[पञ्चविंशोऽध्यायः]
भागसूचना
पुरंजनोपाख्यानका प्रारम्भ
श्लोक-१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
इति सन्दिश्य भगवान् बार्हिषदैरभिपूजितः।
पश्यतां राजपुत्राणां तत्रैवान्तर्दधे हरः॥
मूलम्
इति सन्दिश्य भगवान् 1बार्हिषदैरभिपूजितः।
पश्यतां राजपुत्राणां तत्रैवान्तर्दधे हरः॥ १ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—विदुरजी! इस प्रकार भगवान् शंकरने प्रचेताओंको उपदेश दिया। फिर प्रचेताओंने शंकरजीकी बड़े भक्तिभावसे पूजा की। इसके पश्चात् वे उन राजकुमारोंके सामने ही अन्तर्धान हो गये॥ १॥
वीरराघवः
एवं रुद्रोपदिष्टभगवत्स्तोत्रतदाराधनप्रकारेषु प्रचेतस्सु तपश्चरत्सु प्राचीनबर्हि नारदोप2दिष्टाऽऽध्यात्म्यपारोक्ष्यः पुत्रेष्वारो पितमहीभारो भगवन्तमुपास्य तल्लोकमगादित्याह मुनिः पञ्चभिरध्यायैः । इति उक्तप्रकारं सन्दिश्य उपदिश्य भगवान् रुद्रः बार्हिषदैः सम्यक् पूजितः राजपुत्राणां प्रचेतसां पश्यतां सतां तत्रैवान्तर्हितवान् ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
रुद्रगीतं भगवतः स्तोत्रं सर्वे प्रचेतसः।
जपन्तस्ते तपस्तेपुर्वर्षाणामयुतं जले॥
मूलम्
रुद्रगीतं भगवतः स्तोत्रं सर्वे प्रचेतसः।
जपन्तस्ते तपस्तेपुर्वर्षाणामयुतं जले॥ २ ॥
अनुवाद (हिन्दी)
सब-के-सब प्रचेता जलमें खड़े रहकर भगवान् रुद्रके बताये स्तोत्रका जप करते हुए दस हजार वर्षतक तपस्या करते रहे॥ २॥
वीरराघवः
तत इदं रुद्रेण गीतं भगवतः स्तोत्रं जपन्तः प्रचेतसो वर्षाणामयुतं दशसाहस्र3वर्षपर्यन्तं जले तपस्तेपुः, पाकं पचतीति वन्निर्देशः । तपश्चक्रुरित्यर्थः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
प्राचीनबर्हिषं क्षत्तः कर्मस्वासक्तमानसम्।
नारदोऽध्यात्मतत्त्वज्ञः कृपालुः प्रत्यबोधयत्॥
मूलम्
प्राचीनबर्हिषं क्षत्तः कर्मस्वासक्त4मानसम्।
नारदोऽध्यात्मतत्त्वज्ञः कृपालुः प्रत्यबोधयत्॥ ३ ॥
अनुवाद (हिन्दी)
इन दिनों राजा प्राचीनबर्हिका चित्त कर्मकाण्डमें बहुत रम गया था। उन्हें अध्यात्मविद्या-विशारद परम कृपालु नारदजीने उपदेश दिया॥ ३॥
वीरराघवः
प्राचीनबर्हिषमिति । हे क्षत्तः ! 5विदुर ! तत आत्मवित् नारदो भगवान् आगत्य केवलं कर्मस्वेवासक्तचित्तं प्राचीनबर्हिषं बोधितवान् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
श्रेयस्त्वं कतमद्राजन् कर्मणाऽऽत्मन ईहसे।
दुःखहानिः सुखावाप्तिः श्रेयस्तन्नेह चेष्यते॥
मूलम्
श्रेयस्त्वं कतमद्राजन्! कर्मणाऽऽत्मन ईहसे।
दुःखहानिस्सुखावाप्तिः श्रेयस्तन्नेह चेष्यते॥ ४ ॥
अनुवाद (हिन्दी)
उन्होंने कहा कि ‘राजन्! इन कर्मोंके द्वारा तुम अपना कौन-सा कल्याण करना चाहते हो? दुःखके आत्यन्तिक नाश और परमानन्दकी प्राप्तिका नाम कल्याण है; वह तो कर्मोंसे नहीं मिलता’॥ ४॥
वीरराघवः
बोधनप्रकारमेवाह - श्रेय इति । अत्र प्रचेतसां कथामसमाप्यैवान्तरा प्राचीनबर्हिषः कथाऽवशिष्टा प्रस्तूयते इत्यवगन्तव्यम् । हे राजन् ! आत्मने स्वस्मै कर्मणाऽनुष्ठीयमानेन यज्ञादिकर्मणा कतमत् श्रेयः ? किं वा श्रेयः ? साध्यमीहसे इच्छसि, दुःखनिवृत्तिः 7सुखावाप्तिश्चे दिष्यते तर्हि इह कर्मणि तदुभयं नेष्यते, केवल कर्मणा तदुभयं न साध्यत इत्यर्थः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
न जानामि महाभाग परं कर्मापविद्धधीः।
ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः॥
मूलम्
न जानामि महाभाग! परं कर्मापविद्धधीः।
ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः॥ ५ ॥
अनुवाद (हिन्दी)
राजाने कहा—महाभाग नारदजी! मेरी बुद्धि कर्ममें फँसी हुई है, इसलिये मुझे परम कल्याणका कोई पता नहीं है। आप मुझे विशुद्ध ज्ञानका उपदेश दीजिये, जिससे मैं इस कर्मबन्धनसे छूट जाऊँ॥ ५॥
वीरराघवः
एवं केवलकर्मणामपुरुषार्थसाधनतां प्रतिबोधितः उद्विग्रमना राजाह - नेति । हे महाभाग ! कर्मभिराक्षिप्ता धीर्यस्य सोऽहं परं श्रेयो न जानामि । अतस्त्वं विमलमन्तः करणनैर्मल्यापादकं ज्ञानं मे मह्यं ब्रूहि उपदिश, येन ज्ञानेनाऽहं कर्मरूपात् बन्धनात् बन्ध 9हेतोः मुच्येय मुक्तो भवेयम् ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
गृहेषु कूटधर्मेषु पुत्रदारधनार्थधीः।
न परं विन्दते मूढो भ्राम्यन् संसारवर्त्मसु॥
मूलम्
गृहेषु कूटधर्मेषु पुत्रदारधनार्थधीः।
न परं विन्दते मूढो भ्राम्यन् संसारवर्त्मसु॥ ६ ॥
अनुवाद (हिन्दी)
जो पुरुष कपटधर्ममय गृहस्थाश्रममें ही रहता हुआ पुत्र, स्त्री और धनको ही परम पुरुषार्थ मानता है, वह अज्ञानवश संसारारण्यमें ही भटकता रहनेके कारण उस परम कल्याणको प्राप्त नहीं कर सकता॥ ६॥
वीरराघवः
कूटधर्मेषु अतिबाल्यधर्मेषु अवर्जनीय प्रवृत्तिधर्मेष्विति यावत्; अत एव संसारद्वारेषु भ्राम्यन् ममतां कुर्वन् पुत्रादिषु अर्थधीः पुरुषार्थबुद्धिः, अत एव मूढो मादृशः परं श्रेयो न विन्दते ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
भो भोः प्रजापते राजन् पशून् पश्य त्वयाध्वरे।
संज्ञापिताञ्जीवसङ्घान्निर्घृणेन सहस्रशः॥
मूलम्
भो भोः प्रजापते राजन् पशून् पश्य त्वयाऽध्वरे।
संज्ञापिताञ्जीवसङ्घान्निर्घृणेन सहस्रशः॥ ७ ॥
अनुवाद (हिन्दी)
श्रीनारदजीने कहा—देखो, देखो, राजन्! तुमने यज्ञमें निर्दयतापूर्वक जिन हजारों पशुओंकी बलि दी है—उन्हें आकाशमें देखो॥ ७॥
वीरराघवः
कर्मफलेषु वैराग्यमुत्पाद्य ब्रह्मविद्यामुपदेष्टुं योगानुभावेन यज्ञपशून् प्रत्यक्षं प्रदर्श्याह - भो भो इति । 10हे हे प्रजापते ! राजन् ! अध्यात्मतत्त्व श्रोतृलाभप्रयुक्ताऽऽदरात् सम्भ्रमाद्वा भो भो इति द्विरुक्तिः यद्वा हे प्रजापते ! हे राजन् ! इति विशेषणद्वयाभिप्रायेण द्विरुक्तिः निष्करुणेन त्वयाऽध्वरे संज्ञापितान् मारितान् जीवसङ्घरूपान् पशून् सहस्रशः पश्य ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव।
सम्परेतमयःकूटैश्छिन्दन्त्युत्थितमन्यवः॥
मूलम्
एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव।
सम्परेतमयः कूटैश्छिन्दन्त्युत्थितमन्यवः॥ ८ ॥
अनुवाद (हिन्दी)
ये सब तुम्हारे द्वारा प्राप्त हुई पीड़ाओंको याद करते हुए बदला लेनेके लिये तुम्हारी बाट देख रहे हैं। जब तुम मरकर परलोकमें जाओगे, तब ये अत्यन्त क्रोधमें भरकर तुम्हें अपने लोहेके-से सींगोंसे छेदेंगे॥ ८॥
वीरराघवः
एते पशवः तव वैशसं त्वत्कृतां पीडां स्मरन्तः त्वां सम्परेतं मृतं प्रतीक्षन्ते, कदाऽयं मरिष्यतीति प्रतीक्षन्त इत्यर्थः । यदा च त्वं मरिष्यसि तदैते पशव उत्थितमन्यवः सञ्जातक्रोधा अयः कूटै लेहेवदविशीर्णैः शृङ्गैः त्वां छिन्दन्ति छेत्स्यन्ति ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
अत्र ते कथयिष्येऽमुमितिहासं पुरातनम्।
पुरञ्जनस्य चरितं निबोध गदतो मम॥
मूलम्
अत्र ते कथयि11ष्येऽहमितिहासं पुरातनम्।
पुरञ्जनस्य चरितं निबोध गदतो मम॥ ९ ॥
अनुवाद (हिन्दी)
अच्छा, इस विषयमें मैं तुम्हें एक प्राचीन उपाख्यान सुनाता हूँ। वह राजा पुरंजनका चरित्र है, उसे तुम मुझसे सावधान होकर सुनो॥ ९॥
वीरराघवः
ननु “न वा उ वोतन्म्रियसे न रिष्यसि देवान् (ऋक्सं. 1-162-21) इदेषि पथिभिः सुगेभिः । “यत्र यन्ति सुकृतो नाऽपि दुष्कृतः तत्र त्वा देवः सविता दधातु” (ऋक् सं. 1-162-21) इति यागीय संज्ञपनस्य हिंसात्वाभावश्रवणात् तादात्विकदुःखजनकत्वेऽपि निहीनपशुजन्मनिवर्तनद्वारा स्वर्गोपभोगभोग्य सुन्दरतरजन्म सम्पादकत्वेन तादात्विक दुःखादिजनकौषधपान कर्ण12च्छेदन क्षौरादिकर्म कारयितृ चिकित्सकपित्रादिवद्धितकारिणि संज्ञपितरि पशूनां क्रोधासम्भवाच्च कथमेवमुच्यते इति चेन्न, कर्मफलेषु वैराग्यजननार्थत्वेनान्यपरत्वात्तदुक्तेः । अत एव वैराग्योदयायान्यापदेशमुखेन अध्यात्मोपदेशात्मकेतिहासं प्रस्तोतुं प्रतिजानीते अत्रेति । अत्र निरतिशयपुरुषार्थं तत्साधनाद्यज्ञानरूपे सङ्कटे तत्त्वहित पुरुषार्थ निश्चायकं पुरातनं पुरञ्जनाख्यराजचरित्रात्मकमितिहासं ते तुभ्यं कथयिष्ये । गदतः इतिहासं सम्यक् कथयतः मम मत्तः सकाशात् निबोध अवहितमनाः श्रुणु ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
आसीत्पुरञ्जनो नाम राजा राजन् बृहच्छ्रवाः।
तस्याविज्ञातनामाऽऽसीत्सखाविज्ञातचेष्टितः॥
मूलम्
आसीत्पुरञ्जनो नाम राजाराजन् बृहच्छ्रवाः।
तस्याविज्ञातनामाऽऽसीत्सखा विज्ञातचेष्टितः॥ १० ॥
अनुवाद (हिन्दी)
राजन्! पूर्वकालमें पुरंजन नामका एक बड़ा यशस्वी राजा था। उसका अविज्ञात नामक एक मित्र था। कोई भी उसकी चेष्टाओंको समझ नहीं सकता था॥ १०॥
वीरराघवः
