[षडविंशोऽध्यायः]
भागसूचना
राजा पुरंजनका शिकार खेलने वनमें जाना और रानीका कुपित होना
श्लोक-१
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम्।
द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम्॥
मूलम्
स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम्।
1द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम्॥ १ ॥
वीरराघवः
एवं सुषुप्त्यवस्थां 2जाग्रदवस्था2ञ्चाऽभिधाय इदानीं स्वप्नावस्थामाह - स इतिदशभिः । स पुरञ्जन एकदा सुषुप्त्यनन्तरं महानिष्वासो धनुः कर्तृत्वभोक्तृत्वाद्यभिनिवेशो यस्य सः, रथमारुह्य पञ्चप्रस्थं वनमगादिति तृतीयेनाऽन्वयः । रथ शब्देनाऽत्र शरीरं विवक्षितम् “आत्मानं रथिनं विद्धि शरीरं रथमेव च बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानाहुः” (कठ . उ. 3.3) इत्यादिश्रुत्या उपासननिर्वृत्तौ शरीरादीनां रथादि भावेनाऽन्यत्र निरूपितत्वात् । तच्च शरीरमात्रौचित्यात्स्वाप्नं विवक्षितम् । तद्धि तदानीमेव स्वप्नद्रष्टृपुण्यपापानुरोधेनेश्वरसृष्टं भवति । जाग्रद्देहस्य तु शतसंवत्सरोपभोग्यपुरत्वेनोक्तत्वात् । रथं विशिनष्टि । 3पञ्चाश्चं पञ्चज्ञानेन्द्रियाणि 4चक्षुरादीनि4 अश्वा यस्य तम् । आशुगं शीघ्रगम् । अनेनाऽपि स्वाप्नमेव शरीरमत्र विवक्षितमित्यवगम्यते । जाग्रद्देहस्याऽऽशुगत्वासम्भ5वात् । द्वावहङ्कारममकारौ ईषे दण्डिके यस्य तम् । द्वे पुण्यपापे चक्रे यस्य तम् । 6तथैकं प्रधानमक्षो यस्य, त्रयो गुणाः सत्त्वादयो वेणवो ध्वजा यस्य तम् । पञ्चप्राणा बन्धुराणि बन्धनानि 7यस्य ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
एकरश्म्येकदमनमेकनीडं द्विकूबरम्।
पञ्चप्रहरणं सप्तवरूथं पञ्चविक्रमम्॥
मूलम्
एकरश्म्येकदमनमेकनीडं द्विकूबरम्।
पञ्चप्रहरणं सप्तवरूथं पञ्चविक्रमम्॥ २ ॥
वीरराघवः
8पुनः कीदृशम्8 ? एकं मनो रश्मिः प्रग्रहो रज्जुर्यस्य तम् । एका बुद्धिर्दमनस्सारथिर्यस्य, एकं हृदयं नीडं रथिन उपवेशस्थानं यस्य, द्वौ शोकमोहौ कूबरं युगबन्धनस्थानं यस्य, पञ्च शब्दादयो विषयाः, प्रह्रियन्ते प्रक्षिप्यन्ते आपात्यन्ते यस्मिन् तम् । सप्त धातवो वरूथाः चर्मांद्यावरणानि यस्य तम् । पञ्च कर्मेन्द्रियाणि विक्रमा गतिप्रकारा य9स्य ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधिः।
एकादशचमूनाथः पञ्चप्रस्थमगाद्वनम्॥
मूलम्
10हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधिः।
एकादशचमूनाथः पञ्चप्रस्थमगाद्वनम्॥ ३ ॥
अनुवाद (हिन्दी)
श्रीनारदजी कहते हैं—राजन्! एक दिन राजा पुरंजन अपना विशाल धनुष, सोनेका कवच और अक्षय तरकस धारणकर अपने ग्यारहवें सेनापतिके साथ पाँच घोड़ोंके शीघ्रगामी रथमें बैठकर पंचप्रस्थ नामके वनमें गया। उस रथमें दो ईषादण्ड (बंब), दो पहिये, एक धुरी, तीन ध्वजदण्ड, पाँच डोरियाँ, एक लगाम, एक सारथि, एक बैठनेका स्थान, दो जुए , पाँच आयुध और सात आवरण थे। वह पाँच प्रकारकी चालोंसे चलता था तथा उसका साज-बाज सब सुनहरा था॥ १-३॥
वीरराघवः
हैमोपस्करं सुवर्णाभरणं स्वर्णाभरणविशिष्टस्वाप्नदेहसंसृष्टिसम्भवाभिप्रायेण हैमोपस्करमित्युक्तम्, कथासौन्दर्याय वा । एव मनुपयुक्तं कथा सौन्दर्यायेति द्रष्टव्यम् । स्वर्णमयं वर्म कवचं रजोगुणवृत्तिर्यस्य, अक्षयेषुभिः इषवो बाणा धीयन्तेऽस्मिन्निति इषुधिः निषङ्गः अक्षय इषुधिरनन्तवासनाश्रयोऽहङ्कारो यस्य सः तत्र अबुद्धिपूर्वकप्रवृत्तिहेतुः संस्कारविशेषो वासना । सा च अज्ञानवासना, कर्मवासना, प्रकृतिसम्बन्धवासना चेति त्रिप्रकारा । अविद्या नाम ज्ञानानुदयान्यथाज्ञानविपरीतज्ञानरूपेण त्रिविधमज्ञानम् । प्रकृतिसम्बन्धः स्थूलसूक्ष्मरूपाचित्सम्बन्धः । स च देवमनुष्यादिदेहभेदेन बहुविधः । सजातीयकर्मारम्भेच्छा रुचिः । सा च विषयभेदाद्बहुप्रकारा । पुण्यापुण्यरूपेण द्विविधं कर्मेति ज्ञेयम् । एकादशेन्द्रियवृत्त्यात्मकसेनापतिः । पञ्च शब्दादयो विषयाः, प्रस्थाः सानवो यस्मिन् तद्वनं भोगस्थानमगात् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
