[त्रयोविंशोऽध्यायः]
भागसूचना
राजा पृथुकी तपस्या और परलोकगमन
श्लोक-१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
दृष्ट्वाऽऽत्मानं प्रवयसमेकदा वैन्य आत्मवान्।
आत्मना वर्धिताशेषस्वानुसर्गः प्रजापतिः॥
मूलम्
दृष्ट्वाऽऽत्मानं प्रवयसमेकदा वैन्य आत्मवान्।
आत्मना वर्धिताशेष1स्वानुसर्गः प्रजापतिः॥ १ ॥
वीरराघवः
एवं सर्वगुणसम्पन्नः 2सम्पालितलोकः आसीदित्युक्तम् । अथात्मजेषु आरोपितराज्यभारः सभार्यः प्रविष्टतपोवनः कुमारोपदिष्टाध्यात्मयोगनिष्ठः प्राप्तपरमपुरुष आसीत् । तत्पत्नी तल्लोकमगादिति वदन् पृथुवृत्तान्तमुपसंहरति मुनिः दृष्ट्वेति । वैन्यः पृथुः आत्मवान् स्वर्गस्वाराज्यादीनां अल्पास्थिरत्वज्ञानवान् आत्मानं प्रवयसं वृद्धं दृष्ट्वा तपोवनमगादित्युत्तरेणाऽन्वयः । आत्मना स्वेन वर्धितः अशेषः स्वानुसर्गः स्वविषयवर्त्त्यनुसर्गः व्यष्टिसर्गः यस्य ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
जगतस्तस्थुषश्चापि वृत्तिदो धर्मभृत्सताम्।
निष्पादितेश्वरादेशो यदर्थमिह जज्ञिवान्॥
मूलम्
जगतस्तस्थुषश्चाऽपि वृत्तिदो धर्मभृत्सताम्।
निष्पादितेश्वरादेशो यदर्थमिह 3जज्ञिवान्॥ २ ॥
वीरराघवः
जगतः जङ्गमस्य तस्थुषः स्थावरस्य चाऽपि वृत्तिदः जीविकाप्रदः सतां धर्मभृत् निष्पादितः ईश्वरादेशः प्रजापालनादिरूपो येन, यदर्थं यल्लोकपालनाद्यर्थं जज्ञिवान् जातः तत्सर्वं कृत्वेत्यर्थः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
आत्मजेष्वात्मजां न्यस्य विरहाद्रुदतीमिव।
प्रजासु विमनस्स्वेकः सदारोऽगात्तपोवनम्॥
मूलम्
आत्मजेष्वात्मजां न्यस्य विरहाद्रुदतीमिव।
प्रजासु 4विमनस्स्वेकः सदारोऽगात्तपोवनम्॥ ३ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—इस प्रकार महामनस्वी प्रजापति पृथुके स्वयमेव अन्नादि तथा पुर-ग्रामादि सर्गकी व्यवस्था करके स्थावर-जंगम सभीकी आजीविकाका सुभीता कर दिया तथा साधुजनोचित धर्मोंका भी खूब पालन किया। ‘मेरी अवस्था कुछ ढल गयी है और जिसके लिये मैंने इस लोकमें जन्म लिया था, उस प्रजारक्षणरूप ईश्वराज्ञाका पालन भी हो चुका है; अतः अब मुझे अन्तिम पुरुषार्थ—मोक्षके लिये प्रयत्न करना चाहिये’ यह सोचकर उन्होंने अपने विरहमें रोती हुई अपनी पुत्रीरूपा पृथ्वीका भार पुत्रोंको सौंप दिया और सारी प्रजाको बिलखती छोड़कर वे अपनी पत्नीसहित अकेले ही तपोवनको चल दिये॥ १—३॥
वीरराघवः
आत्मजेषु आत्मजां पुत्रीकृतां भूमिं कथम्भूतां ? विरहात्पृथोर्विश्लेषा द्रुदतीमिव स्थितां विन्यस्य प्रजासु विमनस्सु चिन्तातुरासु सतीषु सदारः सभार्यः एकः असहायः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
तत्राप्यदाभ्यनियमो वैखानससुसम्मते।
आरब्ध उग्रतपसि यथा स्वविजये पुरा॥
अनुवाद (हिन्दी)
वहाँ भी वे वानप्रस्थ आश्रमके नियमानुसार उसी प्रकार कठोर तपस्यामें लग गये, जैसे पहले गृहस्थाश्रममें अखण्ड व्रतपूर्वक पृथ्वीको विजय करनेमें लगे थे!॥ ४॥
वीरराघवः
तत्र तपोवने उपात्ताः स्वीकृताः आत्मनो नियमाः शमदमादयो येन । ‘अक्षोभ्यनियम, इति पाठे विघ्नैर्नाशयितुमशक्या नियमा यस्य । वैखानसानां वानप्रस्थानां सुसम्पते उग्रे तपसि आरब्धः प्रवृत्तः, कर्तरि क्तः । स्वस्य धरामण्डलस्य विजये पूर्वं यथा महता यत्नेन प्रवृत्तः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
कन्दमूलफलाहारः शुष्कपर्णाशनः क्वचित्।
अब्भक्षः कतिचित्पक्षान् वायुभक्षस्ततः परम्॥
अनुवाद (हिन्दी)
कुछ दिन तो उन्होंने कन्द-मूल-फल खाकर बिताये, कुछ काल सूखे पत्ते खाकर रहे, फिर कुछ पखवाड़ोंतक जलपर ही रहे और इसके बाद केवल वायुसे ही निर्वाह करने लगे॥ ५॥
वीरराघवः
उग्रं तपो वर्णयति - कन्दमूलेति त्रिभिः । कन्दाद्यलाभे कदाचित्तृ10णाद्यशनः, यद्वा कांश्चित्पक्षान् कन्दाद्याहारः, कांश्चिन् तृणाद्यशनः कांश्चिदब्भक्षः, ततः वायुभक्ष एव ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
ग्रीष्मे पञ्चतपा वीरो वर्षास्वासारषाण्मुनिः।
आकण्ठमग्नः शिशिरे उदके स्थण्डिलेशयः॥
मूलम्
ग्रीष्मे पञ्च11तपावीरो वर्षास्वासारषाण्मुनिः।
आकण्ठमग्नः शिशिरे उदके स्थण्डिलेशयः॥ ६ ॥
अनुवाद (हिन्दी)
वीरवर पृथु मुनिवृत्तिसे रहते थे। गर्मियोंमें उन्होंने पंचाग्नियोंका सेवन किया, वर्षाऋतुमें खुले मैदानमें रहकर अपने शरीरपर जलकी धाराएँ सहीं और जाड़ेमें गलेतक जलमें खड़े रहे। वे प्रतिदिन मिट्टीकी वेदीपर ही शयन करते थे॥ ६॥
वीरराघवः
