल्यमात्राभिप्राया, दुहितृसङ्ख्या च पुत्त्रेभ्यो न्यूनत्वेन गार्हस्थ्यसौन्दर्यार्था ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
स पञ्चालपतिः पुत्रान् पितृवंशविवर्धनान्।
दारैः संयोजयामास दुहितॄः सदृशैर्वरैः॥
मूलम्
स 23पाञ्चालपतिः पुत्त्रान् पितृवंशविवर्धनान्।
दारैस्संयोजयामास दुहितॄः सदृशैर्वरैः॥ ८ ॥
अनुवाद (हिन्दी)
फिर पांचालराज पुरंजनने पितृवंशकी वृद्धि करनेवाले पुत्रोंका वधुओंके साथ और कन्याओंका उनके योग्य वरोंके साथ विवाह कर दिया॥ ८॥
वीरराघवः
स पाञ्चालपतिः । पञ्चन्ति विषयान्व्यक्तीकुर्वन्ति अनुभावयन्तीति पञ्चालाः इन्द्रियाणि । 24पञ्चाला एव पाञ्चालाः, प्रज्ञादित्वात् स्वार्थेऽण्, तेषां पतिः करणाधिपो जीव इत्यर्थः । पित्रोर्वंश विशेषण वर्धयन्तीति तान् इन्द्रियपरिणामरूपान्, दारैर्हिताहितचिन्तारूपाभिर्भार्याभिः संयोजयमास । तथा दुहितृृः वरैरुचितैर्विषयभोगरुपैः पतिभिस्संयोजयामास ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
पुत्राणां चाभवन् पुत्रा एकैकस्य शतं शतम्।
यैर्वै पौरञ्जनो वंशः पञ्चालेषु समेधितः॥
मूलम्
पुत्त्राणाञ्चाऽभवन्पुत्त्रा एकैकस्य शतं शतम्।
यैर्वै पौरञ्जनो वंशः 25पाञ्चलेषु समेधितः॥ ९ ॥
अनुवाद (हिन्दी)
पुत्रोंमेंसे प्रत्येकके सौ-सौ पुत्र हुए। उनसे वृद्धिको प्राप्त होकर पुरंजनका वंश सारे पांचाल देशमें फैल गया॥ ९॥
वीरराघवः
पुत्त्राणां पुत्त्राः पुण्यापुण्यकर्मरूपा एकैकस्य शतं शतं, शत शब्दो बाहुल्याभिप्रायकः, अभवन् । पौत्त्रान्विशिनष्टि - यैः पौच्त्रैः पौरञ्जनोवंशः संसारः पाञ्चालेषु शब्दादिविषयेषु निमित्तेषु । निमित्तमिहफलम्, शब्दादिविषयभोगार्थमित्यर्थः । समेधितः संवर्धितः । सद्वा वंश इन्द्रिय परिणाम तदनन्तरबुद्धिरूपपुत्त्रपुत्र्यादि रूपो वंशः शब्दादिविषयेषु कर्मभिरेव समेधित इत्यर्थः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
तेषु तद्रिक्थहारेषु गृहकोशानुजीविषु।
निरूढेन ममत्वेन विषयेष्वन्वबध्यत॥
मूलम्
तेषु तद्रिक्थहारेषु गृहकोशानुजीविषु।
नि26रूढेन ममत्वेन विषयेष्वन्वबध्यत॥ १० ॥
अनुवाद (हिन्दी)
इन पुत्र, पौत्र, गृह, कोश, सेवक और मन्त्री आदिमें दृढ़ ममता हो जानेसे वह इन विषयोंमें ही बँध गया॥ १०॥
वीरराघवः
