[चतुर्विंशोऽध्यायः]
भागसूचना
पृथुकी वंशपरम्परा और प्रचेताओंको भगवान् रुद्रका उपदेश
श्लोक-१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
विजिताश्वोऽधिराजाऽऽसीत्पृथुपुत्रः पृथुश्रवाः।
यवीयोभ्योऽददात्काष्ठा भ्रातृभ्यो भ्रातृवत्सलः॥
मूलम्
विजिताश्वोऽ1धिराजाऽऽसीत् 2पृथुपुत्रः पृथुश्रवाः।
यवी3योभ्योऽद4दात्काष्ठा भ्रातृभ्यो भ्रातृवत्सलः॥ १ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—विदुरजी! महाराज पृथुके बाद उनके पुत्र परम यशस्वी विजिताश्व राजा हुए। उनका अपने छोटे भाइयोंपर बड़ा स्नेह था, इसलिये उन्होंने चारोंको एक-एक दिशाका अधिकार सौंप दिया॥ १॥
वीरराघवः
एवं कार्त्स्न्येन पृथुचरित्रमभिधाय तत्सन्ततिं तच्चरित्रं च अभिधातुमुपक्रमते मुनिः विजिताश्व इति । विजिताश्वः पृथोः पुत्रः विपुलकीर्तिः अधिराज आसीत् । भ्रातृवत्सलो विजिताश्वः यवीयोभ्यः कनिष्ठेभ्यः भ्रातृभ्यः, काष्ठा दिशः 5अददात् ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
हर्यक्षायादिशत्प्राचीं धूम्रकेशाय दक्षिणाम्।
प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभुः॥
मूलम्
हर्य6क्षायाऽदिशत्प्राचीं धूम्रकेशाय दक्षिणाम्।
प्रतीचीं वृकसंज्ञाय तुर्यां द्रविण7से विभुः॥ २ ॥
अनुवाद (हिन्दी)
राजा विजिताश्वने हर्यक्षको पूर्व, धूम्रकेशको दक्षिण, वृकको पश्चिम और द्रविणको उत्तर दिशाका राज्य दिया॥ २॥
वीरराघवः
कां काष्ठां कस्मै अदात् इत्यत्राह - हर्यक्षाय प्राचीं दिशं, धूम्रकेशाय दक्षिणां दिशं, वृकसंज्ञाय प्रतीचीं दिशं, तुरीयाय चतुर्थीमुदीचीं दिशं, द्रविणसे विभुः विजिताश्वः अदिशत् अददात् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
अन्तर्धानगतिं शक्राल्लब्ध्वान्तर्धानसंज्ञितः।
अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम्॥
मूलम्
अन्तर्धानगतिं शक्राल्लब्ध्वान्तर्धानसंज्ञितः।
अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्म8तम्॥ ३ ॥
अनुवाद (हिन्दी)
उन्होंने इन्द्रसे अन्तर्धान होनेकी शक्ति प्राप्त की थी, इसलिये उन्हें ‘अन्तर्धान’ भी कहते थे। उनकी पत्नीका नाम शिखण्डिनी था। उससे उनके तीन सुपुत्र हुए॥ ३॥
वीरराघवः
पृथोः 9अश्वमेधे9 अश्वविजयावसरे शक्रात् अन्तर्धानगतिं तिरोधानगतिं लब्ध्वा अन्तर्धानसंज्ञितः अन्तर्धानाख्योऽभूत् । विजिताश्वस्यैव अन्तर्धान इति नामान्तरमित्यर्थः । अन्तर्धानसंज्ञितो विजिताश्वः शिखण्डिन्यां सुसम्मतं अपत्यत्रयमाधत्त उत्पादयामास ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
पावकः पवमानश्च शुचिरित्यग्नयः पुरा।
वसिष्ठशापादुत्पन्नाः पुनर्योगगतिं गताः॥
मूलम्
पावकः पवमानश्च शुचिरित्यग्नयः पुरा।
वसिष्ठशापादुत्पन्नाः पुनर्योगगतिं गताः॥ ४ ॥
अनुवाद (हिन्दी)
उनके नाम पावक, पवमान और शुचि थे। पूर्वकालमें वसिष्ठजीका शाप होनेसे उपर्युक्त नामके अग्नियोंने ही उनके रूपमें जन्म लिया था। आगे चलकर योगमार्गसे ये फिर अग्निरूप हो गये॥ ४॥
वीरराघवः
अपत्यत्रयमेवाह - पावक इति । पुरा यो वसिष्ठस्य शापः तस्मात् त्रयोऽग्नयः गार्हपत्याहवनीयदक्षिणाग्रयः पावकादिरूपेण मनुष्येषूत्पन्नास्ते पुनः योगगतिमग्नित्वं प्राप्ताः, आहवनीयत्वादेः संस्काररूपत्वात् तेषां मनुष्यरूपेणोत्पत्त्यनर्हत्वात् तदभिमानिदेवतानामुत्पत्तिरत्र विवक्षिता ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत।
य इन्द्रमश्वहर्तारं विद्वानपि न जघ्निवान्॥
मूलम्
अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत।
य इन्द्रमश्वहर्तारं विद्वानपि न जघ्निवान्॥ ५ ॥
अनुवाद (हिन्दी)
अन्तर्धानके नभस्वती नामकी पत्नीसे एक और पुत्र-रत्न हविर्धान प्राप्त हुआ। महाराज अन्तर्धान बड़े उदार पुरुष थे। जिस समय इन्द्र उनके पिताके अश्वमेध-यज्ञका घोड़ा हरकर ले गये थे, उन्होंने पता लग जानेपर भी उनका वध नहीं किया था॥ ५॥
वीरराघवः
नभस्वत्याम् अन्यस्यां भार्यायाम् अन्तर्धानो विजिताश्वः हविर्धानं पुत्रं लेभे । अन्तर्धानं विशिनष्टि - यः अन्तर्धानोऽश्वहर्तारं विद्वान् जानन्नपि न जघ्निवान् । एतेन शक्रादन्तर्धानगतिलाभे कारणमुक्तम् ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
राज्ञां वृत्तिं करादानदण्डशुल्कादिदारुणाम्।
मन्यमानो दीर्घसत्रव्याजेन विससर्ज ह॥
अनुवाद (हिन्दी)
राजा अन्तर्धानने कर लेना, दण्ड देना, जुरमाना वसूल करना आदि कर्तव्योंको बहुत कठोर एवं दूसरोंके लिये कष्टदायक समझकर एक दीर्घकालीन यज्ञमें दीक्षित होनेके बहाने अपना राज-काज छोड़ दिया॥ ६॥
वीरराघवः
12स च अन्तर्धानः12 राज्ञां वृत्तिं कराऽऽदानदण्डशुल्कादिभिः अतिदारुणं परपीडात्मिकां मन्यमानः दीर्घसत्त्रानुष्ठानव्याजेन विससर्ज | हेत्याश्चर्ये ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
तत्रापि हंसं पुरुषं परमात्मानमात्मदृक्।
यजंस्तल्लोकतामाप कुशलेन समाधिना॥
मूलम्
तत्रापि हंसं पुरुषं परमात्मानमात्मदृक्।
यजंस्तल्लोकतामाप 13कुशलेन समाधिना॥ ७ ॥
अनुवाद (हिन्दी)
यज्ञकार्यमें लगे रहनेपर भी उन आत्मज्ञानी राजाने भक्तभयभंजन पूर्णतम परमात्माकी आराधना करके सुदृढ़ समाधिके द्वारा भगवान्के दिव्य लोकको प्राप्त किया॥ ७॥
वीरराघवः
तत्रापि दीर्घसत्त्रेऽपि हंसं 14स्वेषां क्लेशं हन्तीति हंसं शुद्धं वा, परमात्मानं 15पुरुषं परमपुरुषम् आत्मदृक् प्रकृति विलक्षणब्रह्मात्मकस्वात्मयाथात्म्यज्ञानी सन् यजन कुशलेन 16विघ्नानुपहतेन समाधिना भगवल्लोकमवाप ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
हविर्धानाद्धविर्धानी विदुरासूत षट् सुतान्।
बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम्॥
मूलम्
हविर्धानाद्धविर्धानी विदुरासूत षट् सुतान्।
बर्हि17षदं गयं 18शुक्लं कृष्णं सत्यं जितव्रतम्॥ ८ ॥
अनुवाद (हिन्दी)
विदुरजी! हविर्धानकी पत्नी हविर्धानीने बर्हिषद्, गय, शुक्ल, कृष्ण, सत्य और जितव्रत नामके छः पुत्र पैदा किये॥ ८॥
वीरराघवः
हे विदुर हविर्धानात् अन्तर्धानपुत्रात् हविर्धानी तद्भार्या बर्हिषदादीन् षट् 19पुत्रान् असूत ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
बर्हिषत् सुमहाभागो हाविर्धानिः प्रजापतिः।
क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह॥
मूलम्
बर्हि20षत् 21सुमहा22भागो हाविर्धानिः प्रजापतिः।
क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह॥ ९ ॥
अनुवाद (हिन्दी)
कुरुश्रेष्ठ विदुरजी! इनमें हविर्धानके पुत्र महाभाग बर्हिषद् यज्ञादि कर्मकाण्ड और योगाभ्यासमें कुशल थे। उन्होंने प्रजापतिका पद प्राप्त किया॥ ९॥
वीरराघवः
हे महाबाहो ! हाविर्धानिः हविर्धानस्यापत्यं बर्हिषत् प्रजापालनपरः क्रियाकाण्डेषु योगेषु च निष्णातः निष्ठितोऽभूत् । हे कुरूद्वह ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
यस्येदं देवयजनमनु यज्ञं वितन्वतः।
प्राचीनाग्रैः कुशैरासीदास्तृतं वसुधातलम्॥
मूलम्
यस्येदं देवयजनमनु यज्ञं वितन्वतः।
प्राचीनाग्रैः कुशैरासीदास्तृतं वसुधातलम्॥ १० ॥
अनुवाद (हिन्दी)
उन्होंने एक स्थानके बाद दूसरे स्थानमें लगातार इतने यज्ञ किये कि यह सारी भूमि पूर्वकी ओर अग्रभाग करके फैलाये हुए कुशोंसे पट गयी थी (इसीसे आगे चलकर वे ‘प्राचीनबर्हि’ नामसे विख्यात हुए)॥ १०॥
वीरराघवः
क्रियाकाण्डेषु निष्णातत्त्वमेवाह - यस्येति । इदं वसुधातलं देवयजनं यज्ञवाटं वितन्वतः यत्र देशे एको यज्ञः कृतः तत्समीपे एव देशे पुनर्यज्ञान्तरं कुर्वतः प्राचीनाग्रैः कुशैः कृत्स्न वसुधातलमास्तृतमासीत् । अत एव प्राचीनबर्हिरित्युच्यते ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
सामुद्रीं देवदेवोक्तामुपयेमे शतद्रुतिम्।
यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ठ्वलङ्कृताम्।
परिक्रमन्तीमुद्वाहे चकमेऽग्निः शुकीमिव॥
मूलम्
सामुद्रीं देवदेवोक्तामुपये मे शतद्रुतीम्।
यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ट्वलङ्कृताम्।
23परिक्रमन्तीमुद्वाहे चकमेऽग्निः शुकीमिव॥ ११ ॥
अनुवाद (हिन्दी)
राजा प्राचीनबर्हिने ब्रह्माजीके कहनेसे समुद्रकी कन्या शतद्रुतिसे विवाह किया था। सर्वांगसुन्दरी किशोरी शतद्रुति सुन्दर वस्त्राभूषणोंसे सज-धजकर विवाह-मण्डपमें जब भाँवर देनेके लिये घूमने लगी, तब स्वयं अग्निदेव भी मोहित होकर उसे वैसे ही चाहने लगे जैसे शुकीको चाहा था॥ ११॥
वीरराघवः
स प्राचीन बर्हिः समुद्रस्य पुत्रीं देवदेवेन ब्रह्मणा उपदिष्टां शतदृत्याख्याम् उपयेमे । तां 24शतद्रुतिं24 विशिनष्टि - किशोरीं बालां चारूणि सुन्दराणि सर्वाण्य25प्यङ्गानि यस्यास्तां, सुष्ठु अलङ्कृताम् उद्वाहे विवाहे परिक्रमन्तीमग्निं यां शतद्रुतिम् अग्निश्चकमे शुकीमिव । अयमर्थः - सप्तर्षीणां सत्त्रे तद्भार्यादर्शनेन अग्निः 26कामाविष्टोऽभूत् । तं च तद्भार्या स्वाहा नाम सप्तर्षिभार्यारूपधारिणी सती रमयामास । रमयित्वा च तद्रेतः शुकीरूपेण शरस्तम्बे निधाय अगच्छत् । तां च यथा सप्तर्षिभार्याभ्रान्त्या अग्निः कामितवान् तद्वदिति । स्तुकीमिति पाठे 27स्तोकस्तोकधृतधारामिवेत्यर्थः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
विबुधासुरगन्धर्वमुनिसिद्धनरोरगाः।
विजिताः सूर्यया दिक्षु क्वणयन्त्यैव नूपुरैः॥
अनुवाद (हिन्दी)
नव-विवाहिता शतद्रुतिने अपने नूपुरोंकी झनकारसे ही दिशा-विदिशाओंके देवता, असुर, गन्धर्व, मुनि, सिद्ध, मनुष्य और नाग—सभीको वशमें कर लिया था॥ १२॥
वीरराघवः
सूर्यया नवोढयैव नूपुरैः क्वणयन्त्या शतद्रुत्या विबुधादयः सर्वे विजिताः वशीकृता मोहिता इति यावत् ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
प्राचीनबर्हिषः पुत्राः शतद्रुत्या दशाभवन्।
तुल्यनामव्रताः सर्वे धर्मस्नाताः प्रचेतसः॥
मूलम्
प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन्।
तुल्यनामव्रताः सर्वे धर्मस्नाताः प्रचेतसः॥ १३ ॥
अनुवाद (हिन्दी)
शतद्रुतिके गर्भसे प्राचीनबर्हिके प्रचेता नामके दस पुत्र हुए। वे सब बड़े ही धर्मज्ञ तथा एक-से नाम और आचरणवाले थे॥ १३॥
वीरराघवः
प्राचीनवर्हिषः सकाशात् शतद्रुत्यां दश पुत्रा अभवन् उदभवन् पुत्रान् विशिनष्टि - तुल्यं नाम व्रतमाचारो येषां ते, धर्मस्नाताः धर्मनिष्णाताः धर्मपारगा इति यावत् । निष्णातशब्दो हि सर्वत्र विवक्षितानुष्ठानानन्तरभाव्यबभृथस्नानस्थानीयमन्तगमनमाह । प्रचेतसः प्रचेतोनामानः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
पित्राऽऽदिष्टाः प्रजासर्गे तपसेऽर्णवमाविशन्।
दशवर्षसहस्राणि तपसाऽऽर्चंस्तपस्पतिम्॥
अनुवाद (हिन्दी)
जब पिताने उन्हें सन्तान उत्पन्न करनेका आदेश दिया, तब उन सबने तपस्या करनेके लिये समुद्रमें प्रवेश किया। वहाँ दस हजार वर्षतक तपस्या करते हुए उन्होंने तपका फल देनेवाले श्रीहरिकी आराधना की॥ १४॥
वीरराघवः