ग्रीष्म ऋतौ चतुर्दिक्षु चत्वारोऽमयः उपरि सूर्यः तेषां तपस्तापो यस्य, वर्षासु ऋतौ आसारं धारासम्पातं सहते इत्यासारषाट्, मुनिः सदा शुभाश्रयसंशीलनपरः शिशिरे ऋतौ 12उदके आकण्ठमनः स्थण्डिलेशयः, दर्भादिभिः परिस्तृतभूमिशयः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
तितिक्षुर्यतवाग्दान्त ऊर्ध्वरेता जितानिलः।
आरिराधयिषुः कृष्णमचरत्तप उत्तमम्॥
मूलम्
तितिक्षुर्यतवाग्दान्त ऊर्ध्वरेता जितानिलः।
आरिराधयिषुः कृष्ण13माचरत्तप उत्तमम्॥ ७ ॥
अनुवाद (हिन्दी)
उन्होंने शीतोष्णादि सब प्रकारके द्वन्द्वोंको सहा तथा वाणी और मनका संयम करके ब्रह्मचर्यका पालन करते हुए प्राणोंको अपने अधीन किया। इस प्रकार श्रीकृष्णकी आराधना करनेके लिये उन्होंने उत्तम तप किया॥ ७॥
वीरराघवः
तितिक्षुः शीतोष्णादिसहः, यतवाक् मौनव्रतः दान्तः दमयुक्तः ऊर्ध्वरेता शान्तः, जितानिलः जितप्राणः एवम्भूतः कृष्णं भगवन्तं आरिराधयिषुः एवं विधमुत्तमं तप आचरत् ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
तेन क्रमानुसिद्धेन ध्वस्तकर्मामलाशयः।
प्राणायामैः संनिरुद्धषड्वर्गश्छिन्नबन्धनः॥
अनुवाद (हिन्दी)
इस क्रमसे उनकी तपस्या बहुत पुष्ट हो गयी और उसके प्रभावसे कर्ममल नष्ट हो जानेके कारण उनका चित्त सर्वथा शुद्ध हो गया। प्राणायामोंके द्वारा मन और इन्द्रियोंके निरुद्ध हो जानेसे उनका वासनाजनित बन्धन भी कट गया॥ ८॥
वीरराघवः
क्रमानुरुद्धेन शनैश्शनैः प्राप्तेन 16तेन तपसा ध्वस्तानि कर्माणि यस्य, प्राणायामैः अमल आशयोऽन्तः करणं यस्य, संनिरुद्धः प्रत्याहृतः षडिन्द्रियवर्गो येन, छिन्नानि बन्धनानि व्यसनानि यस्य ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
सनत्कुमारो भगवान् यदाहाध्यात्मिकं परम्।
योगं तेनैव पुरुषमभजत्पुरुषर्षभः॥
मूलम्
सनत्कुमारो भगवान् यदाहाऽऽध्यात्मिकं परम्।
योगं तेनैव पुरुषमभजत्पुरुषर्षभः॥ ९ ॥
अनुवाद (हिन्दी)
तब, भगवान् सनत्कुमारने उन्हें जिस परमोत्कृष्ट अध्यात्मयोगकी शिक्षा दी थी, उसीके अनुसार राजा पृथु पुरुषोत्तम श्रीहरिकी आराधना करने लगे॥ ९॥
वीरराघवः
सनत्कुमारोऽयं उत्कृष्टमाध्यात्मिकं योगमाह तेनैव योगेन पुरुषर्षभः पृथुः पुरुषं परमपुरुषमभजत् ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
भगवद्धर्मिणः साधोः श्रद्धया यततः सदा।
भक्तिर्भगवति ब्रह्मण्यनन्यविषयाभवत्॥
मूलम्
भगवद्धर्मिणः साधोः श्रद्धया यततः सदा।
भक्तिर्भगवति ब्रह्मण्यनन्यविषयाऽभवत्॥ १० ॥
अनुवाद (हिन्दी)
इस तरह भगवत्परायण होकर श्रद्धापूर्वक सदाचारका पालन करते हुए निरन्तर साधन करनेसे परब्रह्म परमात्मामें उनकी अनन्यभक्ति हो गयी॥ १०॥
वीरराघवः
भगवद्धर्मिणः निवृत्तिधर्मेण श्रद्धया यततः यत्नं कुर्वतः साधोः पृथोः भगवति पूर्णषाङ्गुण्ये ब्रह्मणि अनन्यविषया अव्यभिचारिणी भक्तिरभवत् ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
तस्यानया भगवतः परिकर्मशुद्ध-
सत्त्वात्मनस्तदनु संस्मरणानुपूर्त्त्या।
ज्ञानं विरक्तिमदभून्निशितेन येन
चिच्छेद संशयपदं निजजीवकोशम्॥
मूलम्
तस्यानया भगवतः परिकर्मशुद्धसत्त्वात्मनस्तदनु संस्मरणानुपूर्त्त्या।
ज्ञानं विरक्तिमदभून्निशितेन येन चिच्छेद संशयपदं निजजीवकोशम्॥ ११ ॥
अनुवाद (हिन्दी)
इस प्रकार भगवदुपासनासे अन्तःकरण शुद्ध-सात्त्विक हो जानेपर निरन्तर भगवच्चिन्तनके प्रभावसे प्राप्त हुई इस अनन्य भक्तिसे उन्हें वैराग्यसहित ज्ञानकी प्राप्ति हुई और फिर उस तीव्र ज्ञानके द्वारा उन्होंने जीवके उपाधिभूत अहंकारको नष्ट कर दिया, जो सब प्रकारके संशय-विपर्ययका आश्रय है॥ ११॥
वीरराघवः
भगवतः परिकर्मणां परिचर्यया शुद्धसत्त्वात्मनः शुद्धसत्त्वमनसः तस्य 17पृथोः, तस्य17 भगवतः संस्मरणं पूर्वोक्त परभक्तिः तस्यानुपूर्तिः परिपूर्णता तया जातं यत् परज्ञानं विरक्तिश्चोदभूत्, कीदृशं ज्ञानम् ? येन निशितेन ज्ञानेन संशयपदं संशयस्थानं निश्चेतुमशक्यस्वरूपं जीवकोशं प्रकृतितत्त्वं चिच्छेद स्वस्मिन्नसम्बद्धमकरोत्तादृशं ज्ञानमुदभूदित्यर्थः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
छिन्नान्यधीरधिगतात्मगतिर्निरीह-
स्तत्तत्यजेऽच्छिनदिदं वयुनेन येन।
तावन्न योगगतिभिर्यतिरप्रमत्तो
यावद्गदाग्रजकथासु रतिं न कुर्यात्॥
मूलम्
छिन्नाऽन्यधीरधिगतात्मगतिर्निरीहस्तत्तत्यजेऽच्छिनदिदं वयुनेन येन।
ताव18न्नयोगगतिभिर्यतिर19प्रमत्तो यावद्गदाग्रजकथासु रतिं न कुर्यात्॥ १२ ॥
अनुवाद (हिन्दी)
इसके पश्चात् देहात्मबुद्धिकी निवृत्ति और परमात्मस्वरूप श्रीकृष्णकी अनुभूति होनेपर अन्य सब प्रकारकी सिद्धि आदिसे भी उदासीन हो जानेके कारण उन्होंने उस तत्त्वज्ञानके लिये भी प्रयत्न करना छोड़ दिया, जिसकी सहायतासे पहले अपने जीवकोशका नाश किया था, क्योंकि जबतक साधकको योगमार्गके द्वारा श्रीकृष्ण-कथामृतमें अनुराग नहीं होता, तबतक केवल योगसाधनासे उसका मोहजनित प्रमाद दूर नहीं होता—भ्रम नहीं मिटता॥ १२॥
