२१

[एकविंशोऽध्यायः]

भागसूचना

महाराज पृथुका अपनी प्रजाको उपदेश

श्लोक-१

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

मौक्तिकैः कुसुमस्रग्भिर्दुकूलैः स्वर्णतोरणैः।
महासुरभिभिर्धूपैर्मण्डितं तत्र तत्र वै॥

मूलम्

मौक्तिकैः कुसु1मैस्स्रग्भिः दुकूलैः स्वर्णतोरणैः।
महासुरभिभिर्धूपैर्मण्डितं तत्र तत्र 2वै॥ १ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! उस समय महाराज पृथुका नगर सर्वत्र मोतियोंकी लड़ियों, फूलोंकी मालाओं, रंग-बिरंगे वस्त्रों, सोनेके दरवाजों और अत्यन्त सुगन्धित धूपोंसे सुशोभित था॥ १॥

श्लोक-२

विश्वास-प्रस्तुतिः

चन्दनागुरुतोयार्द्ररथ्याचत्वरमार्गवत्।
पुष्पाक्षतफलैस्तोक्मैर्लाजैरर्चिर्भिरर्चितम्॥

मूलम्

चन्दना3गुरुतोयार्द्र रथ्याचत्वरमार्गवत्।
पुष्पाक्षतफलैस्तो4क्मैर्लाजैरर्चि5भिरर्चितम्॥ २ ॥

अनुवाद (हिन्दी)

उसकी गलियाँ, चौक और सड़कें चन्दन और अरगजेके जलसे सींच दी गयी थीं तथा उसे पुष्प, अक्षत, फल, यवांकुर, खील और दीपक आदि मांगलिक द्रव्योंसे सजाया गया था॥ २॥

वीरराघवः

पुरं यया वित्युक्तम् । तत्पुर मनुवर्णयति - मौक्तिकैरिति । मौक्तिकैर्मुक्तादामभिः चन्दनागरुयुक्तैः तोयैरार्द्रा रथ्यादयः अस्मिन् सन्तीति तथा, 6तोकैर्यवाङ्कुरैः 7अर्चिभिदीपैश्च ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

सवृन्दैः कदलीस्तम्भैः पूगपोतैः परिष्कृतम्।
तरुपल्लवमालाभिः सर्वतः समलंकृतम्॥

मूलम्

8सवृन्तैः कदलीस्तम्भैः पूगपोतैः परिष्कृतम्।
तरुपल्लवमालाभिः सर्वतः समलंकृतम्॥ ३ ॥

अनुवाद (हिन्दी)

वह ठौर-ठौरपर रखे हुए फल-फूलके गुच्छोंसे युक्त केलेके खंभों और सुपारीके पौधोंसे बड़ा ही मनोहर जान पड़ता था तथा सब ओर आम आदि वृक्षोंके नवीन पत्तोंकी बंदनवारोंसे विभूषित था॥ ३॥

श्लोक-४

विश्वास-प्रस्तुतिः

प्रजास्तं दीपबलिभिः सम्भृताशेषमङ्गलैः।
अभीयुर्मृष्टकन्याश्च मृष्टकुण्डलमण्डिताः॥

मूलम्

प्रजास्तं दीपबलिभिः सम्भृताशेषमङ्गलैः।
9अभीयुर्मृष्टकन्याश्च9 मृष्टकुण्डलमण्डिताः॥ ४ ॥

अनुवाद (हिन्दी)

जब महाराजने नगरमें प्रवेश किया, तब दीपक, उपहार और अनेक प्रकारकी मांगलिक सामग्री लिये हुए प्रजाजनोंने तथा मनोहर कुण्डलोंसे सुशोभित सुन्दरी कन्याओंने उनकी अगवानी की॥ ४॥

वीरराघवः

पूगपोतेर्बालपूगैः परिष्कृतं अलङ्कृतम् । सम्भृतान्य शेषाणि मङ्गलद्रव्याणि दध्यादीनि तैस्सह अभिजग्मुः राज्ञोऽभिमुखं ययुः । मृष्टानि 10निर्घर्षितानि कुण्डलानि यासां ताः । मृष्टाः उज्ज्वलाः कन्याश्च 11अभिमुखं ययुः11 ॥ ३, ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

शङ्खदुन्दुभिघोषेण ब्रह्मघोषेण चर्त्विजाम्।
विवेश भवनं वीरः स्तूयमानो गतस्मयः॥

मूलम्

शङ्खदुन्दुभिघोषेण ब्रह्मघोषेण चर्त्विजाम्।
विवेश भवनं वीरः स्तूयमानो गतस्मयः॥ ५ ॥

अनुवाद (हिन्दी)

शंख और दुन्दुभि आदि बाजे बजने लगे, ऋत्विजगण वेदध्वनि करने लगे, वन्दीजनोंने स्तुतिगान आरम्भ कर दिया। यह सब देख और सुनकर भी उन्हें किसी प्रकारका अहंकार नहीं हुआ। इस प्रकार वीरवर पृथुने राजमहलमें प्रवेश किया॥ ५॥

वीरराघवः

ततः शङ्खादिघोषेण ऋत्विजां वेदघोषेण च सह वन्दिभिस्स्तूयमानोऽपि गतस्मयः निरहङ्कारः वीरः पृथुः भवनं विवेश ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

पूजितः पूजयामास तत्र तत्र महायशाः।
पौराञ्जानपदांस्तांस्तान् प्रीतः प्रियवरप्रदः॥

मूलम्

पूजितः पूजयामास तत्र तत्र महायशाः।
पौराञ्जानपदांस्तांस्तान् प्रीतः प्रियवरप्रदः॥ ६ ॥

अनुवाद (हिन्दी)

मार्गमें जहाँ-तहाँ पुरवासी और देशवासियोंने उनका अभिनन्दन किया। परम यशस्वी महाराजने भी उन्हें प्रसन्नतापूर्वक अभीष्ट वर देकर सन्तुष्ट किया॥ ६॥

वीरराघवः

तत्र तत्र रथ्यादिषु पौरादिभिः पूजितः महायशाः विपुलकीर्तिः पौरान् पुरवासिनः जानपदान् देशवासिनश्च तदीयपूजादिभिः प्रीत स्तेभ्यः समीहितवरप्रदो भूत्वा यथायोग्यं पूजयामास ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

स एवमादीन्यनवद्यचेष्टितः
कर्माणि भूयांसि महान्महत्तमः।
कुर्वन् शशासावनिमण्डलं यशः
स्फीतं निधायारुरुहे परं पदम्॥