तेषु तस्य पुरञ्जनस्य रिक्थहारेषु पुत्त्रेषु गृहं शरीरं कोशः अहम्ममाभिमानाश्रयोऽहङ्कारः अनुजीविन इन्द्रियप्राणादयः तेषु निरूढेन रूढमूलेन ममत्वेन ममकारे27ण विशेषेणाऽऽसक्त न प्राबुध्यत, स्वस्वरूपपरमात्मस्वरूपे इति शेषः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
ईजे च क्रतुभिर्घोरैर्दीक्षितः पशुमारकैः।
देवान् पितॄन् भूतपतीन्नानाकामो यथा भवान्॥
मूलम्
ईजे च क्रतुभिर्घोरैर्दीक्षितः पशुमारकैः।
देवान्पितॄन्भूतपतीन्नानाकामो यथा भवान्॥ ११ ॥
अनुवाद (हिन्दी)
फिर तुम्हारी तरह उसने भी अनेक प्रकारके भोगोंकी कामनासे यज्ञकी दीक्षा ले तरह-तरहके पशुहिंसामय घोर यज्ञोंसे देवता, पितर और भूतपतियोंकी आराधना की॥ ११॥
वीरराघवः
नानाकामः नानाभूतान् शब्दादिविषयान् कामयमानः पशुमारकैः हिंसागर्भैः अतएव घोरैः क्रतुभिः कर्मेन्द्रियव्यापाररूपैः दीक्षितः कृतसङ्कल्पः कर्मेन्द्रियव्यापार रूपान् क्रतूनारभ्येत्यर्थः । तेषां प्रायशः पञ्चसूनादिहिंसागर्भत्वात् पशुमारकैरित्युक्तम् । देवादीन् ईजे इष्टवान् । देवशब्दो देवाधिष्ठितेन्द्रियपरः । इन्द्रियाण्यतार्प्सीदित्यर्थः । पितॄन् भूतपतीनिति दृष्टान्ताभिप्रायकम् । यथा भवान् देव पितृभूतपती नीजे तथाऽयं देवा नीजे इत्यर्थः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
युक्तेष्वेवं प्रमत्तस्य कुटुम्बासक्तचेतसः।
आससाद स वै कालो योऽप्रियः प्रिययोषिताम्॥
मूलम्
28युक्तेष्वेवं 29प्रमत्तस्य कुटुम्बाऽऽसक्तचेतसः।
आससाद स वै कालो योऽप्रियः प्रिययोषिताम्॥ १२ ॥
अनुवाद (हिन्दी)
इस प्रकार वह जीवनभर आत्माका कल्याण करनेवाले कर्मोंकी ओरसे असावधान और कुटुम्बपालनमें व्यस्त रहा। अन्तमें वृद्धावस्थाका वह समय आ पहुँचा, जो स्त्रीलंपट पुरुषोंको बड़ा अप्रिय होता है॥ १२॥
वीरराघवः
युक्तेषु दृढतराभिसन्धियुक्तेषु कर्मसु प्रसक्तस्य नितरामासक्तस्य कुटुम्बे बुद्धितद्वृत्त्यादावासक्तचित्तस्य सवै कालः जरासमयः आससाद प्राप्तः । देहदृष्ट्येदमुक्तम् । कालं विशिनीष्ट - यः कालः प्रिययोषितां परस्परमप्रियकरः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप।
गन्धर्वास्तस्य बलिनः षष्ट्युत्तरशतत्रयम्॥
मूलम्
चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप!