वीरराघवः
छिन्नाऽन्यधीः छिन्नप्रकृतिधीः देहात्म बुद्धिरहितः अधिगता आत्मगतिः आत्मस्वरूपयाथात्म्यं येन, अत एव निरीहः निर्व्यापारः येन, वयुनेन 20ज्ञानेन20 इदं प्रकृतिसम्बन्धमच्छिंनत्तदपि ज्ञानं तत्यजे तत्याज । अनित्यं जडं शरीरमनुसन्धाय तदन्योऽस्मीति हि विवेकज्ञानमुदेति । तत्र शरीरमपि प्रतिसम्बन्धितया बुद्धिस्थं स्यात् । योगकाष्ठायां ब्रह्मात्म21स्वात्मनि साक्षात्कृते देहप्रतिसम्बन्धितया ज्ञानाभावात् तत्याज इत्युक्तम् । न हि केवलं घट इत्यनुभवे पटादन्य इति 22पट प्रतिसम्बन्धितया ज्ञानमनुवर्तते तद्वदित्यर्थः । एवमेका ग्रतायां हेतुमाह - तावदिति । भगवत्कथासु रतिं यावन्न करोति तावद्योगगतिभिः अप्रमत्तो न भवति । अश्रुतभगवत्कथानां प्रमादः स्यादेव, अस्य भगवत्कथारतित्वान्न प्रमाद इत्यर्थः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
एवं स वीरप्रवरः संयोज्यात्मानमात्मनि।
ब्रह्मभूतो दृढं काले तत्याज स्वं कलेवरम्॥
मूलम्
एवं स वीरप्रवरः संयोज्यात्मानमात्मनि।
ब्रह्मभूतो दृढं काले तत्याज स्वं कलेबरम्॥ १३ ॥
अनुवाद (हिन्दी)
फिर जब अन्तकाल उपस्थित हुआ तो वीरवर पृथुने अपने चित्तको दृढ़तापूर्वक परमात्मामें स्थिर कर ब्रह्मभावमें स्थित हो अपना शरीर त्याग दिया॥ १३॥
वीरराघवः
स वीर23प्रेष्ठः पृथुः आत्मानमात्मनि परमात्मनि संयोज्य समर्प्य स्वतस्सिद्धमपृथक्सिद्धसम्बन्ध मनुसन्धायेत्यर्थः । आविर्भूतगुणाष्टकतया ब्रह्मप्रकारं प्राप्तः 24काले अभ्युपगतप्रारब्धावसानकाले स्वशरीरं तत्याज । ब्रह्मभावप्राप्तेः कलेबरत्यागानन्तरभावित्वेऽपि सिद्धवदभिप्रायकृतः पूर्वकालनिर्देशः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
सम्पीड्य पायुं पार्ष्णिभ्यां वायुमुत्सारयन् शनैः।
नाभ्यां कोष्ठेष्ववस्थाप्य हृदुरःकण्ठशीर्षणि॥
मूलम्
सम्पीड्यापायुं पार्ष्णिभ्यां वायु25मुत्सारयञ्छनैः।
नाभ्यां कोष्ठेष्ववस्थाप्य हृदुरः कण्ठशीर्षणि॥ १४ ॥
अनुवाद (हिन्दी)
उन्होंने एड़ीसे गुदाके द्वारको रोककर प्राणवायुको धीरे-धीरे मूलाधारसे ऊपरकी ओर उठाते हुए उसे क्रमशः नाभि, हृदय, वक्षःस्थल, कण्ठ और मस्तकमें स्थित किया॥ १४॥
वीरराघवः
कलेबरत्यागपूर्वक ब्रह्मभावप्राप्तिप्रकारमेवोपपादयति - सम्पीड्येति । गुल्फाभ्यां पायुं गुदं सम्पीड्य सन्निरुद्ध्य मूलाधारा द्वायुं शनैरुत्सारयन् ऊर्ध्वं नयन् नाभ्यामवस्थाप्य सतः हृदयादिषु कोष्ठेषु स्थानेषु अवस्थाप्य हृदयादीनां द्वन्द्वैक्यं प्राण्यङ्गत्वात् । तत्र शीर्षं भ्रूमध्यम् । “भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्, (भ.गी. 8-10) इति श्रुतेः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
उत्सर्पयंस्तु तं मूर्ध्नि क्रमेणावेश्य निःस्पृहः।
वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत्॥
मूलम्
उत्सर्प26यन्नसून् मूर्ध्नि क्रमेणावेश्य निःस्पृहः।
वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत्॥ १५ ॥
अनुवाद (हिन्दी)
फिर उसे और ऊपरकी ओर ले जाते हुए क्रमशः ब्रह्मरन्ध्रमें स्थिर किया। अब उन्हें किसी प्रकारके सांसारिक भोगोंकी लालसा नहीं रही। फिर यथास्थान विभाग करके प्राणवायुको समष्टि वायुमें, पार्थिव शरीरको पृथ्वीमें और शरीरके तेजको समष्टि तेजमें लीन कर दिया॥ १५॥
वीरराघवः
तं च ततः मूर्ध्नि ब्रह्मरन्ध्रे उत्सर्पयन् ऊर्ध्वं नयन् क्रमेण ब्रह्मरन्ध्रे चावेश्य निस्स्पृह अणिमाद्यैश्वर्यकैवल्यादिषु स्पृहारहितः, यद्यपेक्षा स्यात् योगिनस्तदैश्वर्यादिकमपि स्यात्; इति स्पृहा निषिद्ध्यते । वायुं स्वदेहस्थं वायौ महाभूते कायं देहरूपपृथिवीं क्षितौ महाभूते, एवमग्रेऽपि । अयूयुजत् लीन27मनुसंहितवान् ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
खान्याकाशे द्रवं तोये यथास्थानं विभागशः।
क्षितिमम्भसि तत्तेजस्यदो वायौ नभस्यमुम्॥
मूलम्
खान्याकाशे द्रवं तोये यथास्थानं विभागशः।
क्षितिमम्भसि तत्तेजस्यदो वायौ नभस्यमुम्॥ १६ ॥
अनुवाद (हिन्दी)
हृदयाकाशादि देहावच्छिन्न आकाशको महाकाशमें और शरीरगत रुधिरादि जलीय अंशको समष्टि जलमें लीन किया। इसी प्रकार फिर पृथ्वीको जलमें, जलको तेजमें, तेजको वायुमें और वायुको आकाशमें लीन किया॥ १६॥
वीरराघवः