मूलम्

स एवमादीन्यनवद्यचेष्टितः कर्माणि भूयांसि 12महान्महत्तमः।
कुर्वन् शशासाऽवनिमण्डलं यशः स्फीतं निधायाऽऽरुरुहे परं पदम्॥ ७ ॥

अनुवाद (हिन्दी)

महाराज पृथु महापुरुष और सभीके पूजनीय थे। उन्होंने इसी प्रकारके अनेकों उदार कर्म करते हुए पृथ्वीका शासन किया और अन्तमें अपने विपुल यशका विस्तार कर भगवान‍्का परमपद प्राप्त किया॥ ७॥

वीरराघवः

तथा गुणैर्महान् अत एव महत्तमः पूज्यतमः अत एवाऽनवद्यचेष्टितः निर्दुष्टो13दारव्यापारः एवमादीनि दोहनादीनि भूयांसि कर्माणि कुर्वन् भूमण्डलं शशास अनुशिष्टवान् । ततः स्फीतं विपुलं यशः इह लोके निधाय परम्पदं वैकुण्ठं 14आरुरुहे अधिरूढवान् ॥ ७ ॥

श्लोक-८

मूलम् (वचनम्)

15सूत उवाच15

विश्वास-प्रस्तुतिः

तदादिराजस्य यशो विजृम्भितं
गुणैरशेषैर्गुणवत्सभाजितम्।
क्षत्ता महाभागवतः सदस्पते
कौषारविं प्राह गृणन्तमर्चयन्॥

मूलम्

16तदादिराजस्य यशो विजृम्भितं गुणैरशे17षैर्गुणवत्सभाजितम्।
क्षत्ता महाभागवतः सदस्पते कौषारविं प्राह 18गृणन्तमर्चयन्॥ ८ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—मुनिवर शौनकजी! इस प्रकार भगवान् मैत्रेयके मुखसे आदिराज पृथुका अनेक प्रकारके गुणोंसे सम्पन्न और गुणवानोंद्वारा प्रशंसित विस्तृत सुयश सुनकर परम भागवत विदुरजी ने उनका अभिनन्दन करते हुए कहा॥ ८॥

वीरराघवः

एवं श्रुतपृथुचरित्रः क्षत्ता एवमादीनीत्यादिशब्दोपक्षिप्ताऽन्यतदुदारचेष्टितशुश्रूषया पुनः प्राहेत्याह - सूतः श्रुत्वेति । अशेषैर्गुणैः विजृम्भितमूर्जितं गुणवद्भिः सभाजितं सत्कृतं अधिराजस्य 19राजाधिराजस्य19 पृथोर्यशः श्रुत्वा महाभागवतः क्षत्ता हे सदस्पते ! शौनक ! गृणन्तं कथयन्तं कौषारविं मैत्रेयमर्चयन् साधुसाध्विति सम्मानयन् प्राह ॥ ८ ॥

श्लोक-९

मूलम् (वचनम्)

विदुर उवाच

विश्वास-प्रस्तुतिः

सोऽभिषिक्तः पृथुर्विप्रैर्लब्धाशेषसुरार्हणः।
बिभ्रत् स वैष्णवं तेजो बाह्वोर्याभ्यां दुदोह गाम्॥

मूलम्

सोऽभिषिक्तः पृथुर्विप्रैर्लब्धाशेषसुरार्हणः।
बिभ्र20च्च वैष्णवं तेजो बाह्वोर्याभ्यां दुदोह गाम्॥ ९ ॥

अनुवाद (हिन्दी)

विदुरजी बोले—ब्रह्मन्! ब्राह्मणोंने पृथुका अभिषेक किया। समस्त देवताओंने उन्हें उपहार दिये। उन्होंने अपनी भुजाओंमें वैष्णव तेजको धारण किया और उससे पृथ्वीका दोहन किया॥ ९॥

वीरराघवः

21उक्ति मेवाह - इति द्वाभ्याम् । विप्रैर्ब्रह्मर्षिभिः राज्येऽभिषिक्तः लब्धं अशेषाणामखिलानामिन्द्रादीनामर्हणं येन सः, वैष्णवं विष्णोस्सम्बन्धि तेजः वीर्यं बाह्रोः बिभ्रच्च बिभ्राणश्च याभ्यां वैष्णवतेजश्शालिभ्यां 22बाहुभ्यां गां दुदोह । एवम्भूतः किमकरोदिति शेषः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

को न्वस्य कीर्तिं न शृणोत्यभिज्ञो
यद्विक्रमोच्छिष्टमशेषभूपाः।
लोकाः सपाला उपजीवन्ति काम-
मद्यापि तन्मे वद कर्म शुद्धम्॥

मूलम्

कोन्वस्य कीर्तिं न शृणोत्यभिज्ञो यद्विक्रमोच्छिष्टमशेषभूपाः।
लोकाः सपाला उपजीवन्ति काममद्याऽपि तन्मे वद कर्म शुद्धम्॥ १० ॥

अनुवाद (हिन्दी)

उनके उस पराक्रमके उच्छिष्टरूप विषयभोगोंसे ही आज भी सम्पूर्ण राजा तथा लोकपालोंके सहित समस्त लोक इच्छानुसार जीवन-निर्वाह करते हैं। भला, ऐसा कौन समझदार होगा जो उनकी पवित्र कीर्ति सुनना न चाहेगा। अतः अभी आप मुझे उनके कुछ और भी पवित्र चरित्र सुनाइये॥ १०॥

वीरराघवः

श्रवणौत्सुक्यमाविष्कुर्वन् प्रार्थयते - कोन्विति । अस्य पृथोः कीर्तिमभिज्ञ श्चेत् कोनु न शृणोति ? कथम्भूतस्य ? यस्य विक्रमः पृथ्वीदोहनादिरूपस्तस्य यदुच्छिष्टं 23उच्छिष्ट तुल्यं23 काम मद्याऽपि अशेषभूपाः लोकपालैस्सहिता लोकाश्च उपजीवन्ति । शुद्धं निरवद्यं तत्कर्म तदीयं चेष्टितं मे मह्यं वद ॥ १० ॥

श्लोक-११

मूलम् (वचनम्)