एवं प्रतिज्ञायेतिहासं प्रस्तौति - आसीदिति । अत्रान्यापदेशमुखेनाध्यात्मोपदेशः क्रियते । ननु साक्षादेवाध्यात्मोपदेशः किं न क्रियते ? साक्षात्तदुपदेशेऽपि वैराग्योदय सम्भवात्; उच्यते - देहात्माभिमानस्वतन्त्रात्माभिमान ग्रस्तस्य तत्त्वहितपुरुषार्थाद्यनभिज्ञस्य वैषयिकमेव सुखं परमं पुरुषार्थमभिमन्यमानस्य हठात्तत्त्वोपदेशः क्रियमाणोऽपि न सुप्रतिष्ठितः स्यादित्यालोच्य चिरमभ्यस्तस्त्रीपुंनपुंसक गर्भजन्मजरामरण जाग्रत्स्वप्नसुषुप्त्याद्यात्मक संसारमनुवर्ण्य तत्र दोषानुद्धाट्य हेयताबुद्ध्युत्पादनद्वारा क्रियमाणस्तत्त्वोपदेशः सुप्रतिष्ठितः स्यादिति । तत्र जीवो राजत्वेन शरीरं पुरत्वेन परमात्मा सखित्वेन बुद्धिर्भार्या13त्वेनेति रूप्यते । तत्र पुस्ञ्जनादीन् स्वयमेवेतः पञ्चमाध्याये व्याख्यास्यति, तथाऽपि सुखग्रहणाय 14यथोपदेशात्14 किञ्चिद्व्याख्यास्यामः । तत्र हे राजन् ! पुरं 15शरीरं व्यनक्ति जनयति निर्मापयतीति पुरञ्जनः । कश्चिद्राजा स्वकर्मभिः पुरस्स्थानीय शरीरोत्पादक जीवस्थानीयो विवक्षितः । आसीदित्यनेन 16रूपणीये जीवेऽनादिसत्ता विवक्षिता । तं विशिनष्टि - 17बृहच्छ्रवाः17 बृहद्विस्तृतं श्रवः कीर्तिर्यस्या “निवीणमयमेवाऽयमात्मा” (वि.पु.6-7-22) 18प्रजापतिवाक्ये18 “अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः ॥” (छा. उ. 8-7-1) “अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥” (भ.गी. 2-24) इत्यादिश्रुतिस्मृति प्रसिद्ध कल्याणगुण19गणविशिष्ट इत्यर्थः । तस्य पुरञ्जनस्य अविज्ञातं नामधेयं यस्य स तथाभूतः कश्चिद्विज्ञातचेष्टितः सखा आसीत् । अत्र परमात्मस्थानीयं मित्रं विवक्षितम् । परमात्मा हि जीवस्य मित्रं श्रूयते “माता पिता भ्राता निवासः शरणं सुहृद्गति श्च नारायणः”, (सुबा. उ. 6-1) इति । एवं हिताचरणशीलं सखायं परमात्मानं तदाज्ञामतिलङ्घ्यायं संसा20रीजीवः नामतोऽपि न जानाति । किमुत स्वरूपरूपगुणविभूतिभिरिति ख्यापनाय अविज्ञातनामेत्युक्तम् । यद्वा सखेत्यनेनाभिप्रेतं यद्दोषानवेक्षणेन हिताचरणशीलत्वं तत्स्थापयितुमविज्ञातनामेत्युक्तम् । अविज्ञात इति “गतिबुद्धि शब्दार्थेभ्यश्च” (अष्टा. 3-2-188) इति कर्तरिक्तः, अविज्ञातेत्यर्थः । “अविज्ञाता सहस्रांशुः, (विष्णुसहस्रनामस्तोत्रे) इत्यविज्ञातृशब्दो हि नामसहस्रे भगवन्नामतया विनियुक्तः । तत्र स्वाश्रितान् स्वसमत्वेन अनुसन्धाय तद्धितैषणपरोऽपारकारुण्यपरवश आश्रितदोषान्न जानातीत्यविज्ञातेत्यभियुक्तैर्व्याख्यातम् । एवञ्च विपुलापराधवत्त्वेऽपि संश्रयणमात्ररूप किञ्चिदानुकूल्येनरिरक्षिषुरित्यर्थः । इह तु अविज्ञातशब्दः कर्तृसाधनः क्तान्त इति विशेषः । अविज्ञातचेष्टित इति च्छेदे जीवेनाविज्ञातं चेष्टितमन्तः प्रविश्य नियमनादिरूपं यस्य स इत्यर्थः । कथा पक्षे तु अन्यैरविज्ञातचेष्टित इत्यर्थः । विज्ञात चेष्टित इति च्छेदे तु प्रसिद्धं जगद्व्यापाररूपं चेष्टितं यस्य सः । यद्वा, विज्ञातं चेष्टितं जीवप्रेरणादिलक्षणं यस्य सः । जीवपारतन्त्य्रस्य अनुभवसिद्धत्वादिति भावः । कथा पक्षे तु राजवत्सखाऽपि विपुल21कीर्तिरित्यर्थः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
सोऽन्वेषमाणः शरणं बभ्राम पृथिवीं प्रभुः।
नानुरूपं यदाविन्ददभूत्स विमना इव॥
मूलम्
सोऽन्वेषमाणः शरणं बभ्राम पृथिवीं प्रभुः।
नाऽनुरूपं यदाऽविन्ददभूत्स विमना इव॥ ११ ॥
अनुवाद (हिन्दी)
राजा पुरंजन अपने रहनेयोग्य स्थानकी खोजमें सारी पृथ्वीमें घूमा; फिर भी जब उसे कोई अनुरूप स्थान न मिला, तब वह कुछ उदास-सा हो गया॥ ११॥
वीरराघवः
स पुरञ्जनः प्रभुः करणादिमत्वाच्छरणं भोगायतनं शरीरम् 22कथापक्षे नि23वासस्थान मन्वेषमाणः पृथिवीं कर्मफलोदय तद्भोगायतन प्रकृति परिणामरूपं ब्रह्माण्डं बभ्राम, देवादिस्थावरान्तशरीरेष्वनुप्रविष्टः प्रकृतिमण्डले समसरदित्यर्थः । कथापक्षे भूमण्डलस्य पुराण्यनुप्रविश्य तत्र 24तत्र कञ्चित्कालं निवसन् कृत्स्नां पृथिवीं चचारेत्यर्थः । यदा च स्वस्यानुरूपं शरणं देवमनुष्यादिशरीरं नाविन्दत् नालभत, किन्तु तिर्यक्पादपादि शरीरमविन्दत् तदा विमना इव बभूव । पादपादिशरीरेषु चैतन्यानभिव्यक्तेर्विमना 25इवेत्युक्तनिश्चैतन्य इवाऽभूदित्यर्थः, न तु दुःखितमना इति देहात्माभिमानिनो जीवस्य निहीनशरीरस्याऽपि प्रीतिविषयत्वात् । कथापक्षे तु दुःखितमना 26इवेत्यर्थः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
न साधु मेने ताः सर्वा भूतले यावतीः पुरः।
कामान् कामयमानोऽसौ तस्य तस्योपपत्तये॥
अनुवाद (हिन्दी)
उसे तरह-तरहके भोगोंकी लालसा थी; उन्हें भोगनेके लिये उसने संसारमें जितने नगर देखे, उनमेंसे कोई भी उसे ठीक न जँचा॥ १२॥
वीरराघवः
कामान् भोग्यान् शब्दादीन् सर्वानपि कामयमानोऽसौ पुरञ्जनः तस्य तस्य शब्दादेर्विषयस्योपपत्तये लब्धये भूतले यावत्यः पुरः तास्सर्वाः पुरः साधु न मेने । शब्दादिसर्वविषयोपभोगोपयुक्तशरीराणि कामयमानः केषु चिच्छरीरेषु केषाञ्चिदिन्द्रियाणा मनभिव्यक्तत्वा दनभिव्यक्तकतिपयेन्द्रियशरीराण्यनुप्रविशन् तत्र सर्वविषयालाभात्तानि न साधुमेन इत्यर्थः । कथापक्षे तु तत्र 30पुरि केषाञ्चिद्भोग्यवस्तूनां सत्त्वेऽपि सर्वेषामभावान्न साधुमेन इत्यर्थः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
स एकदा हिमवतो दक्षिणेष्वथ सानुषु।
ददर्श नवभिर्द्वार्भिः१ पुरं लक्षितलक्षणाम्॥
पादटिप्पनी
१. प्रा० पा०—द्वार्रैः।
अनुवाद (हिन्दी)
एक दिन उसने हिमालयके दक्षिण तटवर्ती शिखरोंपर कर्मभूमि भारतखण्डमें एक नौ द्वारोंका नगर देखा। वह सब प्रकारके सुलक्षणोंसे सम्पन्न था॥ १३॥
वीरराघवः
34अथ एकदा सुकृतविशेषपरिपाकदशायां हिमवतो दक्षिणेषु सानुषु कर्म तत्फलोत्पत्तियोग्येषु कर्मक्षेत्रेषु भारतवर्षेषु इत्यर्थः, पुरं मनुष्यशरीरं लक्षितानि दृष्टानि सर्वाणि लक्षणानि यस्यां ताम् अन्धपङ्गुत्वादिदोषरहितामित्यर्थः । कथापक्षे वक्ष्यमाण प्राकारादिसर्वचिह्नोपयुक्तां नवभिर्द्वार्भिः नवभीरन्ध्रैः चक्षुर्द्वय श्रोत्रद्वय नासिका द्वय मुख पायूपस्थरूपै रुपलक्षितां, पक्षान्तरे स्पष्टम् । 35ददर्श अभिव्यक्तसर्वेन्द्रिय सर्वविषयभोगोपयुक्तं मनुष्यशरीरमुपलब्धवानित्यर्थः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
प्राकारोपवनाट्टालपरिखैरक्षतोरणैः।
स्वर्णरौप्यायसैः शृङ्गैः संकुलां सर्वतो गृहैः॥
अनुवाद (हिन्दी)
सब ओरसे परकोटों, बगीचों, अटारियों, खाइयों, झरोखों और राजद्वारोंसे सुशोभित था और सोने, चाँदी तथा लोहेके शिखरोंवाले विशाल भवनोंसे खचाखच भरा था॥ १४॥
वीरराघवः
कानि लक्षणानि इति विवित्सायां तानि वदं स्तां पुरीमनुवर्णयति प्राकारेत्यादि त्रिभिः । यद्यप्यत्र प्राकारादिसाधर्म्येण रूपणीयाः पदार्थाः शरीरे न सन्ति, तथाऽपि किञ्चित् सादृश्यमवलम्ब्य कथासौन्दर्याय प्राकारादीन्यनुवर्ण्यन्ते । परिखैरिति पुंस्त्व मार्षम् । अन्यथा परवल्लिङ्गतायां परिखाभिरिति स्यात् । अक्षा गवाक्षाः, अत्र त्वगादयः प्राकारत्वेन रूप्यन्ते । रोमपंक्तिरूपवनम् । स्कन्धोपरिभागोऽट्टालः, रुधिरौघः परिखा, नवरन्ध्राण्यक्षाः, अक्षि पक्ष्म तोरणं, स्वर्णादि शृङ्गैः शिखरैर्युक्ता ये ग्रहास्तैः सङ्कुलां व्याप्ताम्, अत्र मूलाधारादीनि षट्चक्राणि गृहत्वेन रूप्यन्ते । राज38सादिस्वभावाः शृङ्गत्वेन विवक्षिताः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
नीलस्फटिकवैदूर्यमुक्तामरकतारुणैः।
क्लृप्तहर्म्यस्थलीं दीप्तां श्रिया भोगवतीमिव॥
मूलम्
नीलस्फटिकवै39दूर्य मुक्तामरकतारुणैः।
क्लृप्तहर्म्यस्थलीं दीप्तां श्रिया भोगवतीमिव॥ १५ ॥
अनुवाद (हिन्दी)
उसके महलोंकी फर्शें नीलम, स्फटिक, वैदूर्य, मोती, पन्ने और लालोंकी बनी हुई थीं। अपनी कान्तिके कारण वह नागोंकी राजधानी भोगवतीपुरीके समान जान पड़ता था॥ १५॥
वीरराघवः
नीलादिभिः क्लृप्ता हर्म्यस्थली यस्यां, हर्म्यस्थलीति हृदयं विवक्षितम् । हृदयगतैकशतनाड्यः केसरा वा नीलादिभावेन रूप्यन्ते । अत 40एव नागाकार नाडीभिः व्याप्तत्वाद्भोगवतीं 41नागानां पुरीमिव श्रिया दीप्ताम् ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
सभाचत्वररथ्याभिराक्रीडायतनापणैः।
चैत्यध्वजपताकाभिर्युक्तां विद्रुमवेदिभिः॥
मूलम्
सभाचत्वररथ्याभिराक्रीडायतनापणैः।
चैत्यध्वजपताकाभिर्युक्तां विद्रुमवेदिभिः॥ १६ ॥
अनुवाद (हिन्दी)
उसमें जहाँ-तहाँ अनेकों सभा-भवन, चौराहे, सड़कें, क्रीडाभवन, बाजार, विश्राम-स्थान, ध्वजा-पताकाएँ और मूँगेके चबूतरे सुशोभित थे॥ १६॥
वीरराघवः
सभा समाजस्थानं, चत्वरं चतुष्पथः, रथ्या राजमार्गः, आक्रीडायतनं द्यूतादिस्थानम्, आपणो हट्टः, चैत्यं जनानां वि42श्रमस्थानं, ध्वजेषु पताकाः ताभिर्विद्रुमवेदिकाभिश्च युक्ताम् । अत्र हर्म्यस्थलीत्वेन रूपितमेव हृदयं 43पुनः सभाचत्वर क्रीडायतनगुणयोगात् सभादिभावेन रूप्यते । “हृदि ह्यय मात्मा प्रतिष्ठितः” इति जीवस्य हृदयस्थानत्वश्रवणात् जीवाश्रितत्वाच्चेन्द्रियप्राणानां सर्वेन्द्रिय44कन्दररूपत्वात् हृदयस्य सभारूपत्वात्तत एव चत्वररूपत्वमपि, परमात्मनः क्रीडास्थानत्वात् क्रीडायतनं च, चक्षुरादीन्द्रियस्थानानि हट्टः । तेभ्यो हि शब्दादीन्याकृष्यानुभवति पुरञ्जनः । सुषुम्णा रथ्या, राजवद्गच्छतो जीवस्य मुक्तिमार्गत्वात् सुषुम्णायाः पुरीतत् चैत्यं, जीवस्य सुषुप्तौ वि45श्रमस्थानत्वात् आधारादिचक्रस्थाः कर्णिकाः विद्रुमवेदिकाः ध्वजपताकाः करतल पादतलानि ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
