२२

[द्वाविंशोऽध्यायः]

भागसूचना

महाराज पृथुको सनकादिका उपदेश

श्लोक-१

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

जनेषु प्रगृणत्स्वेवं पृथुं पृथुलविक्रमम्।
तत्रोपजग्मुर्मुनयश्चत्वारः सूर्यवर्चसः॥

मूलम्

जनेषु प्रगृणत्स्वेवं पृथुं पृथुलविक्रमम्।
तत्रोपजग्मुर्मुनयश्चत्वारः सूर्यवर्चसः॥ १ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—जिस समय प्रजाजन परमपराक्रमी पृथ्वीपाल पृथुकी इस प्रकार प्रार्थना कर रहे थे, उसी समय वहाँ सूर्यके समान तेजस्वी चार मुनीश्वर आये॥ १॥

वीरराघवः

यदुक्तं भगवता “ह्रस्वेन कालेन गृहोपयातान् द्रष्टासि सिद्धान्” (भग. 4-20-15) इति । कुमारागमनं तैश्च तत्त्वोपदेश इति तद्विस्तरेण वर्णयितुं कुमारागमनमाह मुनिः - जनेष्विति । विपुलपराक्रमं पृथुं प्रति एवं जनेषु प्रगृणत्सु वदत्सु सत्सु सूर्यस्येव वर्चो येषां ते चत्वारो मुनयः तत्रोपजग्मुरित्यर्थः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

तांस्तु सिद्धेश्वरान् राजा व्योम्नोऽवतरतोऽर्चिषा।
लोकानपापान् कुर्वत्या सानुगोऽचष्ट लक्षितान्॥

मूलम्

1तांस्तु सिद्धेश्वरान् राजा व्योम्नोऽवतरतोऽर्चिषा।
लोकानपापान् 2कुर्वत्या सानुगोऽचष्ट लक्षितान्॥ २ ॥

अनुवाद (हिन्दी)

राजा और उनके अनुचरोंने देखा तथा पहचान लिया कि वे सिद्धेश्वर अपनी दिव्य कान्तिसे सम्पूर्ण लोकोंको पापनिर्मुक्त करते हुए आकाशसे उतरकर आ रहे हैं॥ २॥

वीरराघवः

लोकानपापान् 3कुर्वत्या अर्चिषा लक्षितान् सनकादय इति 4ज्ञापितान् व्योम्नः आकाशादवरोहतः तान् सिद्धेश्वरान् सानुगः सभृत्यो राजा अचष्ट अद्राक्षीत् ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

तद्दर्शनोद‍्गतान् प्राणान् प्रत्यादित्सुरिवोत्थितः।
ससदस्यानुगो वैन्य इन्द्रियेशो गुणानिव॥

मूलम्

तद्दर्शनोद‍्ग5तान् प्राणान् प्रत्यादित्सुरिवोत्थितः।
ससदस्यानुगो वैन्यः इन्द्रियेशो गुणानिव॥ ३ ॥

अनुवाद (हिन्दी)

राजाके प्राण सनकादिकोंका दर्शन करते ही, जैसे विषयी जीव विषयोंकी ओर दौड़ता है, उनकी ओर चल पड़े—मानो उन्हें रोकनेके लिये ही वे अपने सदस्यों और अनुयायियोंके साथ एकाएक उठकर खड़े हो गये॥ ३॥

वीरराघवः

तेषां दर्शनेनोद्गतान् प्राणान् पुनः प्राप्तुमिच्छुरिव । “ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्यानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते" (मनु. स्मृ 2-120) इत्ययमर्थः सूचितः । प्राणास्तावत्तत्तेजसा क्षिप्ताः प्रत्युद्गच्छन्ति स्वयमननुगच्छतः प्राणहानिः स्यादिति भयादिव 6ससम्भ्रमः सदस्यैरनुगैश्च यथा इन्द्रियेशः क्षेत्रज्ञः गुणान् शब्दादीन् उद्गच्छातीत्यौत्सुक्ये दृष्टान्तः । उत्थितः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

गौरवाद्यन्त्रितः सभ्यः प्रश्रयानतकन्धरः।
विधिवत्पूजयाञ्चक्रे गृहीतार्घ्यार्हणासनान्॥

मूलम्

गौरवा7द्यन्त्रितः 8सभ्यः प्रश्रयानतकन्धरः।
विधिवत्पूजयाञ्चक्रे गृहीता9ध्यर्हणासनान्॥ ४ ॥

अनुवाद (हिन्दी)

जब वे मुनिगण अर्घ्य स्वीकारकर आसनपर विराज गये, तब शिष्टाग्रणी पृथुने उनके गौरवसे प्रभावित हो विनयवश गरदन झुकाये हुए उनकी विधिवत् पूजा की॥ ४॥

वीरराघवः

गौरवात् यन्त्रितः वशीकृतः सद्यः प्रश्रयेण विनयेन (आ) नता कन्धरा यस्य स गृहीतमभ्यर्हणम् अर्ध्यमासनं च यैः तान् यथाविधि पूजयाञ्चक्रे ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

तत्पादशौचसलिलैर्मार्जितालकबन्धनः।
तत्र शीलवतां वृत्तमाचरन्मानयन्निव॥

मूलम्

तत्पादशौचसलिलैर्मार्जितालकबन्धनः।
तत्र शीलवतां 10वृत्तमाचरन्मानयन्निव॥ ५ ॥

अनुवाद (हिन्दी)

फिर उनके चरणोदकको अपने सिरके बालोंपर छिड़का। इस प्रकार शिष्टजनोचित आचारका आदर तथा पालन करके उन्होंने यही दिखाया कि सभी सत्पुरुषोंको ऐसा व्यवहार करना चाहिये॥ ५॥

वीरराघवः

तत्पादानां शौचैः सलिलैः मार्जितं क्षालितम् अलकबन्धन केशबन्धनं यस्य, शीलवतां वृत्तं मानयन्निव स्वयमाचरन् ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

हाटकासन आसीनान् स्वधिष्ण्येष्विव पावकान्।
श्रद्धासंयमसंयुक्तः प्रीतः प्राह भवाग्रजान्॥

मूलम्

हाटकासन आसीनान् स्वधिष्ण्येष्विव पावकान्।
श्रद्धासंयम11संयुक्तः प्रीतः प्राह भवाग्रजान्॥ ६ ॥

अनुवाद (हिन्दी)

सनकादि मुनीश्वर भगवान् शंकरके भी अग्रज हैं। सोनेके सिंहासनपर वे ऐसे सुशोभित हुए , जैसे अपने-अपने स्थानोंपर अग्नि देवता। महाराज पृथुने बड़ी श्रद्धा और संयमके साथ प्रेमपूर्वक उनसे कहा॥ ६॥

वीरराघवः

हाटकासने स्वधिष्ण्ये वेदिकायां पावकानिव आसीनानुपविष्टान् श्रद्धासंयामभ्यां तद्वाक्यश्रवणत्वरातदुपयुक्तकरण नियमनाभ्यां संयुक्तः भवाग्रजान् रुद्रात्पूर्वजान् सनकादीन् प्राह ॥ ६ ॥

श्लोक-७

मूलम् (वचनम्)

पृथुरुवाच

विश्वास-प्रस्तुतिः

अहो आचरितं किं मे मङ्गलं मङ्गलायनाः।
यस्य वो दर्शनं ह्यासीद्दुर्दर्शानां च योगिभिः॥

मूलम्

अहो आचरितं 12किं मे12 मङ्गलं मङ्गलायनाः।
यस्य वो दर्शनं ह्यासीत् दुर्दर्शानां 13च योगिभिः13॥ ७ ॥

अनुवाद (हिन्दी)

पृथुजीने कहा—मंगलमूर्ति मुनीश्वरो! आपके दर्शन तो योगियोंको भी दुर्लभ हैं; मुझसे ऐसा क्या पुण्य बना है जिससे स्वतः आपका दर्शन प्राप्त हुआ॥ ७॥

वीरराघवः

14उक्तिमेवाह - अहो इति दशभिः । हे मङ्गलायनाः ! मे मया किं मङ्गलं पुण्यम् अहो आचरितं कृतं, यतः यस्य मे योगिभिरपि दुर्दर्शानां दुःखेनापि द्रष्टुमशक्यानां वो युष्माकं दर्शनमासीत् । सुकृतमन्तरेण मादृशानां भवद्दर्शनं न सम्भाव्य15म् इत्यर्थः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

किं तस्य दुर्लभतरमिह लोके परत्र च।
यस्य विप्राः प्रसीदन्ति शिवो विष्णुश्च सानुगः॥

मूलम्

किं तस्य दुर्लभतरमिह लोके परत्र च।
यस्य विप्राः प्रसीदन्ति शिवो विष्णुश्च सानुगः॥ ८ ॥

अनुवाद (हिन्दी)

जिसपर ब्राह्मण अथवा अनुचरोंके सहित श्रीशंकर या विष्णुभगवान् प्रसन्न हों, उसके लिये इहलोक और परलोकमें कौन-सी वस्तु दुर्लभ है॥ ८॥

वीरराघवः

किमस्मद्दर्शनसाध्यं तत्राह । यस्य पुंसः विप्रा भवादृशाः शिवो रुद्रोमङ्गलरूपो वा विष्णुश्च प्रसीदन्ति, तस्य इह परत्र वा लोके किं दुर्लभतरमस्ति सर्वं सुलभमेवेत्यर्थः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान्।
यथा सर्वदृशं सर्व आत्मानं येऽस्य हेतवः॥

मूलम्

नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान्।
यथा सर्वदृशं सर्व आत्मानं 16येऽस्य हेतवः॥ ९ ॥

अनुवाद (हिन्दी)

इस दृश्य-प्रपंचके कारण महत्तत्त्वादि यद्यपि सर्वगत हैं, तो भी वे सर्वसाक्षी आत्माको नहीं देख सकते; इसी प्रकार यद्यपि आप समस्त लोकोंमें विचरते रहते हैं, तो भी अनधिकारीलोग आपको देख नहीं पाते॥ ९॥

वीरराघवः

दुर्दर्शत्वमेवाह - नैवेति । लोकान् पर्यटतोऽपि यान् युष्मान् लोको नैव लक्षयते न पश्यति यथा सर्वदृशं सर्वज्ञमात्मानं 17परमात्मानम्17 अस्य विश्वस्य हेतुभूताः ब्रह्मादयः सर्वेऽपि न लक्षयन्ते तथेत्यर्थः । यस्य हेतव इति पाठे तु 18हेतुभूताः ब्रह्मादयः सर्वे यस्य यत्सम्बन्धिनः यस्य शेषभूताः तं सर्वज्ञमात्मानं यथा न लक्षयन्ते तथेत्यर्थः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

अधना अपि ते धन्याः साधवो गृहमेधिनः।
यद‍्गृहा ह्यर्हवर्याम्बुतृणभूमीश्वरावराः॥

मूलम्

अधना अपि ते धन्याः साधवो गृहमेधिनः।
यद‍्गृहा 19ह्यर्हवर्याम्बु तृण20भूमीश्वरा 21वराः॥ १० ॥

अनुवाद (हिन्दी)

जिनके घरोंमें आप-जैसे पूज्य पुरुष उनके जल, तृण, पृथ्वी, गृहस्वामी अथवा सेवकादि किसी अन्य पदार्थको स्वीकार कर लेते हैं, वे गृहस्थ धनहीन होनेपर भी धन्य हैं॥ १०॥

वीरराघवः

तद्दर्शनेन स्वस्य धन्यतामाविष्करोति अधना इति । गृहमेधिनः अधन्या अपि यदि साधवः तर्हि ते धन्या एव, हि यतः येषां गृहमेधिनां साधूनां गृहाः अर्हाः पूज्या भवादृशाः तैः वर्या वरणीयाः स्वीकार्याः, अम्बु जलं, तृणं, भूमिः, ईश्वरो गृहस्वामी अपरे गृहवासिनो भृत्यादयश्च येषु तथाभूता भवन्ति ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

व्यालालयद्रुमा वै तेऽप्यरिक्ताखिलसम्पदः।
यद‍्गृहास्तीर्थपादीयपादतीर्थविवर्जिताः॥

मूलम्

व्याला22लयद्रुमा 23एतेऽप्यरिक्ताखिलसम्पदः।
यद‍्गृहास्तीर्थपादीय पादतीर्थविवर्जिताः॥ ११ ॥

अनुवाद (हिन्दी)

जिन घरोंमें कभी भगवद‍्भक्तोंके परमपवित्र चरणोदकके छींटे नहीं पड़े, वे सब प्रकारकी ऋद्धि-सिद्धियोंसे भरे होनेपर भी ऐसे वृक्षोंके समान हैं कि जिनपर साँप रहते हैं॥ ११॥

वीरराघवः

एवमन्वयमुखेन धन्यतामाविष्कृत्य व्यतिरेकमुखेनाप्याविष्करोति - व्यालेति । अरिक्ताखिल सम्पदः अरिक्तः पूर्णा अखिलाः सम्पदः येषु तादृशा अपि यद्गृहा गृहमेधिनां गृहाः यदि तीर्थपात् भगवान् तत्सम्बन्धिनः तीर्थपादीया भागवतास्तेषां पादतीर्थेन विवर्जिताः तर्हि एते गृहाः व्यालालयद्रुमाः सर्पावास चन्दनद्रुमप्रख्याः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

स्वागतं वो द्विजश्रेष्ठा यद्‍व्रतानि मुमुक्षवः।
चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च॥

मूलम्

स्वागतं वो द्विजश्रेष्ठा यद्‍व्रतानि मुमुक्षवः।
चरन्ति श्रद्धया धीरा बाला एव बृहन्ति 24वै॥ १२ ॥