गन्धर्वास्तस्य बलिनः षष्ट्युत्तरशतत्रयम्॥ १३ ॥
अनुवाद (हिन्दी)
राजन्! चण्डवेग नामका एक गन्धर्वराज है। उसके अधीन तीन सौ साठ महाबलवान् गन्धर्व रहते हैं॥ १३॥
वीरराघवः
चण्डवेग आशुवेगः संवत्सररूपः 30कालः ख्यातः प्रसिद्धः । स हि गन्धर्वाणां - गन्धर्वाश्च गन्धर्व्यश्च । “पुमान् स्त्रिया” (अष्टा. 1-2-67) इत्येकशेषः । तेषामधिपतिः । तस्य बलिनः प्रसह्याऽऽयुर्हरतः चण्डवेगस्य भृत्याः षष्ट्यधिकशतत्रयदिवसात्मकाः गन्धर्वाः परोक्षमायारूपधनाप हारित्वात् गन्धर्वत्वेन रूप्यन्ते ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
गन्धर्व्यस्तादृशीरस्य मैथुन्यश्च सितासिताः।
परिवृत्त्या विलुम्पन्ति सर्वकामविनिर्मिताम्॥
मूलम्
गन्धर्व्य31स्तादृशीरस्य मैथुन्यश्च सितासिताः।
परिवृत्त्या विलुम्पन्ति सर्व32कामविनिर्मिताम्॥ १४ ॥
अनुवाद (हिन्दी)
इनके साथ मिथुनभावसे स्थित कृष्ण और शुक्ल वर्णकी उतनी ही गन्धर्वियाँ भी हैं। ये बारी-बारीसे चक्कर लगाकर भोग-विलासकी सामग्रियोंसे भरी-पूरी नगरीको लूटती रहती हैं॥ १४॥
वीरराघवः
तथा तादृशीः अस्य चण्डवेगस्य सम्बन्धिन्यस्तादृश्यः आर्षत्वाव्द्यत्ययेन द्वितीया । षष्ट्युत्तरशतत्र्यसंख्याका गन्धर्व्यः रात्र्यात्मिकाः मैथुन्यः दिवसैरेव मिथुनीभूय स्थिताः । सिताश्चाऽसिताश्च शुक्लकृष्णपक्षीयाः परिवृत्त्या परिभ्रमणेन सर्वैः 33कामैः शब्दादिभिः तत्करणैश्च विनिर्मितां पुरीं शरीरं विलुम्पन्ति अपहरन्ति अपहर्तुमारेभिरे इत्यर्थः । जराप्राप्त्यनन्तरं 34मृतिदिवसाः34 प्राप्ता इत्यर्थः । एतत्सर्वं देहदृष्ट्योक्तमिति द्रष्टव्यम् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
ते चण्डवेगानुचराः पुरञ्जनपुरं यदा।
हर्तुमारेभिरे तत्र प्रत्यषेधत्प्रजागरः॥
अनुवाद (हिन्दी)
गन्धर्वराज चण्डवेगके उन अनुचरोंने जब राजा पुरंजनका नगर लूटना आरम्भ किया, तब उन्हें पाँच फनके सर्प प्रजागरने रोका॥ १५॥
वीरराघवः
चण्डवेगस्याऽऽनुचरास्ते गन्धर्वाः पुरञ्जनस्य पुरीं यदा हर्तुमारेभिरे आरब्धवन्तः तत्र पुर्यां यः प्रजागरः प्राणः सुषुप्त्यवस्थायामपि प्राणव्यापारात् प्रजागर इत्युक्तम् । प्रत्यषेधत् न्यवारयत् । यावत् प्राणव्यापारः तावच्छरीरस्याऽवैकल्येनाऽवस्थानात् प्रत्यषेधदित्युक्तम् ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
स सप्तभिः शतैरेको विंशत्या च शतं समाः।
पुरञ्जनपुराध्यक्षो गन्धर्वैर्युयुधे बली॥
अनुवाद (हिन्दी)
यह पुरंजनपुरीकी चौकसी करनेवाला महाबलवान् सर्प सौ वर्षतक अकेला ही उन सात सौ बीस गन्धर्वगन्धर्वियोंसे युद्ध करता रहा॥ १६॥