प्रजासर्गे पित्रा उपदिष्टाः प्रथमं तप32श्चरितुं वनमरण्यमाविशन् । दश संख्याकानि वर्षाणां वत्सराणां सहस्राणि तपसां पतिं भगवन्तं तपसा आर्चन् अर्चयामासुः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
यदुक्तं पथि दृष्टेन गिरिशेन प्रसीदता।
तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयताः॥
मूलम्
यदुक्तं पथि दृष्टेन गिरिशेन प्रसीदता।
तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयताः॥ १५ ॥
अनुवाद (हिन्दी)
घरसे तपस्या करनेके लिये जाते समय मार्गमें श्रीमहादेवजीने उन्हें दर्शन देकर कृपापूर्वक जिस तत्त्वका उपदेश दिया था, उसीका वे एकाग्रतापूर्वक ध्यान, जप और पूजन करते रहे॥ १५॥
वीरराघवः
पथि मार्गे दृष्टेन प्रसीदता गिरिशेन रुद्रेण यदुक्तमुपदिष्टं तदुद्ध्यायन्तः तदर्थं ध्यायन्तः तज्जपन्तश्च समाहितचित्ताः पूजयन्तश्च आर्चन्निति पूर्वेणान्वयः ॥ १५ ॥
श्लोक-१६
मूलम् (वचनम्)
विदुर उवाच
विश्वास-प्रस्तुतिः
प्रचेतसां गिरित्रेण यथाऽऽसीत्पथि सङ्गमः।
यदुताह हरः प्रीतस्तन्नो ब्रह्मन् वदार्थवत्॥
मूलम्
प्रचेतसां गिरित्रेण यथाऽऽसीत्प33थि सङ्गमः।
34यदुताह हरः प्रीतस्तन्नो ब्रह्मन् वदार्थ35वत्॥ १६ ॥
अनुवाद (हिन्दी)
विदुरजीने पूछा—ब्रह्मन्! मार्गमें प्रचेताओंका श्रीमहादेवजीके साथ किस प्रकार समागम हुआ और उनपर प्रसन्न होकर भगवान् शंकरने उन्हें क्या उपदेश किया, वह सारयुक्त बात आप कृपा करके मुझसे कहिये॥ १६॥
वीरराघवः
गिरिशेनोक्तं ध्यायन्त इत्याद्युक्तम् । तत्र किमुक्तं गिरिशेनेति पृच्छति विदुरः । यदा यस्मिन् काले पथि गिरित्रेण सह प्रचेतसां सङ्गम आसीत् । हे ब्रह्मन् ! प्रीतो हरः रुद्रः अर्थवत् पुरुषार्थसाधनं यदाह तन्नो अस्मभ्यं वद ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
सङ्गमः खलु विप्रर्षे शिवेनेह शरीरिणाम्।
दुर्लभो मुनयो दध्युरसङ्गाद्यमभीप्सितम्॥
अनुवाद (हिन्दी)
ब्रह्मर्षे! शिवजीके साथ समागम होना तो देहधारियोंके लिये बहुत कठिन है। औरोंकी तो बात ही क्या है—मुनिजन भी सब प्रकारकी आसक्ति छोड़कर उन्हें पानेके लिये उनका निरन्तर ध्यान ही किया करते हैं, किन्तु सहजमें पाते नहीं॥ १७॥
वीरराघवः
शिवसङ्गमस्य दौर्लभ्यमाह - हे विप्रर्षे ! शरीरिणां 38नृणाम् 39इह संसारे शिवेन साकं सङ्गमो दुर्लभः दुःखेनापि लब्धुमशक्यः । मुनयः अभीप्सितं 40आप्तुमिष्टं यं शिवमसङ्गात् विषयान्तरसङ्गत्यागात् दध्युरेव केवलं, न तु प्रापुः तेन शिवेन ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे।
शक्त्या युक्तो विचरति घोरया भगवान् भवः॥
अनुवाद (हिन्दी)
यद्यपि भगवान् शंकर आत्माराम हैं, उन्हें अपने लिये न कुछ करना है, न पाना, तो भी इस लोकसृष्टिकी रक्षाके लिये वे अपनी घोररूपा शक्ति (शिवा)-के साथ सर्वत्र विचरते रहते हैं॥ १८॥
वीरराघवः
ननु मुनीनां किं तद्ध्यानेन घोरत्वादित्याशङ्क्याह - योऽयं भगवान् उत्पत्त्यादिज्ञानवान् हरः आत्मारामोऽपि आत्मारामत्वन लोकसञ्चारप्रयोजनरहितोऽपीत्यर्थः । दीन लोकस्य राधसे सिद्धये दीनाननुग्रहीतुमिति यावत् । शक्त्या स्त्रिया सह युक्तः घोरया मूर्त्या उपलक्षितो विचरति ॥ १८ ॥
श्लोक-१९
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
प्रचेतसः पितुर्वाक्यं शिरसाऽऽदाय साधवः।
दिशं प्रतीचीं प्रययुस्तपस्यादृतचेतसः॥
मूलम्
प्रचेतसः पितुर्वाक्यं शिर44साऽऽदाय साधवः।
दिशं प्रतीचीं प्रययुः तपस्यादृतचेतसः॥ १९ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजीने कहा—विदुरजी! साधुस्वभाव प्रचेतागण पिताकी आज्ञा शिरोधार्य कर तपस्यामें चित्त लगा पश्चिमकी ओर चल दिये॥ १९॥
वीरराघवः
एवमापृष्टो मुनिः तत् यथावद्वक्तुमुपक्रमते - प्रचेतस इति । साधवः प्रचेतसः पितुः प्राचीनबर्हिषः वाक्यं प्रजाः सृजतेति वाक्यं शिरस्याधाय अतिगौरवेण शिरसाऽनुमोद्य सृष्ट्यर्थं तपस्यादृतचेतसः प्रतीचीं दिशं प्रति प्रययुः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
समुद्रमुप विस्तीर्णमपश्यन् सुमहत्सरः।
महन्मन इव स्वच्छं प्रसन्नसलिलाशयम्॥
मूलम्
समुद्रमुप विस्तीर्णमपश्यन् सुमहत्सरः।
महन्मन इव स्वच्छं प्रसन्नसलिलाशयम्॥ २० ॥
अनुवाद (हिन्दी)
चलते-चलते उन्होंने समुद्रके समान विशाल एक सरोवर देखा। वह महापुरुषोंके चित्तके समान बड़ा ही स्वच्छ था तथा उसमें रहनेवाले मत्स्यादि जलजीव भी प्रसन्न जान पड़ते थे॥ २०॥
वीरराघवः
समुद्रमुप समुद्रात् किञ्चिन्न्यूनम् । “उपोऽधिके च” (अष्टा. 1-4-87) इति कर्मप्रवचनीयत्वे तद्योगात् द्वितीया । समुद्रसमीपे वा विस्तीर्णं सुशोभनं महत् श्रेष्ठं सर अपश्यन् । महत्त्वमेव स्पष्टयति महतां ज्ञानिनां मन इव स्वच्छं निर्मलं प्रसन्नाः सलिलाशया ये मत्स्यादयः यस्मिन् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
नीलरक्तोत्पलाम्भोजकह्लारेन्दीवराकरम्।
हंससारसचक्राह्वकारण्डवनिकूजितम्॥
मूलम्
नीलरक्तोत्पलाम्भोजकल्हारेन्दीवराकरम्।
हंससारसचक्रा45ह्वकारण्डवनिकूजितम्॥ २१ ॥
अनुवाद (हिन्दी)
उसमें नीलकमल, लालकमल, रातमें, दिनमें और सायंकालमें खिलनेवाले कमल तथा इन्दीवर आदि अन्य कई प्रकारके कमल सुशोभित थे। उसके तटोंपर हंस, सारस, चकवा और कारण्डव आदि जलपक्षी चहक रहे थे॥ २१॥
वीरराघवः
नीलोत्पलादीनामाकरं जन्मस्थानम् उत्पलानि रात्रिविकासीनि, अम्भोजानि दिनविकासीनि, कल्हाराणि सन्ध्याविकासीनि, इन्दीवरं नीलोत्पलं तस्य पुनरुक्तिः प्राचुर्यज्ञापनार्था । हंसादिभिः विकूजितं चक्राह्वाः चक्रवाकाः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
मत्तभ्रमरसौस्वर्यहृष्टरोमलताङ्घ्रिपम्।
पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम्॥
मूलम्
मत्तभ्रमरसौस्वर्य हृष्टरोमलताङ्घ्रिपम्।
पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम्॥ २२ ॥
अनुवाद (हिन्दी)
उसके चारों ओर तरह-तरहके वृक्ष और लताएँ थीं, उनपर मतवाले भौंरे गूँज रहे थे। उनकी मधुर ध्वनिसे हर्षित होकर मानो उन्हें रोमांच हो रहा था। कमलकोशके परागपुंज वायुके झकोरोंसे चारों ओर उड़ रहे थे मानो वहाँ कोई उत्सव हो रहा है॥ २२॥
मत्ता ये भ्रमराः तेषां सौस्वर्येण मधुरस्वरेण हृष्टरोमाणो लताङ्घ्रिपा यस्मिन्, उपश्लिष्टलताग्रैः हृष्टरोमाण इव अङ्घ्रिपा यस्मिन् तदित्यर्थः । पद्मकोशेषु यद्भजः तत् कर्म दिक्षु विक्षिपता पवनेन उत्सवो यस्मिन् ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम्।
विसिस्म्यू राजपुत्रास्ते मृदङ्गपणवाद्यनु॥
अनुवाद (हिन्दी)
वहाँ मृदंग, पणव आदि बाजोंके साथ अनेकों दिव्य राग-रागिनियोंके क्रमसे गायनकी मधुर ध्वनि सुनकर उन राजकुमारोंको बड़ा आश्चर्य हुआ॥ २३॥
वीरराघवः
तत्र मृदङ्गादिभिरन्वितं दिव्यैः मार्गभेदैः प्रकारभेदैः मनोहरं गान्धर्वं गानमाकर्ण्य ते राजपुत्राः विसि48स्मुः 49विस्मयं प्राप्ताः49 ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
तर्ह्येव सरसस्तस्मान्निष्क्रामन्तं सहानुगम्।
उपगीयमानममरप्रवरं विबुधानुगैः॥
मूलम्
तर्ह्येव सरसस्तस्मान्निष्क्रामन्तं सहानुगम्।
उपगीयमानममरप्रवरं विबुधानुगैः॥ २४ ॥
वीरराघवः
तदैव तस्मात् सरसो विनिर्गच्छन्तं विबुधानुगैः गन्धर्वकिन्नरादिभिः उपगीयमानममरश्रेष्ठं सप्रमथगणम् ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम्।
प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाः॥
मूलम्
तप्तहेम 50निकायाभं शितिकण्ठं त्रिलोचनम्।
प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाः॥ २५ ॥
अनुवाद (हिन्दी)
इतनेमें ही उन्होंने देखा कि देवाधिदेव भगवान् शंकर अपने अनुचरोंके सहित उस सरोवरसे बाहर आ रहे हैं। उनका शरीर तपी हुई सुवर्णराशिके समान कान्तिमान् है, कण्ठ नीलवर्ण है तथा तीन विशाल नेत्र हैं। वे अपने भक्तोंपर अनुग्रह करनेके लिये उद्यत हैं। अनेकों गन्धर्व उनका सुयश गा रहे हैं। उनका सहसा दर्शन पाकर प्रचेताओंको बड़ा कुतूहल हुआ और उन्होंने शंकरजीके चरणोंमें प्रणाम किया॥ २४-२५॥
वीरराघवः
तप्तहेमशशिसदृशकान्तिं नीलः कण्ठो यस्य तं, प्रसादाभिमुखं विलोचनं रुद्रं वीक्ष्य सञ्जातहर्षाः प्रचेतसः प्रणेमुः नमस्कृतवन्तः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
स तान् प्रपन्नार्तिहरो भगवान् धर्मवत्सलः।
धर्मज्ञान् शीलसम्पन्नान् प्रीतः प्रीतानुवाच ह॥
मूलम्
स तान् प्रप51न्नार्तिहरो भगवान् 52धर्मवत्सलः।
धर्मज्ञान् शीलसम्पन्नान् प्रीतान् प्रीतः उवाच ह॥ २६ ॥
अनुवाद (हिन्दी)
तब शरणागतभयहारी धर्मवत्सल भगवान् शंकरने अपने दर्शनसे प्रसन्न हुए उन धर्मज्ञ और शीलसम्पन्न राजकुमारोंसे प्रसन्न होकर कहा॥ २६॥
वीरराघवः
स भक्तवत्सलो भगवान् गिरिशः प्रपन्नान् नमस्कुर्वाणान् धर्मज्ञान् विनयादि शीलसम्पन्नान् 53तान् प्रचेतसः स्वदर्शनप्रीतान् स्वयमपि प्रीत उवाच ॥ २६ ॥
श्लोक-२७
मूलम् (वचनम्)
श्रीरुद्र उवाच
विश्वास-प्रस्तुतिः
यूयं वेदिषदः पुत्रा विदितं वश्चिकीर्षितम्।
अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम्॥
मूलम्
यूयं 54वेदिषदः पुत्रा विदितं वश्चिकीर्षितम्।
अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम्॥ २७ ॥
अनुवाद (हिन्दी)
श्रीमहादेवजी बोले—तुमलोग राजा प्राचीनबर्हिके पुत्र हो, तुम्हारा कल्याण हो। तुम जो कुछ करना चाहते हो, वह भी मुझे मालूम है। इस समय तुमलोगोंपर कृपा करनेके लिये ही मैंने तुम्हें इस प्रकार दर्शन दिया है॥ २७॥
वीरराघवः
उक्तिमेवाह - यूयमिति यावदध्यायसमाप्ति । यूयं वेदिषदः प्राचीनबर्हिषः पुत्राः वः युष्माकं चिकीर्षितं भगवदाराधनं च विदितं वः अनुग्रहाय युष्माननुग्रहीतुं मे मम दर्शनं कृतं कारितं मयेत्यर्थः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
यः परं रंहसः साक्षात्त्रिगुणाज्जीवसंज्ञितात्।
भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे॥
मूलम्
यः 55परस्तमसः साक्षात् त्रिगुणाज्जीवसंज्ञितात्।
भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे॥ २८ ॥
अनुवाद (हिन्दी)
जो व्यक्ति अव्यक्त प्रकृति तथा जीवसंज्ञक पुरुष—इन दोनोंके नियामक भगवान् वासुदेवकी साक्षात् शरण लेता है, वह मुझे परम प्रिय है॥ २८॥
वीरराघवः
अनुग्रहकारणमाह - य इति । त्रिगुणात्मकात् तमसः प्रधानात् 56जीवसंज्ञितात्56 क्षेत्रज्ञाच्च साक्षात्परं विलक्षणम् । सूक्ष्मादिति पाठे त्रिगुणात्कार्यावस्थात् सूक्ष्मात्कारणावस्थाच्च तमसः प्रधानात् क्षेत्रज्ञाच्च परमित्यर्थः । भगवन्तं प्रकृतिपुरुषवैलक्षण्यापादकपूर्णज्ञानादिषाड्गुण्यं वासुदेवं यः प्रपन्नः स मे प्रियः, भगवद्भक्तस्य सर्वोष्कृष्टत्वादिति भावः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
स्वधर्मनिष्ठः शतजन्मभिः पुमान्
विरिञ्चतामेति ततः परं हि माम्।
अव्याकृतं भागवतोऽथ वैष्णवं
पदं यथाहं विबुधाः कलात्यये॥
मूलम्
स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरि57ञ्चतामेति ततः परं हि माम्।