अनुवाद (हिन्दी)

मुनीश्वरो! आपका स्वागत है। आपलोग तो बाल्यावस्थासे ही मुमुक्षुओंके मार्गका अनुसरण करते हुए एकाग्रचित्तसे ब्रह्मचर्यादि महान् व्रतोंका बड़ी श्रद्धापूर्वक आचरण कर रहे हैं॥ १२॥

वीरराघवः

एवमन्वयव्यतिरेकाभ्यां तदागमनेन स्वस्य धन्यतामभिधाय तेषां स्वागतप्रश्न पूर्वकं स्वाभाविकीं, धन्यतामाह - स्वागतमिति । हे द्विजश्रेष्ठाः ! वः युष्मा25भिः स्वागतं कुशलमागतं, किं भवतामकुशलमस्तीत्यभिप्रायः । यत् यस्मात् बाला एव भवन्तः मुमुक्षवः, अत एव धीरा जितेन्द्रियाः सन्तः बृहन्ति व्रतानि चरन्ति । यद्वा येषां वो व्रतानि युष्माभिः दर्शितान्येवान्ये मुमुक्षवः बृहन्ति दीर्घकाल निर्वर्त्यानि निवृत्तिधर्मरूपव्रतानि चरन्ति ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

कच्चिन्नः कुशलं नाथा इन्द्रियार्थार्थवेदिनाम्।
व्यसनावाप एतस्मिन् पतितानां स्वकर्मभिः॥

मूलम्

कच्चिन्नः कुशलं नाथा इन्द्रियार्थार्थवेदिनाम्।
व्यसनावाप एतस्मिन् पतितानां स्वकर्मभिः॥ १३ ॥

अनुवाद (हिन्दी)

स्वामियो! हमलोग अपने कर्मोंके वशीभूत होकर विपत्तियोंके क्षेत्ररूप इस संसारमें पड़े हुए केवल इन्द्रियसम्बन्धी भोगोंको ही परम पुरुषार्थ मान रहे हैं; सो क्या हमारे निस्तारका भी कोई उपाय है॥ १३॥

वीरराघवः

काक्वा अभिप्रेतकुशलाभावमेव व्यङ्क्तं स्वस्य तावत् कुशलाभावं व्यनक्ति - कच्चिदिति । किमस्माकं कुशलमस्तीत्यर्थः, कथम्भूतानाम् ? हे नाथाः ! इन्द्रियार्थान् शब्दादीनेवार्थान् पुरुषार्थरूपान् विदन्तीति तथा तेषाम् । अत एव यस्मिन्नुप्यन्ते बीजानि स आवापः क्षेत्रं व्यसनानामावापः संसारः तस्मिन् स्वकर्मभिः पतितानाम् ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

भवत्सु कुशलप्रश्न आत्मारामेषु नेष्यते।
कुशलाकुशला यत्र न सन्ति मतिवृत्तयः॥

मूलम्

भवत्सु कुशलप्रश्न आत्मारामेषु नेष्यते।
कुशलाकुशला यत्र न सन्ति मतिवृत्तयः॥ १४ ॥

अनुवाद (हिन्दी)

आपलोगोंसे कुशलप्रश्न करना उचित नहीं है, क्योंकि आप निरन्तर आत्मामें ही रमण करते हैं। आपमें यह कुशल है और यह अकुशल है—इस प्रकारकी वृत्तियाँ कभी होती ही नहीं॥ १४॥

वीरराघवः

नन्वभ्यागतानां नः कुशलं किं न पृच्छसि तत्राह - भवत्स्विति । भवत्सु कुशलप्रश्नः नेष्यते, तत्र हेतुः आत्मारामेषु ब्रह्मात्मकस्वात्मानुभवैकपरेषु । 25ननु आत्मारामाणाम् 26अपि कदाचिदकुशलसम्भावनया कुशलप्रश्न इष्यतां तत्राह । यत्र आत्मारामेषु कुशलाकुशल मति वृत्तयः एव न सन्ति कुशलाकुशल विषय चिन्तनरूपमति वृत्तयो हि सङ्गकामक्रोध सम्मोहादिजनन द्वारा सुखदुःखादिहेतवः । अतस्तासामेवाभावात् कुतो भवत्स्वकुशलसम्भावनेत्यर्थः । मतिवृत्तीनां च सङ्गादिद्वारा कुशलनिमित्तत्वं भगवता गीतम्- “ध्यायतो विषयान् पुंसः समस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात् क्रोधोऽभिजायते । क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृति विभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति” (भ.गी. 2-62,63) इति ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

तदहं कृतविश्रम्भः सुहृदो वस्तपस्विनाम्।
संपृच्छे भव एतस्मिन् क्षेमः केनाञ्जसा भवेत्॥

मूलम्

तदहं कृतवि27स्रम्भः सुहृ28ऽत्र तपस्विनाम्।
संपृच्छे भव एतस्मिन् क्षेमः केनाञ्जसा भवेत्॥ १५ ॥

अनुवाद (हिन्दी)

आप संसारानलसे सन्तप्त जीवोंके परम सुहृद् हैं, इसलिये आपमें विश्वास करके मैं यह पूछना चाहता हूँ कि इस संसारमें मनुष्यका किस प्रकार सुगमतासे कल्याण हो सकता है?॥ १५॥

वीरराघवः

तत्तस्मात् अहं कृतविश्वासस्सन् तपस्विनां तापत्रयातुराणामस्माकं सुहृदो युष्मान् एतस्मिन् संसारे वर्तमानस्य केन हेतुना क्षेमः सुखंमोक्ष इति यावत् अञ्जसासुखेन भवेदिति 29सम्पृच्छे ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

व्यक्तमात्मवतामात्मा भगवानात्मभावनः।
स्वानामनुग्रहायेमां सिद्धरूपी चरत्यजः॥

मूलम्

30व्यक्तमात्मवतामात्मा भगवानात्मभावनः।
स्वानामनुग्रहायेमां सिद्धरूपी चरत्यजः॥ १६ ॥

अनुवाद (हिन्दी)

यह निश्चय है कि जो आत्मवान् (धीर) पुरुषोंमें ‘आत्मा’ रूपसे प्रकाशित होते हैं और उपासकोंके हृदयमें अपने स्वरूपको प्रकट करनेवाले हैं, वे अजन्मा भगवान् नारायण ही अपने भक्तोंपर कृपा करनेके लिये आप-जैसे सिद्ध पुरुषोंके रूपमें इस पृथ्वीपर विचरा करते हैं॥ १६॥

वीरराघवः

स्वभक्ताननुग्रहीतुं भगवानेव भवादृश रूपञ्श्चरतीत्याह - व्यक्तमिति । आत्मवतां “प्रशंसायां मतुपू” (अष्टा. 5-2-94 कारिका वार्तिकम्) प्रशस्तचित्तानां ज्ञानिनामात्मा निरतिशयप्रीतिविषयः प्रीतिमांश्च तथा हि गीतम् “प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः” (भ.गी. 7-17) इति । आत्मशब्देनात्मत्वप्रयुक्तं तदुभयं विवक्षितम् । आत्मा हि निरतिशयप्रीतिविषयः स्वशरीरे प्रीतिमांश्च, आत्मभावनः आत्मनः जीवान् भावयति स्वविषयज्ञान प्रदानादिना सत्तावतः करोतित्यात्मभावनः । स्वपरयाथात्म्य ज्ञानविधुरा हि जीवाः स्थावरपर्यन्तजन्मभिरसत्प्रायास्तानात्मवतः करोतीत्यर्थः । सिद्धाः ज्ञानिनः तद्रूपः तथा च गीतं भगवता - “ज्ञानीत्वात्मैव मे मतम्” (भ.गी. 7-18) इति, अजो भगवान् स्वानां भक्तानामनुग्रहाय स्वाननुग्रहीतुमिमां पृथिवीं चरति, 31व्यक्तं निश्चितम्31 ॥ १६ ॥

श्लोक-१७

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

पृथोस्तत्सूक्तमाकर्ण्य सारं सुष्ठु मितं मधु।
स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह॥

मूलम्

पृथोस्तत्सूक्तमाकर्ण्य सारं सुष्ठुमितं मधु।
स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह॥ १७ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—राजा पृथुके ये युक्तियुक्त, गम्भीर, परिमित और मधुर वचन सुनकर श्रीसनत्कुमारजी बड़े प्रसन्न हुए और कुछ मुसकराते हुए कहने लगे॥ १७॥

वीरराघवः

एवं पृथोः सूक्तं शोभनं 32वचनं सारं न्याय्यं सुष्ठु गम्भीरार्थं मितमल्पं मधु श्रोत्रप्रियं श्रुत्वा प्रीत्या स्मयमान इव कुमारः 33सनत्कुमारः33 प्रत्युवाच ॥ १७ ॥

श्लोक-१८

मूलम् (वचनम्)

34सनत्कुमार उवाच34

विश्वास-प्रस्तुतिः

साधु पृष्टं महाराज सर्वभूतहितात्मना।
भवता विदुषा चापि साधूनां मतिरीदृशी॥

मूलम्

साधु पृष्टं महाराज सर्वभूतहितात्मना।
भवता विदुषा चापि साधूनां 35गतिरीदृशी॥ १८ ॥

अनुवाद (हिन्दी)

श्रीसनत्कुमारजीने कहा—महाराज! आपने सब कुछ जानते हुए भी समस्त प्राणियोंके कल्याणकी दृष्टिसे बड़ी अच्छी बात पूछी है। सच है, साधुपुरुषोंकी बुद्धि ऐसी ही हुआ करती है॥ १८॥

वीरराघवः

तत्र सत्सङ्गेत्यादिप्रणाड्योत्तरोत्तर महरहरभ्या सााधेयातिशय साधनसप्तकानुगृहीता प्रयाणानुवृत्त प्रीति रूपापन्नाविच्छिन्न प्रत्यक्षतापन्नपर भक्त्य परपर्याय भगवद्भक्तियोग एव क्षेमहेतुरिति विवक्षुस्तावत्प्रश्नमभिनन्दति - साध्विति । हे महाराज ! भवता साधु सम्यक् पृष्टं, कथम्भूतेन ? विदुषापि तत्त्वहित पुरुषार्थ ज्ञानवतापि सर्वभूतहितात्मना सर्वभूत हितकरण प्रवृत्तबुद्धिमताभूतहितार्थमेव त्वया पृच्छयते न तु स्वयं वेत्तुम् । स्वत एव ज्ञातत्वादित्यर्थः । भूतहिताचरणमेव साधूनां स्वभाव इत्याह । साधूनां 36साध्नुवन्ति परकार्यमिति साधवः तेषां गतिः प्रवृत्तिः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

सङ्गमः खलु साधूनामुभयेषां च सम्मतः।
यत्सम्भाषणसम्प्रश्नः सर्वेषां वितनोति शम्॥

मूलम्

सङ्गमः खलु साधूनामुभयेषां 37च सम्मतः।
38यत्सम्भाषणसम्प्रश्नः सर्वेषां वितनोति शम्॥ १९ ॥

अनुवाद (हिन्दी)

सत्पुरुषोंका समागम श्रोता और वक्ता दोनोंको ही अभिमत होता है, क्योंकि उनके प्रश्नोत्तर सभीका कल्याण करते हैं॥ १९॥

वीरराघवः

ईदृ39शी भूतहिताचरणरूपा सत्सङ्गतिस्तावन्मूलकारणमित्याह - सङ्गम इति । उभयेषां बुभुक्षूणां मुमुक्षूणां च स्वसमीहित भोगमोक्षादेः प्रथमं 40साधनं साधूनां सङ्गम एवेति सम्मतः । सत्सङ्गमस्य भोगमोक्षसाधन त्वमुपपादयति । येषां साधूनां सम्भाषणसहितः सम्प्रश्नः सम्भाषणसम्प्रश्नः “शाकपार्थिवादित्वात्, (अष्टा 2-1-60 वार्तिकम्) 41उत्तरपद42लोपी समासः । यद्वा 43सम्भाषणे43 सम्भाषणावसरे सम्प्रश्नः सम्यक् 44प्रणिपात सेवापूर्वकः44 स्वर्गापवर्ग साधन प्रश्नः सर्वेषामुभयेषां 45शं स्वर्गा-पवर्गसुखं वितनोति । सति सम्प्रश्नेसाधुभिर्भोगमोक्षसाधने उपदिश्यते इति साधून् प्रति सम्प्रश्नः शमपेक्षितं वितनोतीत्यर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

अस्त्येव राजन् भवतो मधुद्विषः
पादारविन्दस्य गुणानुवादने।
रतिर्दुरापा विधुनोति नैष्ठिकी
कामं कषायं मलमन्तरात्मनः॥

मूलम्

अस्त्येव राजन् भवतो मधुद्विषः पादार46विन्दस्य गुणानु47वादने।
रति48स्सदा या48 विधुनोति नैष्ठिकी कामं कषायं मलमन्तरात्मनः॥ २० ॥

अनुवाद (हिन्दी)

राजन्! श्रीमधुसूदन भगवान‍्के चरणकमलोंके गुणानुवादमें अवश्य ही आपकी अविचल प्रीति है। हर किसीको इसका प्राप्त होना बहुत कठिन है और प्राप्त हो जानेपर यह हृदयके भीतर रहनेवाले उस वासनारूप मलको सर्वथा नष्ट कर देती है, जो और किसी उपायसे जल्दी नहीं छूटता॥ २०॥