पुर्यास्तु बाह्योपवने दिव्यद्रुमलताकुले।
नदद्विहङ्गालिकुलकोलाहलजलाशये॥
मूलम्
पुर्यास्तु बाह्योपवने दिव्यद्रुमलताकुले।
नदद्विहङ्गालिकुल कोलाहल जलाशये॥ १७ ॥
अनुवाद (हिन्दी)
उस नगरके बाहर दिव्य वृक्ष और लताओंसे पूर्ण एक सुन्दर बाग था; उसके बीचमें एक सरोवर सुशोभित था। उसके आस-पास अनेकों पक्षी भाँति-भाँतिकी बोली बोल रहे थे तथा भौंरे गुंजार कर रहे थे॥ १७॥
वीरराघवः
एवं देहं पुरभावेन रूपयित्वा विषयवर्गं देहानुबन्धि कलत्रापत्यादिवर्गं बाह्योपवनत्वेन रूपयति - पुर्या इति । बाह्योपवने प्रमदां ददर्शेति चतुर्थेनाऽन्वयः । दिव्य द्रुमाश्लिष्ट लताभिराकुले नदतां विहनकुलानां अळिकुलानां च कोलाहलो येषु ते जलाशया यस्मिन् तस्मिन् ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
हिमनिर्झरविप्रुष्मत्कुसुमाकरवायुना।
चलत्प्रवालविटपनलिनीतटसम्पदि॥
अनुवाद (हिन्दी)
सरोवरके तटपर जो वृक्ष थे, उनकी डालियाँ और पत्ते शीतल झरनोंके जलकणोंसे मिली हुई वासन्ती वायुके झकोरोंसे हिल रहे थे और इस प्रकार वे तटवर्ती भूमिकी शोभा बढ़ा रहे थे॥ १८॥
वीरराघवः
हिमनिर्झराणां विप्रुषः बिन्दवः तद्वता कुसुमा करसम्बन्धिना वायुना चलन्तः प्रवालविटपाः शाखा येषां तैः द्रुमैः नलि48नीनां तटेषु सम्पत् समृद्धिर्यस्मिन् ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
नानारण्यमृगव्रातैरनाबाधे मुनिव्रतैः।
आहूतं मन्यते पान्थो यत्र कोकिलकूजितैः॥
मूलम्
नानारण्यमृगव्रातैरनाबाधे मुनिव्रतैः।
आहूतं मन्यते पान्थो यत्र कोकिलकूजितैः॥ १९ ॥
अनुवाद (हिन्दी)
वहाँके वन्य पशु भी मुनिजनोचित अहिंसादि व्रतोंका पालन करनेवाले थे, इसलिये उनसे किसीको कोई कष्ट नहीं पहुँचता था। वहाँ बार-बार जो कोकिलकी कुहू-ध्वनि होती थी, उससे मार्गमें चलनेवाले बटोहियोंको ऐसा भ्रम होता था मानो वह बगीचा विश्राम करनेके लिये उन्हें बुला रहा है॥ १९॥
वीरराघवः
नानाविधैर्वन्यमृगसमूहरनाबाधे तत्कृतबाधारहिते, तत्र हेतुः मुनिव्रतैरहिंस्रैर्यत्रोपवने कोकिलकूजितैः पान्थः स्वत्मानमाहूतमिव मन्यते । एवं विषयवर्गो बाह्यो पवनत्वेन रूपितः, तस्य शरीराद्वहिष्ठत्वात् कोलाहलशब्देन शब्दस्य, कुसुमाकर वायुशब्दाभ्यां गन्धस्पर्शयोः, चलप्रवालेति सौन्दर्यकथनेन रूपस्य जलाशय हिमनिर्झर नलिनीशब्दै रसस्य च प्रत्यभिज्ञानाच्च तद्विशेषाः स्रक्चन्दनादयो दिव्यलतादिभावेन रूप्यन्ते । यद्वा, देहानुबन्धिवर्गोऽत्र बाह्योपवनत्वेन रूप्यते । तत्र संसारी पुमान् द्रुमः, द्रुमवत्तद्भाव विकारात्मक देहसंसृष्टत्वात् तमाश्रिताः स्त्रियो लताः द्रुमस्य लता इति षष्ठीसमासः, तदाश्रिता न्यपत्यानि विहङ्गकुलं, योषित्संगिनोऽलिकुलमपत्यादीनां मधुरालापाः कोलाहलः, वापीकुल्या तटाकादीन्याजीविकादिरूपाणि जलाशय हिमनिर्झरनलिन्यादिरूपेण रूप्यन्ते । कुसुमाकरशब्देन पुष्पवाटिकादीनि विवक्षितानि । चलत्प्रवालविटपेत्याम्र पनसादि फलजाति वृक्षाः विवक्षिताः । आरण्यक मृगव्रातैरित्यनेन श्याल श्वशुरादयो बान्धवा विवक्षिताः । ते ह्यारण्यकमृगवत्प्राणतुल्य धनापहारिणः, धनापहारित्वमपि तेषां न हिंसया, किन्तु सान्त्वनेनेति द्योतयितुं मुनिव्रतैरिति विशेषणम् । यत्र यस्मिन्नेवम्भूते बाह्योपवने कोकिल कूजित तुल्य कलत्रापत्यादिमधुरोक्तिभिः पान्थः निवृत्तिमार्गनिष्ठोऽपि स्वात्मानमाहूतमिव देहानुबन्धिवर्गे आसक्तिं प्रापितमिव मन्यते ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
यदृच्छयाऽऽगतां तत्र ददर्श प्रमदोत्तमाम्।
भृत्यैर्दशभिरायान्तीमेकैकशतनायकैः॥
मूलम्
यदृच्छयाऽऽगतां तत्र ददर्श प्रमदोत्तमाम्।
भृत्यैर्दशभिरायान्तीमेकैकशतनायकैः॥ २० ॥
अनुवाद (हिन्दी)
राजा पुरंजनने उस अद्भुत वनमें घूमते-घूमते एक सुन्दरीको आते देखा, जो अकस्मात् उधर चली आयी थी। उसके साथ दस सेवक थे, जिनमेंसे प्रत्येक सौ-सौ नायिकाओंका पति था॥ २०॥
वीरराघवः
तत्रोपवने आसक्तां बुद्धिं यदृच्छयोपगतां ददर्श । यद्यप्यत्र जीवस्य बुद्ध्या सह सम्बन्धदशायां बुद्धेर्बाह्योपवन रूप देहानुबन्धिवर्गसम्बन्धाभावेन बुद्धेः तदासक्तिर्नाऽस्ति । तथाऽपि भविष्य देहानुबन्धिवर्गासक्त्यभिप्रायेण कथासौन्दर्यायैवं वर्णितमित्यवगन्तव्यम् । यदृच्छयाऽऽगतामित्यनेन जीवबुद्धयोः सम्बन्धो न स्वसङ्कल्पकृतः, किन्तु दैवकृत इति सूच्यते । या प्राकारादियुक्ता पुरी, यस्याः पुर्याः बाह्योपवने कोकिलकूजितैः पान्थः आत्मानमाहूतं मन्यते, तां यदृच्छयाऽऽगतां पुरीं तत्रोपवने प्रमदां च ददर्शेति वाऽन्वयप्रकारः । अस्मिन्पक्षे मानुषदेहस्य दुर्लभत्वं सूचितं, कथा पक्षे तु स्पष्टोऽर्थः । प्रमदोत्तमां विशिनष्टि दशभिः ज्ञानकर्मेन्द्रियैरेकैकं 49प्रत्येकं शत मनन्ता वृत्तयः तासां नायकैः पतिभिः भृत्यैः सहऽऽयान्तीमभि50मुखं गच्छन्तीम् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
पञ्चशीर्षाहिना गुप्तां प्रतीहारेण सर्वतः।
अन्वेषमाणामृषभमप्रौढां कामरूपिणीम्॥
मूलम्
पञ्चशीर्षाहिना गुप्तां 51प्रतीहारेण सर्वतः।
अन्वेषमाणामृषभमप्रौढां कामरूपिणीम्॥ २१ ॥
अनुवाद (हिन्दी)
एक पाँच फनवाला साँप उसका द्वारपाल था, वही उसकी सब ओरसे रक्षा करता था। वह सुन्दरी भोली-भाली किशोरी थी और विवाहके लिये श्रेष्ठ-पुरुषकी खोजमें थी॥ २१॥
वीरराघवः
पञ्च शीर्षाणि 52वृत्तयो यस्य तेन अहिना प्राणेन प्रतिहारेण पालकेन, अहेर्वायु भक्ष्यत्वेन तत्प्रचुरत्वा दहिनेत्युक्तम्, सर्वतो गुप्तां रक्षितां सर्वेषामिन्द्रियाणां प्राणाधीनवृत्तित्वा दहिना गुप्तामित्युक्तम् । ऋषभं पतिम् अन्वेषमाणाम्, अनेन चेतनैकधार्यत्वं तत्प्रवर्त्यत्वञ्च विवक्षितम् । अप्रौढामिति बुद्धेश्चेतनेन सह सम्बन्धदशायां अप्रौढप्रमदेव कार्याक्षमत्वेऽपि तद्धोग्यताऽस्तीति सूचयति । कामरूपिणी मित्यनेन गन्धरसादिज्ञान भेदभिन्नतां सूचयति ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
सुनासां सुदतीं बालां सुकपोलां वराननाम्।
समविन्यस्तकर्णाभ्यां बिभ्रतीं कुण्डलश्रियम्॥
मूलम्
सुनासां सुदतीं बालां सुकपो53लां वराननाम्।
समविन्यस्तकर्णाभ्यां बिभ्रतीं कुण्डलश्रियम्॥ २२ ॥
अनुवाद (हिन्दी)
उसकी नासिका, दन्तपंक्ति, कपोल और मुख बहुत सुन्दर थे। उसके समान कानोंमें कुण्डल झिलमिला रहे थे॥ २२॥
तदेव प्रपञ्चयति - सुनासामिति । बुद्धिवृत्तयो हि गन्धरसादिज्ञानभेदेन तदवान्तरभेदेन च बहुविधाः ताभिर्बुद्धिवृत्तिभिस्तस्याः सु54नासत्वादि रूप्यते । सुनासां शोभना नासा गन्धात्मिका घ्राणेन्द्रियवृत्तिः यस्यास्तां, एवमग्रेऽपि । दन्तकपोलानन श्रोणिपादस्तनादि 55व्यापार जन्यहर्षादीनामपि बुद्धिवृत्तित्वात्ताभिः सुदन्तत्वादि रूपणं क्रियते । नासिका दन्तकपोलाननकर श्रोणिपादस्तनादि55 विशेषणभूतानां शोभनत्व समविन्यस्तत्वादीनामपि स्वविशेष्यभूतनासिकादेर्गन्धादिवृत्तिद्वारा बुद्धिविशेषणत्वं द्रष्टव्यम् । समं विन्यस्तौ रचितौ कर्णौ ताभ्यां कुण्डलशोभां दधतीम् । “अन्नमयं हि सौम्य ! मनः" (छान्द. उ. 6-5-4) इति “यत्कृष्णं तदन्नस्य” इत्यादि श्रुत्यनुसारेण श्यामामित्यक्तम् । कुण्डलश्रीसम्बन्धः कुण्डलालङ्कृत कर्णाधिकरण श्रोत्रेन्द्रिय श्रवणवृत्तिद्वारा ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
पिशङ्गनीवीं सुश्रोणीं श्यामां कनकमेखलाम्।
पद्भ्यां क्वणद्भ्यां चलतीं नूपुरैर्देवतामिव॥
मूलम्
पिशङ्गनीवीं सुश्रोणीं श्यामां कनकमेखलाम्।
पद्भ्यां क्वणद्भ्यां 56चलतीं नूपुरैर्देवतामिव॥ २३ ॥
अनुवाद (हिन्दी)
उसका रंग साँवला था। कटिप्रदेश सुन्दर था। वह पीले रंगकी साड़ी और सोनेकी करधनी पहने हुए थी तथा चलते समय चरणोंसे नूपुरोंकी झनकार करती जाती थी। अधिक क्या, वह साक्षात् कोई देवी-सी जान पड़ती थी॥ २३॥
वीरराघवः
एवं पिशङ्गनीवी कनकमेखलासम्बन्धोऽपि स्तननाभि नितम्ब व्यापारजन्य हर्षादिवृत्तिद्वारेति द्रष्टव्यम् । नूपुरैः क्वणद्भयां पद्भ्यां चलन्तीं नूपुरगमनसम्बन्धोऽपि पादेन्द्रियवृत्तिद्वारा, कथापक्षे स्पष्टम् । नूपुरैरिति बहुवचनं पादाङ्गुलीयकानामुपलक्षणमन्यथा नूपुराभ्यामिति श्रूयेत ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ।
वस्त्रान्तेन निगूहन्तीं व्रीडया गजगामिनीम्॥
मूलम्
स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ।
वस्त्रान्तेन निगूहन्ती व्रीडया गजगामिनीम्॥ २४ ॥
अनुवाद (हिन्दी)