अव्याकृतं भागवतोऽथ वैष्णवं पदं 58यथाऽहं विबुधाः कलात्यये॥ २९ ॥
अनुवाद (हिन्दी)
अपने वर्णाश्रमधर्मका भलीभाँति पालन करनेवाला पुरुष सौ जन्मके बाद ब्रह्माके पदको प्राप्त होता है और इससे भी अधिक पुण्य होनेपर वह मुझे प्राप्त होता है। परन्तु जो भगवान्का अनन्य भक्त है, वह तो मृत्युके बाद ही सीधे भगवान् विष्णुके उस सर्वप्रपंचातीत परमपदको प्राप्त हो जाता है, जिसे रुद्ररूपमें स्थित मैं तथा अन्य आधिकारिक देवता अपने-अपने अधिकारकी समाप्तिके बाद प्राप्त करेंगे॥ २९॥
वीरराघवः
सर्वोत्कृष्टतामेवाह - स्वधर्मनिष्ठ इति । पुमान् शतजन्मभिः केवलस्ववर्णाश्रमधर्मनिष्ठः विरिञ्चितां विरिञ्चिसालोक्यं तत् साम्यं वा, एति मामित्यत्राप्येवम् । ततः परं ततः परस्तात् मामेति । अथानन्तरं भागवतः निवृत्तिधर्मानुष्ठानपरं अव्याकृतं चक्षुराद्यनवगम्यं वक्तुमयोग्यं वा वैष्णवं 59विष्णुसम्बन्धि पदं स्थानमेति । अहं, विबुधाः ब्रह्मेन्द्रादयश्च कलात्यये स्वस्वाधिकारान्ते यथा प्राप्नुवन्ति तथेत्यर्थः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
अथ भागवता यूयं प्रियाःस्थ भगवान् यथा।
न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित्॥
अनुवाद (हिन्दी)
तुमलोग भगवद्भक्त होनेके नाते मुझे भगवान्के समान ही प्यारे हो। इसी प्रकार भगवान्के भक्तोंको भी मुझसे बढ़कर और कोई कभी प्रिय नहीं होता॥ ३०॥
वीरराघवः
अथ ननु यूयं भागवताः स्थ भवथ, अतो मम भगवान् यथा प्रियः एवं यूयमपि प्रिया भवथ । भागवतानां भागवतेभ्यः मे अन्यः प्रियः कश्चिन्नास्ति ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम्।
निःश्रेयसकरं चापि श्रूयतां तद्वदामि वः॥
मूलम्
इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम्।
निःश्रेयसकरं चापि श्रूयतां 62यद्वदामि वः॥ ३१ ॥
अनुवाद (हिन्दी)
अब मैं तुम्हें एक बड़ा ही पवित्र, मंगलमय और कल्याणकारी स्तोत्र सुनाता हूँ। इसका तुमलोग शुद्धभावसे जप करना॥ ३१॥
वीरराघवः
तत इदं वक्ष्यमाणं जप्तव्यं श्रूयतामित्यन्वयः । जप्तव्यं विशिनष्टि । विविक्तमसङ्कीर्णं यद्वा विविक्तं कर्तरि क्तः । विवेचकं प्रकृतिपुरुषविलक्षणत्वेन परमात्मविवेचकमित्यर्थः, अत एव पवित्रमत एव मङ्गलं धर्मादिपुरुषार्थसाधनं, निःश्रेयसकरं मुक्तिसाधन मत एव परं वः युष्मभ्यं वदामि ॥ ३१ ॥
श्लोक-३२
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
इत्यनुक्रोशहृदयो भगवानाह ताञ्शिवः।
बद्धाञ्जलीन् राजपुत्रान्नारायणपरो वचः॥
मूलम्
इत्यनुक्रोशहृदयो भगवानाह तान् शिवः।
बद्धाञ्जलीन् राजपुत्रान्नारायणपरो वचः॥ ३२ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—तब नारायणपरायण करुणार्द्रहृदय भगवान् शिवने अपने सामने हाथ जोड़े खड़े हुए उन राजपुत्रोंको यह स्तोत्र सुनाया॥ ३२॥
वीरराघवः
इत्येवं वदामीति प्रतिज्ञापूर्वकमनुक्रोशहृदयः 63कृपायुक्तहृदयः63 भगवान्नारायण एव परः प्राप्यः प्रापकश्च यस्य सः शिवः बद्धानि अञ्जलिपुटानि यैस्तान् राजपुत्रान् प्रति वचः वाक्यमाह ॥ ३२ ॥
श्लोक-३३
मूलम् (वचनम्)
श्रीरुद्र उवाच
विश्वास-प्रस्तुतिः
जितं त आत्मविद्धुर्यस्वस्तये स्वस्तिरस्तु मे।
भवता राधसा राद्धं सर्वस्मा आत्मने नमः॥
मूलम्
जितं 64त आत्म65विद्धुर्यस्वस्तये स्वस्तिरस्तु 66मे।
67भवता राधसा राद्धं सर्वस्मा आत्मने नमः॥ ३३ ॥
अनुवाद (हिन्दी)
भगवान् रुद्र स्तुति करने लगे—भगवन्! आपका उत्कर्ष उच्चकोटिके आत्मज्ञानियोंके कल्याणके लिये—निजानन्द लाभके लिये है, उससे मेरा भी कल्याण हो। आप सर्वदा अपने निरतिशय परमानन्द-स्वरूपमें ही स्थित रहते हैं, ऐसे सर्वात्मक आत्मस्वरूप आपको नमस्कार है॥ ३३॥
वीरराघवः
स्वरूप68रूपस्वभावैस्तत्सर्वोत्कृष्टत्वं भक्तानुग्रहार्थमेव न स्वार्थमिति वदन् सर्वान्तरात्मत्वगुणविशिष्टं नमस्करोति - जितमिति । हे आत्मवद्धुर्य ! आत्मवतां ज्ञानिनां धुर्य ! रक्षक ! ते तव जितमुत्कर्षः स्वरूपेण गुणैश्च निरतिशयोत्कर्षः जितमिति भावे क्तः, स्वस्तये आत्मविदामिति शेषः । यद्वा आत्मविद्धुर्या योगीश्वरास्तेषां स्वस्तये सुखाय त्वामुपासीनानां निरतिशयानन्दावहाः तत्स्वरूपरूपगुणाः भक्तानुग्रहैकप्रयोजना इ69त्यर्थः । अतो मे त्वामुपासीनस्य मम स्वस्तिः त्वदनुभूतिसम्भूतं सुखमस्तु । न त्वसत्तां प्राप्नुयादित्यर्थः । मे स्थायित्वेनावतिष्ठत्वित्यर्थः । ननु विषयानन्दवत् मदनुभूतिसम्भूतानन्दोऽपि क्षणिक एव स्यात्तत्राह । राधसा सिद्धरूपेण भवता सिद्धं संसिद्धं साध्यत्वेन विषयाणामस्थिरत्वात् तद्नुभवसम्भूतानन्दोऽप्यस्थिरः तव तु सिद्धरूपत्वात् त्वां नित्यमनुभवतो मम त्वदनुभवसम्भूतानन्दः स्थायीति भावः । अत्र परमात्मानन्दसाधनभूततद्विषयभक्तेः स्थैर्यं प्रार्थ्यते । ननु मम कथं सर्वोत्कृष्टता ममापि देवादीनां मध्येऽन्यतमत्वादित्यत्राह सर्वस्मै आत्म70ने इति । सर्वस्मै प्रपञ्चरूपाय, तत्र हेतुः आत्मन इति । यथा देवमनुष्यादिशरीरेष्वात्मतयाऽनुप्रविष्टो जीवः देवोऽयमिति देवादिसामानाधिकरण्येन व्यपदिश्यते तद्वत्परमात्मा । “यः पृथिव्यां तिष्ठन् य आत्मनि तिष्ठन्” (बृह. उ. 3-7-3) इति चिदचिदन्तरात्मतयाऽवस्थितः तद्व्यपदेशेन व्यपदिश्यते । तत्तदन्तरात्मत्वमेव तत्तद्व्यपदेशव्यपदेश्यत्वनिमित्तमिति युक्तमात्मत्वस्य सर्वत्वव्यपदेशहेतुत्वम् । यद्वा “आत्मनः आकाशः सम्भूतः" (तैत्ति. उ. 2-1-1) इत्यत्रेव आत्मशब्दः कारणात्मपरः, तथा चायमर्थः - कारणं हि मृद्द्रव्यं, कार्यात्मना परिणतं मृदयं घट इति कार्याभेदेन व्यपदिश्यते । तथा सूक्ष्मचिदचिद्विशिष्टः कारणभूतः परमात्मा स्थूलचिदचिद्विशिष्टब्रह्मरूपप्रपञ्चव्यपदेशव्यपदेश्यः इत्युक्तं कारणात्मत्वस्य सर्वत्वव्यपदेशहेतुत्वम् । एवं चेदृशं सर्वात्मत्वसर्वकारणत्वप्रयुक्तसर्वात्मकत्वं त्वय्येवैकान्तमिति त्वमेव सर्वोत्कृष्ट इति 71भावः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
नमः पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने।
वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे॥
मूलम्
नमः पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने।
वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे॥ ३४ ॥
अनुवाद (हिन्दी)
आप पद्मनाभ (समस्त लोकोंके आदि कारण) हैं; भूतसूक्ष्म (तन्मात्र) और इन्द्रियोंके नियन्ता, शान्त, एकरस और स्वयंप्रकाश वासुदेव (चित्तके अधिष्ठाता) भी आप ही हैं; आपको नमस्कार है॥ ३४॥
वीरराघवः
अन्यदप्युत्क72र्षोपपादकं गुणजातं वदन् तद्विशिष्टं नमस्करोति - नम इति । पङ्कजनाभाय लोकात्मकं पङ्कजं नाभौ यस्य तस्मै, एवं कार्यावस्थप्रपञ्चरूपत्वमुक्तम् । कारणावस्थप्रपञ्चरूपतामाह । भूतसूक्ष्माणामिन्द्रियाणां चात्मने आश्रयाय उभयनिर्वाहकमन्तरात्मत्वं तत्प्रयुक्तदोषास्पृष्टत्वं चाह । वासुदेवाय वासुश्चासौ देवश्च तस्मै । “सर्वत्रासौ समस्तं च वसत्यत्रैव वै यतः” (वि.पु. 1-2-12) इत्युक्त कर्त्रधिकरणव्युत्पत्तिनिरुक्तवासुशब्दवाच्यसर्वान्तरात्मत्वगुणविशिष्टाय तथापि देवाय 73तद्व्याप्यगतदोषास्पर्शनेन देदीप्यमानाय, अत एव शान्ताय अशनायापिपासाशोकमोहजरामृत्युभिरूर्मिभिर्विरहिताय अत एव कूटस्थाय निर्विकाराय अत एव स्वरोचिषे नित्यसङ्कुचितापरिच्छिन्नस्वप्रकाशाय ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च।
नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने॥
मूलम्
सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च।
नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने॥ ३५ ॥
अनुवाद (हिन्दी)
आप ही सूक्ष्म (अव्यक्त), अनन्त और मुखाग्निके द्वारा सम्पूर्ण लोकोंका संहार करनेवाले अहंकारके अधिष्ठाता संकर्षण तथा जगत्के प्रकृष्ट ज्ञानके उद्गमस्थान बुद्धिके अधिष्ठाता प्रद्युम्न हैं; आपको नमस्कार है॥ ३५॥
वीरराघवः
कारणावस्थप्रपञ्चात्मकत्वस्य प्रपञ्चसंहारपूर्वकत्वाज्जगत्संहर्तृत्वगुणविशिष्टतामाह - सङ्कर्षणायेति । सङ्कर्षणाय समित्येकीकारे अविभक्तनामरूपत्वेन कर्षणाय कर्षयत्याकर्षयति स्वस्मिन् जगदुपसंहरति तथा तस्मै । केनाकारेण संहर्तृत्वम् ? तत्राह - अन्तकाय । मुखाग्निना लोकदाहकाय, अत एव सूक्ष्माय नामरूपविभागानर्हसूक्ष्मचिदचिद्विशिष्टाय एवम्भूतायापि दुरन्ताय अन्तर्हिताय अनुपसंहार्यायेत्यर्थः । 74उपसंहारो हि कार्यस्य कारणेन सह संश्लेषः, तस्य कारणान्तराभावेनानुपसंहार्यत्वात् 75कारणकाष्ठाभूतायेत्यर्थः फलितः । एवं कार्यावस्थकारणावस्थप्रपञ्चरूपत्वतदनुगुणगुणयुक्तं नमस्कृत्य जगद्रक्षकत्वतदुपयुक्तगुणविशिष्टं नमस्करोति - नम इति । विश्वप्रबोधाय विश्वं प्रबोधयति धर्मादिपुरुषार्थतत्साधनप्रकाशक-वेदाख्यशास्त्रोपदेशेन वेदयतीति विश्वप्रबोधः तस्मै, विश्वोज्जीवयित्रे इत्यर्थः । न केवलमुपदेशमात्रेण अपि तु व्यूहविधावन्तर्यामित्वादिरूपेण विभवमूलत्वसाध्वसाधु निग्रहानुग्रहदेहेन्द्रियादिसज्जीवयितृत्वादिभिश्चेत्याहप्रद्युम्नाय । दुष्कृन्निग्रहसाध्वनुग्रहैकप्रयोजनरामकृष्णादि76विभवमूलप्रद्युम्नव्यूहाय अन्तरात्मने सर्वदेशकालावस्थासु युगपत्सर्वजगदन्तः प्रवेशपूर्वकं प्रशासनेन भर्त्रे ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने।
नमः परमहंसाय पूर्णाय निभृतात्मने॥
मूलम्
नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने।
नमः परमहंसाय पूर्णाय नि77भृतात्मने॥ ३६ ॥
अनुवाद (हिन्दी)
आप ही इन्द्रियोंके स्वामी, मनस्तत्त्वके अधिष्ठाता भगवान् अनिरुद्ध हैं; आपको बार-बार नमस्कार है। आप अपने तेजसे जगत्को व्याप्त करनेवाले सूर्यदेव हैं, पूर्ण होनेके कारण आपमें वृद्धि और क्षय नहीं होता; आपको नमस्कार है॥ ३६॥
वीरराघवः
नमसो द्विरुक्तिः तत्तद्गुणविशेषविशिष्टत्वाभिप्रायतः कृता अनिरुद्धाय अनिरुद्धव्यूहाय, हृषीकाणामिन्द्रियाणां यदीशं मन इन्द्रियाणि च, तदात्मने तद्रूपाय, सर्त्वात्मकत्वेऽपि विशिष्य हृषीकेशेन्द्रियग्रहणमनिरुद्धोपासनस्थानकृतम् । तथा चोक्तं तृतीये “यद्विदुर्ह्यनिरुद्धाख्यं हृषीकाणामधीश्वरम् । शारदेन्दीवरश्यामं संराध्यमृषिभिः शनैः” (भाग 3-26-28) इति । उक्तस्य जगद्रूपत्वादेर्जीवस्य देवादिरूपत्वात् कर्मायत्तत्व शङ्कायामाह - परमहंसाय । हिनस्ति कर्माख्यं पुण्यापुण्यरूपं मलमाश्रितेषु स्वस्मिंश्चेति हंसस्ततः कर्मधारयाच्चतुर्थी, अपहतपाप्मने इत्यर्थः । पूर्णाय अन्तर्बहिश्च व्याप्यस्थिताय नित्यनिरुपाधिकान्तर्बहिर्व्याप्तिकृतं जगद्रूपत्वं न भवत औपाधिकं, जीवस्य तु देवादिशरीरेष्वभिव्याप्तिः “पिप्पलं स्वाद्वत्ति” (मुण्ड. उ. 3-1-1) इति श्रुतेः कर्मकृतेति । तस्य देवादिरूपत्वमौपाधिकमिति ततः परमात्मनो वैलक्षण्यसिद्धिः । यद्वा परमहंसाय अपहतपाप्मने अतएव निर्वृतात्मने शोकरहिताय । निभृतात्मने इति पाठे क्षयवृद्धिशून्याय, अत एव पूर्णाय सर्वदान्तर्बहिश्च व्याप्य स्थिताय । यद्वा पूर्णाय व्यापकाय । निभृतात्मने अवाप्तसमस्त कामाय । अयमपि जगद्रक्षणोपयुक्त एव गुणः । अवाप्तसमस्तकामोऽहि स्वाश्रितान् समीहितकामप्रदानेन सम्यक् पालयति न तु दरिद्रः ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नमः।
नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे॥
मूलम्
स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नमः।
नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे॥ ३७ ॥
अनुवाद (हिन्दी)
आप स्वर्ग और मोक्षके द्वार तथा निरन्तर पवित्र हृदयमें रहनेवाले हैं, आपको नमस्कार है। आप ही सुवर्णरूप वीर्यसे युक्त और चातुर्होत्र कर्मके साधन तथा विस्तार करनेवाले अग्निदेव हैं; आपको नमस्कार है॥ ३७॥
वीरराघवः
अन्यदपि जगद्रक्षणोपयुक्तं गुणजातमाह । स्वर्गापवर्गयोः द्वाराय साधनभूताय । “इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः” (म.ना.उ. 1-6) । “अमृतस्यैष सेतुः” (मुण्ड. उ. 2-2-5) इत्यादिश्रुतेः सेतुरिव सेतुः लम्भकः प्रापकः । सेतुर्हि तीरान्तरप्रापकः । स्वर्गापवर्गद्वारत्वमेवोपपादयन्नमस्करोति नित्यं सदा शुचिषु योगिचित्तेषु सीदति रमत इति शुचिषत् । योगिभिः नित्यमुपास्यत्वेन तत्समीहितापवर्गप्रदात्र इत्यर्थः । हिरण्यं वीर्यं यस्य सोऽग्निस्तस्मै अग्निरूपाय । चतुर्णां होतृणामयं चातुर्होत्रः, चतुर्भिः होतृभिः साध्यः तस्मै, तन्तवे यज्ञाय तद्रूपायेत्यर्थः । यज्ञस्वरूपत्वयज्ञाराध्यत्वतत्फलदत्वादिभिः स्वर्गद्वारायेत्यर्थः ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
नम ऊर्ज इषे त्रय्याः पतये यज्ञरेतसे।
तृप्तिदाय च जीवानां नमः सर्वरसात्मने॥
मूलम्
नम ऊर्ज इषे त्रय्याः पतये यज्ञरेतसे।
तृप्तिदाय च जीवानां नमः सर्वरसात्मने॥ ३८ ॥
अनुवाद (हिन्दी)
आप पितर और देवताओंके पोषक सोम हैं तथा तीनों वेदोंके अधिष्ठाता हैं; हम आपको नमस्कार करते हैं, आप ही समस्त प्राणियोंको तृप्त करनेवाले सर्वरस (जल) रूप हैं; आपको नमस्कार है॥ ३८॥
श्लोक-३९
विश्वास-प्रस्तुतिः
सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे।
नमस्त्रैलोक्यपालाय सहओजोबलाय च॥
मूलम्
सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे।
नमस्त्रैलोक्यपालाय सह ओजबलाय च॥ ३९ ॥
अनुवाद (हिन्दी)
आप समस्त प्राणियोंके देह, पृथ्वी और विराट्स्वरूप हैं तथा त्रिलोकीकी रक्षा करनेवाले मानसिक, ऐन्द्रियिक और शारीरिक शक्तिस्वरूप वायु (प्राण) हैं; आपको नमस्कार है॥ ३९॥
वीरराघवः
ऊरुक् पितॄणामन्त्रं, इट् देवानामन्नं, तद्रूपाय ऊर्गिडादिरूपेण पित्रादीनां तृप्तिमापादयन् तदन्तर्यामिरूपेण यः फलदः, तस्मै इत्यर्थः । त्रय्याः वेदस्य पतये रक्षकाय प्रतिपाद्याय च यज्ञस्य रेतः फलं, तद्रूपाय, अत्र हिरण्यरूपायेत्याहवनीयाद्यनिरूपत्वमुक्तं, चातुर्होत्राय तन्तव इति द्रव्यक्रियामन्त्राद्यात्मकयज्ञरूपत्वम्, ऊर्ज इष इति यज्ञाराध्यदेवतारूपत्वं त्रय्याः पतय इति स्वर्गापवर्गतत्साधनप्रकाशकवेदकारणत्वम् । एवं स्वर्गापवर्गद्वारत्व78मुक्तम् । स्वर्गद्वारशब्देन ऐहलौकिकसुखसाधनत्वमभिप्रेतं, तदुपपादयन् नमस्करोति जीवानां तृप्तिदाय शब्दस्पर्शादिविषयानुभवजसुखप्रदायेत्यर्थः । एतदुपपादकं सर्वरसात्मन इति । 79सर्वरसाः कद्वाम्ललवणमाधुर्यादयः, तदात्मने तद्रूपायेत्यर्थः । कट्वादिरसानामगुणपरिणामरूपत्वात् । “रसोऽहमप्सु कौन्तेय” (भगी. 7-8) इति रसस्य तद्विभूतित्वगानात् सर्वरसात्मन इत्युक्तम् । इदं शब्दस्पर्शरूपात्मकत्वस्याप्युपलक्षणम् । स्थवीयसे स्थूलाय विशेषाय पृथिव्यात्मने गन्धरूपायेत्यर्थः । “पुण्यो गन्धः पृथिव्यां च" (भ.गी. 7-9) इति 80गोतावचनात्80 । एवं गन्धरसादिभोग्यरूपेण तृप्तिदत्वमुक्तम् । अथ भोक्तृभोगोपकरणभोगस्थानादिरूपेण तृप्तिदत्वमाह - सर्व इति । 81सर्वसत्त्वात्म देहाय81 सर्वमचेतनजातं भोगोपकरणभोगस्थानरूपं सर्वे आत्मानो भोक्तारो जीवाश्च देहश्शरीरं यस्य तस्मै, प्रकारान्तरेणापि तृप्तिदत्वमाह । सहः प्रवृत्तिसामर्थ्यमिन्द्रियशक्तिः, ओजस्तेजः, बलं धारण सामर्थ्यं देहशक्तिः तद्रूपा82येत्यर्थः । सह आदिरूपेणापि तृप्तिदायेत्यर्थः । एवमाकारेण जगद्रक्षकत्वमित्याह त्रैलोक्यपालाय, उक्त 83प्रकारेण83 त्रैलोक्यान्त84र्भूतकृत्स्नजगत्पालायेत्यर्थः ॥ ३८,३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने।
नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे॥
मूलम्
अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने।
नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे॥ ४० ॥
अनुवाद (हिन्दी)
आप ही अपने गुण शब्दके द्वारा—समस्त पदार्थोंका ज्ञान करानेवाले तथा बाहर-भीतरका भेद करनेवाले आकाश हैं तथा आप ही महान् पुण्योंसे प्राप्त होनेवाले परम तेजोमय स्वर्ग-वैकुण्ठादि लोक हैं; आपको पुनः-पुनः नमस्कार है॥ ४०॥
वीरराघवः
एवं जगदुपादानत्व85तदन्तरात्मत्वतदन्यत्वतत्संहर्तृत्वादिभिः तदेकासाधारणैः धर्मैः सर्वोत्कृष्टं नमस्कृत्य, अथ चिदचिदात्मकं सर्वमपि वस्तु त्वच्छरीरमेव । अतस्त्वत्तो नोत्कृष्टमस्तीत्यभिप्रायेण सर्वात्मकृत्वेन नमस्करोति - शब्दलिङ्गायेति । शब्दः आकाशगुणः स लिङ्गं शरीरं यस्य तस्मै, नभसे आकाशगुणः स लिङ्गं शरीरं यस्य तस्मै, नभसे आकाशरूपाय च इदं वाय्वादितद्गुणशरीरकत्वस्याप्युपलक्षणम् । शब्दादिषु नियमनपूर्वकं व्याप्य त्वच्छरीरकत्वेन स्थितायेत्यर्थः, व्याप्तिश्च वेद्यामग्निरिव न बहिरेवतिलेषु तैलमिव नान्तरेव, किन्त्वन्तर्बहिश्चेत्याह - अन्तर्बहिरात्मन इति । अतति सन्ततमविच्छेदेन व्याप्नोतीत्यात्मा अन्तर्बहिश्च व्याप्य स्थितायेत्यर्थः । तथा च श्रूयते - “अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः” (म.ना.उ.9-5) इति । पुण्याय 86यज्ञदानादिरूप86 पुण्यशरीराय अमुष्मै तत्साध्यस्वर्गादिलोक रूपाय, लोकाय एतल्लोकरूपाय भूरिवर्चसे ज्ञानप्रचुरजीवरूपाय ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे।
नमोऽधर्मविपाकाय मृत्यवे दुःखदाय च॥
मूलम्
प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे।
नमोऽधर्मविपाकाय मृत्यवे दुःख87दाय च॥ ४१ ॥
अनुवाद (हिन्दी)
आप पितृलोककी प्राप्ति करानेवाले प्रवृत्ति-कर्मरूप और देवलोककी प्राप्तिके साधन निवृत्ति-कर्मरूप हैं तथा आप ही अधर्मके फलस्वरूप दुःखदायक मृत्यु हैं; आपको नमस्कार है॥ ४१॥
वीरराघवः
प्रवृत्ताय निवृत्ताय च कर्मणे, प्रवृत्तिनिवृत्त्यात्मककर्मरूपाय पितृदेवाय प्रवृत्तिकर्माराध्यतत्फलप्रदपितृदेवादिशरीराय धर्मविपाकाय धर्मोऽत्रानभिसंहितफलभागवदाराधनरूपः, तस्य विपाकः फलम् । तस्मै निवृत्तिधर्मपरफलरूपायेत्यर्थः । तथा मृत्यवे दुःखदाय दुःखप्रदमृत्युरूपाय ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
नमस्त आशिषामीश मनवे कारणात्मने।
नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे।
पुरुषाय पुराणाय सांख्ययोगेश्वराय च॥
मूलम्
नमस्त आशिषामीश मनवे कारणात्मने।
नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे।
पुरुषाय पुराणाय सांख्ययो88गेश्वराय 89च॥ ४२ ॥
अनुवाद (हिन्दी)
नाथ! आप ही पुराणपुरुष तथा सांख्य और योगके अधीश्वर भगवान् श्रीकृष्ण हैं; आप सब प्रकारकी कामनाओंकी पूर्तिके कारण, साक्षात् मन्त्रमूर्ति और महान् धर्मस्वरूप हैं; आपकी ज्ञानशक्ति किसी भी प्रकार कुण्ठित होनेवाली नहीं है; आपको नमस्कार है, नमस्कार है॥ ४२॥
वीरराघवः
हे आशिषामीश ! यद्वा - हे ईश ! आशिषां धर्मादीनां कारणात्मने फलप्रकाशकाय, मनवे सर्वज्ञाय स्वायम्भुवादिमनुरूपाय वा, मन्वन्तराधिदैवताय वा, मन्त्ररूपाय वा, एवं सर्वात्मकत्वेन नमस्कृत्य, साक्षान्नमस्करोति - बृहते स्वरूपेण गुणैश्च निरतिशयबृहत्वाय, धर्माय, कृष्णाय, 90कृष्णाख्यसिद्धरूपधर्माय - सिद्धरूपेऽपि धर्मशब्दः प्रयुज्यते तथा च श्रीमहाभारते “ये च वेदविदो विप्राः, ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम्” (भारते 3-86-22) इति । अकुण्ठमेधसे अप्रतिहतज्ञानाय ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
शक्तित्रयसमेताय मीढुषेऽहंकृतात्मने।
चेतआकूतिरूपाय नमो वाचोविभूतये॥
मूलम्
शक्तित्रयसमेताय मीढुषेऽहं कृतात्मने।
चेत आ91कृतिरूपाय नमो वाचोविभूतये॥ ४३ ॥
अनुवाद (हिन्दी)
आप ही कर्ता, करण और कर्म—तीनों शक्तियोंके एकमात्र आश्रय हैं; आप ही अहंकारके अधिष्ठाता रुद्र हैं; आप ही ज्ञान और क्रियास्वरूप हैं तथा आपसे ही परा, पश्यन्ती, मध्यमा और वैखरी—चार प्रकारकी वाणीकी अभिव्यक्ति होती है; आपको नमस्कार है॥ ४३॥
वीरराघवः
पुरुषायेति । पुराणपुरुषाय कपिलाद्यंशावताररूपेण नमस्करोति सांख्येश्वरः कपिलः । 92योगीश्वरो हिरण्यगर्भः तद्रूपाय, शक्तित्रयं सर्गादिसामर्थ्यं तद्युक्ताय, नव ब्रह्मेन्द्रकालरुद्ररुपायेत्यर्थः । मीढुषे “मिह-सेचने” 93वर्षप्रदसूर्यात्मकपर्जन्य94रूपाय “तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च" (भ.गी. 9-19) इति पर्जन्यस्यापि भगवद्विभूतित्व95ज्ञापनात् । अहङ्कृतम् अहङ्कारतत्त्वं, तस्यात्मने चेत् आकृतिरूपाय, चेतसः आकृतिः स्वरूपं तदेव यस्य रूपं, स तथोक्तस्तस्मै । “यस्याहङ्कारश्शरीरं, यस्य मनश्शरीरम् (सुबा. उ. 7) इति श्रुतेः । वाचो विभूतये वाक्प्रपञ्चाय, यद्वा चेतश्चाकृतिः शरीरं च यस्य रूपं स तथोक्तस्तस्मै । मनोवाक्कायरूपत्रयात्मने, मन आदिविषयरूपायेत्यर्थः । इदमनुक्तरूपत्वसङ्ग्राहकम् । किञ्चिद्धिवस्तु क्षीरशर्करादिगतमाधुर्यादिवत् एवंविधमपि वाचा वक्तुमशक्यमपि, मनसा चिन्तयितुं शक्यम् । किञ्चिच्च वस्तु दूरस्थमेर्वादिवत् चक्षुरादिभिरनुभवितुमशक्यमपि एवंविधमिति वाचा वक्तुं शक्यम् । किञ्चिद्धि कायेनानुभवितुं शक्यं, यथा सन्निकृष्टघटपटादिकं, एवंविधवस्तु शरीरायेत्यर्थः ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम्।
रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम्॥
मूलम्
दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम्।
रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम्॥ ४४ ॥
अनुवाद (हिन्दी)
प्रभो! हमें आपके दर्शनोंकी अभिलाषा है; अतः आपके भक्तजन जिसका पूजन करते हैं और जो आपके निजजनोंको अत्यन्त प्रिय है, अपने उस अनूप रूपकी आप हमें झाँकी कराइये। आपका वह रूप अपने गुणोंसे समस्त इन्द्रियोंको तृप्त करनेवाला है॥ ४४॥
वीरराघवः
एवं पारमैश्वर्यापादकगुणगणविशिष्टं भगवन्तं नमस्कृत्य, तदीयदिव्यमङ्गलविग्रहदर्शनं प्रार्थयमानः, विग्रहं च वर्णयति - दर्शनमिति नवभिः । भागवतैः अर्चितं ते रूपं दिदृक्षूणां द्रष्टुमिच्छूनां नोऽस्माकं दर्शनं देहीत्यन्वयः । रूपं विशिनष्टि । स्वानां भक्तानां प्रियतमं सर्वेषामिन्द्रियाणां 96ये ये गुणा असाधारणधर्माः श्रवणस्पर्शनदर्शनाघ्राणादयः तैः अञ्जनम्, अभिव्यंग्यं यथा तथा, देहीति क्रियाविशेषणम् । यद्वा सर्वेषामिन्द्रियाणामप्राकृतानां तद्गुणानां शब्दादीनां च अञ्जनमभिव्यक्तिर्यस्मिन् तदिति “सर्व कर्मा सर्वकामः सर्वगन्धस्सर्वरसः" (छां.उ. 3-14-4) इति श्रुतेः ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