24मैत्रेय उवाच24

विश्वास-प्रस्तुतिः

गङ्गायमुनयोर्नद्योरन्तराक्षेत्रमावसन्।
आरब्धानेव बुभुजे भोगान् पुण्यजिहासया॥

मूलम्

गङ्गायमुनयोर्नद्योरन्तराक्षेत्रमावसन्।
25आरब्धानेव बुभुजे भोगान् पुण्यजिहासया॥ ११ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजीने कहा—साधुश्रेष्ठ विदुरजी! महाराज पृथु गंगा और यमुनाके मध्यवर्ती देशमें निवास कर अपने पुण्यकर्मोंके क्षयकी इच्छासे प्रारब्धवश प्राप्त हुए भोगोंको ही भोगते थे॥ ११॥

वीरराघवः

एवमुक्तो मुनिराह - गङ्गायमुनयोरित्यादिना । यद्यप्यत्र मुनिराहेत्याहेत्येवं रूपं सूतवाक्यमपेक्षितम् । तथाऽप्यर्थ सिद्धत्वात् तन्नेत्य26वगन्तव्यम् । एवं प्रश्नेऽपि शुकवाक्यमर्थसिद्धं ज्ञेयं गङ्गायमुनयोर्महानद्योः अन्तरा मध्ये स्थितं ब्रह्मावर्ताख्यं क्षेत्र, क्षेत्रे आवसन् “उपान्वध्याङ् वसः” (अष्टाध्यायी-१-४-४८) इत्याधारस्य कर्मसंज्ञायां द्वितीया, आरब्धानेव प्राचीनकर्मायत्तानेव भोगान् न तु अपूर्व साधनानुष्ठानारब्धान्, तत्र हेतुः पुण्यजिहासया पुण्यक्षपणेच्छया मुमुक्षोः पापवत् पुण्यस्याऽपि स्वफलजननद्वारा मोक्षविरोधित्वेन पुण्यस्याऽपि जिहासितव्यत्व27बुद्धिमतो मोक्षविरोधि 28भोगसाधनत्वेन कर्मानुष्ठानासम्भवादिति भावः । बुभुजे अनुभूतवान् ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्डधृक्।
अन्यत्र ब्राह्मणकुलादन्यत्राच्युतगोत्रतः॥

मूलम्

सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्ड29धृत्।
अन्यत्र ब्राह्मणकुलादन्यत्राऽच्युतगोत्रतः॥ १२ ॥

अनुवाद (हिन्दी)

ब्राह्मणवंश और भगवान‍्के सम्बन्धी विष्णुभक्तोंको छोड़कर उनका सातों द्वीपोंके सभी पुरुषोंपर अखण्ड एवं अबाध शासन था॥ १२॥

वीरराघवः

सर्वत्र अस्खलितः 30अप्रतिहतः आदेश आज्ञा यस्य, सप्तद्वीपेषु एक एव दण्डं धारयति, तथा स्वसमानराजान्तररहित इत्यर्थः । दण्डधारणं किं सर्वत्र, न, ब्राह्मणकुलादन्यत्रापि किं सर्वत्र, न, किन्तु अच्युतगोत्रतः अच्युतगोत्रात् अन्यत्र जात्यन्तरेष्वपि भागवतकुला दन्यत्रेत्यर्थः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

एकदाऽऽसीन्महासत्रदीक्षा तत्र दिवौकसाम्।
समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम॥

मूलम्

एकदाऽऽसीन्महासत्त्रदीक्षा तत्र दिवौकसाम्।
समाजो ब्रह्मर्षीणां च 31देवर्षीणां च सत्तम॥ १३ ॥

अनुवाद (हिन्दी)

एक बार उन्होंने एक महासत्रकी दीक्षा ली; उस समय वहाँ देवताओं, ब्रह्मर्षियों और राजर्षियोंका बहुत बड़ा समाज एकत्र हुआ॥ १३॥

वीरराघवः

एकदा महासत्त्रदीक्षा आसीत् । महासत्त्रसङ्कल्पं कृत्वा तत्र दीक्षितोऽभूदित्यर्थः । तत्र महासत्त्रे दिवौकसां देवानां ब्रह्मर्षीणां देवर्षीणां च समाजः सभा आसीदित्यर्थः । हे सत्तम ! ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

तस्मिन्नर्हत्सु सर्वेषु स्वर्चितेषु यथार्हतः।
उत्थितः सदसो मध्ये ताराणामुडुराडिव॥

मूलम्

तस्मिन्नर्हत्सु सर्वेषु स्वर्चितेषु यथार्हतः।
उत्थितः 32सदसो मध्ये ताराणामुडुराडिव॥ १४ ॥

अनुवाद (हिन्दी)

उस समाजमें महाराज पृथुने उन पूजनीय अतिथियोंका यथायोग्य सत्कार किया और फिर उस सभामें, नक्षत्रमण्डलमें चन्द्रमाके समान खड़े हो गये॥ १४॥

वीरराघवः

तस्मिन् समाजे महत्सु पूज्येषु 33सर्वेषु यथायोग्यं पूजितेषु सत्सु 34स्वेनेति शेषः । सदसः मध्ये उत्थितस्सन् समन्ततस्समैक्षतेति षष्ठेनान्वयः । तं विशिनष्टि-ताराणां मध्ये उडुराडिव चन्द्र इव स्थितः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

प्रांशुः पीनायतभुजो गौरः कञ्जारुणेक्षणः।
सुनासः सुमुखः सौम्यः पीनांसः सुद्विजस्मितः॥

मूलम्

प्रांशुः पीनायतभुजो गौरः कञ्जा35रुणेक्षणः।
सुनासः सुमुखः सौम्यः पीनांसः 36सुद्विजस्मितः36॥ १५ ॥

अनुवाद (हिन्दी)

उनका शरीर ऊँचा, भुजाएँ भरी और विशाल, रंग गोरा, नेत्र कमलके समान सुन्दर और अरुणवर्ण, नासिका सुघड़, मुख मनोहर, स्वरूप सौम्य, कंधे ऊँचे और मुसकानसे युक्त दन्तपंक्ति सुन्दर थी॥ १५॥

वीरराघवः

प्रांशुरुन्नतः पीनावायतौ दीर्घौ भुजौ यस्य, पद्मवदरुणे ईक्षणे यस्य, शोभना 37नासा यस्य, सुन्दरं मुखं यस्य, सौम्यः प्रसन्नः, पीनावंसौ स्कन्धौ यस्य, शोभनाः द्विजाः दन्ताः यस्मिन्, तत्स्मितं यस्येति बहुव्रीहिगर्भो बहुव्रीहिः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