वह गजगामिनी बाला किशोरावस्थाकी सूचना देनेवाले अपने गोल-गोल समान और परस्पर सटे हुए स्तनोंको लज्जावश बार-बार अंचलसे ढकती जाती थी॥ २४॥
वीरराघवः
व्यञ्जितं कैशोरं यौवनोपक्रमो याभ्यां समौ च तौ वृत्तौ च निर्गतावन्तरात् संश्लिष्टा वित्यर्थः । स्तनौ व्रीडया लज्जया वस्त्रान्तेन निगूहन्तीं 57छादयन्तीं57 गज इव गच्छतीति गजगामिनी ताम् ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
तामाह ललितं वीरः सव्रीडस्मितशोभनाम्।
स्निग्धेनापाङ्गपुङ्खेन स्पृष्टः प्रेमोद्भ्रमद्भ्रुवा॥
मूलम्
तामाह ललि58तं वीरः सव्रीडस्मितशोभ59नाम्।
स्निग्धेनापाङ्गपुङ्खेन स्पृष्टः 60प्रेमोद्भ्रमद्भ्रुवा॥ २५ ॥
अनुवाद (हिन्दी)
उसकी प्रेमसे मटकती भौंह और प्रेमपूर्ण तिरछी चितवनके बाणसे घायल होकर वीर पुरंजनने लज्जायुक्त मुसकानसे और भी सुन्दर लगनेवाली उस देवीसे मधुरवाणीमें कहा॥ २५॥
वीरराघवः
व्रीडया सहितं यत् स्मितं तेन, शोभनां सुन्दरां प्रति वीरः पुरञ्जनः प्रेम्णोच्चैर्भ्रमन्त्यौ भ्रुवौ यस्मिंस्तेन स्निग्धेन, अपाङ्गः एव पुङ्गो मूलप्रान्तो यस्य कटाक्षबाणस्य तेन स्पृष्टो विद्धः सललितं यथा तथा आह । तयोः संवादोक्तिः संबन्धदार्ढ्यायेति ज्ञातव्यम् ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
का त्वं कञ्जपलाशाक्षि कस्यासीह कुतः सति।
इमामुपपुरीं भीरु किं चिकीर्षसि शंस मे॥
मूलम्
का त्वं कञ्जपलाशाक्षि कस्यासीह कुतः सति।
इमामुपपुरीं भीरु 61किं चिकीर्षसि शंस मे॥ २६ ॥
अनुवाद (हिन्दी)
‘कमलदललोचने’! मुझे बताओ तुम कौन हो, किसकी कन्या हो? साध्वी! इस समय आ कहाँसे रही हो, भीरु! इस पुरीके समीप तुम क्या करना चाहती हो?॥ २६॥
वीरराघवः
हे पद्मदललोचने ! का त्वं ? किंजातीयकेति प्रश्नः कस्य सम्बन्धिनी पुत्री असि ? कुतः स्थानादिह आगतासि ? हेसति ! इमामुपपुरीम् अस्याः पुर्याः समीपे किं कर्तुमिच्छसि ? ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
क एतेऽनुपथा ये त एकादश महाभटाः।
एता वा ललनाः सुभ्रु कोऽयं तेऽहिः पुरःसरः॥
मूलम्
क एतेऽनुपथा ये त एकादश महाभटाः।
एता वा ललनाः 62सुभ्रु कोऽयं तेऽहिः पुरस्सरः॥ २७ ॥
अनुवाद (हिन्दी)
सुभ्रु! तुम्हारे साथ इस ग्यारहवें महान् शूरवीरसे संचालित ये दस सेवक कौन हैं और ये सहेलियाँ तथा तुम्हारे आगे-आगे चलनेवाला यह सर्प कौन है?॥ २७॥
वीरराघवः
एतेऽनुपथा अनुवर्तिनः, क एते एकादश महाभटाः बुद्धिमनसो वृत्ति 63कृतमेव भेदं आश्रित्य मनसा सह इन्द्रियाणां एकादशत्वात् एकादशो महाभटो मनोरूपो येषां ते । क एत इत्युक्तम् । हे 64सुभ्रु ! एता ललनाः का इति वृत्त्यभिप्रायेण प्रश्नः, तासां आनन्त्यात् एता इति निस्सङ्ख्याको निर्देशः । पुरस्सरति गच्छतीति पुरस्सरोऽहिः सर्पः कः ? प्राणे व्याप्रियमाणै तदनु सर्वेन्द्रिय व्यापारात् पुरस्सर इत्युक्तम् । बुद्धिस्वरूप तत्कारण तत्सम्बन्धकारण तत्कार्य विवित्सु प्राचीनबर्हिरादि लोकाभिप्रायकं कात्वमिति प्रश्नकथनम् । 65ज्ञानकर्मोभयेन्द्रियाणां प्रवृत्तिः बुद्ध्यायत्ता उत स्वत इति संशयं निरास चिकीर्षाभिप्रायकम् । क एते अनुपथा इति प्रश्नकथनम्65 । बुद्धिरपि प्राणायत्तप्रवृत्ति ख्यापनाय कोऽयं तेऽहिः पुरस्सर इति प्रश्नोक्तिः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
त्वं ह्रीर्भवान्यस्यथ वाग्रमा पतिं
विचिन्वती किं मुनिवद्रहो वने।
त्वदङ्घ्रिकामाप्तसमस्तकामं
क्व पद्मकोशः पतितः कराग्रात्॥
मूलम्
त्वं ह्रीर्भवान्यस्यथ वाग्रमा पतिं विचिन्वती किं मुनिवद्रहो वने।
66त्वदङ्घ्रि67कामाप्तसमस्त68कामं क्व पद्मकोशः पतितः कराग्रात्॥ २८ ॥
अनुवाद (हिन्दी)
सुन्दरि! तुम साक्षात् लज्जादेवी हो अथवा उमा, रमा और ब्रह्माणीमेंसे कोई हो? यहाँ वनमें मुनियोंकी तरह एकान्तवास करके क्या अपने पतिदेवको खोज रही हो? तुम्हारे प्राणनाथ तो ‘तुम उनके चरणोंकी कामना करती हो’, इतनेसे ही पूर्णकाम हो जायँगे। अच्छा, यदि तुम साक्षात् कमलादेवी हो, तो तुम्हारे हाथका क्रीड़ाकमल कहाँ गिर गया॥ २८॥
वीरराघवः
त्वं ह्रीरिति । यस्याः तवाङ्घ्रिकामनयैव आप्ताः समस्ताः कामा यस्य तं पतिं मुनिवद्वने रहः एकान्ते विचिन्वती, त्वं वराहं विचिन्वती ह्रीः भूमिः, उत शङ्करं विचिन्वती भवानी, आहोस्वित् ब्रह्माणं विचिन्वती वाक् सरस्वती, अथवा विष्णुं विचिन्वती रमालक्ष्मी 69असि! यदि रमा तर्हि पद्मकोशः कराग्रात् क्व पतितः ? कराग्रे पद्मकोशाभावात् न रमेत्यर्थः। एवं रमादिरूपेण उत्प्रेक्षाक्तिः रमादीनां विष्ण्वादिभिरिव अनादिदृढतर सम्बन्ध ख्यापनाय कथासौन्दर्याय वा । एवमग्रेऽपि, अनुपयुक्तं 70कथासौन्दर्यायेति द्रष्टव्यम् ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
नासां वरोर्वन्यतमा भुविस्पृक्
पुरीमिमां वीरवरेण साकम्।
अर्हस्यलङ्कर्तुमदभ्रकर्मणा
लोकं परं श्रीरिव यज्ञपुंसा॥
मूलम्
नासां वरोर्वन्यत71माऽसि भुविस्पृक् पुरीमिमां वीरवरेण साकम्।
अर्हस्यलङ्कर्तुमदभ्रकर्मणा लोकं परं श्रीरिव यज्ञपुंसा॥ २९ ॥
अनुवाद (हिन्दी)
सुभगे! तुम इनमेंसे तो कोई हो नहीं; क्योंकि तुम्हारे चरण पृथ्वीका स्पर्श कर रहे हैं। अच्छा, यदि तुम कोई मानवी ही हो, तो लक्ष्मीजी जिस प्रकार भगवान् विष्णुके साथ वैकुण्ठकी शोभा बढ़ाती हैं, उसी प्रकार तुम मेरे साथ इस श्रेष्ठ पुरीको अलंकृत करो। देखो, मैं बड़ा ही वीर और पराक्रमी हूँ॥ २९॥
वीरराघवः
एवं ह्र्याद्यन्यतमत्वेन सम्भाव्य आसां मध्ये काऽपि 72त्वं न भवसि इत्याह - नेति । हे वरोरु! आसां ह्री भवानीवाग्रमाणां मध्ये अन्यतमा नाऽसि न भवसि । तत्र हेतुः 73यतस्त्वं73 74भूस्पृक्74 भुवं स्पृशतीति भूस्पृक् । नहि रमादीनां अन्यतमा देवता भुवं स्पृशतीति भूस्पृक् । नहि रमादीनां अन्यतमा देवता भुवं स्पृशतीति भावः । 75अतोमत्प्रार्थितं कुर्वित्याह - अर्हसीति75 । अदभ्रकर्मणा अनल्पकर्मणा वीरवरेण 76वीरश्रेष्ठेन76 मया साकं सह इमां पुरीं नवमुखीं अलङ्कर्तुं 77शोभयितुम्77 अर्हसि । परं लोकं वैकुण्ठं यज्ञपुंसा विष्णुना सह श्रीः लक्ष्मीरिव 78मया सह पुरीं प्रविश्य सुखमनुभवेत्यर्थः78 ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
यदेष मापाङ्गविखण्डितेन्द्रियं
सव्रीडभावस्मितविभ्रमद्भ्रुवा।
त्वयोपसृष्टो भगवान्मनोभवः
प्रबाधतेऽथानुगृहाण शोभने॥
मूलम्
यदेष मा पाङ्गविखण्डितेन्द्रियं सव्रीड79भावस्मितविभ्र80मद्भ्रुवा।
81तवोपसृष्टो भगवान्मनोभवः प्रबाधतेऽथानुगृहाण शोभने॥ ३० ॥
अनुवाद (हिन्दी)
परंतु आज तुम्हारे कटाक्षोंने मेरे मनको बेकाबू कर दिया है। तुम्हारी लजीली और रतिभावसे भरी मुसकानके साथ भौंहोंके संकेत पाकर यह शक्तिशाली कामदेव मुझे पीड़ित कर रहा है। इसलिये सुन्दरि! अब तुम्हें मुझपर कृपा करनी चाहिये॥ ३०॥
वीरराघवः
यत् यस्मात् तव अपाङ्गेन विखण्डितम् इन्द्रियं मनो यस्य तं, मां सव्रीडं यद्भावेन प्रेम्णा स्मितं तेन विभ्रमा या भ्रूः तयोपसृष्टः 82प्रैरितः एष मनोभवः कामः प्रबाधते । अथ 83अतः अनुगृहाण हे शोभने ! ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
त्वदाननं सुभ्रु सुतारलोचनं
व्यालम्बिनीलालकवृन्दसंवृतम्।
उन्नीय मे दर्शय वल्गुवाचकं
यद्व्रीडया नाभिमुखं शुचिस्मिते॥
मूलम्
84त्वदाननं सुभ्रु सुतारलोचनं व्यालम्बिनीलालकवृन्दसंवृतम्।
उन्नीय मे दर्शय वल्गुवाचकं यद्व्रीडया नाऽभिमुखं शुचिस्मिते॥
अनुवाद (हिन्दी)
शुचिस्मिते! सुन्दर भौंहें और सुघड़ नेत्रोंसे सुशोभित तुम्हारा मुखारविन्द इन लंबी-लंबी काली अलकावलियोंसे घिरा हुआ है; तुम्हारे मुखसे निकले हुए वाक्य बड़े ही मीठे और मन हरनेवाले हैं, परंतु वह मुख तो लाजके मारे मेरी ओर होता ही नहीं। जरा ऊँचा करके अपने उस सुन्दर मुखड़ेका मुझे दर्शन तो कराओ’॥ ३१॥
वीरराघवः
यन्मुखं व्रीडयाभिमुखं न भवति तत् स्वमानन मुन्नीय मह्यं दर्शय । आननं विशिनष्टि - शोभने भ्रुवौ यस्मिन्, सुत सुकनीनिके लोचने यस्मिन् व्यालम्बिनो दीर्घा ये नीलालकास्तेषां बृन्देन संवृतं, वल्गूनि वाचकानि वाक्यानि यस्मिन्, शुचि स्मि यस्मिन् । शुचिस्मिते इति पाठे सम्बोधनम् ॥ ३१ ॥
श्लोक-३२
मूलम् (वचनम्)
85नारद उवाच
विश्वास-प्रस्तुतिः
इत्थं पुरञ्जनं नारी याचमानमधीरवत्।
अभ्यनन्दत तं वीरं हसन्ती वीर मोहिता॥
अनुवाद (हिन्दी)
श्रीनारदजीने कहा—वीरवर! जब राजा पुरंजनने अधीर-से होकर इस प्रकार याचना की, तब उस बालाने भी हँसते हुए उसका अनुमोदन किया। वह भी राजाको देखकर मोहित हो चुकी थी॥ ३२॥
वीरराघवः
एवमधीरव दविजितेन्द्रियवत् याचमानं पुरञ्जनं नारी प्रमदा वीरं तं दृष्ट्वा मोहिता सती वीरं मोहयन्ती अभ्यनन्दत, अने अन्योन्यपारतन्त्य्रं सूच्यते ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
न विदाम वयं सम्यक् कर्तारं पुरुषर्षभ।
आत्मनश्च परस्यापि गोत्रं नाम च यत्कृतम्॥
मूलम्
न विदाम वयं सम्यक् क्वर्तारं पुरुषर्षभ!