स्निग्धप्रावृड्घनश्यामं सर्वसौन्दर्यसंग्रहम्।
चार्वायतचतुर्बाहुं सुजातरुचिराननम्॥
मूलम्
स्निग्धप्रावृड्घनश्यामं सर्वसौन्दर्यसंग्रहम्।
चार्वायतचतुर्बाहुं सुजातरुचिराननम्॥ ४५ ॥
वीरराघवः
स्निग्धः प्रावृषि वर्षर्तौ, यो घनः तद्वत् श्यामं, सर्वेषां सौन्दर्याणां सङ्ग्रहो यस्मिन्, चारवः सुन्दराः आयताः आजानुलम्बिनः चत्वारो बाहवो यस्मिन् सुजातं सुकुमारं, 97रुचिरं सुन्दरम् आननं यस्मिन् ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
पद्मकोशपलाशाक्षं सुन्दरभ्रु सुनासिकम्।
सुद्विजं सुकपोलास्यं समकर्णविभूषणम्॥
वह वर्षाकालीन मेघके समान स्निग्ध श्याम और सम्पूर्ण सौन्दर्योंका सार-सर्वस्व है। सुन्दर चार विशाल भुजाएँ, महामनोहर मुखारविन्द, कमलदलके समान नेत्र, सुन्दर भौंहें, सुघड़ नासिका, मनमोहिनी दन्तपंक्ति, अमोल कपोलयुक्त मनोहर मुखमण्डल और शोभाशाली समान कर्ण-युगल हैं॥ ४५-४६॥
मूलम्
पद्मकोशपलाशाक्षं सुन्दरभ्रु सुनासिकम्।
सुद्विजं सुकपोलास्यं समकर्णवि98भूषणम्॥ ४६ ॥
अनुवाद (हिन्दी)
वह वर्षाकालीन मेघके समान स्निग्ध श्याम और सम्पूर्ण सौन्दर्योंका सार-सर्वस्व है। सुन्दर चार विशाल भुजाएँ, महामनोहर मुखारविन्द, कमलदलके समान नेत्र, सुन्दर भौंहें, सुघड़ नासिका, मनमोहिनी दन्तपंक्ति, अमोल कपोलयुक्त मनोहर मुखमण्डल और शोभाशाली समान कर्ण-युगल हैं॥ ४५-४६॥
वीरराघवः
पद्मस्य कोशे मध्ये यानि पलाशानि तद्वदक्षिणी यस्मिन्, सुन्दरे भ्रुवौ यस्मिन्, शोभना नासिका यस्मिन्, शोभनाः द्विजाः दन्ताः यस्मिन्, सु कपोलम् आस्यं यस्मिन्निति 99बहुव्रीहिगर्भो99 बहुव्रीहिः, समौ कर्णावेव विभूषणं यस्मिन्, कुण्डलयोः अग्रे वक्ष्यमाणत्वात् ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
प्रीतिप्रहसितापाङ्गमलकैरुपशोभितम्।
लसत्पङ्कजकिञ्जल्कदुकूलं मृष्टकुण्डलम्॥
मूलम्
प्रीतिप्रहसितापाङ्गमलकैरुपशोभितम्।
लसत्पङ्कजकिञ्जल्कदुकूलं मृष्टकुण्डलम्॥ ४७ ॥
वीरराघवः
प्रीत्या प्रहसिताविव अपाङ्गौ यस्मिन्, अलकैः कुन्तलैः उपशोभितं नूतनपङ्कजकिञ्जल्कवत्पिशङ्गं दुकूलं यस्मिन्, मृष्टे निर्मले कुण्डले यस्य ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
स्फुरत्किरीटवलयहारनूपुरमेखलम्।
शङ्खचक्रगदापद्ममालामण्युत्तमर्द्धिमत्॥
मूलम्
स्फुरत्किरीटवलयहारनूपुरमेखलम्।
शङ्खचक्रगदापद्ममालामण्युत्तमर्द्धिमत्॥ ४८ ॥
अनुवाद (हिन्दी)
प्रीतिपूर्ण उन्मुक्त हास्य, तिरछी चितवन, काली-काली घुँघराली अलकें, कमलकुसुमकी केसरके समान फहराता हुआ पीताम्बर, झिलमिलाते हुए कुण्डल, चमचमाते हुए मुकुट, कंकण, हार, नूपुर और मेखला आदि विचित्र आभूषण तथा शंख, चक्र, गदा, पद्म, वनमाला और कौस्तुभमणिके कारण उसकी अपूर्व शोभा है॥ ४७-४८॥
वीरराघवः
स्फुरन्ति किरीटादीनि यस्मिन्, शतादिभिः उत्तमाऋद्धिर्लक्ष्मीः अस्मिन् अस्तीति तथा ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
सिंहस्कन्धत्विषो बिभ्रत्सौभगग्रीवकौस्तुभम्।
श्रियानपायिन्या क्षिप्तनिकषाश्मोरसोल्लसत्॥
मूलम्
सिंहस्कन्ध100त्विषो बिभ्रत्सौभगग्रीवकौस्तुभम्।
श्रियाऽनपायिन्याऽऽ101क्षिप्तनिकषाश्मोरसोल्लसत्॥ ४९ ॥
अनुवाद (हिन्दी)
उसके सिंहके समान स्थूल कंधे हैं—जिनपर हार, केयूर एवं कुण्डलादिकी कान्ति झिलमिलाती रहती है—तथा कौस्तुभमणिकी कान्तिसे सुशोभित मनोहर ग्रीवा है। उसका श्यामल वक्षःस्थल श्रीवत्स-चिह्नके रूपमें लक्ष्मीजीका नित्य निवास होनेके कारण कसौटीकी शोभाको भी मात करता है॥ ४९॥
वीरराघवः
सिंहस्कन्धत्विष इति द्वितीयाबहुवचनम् । 102सिंहस्य स्कन्धे परितः प्रसरन्तः केसरा इव सर्वतः या त्विषस्ताः ता बिभ्रती, या सौभगा ग्रीवा तस्यां कौस्तुभो यस्मिन्, यद्वा सिंहस्येव यौ स्कन्धौ तयोः त्विषः कुण्डलहारादिदीप्तीः बिभ्रदिति पृथग्विशेषणम् ।
सौभगयुक्तग्रीवायां कौस्तुभो यस्मिन्, सौभगा ग्रीवा यस्य स कौस्तुभो यस्मिन्निति बहुव्रीहिगर्भो वा बहुव्रीहिः श्रिया हेतुभूतया आक्षिप्तः तिरस्कृतो निकषाश्मा सुवर्ण रेखाङ्कितो निकषपाषाणो येन तादृशेन । उरसा उल्लसच्छोभमानं, यद्वा श्रिया उपलक्षितेन निकषोपरिर्युपरक्तसुवर्णरेखासदृशश्रिया, उपलक्षितेनेत्युरो विशेषणम्, आक्षिप्तः शङ्कितः निकषाश्मा येन तेन उरसा उल्लसत् शोभमानं लक्ष्मीसहितं श्यामं वक्षः कनकनिकषरेखान्वितमश्मानं शङ्कयतीत्यर्थः ॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
पूररेचकसंविग्नवलिवल्गुदलोदरम्।
प्रतिसंक्रामयद्विश्वं नाभ्याऽऽवर्तगभीरया॥
मूलम्
पूररेचकसंविग्न वलि103वल्गुदलोदरम्।
प्रतिसंक्रामयद्विश्वं नाभ्याऽऽवर्तगभीरया॥ ५० ॥
अनुवाद (हिन्दी)
उसका त्रिवलीसे सुशोभित, पीपलके पत्तेके समान सुडौल उदर श्वासके आने-जानेसे हिलता हुआ बड़ा ही मनोहर जान पड़ता है। उसमें जो भँवरके समान चक्करदार नाभि है, वह इतनी गहरी है कि उससे उत्पन्न हुआ यह विश्व मानो फिर उसीमें लीन होना चाहता है॥ ५०॥
वीरराघवः
पूरकरेचकाभ्यां श्वासोच्छ्वासाभ्यां संविप्राश्चपला वलयस्ताभिः वल्गु सुन्दरं दलवदश्वत्थपत्रसदृशमुदरं यस्मिन् । यद्वा सृष्ट्या पूर्यते पाल्यते इति वा जगत् पूरं तत् रेचकं सम्पूरण समर्थं यस्मिन्, संविप्राः सम्मर्दाः वलयो यस्मिन्, दलवदुदरं पूरकरेचकसंविग्नवलि वल्गु दलोदरं यस्मिन्निति त्रिप104दं बहुव्रीहिः - पूर्वयोः कर्मधारये द्विपदो बहुव्रीहिः । यतो नाभिद्वारान्निर्गतं विश्वम् आवर्तवत् गभीरया नाभ्या प्रतिसङ्क्रामयत् पुनः प्रवेशयदिव स्थितं गम्भीरनाभिद्वारेण बहिष्ठं विश्वं अन्तर्निवेशयदिव स्थितमित्यर्थः ॥ ५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
श्यामश्रोण्यधिरोचिष्णुर्दुकूलस्वर्णमेखलम्।
समचार्वङ्घ्रिजङ्घोरुनिम्नजानुसुदर्शनम्॥
मूलम्
श्यामश्रोण्यधिरोचिष्णुर्दुकूलस्वर्णमेखलम्।
समचार्वङ्घ्रिजङ्घोरु निम्नजानुसुदर्शनम्॥ ५१ ॥
अनुवाद (हिन्दी)
श्यामवर्ण कटिभागमें पीताम्बर और सुवर्णकी मेखला शोभायमान है। समान और सुन्दर चरण, पिंडली, जाँघ और घुटनोंके कारण आपका दिव्य विग्रह बड़ा ही सुघड़ जान पड़ता है॥ ५१॥
वीरराघवः
श्यामयोः श्रोण्योर्नितम्बयोरधिकं रोचिष्णु यत् पीतं दुकूलं तत्र स्वर्णमयी मेखला यस्मिन्, अङ्घ्री च जङ्घ्रे च ऊरू च निम्ने अनुन्नते जानुनी च समैश्चारुभिः जान्वादिभिश्शोभनं दर्शनं यस्य ॥ ५१ ॥
श्लोक-५२
विश्वास-प्रस्तुतिः
पदा शरत्पद्मपलाशरोचिषा
नखद्युभिर्नोऽन्तरघं विधुन्वता।
प्रदर्शय स्वीयमपास्तसाध्वसं
पदं गुरो मार्गगुरुस्तमोजुषाम्॥
मूलम्
पदा शरत्पद्मपलाशरोचिषा नखद्युभि105श्चान्तरघं विधुन्वता।
प्रदर्शय स्वीयमपास्तसाध्वसं पदं 106गुरोर्मार्गगुरुस्तमोजुषाम्॥ ५२ ॥
अनुवाद (हिन्दी)
आपके चरणकमलोंकी शोभा शरद्-ऋतुके कमल-दलकी कान्तिका भी तिरस्कार करती है। उनके नखोंसे जो प्रकाश निकलता है, वह जीवोंके हृदयान्धकारको तत्काल नष्ट कर देता है। हमें आप कृपा करके भक्तोंके भयहारी एवं आश्रयस्वरूप उसी रूपका दर्शन कराइये। जगद्गुरो! हम अज्ञानावृत प्राणियोंको अपनी प्राप्तिका मार्ग बतलानेवाले आप ही हमारे गुरु हैं॥ ५२॥
वीरराघवः
एवं विग्रहमनुवर्ण्य तद्दर्शनं प्रार्थयते - पदेति । शरदि च यत्पद्यं तस्य यानि पलाशानि तद्वद्राचिर्यस्य तेन पदा चरणेन नोऽस्माकम् अन्तरघम् अन्तस्स्थितं पापहेतुमज्ञानं नखकान्तिभिः विधुन्वता अपनयता शरत्पद्मस्थानीयचरणस्य पलाशस्थानीयाङ्गुलिस्थनखरोचिर्भिः, अघं विधुन्वता पदा अपास्तं निरस्तं साध्वसं भक्तानां भयं यस्मिन् तत् स्वीयं पदं रूपं, यद्वा उक्तविधेन पदा उपलक्षितः त्वम् अपास्तसाध्वसं स्वीयं पदं पद्यते अवगम्यते इति पदं रूपं प्रदर्शय यतः त्वमेव तमोजुषामज्ञानिनां गुरोर्मार्गगुरुः गुरुमार्गप्रदर्शको भवसि ॥ ५२ ॥
श्लोक-५३
विश्वास-प्रस्तुतिः
एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम्।
यद्भक्तियोगोऽभयदः स्वधर्ममनुतिष्ठताम्॥
मूलम्
एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम्।
यद्भक्तियोगोऽभयदः स्वधर्ममनुतिष्ठताम्॥ ५३ ॥
अनुवाद (हिन्दी)
प्रभो! चित्तशुद्धिकी अभिलाषा रखनेवाले पुरुषको आपके इस रूपका निरन्तर ध्यान करना चाहिये; इसकी भक्ति ही स्वधर्मका पालन करनेवाले पुरुषको अभय करनेवाली है॥ ५३॥
वीरराघवः
ननु “न मांसचक्षुरभिवीक्षते तम्”, “न चक्षुषा पश्यति कश्चनैनं हृदा मनीषा मनसाभिक्लिप्तः" (कठ. उ. 6-9) इति प्राकृत चक्षरादिभिरग्राह्यं योगपरिशुद्धमनोग्राह्यमप्राकृतं मदीयरूपम् अपरिशुद्धमनसस्तव कथं प्रदर्शयेति प्रार्थयस इत्याशङ्कायामाह - एतदिति । एतदुक्तविधं तव रूपम् आत्मशुद्धिमन्तःकरणनैर्मल्यम् अभीप्सतामस्माकं केवलमनुध्येयमेव, एतद्रूपस्य ध्यानविषयत्वमेव प्रदर्शयेति प्रार्थ्यते, न तु साक्षात्कार इति भावः । किं ध्यानविषयत्वमात्रसाध्यं तत्राह - यतः ध्यानविषयात् त्वद्रूपात् ध्यानयोगाङ्गत्वेन स्ववर्णाश्रमोचितधर्ममनुतिष्ठतां पुंसाम् अभयदः साक्षान्मोक्षसाधनभूतो भक्तियोगः परमभक्तियोगो भवति ध्यानयोगोऽपि परज्ञानप्रणाड्या परमभक्तियोगरूपेण परिणम107ते इत्यर्थः ॥ ५३ ॥
श्लोक-५४
विश्वास-प्रस्तुतिः
भवान् भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम्।
स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गतिः॥
मूलम्
भवान् भक्तिम108तालभ्यो दुर्लभः सर्वदेहिनाम्।
स्वाराज्यस्याप्यभि109मत एकान्तेनात्मविद्गतिः॥ ५४ ॥
अनुवाद (हिन्दी)
स्वर्गका शासन करनेवाला इन्द्र भी आपको ही पाना चाहता है तथा विशुद्ध आत्मज्ञानियोंकी गति भी आप ही हैं। इस प्रकार आप सभी देहधारियोंके लिये अत्यन्त दुर्लभ हैं; केवल भक्तिमान् पुरुष ही आपको पा सकते हैं॥ ५४॥
वीरराघवः
परमभक्तिमता तु भवान् लभ्य इत्याह - भवानिति । सर्वदेहिनां दुर्लभोऽपि भवान् भक्तिमता प्रशंसायां मतुप् परमभक्तिमता लभ्य एव । दुर्लभत्वमेवाह - स्वाराज्यस्येति । आत्मविदां उक्तभक्तियोगनिष्ठायां गतिः प्राप्य110स्त्वं स्वाराज्यस्य स्वेन राजत इति स्वराट् तस्य भावः स्वाराज्यं कैवल्यम् अपादानस्य सम्बन्धमात्रविवक्षया षष्ठी, स्वाराज्यादपि अभिमतः स्पृहणीयः, स्वाराज्यं हि सर्वस्मात् अभिमतं, ततोऽप्यभिमतस्त्वमित्यर्थः ॥ ५४ ॥
श्लोक-५५
विश्वास-प्रस्तुतिः
तं दुराराध्यमाराध्य सतामपि दुरापया।
एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहिः॥
मूलम्
111तं दुराराध्यमाराध्य सतामपि दुरापया।
एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहिः॥ ५५ ॥
अनुवाद (हिन्दी)
सत्पुरुषोंके लिये भी दुर्लभ अनन्य भक्तिसे भगवान्को प्रसन्न करके, जिनकी प्रसन्नता किसी अन्य साधनासे दुःसाध्य है, ऐसा कौन होगा जो उनके चरणतलके अतिरिक्त और कुछ चाहेगा॥ ५५॥