वीरराघवः
स एकः प्रजागरः सप्तभिर्विंशत्या सप्तविंशति संख्याकैर्भूतपञ्चक तन्मात्रपञ्चक ज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चकापानादि प्राण चतुष्टय मनोबुद्ध्याहङ्कारात्मकैः शरैः, शतं समा इति प्रारब्धोपलक्षणं, यावत् प्रारब्धावसानं पुरञ्जनपुरस्याऽध्यक्षः पालकः बली गन्धर्वैस्सहयुयुधे युद्धञ्चकार शरीरं 39विप्लावयामासेत्यर्थः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
क्षीयमाणे स्वसम्बन्धे एकस्मिन् बहुभिर्युधा।
चिन्तां परां जगामार्तः सराष्ट्रपुरबान्धवः॥
मूलम्
क्षीयमाणे स्व40सामर्थ्ये एक41स्मिन् बहुभिर्यु42धि।
चिन्तां परां जगा43मार्तः सराष्ट्रपुरबान्धवः॥ १७ ॥
अनुवाद (हिन्दी)
बहुत-से वीरोंके साथ अकेले ही युद्ध करनेके कारण अपने एकमात्र सम्बन्धी प्रजागरको बलहीन हुआ देख राजा पुरंजनको अपने राष्ट्र और नगरमें रहनेवाले अन्य बान्धवोंके सहित बड़ी चिन्ता हुई॥ १७॥
वीरराघवः
बहुभिस्साकं युधि एकस्मिन् 44स्वसम्बन्धि44नि स्वसामर्थ्ये शीर्यमाणे सति शतवत्सरावसान इत्यर्थः । राष्ट्रादिभिस्सहितः प्रजागरः परां चिन्तामवाप शरीरं 45कथं प्राणयामीति चिन्तामवापेत्यर्थः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
स एव पुर्यां मधुभुक्पञ्चालेषु स्वपार्षदैः।
उपनीतं बलिं गृह्णन् स्त्रीजितो नाविदद्भयम्॥
मूलम्
स एव पुर्यां मधुभुक्पञ्चालेषु स्वपार्षदैः।
उपनीतं बलिं गृह्णन् स्त्रीजितो नाविदद्भयम्॥
अनुवाद (हिन्दी)
वह इतने दिनोंतक पांचाल देशके उस नगरमें अपने दूतोंद्वारा लाये हुए करको लेकर विषय-भोगोंमें मस्त रहता था। स्त्रीके वशीभूत रहनेके कारण इस अवश्यम्भावी भयका उसे पता ही न चला॥ १८॥
वीरराघवः
स पुरञ्जनः मधुभुक् स्वपार्षदैरिन्द्रियैः पाञ्चालेषु शब्दादिविषयेषु मध्ये उपानीतं प्रापितं बलिं शब्दाद्यन्यतमं विषयं गृह्णन् अनुभवन् स्त्रिया बुद्ध्या जितो वशीकृतः भयं मृत्युभयं नाऽविन्दन्नाऽलोचितवान् ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
कालस्य दुहिता काचित्त्रिलोकीं वरमिच्छती।
पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन॥
मूलम्
कालस्य दुहिता काचित्त्रिलोकीं वरमिच्छती।
पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन॥
अनुवाद (हिन्दी)
बर्हिष्मन्! इन्हीं दिनों कालकी एक कन्या वरकी खोजमें त्रिलोकीमें भटकती रही, फिर भी उसे किसीने स्वीकार नहीं किया॥ १९॥
वीरराघवः
46काचित् कालस्य दुहिता जरारूपा काचिदस्ति । सा त्रिलोक्यां वरं पतिमिच्छन्ती पर्याटत् । हे बर्हिष्मन् ! तां कालकन्यां कोऽपि पुमान् न प्रत्यनन्दत नाऽवृणोत् ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा।