आत्मनश्च परस्यापि गोत्रं नाम च यत्कृतम्॥ ३३ ॥
अनुवाद (हिन्दी)
वह कहने लगी, ‘नरश्रेष्ठ! हमें अपने उत्पन्न करनेवालेका ठीक-ठीक पता नहीं है और न हम अपने या किसी दूसरेके नाम या गोत्रको ही जानती हैं॥ ३३॥
वीरराघवः
यत्पृष्टं “कस्यासीति अनेन कस्य पुत्री जातेति का त्वमिति किम्स्वरूपा किन्नामासीति तत्राह - नेति । आत्मनो मम परम तवाऽपि कर्तारं स्रष्टारं सम्यक् न विद्मः । कर्तारं विशिनष्टि - गोत्रं नाम च यत्कृतं येन कर्त्रा कृतं भवति ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
इहाद्य सन्तमात्मानं विदाम न ततः परम्।
येनेयं निर्मिता वीर पुरी शरणमात्मनः॥
मूलम्
इहाद्य सन्तमात्मानं न विदाम ततः परम्।
येनेयं निर्मिता वीर पुरी शरणमात्मनः॥ ३४ ॥
अनुवाद (हिन्दी)
वीरवर! आज हम सब इस पुरीमें हैं—इसके सिवा मैं और कुछ नहीं जानती; मुझे इसका भी पता नहीं है कि हमारे रहनेके लिये यह पुरी किसने बनायी है॥ ३४॥
वीरराघवः
इहास्य पुर्यां अधुना सन्तं वसन्तमात्मानं पुरीमन्तः प्रविश्य नियन्तारं त्वां जानीमः, ततः आत्मनः त्वत्तः मत्तश्च विलक्षणं पुरुषं न विदामः । कोऽसौ परः यं न विद्मः इति वदसि तत्राह - हे वीर ! आत्मनस्तव मम च शरण मियं पुरी येन निर्मिततमित्यर्थः । इहाद्य सन्तमात्मानं विदाम इत्यनेन केवलसंसारिणो जीवस्य बुद्धिः, तत्स्वरूपमविशदावभासं गृह्णाति न तु याथात्म्येत्युक्तम् । “न विदाम वयं वीर ! कर्तारं, “न विदाम ततः परं (भाग. 4-25-33, 34) येनेयं निर्मिता वीर ! पुरी” त्यनेन जीवनाकरणकलेबरादिसम्पादनचतुरं कृत्स्न जगदुदयविभवलयलीलं प्रकृति पुरुषविलक्षणं परमपुरुषमापाततः तत्त्वतश्च न विषयीकरोतीत्युक्तम् ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
एते सखायः सख्यो मे नरा नार्यश्च मानद।
सुप्तायां मयि जागर्ति नागोऽयं पालयन् पुरीम्॥
मूलम्
एते सखायः सख्यो मे नरा नार्यश्च मानद।
सुप्तायां मयि जागर्ति नागोऽयं पालयन् पुरीम्॥ ३५ ॥
अनुवाद (हिन्दी)
प्रियवर! ये पुरुष मेरे सखा और स्त्रियाँ मेरी सहेलियाँ हैं तथा जिस समय मैं सो जाती हूँ, यह सर्प जागता हुआ इस पुरीकी रक्षा करता रहता है॥ ३५॥
वीरराघवः
यत्पृष्टं क एतेऽनुपथा, इति तत्राह - एत इति । 88एते नराः88 एकादश महाभटाः 89नार्यश्च मे मम सखायः सख्यश्चानुवर्तिनो भृत्य इत्यर्थः । अनेनेन्द्रियाणां तद्वृत्तीनां च बुद्ध्येकायत्तत्व मुक्तम् । यत्पृष्टं “कोऽयं तेऽहिः पुरस्सरः, इति तत्राह - मयि सुप्तायां सत्या म नागः पुरीं पालयन् जागर्ति । अनेन बुद्धीन्द्रियमन आदिषु सर्वेषु सुप्तौ निर्व्यापारेषु सत्स्वपि प्राणव्यापारोऽस्तीति सर्वापेक्षया प्राणस प्राधान्य मुक्तम् ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
दिष्ट्याऽऽगतोऽसि भद्रं ते ग्राम्यान् कामानभीप्ससे।
उद्वहिष्यामि तांस्तेऽहं स्वबन्धुभिररिन्दम॥
मूलम्
दिष्ट्याऽऽगतोऽसि भद्रं ते ग्राम्यान् 90कामा91नभीप्स92सि।
उद्वहिष्यामि तांस्तेऽहं स्वबन्धुभिररिन्दम॥ ३६ ॥
अनुवाद (हिन्दी)
शत्रुदमन! आप यहाँ पधारे, यह मेरे लिये सौभाग्यकी बात है। आपका मंगल हो। आपको विषय-भोगों-की इच्छा है, उसकी पूर्तिके लिये मैं अपने साथियोंसहित सभी प्रकारके भोग प्रस्तुत करती रहूँगी॥ ३६॥
वीरराघवः
आस्तां नाम गोत्रादि दिष्ट्या 93पुरी मागतोऽसि, अनेन मनुष्यदेहसम्बन्धो दैवकृतो दुर्लभ इत्युक्तम् । अत स्ते भद्रं ताव द्गाम्या निन्द्रियग्रामार्हशब्दादीनवाप्स्यसि । हे अरिन्दम ! अहं स्वबन्धुभिः सखीभिः इन्द्रियैस्सहेत्यर्थः । तान् ग्राम्यान् भोगां स्ते तुभ्यं उद्वहिष्यामि सम्पादयिष्यामि ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
इमां त्वमधितिष्ठस्व पुरीं नवमुखीं विभो।
मयोपनीतान् गृह्णानः कामभोगान् शतं समाः॥
मूलम्
इमां त्वमधितिष्ठस्व पुरीं नवमुखीं विभो!
मयोपनीतान् गृह्णानः कामभोगान् शतं समाः॥ ३७ ॥
अनुवाद (हिन्दी)
प्रभो! इस नौ द्वारोंवाली पुरीमें मेरे प्रस्तुत किये हुए इच्छित भोगोंको भोगते हुए आप सैकड़ों वर्षोंतक निवास कीजिये॥ ३७॥
वीरराघवः
हे विभो ! नवद्वारामिमां पुरीं त्वं शतं समाः संवत्सरान् मया उपनीतान् प्रापितान् कामान् गृह्णानः अधितिष्ठस्व । मनुष्य देह प्रवेशाभिप्रायेण शतमित्युक्तम् ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
कं नु त्वदन्यं रमये ह्यरतिज्ञमकोविदम्।
असम्परायाभिमुखमश्वस्तनविदं पशुम्॥
अनुवाद (हिन्दी)
भला, आपको छोड़कर मैं और किसके साथ रमण करूँगी? दूसरे लोग तो न रति सुखको जानते हैं, न विहित भोगोंको ही भोगते हैं, न परलोकका ही विचार करते हैं और न कल क्या होगा—इसका ही ध्यान रखते हैं, अतएव पशुतुल्य हैं॥ ३८॥
वीरराघवः
संसारिणो जीवस्य प्रवृत्तिस्वभावत्वान्निवृत्तिनिन्दा पूर्वकं तत्सङ्गमभिनन्दति - कं न्विति पञ्चभिः । त्वत्तोऽन्यं कं रमये क्रीडयामि । अनेन निवृत्तिमार्गनिष्ठो न बुद्धयधीन इत्युक्तम् । तत्र हेतुः अरतिज्ञं नैष्ठिकं विरक्तमित्यर्थः । अत एवा कोविदमनिपुणमनि97षिद्ध सुखस्याऽपि97 त्यागिनम98साम्परायाभिमुखं 99साम्परायो मृत्युः, तदनभिमुखं मरणाभीरुमिति वा । “कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम्” इत्युक्तेः, अश्वस्तनविदं श्वो भवं श्वस्तनं कालान्तरानुभाव्यं स्वर्गादि भोग्यत्वेन न वेत्तीत्यश्वस्तनवित् ! “एते वै निरयास्तात स्थानस्य परमात्मनः” (भार. 12-191-6) इति । “वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो त्रय देवेन्द्रत्वादिकं फलम्” (विष्णु.पु. 2-6-41) इति स्वर्गादिसुखस्य मुमुक्षोर्हेयत्वादित्यर्थः । पशुं पशुतुल्यमिति निन्दति ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
धर्मो ह्यत्रार्थकामौ च प्रजानन्दोऽमृतं यशः।
लोका विशोका विरजा यान् न केवलिनो विदुः॥
मूलम्
धर्मो ह्यत्रार्थकामौ च प्रजानन्दोऽमृतं यशः।
लोकाविशोका विरजा यान् न केवलिनो विदुः॥ ३९ ॥
अनुवाद (हिन्दी)
अहो! इस लोकमें गृहस्थाश्रममें ही धर्म, अर्थ, काम, सन्तान-सुख, मोक्ष, सुयश और स्वर्गादि दिव्य लोकोंकी प्राप्ति हो सकती है। संसारत्यागी यतिजन तो इन सबकी कल्पना भी नहीं कर सकते॥ ३९॥
वीरराघवः
एवं निवृत्तिधर्मस्थं निन्दित्वा प्रवृत्तिस्वभावं स्तौति - धर्म इति । अत्र प्रवृत्तिमार्गे धर्मः स्वर्गादिसाधनो यागादि रूपो धर्मः यथाऽर्थकामौ प्रजानन्दः पुत्रसुखम् । अमृतं मोक्षः 100यशः कीर्तिः विशोकाः निर्दुःखाः विरजाः निर्मला लोका पुण्यलोकाश्च सिद्धयन्तीति षः । लोकान् विशिनष्टियान् लोकान् केवलिनो निवृत्तिधर्मस्था न विदुः ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
पितृदेवर्षिमर्त्यानां भूतानामात्मनश्च ह।
क्षेम्यं वदन्ति शरणं भवेऽस्मिन् यद् गृहाश्रमः॥
मूलम्
पितृदेवर्षिमर्त्यानां भूतानामात्मनश्च ह।
101क्षेम्यं वदन्ति शरणं भवेऽस्मिन् यद्गृहाश्र102मम्॥ ४० ॥
अनुवाद (हिन्दी)
महापुरुषोंका कथन है कि इस लोकमें पितर, देव, ऋषि, मनुष्य तथा सम्पूर्ण प्राणियोंके और अपने भी कल्याणका आश्रय एकमात्र गृहस्थाश्रम ही है॥ ४०॥
वीरराघवः
किञ्च अस्मिन् भवे, गृहाश्र103ममिति यत् एतत्पित्रादीनां क्षेमार्ह शरणमाश्रयं वदन्ति । पित्रादीनां गृहाश्रमिणमा104राधक आश्रित्यावस्थानात् ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
का नाम वीर विख्यातं वदान्यं प्रियदर्शनम्।
न वृणीत प्रियं प्राप्तं मादृशी त्वादृशं पतिम्॥
मूलम्
का नाम वीर विख्यातं वदान्यं प्रियदर्शनम्।
न वृणीत 105पतिं प्राप्तं मादृशी त्वादृशं 106स्वयम्॥ ४१ ॥
अनुवाद (हिन्दी)
वीरशिरोमणे! लोकमें मेरी-जैसी कौन स्त्री होगी, जो स्वयं प्राप्त हुए आप-जैसे सुप्रसिद्ध, उदारचित्त और सुन्दर पतिको वरण न करेगी॥ ४१॥
वीरराघवः
हे वीर ! विख्यातं कामित्वेन प्रसिद्धं वदान्यं त्यागिनं का107मार्थं विहितमपि त्यजन्तमित्यर्थः । अत एव प्रियेषु शब्दादि 108कामेषु दर्शनं दृष्टिर्यस्य तं, कथा पक्षे विख्यातं यशस्विनं वदान्यं दानशीलं प्रियदर्शनं सुन्दरमित्यर्थः । ईदृशं त्वादृशं निस्समं पतिं दैवात्प्राप्तं मादृशी निस्समाना का वा स्वयं न वृणीत वृणुया देवेत्यर्थः ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