व्यूढवक्षा बृहच्छ्रोणिर्वलिवल्गुदलोदरः।
आवर्तनाभिरोजस्वी काञ्चनोरुरुदग्रपात्॥

मूलम्

व्यूढवक्षा बृहच्छ्रोणिः 38वलिवल्गुदलोदरः।
आवर्तनाभिरोजस्वी काञ्चनोरुरुदग्र39पात्॥ १६ ॥

अनुवाद (हिन्दी)

उनकी छाती चौड़ी, कमरका पिछला भाग स्थूल और उदर पीपलके पत्तेके समान सुडौल तथा बल पड़े हुए होनेसे और भी सुन्दर जान पड़ता था। नाभि भँवरके समान गम्भीर थी, शरीर तेजस्वी था, जंघाएँ सुवर्णके समान देदीप्यमान थीं तथा पैरोंके पंजे उभरे हुए थे॥ १६॥

वीरराघवः

व्यूढं विस्तीर्णं वक्षः यस्य, बृहन्तौ पीनौश्रोणी नितंबौ यस्य, वलिभिः तिसृभिः 40वल्गु सुन्दरं दलव दश्वत्थपर्णवत् उपरि विस्तृतमधस्तात्सङ्कुचितमुदरं यस्य, आवर्तव41न्निम्नो नाभिर्यस्य, ओजस्वी इन्द्रियशक्तिमान् काञ्चनवदुज्ज्वला ऊरू यस्य, उदग्रौ उन्नतौ पादौ यस्य ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

सूक्ष्मवक्रासितस्निग्धमूर्धजः कम्बुकन्धरः।
महाधने दुकूलाग्र्ये परिधायोपवीय च॥

मूलम्

सूक्ष्मवक्रासित स्निग्धमूर्धजः कम्बुकन्धरः।
महा42धने दुकूलाग्र्ये परि43वीयोप44वीय च॥ १७ ॥

अनुवाद (हिन्दी)

उनके बाल बारीक, घुँघराले, काले और चिकने थे; गरदन शंखके समान उतार-चढ़ाववाली तथा रेखाओंसे युक्त थी और वे उत्तम बहुमूल्य धोती पहने और वैसी ही चादर ओढ़े थे॥ १७॥

वीरराघवः

सूक्ष्माश्च वक्राश्च असिताश्च स्निग्धाश्च मूर्धजा यस्य, कम्बुवत्त्रिरेखाङ्किता कन्धरा कण्ठः यस्य, महाधने अनर्घे दुकूलश्रेष्ठे परिवीय वसित्वा उपवीय उत्तरीयं कृत्वा ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

व्यञ्जिताशेषगात्रश्रीर्नियमे न्यस्तभूषणः।
कृष्णाजिनधरः श्रीमान् कुशपाणिः कृतोचितः॥

मूलम्

व्यञ्जिताशेषगात्रश्रीर्नियमे न्यस्तभूषणः।
कृष्णाजिनधरः श्रीमान् कुशपाणिः कृतोचितः॥ १८ ॥

अनुवाद (हिन्दी)

दीक्षाके नियमानुसार उन्होंने समस्त आभूषण उतार दिये थे; इसीसे उनके शरीरके अंग-प्रत्यंगकी शोभा अपने स्वाभाविक रूपमें स्पष्ट झलक रही थी। वे शरीरपर कृष्णमृगका चर्म और हाथोंमें कुशा धारण किये हुए थे। इससे उनके शरीरकी कान्ति और भी बढ़ गयी थी। वे अपने सारे नित्यकृत्य यथाविधि सम्पन्न कर चुके थे॥ १८॥

वीरराघवः

नियमे निमित्ते न्यस्तानि त्यक्तानि अशेषभूषणानि येन, अत एव तैरनावृतत्वाद्वयञ्जिता अशेषेष्ववयवेषु श्रीः स्वाभाविकी शोभा येन, श्रीमान् समुदायकान्तिमान् कुशपाणिः पवित्रपाणिः, कृतानि उचितानि कर्माणि येन ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

शिशिरस्निग्धताराक्षः समैक्षत समन्ततः।
ऊचिवानिदमुर्वीशः सदः संहर्षयन्निव॥

मूलम्

शिशिरस्निग्धताराक्षः 45समैक्षत समन्ततः।
46ऊचिवानिदमुर्वीशः 47सदः संहर्षयन्निव॥ १९ ॥

अनुवाद (हिन्दी)

राजा पृथुने मानो सारी सभाको हर्षसे सराबोर करते हुए अपने शीतल एवं स्नेहपूर्ण नेत्रोंसे चारों ओर देखा और फिर अपना भाषण प्रारम्भ किया॥ १९॥

वीरराघवः

शिशिरे सन्तापहरे स्निग्धे च तारे ययो स्ते अक्षिणी यस्य, एवम्भूत उर्वीशस्सदस्यान् सन्तोषयन्निव इदं वक्ष्यमाणं वाक्यमुक्तवान् । वाक्यं विशिनष्टि - 48चारुश्रोत्र प्रियं48 चित्राणि पदानि यस्मिन् । श्लक्ष्णं प्रसन्नमृष्टं शुद्धं अनपशब्दितं गूढं गम्भीरं अगाधार्थं अविक्लबं अव्याकुलम् ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

चारु चित्रपदं श्लक्ष्णं मृष्टं गूढमविक्लवम्।
सर्वेषामुपकारार्थं तदा अनुवदन्निव॥

मूलम्

चारु चित्रपदं श्लक्ष्णं मृष्टं गूढमविक्लवम्।
49सर्वेषामुपकारार्थं तदा अनुवदन्निव॥ २० ॥

अनुवाद (हिन्दी)

उनका भाषण अत्यन्त सुन्दर, विचित्र पदोंसे युक्त, स्पष्ट, मधुर, गम्भीर एवं निश्शंक था। मानो उस समय वे सबका उपकार करनेके लिये अपने अनुभवका ही अनुवाद कर रहे हों॥ २०॥

श्लोक-२१

मूलम् (वचनम्)

49राजोवाच49

विश्वास-प्रस्तुतिः

सभ्याः शृणुत भद्रं वः साधवो य इहागताः।
सत्सु जिज्ञासुभिर्धर्ममावेद्यं स्वमनीषितम्॥

मूलम्

सभ्याः श्रुणुत भद्रं वः साधवो य इहाऽऽगताः।
सत्सु जिज्ञासुभिर्धर्ममावेद्यं स्वमनीषितम्॥ २१ ॥

अनुवाद (हिन्दी)