या२ तुष्टा राजर्षये तु वृतादात्पूरवे वरम्॥
मूलम्
दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा।
या२ तुष्टा राजर्षये तु वृतादात्पूरवे वरम्॥
अनुवाद (हिन्दी)
वह कालकन्या (जरा) बड़ी भाग्यहीना थी, इसलिये लोग उसे ‘दुर्भगा’ कहते थे। एक बार राजर्षि पूरुने पिताको अपना यौवन देनेके लिये अपनी ही इच्छासे उसे वर लिया था, इससे प्रसन्न होकर उसने उन्हें राज्यप्राप्तिका वर दिया था॥ २०॥
वीरराघवः
अनभिनन्दने हेतुं वदन् तन्निमित्तं गुणनामधेयमाह । दौर्भगेन दुष्टं भगं सौन्दर्यं यस्माद्भवति सदुर्भगः । स एव दौर्भगस्तेनाऽऽत्मना स्वरूपेण लोके दुर्भगेति विश्रुता प्रख्याता तां विशिनष्टि । या कालकन्या ययातिपुत्त्रेण पूरुणा वृता सती तुष्टा तस्मै राजर्षये पूरवे वरं राजाऽऽसनरूपमदात् । ययातिर्देवयानीगम47नक्रुद्धशुक्रशापाज्जरां प्राप्य पुत्त्रानुवाच इमां जरां गृह्णीतेति । ताञ्च ज्येष्ठाश्चत्वारः न जगृहुः । पूरुस्तु जगृहे । ततो ययातिस्तस्मै राज्यं ददाविति, जरैवाऽदादित्युक्तम् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
कदाचिदटमाना सा ब्रह्मलोकान्महीं गतम्।
वव्रे बृहद्वृतं मां तु जानती काममोहिता॥
मूलम्
कदाचिदटमाना सा ब्रह्मलोकान्महीं गतम्।
वव्रे बृहद्धतं मां तु जानती काममोहिता॥ २१ ॥
अनुवाद (हिन्दी)
एक दिन मैं ब्रह्मलोकसे पृथ्वीपर आया, तो वह घूमती-घूमती मुझे भी मिल गयी। तब मुझे नैष्ठिक ब्रह्मचारी जानकर भी कामातुरा होनेके कारण उसने वरना चाहा॥ २१॥
वीरराघवः
कदाचित्सा कालकन्या 48भूलोके पर्यटन्ती ब्रह्मलोकात्सत्यलोकात् महीं भूमिं गतं प्राप्तं मां बृहद्वतं नैष्ठिकं जानत्यपि काममोहिता 49सती वव्रे ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
मयि संरभ्य विपुलमदाच्छापं सुदुःसहम्।
स्थातुमर्हसि नैकत्र मद्याच्ञाविमुखो मुने॥
मूलम्
मयि संरभ्य विपुलमदाच्छापं 50सुदुस्सहम्।
स्थातुमर्हसि नैकत्र मद्याच्ञाविमुखो मुने॥ २२ ॥
अनुवाद (हिन्दी)
मैंने उसकी प्रार्थना स्वीकार नहीं की। इसपर उसने अत्यन्त कुपित होकर मुझे यह दुःसह शाप दिया कि ‘तुमने मेरी प्रार्थना स्वीकार नहीं की, अतः तुम एक स्थानपर अधिक देर न ठहर सकोगे’॥ २२॥
वीरराघवः
(भाग. 4-27-22) 51“प्रत्याख्याता मया सा तु कालकन्या विशाम्पते”51 । 52ततो 53मयिप्रत्याख्यातवति53 मयि संरभ्य क्रोधं कृत्वा विपुलं महान्तं 54दुस्सहं दुरतिक्रमणीयं शापमदात् । शापमेवाह - हे मुने ! त्वं यतो मद्याच्ञाविमुखः तत एकत्र चिरेण स्थातुं नाऽर्हसीति ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