कस्या मनस्ते भुवि भोगिभोगयोः
स्त्रिया न सज्जेद्भुजयोर्महाभुज।
योऽनाथवर्गाधिमलं घृणोद्धत-
स्मितावलोकेन चरत्यपोहितुम्॥
मूलम्
कस्या मन109स्ते भुजगेन्द्र भोगयोः स्त्रिया न सज्जेद्भुजयोर्महाभुज।
योऽनाथवर्गाधिमलं घृणोद्धतस्मितावलोकेन चर110त्यपोहितुम्॥ ४२ ॥
अनुवाद (हिन्दी)
महाबाहो! इस पृथ्वीपर आपकी साँप-जैसी गोलाकार सुकोमल भुजाओंमें स्थान पानेके लिये किस कामिनीका चित्त न ललचावेगा? आप तो अपनी मधुर मुसकानमयी करुणापूर्ण दृष्टिसे हम-जैसी अनाथाओंके मानसिक सन्तापको शान्त करनेके लिये ही पृथ्वीमें विचर रहे हैं’॥ ४२॥
वीरराघवः
हे महाभुज ! भुजगेन्द्रभोगयोः सर्पदेहाकारयोः तव भुजयोः कस्याः स्त्रिया मनः न सज्जेत् नासक्तं भवेत् यो भवान् अनाथवर्गाः 111दीनस्तोमाः तेषामाधिम् अलमत्यर्थमपोहितुं सर्वत्र चरति । केन हेतुनाऽपोहितुम् ? घृणयोद्धतः अतिशयितो यः स्मितपूर्वकोऽवलोकस्तेन ॥ ४२ ॥
श्लोक-४३
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
इति तौ दम्पती तत्र समुद्य समयं मिथः।
तां प्रविश्य पुरीं राजन्मुमुदाते शतं समाः॥
अनुवाद (हिन्दी)
श्रीनारदजी कहते हैं—राजन्! उन स्त्री-पुरुषोंने इस प्रकार एक-दूसरेकी बातका समर्थन कर फिर सौ वर्षोंतक उस पुरीमें रहकर आनन्द भोगा॥ ४३॥
वीरराघवः
एवं सम्बन्ध दार्ढ्यख्यापनाय तयोः संवादमभिधायोपसंहरन् तयोर्व्यापारमाह नारदः । तौ दम्पती पुरञ्जन पुरञ्जन्यौ मिथोऽन्योन्यं समयं सङ्केतं समुद्य समुदीर्य दैवा दन्योन्यं दृढतरं संबध्येत्यर्थः । हे 115राजन् ! प्राचीनबर्हिः ! तां पुरीं प्रविश्य शतं समाः संवत्सरान् मुमुदाते ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
उपगीयमानो ललितं तत्र तत्र च गायकैः।
क्रीडन् परिवृतः स्त्रीभिर्ह्रदिनीमाविशच्छुचौ॥
मूलम्
उपगीयमानो ललितं तत्र तत्र च गायकैः।
क्रीडन् परिवृतः स्त्रीभि116र्ह्रदिनीमाविशच्छुचौ॥ ४४ ॥
अनुवाद (हिन्दी)
गायक लोग सुमधुर स्वरमें जहाँ-तहाँ राजा पुरंजनकी कीर्ति गाया करते थे। जब ग्रीष्म-ऋतु आती, तब वह अनेकों स्त्रियोंके साथ सरोवरमें घुसकर जलक्रीड़ा करता॥ ४४॥
वीरराघवः
एवं जीवबुद्धयोर्जीवकर्मानुरूप दैवाख्य परम पुरुष सङ्कल्पायत्त दृढतर सम्बन्धं तत्प्रयुक्तं देहसम्बन्धं च पारोक्ष्यरूपेणाभिधाय शुश्रूषोः प्राचीनबर्हिषः प्राप्य परब्रह्म व्यतिरिक्त वैतृष्ण्यजननार्थं प्राप्यतृष्णाजननार्थं संसरतो जीवस्य जाग्रत्स्वप्नसुषुप्तिमरणावस्थासु दोषानुद्धारयितुं जाग्रदाद्यवस्थाः प्रतिपिपादयिषुः कथाव्याजेन तावत्समासतः सुषुप्त्यवस्थामाह - उपगीयमान इति । ललितं यथा भवति तथा 117गायकै रूप117गीयमानः पुरञ्जनः स्त्रीभिः परिवृतः तत्र तत्र क्रीडन् शुचौ आषाढे क्रीडानिमित्तश्रमापनोदनाय हृदिनीं सरसीमाविशदिति कथापक्षेऽर्थः ॥ पक्षान्तरेतु जाग्रदवस्थायां स्त्रीभिः इन्द्रियवृत्तिभिस्तत्र तत्र क्रीडन् शब्दादिविषया ननुभवन् व्यापृतकरणत्वा तत्प्रयुक्त श्रमनिर्हरणाय शुचौ ह्रादिनीमाविशत् । 118ह्रदिनीशब्देन पुरीतदाख्यनाडी विवक्षिता । शुचिशब्देन शुचौ ब्रह्मणि आविश्य तद्द्वारा ह्रादिनीमाविशत्118 इत्यर्थः । प्रासादखट्वापर्यङ्कवत्समुच्चयेन नाडी पुरी तत्, बह्मणि हि जीवस्य सुषुप्तिस्थानं न तु विकल्पेन । अथ यत्रैतत्सुषुप्तः समस्त सम्प्रसन्नः स्वप्नं न विजानात्याशु तदा नाडीषु सुप्तो भवति । अथ यदा सुषुप्तो भवति, यदा न कस्य च न वेदहितो नाम नाड्योद्वासप्ततिसहस्राणि हृदयात् पुरीततमभिप्रतिष्ठन्ते, ताभिः प्रत्युपसृत्य पुरीतति शेते” (बृह. उ. 2-1-19) इति, तथा “यत्रैतत्पुरुषः स्वपिति नाम सता सौम्य ! तदा सम्पन्नो भवति” (छांद. उ. 6-8-1) इति । त्रयाणामपि सुषुप्ति स्थानत्वश्रवणात्कार्यभेदेन समुच्चये सम्भवति, पाक्षिक बाधगर्भ विकल्पस्य अन्याय्यत्वात्, सम्भवति च प्रासादखट्वापर्यङ्कवन्नाड्यादीनां कार्यभेदः । तत्र नाडीपुरीततौ प्रासादखट्वास्थानीयौ ब्रह्म च पर्यङ्कस्थानीयं, ततो ब्रह्मैव साक्षात्सुषुप्तिस्थानम् ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
सप्तोपरि कृता द्वारः पुरस्तस्यास्तु द्वे अधः।
पृथग्विषयगत्यर्थं तस्यां यः कश्चनेश्वरः॥
मूलम्
सप्तोपरि कृता द्वारः पुरस्तस्यास्तु द्वे अधः।
पृथग्विषयगत्यर्थं 119तस्यां यः कश्चनेश्वरः॥ ४५ ॥
अनुवाद (हिन्दी)
उस नगरमें जो नौ द्वार थे, उनमेंसे सात नगरीके ऊपर और दो नीचे थे। उस नगरका जो कोई राजा होता, उसके पृथक्-पृथक् देशोंमें जानेके लिये ये द्वार बनाये गये थे॥ ४५॥
वीरराघवः
इदानीं जाग्रदवस्थां प्रतिपादयति - सप्ते120त्यादि यावदध्यायसमाप्ति । तत्र नवभिर्द्वार्भिः पुरीं लक्षितलक्षणामिति द्वारत्वेन रूपितानां चक्षुरादीन्द्रियस्थानानामिन्द्रियाणां च गौणनामानि तत्कार्याणि तद्विषयां श्च कथयन्नाह - सप्तेति । तस्याः पुरः पुर्याः सप्तद्वारः उपरि कृताः चक्षुर्द्वयं श्रोत्रंद्वयं नासिकाद्वयं मुखञ्चेति । द्वे द्वारा वधः कृते कल्पिते गुदं लिङ्गञ्चेति । किमर्थमेवं कल्पिता इत्यत्राह । तस्याः पुर्याः यः कश्चन ईश्वरः 121तस्य पृथगसङ्क122रणेन विषयान् शब्दादीन् प्रति गत्यर्थं विषया नवगन्तुमित्यर्थः । संसारिणो जीवस्य स्वपरयाथात्म्यज्ञानाभावात् मनुष्यशरीरस्यानियतत्वाच्च यः कश्चनेत्युक्तम्; कथा पक्षे विषयशब्दो देशपरः, देशान्प्रति गत्यर्थमित्यर्थः ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
पञ्च द्वारस्तु पौरस्त्या दक्षिणैका तथोत्तरा।
पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये॥
मूलम्
पञ्च द्वारस्तु पौरस्त्या दक्षिणैका तथोत्तरा।
पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये॥ ४६ ॥
अनुवाद (हिन्दी)
राजन्! इनमेंसे पाँच पूर्व, एक दक्षिण, एक उत्तर और दो पश्चिमकी ओर थे। उनके नामोंका वर्णन करता हूँ॥ ४६॥
वीरराघवः
पञ्चेति । तत्र तासु सप्तसु द्वार्षु पञ्च द्वारः पौरस्त्याः पूर्वदिग्भवा, एका दक्षिणा, तथा एका उत्तरा, द्वे पश्चिमे पश्चिमदिग्भवे । हे नृप ! ते तुभ्यममूषां द्वारां नामानि गुणनामानि वर्णये ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
खद्योताऽऽविर्मुखी च प्राग्द्वारावेकत्र निर्मिते।
विभ्राजितं जनपदं याति ताभ्यां द्युमत्सखः॥
मूलम्
खद्योताऽऽविर्मुखी च प्राग्द्वारावेकत्र निर्मिते।
विभ्राजितं जनपदं याति ताभ्यां द्युमत्सखः॥ ४७ ॥
अनुवाद (हिन्दी)
पूर्वकी ओर खद्योता और आविर्मुखी नामके दो द्वार एक ही जगह बनाये गये थे। उनमें होकर राजा पुरंजन अपने मित्र द्युमान् के साथ विभ्राजित नामक देशको जाया करता था॥ ४७॥
वीरराघवः
खद्योता खद्योतवदल्पप्रकाशा वामनेत्ररूपा, आविः प्रकटं मुखं यस्यास्सा बहुप्रकाशा दक्षिणनेत्ररूपा, स्वानुभवाच्च तत्र प्रकाशाधिक्यमवगन्तव्यम् । एते द्वारा वेकत्र निर्मिते लग्ने ताभ्यां खद्योताऽऽविर्मुखीभ्यां द्वार्भ्यां द्युमत्सखः द्युमान् सूर्यस्तदधिष्ठेयं चक्षरिन्द्रियमपि द्युमत्, तदेव सखा यस्य सः । यद्वा, द्युमतः सखा द्युमत्सखः “राजाहस्सखिभ्यः, (अष्टा. 4-5-91) इति टच्, चक्षुषा सहित इत्यर्थः । विभ्राजितमालोकादिना प्रकाशितं रूपं जनपदं विषयं याति अवगच्छति । कथापक्षे तु खद्योतादिशब्दा अश्वकर्णादिशब्दवत् केवलसंज्ञाशब्दा इत्यवगन्तव्यम् । जनपदं देशं याति गच्छतीत्यर्थः ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
नलिनी नालिनी च प्राग्द्वारावेकत्र निर्मिते।
अवधूतसखस्ताभ्यां विषयं याति सौरभम्॥
मूलम्
नलिनी नालिनी च प्राग्द्वारावेकत्र निर्मिते।
अवधूतसखस्ताभ्यां विषयं याति सौरभम्॥ ४८ ॥
अनुवाद (हिन्दी)
इसी प्रकार उस ओर नलिनी और नालिनी नामके दो द्वार और भी एक ही जगह बनाये गये थे। उनसे होकर वह अवधूतके साथ सौरभ नामक देशको जाता था॥ ४८॥
वीरराघवः
नलनालशब्दौ छिद्रवचनौ । नलमस्या अस्तीति नलिनी 123एवं नालिनी123, वामदक्षिणनासिके । अत्राऽपि संज्ञाभेदादेव कार्य124न्यौनाधिक्यं पूर्ववत् ज्ञेयम् । अवधूनयति कम्पयतीत्यवधूतो वायुस्तत्सखो वाय्वधिष्ठितो घ्राणः, ताभ्यां 125नलिनी नालिनीभ्यां125 द्वाभ्यां सौरभं गन्धं विषयं याति ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