चचार मृगयां तत्र दृप्त आत्तेषुकार्मुकः।
विहाय जायामतदर्हां मृगव्यसनलालसः॥
मूलम्
चचार मृगयां तत्र दृप्त आत्तेषुकार्मुकः।
विहाय जायामतदर्हां मृगव्यसनलालसः॥ ४ ॥
अनुवाद (हिन्दी)
यद्यपि राजाके लिये अपनी प्रियाको क्षणभर भी छोड़ना कठिन था, किन्तु उस दिन उसे शिकारका ऐसा शौक लगा कि उसकी भी परवा न कर वह बड़े गर्वसे धनुष-बाण चढ़ाकर आखेट करने लगा॥ ४॥
वीरराघवः
तत्र वने दृप्तः गर्वितः स्वाप्नदेहपरवश इत्यर्थः । आत्ताः स्वीकृता इषवः वासनारूपाः 11कार्मुकं कर्तृत्वाद्यभिनिवेशो यस्य, अतदर्हां त्यागानर्हा जायां 12ध्यात्मिकां सात्त्विकीं बुद्धिं विहाय । त्यागे हेतुः - मृग्यन्ते इति मृगाः शब्दादिविषयाः तेषु, यद्व्यसन मलाभनिमित्तं दुःखं तेन लालसः अन्वेषणासक्तः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रहः।
न्यहनन्निशितैर्बाणैर्वनेषु वनगोचरान्॥
मूलम्
आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रहः।
न्यहनन्निशितैर्बाणैर्वनेषु वनगोचरान्॥ ५ ॥
अनुवाद (हिन्दी)
इस समय आसुरीवृत्ति बढ़ जानेसे उसका चित्त बड़ा कठोर और दयाशून्य हो गया था, इससे उसने अपने तीखे बाणोंसे बहुत-से निर्दोष जंगली जानवरोंका वध कर डाला॥ ५॥
वीरराघवः
आसुरीं तामसीं वृत्तिं बुद्धिमाश्रित्य घोरात्मा घोर आत्मा चित्तं यस्य सः, रजोगुणकार्यक्रोधाविष्टः का13मादिविरोधिषु क्रुद्धचित्त इत्यर्थः । अत एव निरनुग्रहः विरोधिष्वनुग्रहरहितः निशितैः कार्यक्षमैः विषयसान्निध्यापादकैरिति यावत् । बाणैः कर्म वासनारूपैः शरैः वनेषु भोगस्थानेषु वनगोचरान् वनगोचरमृगतुल्यान् दैवोपसादिता नित्यर्थः । न्यहनत् आत्मसात्कृतवान् कथापक्षेतु स्पष्टमेव ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने।
यावदर्थमलं लुब्धो हन्यादिति नियम्यते॥
अनुवाद (हिन्दी)
जिसकी मांसमें अत्यन्त आसक्ति हो, वह राजा केवल शास्त्रप्रदर्शित कर्मोंके लिये वनमें जाकर आवश्यकतानुसार अनिषिद्ध पशुओंका वध करे; व्यर्थ पशुहिंसा न करे। शास्त्र इस प्रकार उच्छृंखल प्रवृत्तिको नियन्त्रित करता है॥ ६॥
वीरराघवः
नन्वासुरीं वृत्तिमाश्रित्येति मृगयानिन्दा न युक्ता, कथापक्षे राज्ञस्तस्याः विहितत्वात् । अध्यात्मपक्षेऽपि दैवोपसादितविषयभोगो विहित एवेत्यत्राऽऽह - तीर्थेष्विति त्रिभिः । मृगयाया रागप्राप्तत्वान्न सा विधीयते; किन्तु नियम्यते मृगयाप्रवृतिः सङ्कोच्यते इत्यर्थः नियममेव षड्विधमुपदर्शयति - लुब्धोरागीसन् यदि निहन्यात्, तर्हि तीर्थेषु श्राद्धादि16ष्वेव निमित्तेषु, तत्राऽपि प्रतिदृष्टेषु विहितमांसकेष्वेवेति । तत्राऽपि राजैव, मेध्यानेव, वन एव, यावदुपयोगमेवेति । अध्यात्मपक्षेऽपिजीवस्य यावदुपभोगमेव विषयभोगो नियम्यत इति भावः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
य एवं कर्म नियतं विद्वान् कुर्वीत मानवः।
कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते॥
मूलम्
य एवं कर्म नियतं विद्वान् कुर्वीत 17वा न वा।
कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते॥ ७ ॥
अनुवाद (हिन्दी)
राजन्! जो विद्वान् इस प्रकार शास्त्रनियत कर्मोंका आचरण करता है, वह उस कर्मानुष्ठानसे प्राप्त हुए ज्ञानके कारणभूत कर्मोंसे लिप्त नहीं होता॥ ७॥
वीरराघवः