ततो विहतसङ्कल्पा कन्यका यवनेश्वरम्।
मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम्॥
मूलम्
ततो विहतसङ्कल्पा कन्यका यवनेश्वरम्।
मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम्॥ २३ ॥
अनुवाद (हिन्दी)
तब मेरी ओरसे निराश होकर उस कन्याने मेरी सम्मतिसे यवनराज भयके पास जाकर उसका पतिरूपसे वरण किया॥ २३॥
वीरराघवः
ततो विहतसङ्कल्पा 55भ्रष्टमनोरथा55 कालकन्यका आधयो व्याधयश्च यवनाः तद्वत्पीडाकारित्वात्, तेषामीश्वरं मया उपदिष्टं नाम्ना भयं भयनामानं पतिमासाद्य वव्रे ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम्।
सङ्कल्पस्त्वयि भूतानां कृतः किल न रिष्यति॥
मूलम्
ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम्।
सङ्कल्पस्त्वयिभूतानां कृतः किल नरिष्यति॥ २४ ॥
अनुवाद (हिन्दी)
और कहा, ‘वीरवर! आप यवनोंमें श्रेष्ठ हैं, मैं आपसे प्रेम करती हूँ और पति बनाना चाहती हूँ। आपके प्रति किया हुआ जीवोंका संकल्प कभी विफल नहीं होता॥ २४॥
वीरराघवः
वरणप्रकारमेवाऽऽह - ऋषभमिति । हे वीर ! यवनानामृषभमीश्वरं त्वामीप्सितं 56पतिं वृणे, त्वयि कृतो भूतानां सङ्कल्पः न रिष्यति न नश्यति ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
द्वाविमावनुशोचन्ति बालावसदवग्रहौ।
यल्लोकशास्त्रोपनतं न राति न तदिच्छति॥
मूलम्
द्वाविमावनुशोचन्ति बालावसदवग्रहौ।
यल्लोक57शास्त्रोपनतं न राति न तदिच्छति॥ २५ ॥
अनुवाद (हिन्दी)
जो मनुष्य लोक अथवा शास्त्रकी दृष्टिसे देनेयोग्य वस्तुका दान नहीं करता और जो शास्त्रदृष्टिसे अधिकारी होकर भी ऐसा दान नहीं लेता, वे दोनों ही दुराग्रही और मूढ़ हैं, अतएव शोचनीय हैं॥ २५॥
वीरराघवः
त्वयाऽहं न प्रत्याख्येया - इत्याह - द्वाविति । लोकतोवेदतश्च यद्देयत्वेन ग्राह्यत्वेन चोपनतं प्राप्तं तद्याचमानाय यो न ददाति, यच्च दीयमानं यो नेच्छति न गृह्णाति इमौ द्वौ असदवग्रहौ असन् व्यर्थः अवग्रहोऽभिमानः, आग्रहो वा ययोस्तौ, अत एव बालौ अज्ञौ कर्मभूतौ अनुशोचन्ति इमौ प्रति अनुशोचन्ति, सन्त इत्यर्थः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु।
एतावान् पौरुषो धर्मो यदार्ताननुकम्पते॥
अनुवाद (हिन्दी)
भद्र! इस समय मैं आपकी सेवामें उपस्थित हुई हूँ, आप मुझे स्वीकार करके अनुगृहीत कीजिये। पुरुषका सबसे बड़ा धर्म दीनोंपर दया करना ही है’॥ २६॥
वीरराघवः