खानि इन्द्रियाधिष्ठानानि देहविवराणि द्रवं देहस्थं जलं तोये महाभूते यथास्थानं यथाकारणं विभागशः असङ्करेण 28अयुयुजत्28, एवं देहस्थभूतांशानां महाभूतसमष्टितयाऽनुसन्धानमुक्तम् । अथ पृथिव्यादितत्त्वानामुत्पत्तिक्रमेण लयानुसन्धानमुच्यते । क्षितिं भूतमम्भसि महाभूते अयूयुजदित्यनुषङ्गः । तत् अम्भः तेजसि अदस्तेजः वायौ, अमुं नभस्याकाशे ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
इन्द्रियेषु मनस्तानि तन्मात्रेषु यथोद्भवम्।
भूतादिनामून्युत्कृष्य महत्यात्मनि सन्दधे॥
मूलम्
इन्द्रि29येषु मनस्तानि तन्मा30त्रेषु यथोद्भवम्।
भूतादि31नामन्युत्कृष्य महत्यात्मनि सन्दधे॥ १७ ॥
अनुवाद (हिन्दी)
तदनन्तर मनको [सविकल्प ज्ञानमें जिनके अधीन वह रहता है, उन] इन्द्रियोंमें, इन्द्रियोंको उनके कारणरूप तन्मात्राओंमें और सूक्ष्मभूतों (तन्मात्राओं)-के कारण अहंकारके द्वारा आकाश, इन्द्रिय और तन्मात्राओंको उसी अहंकारमें लीन कर, अहंकारको महत्तत्त्वमें लीन किया॥ १७॥
वीरराघवः
तदेवं तामसाहङ्कारकार्याणामाकाशपर्यन्तं लयमुक्त्वा सात्त्विकाहङ्कारकार्याणां लयानुसन्धानमाह - इन्द्रियेषु मन इति । सविकल्पकज्ञाने मनस इन्द्रियैराकर्षणात् तेषु लयानुसन्धानमुक्तम्, न तु तत्कार्यत्वात्, वैकारिकत्वान्मनसः । यदुक्तं गीतासु - “इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते, (भ.गी. 2-67) इति । अत्राऽपि “इन्द्रियैर्विषयाकृष्टैराकृष्टं ध्यायतां मन” (भाग. 4-22-30) इति । तानि इन्द्रियाणि तन्मात्रेषु अत्रापीन्द्रियाणां वैकारिकत्वेऽपि तेषां शब्दादितन्मात्रैराकर्षणात् तन्मात्रेष्वित्युक्तम् । अयमर्थः - तामसाहङ्कारकार्याणां पृथिव्यादीनामाकाशपर्यन्तं लयमभिधाय तद्धर्माणां गन्धादितन्मात्राणामिन्द्रियाकर्षकत्वेन, इन्द्रियाणां च 32मनस आकर्षकत्वेन च मन इन्द्रियार्थानामुत्तरोत्तरानुवर्तित्वेन कार्यकारणयोरिव प्रदर्शयितुं लयानुसन्धानकीर्तनमिति परमार्थत इन्द्रियाणां वैकारिकेऽहङ्कारे आकाशस्य सशब्दस्य भूतादौ लय इति विवेकः । तैजसस्य तु अहङ्कारस्य वैकारिकभूताद्योरनुग्राहकत्वमात्रमेव, न तु कार्यान्तरमस्ति इति न तत्कार्यलय उक्तः । यथोद्भवं यथाप्रवृत्ति । मन आदीनामुत्तरोत्तराधीन प्रवृत्तिकत्वात् । इन्द्रियेषु नभ इत्यपि पाठो दृश्यते । नभः आकाशं शब्दादि तन्मात्रेषु इन्द्रियविषयेषु विषये तद्वच्छन्द उपचारात्प्रयुक्तः । भूतानां तन्मात्रेषु यथोद्भवं लय इत्यर्थः । तानि तन्मात्राणि यथोद्भवमुद्भवमनतिक्रम्य, उद्भवत्यस्मादिति उद्भवः कारणे भूतादावित्यर्थः । भूतादिशब्दो वैकारिक तैजसयोरपि प्रदर्शनार्थः । 33अत एव बहुवचनं, तदयमर्थः33 34भूतादिनामानि34 भूतादिवैकारिकतैजसनामानि उपसंहृतकार्याणि उत्कृष्य आत्मनि आत्मा चित्तं तदनुग्राहके महत्तत्वे सन्दधे अनुसंहितवान् । भूतादिना समुत्कृष्येति पाठे तानि तन्मात्राणि भूतादिना तामसाहङ्कारेण कारणभूतेन सह समुत्कृष्य तस्मिन् विलाप्य इत्यर्थः । लयस्य कारणवस्तुना सह संश्लेषरूपत्वा त्साहित्यविवक्षया तृतीया । तं भूतादिं महतीत्यन्वयः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
तं सर्वगुणविन्यासं जीवे मायामये न्यधात्।
तं चानुशयमात्मस्थमसावनुशयी पुमान्।
ज्ञानवैराग्यवीर्येण स्वरूपस्थोऽजहात्प्रभुः॥
मूलम्
तं सर्वगुणविन्या35सं जीवे मायामये न्यधात्।
तं चानुशयमात्मस्थमसावनुशयी पुमान्।
ज्ञानवैराग्यवीर्येण स्वरूप36स्थोऽजहात्प्रभुः॥ १८ ॥
अनुवाद (हिन्दी)
फिर सम्पूर्ण गुणोंकी अभिव्यक्ति करनेवाले उस महत्तत्त्वको मायोपाधिक जीवमें स्थित किया। तदनन्तर उस मायारूप जीवकी उपाधिको भी उन्होंने ज्ञान और वैराग्यके प्रभावसे अपने शुद्ध ब्रह्मस्वरूपमें स्थित होकर त्याग दिया॥ १८॥
वीरराघवः
तं महान्तं सर्वगुणविन्यासबीजे गुणवैषम्य हेतुभूते मायामये प्रधाने न्यधात्, स्वार्थे मयट् । तं सर्वगुणविन्यासं जीवे मायामय इति पाठे तु तं महान्तं सर्वेषां गुणानां कार्याणां विन्यासः स्थितिर्यस्मिन्, तत् प्रधानमव्यक्तं प्रतिन्यधात् प्रधाने न्यधादित्यर्थः । तच्चाव्यक्तं मायामये अचित्समष्टिसंसृष्टे जीवे न्यधादित्यर्थः । “महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते, (सुबा. उ. 2-2) इति श्रुत्यनुरोधात् । अनुशयो भुक्तशिष्टं कर्म, तद्वाननुशयी, पूर्वं संसृतिदशायामनुशयी क्षीणप्रायदोष इत्यर्थः पुमान् जीवः । असौ पृथुः त चित्समष्टिसंसृष्टमात्मस्थं स्वस्वरूपस्थं नितरां प्रकृति सम्बन्धवियुक्त मनुसंहितवानित्यर्थः । ततो ज्ञानवैराग्यबलेन अनुशयं भुक्तावशिष्टं पूर्वोत्तरभेदेन सञ्चितानभ्युपगतबुद्धिपूर्वकभेदेन च भिन्नं पुण्यपापात्मकं कर्म अजहात् अत्याक्षीत् । ततः प्रभुरकर्मवश्यो भूत्वा स्वरूपस्थः परमात्मात्मकाविर्भूत गुणाष्टक स्वस्वरूपेणाऽव स्थितोऽभून्मुक्तोऽभूदित्यर्थः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