राजा पृथुने कहा—सज्जनो! आपका कल्याण हो। आप महानुभाव, जो यहाँ पधारे हैं, मेरी प्रार्थना सुनें—जिज्ञासु पुरुषोंको चाहिये कि संत-समाजमें अपने निश्चयका निवेदन करें॥ २१॥

वीरराघवः

अयमस्मान् प्रति सर्वज्ञ इव धर्मानुपदेष्टुमुत्सहत इति बुद्ध्या सभ्या मा क्रुध्येयुरिति मनीषया स्ववाक्यश्रवणाय सभ्यान् प्रार्थयते सभ्या इति । हे सभ्याः ! सभायामुपविष्टाः अनुपविष्टान् सम्बोधयति इह सत्त्रभूमौ ये आगताः मूर्खाश्चेन्मा मसूयेरान्नित्यभिप्रायेण विशिनष्टि साधव इति । नाहं ज्ञः किन्तु जिज्ञासु र्जिज्ञासितव्यं विज्ञापयामीत्यभिप्रायेणाह - धर्मं जिज्ञासुभिः स्वमनीषितं ज्ञेयं सत्सु सतां समीपे आवेद्यं विज्ञापनीयं प्रजानुशासन व्याजेन जिज्ञासैव क्रियते न तु युष्मान् प्रति धर्म उपदिश्यत इति भावः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

अहं दण्डधरो राजा प्रजानामिह योजितः।
रक्षिता वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक्॥

मूलम्

अहं दण्डधरो 50धात्रा प्रजानामिह योजितः।
रक्षिता वृत्तिदः 51स्वेषु सेतुषु स्थापिता पृथक्॥ २२ ॥

अनुवाद (हिन्दी)

इस लोकमें मुझे प्रजाजनोंका शासन, उनकी रक्षा, उनकी आजीविकाका प्रबन्ध तथा उन्हें अलग-अलग अपनी मर्यादामें रखनेके लिये राजा बनाया गया है॥ २२॥

वीरराघवः

इदानीं प्रजारक्षणादिकं ममाऽप्यावश्यकमित्याह अहमिति त्रिभिः । धात्रा भगवता प्रजानां दण्ड धरत्वेन अहं योजितो नियुक्तः, न केवलं दण्डधर एव किन्तु रक्षितृत्वेन आजीविका प्रदत्वेन स्वेषु स्वस्य वर्णाश्रमोचितेषु सेतुषु धर्ममर्यादासु पृथगसङ्करेण स्थापयितृत्वेन च योजित इत्यर्थः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

तस्य मे तदनुष्ठानाद्यानाहुर्ब्रह्मवादिनः।
लोकाः स्युः कामसन्दोहा यस्य तुष्यति दिष्टदृक्॥

मूलम्

तस्य मे तदनुष्ठाना52द्यानाहुर्ब्रह्मवादिनः।
लोकाः स्युः कामसन्दोहा यस्य तुष्यति दिष्टदृक्॥ २३ ॥

अनुवाद (हिन्दी)

अतः इनका यथावत् पालन करनेसे मुझे उन्हीं मनोरथ पूर्ण करनेवाले लोकोंकी प्राप्ति होनी चाहिये, जो वेदवादी मुनियोंके मतानुसार सम्पूर्ण कर्मोंके साक्षी श्रीहरिके प्रसन्न होनेपर मिलते हैं॥ २३॥

वीरराघवः

किं प्रजा53रक्षणादि साध्यं फलं तत्राह - तस्येति । ब्रह्मवादिनः वेदार्थतत्त्वस्य स्वानुष्ठानेनोपदेष्टारः प्रजारक्षणादिना राज्ञः यान् पुण्यलोकान् प्राप्यत्वेनाहुः, ते लोकाः तस्य प्रजारक्षणादिनिष्ठस्य मे तद्नुष्ठानात् प्रजारक्षणाद्यनुष्ठानात् कामसन्दोहाः मत्समीहित कामपूरणाः भवेयुः, स्युरिति सम्भावनायां लिङ् । स्वस्य मुमुक्षुत्वेन प्राकृतलोकस्य प्राप्यत्वाभावात् अतो हार्द माह-यस्येति । यस्य प्रजारक्षणादिनिष्ठस्य दिष्टदृक्प्रजारक्षणादि कर्मसाक्षी ईश्वरः तुष्यति, तस्मिंस्तुष्टे मुक्तिरपि सुलभेति भावः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

य उद्धरेत्करं राजा प्रजा धर्मेष्वशिक्षयन्।
प्रजानां शमलं भुङ्‍क्ते भगं च स्वं जहाति सः॥

मूलम्

य उद्धरेत्करं राजा प्रजा धर्मेष्वशिक्षयन्।
प्रजानां शमलं भुङ्‍क्ते 54भगं च स्वं जहाति सः॥ २४ ॥

अनुवाद (हिन्दी)

जो राजा प्रजाको धर्ममार्गकी शिक्षा न देकर केवल उससे कर वसूल करनेमें लगा रहता है, वह केवल प्रजाके पापका ही भागी होता है और अपने ऐश्वर्यसे हाथ धो बैठता है॥ २४॥

वीरराघवः

अन्यथा त्वनिष्टं स्यादित्याह - इति । यो राजा धर्मेषु प्रजा अशिक्षयन् करं स्वामिग्राह्यभागमुद्धरेत् करमात्रं गृह्णीयादित्यर्थः । तर्हि प्रजानां सम्बन्धि शमलं पापमेव भुङ्क्ते । सः स्वीयं भगं ज्ञानशक्तिबलैश्वर्यादिकं च जहातीत्यर्थः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

तत् प्रजा भर्तृपिण्डार्थं स्वार्थमेवानसूयवः।
कुरुताधोक्षजधियस्तर्हि मेऽनुग्रहः कृतः॥

मूलम्

तत् प्रजा भर्तृपिण्डार्थं स्वार्थ55मेवानसूयवः।
कुरुष्वाधोक्षज56धियः तर्हि मेऽनुग्रहः कृतः॥ २५ ॥

अनुवाद (हिन्दी)

अतः प्रिय प्रजाजन! अपने इस राजाका परलोकमें हित करनेके लिये आपलोग परस्पर दोषदृष्टि छोड़कर हृदयसे भगवान‍्को याद रखते हुए अपने-अपने कर्तव्यका पालन करते रहिये; क्योंकि आपका स्वार्थ भी इसीमें है और इस प्रकार मुझपर भी आपका बड़ा अनुग्रह होगा॥ २५॥