य एवं विद्वान् हिंसाया विषय भोगस्य च रागप्राप्ततां तन्नियमञ्च विद्वान् कुर्वीत । हिंसा विषयभोगञ्च कुर्यान्न वा कुर्याद्वा रागप्राप्तत्वेनाऽऽवश्यकत्वाभावादिति भावः । रागप्राप्तस्य 18नियमेन हि पक्षे प्रत्यवायाभावमात्रं क्रियते नाऽदृष्टम् । अतः सुतरां रागप्राप्तस्यत्यागे न प्रत्यवाय इति नवेत्युक्तम् । तेनैवं नियतेन कर्मणा ज्ञानेन एवं कृतेन कर्मणा यज्ज्ञानं भवति तेन हेतुना स कर्ता न लिप्यते, पापैरिति शेषः । यद्वा स विद्वान् ज्ञानेन रागप्राप्तानां त्याज्योपादेयादिविवेकज्ञानरूपेण हेतुना कर्मणा अनादिपापरूपकर्मणा न लिप्यते ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते।
गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्यधः॥
अनुवाद (हिन्दी)
नहीं तो, मनमाना कर्म करनेसे मनुष्य अभिमानके वशीभूत होकर कर्मोंमें बँध जाता है तथा गुण-प्रवाहरूप संसारचक्रमें पड़कर विवेक-बुद्धिके नष्ट हो जानेसे अधम योनियोंमें जन्म लेता है॥ ८॥
वीरराघवः
अन्यथा अनियतं कर्म कुर्वाणः अहम्ममाभिमानारूढः कर्मभिरनादि पुण्यापुण्यकर्मभिरनुबध्यते वशीक्रियते ततः कर्मपारवश्यात् गुणप्रवाहे संसारे पतितः नष्टदेहात्मविवेकः अधोनरकं व्रजति ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
तत्र निर्भिन्नगात्राणां चित्रवाजैः शिलीमुखैः।
विप्लवोऽभूद्दुःखितानां दुःसहः करुणात्मनाम्॥
मूलम्
तत्र निर्भिन्नगात्राणां चित्रवाजैश्शिलीमुखैः।
विप्लवोऽभूद्दुःखितानां दुस्सहः करुणात्मनाम्॥ ९ ॥
अनुवाद (हिन्दी)
पुरंजनके तरह-तरहके पंखोंवाले बाणोंसे छिन्न-भिन्न होकर अनेकों जीव बड़े कष्टके साथ प्राण त्यागने लगे। उसका वह निर्दयतापूर्ण जीव-संहार देखकर सभी दयालु पुरुष बहुत दुःखी हुए। वे इसे सह नहीं सके॥ ९॥
वीरराघवः
एवं प्रासङ्गिकं परिसमाप्य प्रकृतां मृगया मनुवर्णयति तत्रेति । चित्रवाजाः नानाविधवासनारूपा विचित्रपक्षाः येषां तैः वासनाभिरुपोद्बलितैरित्यर्थः । शिलीमुखैः पुण्यापुण्यकर्मभिर्हेतुभूतैः निर्भिन्नानि अनुभवेन जीर्णानि गात्राण्यवयवा येषां तेषां मृगाणां विषयाणां विप्लवो नाशः करुणात्मनां कृपालूनां दुस्सहोऽभूत् कर्मभिरनुजीर्णावयवान् विनष्टान् शब्दादिविषया ननुसन्दधतां सर्वभूतसुहृदां ज्ञानिनां विषयविप्लवो मनसाऽपि स्मर्तुमसह्योऽभूदित्यर्थः । कथापक्षे स्पष्टोऽर्थः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
शशान् वराहान् महिषान् गवयान् रुरुशल्यकान्।
मेध्यानन्यांश्च विविधान् विनिघ्नन् श्रममध्यगात्॥
मूलम्
शशान् वराहान् महिषान् गवयान् रुरुशल्यकान्।
मेध्या21नन्यांश्च विविधान् विनिघ्नन् श्रम22मध्यगात्॥ १० ॥
अनुवाद (हिन्दी)
इस प्रकार वहाँ खरगोश, सूअर, भैंसे, नीलगाय, कृष्णमृग, साही तथा और भी बहुत-से मेध्य पशुओंका वध करते-करते राजा पुरंजन बहुत थक गया॥ १०॥
वीरराघवः
शशान् वराहा नित्यादिकथनं शब्दादिभेदेन 23तदवान्तरभेदेन23 विषयवैचित्र्यज्ञापनाय । कथापक्षेतु तत्सौन्दर्याय । मेध्यान् विहितान् अन्यानविहितांश्च विषयान् विनिघ्नन्नात्मसात्कुर्वन् व्यापृतकरणत्वाच्च श्रममध्यगात् प्राप्तवान् ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
ततः क्षुत्तृट्परिश्रान्तो निवृत्तो गृहमेयिवान्।
कृतस्नानोचिताहारः संविवेश गतक्लमः॥
अनुवाद (हिन्दी)
तब वह भूख-प्याससे अत्यन्त शिथिल हो वनसे लौटकर राजमहलमें आया। वहाँ उसने यथायोग्य रीतिसे स्नान और भोजनसे निवृत्त हो, कुछ विश्राम करके थकान दूर की॥ ११॥
वीरराघवः