वीरराघवः

एवं सत्सङ्गस्य भोगमोक्षप्रथमकारणत्वमुक्तम् । तत्र भोगसाधनत्वमेवम् प्रथमं सत्सङ्गः, ततः सम्भाषणं, ततः प्रश्नः, ततस्तत्साधन 49यागाद्युपदेशः, ततः साधनोपसंहारेण यागाद्यनुष्ठानं, ततो भोग इति । इयं च प्रणाडी, मुमुक्षाधिकृतस्य, कर्मणामल्पास्थिर फलत्वनिर्णयपूर्वकानन्त स्थिर फलापात प्रती50तेः पुरुषस्य न वक्तव्येति तामनादृत्य सत्सङ्गतेर्मोक्षसाधनत्वं प्रणाड्योपपिपादयिषुस्तावत् सत्सङ्गतिस्ततः सम्भाषणं ततः प्रश्नः ततो भगवद्गुणानुश्रवणं ततस्तत्रानुराग इत्येतत्पञ्चकं तावत् त्वयि सिद्धमेवेत्याह - अस्त्येवेति । हे राजन् ! मधुद्विषः पादारविन्दयोः ये गुणाः तेषामनुवादने अनुश्रवणे सदा रतिर्भवतोऽस्त्येव । रतिरस्त्येवेत्यनेन तत्पूर्वभाविसत्सङ्गत्यादि चतुष्टयमप्यस्तीत्यर्थादुक्तं भवति, तेन विना रत्यसम्भवात् अस्तीति सिद्धवन्निर्देशेनरत्यन्तं पञ्चकमवश्यं मुमुक्षूणां प्रथमं सम्पादनीयमित्युक्तं भवति । यतः रतिः सिद्धा ततो भक्त्यन्तरमुत्तरोत्तरसाध्यं सिद्धप्रायमेवेत्यभिप्रायेणाह येति । या नैष्ठिकी अव्यभिचरिता भगवद्गुणानुवादरतिः अन्तरात्मनो मनसः मलरूपं कषायं धातुरागवदनिवर्त्यं पुण्यापुण्यरूपं कर्म कामं भृशं विधुनोति क्षपयति ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

शास्त्रेष्वियानेव सुनिश्चितो नृणां
क्षेमस्य सध्र्यग्विमृशेषु हेतुः।
असङ्ग आत्मव्यतिरिक्त आत्मनि
दृढा रतिर्ब्रह्मणि निर्गुणे च या॥

मूलम्

शास्त्रेष्वियानेव सुनिश्चितो नृणां क्षेमस्य 51सध्र्यङ विमृशेषु हेतुः।
असङ्ग आत्मव्यतिरिक्त 52आत्मनि 53दृढा रतिर्ब्रह्मणि निर्गुणे च या53॥ २१ ॥

अनुवाद (हिन्दी)

शास्त्र जीवोंके कल्याणके लिये भलीभाँति विचार करनेवाले हैं; उनमें आत्मासे भिन्न देहादिके प्रति वैराग्य तथा अपने आत्मस्वरूप निर्गुण ब्रह्ममें सुदृढ़ अनुराग होना—यही कल्याणका साधन निश्चित किया गया है॥ २१॥

वीरराघवः

रत्यनन्तरभाविसाधनजातं विवक्षुः साक्षान्मोक्षसाधनभूता उक्तविधा भक्तिरेवेत्याह - शास्त्रोष्विति । नृणां क्षेमस्य मोक्षस्य 54सध्य्रङ् समीचीनः साधनविमर्शो येषु तेषु शास्त्रेषु साक्षान्निरपेक्षो हेतुः साधनम् इयानेव सुनिश्चितः, एवकारेण “तमेवं विद्वानमृत इह भवति, नान्यः पन्था अयनाय विद्यते”, (पु. सू. 1-7) “तमेवं विदित्वातिमृत्युमेति” (श्वेत. उ. 3-8; 6-15) इत्युक्तान्तरोपायत्वं विवक्षितम् । इयानित्युक्तः कौऽसौ तत्राह - निर्गुणे सत्त्वादिगुण55त्रयरहिते आत्मनि, किञ्जीवे, नेत्याह, ब्रह्मणि स्वरूपेण गुणैश्च बृहति ब्रह्मणीत्यनेनैव गुणत्रयराहित्य परत्वं निर्गुणशब्दस्य निश्चितम् । या दृढ रतिः यश्च आत्मव्यतिरिक्तेष्वसङ्गः सङ्गाभावश्चेतीयानेवेत्यर्थः । अत्ररतिशब्देनोत्तम विध परभक्तिसाक्षात्कार लक्षण परज्ञानजन्यभगवत्प्रीत्यतिशयरूपा परमभक्तिः विवक्षिता । 56तस्याः च दाढर्यं नाम चाञ्चल्यराहित्यं, चाञ्चल्यं च मध्ये मध्ये विषयान्तरानु चिन्तनरूपम्’ तच्च विषयान्तरासक्तिजननद्वारा भक्तिविरोधीति चाञ्चल्यकार्यमपि निषिध्यते । असङ्ग आत्मव्यतिरिक्त 57इति, अत एवात्मव्यतिरिक्तासङ्गस्यापि पृथग्वारत्या सह वा उपायत्व भ्रमो न कार्यः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

सा श्रद्धया भगवद्धर्मचर्यया
जिज्ञासयाऽऽध्यात्मिकयोगनिष्ठया।
योगेश्वरोपासनया च नित्यं
पुण्यश्रवःकथया पुण्यया च॥

मूलम्

58सा श्रद्धया भगवद्धर्मचर्यया जिज्ञासयाऽऽध्यात्मिक योगनिष्ठया।
59योगेश्वरोपासनया च नित्यं पुण्यश्रवः कथया पुण्यया च॥ २२ ॥

वीरराघवः

एवं विजातीयप्रत्ययान्तरा व्यवहितप्रीत्यतिशयरू60पापन्ना परमभक्तिः कथं निष्पद्यत इति जिज्ञासायां तत्साधनान्युपदिशति - सेति । निर्गुणे ब्रह्मणि सा रतिः सदसत्यनात्मनि असङ्गश्च श्रद्धादिभिः स्यात् इति चतुर्थेनान्वयः । अत्र निर्गुण इत्यस्य पूर्ववदर्थः । अनात्मनि आत्मव्यतिरिक्ते शब्दादिविषये । तस्य सदसत्त्वं नाम सन्निहितासन्निहितत्वम् । यद्यप्यत्र श्रद्धादीनामवश्यसम्पादनीयत्वाभिप्रायेण सम्भावितक्रमाणामपि क्रममनादृत्य ते कथिताः । तथापि क्रममाश्रित्यैव व्याख्यायते । तत्र प्रथमं नित्यं यो61गीश्वरोपासनया यो62गीश्वरा 63योगश्रेष्ठाः “योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्त तमो मतः” इत्युक्तविधया युक्ततमाः63 भागवतास्तेषामुपासना सेवा तदानुकूल्येन वृत्तिः तया, ततः पुण्यश्रवः कथया पुण्यश्रवसः भगवतः कथया भगवत्पुण्य कथा श्रवणेनेत्यर्थः, आश्रयतः स्वतश्च पुण्यरूपत्वख्यापनाय पुण्यश्रवः कथया पुण्ययेत्युक्तम् ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

अर्थेन्द्रियारामसगोष्ठ्यतृष्णया
तत्सम्मतानामपरिग्रहेण च।
विविक्तरुच्या परितोष आत्मन्
विना हरेर्गुणपीयूषपानात्॥

मूलम्

अर्थेन्द्रियाराम64सगोष्ठ्यतृप्तया तत्सम्मतानामपरिग्रहेण च।
विविक्तरुच्या परितोष आत्मन् विना हरेर्गुणपीयूषपानात्॥ २३ ॥

वीरराघवः

ततः अर्थेन्द्रियारामसगोष्ठ्यतृष्णया अर्थारामाः अर्थपरायणाः 65इन्द्रियारामाः कामपरायणाः65 तैस्सह या गोष्ठी तस्यां या अतृष्णा अनासक्तिस्तया तेषामर्थेन्द्रियारामाणां सम्मता अर्थाः कामाश्च तेषामपरिग्रहेण भगवद्गुणानुश्रवणेन च भगवत एव पुरुषार्थरूपत्वम् अर्थकामयोस्तद्विपर्यासरूपत्वं च ज्ञात्वा तयोर्विरक्तिः स्यादिति गुणानुश्रवणतृष्णयोः पौर्वापर्यं युक्तम् । ततः जिज्ञासया तत्त्वहितपुरुषार्थविवित्सया ततः आचार्यवत्तयेत्यर्थसिद्धं पुमानाचार्यवानिति वक्ष्यमाणत्वात् । “आचार्यवान् पुरुषो वेद आचार्याद्ध्येव हि विदिता विद्या साधिष्ठं प्रापत्” (छन्दो. उ. 6-14-2, छान्दो. उ. 4-9-3) इति श्रुतेः आचार्यवत्ताया अपि साधनत्वनिश्चयात् । अनेन “परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्” (मुण्ड.उ. 1-2-12) इत्यन्तश्रुत्यर्थोऽनुसंहितः । तत आध्यात्मिकयोगनिष्ठया आचार्योपदिष्टो भगवदुपासनात्मको यः आध्यात्मिको योगः तस्मिन् या निष्ठा मननात्मिका तया ततः श्रद्धया आध्यात्मिकयोगानुष्ठानविषयया त्वरया, एवं पूर्वकालसाधनजातमुक्तम् । अथ समकालसाधनजातमुच्यते, अत्र तु न पौर्वापर्यं, सम्भूय सर्वेषामनुष्ठानविधानात्, ततः भगवद्धर्मचर्यया भगवद्धर्मा भगवदाराधनैकवेषाः पञ्चमहायज्ञादयो नित्यनैमित्तिकाः तेषां चर्या आध्यात्मिकयोगाङ्गत्वेनानुष्ठानं, तथा 66तथा पारमहंस्या परमहंसानां सम्बन्धिनी या चर्या ब्रह्मात्मक स्वात्मयाथात्म्यानुभवरूपा तया आध्यात्मिकयोगस्य ज्ञानकर्मयोगाभ्यां निर्वर्त्यत्वात् विविक्तरुच्या आत्मन् आत्मनि च यः परितोषस्तेन आत्मानुभवजनितसन्तोषमात्रेणैव, न तु तद्व्यतिरिक्तसन्तोषेणेत्यर्थः, तर्हि किं भगवद्गुणानुभवजनित सन्तोषोऽपि निषिध्यते, ने त्याह, हरेर्भगवतो 67गुणपीयूष67 गुणानुश्रवणस्मरणरूपं पीयूषममृतं तस्य पानात् विना तदन्य विषयानुभवजातसन्तोषाभावेनेत्यर्थः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

अहिंसया पारमहंस्यचर्यया
स्मृत्या मुकुन्दाचरिताग्र्यसीधुना।
यमैरकामैर्नियमैश्चाप्यनिन्दया
निरीहया द्वन्द्वतितिक्षया च॥

मूलम्

अहिंसया पारमाहंस्यचर्षया स्मृत्वा मुकुन्दाचरिताग्र्य 68शीधुना।
यमैरकामैर्नियमै69श्चाप्यनिन्दया निरीहया द्वन्द्वतितिक्षया च॥ २४ ॥

वीरराघवः

अहिंसया भूतसुहृत्वेन स्मृत्या भोजनाद्ययुक्तदशास्वपि शुभाश्रयसंशीलनरूपस्मृत्या तथा भोजनोत्तरादिदशासु मुकुन्दस्याचरितानि चेष्टितानि तान्येवाग्र्यं श्रेष्ठं सीधु अमृतं तच्चरितश्रवणश्रावणस्मरणरूपामृतसुखेनेत्यर्थः । यमैर्बाह्येन्द्रियनिग्रहैः अकामैरन्तरिन्द्रियनिग्रहैः शमैरित्यर्थः । नियमैः शौचाचारादिभिः अनिन्दया इतरसाध्यसाधनादीनाम निन्दया, तन्निन्दायां चित्तस्य तत्प्रावण्यप्रयुक्तं चाञ्चल्यं स्यादिति भावः, निरीहया देहधारणाद्यनुपयुक्तचेष्टाराहित्येन द्वन्द्वानां शीतोष्णाऽऽधि व्याध्यादीनां तितिक्षा सहिष्णुता तया ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

हरेर्मुहुस्तत्परकर्णपूर-
गुणाभिधानेन विजृम्भमाणया।
भक्त्या ह्यसङ्गः सदसत्यनात्मनि
स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रतिः॥

मूलम्

हरेर्मुहुस्तत्परकर्ण70पूर गुणाभिधानेन विजृम्भमाणया।
भक्त्या ह्यसङ्गः 71सदस72त्यनात्मनिस्यान्निर्गुणे ब्रह्मणि चाञ्जसा रतिः॥ २५ ॥

अनुवाद (हिन्दी)