वीरराघवः

तत् तस्मात् हे प्रजाः, भर्तुर्मम पिण्डार्थं पिण्डदानवत्परलोकहितार्थं स्वार्थं स्वप्रयोजनमेव स्वस्ववर्णाश्रमोचितधर्ममेव असूयारहिताः कुरुत अनुतिष्ठत । अधोक्षधियः भगवद्विषयकबुद्धयः तदर्पणदृष्ट्येति यावत् । “तत्कुरुष्व मदर्पणम् (भ.गी. 9-27) इति स्मृतेः । 57तर्ह्येवं क्रियते चेत् मह्यमनुग्रह एव युष्माभिः कृतः स्यात्57 ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

यूयं तदनुमोदध्वं पितृदेवर्षयोऽमलाः।
कर्तुः शास्तुरनुज्ञातुस्तुल्यं यत्प्रेत्य तत्फलम्॥

मूलम्

यूयं तदनुमोदध्वं पितृदेवर्षयोऽमलाः।
कर्तुः शास्तुरनुज्ञातुस्तुल्यं यत्प्रेत्य तत्फलम्॥ २६ ॥

अनुवाद (हिन्दी)

विशुद्धचित्त देवता, पितर और महर्षिगण! आप भी मेरी इस प्रार्थनाका अनुमोदन कीजिये; क्योंकि कोई भी कर्म हो, मरनेके अनन्तर उसके कर्ता, उपदेष्टा और समर्थकको उसका समान फल मिलता है॥ २६॥

वीरराघवः

58एवं प्रजा अनुशास्य देवादीन् प्रार्थयते - यूयं हे पित्रादयः । निर्मलाः असूयादिरहिताः58 यूयं तन्मदनुशासनमनुमोदध्वं किमनुमोदनमात्रसाध्यं तत्राह - कर्तुरिति । यद्यस्मात् कर्तुः प्रयोज्यस्य शास्तुः प्रयोजकस्य अनुज्ञातुः अनुमन्तुः, तत्र अप्रवृत्तस्य प्रवर्तकत्वं 59प्रयोजकत्वं59 प्रवृत्तस्य प्रवर्तकत्व मनुमन्तृत्वमिति विवेकः । प्रेत्येति 60कृदन्तयोगात्कर्तरि शेषे षष्ठी कर्त्रादिभिः प्रेत्य परलोकं प्राप्य तुल्यं फलमनुभूयत इत्यर्थः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

अस्ति यज्ञपतिर्नाम केषाञ्चिदर्हसत्तमाः।
इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद‍्भुवः॥

मूलम्

अस्ति यज्ञपतिर्नाम केषाञ्चि61दिहसत्तमाः।
इहामुत्र च 62लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद‍्भुवः॥ २७ ॥

अनुवाद (हिन्दी)

माननीय सज्जनो! किन्हीं श्रेष्ठ महानुभावोंके मतमें तो कर्मोंका फल देनेवाले भगवान् यज्ञपति ही हैं; क्योंकि इहलोक और परलोक दोनों ही जगह कोई-कोई शरीर बड़े तेजोमय देखे जाते हैं॥ २७॥