एवं राजस्या बुद्धेः कार्यंभूतां जाग्रदवस्थां तामस्या 26बुद्धेः कार्यभूतां स्वप्नावस्थाञ्चाऽभिधाय इदानीं विद्वान् कुर्वीतेति सूचित विवेकः कथमुदेतीति विवित्सायां प्रणयकलहनिमित्तक्रोधाविष्टप्रियानुन27यकथनव्याजेन संसारिणो जीवस्य विवेकात्मकसात्त्विकबुद्धेर्दौर्लभ्यं द्योतयन् “प्रवृत्तिञ्च निवृत्तिञ्च कार्याकार्ये भयाभये । बन्धं मोक्षञ्च या वेत्ति बुद्धिस्सा पार्थ, सात्त्विकी (भ.गी. 18-30) इत्युक्तसात्त्विक बुद्ध्यलाभदशायां दैवात्तदलाभनिमित्तपरितापोदयं ततस्तल्लिप्सां ततस्तदुचितसाधनैस्तल्लब्धिञ्च द्योतयन् कथापक्षे तत्सौन्दर्याय तां बुद्धिं महिषीत्वेन इन्द्रियवृत्तीरन्तः पुरस्त्रीत्वेन परिकल्प्य तदनुनयप्रकारमाह - तत इत्यादिना । क्षुत्तृड्भ्यामशनायापिपासाभ्यां परिश्रान्तः स्वाप्नशरीरेऽपि क्षुत्तृषोरनुवृत्तेरेव मुक्तम् । ततः स्वाप्नविषयानुभवरूपमृगयाया निवृत्तः गृहं पुरत्वरूपितजाग्रद्देहगतहृदयस्थान मेयिवान् प्राप्तः । ततः कृतं स्नानमुचित आहारश्च येन सः, अतएव गतश्रमः सम्यगुपविष्टवान् ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
आत्मानमर्हयाञ्चक्रे धूपालेपस्रगादिभिः।
साध्वलङ्कृतसर्वाङ्गो महिष्यामादधे मनः॥
मूलम्
आत्मानमर्हयाञ्चक्रे धू28पालेपस्रगादिभिः।
साध्वलङ्कृतसर्वाङ्गो महिष्यामादधे मनः॥ १२ ॥
अनुवाद (हिन्दी)
फिर गन्ध, चन्दन और माला आदिसे सुसज्जित हो सब अंगोंमें सुन्दर-सुन्दर आभूषण पहने। तब उसे अपनी प्रियाकी याद आयी॥ १२॥
वीरराघवः
ततो धूपादिभिरात्मान मर्हयाञ्चक्रे ततः साधु सम्यगलङ्कृतानि सर्वाण्यङ्गानि येन सः, महिष्यां मन आदधे । कृतस्नानो चिताहार इत्यनेन सुखजनक विवेकात्मक सात्विकबुद्ध्युत्पत्ति प्रारम्भावस्थायाः सुखकरत्वं सूच्यते । स्नानाऽऽहारधूपालेपनस्रग्भूषणाद्यलङ्कारैर्जातानन्द इव महिष्यां विवेकात्मिकायां बुद्धौ मन आदधे निहितवा नित्यर्थः । कथापक्षे तु स्पष्टोऽर्थः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
तृप्तो हृष्टः सुदृप्तश्च कन्दर्पाकृष्टमानसः।
न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम्॥
मूलम्
तृप्तो हृष्टस्सुदृप्तश्च कन्दर्पाकृष्टमानसः।
न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम्॥ १३ ॥
अनुवाद (हिन्दी)
वह भोजनादिसे तृप्त, हृदयमें आनन्दित, मदसे उन्मत्त और कामसे व्यथित होकर अपनी सुन्दरी भार्याको ढूँढ़ने लगा; किन्तु उसे वह कहीं भी दिखायी न दी॥ १३॥
वीरराघवः
उचिताहारेण तृप्तः धूपालेपस्रगादिभिर्हृष्टः 29सुदृप्तः तृप्तिवृष्टिभ्यां सुतरां दृप्तः अत एव च कन्दर्पेणाऽऽकृष्टं वशीकृतं मानसं यस्य सः, गृहमेधिनः स्वस्य सम्बन्धिनीं गृहिणीं गृहमस्या अस्तीति 30गृहिणी, तां स्वाश्रय एव स्थितां 31वरारोहां वरस्त्रियं न व्यचष्ट न ददर्श यथा कामपरवशः स्वगृहे एव क्वचिदन्तर्हितां प्रियां नाऽपश्यत्तथाऽयं जीवोविवेकात्मक बुद्धिलिप्सापरवशस्तां स्वाऽऽश्रयस्थितां न लब्धवा नित्यर्थः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
अन्तःपुरस्त्रियोऽपृच्छद्विमना इव वेदिषत्।
अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा॥
मूलम्
अन्तःपुरस्त्रियोऽपृच्छद्विमना इव वेदि32षन्।
अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा॥ १४ ॥
अनुवाद (हिन्दी)
प्राचीनबर्हि! तब उसने चित्तमें कुछ उदास होकर अन्तःपुरकी स्त्रियोंसे पूछा, ‘सुन्दरियो! अपनी स्वामिनीके सहित तुम सब पहलेकी ही तरह कुशलसे हो न?॥ १४॥
वीरराघवः