शास्त्रोंका यह भी कहना है कि गुरु और शास्त्रके वचनोंमें विश्वास रखनेसे, भागवतधर्मोंका आचरण करनेसे, तत्त्वजिज्ञासासे, ज्ञानयोगकी निष्ठासे, योगेश्वर श्रीहरिकी उपासनासे, नित्यप्रति पुण्यकीर्ति श्रीभगवान‍्की पावन कथाओंको सुननेसे, जो लोग धन और इन्द्रियोंके भोगोंमें ही रत हैं उनकी गोष्ठीमें प्रेम न रखनेसे, उन्हें प्रिय लगनेवाले पदार्थोंका आसक्तिपूर्वक संग्रह न करनेसे, भगवद‍्गुणामृतका पान करनेके सिवा अन्य समय आत्मामें ही सन्तुष्ट रहते हुए एकान्तसेवनमें प्रेम रखनेसे, किसी भी जीवको कष्ट न देनेसे, निवृत्तिनिष्ठासे, आत्महितका अनुसन्धान करते रहनेसे, श्रीहरिके पवित्र चरित्ररूप श्रेष्ठ अमृतका आस्वादन करनेसे, निष्कामभावसे यम-नियमोंका पालन करनेसे, कभी किसीकी निन्दा न करनेसे, योगक्षेमके लिये प्रयत्न न करनेसे, शीतोष्णादि द्वन्द्वोंको सहन करनेसे, भक्तजनोंके कानोंको सुख देनेवाले श्रीहरिके गुणोंका बार-बार वर्णन करनेसे और बढ़ते हुए भक्तिभावसे मनुष्यका कार्य-कारणरूप सम्पूर्ण जड प्रपंचसे वैराग्य हो जाता है और आत्मस्वरूप निर्गुण परब्रह्ममें अनायास ही उसकी प्रीति हो जाती है॥ २२—२५॥

वीरराघवः

हरेर्भगवतः तत्परा भागवतास्तेषां कर्णपूराः कर्णालङ्कार भूताः कर्णेषु प्रवाहरूपा वा ये गुणाः, गुणशब्दस्य सापेक्षत्वेऽपि सम्बन्धि शब्दत्वात् समासः, तेषामभिधानेन विजृम्भमाणया भक्त्या परभक्त्या भगवद्गुणश्रवणस्मरणादेरर्थ - कामवै73तृष्ण्यात् तत्त्वहितपुरुषार्थं विवित्साजननद्वाराऽऽचार्योपसत्तिहेतुत्वाभिप्रायेण पुण्यश्रवः कथया पुण्यया चेत्युक्तम् । उपासनदशायामप्यानन्दकरत्वाभिप्रायेण मुकुन्दाचरिताम्य्रशीधुनेत्युक्तम् । अत्र तु आप्रयाणानुवर्तमानाहरहरभ्यासाधेयातिशय दर्शनसमानाकार ध्यानोपासनादि शब्दवाच्यपरभक्तेस्तज्जनितभगवत्स्वरूपसाक्षात्कारलक्षणपर ज्ञानजन्य भगवत्प्रीत्यतिशयरूप समाधिपरमभक्त्याद्यपरपर्याय रतिनिष्पादकत्वेऽनुग्राहकत्वाभिप्रायेण हरेर्मुहुस्तत्परकर्णपूरगुणाभिधानेनेत्युक्तमिति न पौनरुक्त्यम् ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

यदा रतिर्ब्रह्मणि नैष्ठिकी पुमा-
नाचार्यवान् ज्ञानविरागरंहसा।
दहत्यवीर्यं हृदयं जीवकोशं
पञ्चात्मकं योनिमिवोत्थितोऽग्निः॥

मूलम्

यदा रतिर्ब्रह्मणि नैष्ठिकी पुमानाचार्यवान् ज्ञानविरागरंहसा।
दहत्य74वीर्यं हृदयं जीवकोशं पञ्चात्मकं योनिमिवोत्थितोऽग्निः॥ २६ ॥

अनुवाद (हिन्दी)

परब्रह्ममें सुदृढ़ प्रीति हो जानेपर पुरुष सद‍्गुरुकी शरण लेता है; फिर ज्ञान और वैराग्यके प्रबल वेगके कारण वासनाशून्य हुए अपने अविद्यादि पाँच प्रकारके क्लेशोंसे युक्त अहंकारात्मक अपने लिंगशरीरको वह उसी प्रकार भस्म कर देता है, जैसे अग्नि लकड़ीसे प्रकट होकर फिर उसीको जला डालती है॥ २६॥

वीरराघवः

एवं श्रद्धादि सहकृत परभक्ति जन्य परज्ञानजन्यसमाध्यपरपर्यायरतेः क्षेमसाधनत्वमुपपाद्य केन प्रकारेण रतेः साधनत्वमिति विवित्सायामाह - यदेति । यदा च ब्रह्मणि नैष्ठिकी दृढा रतिः तदा आचार्यवान् आचार्यानुग्रहविषयः पुरुषः ज्ञानविराग75योः रंहसा विराग75 सहकृतरत्यात्मकज्ञानवेगेन उद्रिक्तरत्येत्यर्थः । हृदयं हृत्स्थानं प्राप्नुवन् जीवात्मा “हृदि ह्ययमात्मा” (प्रश्न. उ. 3-6) इति श्रुतेः पञ्चात्मकं पञ्च भूतात्मकं जीवकोशं शरीरं अबीजं बीजरहितं भिन्नाज्ञानरूपमूलं यथा तथा, दहति सन्तापयति अज्ञानकृतपुण्यपापमूलो हि देहसम्बन्धः देहसम्बन्धनिमित्ताज्ञानमूलकपुण्यपापात्मकं कर्म निश्शेषं दहन्ती रतिः क्षेमसाधनमित्यर्थः । देहमाश्रित्य तिष्ठतो जीवस्य ज्ञानार्चिषः स्वाश्रयदेहदाहे दृष्टान्तमाह योनिमिवेति । उत्थितः ज्वलितोऽग्निः योनिमरणिमिवेत्यर्थः । दहत्यवीर्यमिति पाठेऽप्ययमेवार्थः, देहस्य वीर्यं 76बलं हि पुण्यपापात्मकं कर्मैव ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

दग्धाशयो मुक्तसमस्ततद‍्गुणो
नैवात्मनो बहिरन्तर्विचष्टे।
परात्मनोर्यद् व्यवधानं पुरस्तात्
स्वप्ने यथा पुरुषस्तद्विनाशे॥

मूलम्

दग्धाशयो मुक्तसमस्ततद‍्गुणो नैवात्मनो बहिरन्तर्विचष्टे।
परात्मनोर्यद् व्यवधानं पुरस्तात् स्वप्ने यथा 77पुरुषस्तद्विनाशे॥ २७ ॥

अनुवाद (हिन्दी)

इस प्रकार लिंग देहका नाश हो जानेपर वह उसके कर्तृत्वादि सभी गुणोंसे मुक्त हो जाता है। फिर तो जैसे स्वप्नावस्थामें तरह-तरहके पदार्थ देखनेपर भी उससे जग पड़नेपर उनमेंसे कोई चीज दिखायी नहीं देती, उसी प्रकार वह पुरुष शरीरके बाहर दिखायी देनेवाले घट-पटादि और भीतर अनुभव होनेवाले सुख-दुःखादिको भी नहीं देखता। इस स्थितिके प्राप्त होनेसे पहले ये पदार्थ ही जीवात्मा और परमात्माके बीचमें रहकर उनका भेद कर रहे थे॥ २७॥

वीरराघवः

एवं देहसम्बन्धनिमित्तं 78पुण्यपापरूपं कर्म निश्शेषं दहन्त्यारत्या मुक्तस्य न पुनः पञ्चात्मकजीवकोशसम्बन्ध इत्याह- दग्धाशय इति । एवं दग्धाशयः दग्धशरीरः मुक्ताः समस्ताः तद्गुणा देहगुणा रागादयो येन सः आत्मनः बहिर्भूतं शरीरमन्तः अन्तर्भूतं रागादिदोषजातं च न विचष्टे न पश्यति न पुनर्देहादिसम्बन्धं प्राप्नोतीत्यर्थः । बहिरन्तश्च विशिनष्टि । तद्विनाशे देहविनाशे पुरस्तात्संसृतिदशायां ज्ञानच्यावकं भवति तच्छरीरं तज्जन्यरागद्वेषादिकं च न पश्यति परात्मनोः यद्व्यवधानं पुरस्तादित्यनेन मुक्तात् जीवपरयोः सम्बन्धज्ञानप्रच्यावो नेत्युक्तंभवति । स्वप्ने यथा देहं रागादिकं च न पश्यति तथेत्यर्थः । देहाद्यस्थिरत्वेश्वरसृष्टत्वज्ञापनाय स्वप्नदृष्टान्तः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

आत्मानमिन्द्रियार्थं च परं यदुभयोरपि।
सत्याशय उपाधौ वै पुमान् पश्यति नान्यदा॥

मूलम्

आत्मानमिन्द्रियार्थं च परं यदुभयोरपि।
सत्याशय उपाधौ वै पुमान् पश्यति नान्यदा॥ २८ ॥

अनुवाद (हिन्दी)

जबतक अन्तःकरणरूप उपाधि रहती है, तभीतक पुरुषको जीवात्मा, इन्द्रियोंके विषय और इन दोनोंका सम्बन्ध करानेवाले अहंकारका अनुभव होता है; इसके बाद नहीं॥ २८॥

वीरराघवः

कुतो न पश्यति तत्राह - आत्मानमिति । आत्मानं देहं इन्द्रियार्थं शब्दादिकं उभयोर्देहेन्द्रियार्थयोर्यत्परमन्यत् भोगोपकरणभोगस्थानादिकं तत्सर्वमाशये वासनाख्ये उपाधौ सति पुमान् पश्यति नान्यथेत्यर्थः । वासना करणकलेवर 79भोग्यभोगस्थानभोगोपकरणादिषु प्रावण्यम् ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

निमित्ते सति सर्वत्र जलादावपि पूरुषः।
आत्मनश्च परस्यापि भिदां पश्यति नान्यदा॥

मूलम्

निमित्ते सति सर्व80त्र जला81दावपि पूरुषः।
आत्मनश्च परस्यापि भिदां पश्यति नान्यदा॥ २९ ॥

अनुवाद (हिन्दी)

बाह्य जगत‍्में भी देखा जाता है कि जल, दर्पण आदि निमित्तोंके रहनेपर ही अपने बिम्ब और प्रतिबिम्बका भेद दिखायी देता है, अन्य समय नहीं॥ २९॥

वीरराघवः

एवं मुक्तावुपाध्यभावादौपाधिकदेहाद्यसम्बन्धः स्वाभाविक 82जीवपर सम्बन्धज्ञान सद्भावश्चोक्तः संसृतावुपाधिसद्भावाज्जीव83परसम्बन्धज्ञानाभावमाह - निमित्त इति । जडं शरीरं सर्वस्मिन् जडादौ निमित्ते शरीराद्युपाधौ सति आत्मनः स्वस्य परस्य परमात्मनश्च भिदां सम्बन्ध विरहं पश्यति । अन्यदा उपाध्यभावे मुक्तावित्यर्थः न पश्यति । यद्वा भिदां वैषम्यं पश्यति नान्यदा शरीराद्युपाधिविगमे परमसाम्याविर्भावान्न वैषम्यं पश्यतीत्यर्थः॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

इन्द्रियैर्विषयाकृष्टैराक्षिप्तं ध्यायतां मनः।
चेतनां हरते बुद्धेः स्तम्बस्तोयमिव ह्रदात्॥

मूलम्

इन्द्रियैर्विषयाकृष्टैराक्षिप्तं ध्याय84तां मनः।
चेतनां हरते बुद्धेः 85स्तम्बस्तोयमिव ह्रदात्॥ ३० ॥

अनुवाद (हिन्दी)

जो लोग विषयचिन्तनमें लगे रहते हैं, उनकी इन्द्रियाँ विषयोंमें फँस जाती हैं तथा मनको भी उन्हींकी ओर खींच ले जाती हैं। फिर तो जैसे जलाशयके तीरपर उगे हुए कुशादि अपनी जड़ोंसे उसका जल खींचते रहते हैं, उसी प्रकार वह इन्द्रियासक्त मन बुद्धिकी विचारशक्तिको क्रमशः हर लेता है॥ ३०॥

वीरराघवः

अत्र दृढा रतिर्नैष्ठिकी रतिरिति अन्तरा विषयान्तरानुचिन्तनं रतिविरोधीत्यवगम्यते । तस्य च विरोधित्वं सङ्गादिजननद्वारेति सङ्गः प्रतिषिद्धः । असङ्ग आत्मव्यतिरिक्ते असङ्गः, सदसत्यनात्मनि ज्ञानविरागरंहसेति तद्विषयचिन्तनायाः सङ्गादिद्वारा रतिविरोधित्वमुपपादयति इन्द्रियैरित्यादिना । ध्यायतां विषयचिन्तनं कुर्वतां, विषयैः शब्दादिभिः आकृष्ठानि यानीन्द्रियाणि तैः मन अकृष्टं आक्षिप्तं सत् बुद्धेः पुरुषार्थतत्साधनव्यवसायात्मिकाया बुद्धेः चेतनां तत्सम्बन्धि ज्ञानं पुरुषार्थतत्साधनविषयां व्यवसायरूपां बुद्धिवृत्तिं हरते । तत्र दृष्टान्तः - स्तम्बः तीरस्थकुशादिस्तम्बः केन चिदाकृष्टो यथा तीरशैथिल्यहेतुतया हृदात्तोऽयमपि च्यावयति तद्वदिति । यद्वा स्तम्बो यथा मूले तोयं हृदादुपहरति, 86तद्वदिति चिन्तनविषयशब्दादि विषयाक्षिप्तबाह्येन्द्रियाक्षिप्तमनसि शब्दादिविषयेषु अन्यपरे सति मोक्षतदुपाया87नव सातुं बुद्धिः न शक्नोतीत्युक्तं भवति ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

भ्रश्यत्यनु स्मृतिश्चित्तं ज्ञानभ्रंशः स्मृतिक्षये।
तद्रोधं कवयः प्राहुरात्मापह्नवमात्मनः॥

मूलम्

भ्रश्यत्यनु स्मृतिश्चित्तं ज्ञानभ्रंशः स्मृतिक्षये।
तद्रोधं कवयः प्राहुरात्मापह्नवमात्मनः॥ ३१ ॥