वीरराघवः
अतोऽतीव स्पृहणी112यात् त्वत्तोऽन्यन्न किञ्चिद्वाञ्छामीत्याह - तमिति । तं दुराराध्यम् उपायान्तरैराराधयितुमशक्यं भवन्तं सतामपि दुरापया दुस्साधया एकान्तभक्त्या अव्यभिचारिण्या भक्त्या आराध्य त्वत्पादमूलं विना बहिरन्यत् स्वर्गादिसुखं को वा वाञ्छेत् न कोऽपीत्यर्थः ॥ ५५ ॥
श्लोक-५६
विश्वास-प्रस्तुतिः
यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते।
विश्वं विध्वंसयन् वीर्यशौर्यविस्फूर्जितभ्रुवा॥
मूलम्
यत्र 113निर्विष्टमरणं कृतान्तो 114नाऽभिमन्यते।
विश्वं 115विध्वंसयन् वीर्यशौर्यवि116स्फूर्जितभ्रुवा॥ ५६ ॥
अनुवाद (हिन्दी)
जो काल अपने अदम्य उत्साह और पराक्रमसे फड़कती हुए भौंहके इशारेसे सारे संसारका संहार कर डालता है, वह भी आपके चरणोंकी शरणमें गये हुए प्राणीपर अपना अधिकार नहीं मानता॥ ५६॥
वीरराघवः
तत्र हेतुः - यत्र पादमूले अरणं शरणं प्रविष्टं, पादमूले शरणं गतमित्यर्थः । कृतान्तः कालो मया117ऽयं वशीकृत इति नाभिमानं करोति । किं कुर्वन् वीर्यं प्रभावः शौर्यमुत्साहः ताभ्यां विस्फूर्जितया क्षुभितया भ्रुवा विश्वं विध्वंसयन् नाशयन् ॥ ५६ ॥
श्लोक-५७
विश्वास-प्रस्तुतिः
क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम्।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः॥
मूलम्
क्षणार्धेनापि तुलये न 118स्वर्गं नापुनर्भवम्।
भगवत्सङ्गिसङ्गस्य 119मर्त्यानां किमुताशिषः॥ ५७ ॥
अनुवाद (हिन्दी)
ऐसे भगवान्के प्रेमी भक्तोंका यदि आधे क्षणके लिये भी समागम हो जाय तो उसके सामने मैं स्वर्ग और मोक्षको कुछ नहीं समझता; फिर मर्त्यलोकके तुच्छ भोगोंकी तो बात ही क्या है॥ ५७॥
वीरराघवः
त्वत्पादमूलं प्रपन्नस्य कृतान्त भयाभावः कियानयं लाभः ? यावता त्वद्भक्तसङ्ग लेश एव सकलपुरुषार्थश्रेणीशिर120स उपरि वर्तत इत्याह - क्षणार्धेनेति । भगवतस्तव सङ्गिनां त्वद्भक्तानामित्यर्थः । तेषां सङ्गस्य क्षणार्धेनापि न स्वर्गं तुलये न समानं गणयामि । न वा अपुनर्भवं मोक्षं भागवतसङ्गस्य स्वर्गमोक्षौ न सदृशौ । किं पुनर्मरणशीलानाम् आशिषः आशीर्विषयपुत्रपश्वन्नादय इत्यर्थः ॥ ५७ ॥
श्लोक-५८
विश्वास-प्रस्तुतिः
अथानघाङ्घ्रेस्तव कीर्तितीर्थयो-
रन्तर्बहिःस्नानविधूतपाप्मनाम्।
भूतेष्वनुक्रोशसुसत्त्वशीलिनां
स्यात्सङ्गमोऽनुग्रह एष नस्तव॥
मूलम्
अथानघा121ङ्घ्रेस्तव कीर्तितीर्थयोरन्तर्बहिः स्नानविधूतपाप्मनाम्।
भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव॥ ५८ ॥
अनुवाद (हिन्दी)
प्रभो! आपके चरण सम्पूर्ण पापराशिको हर लेनेवाले हैं। हम तो केवल यही चाहते हैं कि जिन लोगोंने आपकी कीर्ति और तीर्थ (गंगाजी)-में आन्तरिक और बाह्य स्नान करके मानसिक और शारीरिक दोनों प्रकारके पापोंको धो डाला है तथा जो जीवोंके प्रति दया, राग-द्वेषरहित चित्त तथा सरलता आदि गुणोंसे युक्त हैं, उन आपके भक्तजनोंका संग हमें सदा प्राप्त होता रहे। यही हमपर आपकी बड़ी कृपा होगी॥ ५८॥
वीरराघवः
एवं निरतिशयगुणवत्तरत्वात् भागवतसङ्गस्य । अथ अतो हेतोः अनघौ अघहरौ अङ्घ्री यस्य तस्य तव कीर्तिः यशः तीर्थं गङ्गा । तयोः क्रमेणान्तर्बहिस्नानाभ्यां विधूतः पाप्मा येषाम् । अत एव भूतेष्वनुक्रोशः कृपा, सुसत्त्वं, सत्त्वोत्तरं चित्तं, शीलम् आर्जवादिकं च येषां सन्ति तेषां सङ्गमोऽस्माकं स्यात् । एषः नोऽस्माकं त्वदनुग्रहः 122त्वत्कृतोऽनुग्रहः122 ॥ ५८ ॥
श्लोक-५९
विश्वास-प्रस्तुतिः
न यस्य चित्तं बहिरर्थविभ्रमं
तमोगुहायां च विशुद्धमाविशत्।
यद्भक्तियोगानुगृहीतमञ्जसा
मुनिर्विचष्टे ननु तत्र ते गतिम्॥
मूलम्
न यस्य 123चित्तं बहिरर्थविभ्रमं 124तमोगुहायां च 125विशुद्धमा126विशत्।
यद्भक्तियोगानुगृहीतमञ्जसा मुनिर्विचष्टे ननु तत्र ते 127गतिम्॥ ५९ ॥
अनुवाद (हिन्दी)
जिस साधकका चित्त भक्तियोगसे अनुगृहीत एवं विशुद्ध होकर न तो बाह्य विषयोंमें भटकता है और न अज्ञान-गुहारूप प्रकृतिमें ही लीन होता है, वह अनायास ही आपके स्वरूपका दर्शन पा जाता है॥ ५९॥
वीरराघवः
त्वज्ज्ञानमपि भागवतसङ्गादेव भवतीत्याह - नेति । येषां भागवतानां भक्तियोगेन अनुगृहीतं विशुद्धं सत्त्वं प्रवणं सत् यस्य पुंसः चित्तं, बहिरर्थाः शब्दादिबाह्यविषयाः तेषु, विभ्रमं न भवति प्राप्यता भ्रान्तिमत् न भवति । तमोरुपायां गुहायां च नाविशत् न लीनं स्यात्, तदा स मुनिः ते गतिं स्वरूपम् अञ्जसा सुखेन विचष्टे जानाति ॥ ५९ ॥
श्लोक-६०
विश्वास-प्रस्तुतिः
यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत्।
तत् त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम्॥
मूलम्
यत्रेदं 128व्यज्यते विश्वं विश्वस्मि129न्नवभाति यत्।
तत् त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम्॥ ६० ॥
अनुवाद (हिन्दी)
जिसमें यह सारा जगत् दिखायी देता है और जो स्वयं सम्पूर्ण जगत्में भास रहा है, वह आकाशके समान विस्तृत और परम प्रकाशमय ब्रह्मतत्त्व आप ही हैं॥ ६०॥
वीरराघवः
गतिं 130विशिंषन् प्रपद्यते - यत्रेति द्वाभ्याम् । इदं 131कृत्स्नं चिदचिदात्मकं विश्वं यत्र आधारभूते त्वत्स्वरूपे व्यज्यते व्यक्तं 132भवति । यच्च त्वत्स्वरूपं विश्वस्मिन् कृत्स्नप्रपञ्चे अवभाति प्रकाशते व्याप्नोति । तदेव 133परब्रह्माख्यं 134तत्त्वमित्यर्थः । यत्रैदमित्यनेन आधारत्वमुक्तम् । कथम् अमूर्तस्य आधारत्वम् इति शङ्कायां अभिव्यापकत्वरूपमाधारत्वं इत्याशयेन विश्वस्मिन् अवभाति । यदित्युक्तम्- आधारो हि त्रिविधः । औपश्लेषिकः, वैषयिकः, अभिव्यापकश्चेति । सर्वं व्याप्यावस्थितस्यापि व्याप्यवस्तुगतदोषास्पर्शदृष्टान्तमाह- ज्योतिराकाशमिव विस्तृतमिति । विस्तृतम् आकाशमिव, ज्योतिस्सूर्यादिरिवेति दृष्टान्तद्वयमभिप्रेतम् । तथा ह्युभयं दृष्टान्तीकृतमभियुक्तैः “आकाशमेकं हि यथा घटादिषु पृथक् पृथक् तथात्मैको ह्यनेकस्थो जलाधारेष्विवांशुमान्" इति । अयमभिप्रायः । 135घटकरकादिषु यथा वृद्धिह्रासभाक्षु पृथक् पृथक् संयुज्यमानमप्याकाशं दोषहेत्वभावात् वृद्धिह्रासादिदोषैः न स्पृश्यते । यथा च जलाधारेषु 136विषमेषु वस्तुतोऽनवस्थितः । तत्र दृश्यमानोऽपि अंशुमान् दोषहेत्वभावात् तत्तद्गतवृद्धिह्रासादिभिः न स्पृश्यते तद्वदिति ॥ ६० ॥
श्लोक-६१
विश्वास-प्रस्तुतिः
यो माययेदं पुरुरूपयासृजद्
बिभर्ति भूयः क्षपयत्यविक्रियः।
यद्भेदबुद्धिः सदिवात्मदुःस्थया
तमात्मतन्त्रं भगवन् प्रतीमहि॥
मूलम्
यो माययेदं पुरुरूप137याऽसृजद् बिभर्ति भूयः क्षप138यत्यविक्रियः।
यद्भेदबुद्धिः सदिवात्म139दुःस्थया तमात्मतन्त्रं भगवन् प्रतीमहि॥ ६१ ॥
अनुवाद (हिन्दी)
भगवन्! आपकी माया अनेक प्रकारके रूप धारण करती है। इसीके द्वारा आप इस प्रकार जगत्की रचना, पालन और संहार करते हैं जैसे यह कोई सद्वस्तु हो। किन्तु इससे आपमें किसी प्रकारका विकार नहीं आता। मायाके कारण दूसरे लोगोंमें ही भेदबुद्धि उत्पन्न होती है, आप परमात्मापर वह अपना प्रभाव डालनेमें असमर्थ होती है। आपको तो हम परम स्वतन्त्र ही समझते हैं॥ ६१॥
वीरराघवः
एवं विश्वाधारत्वमुक्तम् । अथ विश्वस्य निमित्तमुपादानं च कारणं त्वमेव इत्याह - य इति । यो भवान् इदं स्वात्मकं विश्वं बहुरूपया बहुधा परिणामशीलया मायया सृजन् बिभर्ति पुनः क्षपयति संहरति, तथापि अविक्रियः, निर्विकारः । कथम्भूतया मायया ? आत्मदुस्थया आत्मसु जीवेषु दुस्थया, दुष्टं यथा भवति तथा स्थितया, 140संसारिरूपेणानर्थकारित्वेन स्थितयेत्यर्थः । यया आत्मदुस्थया मायया । यद्यस्मादीश्वरात् भेदबुद्धिः स्वनिष्टबुद्धिः सदिव, सदर्थ विषयज्ञानमिव भवति । तं त्वाम्, आत्मतन्त्रं 141स्वतन्त्रं प्रतीमहि प्रपद्येमहीत्यर्थः । 142अत्र आत्मदुस्थयेति जीवेषु दुस्त्वकथनेन परमात्मन्यनर्थकारित्वमुक्तम् । यद्भेदबुद्धिः स दिवेति स्वतन्त्रात्मभ्रमहेतुत्व143मुक्तम् इदं देहात्मभ्रमहेतुत्व143स्यापि उपलक्षणम् । अविक्रिया इत्यनेनोपादानत्वमुक्तं निषेधो हि प्रसक्तिपूर्वकः, प्रसक्तिश्च उपादानत्वेन निमित्तस्य विकारप्रसक्त्यभावात् । भाव्यवस्था विशेषवतः प्रगवस्थायोगो हि उपादानत्वम् । ततश्चावस्थायोगित्व प्रयुक्त विकार प्रसक्तौ तन्निषेधो युक्तः विकारस्य स्वापृथक्सिद्धविशेषणी, भूतचेतना चेतनगतत्वाद्विशेष्य विकाराभावात् अविक्रिय इत्युक्तम् । ननु निमित्तकारणस्यापि कुलालादेः श्वेदश्रमादि विकार दर्शनात् तद्वत्परस्मिन्नपि निमित्तत्व प्रयुक्त विकारोऽनिषिद्ध इति चेत् न । “तदैक्षत बहु स्यां प्रजायेय” (छान्दो. उ. 6-2-3) इति, “तत्तेजोऽसृजत” (छान्दो. उ. 6-2-3) इति सङ्कल्पमात्रेण जगत्सृजतो विकार प्रसक्त्यभावात् सृजन्निति निमित्तत्वमुक्तम् । कर्तृत्वमेव हि निमित्तत्वम् । तत्र विशिष्टत्वाकारेणोपादानत्वं निष्कृष्टविशिष्याकारेण निमित्तत्वम्, इति विवेकः । बिभर्ति क्षपयतीति र144क्षितृत्वं संहर्तृत्वं च, तस्यैव इत्युक्तं भवति । आत्मतन्त्रमित्यनेन अकर्मवश्यत्वम् उक्तम् । अनेन श्लोकद्वयेन “ब्रह्मवनं ब्रह्म स वृक्ष आसीत् । यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा बिभ्रवीमि वो यदध्यतिष्ठद्भुवनानि धारयन् (वृत्ति. ब्रा 2-8-9-6) इति श्रुत्यर्थः उक्तः । अत्र किंस्विद्वनमित्यादिना वृक्षशब्दोपलक्षितमुपादानं वनशब्दोपलक्षितमाधारः यदध्यतिष्ठदिति निमित्तं च, किमिति प्रश्नपूर्वकं ब्रह्मण एवोपादानत्वनिमित्तत्वाधारत्वादीति नामस्येति प्रतिज्ञापूर्वकोत्तर145परत्वम् अस्य वाक्यस्यावगम्यते । यतः वृक्षशद्बोपलक्षितोपादानाद् ब्रह्मणः द्यावापृथिव्युपलक्षितं कृत्स्नं जगत् निष्टतक्षुः निष्टतक्ष ससर्जेत्यर्थः ॥ ६१ ॥
श्लोक-६२
विश्वास-प्रस्तुतिः
क्रियाकलापैरिदमेव योगिनः
श्रद्धान्विताः साधु यजन्ति सिद्धये।
भूतेन्द्रियान्तःकरणोपलक्षितं
वेदे च तन्त्रे च त एव कोविदाः॥
मूलम्
क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये।
भूतेन्द्रियान्तःकरणोप146लक्षणं वेदे च तन्त्रे च त एव कोविदाः॥ ६२ ॥
अनुवाद (हिन्दी)
आपका स्वरूप पंचभूत, इन्द्रिय और अन्तःकरणके प्रेरकरूपसे उपलक्षित होता है। जो कर्मयोगी पुरुष सिद्धि प्राप्त करनेके लिये तरह-तरहके कर्मोंद्वारा आपके इस सगुण साकार स्वरूपका श्रद्धापूर्वक भलीभाँति पूजन करते हैं, वे ही वेद और शास्त्रोंके सच्चे मर्मज्ञ हैं॥ ६२॥
वीरराघवः
ईदृशभगवत्स्वरूपविषयकं भक्त्यात्मकं ज्ञानं भागवतसङ्गादेव लभ्यत इत्युक्तम् । इदानीं भागवतसङ्गवत् स्ववर्णाश्रमोचितानभिसंहित धर्मानुष्ठानमात्मयाथात्म्यज्ञानयोगश्च भक्त्यङ्गमित्याह - क्रियाकलापैरिति । ये योगिनः प्रकृति विविक्तात्मयाथात्म्यज्ञानयोगः येषामस्तीति योगिनः श्रद्धायुक्तास्सन्तः क्रियाकलापैः स्ववर्णाश्रमोचित 147कर्मकलापैः अनभिसंहितफलैः इदमेव उक्तविधमेव भगवत्स्वरूपसिद्धये मुक्तये साधु सम्यक् यजन्ति आराधयन्ति । इदं कथम्भूतम् ? 148भूतेन्द्रियादिभिः अप्राकृतैः शुद्धसत्त्वमयैः उपलक्ष्यत इत्युपलक्षणम् । अप्राकृतोक्तविध दिव्यमङ्गलविग्रहविशिष्टमित्यर्थः । त एव योगिनः वेदे कर्मयोग प्रकाशके तन्त्रे आत्मयाथात्म्यज्ञान योग प्रकाशके सांख्ये तन्त्रे च कोविदाः कुशलाः भवन्ति ॥ ६२ ॥