हे वेदि33षन् ! हे प्राचीनबर्हिः ! विमना इव दुःखितमना इव अन्तः पुरस्त्रियः तत्सखीरपृच्छत् पुरञ्जनः । तदलाभनिमित्तवैमनस्यः बुद्धिमूलकेन्द्रियवृत्तीः पप्रच्छ कथा इन्द्रियवृत्त्या बुद्धिः सात्त्विकी स्यादिति परि34शीलितवानित्यर्थः । प्रश्नमेवाऽऽह - अपीति त्रिभिः । हे रामाः स्त्रियः ! सेश्वरीणां स्वामिनीसहितानां वः युष्माकम् अपि कुशलम् ? अपिशब्दः प्रश्ने कुशलप्रश्ने हेतुः हि यस्मात् गृहेषु पुरा महिष्या व्यापारदशायां गृहसम्पदः यथैव रोचन्ते, न तथेदानीं रोचन्ते । विवेकाभावेन न कोऽपि पुरुषस्य गुणः प्रकाशते, अतो विवेकः किमुदेष्यतीति चिन्तितवा नित्यर्थः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
न तथैतर्हि रोचन्ते गृहेषु गृहसम्पदः।
यदि न स्याद् गृहे माता पत्नी वा पतिदेवता।
व्यङ्गे रथ इव प्राज्ञः को नामासीत दीनवत्॥
मूलम्
न तथै35तर्हि 36रोचन्ते गृहेषु गृहसम्पदः।
यदि न स्याद् गृहे माता पत्नी वा पतिदेवता।
व्यङ्गे रथ इव प्राज्ञः को नामाऽऽसीत दीनवत्॥ १५ ॥
अनुवाद (हिन्दी)
क्या कारण है आज इस घरकी सम्पत्ति पहले-जैसी सुहावनी नहीं जान पड़ती? घरमें माता अथवा पतिपरायणा भार्या न हो, तो वह घर बिना पहियेके रथके समान हो जाता है; फिर उसमें कौन बुद्धिमान् दीन पुरुषोंके समान रहना पसंद करेगा॥ १५॥
वीरराघवः
गृहे माता वा पतिर्देवता यस्यास्सा पत्नी वा यदि न स्यात् तर्हि व्यङ्गे चक्राश्वादिरहिते रथे इव प्राज्ञः बुद्धिमान् को नाम पुरुषो दीनवदासीत निवसेदित्यर्थः । विवेकाभावे देहत्यागोवरमिति भावः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे।
या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे॥
अनुवाद (हिन्दी)
अतः बताओ, वह सुन्दरी कहाँ है, जो दुःख-समुद्रमें डूबनेपर मेरी विवेक-बुद्धिको पद-पदपर जाग्रत् करके मुझे उस संकटसे उबार लेती है?’॥ १६॥
वीरराघवः
सा ललना क्व वर्तते ? कथम्भूता ? 40या ललना व्यसनार्णवे दुःखार्णवे मज्जन्तं मां 41पदे पदे स्वयं 42प्राज्ञा दीपयन्ती बोधयन्ती सती 43उद्धरति व्यसनार्णवात् यथा विरहशोकातुरं पुमांसं प्रौढा प्रिया तदनुकूलाचरणहितोपदेशादिना शोकमपनुद्य सुखयति तद्वद्विवेकात्मिका बुद्धिरपि पदे पदे हिताहितं प्रकाशयन्ती पुमांसमुद्धरति । ईदृ44शी बुद्धिः क्व वर्तत इति 45प्रश्ने तल्लिप्सा45व्यज्यते ॥ १६ ॥
श्लोक-१७
मूलम् (वचनम्)
रामा ऊचुः
विश्वास-प्रस्तुतिः
नरनाथ न जानीमस्त्वत्प्रिया यद्व्यवस्यति।
भूतले निरवस्तारे शयानां पश्य शत्रुहन्॥
मूलम्
नरनाथ न जानीमस्त्वत्प्रिया यद्व्यवस्यति।
भूतले निरवस्तारे शयानां पश्य शत्रुहन्!॥ १७ ॥
अनुवाद (हिन्दी)
स्त्रियोंने कहा—नरनाथ! मालूम नहीं आज आपकी प्रियाने क्या ठानी है। शत्रुदमन! देखिये, वे बिना बिछौनेके पृथ्वीपर ही पड़ी हुई हैं॥ १७॥
वीरराघवः
हे नरनाथ ! त्वत्प्रिया यद्व्यवस्यति निश्चिनोति तन्नजानीमः ; यदर्थं वैमनस्यमापन्ना तद्वैमनस्यहेतुं न जानीमः, त्वत्प्रियान्तु जानीम इत्याहुः । हे शत्रुहन् ! निरवस्तारे आस्तरणरहिते भूतलेऽवधुतां शयानां पश्येति कथापक्षेऽर्थः । अथात्मपक्षे त्वबाधितेन्द्रिय वृत्तीनां सर्वासां निश्चयात्मिकबुद्धिमूलकत्वात् कयापीन्द्रियवृत्त्या सा नोदेतीत्यालोच्य यदनादरवशात् प्रियानादृता सतीवमद्विमुखी अभूदित्यनुसंहितवानित्यर्थः । आदरो बुद्धेः शिक्षणम् ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
पुरञ्जनः स्वमहिषीं निरीक्ष्यावधुतां भुवि।
तत्सङ्गोन्मथितज्ञानो वैक्लव्यं परमं ययौ॥
मूलम्
पुरञ्जनः स्वमहिषीं निरीक्ष्यावधुतां भुवि।
तत्सङ्गोन्मथितज्ञानो वैक्लब्यं परमं ययौ॥ १८ ॥
अनुवाद (हिन्दी)
श्रीनारदजी कहते हैं—राजन्! उस स्त्रीके संगसे राजा पुरंजनका विवेक नष्ट हो चुका था; इसलिये अपनी रानीको पृथ्वीपर अस्त-व्यस्त अवस्थामें पड़ी देखकर वह अत्यन्त व्याकुल हो गया॥ १८॥
वीरराघवः