मुख्या नाम पुरस्ताद् द्वास्तयाऽऽपणबहूदनौ।
विषयौ याति पुरराड्रसज्ञविपणान्वितः॥
मूलम्
मुख्या नाम पुरस्ताद्द्वास्तयाऽऽपणबहूदनौ।
विषयौ याति पुरराड्रसज्ञ विपणान्वितः॥ ४९ ॥
अनुवाद (हिन्दी)
पूर्वदिशाकी ओर मुख्या नामका जो पाँचवाँ द्वार था, उसमें होकर वह रसज्ञ और विपणके साथ क्रमशःबहूदन और आपण नामके देशोंको जाता था॥ ४९॥
वीरराघवः
मुख्येति | मुख्या प्रधाना आस्यरूपा द्वाः पूर्वदिग्भवा तया मुख्यया द्वारा पणः पणनं व्यवहारः भाषणं, बहूदनश्चित्रमन्नं बद्धोदनं इत्यनुक्तिः परोक्षवादत्वाय, पणबहदनौ विषयो पुरराट् पुरञ्जनः 126रसज्ञः रसनेन्द्रियं विपणो वागिन्द्रियं, ताभ्यामन्वितो याति ॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
पितृहूर्नृप पुर्या द्वार्दक्षिणेन पुरञ्जनः।
राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वितः॥
मूलम्
पितृ127हूर्नृप पुर्या128द्वार्दक्षिणेन पुरञ्जनः।
राष्ट्रं दक्षिण129पाञ्चालं याति श्रुत130धरान्वितः॥ ५० ॥
अनुवाद (हिन्दी)
पुरीके दक्षिणकी ओर जो पितृहू नामका द्वार था, उसमें होकर राजा पुरंजन श्रुतधरके साथ दक्षिणपांचाल देशको जाता था॥ ५०॥
वीरराघवः
पुर्या दक्षिणेन दक्षिणस्यां दिशि एनबन्ताव्ययं, पितृहूर्नाम द्वाः पितॄन् जिहीते गच्छत्यनयेति पितृहूः “ओहाङ्गतौ” इत्यस्मात् “नृतिशृध्योः” (उणादि. सू. 91) इति कूप्रत्ययो बाहुल कात् पितृलोक प्राप्तिसाधनभूता यागादिक्रिया तदवबोधिनी त्रयी पूर्वभक्तिश्च पितृहूशब्दार्थः । तत्र दक्षिणकर्णस्य बलाधिक्याच्छ्रोतॄणां प्रथमं त्रिवर्गप्रावण्याच्च प्रवृत्तिशास्त्रप्रवणे प्रवर्तत इति । प्रथमं श्रोतव्यपितृलोकप्राप्ति साधन कर्म प्रकाशक प्रवृत्तिशास्त्रश्रवणसाधनत्वात् दक्षिणकर्णः पितृहूः । अनन्तरं श्रोतव्य ब्रह्मप्राप्तिफलनिवृत्ति धर्मप्रकाशकोत्तरशास्त्रश्रवणसाधनत्वाद्वामकर्णो देवहूः । ननु उत्तर भाग तदर्थश्रवणादावपि बलाधिक्याद्दक्षिणकर्ण एव प्रथमं प्रवर्तत 131इति कथमेतदुच्यते131 इति चेत्, एवं तर्ह्यत एव गुणनामधेय बलात्पूर्वभाग तदर्थानां शास्त्रप्राधान्येन दक्षिणकर्णश्रवणविधानम् उत्तरभागतदर्थानां तु वामकर्ण प्राधान्येन श्रवणविधानं चानुमीयते, यथा “दक्षिणं दीक्षितः पूर्वमाङ्क्ते, सव्यं हि मनुष्या अञ्जतं” इत्यत्र दृष्टार्थत्वात् मनुष्याः सव्यनय नाञ्जनं पूर्वं कुर्युरित्येवं प्रमाणान्तरेणाप्राप्तस्य सव्य नयनाञ्जनस्य सिद्धवन्निर्देशानुपपत्तौ सव्य नयनस्य प्रथममञ्जनेन दृष्टविशेषालाभात्प्रसिद्धवन्निर्देशानुपपत्त्यामानुषीभिरवश्यं प्रथमं सव्यनयनाञ्जनं कर्तव्यमिति विधिरनुमीयते, तद्वत् यथा वा तस्मादपि वध्यं प्रपन्नं न प्रति प्रयच्छन्तीति शरणागतस्य प्रत्यर्पणं प्रमाणान्तरेणा प्राप्तमपि तस्मादिति प्रसिद्धवनिर्देशानुपपत्त्या शरणागतो न प्रत्यर्पणीय इति विधिरनुमीयते । तद्वत् पूर्वोत्तरभागयोः यथाक्रमं दक्षिणोत्तरकर्णप्राधान्येन श्रवण मन्यतोऽप्राप्तमप्यनेनैव सिद्धवन्निर्देशगुणनामधेयबलेन विधीयत इति निरवद्यम् । पुरञ्जनः पितृहूद्वारा श्रुतिधरः श्रोतेन्द्रियं श्रवणविषयं शब्दं धरत्यवगच्छतीत्यनेनेति व्युत्पत्तेः, तेनान्वितो युक्तः दक्षिणपाञ्चालं दक्षिण द्वारगम्यं पाञ्चालं पञ्चते व्यक्तीकरोतीति पाञ्चालं, पच्यते व्यक्तीक्रियत इति वा पाञ्चालं, पचि व्यक्तीकरणे इत्यस्मात् “तमि विशिबिडिमृणिकुलिकपि पलि पञ्चिभ्यः कालच्” (उणादि. सू. 115) इत्यौणादिक कालच्प्रत्ययान्तः पाञ्चालशब्दः, ततः प्रज्ञादित्वात्स्वार्थेऽण्, प्रवृत्ति धर्मप्रकाशकशास्त्रात्मकं राष्ट्रं याति ॥ ५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
देवहूर्नाम पुर्या द्वा उत्तरेण पुरञ्जनः।
राष्ट्रमुत्तरपञ्चालं याति श्रुतधरान्वितः॥
मूलम्
देव132हूर्नाम पुर्या द्वा 133उत्तरेण पुरञ्जनः।
राष्ट्रमुत्तर134पाञ्चालं याति श्रु135तधरान्वितः॥ ५१ ॥
अनुवाद (हिन्दी)
उत्तरकी ओर जो देवहू नामका द्वार था, उससे श्रुतधरके ही साथ वह उत्तरपांचाल देशको जाता था॥ ५१॥
वीरराघवः
एवं पुर्या 136उत्तरेण उत्तरस्यां दिशि देवहूर्नाम द्वाः तया पुरञ्जनः श्रुतधरान्वितः उत्तरपाञ्चालं याति । यद्यपि प्रवृत्ति निवृत्त्यनवबोधिनः शब्दास्सन्ति संसारिणो जीवस्य श्रोतव्याः, तथाऽपि श्रोतव्यानां मध्ये प्रवृत्त्यवबोधि शास्त्रात्मकशब्दस्यैव श्रोतव्यत्वाभिप्रायेण दक्षिणपाञ्चालमुत्तरपाञ्चालमित्युक्तम् । एवं पूर्वत्राऽपि याति सौरभमित्यादिषु द्रष्टव्यम् ॥ ५१ ॥
श्लोक-५२
विश्वास-प्रस्तुतिः
आसुरी नाम पश्चाद् द्वास्तया याति पुरञ्जनः।
ग्रामकं नाम विषयं दुर्मदेन समन्वितः॥
मूलम्
आसुरी नाम पश्चात् द्वास्तया याति पुरञ्जनः।
ग्रा137म्यकं नाम विषयं दुर्मदेन समन्वितः॥ ५२ ॥
अनुवाद (हिन्दी)
पश्चिम दिशामें आसुरी नामका दरवाजा था, उसमें होकर वह दुर्मदके साथ ग्रामक देशको जाता था॥ ५२॥
वीरराघवः
पुर्याः पश्चादासुरी नाम द्वाः अस्यते क्षिप्यतेऽनेनेन्द्रियमित्यसुरं मेढ्रं, ततः स्वार्थेऽण् “टिड्डाणञ्” (अष्टा. 4-1-15) इत्यादिना ङीप्, तया पुरञ्जनः दुर्मदेन दुरुद्धरः मदो यस्य तेन, उपस्थेन्द्रियेण समन्वितं 138ग्राम्यकं ग्राम्यजनानां कर्ममैथुनादिकं याति ॥ ५२ ॥
श्लोक-५३
विश्वास-प्रस्तुतिः
निर्ऋतिर्नाम पश्चाद् द्वास्तया याति पुरञ्जनः।
वैशसं नाम विषयं लुब्धकेन समन्वितः॥
मूलम्
निर्ऋतिर्नाम पश्चाद्वास्तया याति पुरञ्जनः।
139वैशसं नाम विषयं लुब्धकेन समन्वितः॥ ५३ ॥
अनुवाद (हिन्दी)
तथा निर्ऋति नामका जो दूसरा पश्चिम द्वार था, उससे लुब्धकके साथ वह वैशस नामके देशको जाता था॥ ५३॥
वीरराघवः
पुर्याः पश्चात् 140निर्ऋति र्नाम द्वाः140 निर्ऋतिर्नामः मृत्युद्वारत्वात्, गुदं निर्ऋतिः तया पुरञ्जनः लुब्धकेन पाय्विन्द्रियेण तेजोत्क्रान्तस्य दुःखप्राप्तेर्लुब्धकसाम्यं तेन समन्वितः वैशसं नारकं दुःखं याति ॥ ५३ ॥
श्लोक-५४
विश्वास-प्रस्तुतिः
अन्धावमीषां पौराणां निर्वाक्पेशस्कृतावुभौ।
अक्षण्वतामधिपतिस्ताभ्यां याति करोति च॥
मूलम्
अन्धावमीषां पौराणां 141निर्वाक्पेशस्करावुभौ।
अक्षण्वतामधिपतिस्ताभ्यां याति करोति च॥ ५४ ॥
अनुवाद (हिन्दी)
इस नगरके निवासियोंमें निर्वाक् और पेशस्कृत् —ये दो नागरिक अन्धे थे। राजा पुरंजन आँखवाले नागरिकोंका अधिपति होनेपर भी इन्हींकी सहायतासे जहाँ-तहाँ जाता और सब प्रकारके कार्य करता था॥ ५४॥
वीरराघवः
अमीषां पौराणां पुर्याः सम्बन्धिनां द्वाराणां मध्ये उभौ द्वौ पादपाणी अधावज्ञौ निर्वाक्पेशस्कृतौ, वाक्शब्देनाऽत्र वागिन्द्रियाधिष्ठानं मुखरूपं छिद्रं लक्ष्यते निश्छिद्रपेश स्कृत्साम्यान्निर्वाक्पेशस्कृता वित्युच्येते । पेशस्कृन्नामा हि कीटविशेषः स्वापानान्निस्सृतैस्तन्तुभिः स्वनिवासभूतं करण्डं निर्माय स्वनिर्गमनद्वारं तन्मुखमप्यज्ञानेन पिधाय तत्रैव विनश्यति । तद्वत्पाणि पादयोर्निश्छिद्रत्वात् ज्ञानाभावाच्च तौ निर्वाक्पेशरस्कृता वित्युच्येते । ताभ्यां द्वार्भ्यामक्षण्वतामिन्द्रियवतां देहानामधिपतिः पुरञ्जनः याति गच्छति करोति कर्म करोति च ॥ ५४ ॥
श्लोक-५५
विश्वास-प्रस्तुतिः
स यर्ह्यन्तःपुरगतो विषूचीनसमन्वितः।
मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम्॥
अनुवाद (हिन्दी)
जब कभी अपने प्रधान सेवक विषूचीनके साथ अन्तःपुरमें जाता, तब उसे स्त्री और पुत्रोंके कारण होनेवाले मोह, प्रसन्नता एवं हर्ष आदि विकारोंका अनुभव होता॥ ५५॥
वीरराघवः
अन्तः पुरं हृदयं 144गतः प्रविष्टः “हृदि हृयमात्मा प्रतिष्ठितः” (प्रश्न. उ. 3-6) इति श्रुतेः । य पुरञ्जनः यदा विषूचीनेन मनसा, विष्वगञ्चति सर्वतोव्याप्रियत इति विषूचीनमिति व्युत्पत्तेः, समन्वितो भवति तदा जाया बुद्धिः आत्मजा इन्द्रियवृत्तयः ताभ्यः उद्भवं मोहादीनामन्यतमं याति मोहप्रसादहर्षाः तमस्सत्त्व रजः कार्याणि मनोगुणाः । अत्रत्वगिन्द्रियस्यानुक्तिः सर्वेष्वन्तर्भावात् ॥ ५५ ॥
श्लोक-५६
विश्वास-प्रस्तुतिः
एवं कर्मसु संसक्तः कामात्मा वञ्चितोऽबुधः।
महिषी यद्यदीहेत तत्तदेवान्ववर्तत॥
मूलम्
एवं कर्मसु सं145सक्तः कामात्मा वञ्चितोऽबुधः।
महिषी यद्यदीहेत तत्तदेवान्ववर्तत॥ ५६ ॥
अनुवाद (हिन्दी)