अर्चिर्नाम महाराज्ञी तत्पत्न्यनुगता वनम्।
सुकुमार्यतदर्हा च यत्पद्भ्यां स्पर्शनं भुवः॥
मूलम्
अर्चिर्नाम महाराज्ञी तत्पत्न्यनुगता वनम्।
सुकुमार्यतदर्हा च यत्पद्भ्यां स्पर्शनं भुवः॥ १९ ॥
अनुवाद (हिन्दी)
महाराज पृथुकी पत्नी महारानी अर्चि भी उनके साथ वनको गयी थीं। वे बड़ी सुकुमारी थीं, पैरोंसे भूमिका स्पर्श करनेयोग्य भी नहीं थीं॥ १९॥
वीरराघवः
अथाऽर्चिर्नाम्नी पृथोः पत्नी महाराजस्य स्त्री सुकुमारी अतदर्हा वनगमनादि क्लेश मनर्हन्त्यपि पतिमनुसृत्य वनं गता प्रविष्टा अतदर्हत्वमेवाह - यस्या अर्चिषः पद्भ्यां भुवः स्पर्शनं पद्भ्यां भुव37मप्यस्पृशन्ती महाभोगशालिनी साक्षात् पद्भ्यां वनं प्रविष्टवती त्यतदर्हत्वमुक्तम् ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
अतीव भर्तुर्व्रतधर्मनिष्ठया
शुश्रूषया चारषदेहयात्रया।
नाविन्दतार्तिं परिकर्शितापि सा
प्रेयस्करस्पर्शनमाननिर्वृतिः॥
मूलम्
अतीव 38भर्तुर्व्रतधर्मनिष्ठया शुश्रूषया 39चार्षदेहयात्रया।
नाऽविन्दतार्तिं 40परिकर्शिताऽपि सा प्रेयस्करस्पर्शन माननिर्वृ41तिः॥ २० ॥
अनुवाद (हिन्दी)
फिर भी उन्होंने अपने स्वामीके व्रत और नियमादिका पालन करते हुए उनकी खूब सेवा की और मुनिवृत्तिके अनुसार कन्द-मूल आदिसे निर्वाह किया। इससे यद्यपि वे बहुत दुर्बल हो गयी थीं, तो भी प्रियतमके करस्पर्शसे सम्मानित होकर उसीमें आनन्द माननेके कारण उन्हें किसी प्रकार कष्ट नहीं होता था॥ २०॥
वीरराघवः
अतीव यद्भ42र्तृव्रतं स्थण्डिलशयनादिरूपं 43तस्मिन् व्रते43 या निष्टा तया 44भर्तृशुश्रूषया44 ऋषीणामियमार्षी देहयात्रा कन्दमूलाद्याहाररूपा तया च कृशीभूताऽपि अर्ति दुःखं नाऽविन्दत । यतः प्रेयसः प्रियतमस्य पृथोः करस्पर्शनादिरूपः यः सम्मानः तेन निर्वृता ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
देहं विपन्नाखिलचेतनादिकं
पत्युः पृथिव्या दयितस्य चात्मनः।
आलक्ष्य किञ्चिच्च विलप्य सा सती
चितामथारोपयदद्रिसानुनि॥
मूलम्
देहं विपन्नाखिलचेतनादिकं पत्युः पृथिव्या दयितस्य चाऽऽत्मनः।
आलक्ष्य कि45ञ्चिच्च विलप्य सा सती चितामथाऽऽरोपयदद्रिसानुनि॥ २१ ॥
अनुवाद (हिन्दी)
अब पृथ्वीके स्वामी और अपने प्रियतम महाराज पृथुकी देहको जीवनके चेतना आदि सभी धर्मोंसे रहित देख उस सतीने कुछ देर विलाप किया। फिर पर्वतके ऊपर चिता बनाकर उसे उस चितापर रख दिया॥ २१॥
वीरराघवः
आत्मनः स्वस्याः पृथिव्याश्च पत्युः पृथोः देहं विपन्नानि विगतानि अखि46ल चेतनादीनि46 47अखिलानि47 बुद्धीन्द्रियप्राणादीनि यस्मिन् तथाभूतमालक्ष्य दृष्ट्वा किञ्चिद्विलप्य च सा सती अर्चिः 48तं देहं अद्रिसानुनि चितामारोपयत् ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
विधाय कृत्यं ह्रदिनीजलाप्लुता
दत्त्वोदकं भर्तुरुदारकर्मणः।
नत्वा दिविस्थांस्त्रिदशांस्त्रिः परीत्य
विवेश वह्निं ध्यायती भर्तृपादौ॥
मूलम्
विधाय कृत्यं ह्रदिनीजलाप्लुता49दत्वोदकं भर्तुरुदारकर्मणः।
नत्वा दिवि50ष्ठां स्त्रिदशां स्त्रिः परीत्य विवेश वह्निं ध्यायती 51भर्तृ52पादम्॥ २२ ॥
अनुवाद (हिन्दी)
इसके बाद उस समयके सारे कृत्य कर नदीके जलमें स्नान किया। अपने परम पराक्रमी पतिको जलांजलि दे आकाशस्थित देवताओंकी वन्दना की तथा तीन बार चिताकी परिक्रमा कर पतिदेवके चरणोंका ध्यान करती हुई अग्निमें प्रवेश कर गयी॥ २२॥
वीरराघवः
ततस्तत्कालोचितं कृत्यं च विधाय हृदिन्याः सरस्या जलेष्वाप्लुता सती उदारकर्मणो भर्तुः उदकं दत्वा दिवि53ष्ठान् त्रिदशान् नत्वा भर्तुः पादं ध्यायती चितां त्रिः परीत्य प्रदक्षिणीकृत्य वह्निं विवेश ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
विलोक्यानुगतां साध्वीं पृथुं वीरवरं पतिम्।
तुष्टुवुर्वरदा देवैर्देवपत्न्यः सहस्रशः॥
मूलम्
विलोक्यानुगतां साध्वीं पृथुं वीरवरं पतिम्।
तुष्टुवुर्वरदा देवैर्देवपत्न्यः सहस्रशः॥ २३ ॥
अनुवाद (हिन्दी)
परमसाध्वी अर्चिको इस प्रकार अपने पति वीरवर पृथुका अनुगमन करते देख सहस्रों वरदायिनी देवियोंने अपने-अपने पतियोंके साथ उनकी स्तुति की॥ २३॥
वीरराघवः
वीरश्रेष्ठं पतिं पृथुमनुसृत्य गतां साध्वीं विलोक्य वरदा देव54पत्न्यः देवैः सह सहस्रशः तुष्टुवुः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
कुर्वत्यः कुसुमासारं तस्मिन्मन्दरसानुनि।
नदत्स्वमरतूर्येषु गृणन्ति स्म परस्परम्॥
मूलम्
कुर्व55त्यः कुसुमासारं तस्मिन्मन्दरसानुनि।
नदत्स्वमरतूर्येषु गृणन्ति स्म परस्परम्॥ २४ ॥