पुरञ्जनो भुवि पतितां महिषीं निरीक्ष्य तत्सङ्गेनोन्मथितं व्याकुलं ज्ञानं यस्य सः परमं भृशं वैक्लब्यं शोकपारवश्यं ययौ । अहो मदीयेयं बुद्धिः एतावन्तं कालमेवं विपरीताऽभूदिति वैक्लव्यं यया वित्यर्थः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
सान्त्वयन् श्लक्ष्णया वाचा हृदयेन विदूयता।
प्रेयस्याः स्नेहसंरम्भलिङ्गमात्मनि नाभ्यगात्॥
मूलम्
सान्त्वयन् श्लक्ष्णया वाचा हृदयेन विदूयता।
प्रेयस्याः 47प्रेमसंरम्भलिङ्गमात्मनि 48नाऽभ्यगात्॥ १९ ॥
अनुवाद (हिन्दी)
उसने दुःखित हृदयसे उसे मधुर वचनोंद्वारा बहुत कुछ समझाया, किन्तु उसे अपनी प्रेयसीके अंदर अपने प्रति प्रणय-कोपका कोई चिह्न नहीं दिखायी दिया॥ १९॥
वीरराघवः
तत श्लक्ष्णयामृद्व्या वाचा विदूयता परितप्तेन हृदयेन मनसा सान्त्वयन् अनुनयन् प्रेयस्याः प्रियायाः प्रेमसंरम्भः प्रणयेन स्वस्मिन् यः कोपः तस्य लिङ्गं कारणमात्मनि मनसि नाऽध्यगात् न निश्चितवान् । विवेकोदयासाधनभूतस्वादरणमन्विच्छन् तावदेतावत्कालं तदनुये कारणमन्वेषयन्नपि तन्नाऽध्यगादित्यर्थ । तस्य दैवायत्तत्त्वादिति भावः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
अनुनिन्येऽथ शनकैर्वीरोऽनुनयकोविदः।
पस्पर्श पादयुगलमाह चोत्सङ्गलालिताम्॥
मूलम्
अनुनिन्येऽथ शनकैर्वीरोऽनुनयकोविदः।
पस्पर्श पादयुगलमाह चोत्सङ्गलालिताम्॥ २० ॥
अनुवाद (हिन्दी)
वह मनानेमें भी बहुत कुशल था, इसलिये अब पुरंजनने उसे धीरे-धीरे मनाना आरम्भ किया। उसने पहले उसके चरण छूए और फिर गोदमें बिठाकर बड़े प्यारसे कहने लगा॥ २०॥
वीरराघवः
पुरञ्जनः अनुनये सान्त्वने कोविदः कुशलः अनुनयकोविदैरिति तृतीयान्तपाठे तु वाक्यैरिति विशेष्यम् अध्याहार्यम् । शनकैर्महिषी मनुनिन्ये सान्त्वयामास । अनुनयप्रकारमेवाऽऽह - पादयुगलं पस्पर्श प्रियाया पादौ गृहीतवान् । तत उत्सङ्गारो49पणादिना लालितामाह । अध्यात्मपक्षे त्वनुनये स्ववशीकारे कोविदैर्निपुणैरुपायैः स्ववशा मनुनिन्ये । पस्पर्श पादयुगलमित्यनेन अद्यप्रभृति विवेकात्मिकां बुद्धिमनुसृत्यैव वर्तेयेति प्रतिज्ञातवा नित्युक्तं भवति । उत्सङ्गलालिता माहेत्यनेन स्ववशीकृतया विवेकात्मिकया बुद्ध्या एव मनुसंहितवा नित्युक्तम् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
नूनं त्वकृतपुण्यास्ते भृत्या येष्वीश्वराः शुभे।
कृतागस्स्वात्मसात्कृत्वा शिक्षादण्डं न युञ्जते॥
मूलम्
नूनन्त्वकृतपुण्यास्ते भृत्या येष्वीश्वराः शुभे।
कृतागः स्वात्मसात्कृत्वा शिक्षादण्डं न युञ्जते॥ २१ ॥
अनुवाद (हिन्दी)
पुरंजन बोला—सुन्दरि! वे सेवक तो निश्चय ही बड़े अभागे हैं, जिनके अपराध करनेपर स्वामी उन्हें अपना समझकर शिक्षाके लिये उचित दण्ड नहीं देते॥ २१॥
वीरराघवः
हे शुभे ! ईश्वराः स्वामिनः येषु कृतापराधेषु भृत्येषु आत्मसात्कृत्वामदधीना एते, अतो नैते दण्डनीया इति मत्वा शिक्षार्थं दण्डं न कुर्वन्ति ते भृत्या मन्दभाग्या इत्यर्थः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः।
बालो न वेद तत्तन्वि बन्धुकृत्यममर्षणः॥
मूलम्
पर51मोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः।
बालो न वेद तत्तन्वि बन्धुकृत्यममर्षणः॥ २२ ॥
अनुवाद (हिन्दी)
सेवकको दिया हुआ स्वामीका दण्ड तो उसपर बड़ा अनुग्रह ही होता है। जो मूर्ख हैं, उन्हींको क्रोधके कारण अपने हितकारी स्वामीके किये हुए उस उपकारका पता नहीं चलता॥ २२॥
वीरराघवः
कुतः ? यतः प्रभुणा भृत्येष्वर्पितो दण्डः परमोऽनुग्रहः भृत्यानां हितायैव भवतीत्यर्थः । यस्तु दण्डितो विषीदति, सोऽज्ञ इत्याहबाल इति । अमर्षणः दण्डं न मृष्यतीत्यमर्षणः । हे तन्वि ! तद्बन्धोः स्वामिनः कृत्यं शिक्षाकरणं न वेद अनुग्रह इति न वेदस बालो मूर्खः अज्ञ इत्यर्थः । अतो मम शिक्षार्थमेव स्वामिनीत्वं विमुख्यभूरित्यर्थः । अध्यात्मपक्षेतु स्वामिनीवत् मद्रक्षणैकान्तया बुद्ध्या विवेकात्मिकाया इतः पूर्वमनुदयोऽस्मदनुग्रहार्थ एव, यतो हमिदानीं विवेकालाभनिमित्तपरितापयुक्तः तामेव । अतीव आदृतवानित्यनुसन्दध इत्यर्थः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