अनुवाद (हिन्दी)

विचारशक्तिके नष्ट हो जानेपर पूर्वापरकी स्मृति जाती रहती है और स्मृतिका नाश हो जानेपर ज्ञान नहीं रहता। इस ज्ञानके नाशको ही पण्डितजन ‘अपने-आप अपना नाश करना’ कहते हैं॥ ३१॥

वीरराघवः

एवं व्यवसाये भग्ने सति अनुस्मृतिरुपापासनंयोगकालानुसन्धानं भ्रश्यति । तदनुग्राहकं कालान्तरेषूपास्यसंशीलनरूपं चित्तं च भ्रश्यति । एवं स्मृतिक्षये उपासनाक्षये सति ज्ञानभ्रंशः स्वपरयाथात्म्यज्ञानभ्रंशो भवति । तद्रोधं ज्ञानभ्रंशं कवयः सूरयः आत्मन एव हेतोः आत्मापह्नवम् आत्मनस्तिरोधानं प्राहुः । उपासनविच्छेदादात्म88स्वरूपस्य भगवच्छेषतया न विशदावभास इत्यर्थः । तथा चोक्तम्- “योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चौरेणात्मापहारिणा (महाभारते. उ. प ) इति ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः।
यदध्यन्यस्य प्रेयस्त्वमात्मनः स्वव्यतिक्रमात्॥

मूलम्

नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः।
89यदस्त्यन्यस्य प्रेयस्त्वमात्मनः स्वव्यतिक्रमात्॥ ३२ ॥

अनुवाद (हिन्दी)

जिसके उद्देश्यसे अन्य सब पदार्थोमें प्रियताका बोध होता है—उस आत्माका अपनेद्वारा ही नाश होनेसे जो स्वार्थहानि होती है, उससे बढ़कर लोकमें जीवकी और कोई हानि नहीं है॥ ३२॥

वीरराघवः

एतदेवाह - नात इति । आत्मनः हेतोः स्वस्य व्यतिक्रमात् स्वस्वरूपातिलङ्घनात्स्वस्वरूपं विहायात्मनोऽन्यस्य प्रेयस्त्वं शब्दादिविषयप्रेयस्त्वं यदस्ति अतः परतरः, पुंसः स्वार्थव्यतिक्रमः स्वपुरुषार्थविरहः लोके नास्ति ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम्।
भ्रंशितो ज्ञानविज्ञानाद्येनाविशति मुख्यताम्॥

मूलम्

90अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम्।
91भ्रंशितो ज्ञानविज्ञानाद्येनाविशति 92मुख्यताम्॥ ३३ ॥

अनुवाद (हिन्दी)

धन और इन्द्रियोंके विषयोंका चिन्तन करना मनुष्यके सभी पुरुषार्थोंका नाश करनेवाला है; क्योंकि इनकी चिन्तासे वह ज्ञान और विज्ञानसे भ्रष्ट होकर वृक्षादि स्थावर योनियोंमें जन्म पाता है॥ ३३॥

वीरराघवः

विषयध्यानतत्सङ्गयोरनर्थकारितत्वमुपसंहरति - अर्थेन्द्रियेति द्वाभ्याम् । अर्थेन्द्रियाणि शब्दाद्यर्थविषयाणि श्रोत्रादीनि तेषामर्थस्य शब्दादेरभिध्यानं, नृणां सर्वार्थापह्नवः सर्वपुरुषार्थ विरोधीत्यर्थः । स्वर्गादिसाधन भूतयागादेरपि तदेकमनस्केन कार्यत्वात् सर्वपुरुषार्थविरोधीत्युक्तं, येन शब्दाद्यभिध्यानेन ज्ञानविज्ञानात् भ्रंशितः 93ज्ञानं शास्त्रजन्यं, विज्ञानमुपासनात्मकं, तयोः समाहारद्वन्द्वः तस्मात् भ्रंशितः मुख्यतां स्थावरतामाविशति प्राप्नोति ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

न कुर्यात्कर्हिचित्सङ्गं तमस्तीव्रं तितीरिषुः।
धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम्॥

मूलम्

न कुर्यात्कर्हिचित्सङ्गं तमस्तीव्रं तिती94रिषुः।
धर्मार्थकाममोक्षाणां यदत्यन्तविधातकम्॥ ३४ ॥

अनुवाद (हिन्दी)

इसलिये जिसे अज्ञानान्धकारसे पार होनेकी इच्छा हो, उस पुरुषको विषयोंमें आसक्ति कभी नहीं करनी चाहिये; क्योंकि यह धर्म, अर्थ, काम और मोक्षकी प्राप्तिमें बड़ी बाधक है॥ ३४॥

वीरराघवः

तीव्रम् अनर्थकृत् तमः अज्ञानं तितीरिषुः तरितुमिच्छुः कर्हिचित् सङ्गं न कुर्यात् । यद्विषयासञ्जनं धर्मादीनामत्यन्तविघातकम् ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते।
त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्तभयसंयुतः॥

मूलम्

तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते।
त्रैव95र्ग्योऽर्थो यतो नि96त्यं कृतान्तभयसंयुतः॥ ३५ ॥

अनुवाद (हिन्दी)

इन चार पुरुषार्थोंमें भी सबसे श्रेष्ठ मोक्ष ही माना जाता है; क्योंकि अन्य तीन पुरुषार्थोंमें सर्वदा कालका भय लगा रहता है॥ ३५॥

वीरराघवः

धर्मादिभिः साकं मोक्षस्य तुल्यवन्निर्देशात् तस्येतरपुरुषार्थसाम्यं वारयति - तत्रापीति । तत्रापि चतुर्णां मध्ये मोक्षरूप एव पुरुषार्थः आत्यन्तिकतया अन्तमतीत्य वर्तमानतया नित्ययेत्यर्थः, इष्यते इच्छाविषयो भवति । 97त्रैवर्ग्यरूपार्थः, कृतान्तः कालः तद्भयसंयुतः 98अनित्यः ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

परेऽवरे च ये भावा गुणव्यतिकरादनु।
न तेषां विद्यते क्षेममीशविध्वंसिताशिषाम्॥

मूलम्

99परावरे च ये भावा गुणव्यतिकरादनु।
न तेषां विद्यते 100क्षेममीशविध्वंसिताशिषाम्॥ ३६ ॥

अनुवाद (हिन्दी)

प्रकृतिमें गुणक्षोभ होनेके बाद जितने भी उत्तम और अधम भाव—पदार्थ प्रकट हुए हैं, उनमें कुशलसे रह सके ऐसा कोई भी नहीं है। कालभगवान् उन सभीके कुशलोंको कुचलते रहते हैं॥ ३६॥

वीरराघवः

अनित्यतामेवाह - परावरे उत्कृष्टापकृष्टरूपा ये भावाः पदार्थाः आब्रह्मस्तम्बपर्यन्ता गुणव्यतिकरात् गुणवैषम्यरूपसृष्टेः अनु पश्चाद्भवन्ति न तु प्रलये । अत एषाम् ईशेन कालरूपेण परमात्मना विध्वंसिता आशिषो येषां क्षेमो 101रक्षणं स्थिरत्वमित्यर्थः101 न विद्यते 102इत्यर्थः102 ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

तत्त्वं नरेन्द्र जगतामथ तस्थुषां च
देहेन्द्रियासुधिषणात्मभिरावृतानाम्।
यः क्षेत्रवित्तपतया हृदि विष्वगाविः
प्रत्यक् चकास्ति भगवांस्तमवेहि सोऽस्मि॥

मूलम्

तत्त्वं नरेन्द्र जगतामथ तस्भुषां च देहेन्द्रियासुधिषणात्मभिरावृतानाम्।
यः क्षेत्र103वित्तपतया हृदि विष्वगा104विः प्रत्यक् चकास्ति भगवांस्तमवेहि सोऽस्मि॥ ३७ ॥

अनुवाद (हिन्दी)

अतः राजन्! जो भगवान् देह, इन्द्रिय, प्राण, बुद्धि और अहंकारसे आवृत सभी स्थावर-जंगम प्राणियोंके हृदयोंमें जीवके नियामक अन्तर्यामी आत्मारूपसे सर्वत्र साक्षात् प्रकाशित हो रहे हैं—उन्हें तुम ‘वह मैं ही हूँ’ ऐसा जानो॥ ३७॥

वीरराघवः

एवमचिद्विकाराणामनित्यत्वमुक्तम् अथ पारमहंस्यचर्ययेत्युपक्षिप्तं प्रकृति 105प्राकृतविलक्षणस्य नित्यस्यात्मस्वरूपस्य भगवदात्मतत्त्वेनानुसन्धानमाह - तदिति । तत्तस्मात् हे नरेन्द्र ! असवः प्राणाः धिषणात्मशब्देन ज्ञानद्वारभूतं मन उच्यते, देहेन्द्रियप्राणमनोभिरावृतानां देहाद्यात्मकानामित्यर्थः । तस्थुषां स्थावराणां, जगतां जङ्गमानां च, क्षेत्रविदः क्षेत्रज्ञाः, स्थावर जङ्गमान्त स्था जीवाः, तपति अन्तरात्मतयां नियच्छतीति तपः, तस्य भावस्तत्ता, तया जीवान्तरात्मतया यः हृदि स्थितः प्रत्यकू स्वस्मै भासमानः, अनेन पराचोऽचेतनाद्वैलक्षण्यम् 106उक्तम् । विष्वगाविः विष्वक् सर्वतः आविः प्रकाशमानः स्वरूपेण गुणैश्च व्यापक इत्यर्थः, अनेन जीववैलक्षण्यमुक्तम् । भगवान् पूर्णषाड्गुण्यः, अनेनोभयवैलक्षण्यमुक्तं चकास्ति स भगवानहमस्मीत्यवेहि भगवदात्मकोऽहमस्मीति बुद्ध्यस्वेत्यर्थः । यद्वा देहेन्द्रियप्राणमनोभिरावृतानां स्थावरजङ्गमदेहस्थचेतनानां यः क्षेत्रवित्ते अहङ्कारममकारास्पदे शरीरवित्ते ते पातीति क्षेत्रवित्तपः तस्य भावस्तत्ता, तस्य जीवनरूपतया परागर्थविलक्षणः प्रत्यग्भूतो हृदि चकास्ति तं जीवात्मानं स भगवानस्मीत्यवेहि भगवदात्म कोऽहमिति बुद्ध्यस्वेत्यर्थः, “तत्त्वमसि” (छान्दो. उ. 6-8-7) “अयमात्मा ब्रह्मा” (बुह. उ.2-5-19) इत्यादि-वदग्नं सामानाधिकरण्येनानुसन्धाननिर्देशः शरीरविषयबुद्धिशब्दादीनां शरीरिपर्यन्तत्वमाकृतिनयेन खण्डोगौरित्यादिवद्बोध्यम्॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

यस्मिन्निदं सदसदात्मतया विभाति
माया विवेकविधुति स्रजि वाहिबुद्धिः।
तं नित्यमुक्तपरिशुद्धविबुद्धतत्त्वं
प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये॥

मूलम्

यस्मिन्निदं सदसदात्मतया विभाति माया विवेकविधुति स्स्रजि वाहिबुद्धिः।
तं नित्यमुक्तपरिशुद्ध वि107बुद्धतत्त्वं प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये॥ ३८ ॥

अनुवाद (हिन्दी)

जिस प्रकार मालाका ज्ञान हो जानेपर उसमें सर्पबुद्धि नहीं रहती, उसी प्रकार विवेक होनेपर जिसका कहीं पता नहीं लगता, ऐसा यह मायामय प्रपंच जिसमें कार्य-कारणरूपसे प्रतीत हो रहा है और जो स्वयं कर्मफलकलुषित प्रकृतिसे परे है, उस नित्यमुक्त, निर्मल और ज्ञानस्वरूप परमात्माको मैं प्राप्त हो रहा हूँ॥ ३८॥

वीरराघवः

ननु भगवतः क्षेत्रज्ञशरीरत्वेन तद्रूपतयावस्थितौ क्षेत्रज्ञगतदोषप्रसक्तिः, मैवमित्याह - यस्मिन्निति । यस्मिन् क्षेत्रज्ञरूपे मायाविवेकविधुतिः मायायाः सकाशाज्जीवपरयोः विवेकः, तस्य विधूननहेतुः विवेकज्ञानविरोधिसदसदात्मतया कार्यकारण रूपेण इदं देवमनुष्यादि नानाविधरूपजातं स्रजि सर्पबुद्धिरिव विभाति, 108स्रजि वा इत्यत्र वाशब्दः इवाऽर्थः108 जीवतादात्म्येन प्रतिभातीत्यर्थः । तं नित्यमुक्तपरिशुद्धवि109बुद्धतत्त्वं स्वतः प्रकृतिसम्बन्ध110रहितस्वप्रकाशस्वरूपं तथापि प्रत्यूढकर्मकलिलप्रकृतिं, प्रत्यूढम् अनादितया रूढमूलं, यत्कर्म तेन कलिला मिश्रा प्रकृतिर्यस्य तं स्वसंसृष्टकर्ममिश्रवासनमित्यर्थः प्रपद्ये अनुसन्दधे । यथा नृसिंहो भगवान् श्वेत इति नृसिंहमूर्तेः भगवतः श्वेतत्वं विग्रहद्वारकं न त्वव्यवधानेन एवं क्षेत्रज्ञरूपस्य भगवतः क्षेत्रज्ञद्वारैव कर्मसम्बन्धाज्ञानादिकं न त्वव्यवधानेनेत्यर्थः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