अनुवाद (हिन्दी)
वहाँ देवताओंके बाजे बजने लगे। उस समय उस मन्दराचलके शिखरपर वे देवांगनाएँ पुष्पोंकी वर्षा करती हुई आपसमें इस प्रकार कहने लगीं॥ २४॥
वीरराघवः
56तदा तस्मिन् मन्दरसानि कुसुमवर्षं कुर्वत्यः अमर तूर्येषु देवदुन्दुभ्यादिषु नदत्सु सत्सु परस्परं गृणन्ति स्म अभाषन्त ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम्।
सर्वात्मना पतिं भेजे यज्ञेशं श्रीर्वधूरिव॥
मूलम्
अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम्।
सर्वात्मना पतिं भेजे यज्ञेशं 58श्रीवधूरिव॥ २५ ॥
अनुवाद (हिन्दी)
देवियोंने कहा—अहो! यह स्त्री धन्य है! इसने अपने पति राजराजेश्वर पृथुकी मन-वाणी-शरीरसे ठीक उसी प्रकार सेवा की है, जैसे श्रीलक्ष्मीजी यज्ञेश्वर भगवान् विष्णुकी करती हैं॥ २५॥
वीरराघवः
भाषणमेवाह - अहो इति । इयं वधूः अर्चिः धन्या कृतार्था, अहो इत्याश्चर्ये हर्षे वा । या वधूः भूभुजां राज्ञां पतिं, पतिं 59स्वभर्तारं सर्वात्मना सर्वप्रकारेण भेजे प्राप्ता, यज्ञेशं भगवन्तं श्रीरूपिणी वधूरिव ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
सैषा नूनं व्रजत्यूर्ध्वमनु वैन्यं पतिं सती।
पश्यतास्मानतीत्यार्चिर्दुर्विभाव्येन कर्मणा॥
मूलम्
सैषा नूनं व्रजत्यूर्ध्वमनुवैन्यं पतिं सती।
पश्य60ताऽस्मानतीत्यार्चिर्दुर्विभाव्येन कर्मणा॥ २६ ॥
अनुवाद (हिन्दी)
अवश्य ही अपने अचिन्त्य कर्मके प्रभावसे यह सती हमें भी लाँघकर अपने पतिके साथ उच्चतर लोकोंको जा रही है॥ २६॥
वीरराघवः
तस्मात् सैषा सती अर्चिः पश्यतो 61अस्मान् 62नभस्थानतीत्य दुर्विभाव्येन चिन्तयितु63मप्यशक्येन कर्मणा पतिपारार्थ्यादिना पतिं स्वभर्तारं वैन्यं पृथुमनुसृत्य ऊध्वं व्रजति, नूनम् ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
तेषां दुरापं किं त्वन्यन्मर्त्यानां भगवत्पदम्।
भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्युत॥
मूलम्
तेषां दुरापं 64किन्त्वन्यन्मर्त्यानां भगवत्पदम्।
65भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्युत॥ २७ ॥
अनुवाद (हिन्दी)
इस लोकमें कुछ ही दिनोंका जीवन होनेपर भी जो लोग भगवान्के परमपदकी प्राप्ति करानेवाला आत्मज्ञान प्राप्त कर लेते हैं, उनके लिये संसारमें कौन पदार्थ दुर्लभ है॥ २७॥
वीरराघवः
भगवान् पद्यते गम्यतेऽनेनेति भगवत्पदं भगवत्प्राप्तिसाधनं नैष्कर्म्यं निवृत्तिधर्मं ये विद्यु66दिव चञ्चलायुषोऽपि साधयन्ति तेषां भगवद्भक्तानाम् अन्यद्देवादिपदं किमु दुर्लभं न किञ्चिदित्यर्थः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
स वञ्चितो बतात्मध्रुक् कृच्छ्रेण महता भुवि।
लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते॥
मूलम्
स वञ्चितो बतात्मध्रुक् कृच्छ्रेण महता भुवि।
लब्ध्वाऽपवर्ग्यं मानुष्यं विषयेषु वि67षज्जते॥ २८ ॥
अनुवाद (हिन्दी)
अतः जो पुरुष बड़ी कठिनतासे भूलोकमें मोक्षका साधनस्वरूप मनुष्य-शरीर पाकर भी विषयोंमें आसक्त रहता है, वह निश्चय ही आत्मघाती है; हाय! हाय! वह ठगा गया॥ २८॥
वीरराघवः
अभक्तं शोचन्ति स इति । यः पुमा नापवर्ग्यम् अपवर्गसाधनं मानुष्यं मनुष्यजन्म कृच्छ्रेण दुस्सा68धेन महता कर्मपरिपाकेन भुवि लब्ध्वाऽपि विषयेषु वि69षज्जते स वञ्चितो दैवेन बतेति खेदे ॥ २८ ॥
श्लोक-२९
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
स्तुवतीष्वमरस्त्रीषु पतिलोकं गता वधूः।
यं वा आत्मविदां धुर्यो वैन्यः प्रापाच्युताशयः॥
मूलम्
स्तु70वती71षुसुरस्त्रीषु पतिलोकं गता वधूः।
यं 72वा आत्मविदां द्युर्यो वैन्यः प्रापाऽच्युता73श्रयम्॥ २९ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—विदुरजी! जिस समय देवांगनाएँ इस प्रकार स्तुति कर रही थीं, भगवान्के जिस परमधामको आत्मज्ञानियोंमें श्रेष्ठ भगवत्प्राण महाराज पृथु गये, महारानी अर्चि भी उसी पतिलोकको गयीं॥ २९॥
वीरराघवः
एवं सुरस्त्रीषु स्तुवन्तीषु (स्तुवतीषु) सतीषु वधूरर्चिः पतिलोकं गता प्राप्ता । कोऽसौ पतिलोकः ? आत्मवतां ज्ञानिनां धुर्यः श्रेष्ठः वैन्यः पृथुः अच्युताश्रयं भगवतो निवास भूतं वैकुण्ठाख्यं यं लोकं प्राप, तं लोकं गतेत्यर्थः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
इत्थंभूतानुभावोऽसौ पृथुः स भगवत्तमः।
कीर्तितं तस्य चरितमुद्दामचरितस्य ते॥
मूलम्
इत्थम्भूतानुभावोऽसौ पृथुः स भगवत्तमः।
कीर्तितं तस्य चरितमुद्दामचरितस्य ते॥ ३० ॥
अनुवाद (हिन्दी)
परमभागवत पृथुजी ऐसे ही प्रभावशाली थे। उनके चरित बड़े उदार हैं, मैंने तुम्हारे सामने उनका वर्णन किया॥ ३०॥