श्लोक-६३
विश्वास-प्रस्तुतिः
त्वमेक आद्यः पुरुषः सुप्तशक्ति-
स्तया रजःसत्त्वतमो विभिद्यते।
महानहं खं मरुदग्निवार्धराः
सुरर्षयो भूतगणा इदं यतः॥
मूलम्
त्वमेक आद्यः पुरुषः सुप्तशक्तिस्तया रजःसत्त्वतमो विभिद्यते।
महानहं खं मरुदग्निवार्धराः सुरर्षयो भूतगणा इदं यतः॥ ६३ ॥
अनुवाद (हिन्दी)
प्रभो! आप ही अद्वितीय आदिपुरुष हैं। सृष्टिके पूर्व आपकी मायाशक्ति सोयी रहती है। फिर उसीके द्वारा सत्त्व, रज और तमरूप गुणोंका भेद होता है और इसके बाद उन्हीं गुणोंसे महत्तत्त्व, अहंकार, आकाश, वायु, अग्नि, जल, पृथ्वी, देवता, ऋषि और समस्त प्राणियोंसे युक्त इस जगत्की उत्पत्ति होती है॥ ६३॥
वीरराघवः
अविक्रिय इत्यनेन उपादानकारणत्वमुपक्षिप्तम् । बिभर्तीति भर्तृत्वं, क्षपयतीति संहर्तृत्वं 149च इति तदेवोपपादयति - त्वमिति चतुर्भिः । तत्र त्वमित्युपादानमुपपादयति त्वमुक्तविधस्वरूप 150रूप गुणविभूतिस्त्वं पुरुषः आद्यः आदौ सृष्टेः पूर्वं भवः आद्यः सृष्टेः पूर्वं प्रलयदशायामासीरित्यर्थः । कथम्भूत आसम् ? इत्यत्राह - सुप्तशक्तिः सुप्ताः स्वस्मिन् लीनाः शक्तयः चिदचिदादिशक्तयः यस्य, अतएव एकः असहायः, वक्ष्यमाणनामरूपविभागनिबन्धनबहुत्वप्रतिसम्बन्धि नामरूपविभागानर्हसूक्ष्म चिदचिद्विशिष्टत्वेना-सहाय एवावस्थित इत्यर्थः । ततः तया स्वापृथक्सिद्ध विशेषणभूतया शक्त्या रजस्सत्वतमाइति द्वन्द्वैक्यं, तदपेक्षया विभिद्यत इत्येकवचन रजस्सत्वतमांसि विभिन्नानि विभक्तान्यभूवन् । यतो रज आदेर्महान् महतोऽहङ्कार स्त्रिविधः । ततो भूतादिभ्यः क्रमेण खमाकाशः, ततोमरुद्वायुः ततोऽग्निः ततो वाः आपः ततो धरा पृथ्वी, तेभ्यः खादिभ्यः पञ्चीकृतेभ्यः अण्डोत्पत्तिद्वारा सुरा ब्रह्मादयः, ऋषयो मरीच्यादयः, अन्ये151ऽभूवन् । मनुजातिर्यागादयः अभूवन् । सृष्टेः पूर्वं स्वस्मिन् उपसंहृतचिदचिच्छक्तिर्नाम-रूपविभागानर्हसूक्ष्म-चिदचिच्छरीरकस्त्वमेक एव कारणतया अवस्थितोऽपेक्षितकर्तृकर152णाधिकरणाद्युपकरणजातस्सर्वज्ञः सर्वशक्तिः स्वलीलैकप्रयोजनस्स्वात्मिकां मायां जीवद्वाराऽनुप्रविश्य मायाशरीरकं स्वात्मानमेव सङ्कल्पमात्रेण महदादिपृथिव्यन्तसमष्टिरूपेण देवादिचतुर्विधव्यष्टिभूतरूपेण च परिणमय्य स्वपर्यन्त तत्तन्नामरूप153विभागाऽऽसीदित्यर्थः ॥ ६३ ॥
श्लोक-६४
विश्वास-प्रस्तुतिः
सृष्टं स्वशक्त्येदमनुप्रविष्ट-
श्चतुर्विधं पुरमात्मांशकेन।
अथो विदुस्तं पुरुषं सन्तमन्त-
र्भुङ्क्ते हृषीकैर्मधु सारघं यः॥
मूलम्
सृष्टं स्वशक्येदमनुप्रविष्टश्चतुर्विधं पुरमात्मांशकेन।
अथो वि154दुस्तं पुरुषं सन्तम155न्तः भुङ्क्ते हृषीकैर्मधु सारधं 156यः॥ ६४ ॥
अनुवाद (हिन्दी)
फिर आप अपनी ही मायाशक्तिसे रचे हुए इन जरायुज, अण्डज, स्वेदज और उद्भिज्जभेदसे चार प्रकारके शरीरोंमें अंशरूपसे प्रवेश कर जाते हैं और जिस प्रकार मधुमक्खियाँ अपने ही उत्पन्न किये हुए मधुका आस्वादन करती हैं, उसी प्रकार वह आपका अंश उन शरीरोंमें रहकर इन्द्रियोंके द्वारा इन तुच्छ विषयोंको भोगता है। आपके उस अंशको ही पुरुष या जीव कहते हैं॥ ६४॥
वीरराघवः
त्वं पुरुष इत्युक्तम् । तत्र पुरुषशब्दप्रवृत्तिनिमित्तं दर्शयन् पुरुषशब्दवाच्यतामाह - सृष्टमिति । यतः यो भगवान् स्वशक्त्या प्रकृतिरूपया सृष्टमिदं चतुर्विधं देवमनुष्यतिर्यक् स्थावरभेदेन 157चतुर्विधं पुरं शरीरम् आत्मनोंऽशकेन अंशभूतेन जीवेन जीवान्तरात्मतया पुरमनुप्रविष्टः अथो अतः तं भगवन्तम् अन्तः पुरस्यान्तः जीवान्तरात्मतया सन्तं पुरुषं विदुः, पुरुषशब्दवाच्यं विदुः । तथा चोक्तम् - “पूस्संज्ञे वै शरीरेऽस्मिन् शयनात्पुरुषो हरिः । शकारस्य ष कारोऽयं व्यत्ययेन” इति । कोऽसावात्मनोंऽशः यदन्तरात्मतया पुरमनुप्रविष्टः तत्राह - यो जीवः हृषीकैरिन्द्रियै सारधं सारधाः मधुमक्षिकाः, सारं पुष्पादिगतं घ्नन्ति गच्छन्ति प्राप्नुवन्तीति व्युत्पत्तेः । अत्र सारधशब्दस्तदुपार्जितमधुनि लाक्षणिकः, मधुकरोपार्जितमध्विव मधुकरस्थानीयेन्द्रियोपार्जित शब्दादिभोग्यजातं भुङ्क्ते अनुभवति स इत्यर्थः । अत्र जीवान्तरात्मतया अनुप्रवेशकथनं नियतदेशकालकर्माद्यानुगुण्येन जगद्रक्षणार्थानुप्रवेशाभिप्रायकम् ॥ ६४ ॥
श्लोक-६५
विश्वास-प्रस्तुतिः
स एष लोकानतिचण्डवेगो
विकर्षसि त्वं खलु कालयानः।
भूतानि भूतैरनुमेयतत्त्वो
घनावलीर्वायुरिवाविषह्यः॥
मूलम्
158स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु काल159यानः।
भूतानि भूतैरनुमेयतत्त्वो घनावलीर्वायुरिवाविषह्यः॥ ६५ ॥
अनुवाद (हिन्दी)
प्रभो! आपका तत्त्वज्ञान प्रत्यक्षसे नहीं अनुमानसे होता है। प्रलयकाल उपस्थित होनेपर कालस्वरूप आप ही अपने प्रचण्ड एवं असह्य वेगसे पृथ्वी आदि भूतोंको अन्य भूतोंसे विचलित कराकर समस्त लोकोंका संहार कर देते हैं—जैसे वायु अपने असहनीय एवं प्रचण्ड झोंकोंसे मेघोंके द्वारा ही मेघोंको तितर-बितर करके नष्ट कर डालती है॥ ६५॥
वीरराघवः
अथ संहर्तृत्वमुपपादयति - य एष कालशरीरकस्त्वं अत्युग्रवेगः कालवेगमनुसन्धदतामायुः क्षयनिमित्तभयोत्पादात् अलक्ष्यमाणरूपः अविषह्यवेगो वायुः मेघपङ्क्तीरिव भूतैरेव भूतानि कालयानः पीडयन् विकर्षसि संहरसि ॥ ६५ ॥
श्लोक-६६
विश्वास-प्रस्तुतिः
प्रमत्तमुच्चैरितिकृत्यचिन्तया
प्रवृद्धलोभं विषयेषु लालसम्।
त्वमप्रमत्तः सहसाभिपद्यसे
क्षुल्लेलिहानोऽहिरिवाखुमन्तकः॥
मूलम्
प्रमत्तमुच्चैरितिकृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम्।
त्वमप्रमत्तः सहसाभिपद्यते क्षुल्लेलिहानोऽहिरिवाखुमन्तकः॥ ६६ ॥
अनुवाद (हिन्दी)
भगवन्! यह मोहग्रस्त जीव प्रमादवश हर समय इसी चिन्तामें रहता है कि ‘अमुक कार्य करना है’। इसका लोभ बढ़ गया है और इसे विषयोंकी ही लालसा बनी रहती है। किन्तु आप सदा ही सजग रहते हैं; भूखसे जीभ लपलपाता हुआ सर्प जैसे चूहेको चट कर जाता है, उसी प्रकार आप अपने कालस्वरूपसे उसे सहसा लील जाते हैं॥ ६६॥
वीरराघवः
विकर्षणप्रकारमेवाह - प्रमत्तमिति । इतिकृत्यमेवं कर्तव्यमिति चिन्तयोच्चैः भृशं प्रमत्तं विषयेषु शब्दादिषु लालसमतिकामुकं, प्राप्तेऽपि विषये, प्रवृद्धलोभं जनमप्रमत्तः कालरूपस्त्वं सहसा बलादन्तकोऽभिपद्यसे प्राप्नोति यथा क्षुधा लेलिहानजिह्वया ओष्ठप्रान्तौ स्पृशन् सर्पो मूषक160मिवेत्यर्थः ॥ ६६ ॥
श्लोक-६७
विश्वास-प्रस्तुतिः
कस्त्वत्पदाब्जं विजहाति पण्डितो
यस्तेऽवमानव्ययमानकेतनः।
विशङ्कयास्मद्गुरुरर्चति स्म यद्
विनोपपत्तिं मनवश्चतुर्दश॥
मूलम्
कस्त्वत्पदाब्जं विजहाति पण्डितो य161स्तेऽवमानव्ययमानकेतनः।
विशङ्कयास्मद्गुरुरर्चति स्म यद् विनोपप162त्तिं मनवश्चतुर्दश॥ ६७ ॥
अनुवाद (हिन्दी)
आपकी अवहेलना करनेके कारण अपनी आयुको व्यर्थ माननेवाला ऐसा कौन विद्वान् होगा, जो आपके चरणकमलोंको बिसारेगा? इसकी पूजा तो कालकी आशंकासे ही हमारे पिता ब्रह्माजी और स्वायम्भुव आदि चौदह मनुओंने भी बिना कोई विचार किये केवल श्रद्धासे ही की थी॥ ६७॥
वीरराघवः
163एवं सत्त्वोत्कृष्टत्वात् कृत्स्नजगदुदयविभवलयलीलत्वात् त्वामेव भजामीति सनिदर्शनमाह - क इति । कथम्भूतः ? य तव अवमानेन अनादरेण व्ययमानं क्षीयमाणं केतनं ज्ञानं यस्य सः । त्वत्परिचर्यां विना वृथैव शरीरं मन्वानः इति भावः । त्वदवमानादिना लीनचैतन्य इत्यर्थः । एवंविधोऽपि यो देवात् पण्डितो बुद्धिमान् भवेत् तर्हि को वा त्वत्पादाब्जं विजहाति, न कोऽपीत्यर्थः । अत एवास्मद्गुरुः निश्शङ्कया त्वत्पादाब्जमेवार्चति आराधयति स्म, कौऽसौ तव गुरुर्यो मामर्चयति यस्य ब्रह्मणो दिनोपपत्तिर्दिवसनिष्पत्तिर्नाम चतुर्दश मनवः चतुर्दश मनवो यस्य दिवसनिष्पत्तिरूपाः स ब्रह्मैव अस्मद्गुरुः पितेत्यर्थः163 ॥ ६७ ॥
श्लोक-६८
विश्वास-प्रस्तुतिः
अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम्।
विश्वं रुद्रभयध्वस्तमकुतश्चिद्भया गतिः॥
मूलम्
अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम्।
विश्वं रुद्रभयध्वस्तमकुतश्चिद्भया गतिः॥ ६८ ॥
अनुवाद (हिन्दी)
ब्रह्मन्! इस प्रकार सारा जगत् रुद्ररूप कालके भयसे व्याकुल है। अतः परमात्मन्! इस तत्त्वको जाननेवाले हमलोगोंके तो इस समय आप ही सर्वथा भयशून्य आश्रय हैं॥ ६८॥
वीरराघवः
अतस्त्वमेव प्राप्य इति वदन्नुपसंहरति - अथेति । हे ब्रह्मन् ! परमात्मन् ! कृत्स्नं विश्वं रुद्रभयात् त्वदात्मकस्य रुद्रस्य भयात् ध्वस्तं 164नाशं प्राप्तं164 त्वन्तु विपश्चितां नः अकुतश्चिद्भया नास्ति कुतोऽपि भयं यस्मास्सा अकुतश्चिद्भया गतिरसीति 165कृत्स्नं विश्वं रुद्रभयादिति परोक्षनिर्देशो रुद्रान्तरसामन्याभिप्रायकः ॥ ६८ ॥
श्लोक-६९
विश्वास-प्रस्तुतिः
इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः।
स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः॥
मूलम्
इदं जपत भद्रं वो 166विशुद्धा नृपनन्दनाः।
स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः॥ ६९ ॥
अनुवाद (हिन्दी)
राजकुमारो! तुमलोग विशुद्धभावसे स्वधर्मका आचरण करते हुए भगवान्में चित्त लगाकर मेरे कहे हुए इस स्तोत्रका जप करते रहो; भगवान् तुम्हारा मंगल करेंगे॥ ६९॥
वीरराघवः
एवं स्वस्मै ब्रह्मोपदिष्टस्तोत्रेण भगवन्तं प्रस्तूय तेभ्यः प्रचेतोभ्यो उपदिश्य तस्मिन् स्तोत्रे तदर्थे च तान् रोचयन्नाह रुद्रः - इदमिति । हे नृपनन्दनाः ! विस्तब्धाः विश्वासयुक्ताः कर्तरि क्तः । इदं भगवत्स्तवनं जपत अर्थत श्शब्दतश्च अनुसन्दध्वम् । अनेन जपेन वः युष्माकं भद्रं मङ्गलं भविता तथा स्वधर्मं स्ववर्णाश्रमोचितं धर्ममनुतिष्ठन्तः भगवत्यर्पितान्तः करणाः 167सन्तः इत्यर्थः167 ॥ ६९ ॥
श्लोक-७०
विश्वास-प्रस्तुतिः
तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम्।
पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम्॥
मूलम्
तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम्।
पूजयध्वं गृणन्तश्च ध्यायन्तश्चासक्रृद्धरिम्॥ ७० ॥
अनुवाद (हिन्दी)
तुमलोग अपने अन्तःकरणमें स्थित उन सर्वभूतान्तर्यामी परमात्मा श्रीहरिका ही बार-बार स्तवन और चिन्तन करते हुए पूजन करो॥ ७०॥
वीरराघवः
असकृत् पौनः पुन्येन हरिं ध्यायन्तो, गृणन्तः स्तुवन्तः तमेव सर्वभूतेष्ववस्थितम् आत्मस्थं पूजकान्तरात्मतयाऽवस्थितं 168भगवन्तं168 पूजयध्वम् । 169सर्वभूतेष्ववस्थितमित्यनेन “ऐतदात्म्यमिदं सर्वम्” (छां.उ. 6-8-7) इति श्रुत्यर्थोऽनुसन्धीयते । आत्मानमित्यनेन “तदात्मा” इति श्रुत्यर्थः । आत्मस्थमित्यनेन “तत्त्वमसि” (छां. उ. 6-8-7) इति श्रुत्यर्थोऽनुसंहितः । अत एव “तत्स्थत्वात् अनुपश्यन्ति यत एव हि साधवः” इति श्रुत्यर्थः उक्तः169 ॥ ७० ॥
श्लोक-७१
विश्वास-प्रस्तुतिः
योगादेशमुपासाद्य धारयन्तो मुनिव्रताः।
समाहितधियः सर्व एतदभ्यसतादृताः॥
मूलम्
योगादेशमुपासाद्य धारयन्तो मुनिव्रताः।