यत्पादपङ्कजपलाशविलासभक्त्या
कर्माशयं ग्रथितमुद‍्ग्रथयन्ति सन्तः।
तद्वन्न रिक्तमतयो यतयोऽपि रुद्ध-
स्रोतोगणास्तमरणं भज वासुदेवम्॥

मूलम्

यत्पाद पङ्कज पलाशविलासभक्त्या कर्माश111यं ग्रथितमुद‍्गथयन्ति सन्तः।
112तद्वन्न रिक्तमतयो यतयोऽपि रुद्ध112स्रोतो113गणास्तमरणं भज वासुदेवम्॥ ३९ ॥

अनुवाद (हिन्दी)

संत-महात्मा जिनके चरणकमलोंके अंगुलिदलकी छिटकती हुई छटाका स्मरण करके अहंकाररूप हृदयग्रन्थिको , जो कर्मोंसे गठित है, इस प्रकार छिन्न-भिन्न कर डालते हैं कि समस्त इन्द्रियोंका प्रत्याहार करके अपने अन्तःकरणको निर्विषय करनेवाले संन्यासी भी वैसा नहीं कर पाते। तुम उन सर्वाश्रय भगवान् वासुदेवका भजन करो॥ ३९॥

वीरराघवः

एवं क्षेत्रज्ञशरीरत्वेनावस्थानं निर्दोषत्वं चोक्तम्, अथ स्वेन रूपेनावस्थितिमाह - यत्पादेति । यद्वा तुभ्यमुपदि114ष्टं भगवद्भक्तियोगं सर्वेऽपि मुमुक्षवः अनुतिष्ठन्ति अतस्त्वमपि तमेवानुतिष्ठेत्याह यत्पादेति । रिक्तेषु भगवद्वयतिरिक्तेषु मतिः रिक्तमतिः अभगवदात्मकत्वबुद्धिर्वा, न विद्यते रिक्तमतिर्येषां ते न रिक्तमतयः, तमेव मन्वाना इत्यर्थः । निरुद्धस्रोतोगणाः निरुद्धः प्रत्याहृतः स्रोतोगणः इन्द्रियवर्गो यैस्ते, सन्तः साधवः यस्य भगवतः पादपङ्कजयोः पलाशाद्दवाङ्गुलयस्तेषां विलासः कान्तिः तस्य भक्त्या कर्म च आशयश्च कर्माशयं 115आशयो वासना ग्रथितं स्वसम्बद्धमुद्गथयन्ति 116मोचयन्ति । तस्मात्त्वमपि तमेव अरणम् ऋगतौ करणे ल्युट् स्वप्रापकमित्यर्थः । वासुदेवं भजस्व भगवद्भक्तिमन्तरेण संसारार्णवो दुस्तरः ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

कृच्छ्रो महानिह भवार्णवमप्लवेशां
षड्वर्गनक्रमसुखेन तितीरषन्ति।
तत् त्वं हरेर्भगवतो भजनीयमङ्घ्रिं
कृत्वोडुपं व्यसनमुत्तर दुस्तरार्णम्॥

मूलम्

कृच्छ्रो महानिह भवार्णवमप्लवे117शाः षड्वर्गनक्रमसुखेन 118तितीर्षन्ति।
तत्त्वं हरेर्भगवतो भजनीयमङ्घ्रिं कृत्वोडुपं व्यसनमुत्तरदुस्तरार्णम्॥ ४० ॥

अनुवाद (हिन्दी)

जो लोग मन और इन्द्रियरूप मगरोंसे भरे हुए इस संसारसागरको योगादि दुष्कर साधनोंसे पार करना चाहते हैं, उनका उस पार पहुँचना कठिन ही है; क्योंकि उन्हें कर्णधाररूप श्रीहरिका आश्रय नहीं है। अतः तुम तो भगवान‍्के आराधनीय चरणकमलोंको नौका बनाकर अनायास ही इस दुस्तर समुद्रको पार कर लो॥ ४०॥

वीरराघवः

अतस्तमेव भजस्वेत्युपसंहरति - कृच्छ्र इति । अप्लवेशा ईश्वराख्यप्लवरहिताः षड्वर्गनक्रंषडिन्द्रियवर्गग्राहं भवार्णवमिह दुःखेन ये 119तितीर्षयन्ति 120तर्तुमिच्छन्ति120 तेषां महान् कृच्छ्रः क्लेशः तत्तस्मात् त्वं हरेर्भगवतः भजनीयं सुखाराध्यमङ्घ्रिमुडुपं प्लवं कृत्वा व्यसनं दुःखात्मकं दुस्तरार्णं तर्तुमशक्यं भवार्णवम् 121अर्णशब्दे वकाराभाव आर्षः121 उत्तरपारं गच्छ ॥ ४० ॥

श्लोक-४१

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

स एवं ब्रह्मपुत्रेण कुमारेणात्ममेधसा।
दर्शितात्मगतिः सम्यक् प्रशस्योवाच तं नृपः॥

मूलम्

स एवं ब्रह्मपुत्रेण कुमारेणात्ममेधसा।
दर्शितात्मगतिः सम्यक्प्रशस्योवाच तं नृपः॥ ४१ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! ब्रह्माजीके पुत्र आत्मज्ञानी सनत्कुमारजीसे इस प्रकार आत्मतत्त्वका उपदेश पाकर महाराज पृथुने उनकी बहुत प्रशंसा करते हुए कहा॥ ४१॥

वीरराघवः

आत्ममेधसा ब्रह्मविदा, ब्रह्मपुत्रेण सनत्कुमारेण दर्शिता आत्मनो गतिस्तत्वं यस्य स नृपः पृथुः सम्यक् प्रशंसां कृत्वा तं कुमारमुवाच ॥ ४१ ॥

श्लोक-४२

मूलम् (वचनम्)

122राजोवाच122

विश्वास-प्रस्तुतिः

कृतो मेऽनुग्रहः पूर्वं हरिणाऽऽर्तानुकम्पिना।
तमापादयितुं ब्रह्मन् भगवन् यूयमागताः॥

मूलम्

कृतो मेऽनुग्रहः पूर्वं हरिणाऽऽर्तानुकम्पिना।
तमापादयितुं ब्रह्मन् भगवन् यूयमागताः॥ ४२ ॥

अनुवाद (हिन्दी)

राजा पृथुने कहा—भगवन्! दीनदयाल श्रीहरिने मुझपर पहले कृपा की थी, उसीको पूर्ण करनेके लिये आपलोग पधारे हैं॥ ४२॥

वीरराघवः

आर्तानां तापत्रयातुराणाम् अनुकम्पिना हरिणा पूर्वं मे मह्यमनुग्रहः कृतः । हे ब्रह्मन् ! भगवन् ! तमनुग्रहमापादयितुं निष्पादयितुं यूयमत्रागताः ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

निष्पादितश्च कात्‍स्‍न्‍‍‍र्येन भगवद‍्भिर्घृणालुभिः।
साधूच्छिष्टं हि मे सर्वमात्मना सह किं ददे॥

मूलम्

निष्पादि123तश्च कात्‍स्‍न्‍‍‍र्येन भगव124द‍्भिर्घृणालुभिः।
125साधूच्छिष्टं125 हि मे सर्वमात्मना सह किं ददे॥ ४३ ॥

अनुवाद (हिन्दी)

आपलोग बड़े ही दयालु हैं। जिस कार्यके लिये आपलोग पधारे थे, उसे आपलोगोंने अच्छी तरह सम्पन्न कर दिया। अब, इसके बदलेमें मैं आपलोगोंको क्या दूँ? मेरे पास तो शरीर और इसके साथ जो कुछ है, वह सब महापुरुषोंका ही प्रसाद है॥ ४३॥

वीरराघवः

दयालुभिर्भवद्भिः 126युष्माभिः126 यत्समीहितं कार्त्स्न्येन निष्पादितं ब्रह्मोपदेष्ट्रे तुभ्यं मदीयं किं देयमस्तीत्याह - साधूच्छिष्टमिति । आत्मना देहेन 127सह सर्वं मे मदीयं साधूनामुच्छिष्टं साधूनामनुग्रहलब्धमित्यर्थः । अतो भवदनुग्रहाल्लब्धं भवद्भ्यः किं ददे गुरुदक्षिणार्यं किं ददे ? न ह्यनुग्रहीत्रा दत्तं पुनस्तस्मैदीयत इत्यर्थः ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

प्राणा दाराः सुता ब्रह्मन् गृहाश्च सपरिच्छदाः।
राज्यं बलं मही कोश इति सर्वं निवेदितम्॥

मूलम्

प्राणा 128दाराः सुता ब्रह्मन् गृहाश्च सपरि129च्छदाः।
130राज्यं बलं मही कोश 131इति सर्वं निवेदितम्॥ ४४ ॥

अनुवाद (हिन्दी)

ब्रह्मन्! प्राण, स्त्री, पुत्र, सब प्रकारकी सामग्रियोंसे भरा हुआ भवन, राज्य, सेना, पृथ्वी और कोश—यह सब कुछ आप ही लोगोंका है, अतः आपके ही श्रीचरणोंमें अर्पित है॥ ४४॥

वीरराघवः

यद्यप्येवं तथापि राज्ञे भृत्येनेव मया निवेदितं स्वीकुरुतेत्याह - प्राणा इति । प्राणाः असवः, रायः धनानि, सपरिच्छदाः सोपकरणा गृहा राज्यं बलं महीकोशः मह्यात्मकः कोशः 132पृथ्व्याः पद्माकारत्वात् कोश इत्युक्तम् । यद्वा कोशः रत्नभाण्डादिरूपः, रैशब्दस्तद्व्यतिरिक्तधनपरः, इति शब्दः प्रकारे । एवं विधमन्यत्सर्वमपि निवेदितं तुभ्यं मयेति शेषः ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च।
सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति॥

मूलम्

133सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च।
सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति॥ ४५ ॥

अनुवाद (हिन्दी)

वास्तवमें तो सेनापतित्व, राज्य, दण्डविधान और सम्पूर्ण लोकोंके शासनका अधिकार वेद-शास्त्रोंके ज्ञाता ब्राह्मणोंको ही है॥ ४५॥

वीरराघवः

ननु मद्योग्यमेव मह्यं समर्पणीयं तत्राह । सैनापत्यं सेनानायकत्वं दण्डनेतृत्वं दण्डनायकत्वं तथा सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

स्वमेव ब्राह्मणो भुङ्‍क्ते स्वं वस्ते स्वं ददाति च।
तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः॥

मूलम्

134स्वमेव ब्राह्मणो भुङ्‍क्ते स्वं वस्ते स्वं ददाति च।
तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः॥ ४६ ॥

अनुवाद (हिन्दी)

ब्राह्मण अपना ही खाता है, अपना ही पहनता है और अपनी ही वस्तु दान देता है। दूसरे—क्षत्रिय आदि तो उसीकी कृपासे अन्न खानेको पाते हैं॥ ४६॥

वीरराघवः

एतदेवोपपादयति । ब्राह्मणः स्वमेव स्वीयमेवान्नं भुङ्क्ते स्वीयमेव वस्त्रादिकं वस्ते परिधत्ते ददाति च क्षत्रियादिभ्यः तस्यैव ब्राह्मणस्यैवानुग्रहेण लब्धमन्नं क्षत्रियादयो भुञ्जते ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

यैरीदृशी भगवतो गतिरात्मवादे
एकान्ततो निगमिभिः प्रतिपादिता नः।
तुष्यन्त्वदभ्रकरुणाः स्वकृतेन नित्यं
को नाम तत्प्रतिकरोति विनोदपात्रम्॥

मूलम्

यैरीदृशी भगवतो गतिरात्मवादे एकान्ततो निगमिभिः प्रतिपादिता नः।
तुष्यन्त्वदभ्रकरुणाः स्वकृतेन नित्यं को नाम तत्प्रतिकरोति विनोदपात्रम्॥ ४७ ॥

अनुवाद (हिन्दी)

आपलोग वेदके पारगामी हैं, आपने अध्यात्मतत्त्वका विचार करके हमें निश्चितरूपसे समझा दिया है कि भगवान‍्के प्रति इस प्रकारकी अभेद-भक्ति ही उनकी उपलब्धिका प्रधान साधन है। आपलोग परम कृपालु हैं। अतः अपने इस दीनोद्धाररूप कर्मसे ही सर्वदा सन्तुष्ट रहें। आपके इस उपकारका बदला कोई क्या दे सकता है? उसके लिये प्रयत्न करना भी अपनी हँसी कराना ही है॥ ४७॥

वीरराघवः

सत्यपि स्वत्वे सर्वस्वेनापि न गुरोः प्रत्युपकर्तुं शक्यमित्याह - यैरिति । आत्मवादे अध्यात्मविचारे एकान्ततो निश्चयेन निगमिभिः निगमानुसारिभिः यैर्युष्माभिः ईदृशी (गतिः) दुस्तरमहाव्यसनात्मकसंसारार्णवनिस्तरणोपायभूता नः अस्मभ्यं प्रतिपादिता ते नित्यमनल्पकरुणाः भवन्तः स्वकृतेन आर्तोद्धरणकर्मणा तुष्यन्तु । को नाम त्वत्कृतमुपकारं प्रति स्वयमुपकरोति उदपात्रं तोयाञ्जलिं विना उदकप्रदानपूर्वकमञ्जलिबन्धनमेव तस्य प्रत्युपकार इत्यर्थः ॥ ४७ ॥

श्लोक-४८

मूलम् (वचनम्)