वीरराघवः
उपसंहरति 74इत्थम्भूतानुभाव इति74 । भगवत्तमः भगवताम् - “उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्याञ्च स वाच्यो भगवानिति । (वि.पु. 6-5-78) इत्युक्तविध भगवतां मध्ये श्रेष्ठः असौ पृथुरित्थंभूतानुभावः उक्तविधप्रभाव सम्पन्नः । उदारचरितस्य पृथोश्चरितं ते तुभ्यं मया कीर्तितम् ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
य इदं सुमहत्पुण्यं श्रद्धयावहितः पठेत्।
श्रावयेच्छृणुयाद्वापि स पृथोः पदवीमियात्॥
मूलम्
य इदं सुमहत्पुण्यं श्रद्धयाऽवहितः पठेत्।
श्रावयेच्छृणुयाद्वाऽपि स पृथोः पदवीमियात्॥ ३१ ॥
अनुवाद (हिन्दी)
जो पुरुष इस परम पवित्र चरित्रको श्रद्धापूर्वक (निष्कामभावसे) एकाग्रचित्तसे पढ़ता, सुनता अथवा सुनाता है—वह भी महाराज पृथुके पद—भगवान्के परमधामको प्राप्त होता है॥ ३१॥
वीरराघवः
एतच्चरितकीर्तन श्रवण श्रावण फलमाह - य इति । यः पुमान् सुमहत् 75पुण्यं पुण्यसाधनमिदं चरितमवहितमनाः समाहितचित्तः श्रद्धया पठेत् 76श्रृणुयात् श्रावये द्वा स पृथोः पदवीं गतिमियात् प्राप्नुयात् ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः।
वैश्यः पठन् विट्पतिः स्याच्छूद्रः सत्तमतामियात्॥
मूलम्
ब्राह्मणो ब्रह्मवर्चस्व 77राजन्यो जगतीपतिः।
78वैश्यः पठन् 79विट्पत्तिस्स्यात् शूद्रः 80उत्तमतामिया81त्॥ ३२ ॥
अनुवाद (हिन्दी)
इसका सकामभावसे पाठ करनेसे ब्राह्मण ब्रह्मतेज प्राप्त करता है, क्षत्रिय पृथ्वीपति हो जाता है, वैश्य व्यापारियोंमें प्रधान हो जाता है और शूद्रमें साधुता आ जाती है॥ ३२॥
वीरराघवः
आनुषङ्गिकं फलमाह - ब्राह्मण इति । ब्राह्मणः ब्रह्मवर्चस्वी भवेत्, राजन्यः क्षत्रियः पठनादिकं कुर्वन् जगती पतिर्भवेत्, वैश्य विट्पति 82वैश्यानां पतिः82 शूद्रः उत्तमतां 83सजातीयेषु प्राप्नुयात्॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
त्रिःकृत्व इदमाकर्ण्य नरो नार्यथवाऽऽदृता।
अप्रजः सुप्रजतमो निर्धनो धनवत्तमः॥
वीरराघवः
नरो नारी वाऽऽदृता आद87रण युक्ता त्रिः कृत्वः त्रिवारमिदमाकर्ण्य अप्रजाः सुप्रजाः, विद्यारूपद्रविण बलादियुक्तपुत्रवान् भवेत्, निर्धनः धनवतां मध्ये श्रेष्ठः, अनभिव्यक्त कीर्तिः विपुलकीर्तिः, मूर्खः ज्ञानविधुरः पण्डितो भवेत् ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः।
इदं स्वस्त्ययनं पुंसाममङ्गल्यनिवारणम्॥
मूलम्
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः।
इदं स्वस्त्ययनं पुंसाममङ्ग88लनिवारणम्॥ ३४ ॥
अनुवाद (हिन्दी)
स्त्री हो अथवा पुरुष—जो कोई इसे आदरपूर्वक तीन बार सुनता है, वह सन्तानहीन हो तो पुत्रवान्, धनहीन हो तो महाधनी, कीर्तिहीन हो तो यशस्वी और मूर्ख हो तो पण्डित हो जाता है। यह चरित मनुष्यमात्रका कल्याण करनेवाला और अमंगलको दूर करनेवाला है॥ ३३-३४॥
वीरराघवः
स्वस्ति मङ्गलं ईयतेऽनेनेति तथा अमङ्गलं निवारयतीति तथा धन्यं धनसम्पादकं यशस्करमायुष्करं स्वर्गसाधनं कलिदोषहरम् ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
धन्यं यशस्यमायुष्यं स्वर्ग्यं कलिमलापहम्।
धर्मार्थकाममोक्षाणां सम्यक्सिद्धिमभीप्सुभिः।
श्रद्धयैतदनुश्राव्यं चतुर्णां कारणं परम्॥
मूलम्
धन्यं यशस्यमायुष्यं स्वर्ग्यं कलिमलापहम्।
धर्मार्थकाममोक्षाणां सम्यक्सिद्धिमभीप्सुभिः।
श्रद्धयैतदनुश्राव्यं चतुर्णां कारणं परम्॥ ३५ ॥
अनुवाद (हिन्दी)
यह धन, यश और आयुकी वृद्धि करनेवाला, स्वर्गकी प्राप्ति करानेवाला और कलियुगके दोषोंका नाश करनेवाला है। यह धर्मादि चतुर्वर्गकी प्राप्तिमें भी बड़ा सहायक है; इसलिये जो लोग धर्म, अर्थ, काम और मोक्षको भलीभाँति सिद्ध करना चाहते हों, उन्हें इसका श्रद्धापूर्वक श्रवण करना चाहिये॥ ३५॥
वीरराघवः
धर्मादीनां सिद्धिं सम्यक् 89अभीप्सुभिः89 90लिप्सुभिः90 चतुर्णां धर्मादीनां परं कारणं साधनमेतत् चरित्रं श्रद्धयाऽनश्रान्यम् ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
विजयाभिमुखो राजा श्रुत्वैतदभियाति यान्।
बलिं तस्मै हरन्त्यग्रे राजानः पृथवे यथा॥
अनुवाद (हिन्दी)
जो राजा विजयके लिये प्रस्थान करते समय इसे सुनकर जाता है, उसके आगे आ-आकर राजालोग उसी प्रकार भेंटें रखते हैं जैसे पृथुके सामने रखते थे॥ ३६॥
वीरराघवः
एतच्चरि93त्रं श्रुत्वा 94राजा संग्रामाभिमुखो यान् याति, तस्मै अभियात्रे बलिं हरन्ति यथा राजान पृथवे ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
मुक्तान्यसङ्गो भगवत्यमलां भक्तिमुद्वहन्।
वैन्यस्य चरितं पुण्यं शृणुयाच्छ्रावयेत्पठेत्॥
मूलम्