समाहितधियः सर्व एतदभ्यसतादृताः॥ ७१ ॥
अनुवाद (हिन्दी)
मैंने तुम्हें यह योगादेश नामका स्तोत्र सुनाया है। तुमलोग इसे मनसे धारणकर मुनिव्रतका आचरण करते हुए इसका एकाग्रतासे आदरपूर्वक अभ्यास करो॥ ७१॥
वीरराघवः
योगादेशं नाम एतत्स्तोत्रम् 170उपासाद्य पाठतः प्राप्य मनसा धारयन्तः समाहितचित्ताः मौनव्रतनिष्ठाः आदृताः आदरयुक्ताः सर्वे यूयमभ्यसत ॥ ७१ ॥
श्लोक-७२
विश्वास-प्रस्तुतिः
इदमाह पुरास्माकं भगवान् विश्वसृक्पतिः।
भृग्वादीनामात्मजानां सिसृक्षुः संसिसृक्षताम्॥
मूलम्
इदमाह पुराऽस्माकं भगवान् विश्वसृट्पतिः।
भृग्वादीनामात्मजानां सिसृक्षुः संसिसृक्षताम्॥ ७२ ॥
अनुवाद (हिन्दी)
यह स्तोत्र पूर्वकालमें जगद्विस्तारके इच्छुक प्रजापतियोंके पति भगवान् ब्रह्माजीने प्रजा उत्पन्न करनेकी इच्छावाले हम भृगु आदि अपने पुत्रोंको सुनाया था॥ ७२॥
वीरराघवः
स्तोत्रस्य साम्प्रदायिकत्वमाह - इदमिति । विश्वसृजां मरीच्यादीनां पतिर्विश्वसृड्ब्रह्मा आत्मजानां प्रष्टुमिच्छतां भृग्वादीनां अस्माकं पुरा आह उपदिष्टवान् ॥ ७२ ॥
श्लोक-७३
विश्वास-प्रस्तुतिः
ते वयं नोदिताः सर्वे प्रजासर्गे प्रजेश्वराः।
अनेन ध्वस्ततमसः सिसृक्ष्मो विविधाः प्रजाः॥
मूलम्
ते वयं 171चोदितास्सर्वे प्रजासर्गे प्रजेश्वराः।
अनेन ध्वस्ततमसः 172सिसृक्ष्मः विविधाः प्रजाः॥ ७३ ॥
अनुवाद (हिन्दी)
जब हम प्रजापतियोंको प्रजाका विस्तार करनेकी आज्ञा हुई, तब इसीके द्वारा हमने अपना अज्ञान निवृत्त करके अनेक प्रकारकी प्रजा उत्पन्न की थी॥ ७३॥
वीरराघवः
ते उपदिष्टस्तोत्राः वयं प्रजासर्गे निमित्ते प्रचोदितास्सन्तः अनेन स्तोत्रेण निरस्ताज्ञानाः विविधाः प्रजा सिसृ173क्ष्म सृष्टवन्तः ॥ ७३ ॥
श्लोक-७४
विश्वास-प्रस्तुतिः
अथेदं नित्यदा युक्तो जपन्नवहितः पुमान्।
अचिराच्छ्रेय आप्नोति वासुदेवपरायणः॥
अनुवाद (हिन्दी)
अब भी जो भगवत्परायण पुरुष इसका एकाग्र चित्तसे नित्यप्रति जप करेगा, उसका शीघ्र ही कल्याण हो जायगा॥ ७४॥
वीरराघवः
पुमान् समाहितचित्तः, वासुदेवः परमयनं प्राप्यं प्रापकमाधारश्च यस्य, तथाभूतः इदं नित्यदा जपन् आशु स्वसमीहितं श्रेयः 176आप्नोति ॥ ७४ ॥
श्लोक-७५
विश्वास-प्रस्तुतिः
श्रेयसामिह सर्वेषां ज्ञानं निःश्रेयसं परम्।
सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम्॥
मूलम्
श्रेयसा177मिह सर्वेषां ज्ञानं निःश्रेयसं 178स्मृतम्।
सुखं 179तरति दुष्पारं ज्ञान180नौर्व्यसनार्णवम्॥ ७५ ॥
अनुवाद (हिन्दी)
इस लोकमें सब प्रकारके कल्याण-साधनोंमें मोक्षदायक ज्ञान ही सबसे श्रेष्ठ है। ज्ञान-नौकापर चढ़ा हुआ पुरुष अनायास ही इस दुस्तर संसारसागरको पार कर लेता है॥ ७५॥
वीरराघवः
श्रेयसामपि मध्ये ज्ञानस्यैव निरतिशयपुरुषार्थरूपमोक्षसाधनत्वेन निरतिशयश्रेयस्त्वं वदन् तत्साधनतामस्य स्तोत्रस्याह - श्रेयसामिति द्वाभ्याम् । सर्वेषामपि श्रेयसां मध्ये ज्ञानं भगवद्भक्त्यात्मकं ज्ञानमेव निःश्रेयसं नितरां श्रेयः स्मृतम् । कृतः ? 181यतः ज्ञानिनो भगव182द्भक्त्यात्मकज्ञानवन्तः उपायान्तरैर्दुस्तरमपि व्यसनार्णवं दुःखसागरात्मकं संसारं तरन्ति ॥ ७५ ॥
श्लोक-७६
विश्वास-प्रस्तुतिः
य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम्।
अधीयानो दुराराध्यं हरिमाराधयत्यसौ॥
अनुवाद (हिन्दी)
यद्यपि भगवान्की आराधना बहुत कठिन है—किन्तु मेरे कहे हुए इस स्तोत्रका जो श्रद्धापूर्वक पाठ करेगा, वह सुगमतासे ही उनकी प्रसन्नता प्राप्त कर लेगा॥ ७६॥
वीरराघवः
यः पुमान् मया गीतमिदं स्तोत्रं श्रद्धया युक्तः अधीयानः अध्ययनं कुर्वाणः उपायान्तरैः दुराराध्यमपि हरिमाराधयति हरिविषयां भक्तिं लभत इत्यर्थः ॥ ७६ ॥
श्लोक-७७
विश्वास-प्रस्तुतिः
विन्दते पुरुषोऽमुष्माद्यद्यदिच्छत्यसत्वरम्।
मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात्॥
मूलम्
विन्दते पुरुषोऽमुष्माद्यद्यदिच्छ186त्यसत्वरम्।
मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात्॥ ७७ ॥
अनुवाद (हिन्दी)
भगवान् ही सम्पूर्ण कल्याणसाधनोंके एकमात्र प्यारे—प्राप्तव्य हैं। अतः मेरे गाये हुए इस स्तोत्रके गानसे उन्हें प्रसन्न करके वह स्थिरचित्त होकर उनसे जो कुछ चाहेगा, प्राप्त कर लेगा॥ ७७॥
वीरराघवः
ततो मया यद्गीतं 187स्तोत्रं तस्य गीतात्, भावे क्तः । गानाद्धेतोः सुप्रीतात् श्रेयसांर्स्वपुरुषार्थानां वल्लभात् प्रभोः अमुष्माद्भक्तयाऽऽराधितात् परमपुरुषात् यद्यच्छ्रेय इच्छति असत्वरन् स्थिरस्सन् तत्सर्वं विन्दते लभते ॥ ७७ ॥
श्लोक-७८
विश्वास-प्रस्तुतिः
इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः।
शृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः॥
मूलम्
इदं यः 188कल्प उत्थाय प्राञ्जलिः श्रद्धयान्वितः।
शृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः॥ ७८ ॥
अनुवाद (हिन्दी)
जो पुरुष उषःकालमें उठकर इसे श्रद्धापूर्वक हाथ जोड़कर सुनता या सुनाता है, वह सब प्रकारके कर्मबन्धनोंसे मुक्त हो जाता है॥ ७८॥
वीरराघवः
यः पुमानिदं कल्ये उषसि उत्थाय प्राञ्जलिः श्रुणुयात् अन्यान् श्रावयेद्वा स मर्त्यः सर्वैः कर्मरूपैः बन्धनैः मुच्यते मुक्तो भवति ॥ ७८ ॥
श्लोक-७९
विश्वास-प्रस्तुतिः
गीतं मयेदं नरदेवनन्दनाः
परस्य पुंसः परमात्मनः स्तवम्।
जपन्त एकाग्रधियस्तपो मह-
च्चरध्वमन्ते तत आप्स्यथेप्सितम्॥
मूलम्
गीतं 189मयेदं नरदेवनन्दनाः परस्य पुंसः परमात्मनः स्तवम्।
जपन्त एकाग्रधियस्तपो महत् चरध्वमन्ते तत आप्स्यथेप्सितम्॥ ७९ ॥
अनुवाद (हिन्दी)
राजकुमारो! मैंने तुम्हें जो यह परमपुरुष परमात्माका स्तोत्र सुनाया है, इसे एकाग्रचित्तसे जपते हुए तुम महान् तपस्या करो। तपस्या पूर्ण होनेपर इसीसे तुम्हें अभीष्ट फल प्राप्त हो जायगा॥ ७९॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे रुद्रगीतं नाम चतुर्विंशोऽध्यायः॥ २४॥
वीरराघवः
हे नरदेवनन्दनाः ! मया गीतम् इदं परमपुरुषस्य स्तवं जपन्तः समाहितचित्ताः तपश्चरध्वं कुरुध्वम्, अन्ते तपसोऽन्ते ततः तस्मादीप्सितम् आप्स्य190थ ॥ ७९ ॥
इति श्रीमद्भागवते चतुर्थस्कन्धे श्री वीरराघवविदुषा लिखितायां भागवत चन्द्रचन्द्रिकायां व्याख्यायां चतुर्विंशोऽध्यायः ॥ २४ ॥
-
M,Ma,Ms भ ↩︎
-
V पृथोः ↩︎
-
M,Ma,V ये ↩︎
-
M,Ma द ↩︎
-
A,B,T प्रादात् ↩︎
-
V श्वा ↩︎
-
M,Ma संज्ञके ↩︎
-
M,Ma,Ms तः ↩︎
-
M,Ma नं ↩︎
-
M,Ma णम् ↩︎
-
M,Ma,Ms परमेण ↩︎
-
A,B,T स्वानां ↩︎
-
W omits पुरुषं ↩︎
-
W दीर्घानु ↩︎
-
M,Ma ष्मन्तं; Ms,V ष्मदं ↩︎
-
W शुक्रं ↩︎
-
A,B,T सुतान् ↩︎
-
M,Ma,Ms ष्मत् ↩︎
-
V स ↩︎
-
Ms बाहो; V बाहुः ↩︎
-
W तां ↩︎
-
A,T omit अपि ↩︎
-
A,B,T कामदष्टो ↩︎
-
A,B,T omit स्तोक ↩︎
-
M,Ma,Ms महो ↩︎
-
A,B,G,I,J,M,Ma,Ms,T सेऽर्णवमा ↩︎
-
M,Ma तपस्यन्तस्तपस्विनः ↩︎
-
A,B,T श्चर्तुं ↩︎
-
V ति ↩︎
-
A,B,G,I,J,T यदुताह; M,Ma,Ms यद्वाप्याह; V यदभ्याह ↩︎
-
Ms वित् ↩︎
-
A,B,G,I,J,Ms,T,V नेह ↩︎
-
M,Ms सङ्गाः सदभी ↩︎
-
W omits नृणाम् ↩︎
-
A,B,T omit इह ↩︎
-
A,B,T प्रा ↩︎
-
W दीनलोकस्य ↩︎
-
M,Ma,Ms तीव्रया ↩︎
-
V हरः ↩︎
-
M,Ma,Ms साऽऽधाय; T,W स्याधाय ↩︎
-
V ङ्ग ↩︎
-
V,W स्मू ↩︎
-
M,Ma वाद्यवत्; W वान्वितम् ↩︎
-
A,B,T स्म्युः ↩︎
-
M,Ma,Ms निकर्षाभं ↩︎
-
V न्नग्निरिशो ↩︎
-
T भक्त ↩︎
-
A,B,T omit तान् ↩︎
-
M,Ma,Ms बर्हि ↩︎
-
A,B,G,I,J,T,V परं रंहसः; W परं तमसः ↩︎
-
W ञ्चि ↩︎
-
M,Ma यथार्हं विविधैः ↩︎
-
A,B,T विष्णोः ↩︎
-
A,B,G,I,J,T,W मद्भा ↩︎
-
W कश्चन ↩︎
-
A,B,G,I,J,T त ↩︎
-
M,Ma वः ↩︎
-
M,Ma,Ms विद्भुयोः ↩︎
-
M,Ma,Ms वः ↩︎
-
M,Ma,Ms भवतां राधसे राद्धं ↩︎
-
W omits रूप ↩︎
-
W ति भावः । ↩︎
-
A,B,T add नमः ↩︎
-
A,B,T omit भावः ↩︎
-
A,B,T कर्षापा ↩︎
-
W omits तत् ↩︎
-
W omits उप ↩︎
-
A,B,T कारणानां ↩︎
-
A,B,T omit विभव ↩︎
-
W र्वृ ↩︎
-
A,B,T omit उक्तम् । ↩︎
-
A,B,T सर्वे ↩︎
-
A,B,T omnit इत्यर्थः ↩︎
-
A,B,T र्गत ↩︎
-
A,B,T तत्त ↩︎
-
Ms,V दायिने ↩︎
-
W गी ↩︎
-
V ते ↩︎
-
A,B,T omit कृष्णाख्य ↩︎
-
A,B,G,I,J,M,Ma,Ms,T कू ↩︎
-
A,B,T योगे ↩︎
-
A,B,T omit वर्षप्रद ↩︎
-
A,B,T omit रूपाय ↩︎
-
A,B,T गानात् ↩︎
-
W omits ये ↩︎
-
A,B,T omit रुचिरं ↩︎
-
M,Ma भूषितम् ↩︎
- ↩︎ ↩︎
-
M,Ma,Ms मुरो ↩︎
-
M,Ma क्षिप्तं ↩︎
-
W सिंहस्क ↩︎
-
M,Ma मत्पल्लवो ↩︎
-
A,B,T दो ↩︎
-
M,Ma,Ms र्नोतु; A,B,G,I,J,T र्नोऽन्त ↩︎
-
A,B,G,I,J,T गुरो; मार्ग; M,Ma पुरो मार्ग ↩︎
-
A,B,T ति ↩︎
-
M,Ma,Ms तां ↩︎
-
M,Ma मता ↩︎
-
A,B,T add स्वाराज्यस्याप्यभिमतः ↩︎
-
M,Ma,Ms त्वां ↩︎
-
A,B,T यत्वात् ↩︎
-
W प्रविष्ट ↩︎
-
M,Ma,Ms नाऽव ↩︎
-
M,Ma,Ms विष्टम्भयन् ↩︎
-
A,B,G,I,J,T,V स्फूर्जित ↩︎
-
A,B,T omit अयं ↩︎
-
M,Ma स्वर्ग्यं ↩︎
-
W मुक्त ↩︎
-
A,B,T सि ↩︎
-
M,Ma,Ms द्व्यो ↩︎
-
V सत्त्वं ↩︎
-
M,Ma,Ms मनो ↩︎
-
M,Ma,Ms निविष्ट ↩︎
-
M,Ms शेत् ↩︎
-
M,Ma,Ms पदम् ↩︎
-
Ms यु ↩︎
-
Ms न्न च ↩︎
-
W विशिष्यन् ↩︎
-
W कृत्स्नचि ↩︎
-
A,B,T omit भवति ↩︎
-
A,B,T omit पर ↩︎
-
A,B,T add तव ↩︎
-
A,B,T घटादिषु ↩︎
-
A,B,T विषयेषु ↩︎
-
W या सृजन् ↩︎
-
M,Ma येद ↩︎
-
M,Ma,Ms संस्थया ↩︎
-
A,B,T संसाररूपान ↩︎
-
A,B,T omit स्वतन्त्रं ↩︎
-
A,B,T तत्र ↩︎
-
A,B,T omit एव ↩︎
-
A,B,T omit पर ↩︎
-
A,B,G,I,J,T लक्षितं ↩︎
-
A,B,T कर्मभिः ↩︎
-
A,B,T भूतादिभिः ↩︎
-
W च तमुष ↩︎
-
A,B,T omit रूप ↩︎
-
A,B,T omit अभूवन् ↩︎
-
A,T omit अधिकरण ↩︎
-
A,B,T omit वि ↩︎
-
M,Ma,Ms स्त्वां ↩︎
-
M,Ma मत्र ↩︎
-
M,Ma,Ms यतः ↩︎
-
A,B,T omit चतुर्विधं ↩︎
-
W य ↩︎
-
V यन्नः ↩︎
-
W omits इव ↩︎
-
M,Ma,Ms यत्ते पुमानप्ययमब्जकेतनः ↩︎
-
W त्तिः ↩︎
-
A,B,T एवं सर्वोत्कृष्टत्वात् पण्डितो बुद्धिमान् भवेत् तर्हि को वा त्वत्पदाब्जं विजहाति न कोऽपि इत्यर्थः । कथम्भूतः ? यः एव अवमानः अनादरः तेन व्ययमानं केतनं शरीरं यस्य, त्वत्परिचर्यां विना वृथैव शरीरं मन्वानः इति भाव । अत एव अस्मद्गुरुः निश्शङ्क्या त्वत्पदाब्जमेवार्चयति आराधयति स्म । कोऽसौ तव गुरुः यो मामर्चयति स्म तमाह - यदिति । यस्य दिनोपपत्तिः दिननिष्पत्तिर्नाम चतुर्दश मनवो यस्य दिवसनिष्पत्तिरूपास्सन्ति । स ब्रह्मैव अस्मद्गुरुः पितेत्यर्थः ॥ ६७ ॥ ↩︎ ↩︎
-
W omits ↩︎
-
M,Ma,Ms विस्रभ्यः ; V विस्रब्धा ↩︎
-
A,B,T omit उप ↩︎
-
A,B,G,I,J,T नो ↩︎
-
A,B,G,I,J,T सिसृक्ष्मो ↩︎
-
A,B,T क्ष्मः ↩︎
-
V युक्तो यो ↩︎
-
G,I,J,M,Ma,T यमा ↩︎
-
A B,T प्रा ↩︎
-
W मपि ↩︎
-
A,B,G,I,J,T,W परम् ↩︎
-
W तरन्ति ↩︎
-
W नो व्य ↩︎
-
A,B,T omit यतः ↩︎
-
A,B,T द्भक्तियाथात्म्यज्ञा ↩︎
-
M,Ma,Ms,V इदं ↩︎
-
V प्रयतो नित्यं ↩︎
-
V त्सखम् ↩︎
-
M,Ma,Ms तिसत्वरम् ↩︎
-
A,B,T omit स्तोत्रं ↩︎
-
M,Ma कल्पः; Ms,V काल्य ↩︎
-
V मयैतं ↩︎
-
W adds प्राप्स्यथ ↩︎