वीरराघवः

अत्र “यस्य तुष्यति दिष्टदृक् (भाग-4-21-22), “कुरुताधोक्षजधियः (भाग 4-21-24) इति कर्मणां भगवदाराधनरूपत्वमाराधितात्कर्मभिर्भगवतश्च फलप्राप्तिरवगम्यते । तत्र निरीश्वरवादिनां केषां चिन्मते इदमुक्तमनुपपन्नमित्युद्भाव्य ईश्वरसिषाधयिषया तत्सद्भावं तावत्प्रतिजानीते अस्तीति । ते हि निरीश्वरवादिन एवमाहुः - प्रकृति पुरूषातिरेकेण ईश्वराख्यः कश्चित्पदार्थो न विद्यते प्रमाणाभावात् । न तावत्प्रत्यक्षं, तदविषयत्वा तस्य । नाऽप्यनुमानं, प्रत्यक्षोपलब्ध साध्यधर्माव्यभिचारि साधनधर्म विषयत्वेनानुमानस्य प्रत्यक्षाविषये तदप्रवृत्तेः । नाऽपि शब्दः न तावल्लौकिकः भ्रमप्रमादादि दोषसंस्पर्श सम्भावनया तस्य प्रामाण्य निश्चयायोगात् । नाऽपि “सत्यं ज्ञानमनन्तं (तैत्ति. उ. 2.1.1) “निष्क्रियं निष्कलम् (श्वेत.उ. 6-19) इत्यादि वैदिकशब्दः, लोके वृद्धव्यवहारादन्यत्र शब्दस्य बोधकत्व शक्त्यवधारणासम्भवात् व्यवहारस्य च कार्यबुद्धिपूर्वकत्वेन कार्यरूपार्थ एव शब्दस्य प्रामाण्यमिति लौकिकव्युत्पत्त्यनुसारेण वैदिकशब्दानामपि कार्यवस्तुपरत्वेनैव व्युत्पत्तिनिश्चयात्सिद्धरूपे ईश्वरे तेषां प्रामण्यासम्भवात् । अत एव 63तस्मात्फलप्राप्तिश्चासंभाविनी । न च “इष्टापूर्तं बहुधा जातं” (म.ना.उ 1-6) “ब्रह्मविदाप्नोति परम्, (तैत्ति.उ. 2-1-1) इत्यादिना ऐहिकमामुष्मिकं ब्रह्मोपासनात् तत्प्राप्तिरूपं च फलं श्रुतमिति वाच्यम् । तस्य कर्मसु कर्तृभूतस्य प्रत्यगात्मनो याथात्म्य वेदन प्रतिपादनपरत्वात् । अतः कर्तुस्संस्कारद्वारेण विद्यायाः क्रतुशेषत्वात् तत्र फलश्रुतिरर्थवादमात्रम् । न च, विचित्रसृष्ट्यन्यथानुपपत्त्या ईश्वरसिद्धिः, ततः फलसिद्धिश्चेति वक्तुं युक्तम् । पुण्यापुण्यरूपानुष्ठितकर्म संस्कृतायाः प्रकृतेरेव पुरूषार्थानुरूपं विचित्रपरिणामसम्भवात्; यथा विषादिदूषितानामन्नपानादीनां औषधविशोषाऽऽप्यायितानां च सुख दुःख हेतुभूत परिणामविशेषस्य देशकालादिव्यवस्थया दर्शनं तद्वदिति सङ्ग्रहः । हे सत्तमाः ! केषाञ्चिदास्तिकानां मते यज्ञपतिर्नाम यज्ञाराध्यस्तत्फलप्रदश्चेश्वराख्यः कश्चिदस्ति । तत्र तावद्विचित्रसृष्ट्यन्यथानुपपत्तिं प्रमाणयति - इहामुत्रचेति । इह लोके चामुष्मिंश्चलोके ज्योत्स्नावत्यः प्रकाशबहुलाः भुवः विचित्रा भोग्यभूमयः तद्भोक्तारो विचित्रशरीराश्च दृश्यन्ते । एतच्च दर्शनमीश्वरमन्तरेणानुपपन्नम् । यदुक्तम् - प्रकृतेरेव जीवकर्मानुगुणं विचित्र परिणामसम्भव इति, नैतदुपपद्यते । सर्वज्ञेश्वरानधिष्ठितायाः तस्याः विचित्र परिणामासम्भवात् । यद्यनधिष्ठिताया अपि 64तस्याः64 परिणामः सम्भाव्येत, तर्हि प्रलयदशायां तस्याः विचित्र परिणामार्थमीश्वरानपेक्षणात् सतत परिणाम स्वभावत्वेन अपरिणामित्वेन अवस्थानं न स्यात् । ईश्वराधिष्ठितत्वे तु तस्य सत्यसङ्कल्पत्वेन विचित्रसृष्टि तदभावावुपपन्नौ । न च क्षेत्रज्ञाधिष्ठितत्वेन तावुपपन्नाविति वक्तुं शक्यम् । तेषां अनुन्मत्तानां स्वेच्छयैव स्वानर्थावहापुण्यानुष्ठान पूर्वक पशु पादपत्वादिशरीरापादनस्यासम्भवात् । ईश्वराभ्युपगमे तु “इष्टापूर्तं बहुधा जातं जायमानम्”, “यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्” (भ.गी 18-46) “स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः,, (भ.गी. 18-46) “तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभा नासुरीष्वेव योनिषु ॥ (भ.गी. 16-19) इत्युक्तरीत्या भगवान्पुरूषोत्तमोऽवाप्तसमस्तकामः सर्वज्ञः सत्यसङ्कल्पः स्वमाहात्म्यानुगुणलीलाप्रवृत्तः एतानि कर्माणि समीचीनान्येतान्यसमीचीनानीति कर्मद्वैविध्यं संविधाय तदुपादानोचित देहेन्द्रियादिकं तन्नियमनशक्तिं च सर्वेषां क्षेत्रज्ञानां सामान्येन प्रदिश्य स्वशासनावबोधिवेदाख्यशास्त्रं च प्रदर्श्य तदुपसंहारार्थं च अन्तरात्मतयाऽनुप्रविश्य अनुमन्तृतया च नियच्छन् तत्र पुण्यरूप कार्मकारिणं स्वशासनानुवर्तिनं ज्ञात्वा धर्मार्थकाममोक्षैः वर्धय65ते शासनातिवर्तिनं च तद्विपर्ययै र्योजयतीति सर्वमेतदुपपन्नं वैचित्य्रमिति भावः । न च “सत्यं ज्ञानम्” (तैत्ति. उ. 2-1-1) इत्यादिभिः कर्माङ्गभूत प्रत्यगात्म - याथात्म्यं विविच्यते इति वक्तुं शक्यम्, कर्तुः प्रत्यगात्मनः शुद्धस्य अशुद्धस्य च खद्योतकल्पस्याविद्यादि हेय सम्बन्धयोग्यस्यासम्भावनीययोः निरस्तनिखिल हेयगन्धानन्तकल्याणगुणाकर स्वसङ्कल्पकृत जगदुदयविभव लयलील 66सर्वज्ञत्व सर्वशक्तित्व ज्ञानानन्दादि स्वरूपस्वभावयोः 67परमात्मैकान्तयोः श्रवणात् । तथाहि - अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः” तदैक्षत बहुस्यां प्रजायेय (धान्द. उ. 6-2-3) इति “तत्तेजोऽसृजत” (छान्द.उ. 6-2-3) “यः सर्वज्ञः सर्ववित्, (मुण्ड. उ. 1-1-9) “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह” (तैत्ति. उ. 2-4,9) इति । न चैषां वाक्यानां सिद्धवस्तु परत्वासम्भवः । यादृच्छिक व्युत्पत्तेरपि शारीरकमीमांसायां सिद्धान्तितत्वेन कार्यार्थ एव व्युत्पत्तिरिति निर्बन्धस्य निर्निबन्धनत्वात् फलश्रुतिरर्थवादरूपेत्यपि न युक्तिमत् । अर्थवादादेः प्रतीयमानार्थे तात्पर्याभावेऽपि रात्रिसत्रप्रतिष्ठापगोरण शतयातना साध्य साधनभावे शर्कराञ्जनद्रव्य पशुविशेषादेरर्थवादोक्तस्याऽपि विवक्षितत्वादिति संक्षेपः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

मनोरुत्तानपादस्य ध्रुवस्यापि महीपतेः।
प्रियव्रतस्य राजर्षेरङ्गस्यास्मत्पितुः पितुः॥

मूलम्

मनोरुत्तानपादस्य ध्रुवस्यापि महीपतेः।
प्रियव्रतस्य राजर्षेरङ्गस्याऽस्मत्पितुः पितुः॥ २८ ॥

वीरराघवः

केषाञ्चिदित्युक्तानास्तिकान् प्रदर्शयन् तेषां ईश्वराभ्युपगमोऽस्तीत्याह - मनोरिति । अस्मत्पितुः पितुः अस्मत्पितामहस्याङ्गस्य ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

ईदृशानामथान्येषामजस्य च भवस्य च।
प्रह्रादस्य बलेश्चापि कृत्यमस्ति गदाभृता॥

मूलम्

ईदृशानामथाऽन्येषामजस्य च भवस्य च।
प्रह्रादस्य बलेश्चाऽपि कृत्यमस्ति गदा68भृता॥ २९ ॥

वीरराघवः

अजस्य चतुर्मुखस्य, भवस्य रुद्रस्य, मन्वादीनां गदाभृता भगवता कृत्स्नं कर्तव्यं कर्म फलदानरूपं प्रयोजनमस्ति । मन्वादीनां मते अवश्यं कर्मफलदात्रा भवितव्यमित्यभ्युपगतमित्यर्थः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