135मैत्रेय उवाच135

विश्वास-प्रस्तुतिः

त आत्मयोगपतय आदिराजेन पूजिताः।
शीलं तदीयं शंसन्तः खेऽभूवन्मिषतां नृणाम्॥

मूलम्

त आत्मयोगपतय आदिराजेन पूजिताः।
शीलं तदीयं शंसन्तः खेऽभूवन्मिषतां नृणाम्॥ ४८ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! फिर आदिराज पृथुने आत्मज्ञानियोंमें श्रेष्ठ सनकादिकी पूजा की और वे उनके शीलकी प्रशंसा करते हुए सब लोगोंके सामने ही आकाशमार्गसे चले गये॥ ४८॥

वीरराघवः

आत्मयोगं पान्ति अनुष्ठानानुष्ठापनाभ्यामित्यात्मयोगपतयस्ते सनकादयः आदिराजेन पृथुना पूजितास्सन्तः तदीयं पृथोः सम्बन्धि शीलं प्रशंसन्तः नृणां मिषतां पश्यतां सतां खे अभूवन् आकाशमारूढा इत्यर्थः ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

वैन्यस्तु धुर्यो महतां संस्थित्याध्यात्मशिक्षया।
आप्तकाममिवात्मानं मेन आत्मन्यवस्थितः॥

मूलम्

136वैन्यस्तु धुर्यो महतां संस्थित्याऽध्यात्मशिक्षया।
आप्तकाममिवात्मानं मेन आत्मन्यवस्थितः॥ ४९ ॥

अनुवाद (हिन्दी)

महात्माओंमें अग्रगण्य महाराज पृथु उनसे आत्मोपदेश पाकर चित्तकी एकाग्रतासे आत्मामें ही स्थित रहनेके कारण अपनेको कृतकृत्य-सा अनुभव करने लगे॥ ४९॥

वीरराघवः

धुर्यः श्रेष्ठो वैन्यस्तु महतां सनत्कुमारादीना मध्यात्मशिक्षया हेतुभूतया या संस्थितिर्निष्ठा तथा आत्मन्येवा वस्थितः परमात्मोपासननिष्ठः आत्मानमाप्तकामं अवाप्तसमस्तकाममिव मेने ॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

कर्माणि च यथाकालं यथादेशं यथाबलम्।
यथोचितं यथावित्तमकरोद‍्ब्रह्मसात्कृतम्॥

मूलम्

कर्माणि च यथाकालं यथादेशं यथाबलम्।
यथोचितं यथावित्तमकरोद‍् ब्रह्मसात्कृतम्॥ ५० ॥

अनुवाद (हिन्दी)

वे ब्रह्मार्पण-बुद्धिसे समय, स्थान, शक्ति, न्याय और धनके अनुसार सभी कर्म करते थे॥ ५०॥

वीरराघवः

तथा परमात्मोपासनाङ्गत्वेन देशकालादिक मनतिक्रम्य कर्माणि वर्णाश्रमोचितानि, ब्रह्मण्यर्पितं यथा भवति तथाऽकरोत् ॥ ५० ॥

श्लोक-५१

विश्वास-प्रस्तुतिः

फलं ब्रह्मणि विन्यस्य निर्विषङ्गः समाहितः।
कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम्॥

मूलम्

फलं ब्रह्मणि 137विन्यस्य निर्विषङ्गः समाहितः।
कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम्॥ ५१ ॥

अनुवाद (हिन्दी)

इस प्रकार एकाग्र चित्तसे समस्त कर्मोंका फल परमात्माको अर्पण करके आत्माको कर्मोंका साक्षी एवं प्रकृतिसे अतीत देखनेके कारण वे सर्वथा निर्लिप्त रहे॥ ५१॥

वीरराघवः

एवमुपासनाङ्गत्वेन कर्मयोगमकरोदित्युक्तं, तच्च कर्मयोगं फलसङ्गकर्तृत्वत्यागात्मयाथात्म्यानुभवपूर्वकमकरोदित्याह - फलमिति । ब्रह्मणि फलं सन्न्यस्य फलस्य ब्रह्मायत्ततामनुसन्धाय न तु स्वानुष्ठीयमान कर्मायत्ततामित्यर्थः । तथा निर्विषङ्गः ममेदं कर्मेति मतिरहितः । अनेन सङ्गत्याग उक्तः । कर्माध्यक्षं कर्मसु कर्तृत्वाभिमानिनमात्मानं प्रत्यगात्मानं प्रकृतेः परं मन्वानः, कर्तृत्वाभिमानः प्रकृतिसंसर्गकृतो न तु स्वभावत इत्ये138वं मन्वान इत्यर्थः । अकरोदिति पूर्वेणाऽन्वयः ॥ ५१ ॥

श्लोक-५२

विश्वास-प्रस्तुतिः

गृहेषु वर्तमानोऽपि स साम्राज्यश्रियान्वितः।
नासज्जतेन्द्रियार्थेषु निरहंमतिरर्कवत्॥

मूलम्

गृहेषु वर्तमानोऽपि स साम्राज्यश्रि139याऽन्वितः।
140नासज्जतेन्द्रियार्थेषु निरहम्मतिरर्कवत्॥ ५२ ॥

अनुवाद (हिन्दी)

जिस प्रकार सूर्यदेव सर्वत्र प्रकाश करनेपर भी वस्तुओंके गुण-दोषसे निर्लेप रहते हैं, उसी प्रकार सार्वभौम साम्राज्यलक्ष्मीसे सम्पन्न और गृहस्थाश्रममें रहते हुए भी अहंकारशून्य होनेके कारण वे इन्द्रियोंके विषयोंमें आसक्त नहीं हुए॥ ५२॥

वीरराघवः

स पृथुः गृहेषु भोगस्थानेषु वर्तमानोऽपि साम्राज्यश्रियाऽन्वितोऽपि सन्निहित 141भोग्य भोगोपकरणोऽपि निरहंमतिः देहात्मभ्रमरहितः अत एव इन्द्रियार्थेषु 142व्याप्नुवन्नपि नाऽसज्जत नाऽसक्तोऽभूत्, यथा सूर्यः स्वप्रभया पङ्कादिषु व्याप्नुवन्नपि तैर्न लिप्तस्तथेत्यर्थः ॥ ५२ ॥

श्लोक-५३

विश्वास-प्रस्तुतिः

एवमध्यात्मयोगेन कर्माण्यनुसमाचरन्।
पुत्रानुत्पादयामास पञ्चार्चिष्यात्मसम्मतान्॥

मूलम्

एवमध्यात्मयोगेन कर्माण्यनुसमाचरन्।
पुत्रानुत्पादयामास पञ्चार्चिष्यात्म143सम्मतान्॥ ५३ ॥

अनुवाद (हिन्दी)

इस प्रकार आत्मनिष्ठामें स्थित होकर सभी कर्तव्यकर्मोंका यथोचित रीतिसे अनुष्ठान करते हुए उन्होंने अपनी भार्या अर्चिके गर्भसे अपने अनुरूप पाँच पुत्र उत्पन्न किये॥ ५३॥

वीरराघवः

एव मध्यात्मयोगेन भगवद्भक्तियोगेन अध्ययनेन वसतीतिवद्धेत्वर्थे तृतीया, अध्यात्मयोगार्थमित्यर्थः । यद्वा प्रकृतिविविक्तात्मयाथात्म्यज्ञानयोगपूर्वकं, कर्माणि अनुदेशकालानुसारेण समाचरन् अर्चिषि अर्चिर्नाम्यां भार्यायामात्मसम्मिता नात्मतुल्यान्, सम्मतानितिपाठे आत्मानुकूलामित्यर्थः । पुत्रानुत्पादयामास ॥ ५३ ॥

श्लोक-५४

विश्वास-प्रस्तुतिः

विजिताश्वं धूम्रकेशं हर्यक्षं द्रविणं वृकम्।
सर्वेषां लोकपालानां दधारैकः पृथुर्गुणान्॥

मूलम्

विजिताश्वं 144धूम्र145केशं 146हर्यक्षं द्रविणं वृकम्।
सर्वेषां लोकपालानां दधारैकः 147पृथुग्गुणान्॥ ५४ ॥

वीरराघवः

पुत्रान्प्रति निर्दिशति - विजिताश्वमित्यर्धेन । विजिताश्वादीन् पुत्रा नित्यन्वयः । सर्वेषामिन्द्रादीनां पृथक् प्रत्येकं योऽयोऽसाधारणो गुणः तान् सर्वानेक एव अच्युतात्मनः अच्युतस्य परमात्मनो या जगत्सृष्टिः तस्या गोपीथाय रक्षणाय स्वे स्वे काले उचितकाले दधार दधौ ॥ ५४ ॥

श्लोक-५५

विश्वास-प्रस्तुतिः

गोपीथाय जगत्सृष्टेः काले स्वे स्वेऽच्युतात्मकः।
मनोवाग्वृत्तिभिः सौम्यैर्गुणैः संरञ्जयन् प्रजाः॥

मूलम्

गोपीथाय जगत्सृष्टेः काले स्वे स्वेऽच्युतात्मकः।
मनो137ङ्मूर्त्तिभिः सौम्यैर्गुणैः संरञ्जयन् प्रजाः॥ ५५ ॥

वीरराघवः

मनोवाक्कायैः सौम्यैर्गुणैश्च प्रजाः संरञ्जयन् राजेति नामधेयमधात् दधार । अपरः सोमराज इव सोमश्चाऽसौ राजा च सोमराजः स इव लोकरञ्जनात् सोमश्चन्द्रो राजेति नाम यथाऽधात् तथेत्यर्थः ॥ ५५ ॥

श्लोक-५६

विश्वास-प्रस्तुतिः

राजेत्यधान्नामधेयं सोमराज इवापरः।
सूर्यवद्विसृजन् गृह्णन् प्रतपंश्च भुवो वसु॥

मूलम्

राजेत्यधान्नामधेयं सोमराज इवाऽपरः।
सूर्यवद्विसृजन् गृह्णन् प्रतपंश्च भुवो वसु॥ ५६ ॥

अनुवाद (हिन्दी)

उनके नाम विजिताश्व, धूम्रकेश, हर्यक्ष, द्रविण और वृक थे। महाराज पृथु भगवान‍्के अंश थे। वे समय-समयपर, जब-जब आवश्यक होता था, जगत‍्के प्राणियोंकी रक्षाके लिये अकेले ही समस्त लोकपालोंके गुण धारण कर लिया करते थे। अपने उदार मन, प्रिय और हितकर वचन, मनोहर मूर्ति और सौम्य गुणोंके द्वारा प्रजाका रंजन करते रहनेसे दूसरे चन्द्रमाके समान उनका ‘राजा’ यह नाम सार्थक हुआ। सूर्य जिस प्रकार गरमीमें पृथ्वीका जल खींचकर वर्षाकालमें उसे पुनः पृथ्वीपर बरसा देता है तथा अपनी किरणोंसे सबको ताप पहुँचाता है, उसी प्रकार वे कररूपसे प्रजाका धन लेकर उसे दुष्कालादिके समय मुक्तहस्तसे प्रजाके हितमें लगा देते थे तथा सबपर अपना प्रभाव जमाये रखते थे॥ ५४—५६॥

वीरराघवः

लोकपालासाधारणगुणान् उचितकालेष्वेक एवाधादित्युक्तम् । तदेवोपपादयति सूर्यवदित्यादिना यावदध्यायसमाप्ति । भुवः वसु धनं गृह्णन् विसृजन्नसौ सूर्य इव प्रातः प्रतपन् आज्ञां कुर्वन् तेजसा अग्निरिव दुर्धर्षः परैरभिभूवितुमशक्यः महेन्द्र इव दुःखेनाऽपि जेतुमशक्यः ॥ ५६ ॥

श्लोक-५७

विश्वास-प्रस्तुतिः

दुर्धर्षस्तेजसेवाग्निर्महेन्द्र इव दुर्जयः।
तितिक्षया धरित्रीव द्यौरिवाभीष्टदो नृणाम्॥

मूलम्

दुर्धर्षस्तेजसेवाऽग्निः महेन्द्र इव दुर्जयः।
तितिक्षया धरित्रीव द्यौरिवाभीष्टदो नृणाम्॥ ५७ ॥

अनुवाद (हिन्दी)

वे तेजमें अग्निके समान दुर्धर्ष, इन्द्रके समान अजेय, पृथ्वीके समान क्षमाशील और स्वर्गके समान मनुष्योंकी समस्त कामनाएँ पूर्ण करनेवाले थे॥ ५७॥

वीरराघवः

तितिक्षया सहनेन धरित्रीव अपराधतितिक्षासमये धरित्रीतुल्यः नृणामभीष्टदानावसरे द्यौः स्वर्ग इव पर्जन्य इव तर्पयन् नृणां कामान् वर्षति स्म ॥ ५७ ॥

श्लोक-५८

विश्वास-प्रस्तुतिः

वर्षति स्म यथाकामं पर्जन्य इव तर्पयन्।
समुद्र इव दुर्बोधः सत्त्वेनाचलराडिव॥

मूलम्

वर्षति स्म यथा139कामं पर्जन्य इव तर्पयन्।
समुद्र इव दुर्बोधः 140सत्येनाऽचलराडिव॥ ५८ ॥

अनुवाद (हिन्दी)

समय-समयपर प्रजाजनोंको तृप्त करनेके लिये वे मेघके समान उनके अभीष्ट अर्थोंको खुले हाथसे लुटाते रहते थे। वे समुद्रके समान गम्भीर और पर्वतराज सुमेरुके समान धैर्यवान् भी थे॥ ५८॥

श्लोक-५९

विश्वास-प्रस्तुतिः

धर्मराडिव शिक्षायामाश्चर्ये हिमवानिव।
कुबेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा॥