सा त्वं मुखं सुदति सुभ्र्वनुरागभार-
व्रीडाविलम्बविलसद्धसितावलोकम्।
नीलालकालिभिरुपस्कृतमुन्नसं नः
स्वानां प्रदर्शय मनस्विनि वल्गुवाक्यम्॥
मूलम्
सा त्वं मुखं सुदति सुभ्र्वनुरागभार व्रीडाविलम्बविलसद्धसितावलोकम्।
नीलालकालिभिरुपस्कृतमुन्नसं नः स्वानां प्रदर्शय मनस्विनि वल्गुवाक्यम्॥ २३ ॥
अनुवाद (हिन्दी)
सुन्दर दन्तावली और मनोहर भौंहोंसे शोभा पानेवाली मनस्विनि! अब यह क्रोध दूर करो और एक बार मुझे अपना समझकर प्रणय-भार तथा लज्जासे झुका हुआ एवं मधुर मुसकानमयी चितवनसे सुशोभित अपना मनोहर मुखड़ा दिखाओ। अहो! भ्रमरपंक्तिके समान नीली अलकावली, उन्नत नासिका और सुमधुर वाणीके कारण तुम्हारा वह मुखारविन्द कैसा मनोमोहक जान पड़ता है॥ २३॥
वीरराघवः
हे सुदति ! हे सुभ्रु ! हे मनस्विनि ! सात्वमस्माकं स्वामिनी अतः स्वानां नो मुखं प्रदर्शय । कीदृशम् ? अनुरागभारेण व्रीडया च यो विलम्बो मन्थरस्तेन विलसन् हसितावलोको यस्मिन्, नीलालका एवाऽलयः, तै रुपस्कृतं भूषितं उच्चनासिकं वल्गु वाक्यं यस्मिन्, निरतिशयसौन्दर्ययुक्तायाः प्रियाया उक्तविधमुखावलोकनसञ्जातमानन्दमनुभवन्निवाऽहं स्थिरे निरतिशय सुखापादक विवेकोदये सुखीत्यनुसंहितवानित्यर्थः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
तस्मिन्दधे दममहं तव वीरपत्नि
योऽन्यत्र भूसुरकुलात्कृतकिल्बिषस्तम्।
पश्ये न वीतभयमुन्मुदितं त्रिलोक्या-
मन्यत्र वै मुररिपोरितरत्र दासात्॥
मूलम्
तस्मिन्दधे दममहं तव वीरपत्नि ! योऽन्यत्र भूसुरकुलात्कृतकिल्बिषस्तम्।
पश्ये न वीतभयमुन्मुदितं त्रिलो52क्यां क्रुद्धस्य 53वै मुररिपोरितरत्रदासात्॥ २४ ॥
अनुवाद (हिन्दी)
वीरपत्नि! यदि किसी दूसरेने तुम्हारा कोई अपराध किया हो तो उसे बताओ; यदि वह अपराधी ब्राह्मणकुलका नहीं है, तो मैं उसे अभी दण्ड देता हूँ। मुझे तो भगवान्के भक्तोंको छोड़कर त्रिलोकीमें अथवा उससे बाहर ऐसा कोई नहीं दिखायी देता जो तुम्हारा अपराध करके निर्भय और आनन्दपूर्वक रह सके॥ २४॥
वीरराघवः
हे वीरपत्नि ! वीरस्य मम भार्ये ! यस्ते तुभ्यं कृतकिल्विषः कृतापराधः तस्मिन्नहं ब्राह्मणकुलादन्यत्र कुलेऽपि मुररिपुदासा54दितरत्र दमं दण्डं दधे करोमि । मे त्वत्सहायस्य मम क्रुद्धस्य सतः, 55त्रिलोक्या बहिरपीति शेषः । त्रैलोक्याद्बहिश्चाऽन्तश्च उच्चैर्मुदितं विगत भयञ्च 56तं पुरुषं न पश्यामि यदीयं व्यवसायात्मिका बुद्धिर्मम 57सुप्रतिष्ठितास्यात्तदा तत्सहायोऽहं तद्विरोधिनो निरस्यामि विवेकिना मया असाध्यं किमपि त्रिलोक्या अन्तर्बहिश्च न विद्यते । मुररिपुदासादयस्तु विवेकिनो ममाऽनुकूला एवेत्यनुसन्दधे ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
वक्त्रं न ते वितिलकं मलिनं विहर्षं
संरम्भभीममविमृष्टमपेतरागम्।
पश्ये स्तनावपि शुचोपहतौ सुजातौ
बिम्बाधरं विगतकुङ्कुमपङ्करागम्॥
मूलम्
वक्त्रं न ते वितिलकं मलिनं विहर्षं संरम्भभीममविमृष्टमपेतरागम्।
पश्येस्तनावपि शुचो58पहतौ सुजातौ बिम्बाधरं विगतकुङ्कुमपङ्करागम्॥ २५ ॥
अनुवाद (हिन्दी)
प्रिये! मैंने आजतक तुम्हारा मुख कभी तिलकहीन, उदास, मुरझाया हुआ, क्रोधके कारण डरावना, कान्तिहीन और स्नेहशून्य नहीं देखा; और न कभी तुम्हारे सुन्दर स्तनोंको ही शोकाश्रुओंसे भीगा तथा बिम्बाफलसदृश अधरोंको स्निग्ध केसरकी लालीसे रहित देखा है॥ २५॥