हे भद्र! भजन्तीं मां भजस्व मयि दयांकुरु पौरुषः पुरुषेण कर्तव्यो धर्मः एतावानेव किं तत् ? यदार्ताननुकम्पते ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
कालकन्योदितवचो निशम्य यवनेश्वरः।
चिकीर्षुर्देवगुह्यं स सस्मितं तामभाषत॥
अनुवाद (हिन्दी)
कालकन्याकी बात सुनकर यवनराजने विधाताका एक गुप्त कार्य करानेकी इच्छासे मुसकराते हुए उससे कहा॥ २७॥
वीरराघवः
कालकन्ययोदितं वचः श्रुत्वा स यवनेश्वरो भयनामा देवगुह्यं मरणं, तद्धि प्राणिनां वैराग्यानुदयाय देवैर्गोप्यते । कर्तुमिच्छुः, स्मितेन सहितं यथा तथा समभाषत ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
मया निरूपितस्तुभ्यं पतिरात्मसमाधिना।
नाभिनन्दति लोकोऽयं त्वामभद्रामसम्मताम्॥
मूलम्
मया निरूपितस्तुभ्यं पतिरात्मसमाधिना।
नाऽभिनन्दति लोकोऽयं त्वामभद्राम63सत्तमाम्॥ २८ ॥
वीरराघवः
तुभ्यं मया आत्मसमाधिना चित्तैकाग्य्रेण बहुधा विचार्येत्यर्थः । लोकरूपः पतिर्निरूपितो निश्चितः । कोऽसौ इत्यत्राऽऽहयाच्यमानो64ऽयं लोकस्त्वामभद्रामसत्तमां नेच्छति ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
त्वमव्यक्तगतिर्भुङ्क्ष्व लोकं कर्मविनिर्मितम्।
याहि मे पृतनायुक्ता प्रजानाशं प्रणेष्यसि॥
मूलम्
65त्वमव्यक्तगतिर्भुङ्क्ष्व लोकं कर्मविनिर्मितम्।
या हि मे पृतनायुक्ता 66प्रजानाशं प्रणेष्य67सि॥ २९ ॥
अनुवाद (हिन्दी)
‘मैंने योगदृष्टिसे देखकर तेरे लिये एक पति निश्चय किया है। तू सबका अनिष्ट करनेवाली है, इसलिये किसीको भी अच्छी नहीं लगती और इसीसे लोग तुझे स्वीकार नहीं करते। अतः इस कर्मजनित लोकको तू अलक्षित होकर बलात् भोग। तू मेरी सेना लेकर जा; इसकी सहायतासे तू सारी प्रजाका नाश करनेमें समर्थ होगी, कोई भी तेरा सामना न कर सकेगा॥ २८-२९॥
वीरराघवः
अतोऽव्यक्तगतिः कुतः प्राप्तेत्यलक्षितगतिस्सती कर्मनिर्मितं लोकमाक्रम्य भुङ्क्ष्व । एवं सर्वोऽपि हि लोकः तव पतिः स्यादित्यर्थः । न चैवं त्वया शङ्कनीयं, मां प्रतिकूलां 68लोको हनिष्यतीति68 यस्मात्त्वमेव लोकस्य नाशं करिष्यसीत्याह - याहीति । या मदीया पृतनायवनानां सेना तया युक्ता याहि ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव।
चराम्युभाभ्यां लोकेऽस्मिन्नव्यक्तो भीमसैनिकः॥
मूलम्
प्रज्वारोऽयं मम भ्राता त्वञ्च मे भगिनी भव।
चराम्युभाभ्यां लोकेऽस्मिन्नव्यक्तो भीमसैनिकः॥ ३० ॥
अनुवाद (हिन्दी)
यह प्रज्वार नामका मेरा भाई है और तू मेरी बहिन बन जा। तुम दोनोंके साथ मैं अव्यक्त गतिसे भयंकर सेना लेकर सारे लोकोंमें विचरूँगा’॥ ३०॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरञ्जनोपाख्याने सप्तविंशोऽध्यायः॥ २७॥