मूलम्

धर्मराडिव शिक्षाया143मैश्वर्ये मघवानिव।
कुबेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा॥ ५९ ॥

अनुवाद (हिन्दी)

महाराज पृथु दुष्टोंके दमन करनेमें यमराजके समान, आश्चर्यपूर्ण वस्तुओंके संग्रहमें हिमालयके समान, कोशकी समृद्धि करनेमें कुबेरके समान और धनको छिपानेमें वरुणके समान थे॥ ५९॥

वीरराघवः

समुद्र इव दुर्बोधः अपरिच्छेद्यः सत्त्वेन अचलराडिव मेरुरिव, शिक्षायां धर्मराडिव यम इव, ऐश्वर्ये हिमवानिव, हिमवान् हि रत्नाकरः । मघवानिवेति पाठे इन्द्रइव, वरुण इव गुप्तार्थः गुप्तमन्त्रः मातरिश्वा वायुरिव सर्वात्मा सर्वगः बलेन ओजसा 148महसा च । बलं शरीरबलं, ओजः इन्द्रियबलं, महः देहकान्तिः ॥ ५८-५९॥

श्लोक-६०

विश्वास-प्रस्तुतिः

मातरिश्वेव सर्वात्मा बलेन सहसौजसा।
अविषह्यतया देवो भगवान् भूतराडिव॥

मूलम्

मातरिश्वेव सर्वात्मा बलेन 144महसौजसा।
अविषह्यतया देवो भगवान् भूतराडिव॥ ६० ॥

अनुवाद (हिन्दी)

शारीरिक बल, इन्द्रियोंकी पटुता तथा पराक्रममें सर्वत्र गतिशील वायुके समान और तेजकी असह्यतामें भगवान् शंकरके समान थे॥ ६०॥

वीरराघवः

अविषह्यतया च भगवान् भूतराट् रुद्र इव सौन्दर्येण कन्दर्प इव मृगराट् सिंह इव मनस्वी स्वैरी ॥ ६० ॥

श्लोक-६१

विश्वास-प्रस्तुतिः

कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव।
वात्सल्ये मनुवन्नॄणां प्रभुत्वे भगवानजः॥

मूलम्

कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव।
वात्सल्ये मनुवन्नॄणां प्रभुत्वे भगवानजः॥ ६१ ॥

अनुवाद (हिन्दी)

सौन्दर्यमें कामदेवके समान, उत्साहमें सिंहके समान, वात्सल्यमें मनुके समान और मनुष्योंके आधिपत्यमें सर्वसमर्थ ब्रह्माजीके समान थे॥ ६१॥

वीरराघवः

मनुः स्वायम्भुवः, अजश्चतुर्मुखः, प्रभुत्वे ब्रह्मवादे वेदवादे बृहस्पतिरिव आत्मवत्त्वे यदधीनं धनं स हि धनवान्, यदधीन आत्मा स आत्मवान् स्वाधीनत्वे इत्यर्थः ॥ ६१ ॥

श्लोक-६२

विश्वास-प्रस्तुतिः

बृहस्पतिर्ब्रह्मवादे आत्मवत्त्वे स्वयं हरिः।
भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु।
ह्रिया प्रश्रयशीलाभ्यामात्मतुल्यः परोद्यमे॥

मूलम्

बृहस्पतिर्ब्रह्मवादे आत्म145वत्त्वे स्वयं हरिः।
146भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु।
ह्रिया प्रश्रयशीलाभ्यामात्मतुल्यः परोद्यमे॥ ६२ ॥

अनुवाद (हिन्दी)

ब्रह्मविचारमें बृहस्पति, इन्द्रियजयमें साक्षात् श्रीहरि तथा गौ, ब्राह्मण, गुरुजन एवं भगवद‍्भक्तोंकी भक्ति, लज्जा, विनय, शील एवं परोपकार आदि गुणोंमें अपने ही समान (अनुपम) थे॥ ६२॥

वीरराघवः

गोषु गुरुषु विप्रेषु च विष्वक्सेनानुवर्तिषु च भक्तः ह्रियादिभिः परार्थोद्यमे आत्मतुल्यः निरुपमः ॥ ६२ ॥

श्लोक-६३

विश्वास-प्रस्तुतिः

कीर्त्योर्ध्वगीतया पुम्भिस्त्रैलोक्ये तत्र तत्र ह।
प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतामिव॥

मूलम्

कीर्त्यो147र्ध्वगीतया पुम्भिस्त्रैलोक्ये तत्र तत्र ह।
प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतामिव॥ ६३ ॥

अनुवाद (हिन्दी)

लोग त्रिलोकीमें सर्वत्र उच्च स्वरसे उनकी कीर्तिका गान करते थे, इससे वे स्त्रियोंतकके कानोंमें वैसे ही प्रवेश पाये हुए थे जैसे सत्पुरुषोंके हृदयमें श्रीराम॥ ६३॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते द्वाविंशोऽध्यायः॥ २२॥

वीरराघवः

त्रैलोक्ये तत्र तत्र पुरग्रामादि वासिभिः पुम्भिः ऊर्ध्वमुच्चैः गीतया कीर्त्या स्त्रीणां कप्प्रन्ध्रेषु 149प्रविष्टः सतां कर्णरन्ध्रेषु149 रामः सीतापतिरिव ।। ६३ ।।

इति श्रीमद्भागवते चतुर्थस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां द्वाविंशोऽध्यायः ॥ २२ ॥


  1. W तान्स ↩︎

  2. M,Ma,V,W कुर्वन्त्या; I,Ms कुर्वाणान् ↩︎

  3. A,B,T कुर्वन्त्या ↩︎

  4. A,B,T लक्षितान् ↩︎

  5. M,Ma तप्रा ↩︎

  6. A,B,T ससम्भ्रमं ↩︎

  7. M,Ma द्यन्वितः ↩︎

  8. W सद्यः ↩︎

  9. M, Ma, Ms र्घ्या ↩︎

  10. M,Ma वृत्ति ↩︎

  11. M,Ma,Ms सम्पन्नः ↩︎

  12. M,Ma,Ms कृष्णे ↩︎ ↩︎

  13. M,Ma कुयोगिनः ; Ms कुयोगिभिः ↩︎ ↩︎

  14. A,B,T उक्त ↩︎

  15. A,B,T ते ↩︎

  16. W त्वस्य ↩︎

  17. A,B,T omit ↩︎ ↩︎

  18. A,B,T हेतवः ↩︎

  19. M,Ma,Ms अर्ह ↩︎

  20. M,Ma,Ms भूमिसुवाग्धराः ↩︎

  21. W पराः ↩︎

  22. Ms लयाः ↩︎

  23. A,B,G,I,J,T वै ते; M,Ma,Ms होते ↩︎

  24. A,B,G,I,J,T च ↩︎

  25. T कं ↩︎ ↩︎

  26. A,B,T omit अपि ↩︎

  27. A,B,G,I,J,M,Ma,T श्र ↩︎

  28. A,B,G,I,J,T दो वस्त ↩︎

  29. A,B,T पृच्छामि ↩︎

  30. M,Ma,Ms व्यक्तं ह्यात्म ↩︎

  31. W omits ↩︎ ↩︎

  32. W वचः ↩︎

  33. A,B,T omit ↩︎ ↩︎

  34. W omits ↩︎ ↩︎

  35. A,B,G,I,J,T मति ↩︎

  36. A,B,T साधयन्ति ↩︎

  37. M,Ma सु ↩︎

  38. M,Ma सत्स ↩︎

  39. A,B,T शभूत ↩︎

  40. A,B,T omit साधनं ↩︎

  41. T मध्यम ↩︎

  42. A,B,T लोपि ↩︎

  43. A,B,T omit ↩︎ ↩︎

  44. W omits ↩︎ ↩︎

  45. A,B,T omit शं ↩︎

  46. M,Ma विन्देऽस्य ↩︎

  47. M,Ma,Ms वादिनी ↩︎

  48. A,B,G,I,J,T र्दुरापा ↩︎ ↩︎

  49. A,B,T योगा ↩︎

  50. A,B,T तिः ↩︎

  51. M,Ma,Ms सम्यक् ↩︎

  52. M,Ma,Ms वस्तुनि ↩︎

  53. W साक्षाद्दृढा ब्रह्मणि निर्गुणे रति ↩︎ ↩︎

  54. A,B,T omit सध्य्रङ् ↩︎

  55. A,B,T omit त्रयं ↩︎

  56. A,B,T तस्यां च ↩︎

  57. A,B,T इति ↩︎

  58. M,Ma,Ms तच्छ्र ↩︎

  59. W गी ↩︎

  60. A,B,T omit आपन्ना ↩︎

  61. A,B,T गे ↩︎

  62. A,B,T गे ↩︎

  63. W omits ↩︎ ↩︎

  64. M,Ma,Ms गुणेष्व ↩︎

  65. A,B,T omit ↩︎ ↩︎

  66. A,B,T omit तथा ↩︎

  67. A,B,T omit ↩︎ ↩︎

  68. A,B,G,I,J,M,Ma,T,V सी ↩︎

  69. M,Ma रभिध्वया; V रनिन्दया ↩︎

  70. M,Ma,Ms पूरया ↩︎

  71. सदसत्परात्मन् इति विजयध्वजव्याख्यानुसारी पाठः ↩︎

  72. M,Ma,Ms त्परात्मनि ↩︎

  73. W तृष्ण्यत ↩︎

  74. M,Ma,Ms बीजं ↩︎

  75. A,B,T omit ↩︎ ↩︎

  76. A,B,T मलं ↩︎

  77. Ma पू ↩︎

  78. T पुण्यापुण्य ↩︎

  79. A,B,T omit भोग्य ↩︎

  80. W स्मिन् ↩︎

  81. W डा ↩︎

  82. A,B,T omit पर ↩︎

  83. A,B,T omit पर ↩︎

  84. M,Ma,Ms तो ↩︎

  85. M,Ma स्तुम्ब ↩︎

  86. A,B,T omit तद्वदिति ↩︎

  87. W न् व्यवसितुं ↩︎

  88. A,B,T omit स्व ↩︎

  89. A,B,G,I,J,T,V यदध्यन्यस्य; Ms यद्यस्त्यन्यस्य ↩︎

  90. Ma,Ms,T अथेन्द्रिय ↩︎

  91. M,Ma,Ms स्रंसितो ↩︎

  92. M,Ma,Ms मुग्धताम् । ↩︎

  93. T omits ज्ञानं ↩︎

  94. M,Ma,Ms र्षुणा; V र्षुकः ↩︎

  95. M,Ma ग्र्याऽर्थी; W र्गोऽर्थो ↩︎

  96. V त्यः ↩︎

  97. W वर्ता ↩︎

  98. A,B,T omit अनित्यः ↩︎

  99. A,B,G,I,J,V परेऽवरे ↩︎

  100. M,Ma क्षेमी ईश; V,W क्षेम ईश ↩︎

  101. W omits ↩︎ ↩︎

  102. W omits ↩︎ ↩︎

  103. M,Ma,Ms वित्त्वमनयोः ↩︎

  104. M,Ma,Ms धिः ↩︎

  105. A,B,T omit प्राकृत ↩︎

  106. A,B,T omit उक्तम् ↩︎

  107. B,I शुद्ध ↩︎

  108. A,B,T omit ↩︎ ↩︎

  109. A,B,T शु ↩︎

  110. A,B,T add कर्म ↩︎

  111. M,Ma,Ms यग्र ↩︎

  112. M,Ma,Ms तत्त्वं न तद्विमतयोऽपि विरुद्धमार्ग ↩︎ ↩︎

  113. M,Ma,Ms गुणा ↩︎

  114. A,B,T षृ ↩︎

  115. A,B,T omit आशयो ↩︎

  116. A,B,T नाशयन्ति ↩︎

  117. A,B,G,I,J,T,W शां ↩︎

  118. A तितीर्रिषन्ति; B,J तितीरषन्ति; G,I तितीर्षन्ति ↩︎

  119. T तितीरिषन्ति ↩︎

  120. T omits ↩︎ ↩︎

  121. A,B,T omit ↩︎ ↩︎

  122. M,Ma,Ms पृथुरुवाच ↩︎ ↩︎

  123. M,Ma,Ms तच्च; V तन्तु ↩︎

  124. W द्भिः कृपां ↩︎

  125. M,Ma,Ms साधु दत्तं ↩︎ ↩︎

  126. A,B,T omit ↩︎ ↩︎

  127. W omits सह ↩︎

  128. W रायः ↩︎

  129. M,Ma,Ms ग्रहाः ↩︎

  130. M,Ma,Ms रायो ↩︎

  131. V मिति ↩︎

  132. A,B,T omit पृथ्व्याः ↩︎

  133. M,Ma,V से ↩︎

  134. This verse is not found in M,Ma. ↩︎

  135. W omits ↩︎ ↩︎

  136. V वैन्योऽपि ↩︎

  137. Ms,V सन्न्यस्य ↩︎ ↩︎

  138. T व ↩︎

  139. V या युतः ↩︎ ↩︎

  140. W नाऽम ↩︎ ↩︎

  141. A,T omit भोग्य ↩︎

  142. B,W omit व्याप्नुवन्नपि ↩︎

  143. A,B,G,I,J,M,Ma,Ms,T,V सम्म ↩︎ ↩︎

  144. M,Ma धूम ↩︎ ↩︎

  145. Ms केतुं ↩︎ ↩︎

  146. V हर्यश्वं ↩︎ ↩︎

  147. A,B,G,I,J,T,V पृथर्गुणान् ↩︎ ↩︎

  148. A,B,T omit महसा ↩︎

  149. W omits ↩︎ ↩︎