वीरराघवः
59ते तव वक्त्र मितः पूर्वं कदाचिदपि वितिलकं तिलकरहितं न पश्यामि । इदानीन्तु मलिनं विगतहर्षं, संरम्भेणक्रोधावेशेन भीमं भयङ्करम् अविमृष्टमनुज्ज्वलमपेतरागं स्नेहशून्यं तथा ते सुजातौ 60शोभनौस्तनावपि शोकाश्रुभिरुपहतौ च तथा बिम्बफलाकारमधरञ्च विगतः कुङ्कुमपङ्कतुल्यः ताम्बूलरागो यस्मिन् तादृशं पश्यामि । कुत एवं जातमिति शेषः । व्यवसायात्मकबुद्धेरभिव्यक्तेः प्रारम्भदशायामविशदत्वात् तादृशावस्थांतां प्रियानादरनिमित्त क्रोधेनाऽऽत्मानमनलङ्कुर्चतीं शोचन्तीं स्त्रियमिवोत्प्रेक्ष61ते इत्यर्थः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
तन्मे प्रसीद सुहृदः कृतकिल्बिषस्य
स्वैरं गतस्य मृगयां व्यसनातुरस्य।
का देवरं वशगतं कुसुमास्त्रवेग-
विस्रस्त पौंस्नमुशती न भजेत कृत्ये॥
मूलम्
तन्मे प्रसीद सुहृदः कृतकिल्बिषस्य स्वैरं गतस्य मृगयां व्यसनातुरस्य।
का देवरं वशगतं कुसुमास्त्रवेग विस्रस्त पौं62स्नमुशती न भजेत कृत्ये॥ २६ ॥
अनुवाद (हिन्दी)
मैं व्यसनवश तुमसे बिना पूछे शिकार खेलने चला गया, इसलिये अवश्य अपराधी हूँ। फिर भी अपना समझकर तुम मुझपर प्रसन्न हो जाओ; कामदेवके विषम बाणोंसे अधीर होकर जो सर्वदा अपने अधीन रहता है, उस अपने प्रिय पतिको उचित कार्यके लिये भला कौन कामिनी स्वीकार नहीं करती॥ २६॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरञ्जनोपाख्याने षड्विंशोऽध्याय॥ २६॥
वीरराघवः
तस्मात्कृतं किल्बिषमपराधो येन तस्य । किल्बिषमेवाऽऽहस्वैरं स्वातन्त्र्येण त्वामपृष्ट्वा मृगयाङ्गतस्य मे प्रसीद प्रसन्ना भव । देवं देवनं क्रीडां राति ददातीति देवरः कान्तस्तं कामवेगेन विप्रस्तं गतं 63पौंस्नं पौरुषं धैर्यं यस्य तम्, अत एव वशङ्गतं का स्त्री कामयमाना कृत्ये कर्तुं 64योग्येऽर्थे न भजेत ? भजेतैवेत्यर्थः । विवेका भावादप्रसन्नस्य मम स्वप्नावस्थाऽभूत् । अतो विवेकात्मकबुद्धियुक्तोऽहं प्रसन्नो वर्तेय । एव महम्ममाभिमानौ विहाय वशङ्गतं कार्यापादकं मां व्यवसायात्मिका बुद्धिरपीहानुवर्तिष्यत इत्यनुसंहितवा नित्यर्थः ॥ २६ ॥
इति श्रीमद्भागवते चतुर्थस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवत चन्द्रचन्द्रिकायां व्याख्यायां षड्विंशोऽध्यायः ॥ २६ ॥
-
M,Ma,Ms द्विकर्मच ↩︎
-
W omits पञ्चश्वं ↩︎
-
A,B,T add इति भावः ↩︎
-
W omits तथा ↩︎
-
A,B,T add तथाभूतम् ↩︎
-
A,B,T add तथाभूतम् ↩︎
-
M,Ma,Ms हे ↩︎
-
T omits कार्मुकं ↩︎
-
A,B,T विवेकात्मिकां ↩︎
-
A,B,T omit स आदि ↩︎
-
Ma,Ms श्रुति ↩︎
-
M,Ma,Ms मेध्यप ↩︎
-
A,B,T षु तान्नि ↩︎
-
A,B,G,I,J,T,V मानवः ↩︎
-
A,B,T omit नियमेन ↩︎
-
M,Ma,Ms णः कामरू ↩︎
-
A,B,G,I,J,M,Ma,Ms,T ढो नि ↩︎
-
V नन्या नमेध्यांश्च ↩︎
-
V मभ्य ↩︎
-
V ततस्तूरुपरि ↩︎
-
W तो ↩︎
-
W omits बुद्धेः ↩︎
-
W यनक ↩︎
-
W प ↩︎
-
W omits सुदृप्तः ↩︎
-
A,B,T omit गृहिणी ↩︎
-
W omits वर ↩︎
-
A,B,G,I,J,Ms,T षत् ↩︎
-
A,B,T षत् । ↩︎
-
A,T शोधिता ↩︎
-
V व हि ↩︎
-
W शोभन्ते ↩︎
-
A,B,G,I,J,T,W ते ↩︎
-
A,B,G,I,J,M,Ma,Ms,T प्रज्ञां ↩︎
-
V बोध ↩︎
-
A,B,T omit या ↩︎
-
A,B,T add क्षणे क्षणे ↩︎
-
A,B,T प्रज्ञा ↩︎
-
A,B,T ते ↩︎
-
W श ↩︎
-
A,B,G,I,J,T स्नेह ↩︎
-
V चाऽध्यगात् । ↩︎
-
A,B पादिना ↩︎
-
M,Ma मा नु ↩︎
-
A,B,G,I,J,T क्यामन्यत्र; W क्या अन्यत्र । ↩︎
-
V मे ↩︎
-
A,B,T दन्यत्र ↩︎
-
A,B,T त्रैलोक्यात् ↩︎
-
A,B,T omit तं ↩︎
-
A,B,T सम्प्र ↩︎
-
M,Ma हृ ↩︎
-
W omits ते ↩︎
-
A,B,T omit शोभनौ ↩︎
-
W adds स्म ↩︎
-
M,Ma,W स्य; V स्क । ↩︎
-
A,B,T omit णौस्यं ↩︎
-
A,B,T योग्यार्थे ↩︎