वीरराघवः
प्रज्वारो वैष्णवज्वरः त्वां प्रणेष्यति लोकं प्रति प्रापयिष्यति । अत्र प्रज्वार इति मारकोवैष्णवज्वरो विवक्षितः, न माहे69श्वरज्वरः 70माहेश्वरस्य70 व्याध्यन्तः पातित्वेन मारकत्वाभावात् । प्रज्वारो मम भ्राता 71भवति त्वञ्च मे भगिनी स्वसा भव । उभाभ्यां प्रज्वारकालकन्याभ्यां युवाभ्यां सह अहं भीमसैनिकः यवन सेना नायकः अव्यक्तगतिस्सन् लोके चरामि । अत्र कालस्य दुहिता काचिदित्यादिश्लोकत्रयेण नारदस्य जरानाक्रान्तत्व मुक्तम् । एतच्च, नैष्ठिकसनकादीनामप्युपलक्षणम् । स्वस्य शापग्रस्तत्वकथनं तस्यावर्जनीयत्वाभिप्रायकम् । ततो विहत सङ्कल्पेत्यादिना जराधिव्याधिप्रज्वारभयानां 72पूर्वपूर्वस्य उत्तरोत्तरहेतुत्वम्, अन्योन्यसहित्येन मरणहेतुत्वञ्चोक्तम् । जरादीनां परस्परभाषणादिकथनं तेषां मूर्तिमत्त्वाभिप्रायेण तदधिष्ठातृदेवताभिप्रायेण वा उपपन्नम् ॥ 30 ॥
इति श्रीमद्भागवते चतुर्थस्कन्धे श्री वीरराघवविदुषालिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां सप्तविंशोऽध्यायः ॥ २७ ॥
-
J सम्यग्व ↩︎
-
V राज्ञी; W राजं ↩︎
-
A,B,T omit उक्तः ↩︎
-
W देशं ↩︎
-
A,B,T द्र ↩︎
-
M,Ma,Ms रुचिराम्बरसंवृताम् ↩︎
-
V राम्बराम् ↩︎
-
A,B,T नन्दयन् स्त्रियमिव ↩︎
-
W omits सूचितः ↩︎
-
W ह्य ↩︎
-
M,Ma,Ms धे ↩︎
-
W क ↩︎
-
A,B,G,I,J,T मनुते परं यतः ↩︎
-
M,Ma,Ms हि ↩︎
-
A,B,G,I,J,T,V यत् । ↩︎
-
W स्पष्टम् ↩︎
-
W अति ↩︎
-
V मजीजनत्पु ↩︎
-
A,B,G,I,J,T,W मातृ ↩︎
-
A,B,G,I,J प ↩︎
-
A,B,T ते ↩︎
-
A,B,G,I,J,T प ↩︎
-
M,Ma गू ↩︎
-
A,B,T णासक्तः ↩︎
-
Ma,Ms गृहेष्वेवं ↩︎
-
W प्रसक्तस्य ↩︎
-
W omits कालः ↩︎
-
M,Ma,Ms स्तावती रस्य ↩︎
-
M,Ma,Ms कामान् विनिर्मितान् ↩︎
-
A,B,T omit कामैः ↩︎
-
A,B,G,I,J,T पुरं ↩︎
-
V यथा ↩︎
-
W रै ↩︎
-
M,Ma केन ↩︎
-
A,B,T विस्माप ↩︎
-
A,B,G,I,J,T सम्बन्धे; W सम्बन्धिन्ये ↩︎
-
M,Ma,Ms स्य ↩︎
-
A,B,G,I,J,T धा ↩︎
-
W माथ ↩︎
-
A,B,T omit कथं ↩︎
-
A,T omit कचित् ↩︎
-
A,T नानुक्रुद्ध; B न मनुक्रुद्ध । ↩︎
-
A,B,T भूर्लोके ↩︎
-
W omits सती ↩︎
-
V दुस्तरम् ↩︎
-
A,B,T यतो ↩︎
-
W दुस्तरं ↩︎
-
A,B,T omit पति । ↩︎
-
V वेदोप ↩︎
-
V अतो ↩︎
-
J,M,Ma भजती; V भजन्त्या । ↩︎
-
M,Ma,Ms तां वाचं ↩︎
-
चिकीर्षती देवगुह्यं ↩︎
-
Ms र्षन्देवं ↩︎
-
A,B,G,I,J,M,Ma,Ms,T सम्मताम् ↩︎
-
A,B,T omit अयं ↩︎
-
M,Ma त्वमज्ञात; W अतोऽव्यक्त ↩︎
-
M,Ma सोऽप्रज त्वां ↩︎
-
M,Ma ति । ↩︎
-
A,B,T श्वरः ↩︎
-
A,B,T omit भवति ↩︎
-
A,B,T omit पूर्व ↩︎