उसका चित्त तरह-तरहके कर्मोंमें फँसा हुआ था और काम-परवश होनेके कारण वह मूढ़ रमणीके द्वारा ठगा गया था। उसकी रानी जो-जो काम करती थी, वही वह भी करने लगता था॥ ५६॥
वीरराघवः
एवमिन्द्रियस्थानविषयाणां गौणनामानि कार्याणि चाभिधाय मनः पर्यन्त सर्वेन्द्रिययुक्तस्य 146जीवस्य बुद्धिपारवश्यमाह - एवमिति । अज्ञः अत एव काम प्रव147णम् आत्मा मनो यस्य, कर्मसु कामसाधनेषु कर्मस्वासक्तः, अत एव दैवेन वञ्चितः, महिषी बुद्धिः यद्यदीहेत व्याप्रियेत यद्यच्छब्दादिविषयं प्रति इन्द्रियाणि प्रवर्तयतीत्यर्थः । तत्त देवान्ववर्तत अनु148वृत्तवान् ॥ ५६ ॥
श्लोक-५७
विश्वास-प्रस्तुतिः
क्वचित्पिबन्त्यां पिबति मदिरां मदविह्वलः।
अश्नन्त्यां क्वचिदश्नाति जक्षत्यां सह जक्षति॥
मूलम्
क्वचित्पिबन्त्यां पिबति मदिरां मदविह्वलः।
अश्न149त्यां क्वचिदश्नाति जक्ष150त्यां सह ज151क्षिति॥ ५७ ॥
अनुवाद (हिन्दी)
वह जब मद्यपान करती, तब वह भी मदिरा पीता और मदसे उन्मत्त हो जाता था; जब वह भोजन करती, तब आप भी भोजन करने लगता और जब कुछ चबाती, तब आप भी वही वस्तु चबाने लगता था॥ ५७॥
श्लोक-५८
विश्वास-प्रस्तुतिः
क्वचिद्गायति गायन्त्यां रुदत्यां रुदति क्वचित्।
क्वचिद्धसन्त्यां हसति जल्पन्त्यामनु जल्पति॥
मूलम्
क्वचिद्गायति गाय152न्त्यां रुद153त्यां 154रोदिति क्वचित्।
क्वचिद्धसन्त्यां हसति जल्पन्त्यामनुजल्पति॥ ५८ ॥
अनुवाद (हिन्दी)
इसी प्रकार कभी उसके गानेपर गाने लगता, रोनेपर रोने लगता, हँसनेपर हँसने लगता और बोलनेपर बोलने लगता॥ ५८॥
अनुवर्तनमेवोपपादयति - क्वचिदिति 155चतुर्भिः । पिबन्त्यां पाने 156व्यापृतवत्यां बुद्धौ पिपासामुत्पादयन्त्यां सत्यामित्यर्थः । मदविह्वलः 157मदपरवशस्सन्157 मदिरां पिबति, एवमुत्तरत्राऽपि द्रष्टव्यम् । अश्नत्यां भुञ्जन्त्यां, 158जक्षत्यां चर्वन्त्याम्158 ॥ ५७-५८ ॥
श्लोक-५९
विश्वास-प्रस्तुतिः
क्वचिद्धावति धावन्त्यां तिष्ठन्त्यामनु तिष्ठति।
अनु शेते शयानायामन्वास्ते क्वचिदासतीम्॥
मूलम्
क्वचिद्धावति धावन्त्यां तिष्ठन्त्यामनुतिष्ठति।
अनुशेते शयानायामन्वास्ते क्वचिदासतीम्॥ ५९ ॥
अनुवाद (हिन्दी)
वह दौड़ती तो आप भी दौड़ने लगता, खड़ी होती तो आप भी खड़ा हो जाता, सोती तो आप भी उसीके साथ सो जाता और बैठती तो आप भी बैठ जाता॥ ५९॥
वीरराघवः
आसतीमासीनामासिषां जनयन्ती मनुसृत्याऽऽस्ते ॥ ५९ ॥
श्लोक-६०
विश्वास-प्रस्तुतिः
क्वचिच्छृणोति शृण्वन्त्यां पश्यन्त्यामनु पश्यति।
क्वचिज्जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित्॥
मूलम्
159क्वचिच्छृणोति शृण्वन्त्यां पश्यन्त्यामनुपश्यति।
क्वचिज्जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित्॥ ६० ॥
अनुवाद (हिन्दी)
कभी वह सुनने लगती तो आप भी सुनने लगता, देखती तो देखने लगता, सूँघती तो सूँघने लगता और किसी चीजको छूती तो आप भी छूने लगता॥ ६०॥
श्लोक-६१
विश्वास-प्रस्तुतिः
क्वचिच्च शोचतीं जायामनुशोचति दीनवत्।
अनु हृष्यति हृष्यन्त्यां मुदितामनु मोदते॥
मूलम्
160क्वचिच्च शोचतीं जायामनुशोचति दीनवत्।
अनु 161हृष्यति 162हृष्यन्त्यां 163मुदितामनुमोदते॥ ६१ ॥
अनुवाद (हिन्दी)
कभी उसकी प्रिया शोकाकुल होती तो आप भी अत्यन्त दीनके समान व्याकुल हो जाता; जब वह प्रसन्न होती, आप भी प्रसन्न हो जाता और उसके आनन्दित होनेपर आप भी आनन्दित हो जाता॥ ६१॥
वीरराघवः
एवं शोचतीमनुशोचतीत्यादेरर्थः ॥ ६०-६१ ॥
श्लोक-६२
विश्वास-प्रस्तुतिः
विप्रलब्धो महिष्यैवं सर्वप्रकृतिवञ्चितः।
नेच्छन्ननुकरोत्यज्ञः क्लैब्यात्क्रीडामृगो यथा॥
मूलम्
विप्रलब्धो महिष्यैवं सर्वप्रकृतिवञ्चितः।
नेच्छन्ननुकरोत्यज्ञः क्लैब्यात्क्रीडामृगो यथा॥ ६२ ॥
अनुवाद (हिन्दी)
(इस प्रकार) राजा पुरंजन अपनी सुन्दरी रानीके द्वारा ठगा गया। सारा प्रकृतिवर्ग—परिकर ही उसको धोखा देने लगा। वह मूर्ख विवश होकर इच्छा न होनेपर भी खेलके लिये घरपर पाले हुए बंदरके समान अनुकरण करता रहता॥ ६२॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरञ्जनोपाख्याने पञ्चविंशोऽध्यायः॥ २५॥
वीरराघवः
एवं महिष्या बुद्धया विप्रलब्धः विशेषेण विमोहितः, अत एव सर्वा प्रकृतिरक्रोधाद्यात्मस्वभावः वञ्चिता यस्य सः, त्यक्तस्वभाव इत्यर्थः, नेच्छन्ननिच्छन्नपि क्लैब्यात् पारवश्यात् अनुकरोति, यथा क्रीडार्थो मृगः ॥ ६२ ॥
इति श्रीमद्भागवते चतुर्थस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवत चन्द्रचन्द्रिकायां व्याख्यायां पञ्चविंशोऽध्यायः ॥ २५ ॥
-
Ms बार्हिष्मदैर; T बर्हिषदैर; V बार्हिषैर ↩︎
-
A,B,T दिष्टाऽऽध्यात्म ↩︎
-
W omits वर्ष ↩︎
-
V चेतसम् ↩︎
-
W omits विदुर ! ↩︎
-
W सुखप्राप्ति श्चेदीह्यते ↩︎
-
A,B,T पाशात् ↩︎
-
A,B,T omit हे ↩︎
-
A,B,G,I,J,T,V ष्येऽमु; Ms ध्यामि इ ↩︎
-
W भेदेन ↩︎
-
A,B,T न च नि ↩︎
-
W omits शरीरं ↩︎
-
A,B,T निरू ↩︎
-
W omits गण ↩︎
-
W रजीवः ↩︎
-
A,B,T कीर्त्यादियुक्तः इत्यर्थः । ↩︎
-
A,B,T add एकदा ↩︎
-
A,B,T वास ↩︎
-
A,B,T omit तत्र ↩︎
-
W omits इव ↩︎
-
W omits इव ↩︎
-
W यावत्यो भूतले ↩︎
-
M,Ma द्वारैः ↩︎
-
W पुरे ↩︎
-
M,Ma पुर्री ↩︎
-
W णम् ↩︎
-
Ms स्वाभिरलङ्कृताम् ↩︎
-
A,B,T omit अथ ↩︎
-
A,B,T रूपैर्ल ↩︎
-
M,Ma रुच्च ↩︎
-
W रू ↩︎
-
A,B,T सत्त्वादि ↩︎
-
Ms,T ड् ↩︎
-
A,B,T omit एव ↩︎
-
A,B,T omit नागानां ↩︎
-
A,B,T श्रा ↩︎
-
A,B,T omit पुनः ↩︎
-
A,B,T कन्दरू ↩︎
-
A,B श्रा ↩︎
-
W सार ↩︎
-
M,Ma,Ms पि ↩︎
-
A,B,T नीत ↩︎
-
A,B,T omit प्रत्येकं ↩︎
-
A,B,T omits मुखं ↩︎
-
V ति ↩︎
-
A B,T add पद्म ↩︎
-
Ms,V ल ↩︎
-
B,W न ↩︎
-
A,B,G,I,J,T चलन्तीं ↩︎
-
M,Ma,Ms तां ↩︎
-
M,Ma,Ms नीम् ↩︎
-
M,Ms प्रेमभ्रमद्भ; V प्रेम्णा भ्रमद्भु ↩︎
-
The patern beginning with किं चिकीर्षसि (V in 26) ending with महाभाजयोऽ (V in 42) is missing in Ms Edition. ↩︎
-
Ms शुभ्रू ↩︎
-
A,B,T कृतभेदं ↩︎
-
B सुभ्रूः ! ↩︎
-
W य ↩︎
-
M,Ma साम्याप्त ↩︎
-
M,Ma कामः ↩︎
-
W omits असि ↩︎
-
W तत्सौ ↩︎
-
A,B,G,I,J,M,T मा भुविस्पृक्; Ma मा भुवित्वं; W मा भुक्स्पृक् ↩︎
-
W omits त्वं ↩︎
-
M,Ma हारेक्षण वि ↩︎
-
A,B,G,I,J,T मद्भुवा M,Ma मद्भुवः ↩︎
-
A,B,G,I,J,T,V त्वयोप ↩︎
-
A,B,T omit प्रेरितः ↩︎
-
A,T omit अतः ↩︎
-
B तदा; W त्वमा ↩︎
-
A,B,G,I,J,T add नारद उवाच ↩︎
-
M,Ma भाषत ↩︎
-
M,Ma नी ↩︎
-
A,B,T ता ललनाश्च ↩︎
-
M,Ma भोगान ↩︎
-
W नवाप्स्यसि ↩︎
-
A,B,G,I,J,M,Ma,T से ↩︎
-
A,B,T पुर्यां ↩︎
-
M,Ma का ↩︎
-
M,Ma येद ↩︎
-
A,B,G,I,J,T स ↩︎
-
A,B,T स ↩︎
-
A, B, T स ↩︎
-
W omits यशः ↩︎
-
W क्षेमं ↩︎
-
A,B,G,I,J,T,V मः ↩︎
-
A,B,T म इति ↩︎
-
A,B,T णा ↩︎
-
A,B,G,I,J,T प्रियं ↩︎
-
A,B,G,I,J,T पतिम् ↩︎
-
A,B,T र्थ ↩︎
-
A,B,T विषयेषु ↩︎
-
A,B,G,I,J,T स्ते भुवि भोगिभो; V स्स्यात्तव भोगिभो ↩︎
-
M,Ma,Ms,V स्य ↩︎
-
A,B,T दीनानां स्तोमाः ↩︎
-
M,Ma सम्मुह्य ↩︎
-
W पुः ↩︎
-
V पुरं ↩︎
-
T omits राजन् ! ↩︎
-
V र्हा ↩︎
-
V तस्या ↩︎
-
W ति ↩︎
-
A,B,T omit तस्य ↩︎
-
A,B,T रेण ↩︎
-
A,B,T न्यू ↩︎
-
A,B,T omit रसज्ञः ↩︎
-
A,B,G,I,J,T हूर्नृप, M,Ma भूर्नृप ↩︎
-
M,Ma द्वाद ↩︎
-
A,B,G,I,J,T प ↩︎
-
W ति ↩︎
-
M,Ma भू ↩︎
-
A,B,G,I,J,M,Ma,T उ ↩︎
-
A,B,G,I,J,T प ↩︎
-
W ति ↩︎
-
A,T omit उत्तरेण ↩︎
-
A,B,G,I,J,T,V म ↩︎
-
A,B,T ग्रामकं ↩︎
-
The second half of the 53 verse is missing in T Edn. ↩︎
-
A,B,G,I,J,T निर्वाक्पेशस्कृता; M,Ma,Ms निर्वाक्योपस्करा ↩︎
-
M,Ma,Ms स्वयं त्वन्तः ↩︎
-
J चीनं; M,Ma चिना ↩︎
-
W omits गतः ↩︎
-
V यु ↩︎
-
A,B,T omit जीवस्य ↩︎
-
A,B,T णः ↩︎
-
W वर्तितवान ↩︎
-
A,B,G,I,J,M,Ma,Ms,T,V न्त्यां ↩︎
-
V न्त्या ↩︎
-
A,J,M,Ma,Ms,T,V,W श्च ↩︎
-
Ms त्वां ↩︎
-
M,Ma,Ms,V,W न्त्यां ↩︎
-
A,B,G,I,J,M,Ma,T रुदति ↩︎
-
W omits चतुर्भिः ↩︎
-
A,B,T व्याप्रियन्त्यां ↩︎
-
This verse is not found in Ms,W Edns. ↩︎
-
V कर्हिचित् ↩︎
-
M,Ma घृष्टति संघृष्टां ↩︎
-
V संदृष्टां ↩︎
-
W स्पृशन्त्यां स्पृशति क्वचित् । ↩︎