मुक्तान्यसङ्गो भगवत्य95चलां भक्तिमुद्वहन्।
वैन्यस्य चरितं पुण्यं शृणुयाच्छ्रावयेत्पठेत्॥ ३७ ॥
अनुवाद (हिन्दी)
मनुष्यको चाहिये कि अन्य सब प्रकारकी आसक्ति छोड़कर भगवान्में विशुद्ध निष्काम भक्ति-भाव रखते हुए महाराज पृथुके इस निर्मल चरितको सुने, सुनावे और पढे़॥ ३७॥
श्लोक-३८
विश्वास-प्रस्तुतिः
वैचित्रवीर्याभिहितं महन्माहात्म्यसूचकम्।
अस्मिन् कृतमतिर्मर्त्यः पार्थवीं गतिमाप्नुयात्॥
मूलम्
वैचि96त्रवीर्याभि97मतं महन्माहात्म्यसूचकम्।
अस्मिन्कृतमतिर्मर्त्यः पा98र्थवीं गतिमाप्नुयात्॥ ३८ ॥
अनुवाद (हिन्दी)
विदुरजी! मैंने भगवान्के माहात्म्यको प्रकट करनेवाला यह पवित्र चरित्र तुम्हें सुना दिया। इसमें प्रेम करनेवाला पुरुष महाराज पृथुकी-सी गति पाता है॥ ३८॥
वीरराघवः
यद्यप्येवंविधानि बहूनि फलानि तथाऽपि त्यक्ताऽन्य फलसङ्ग भगवति भक्तिमुद्वहन् कुर्वन् । वैवित्य्र 99वीर्याणां विचित्रवीर्यशालिनामभिमतं महतो भगवतो माहात्म्यस्य सूचकं 100पुण्यं वैन्यस्य चरितं शृणुयात् 101श्रावयेत् पठेच्च । एवञ्चेदस्मिन् भगवति कृतमतिर्मर्त्य पा102थिवीं पृथुना लब्धां गति माप्नुयात् ॥ ३७-३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
अनुदिनमिदमादरेण शृण्वन्
पृथुचरितं प्रथयन् विमुक्तसङ्गः।
भगवति भवसिन्धुपोतपादे
स च निपुणां लभते रतिं मनुष्यः॥
मूलम्
अनुदिनमिदमादरेण शृण्वन् पृथुचरितं प्रथ103यन् विमुक्तसङ्गः।
भगवति भवसिन्धु104पोतपादो स च निपुणां लभते 105मतिं मनुष्यः॥ ३९ ॥
अनुवाद (हिन्दी)
जो पुरुष इस पृथु-चरितका प्रतिदिन आदरपूर्वक निष्कामभावसे श्रवण और कीर्तन करता है; उसका जिनके चरण संसारसागरको पार करनेके लिये नौकाके समान हैं, उन श्रीहरिमें सुदृढ़ अनुराग हो जाता है॥ ३९॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे त्रयोविंशोऽध्यायः॥ २३॥
वीरराघवः
य इदं पृथुचरितमत्यादरेण अनुदिनं श्रृण्वन् प्रथयन् कीर्तयन् विमुक्तान्यफलासङ्गः स मर्त्य भवसि106न्धौ पोतौ प्लवरूपौ पादौ यस्य तस्मिन् भगवति निपुणां मतिं लभते ॥ ३९ ॥
इति श्रीमद्भागवते चतुर्थस्कन्धे वीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां त्रयोविंशोऽध्यायः ॥ २३ ॥
-
M,Ma,V सा ↩︎
-
W omits सम् ↩︎
-
M,Ma जग्मि ↩︎
-
M,Ma विमनास्त्वेकः ↩︎
-
M,Ma तत्रापाद्यात्मनियमो; Ms तत्राऽप्यध्यात्मनियमो; W तत्राऽप्युपात्त नियतो ↩︎
-
W उग्रे ↩︎
-
M,Ma,Ms ष ↩︎
-
V तृण ↩︎
-
V चिन्मासान् ↩︎
-
A,B,T omit आदि ↩︎
-
W तपो ↩︎
-
W omits उदके ↩︎
-
A,B,G,I,J,T,V,W म ↩︎
-
Ms,W रुद्धेन ↩︎
-
W संशयः ↩︎
-
W omits तेन ↩︎
-
M,Ma,Ms तु ↩︎
-
M,Ma,Ms प्रयत्नो ↩︎
-
A,B,T omit स्वात्म ↩︎
-
A,B,T omit पर ↩︎
-
A,B,T श्रे ↩︎
-
A,B,T omit काले ↩︎
-
M,Ma,Ms मुत्यर्प ↩︎
-
A,B,G,I,J,T यंस्तु तं; W यंस्ततो ↩︎
-
T मभि ↩︎
-
M,Ma,Ms याणि समस्तानि ↩︎
-
M,Ma,Ms त्राणि ↩︎
-
A,B,G,I नामून्युत्कृष्य; J नामून्युत्क्षिप्य; M,Ma,Ms स्तान् समुत्क्षिप्य; T नाऽमूल्युत्कृत्य; V नाऽर्थान्युत्क्षिप्य ↩︎
-
W मन आ ↩︎
-
W सबीजे ↩︎
-
M,Ma स्थे व्याघात्; Ms स्थो व्याघात् ↩︎
-
W omits अपि ↩︎
-
W भर्तृव्रत ↩︎
-
B,J चारष ↩︎
-
M,Ma,Ms व्रत ↩︎
-
M,Ma,Ms ता ↩︎
-
A,B,T भर्तुर्व्रतं ↩︎
-
M,Ma,Ms तिलोदकं; V कृत्वोदकं ↩︎
-
W तद्देहं ↩︎
-
A,B,G,I,J,M,Ma,Ms,T स्थां ↩︎
-
Ma ब्रह्मपादम् ↩︎
-
A,B,G,I,J,T पादौ ↩︎
-
W वध्वः ↩︎
-
A,B,T स्तान् ↩︎
-
A,B,T वध्वः ↩︎
-
M,Ma,Ms न्त्यः ↩︎
-
A,B,T तथा ↩︎
-
A,B,G,I,J,T श्रीर्व ↩︎
-
W omits स्व ↩︎
-
W तोऽ ↩︎
-
A,B,T omit अस्मान् ↩︎
-
W omits नभस्तान् ↩︎
-
W omits अपि ↩︎
-
V किम्वाऽन्य; W किम्वन्य ↩︎
-
M,Ma,Ms विद्युल्लो ↩︎
-
A,B,T द्वदतीव ↩︎
-
W त ↩︎
-
A,B,T ध्ये ↩︎
-
W स ↩︎
-
M,Ma,Ms,V,W वन्ती ↩︎
-
A,B,G,I,J,M,Ma,Ms,T ष्वमर ↩︎
-
Ms सा ↩︎
-
A,B,G,I,J,M,Ma,Ms,T शयः ↩︎
-
A,B,T omit पुण्य ↩︎
-
W omits शृणुयात् ↩︎
-
W क्षत्रियो ↩︎
-
W विट्पति स्तु भवे द्वैश्यः ↩︎
-
M,Ma,Ms विश्पति ↩︎
-
A,B,G,I,J,T स ↩︎
-
W ता लभेत् ↩︎
-
W स्व ↩︎
-
I,J,M,Ma,Ms,V,W त्रिः ↩︎
-
M,Ma,Ms त ↩︎
-
A,B,G,I,J,M,Ma,Ms,T,V ज ↩︎
-
A,B,T रेण ↩︎
-
A,B,G,I,J,M,Ma,Ms,T,V ल्य ↩︎
-
A,B,G,I,J,T,W विजयाभि ↩︎
-
W न्त्यन्ये ↩︎
-
A,B,T तं ↩︎
-
W राजन्य ↩︎
-
A,B,G,I,J,T,V म ↩︎
-
W त्य्र ↩︎
-
A,B,G,I,J,M,Ma,Ms हितं ↩︎
-
Ms,T,V,W र्थि ↩︎
-
A,B,T त्र ↩︎
-
A,B,T omit पुण्यं ↩︎
-
A,T omit श्रावयेत् ↩︎
-
A र्थ ↩︎
-
V यंश्व मुक्त ↩︎
-
M पारभूते ↩︎
-
A,B,G,I,J,M,Ma,Ms,T रति ↩︎
-
W सिन्धो ↩︎