दौहित्रादीनृते मृत्योः शोच्यान् धर्मविमोहितान्।
वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना॥

मूलम्

69दौहित्रादीनृते मृत्योः शोच्यान् धर्मविमोहितान्।
70वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतु71ना॥ ३० ॥

अनुवाद (हिन्दी)

मनु, उत्तानपाद, महीपति ध्रुव, राजर्षि प्रियव्रत, हमारे दादा अंग तथा ब्रह्मा, शिव, प्रह्लाद, बलि और इसी कोटिके अन्यान्य महानुभावोंके मतमें तो धर्म-अर्थ-काम-मोक्षरूप चतुर्वर्ग तथा स्वर्ग और अपवर्गके स्वाधीन नियामक, कर्मफलदातारूपसे भगवान् गदाधरकी आवश्यकता है ही। इस विषयमें तो केवल मृत्युके दौहित्र वेन आदि कुछ शोचनीय और धर्मविमूढ़ लोगोंका ही मतभेद है। अतः उसका कोई विशेष महत्त्व नहीं हो सकता॥ २८—३०॥

वीरराघवः

नन्वचेतनस्य क्षणभाविनः कर्मणः फलप्रदत्वासम्भवेऽप्यपूर्वाख्यशक्तिकल्पनाद्वारा कर्मण एव फलप्रदातृत्वं स्यात् । विध्युद्देशश्रुतदेवताया वा किमीश्वरेणेति चेत्याशङ्कां परिहरन् दर्शयति । वर्ग स्त्रिवर्गो धर्मादिः, स्वर्गो धर्मफलं, अपवर्गो मोक्षः, एषां प्रायशः ऐकात्म्यहेतुना एक मात्मस्वरूपं येषां तेषां भाव ऐकात्म्यम् । एकेनैव प्रदेयत्व रूपैकात्म्यं तद्रूपेण हेतुना वर्गादीनामेकेनैव प्रदेयत्व श्रवण स्मरण रूप हेतुना ईश्वरोऽभ्युपगतो मन्वादिभिरित्यर्थः । तथा च श्रूयते - “इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः । (म. ना. 3-1-6), “तदेवाऽग्निः तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः” (ममा. 3-1-17) इत्यादि । स्मर्यते च यो यो यां यां तनुं भक्तः, (भगी 7.21) “धमार्थ काममोक्षाख्यं य इच्छेत् (भाग 4-8-41) इत्यादि । अयम्भावः - यजदेवपूजायामिति । देवताराधनभूत यागाद्याराध्य भूताग्निवाय्वादि देवतानामेव तत्तत्फलहेतुतया तस्मिन् तस्मिन्नपि वाक्ये व्यपदेशस्तावत् दृश्यते । “वायव्यं श्वेतमालभेत भूतिकामो वायुर्वै क्षेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति, स एवैनं भूतिं गमयति इत्यादिषु । तत्र हि कामिनः सिषाधयिषित फल साधनत्वप्रकारोपदेशो विध्यपेक्षित एवेति नातत्परत्वशङ्का युक्ता । एवमपेक्षतेऽपि फलसाधनत्वप्रकारे शब्दा देवावगते सति तत्परित्यागेन अश्रुतापूर्वाख्यशक्तिकल्पनमनुपपन्नम् । 72यद्वाय्वादीनां फलसाधनत्वं72 “स एवैनं भूतिं गमयति” इत्यादिना प्रतीतं तद्वाय्वाद्यात्मनाऽऽराध्यतया फलदायित्वेनावस्थितस्य परमपुरुषस्यैवेति श्रूयते । “इष्टापूर्तम् (म. ना. 3-1-6) । इत्यादिका, “तदेवाऽग्निस्तद्वायुः” (म. ना. 3-1-17) इत्यादिका चेति । अतोऽपूर्वस्य देवताया वा न फलसाधनत्वमितिमन्वाद्युपादानं प्रदर्शनमात्रं न तु परिगणनमित्याशयेनाह - दौहित्रादीनिति । धर्मे विमोहितान् धर्मस्वरूप तदनुष्ठान तत्साधन तत्फलसाधनादिकमजानानान् अत एव शोच्यान् मृत्योः दौहित्रादीन् आदिशब्दः प्रकारे तत्सदृशानित्यर्थः । वेनादीन् ऋते विना सर्वेषां मते ईश्वरोऽस्तीत्यर्थः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

यत्पादसेवाभिरुचिस्तपस्विना-
मशेषजन्मोपचितं मलं धियः।
सद्यः क्षिणोत्यन्वहमेधती सती
यथा पदाङ्‍गुष्ठविनिःसृता सरित्॥

मूलम्

यत्पादसेवाभिरुचिस्तपस्विनामशेष73जन्मोपचितं मलं धियः।
सद्यः क्षिणोत्यन्वहमेधती सती यथा पदाऽङ्‍गुष्ठविनिस्सृता सरित्॥ ३१ ॥

वीरराघवः

एवं केवलकर्मणां तन्मूलकापूर्वस्य स्वातन्त्र्येण देवतायाश्च फलसाधनत्वाभावः परमपुरुषस्यैव साधनभावश्चोपपादितः । इदानीं तद्रढिम् तस्य भगवत्पादारविन्दभजनस्यैव अनर्थनिरासकत्वपूर्वकपुरुषार्थापादकत्वमाह - यत्पादेति । तपः सन्तापः आध्यात्मिकादिः । ‘तप-सन्तापे, इति धात्वर्थानुरोधात् तद्वतां तापत्रयातुराणां इत्यर्थः । यस्य भगवतः पादयोः या सेवा भक्तिः, तस्यामभिरुचिः अहरहः प्रवर्धमाना सती अनेकजन्मभिः अनन्तजन्मभिः उपचितं संवर्धितं धियो मनसः मलं सद्यः क्षिणोति क्षपयति । तमेव भजतेति तृतीयेनाऽन्वयः । तत्पादसम्बन्धस्य एष महिमेति दृष्टान्तेनाऽऽह - यथेति । यथा तत्पादाङ्गु74ष्ठात् विनिस्सृता सरित् गङ्गा मलं क्षिणोति तथेत्यर्थः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

विनिर्धुताशेषमनोमलः पुमा-
नसङ्गविज्ञानविशेषवीर्यवान्।
यदङ्घ्रिमूले कृतकेतनः पुन-
र्न संसृतिं क्लेशवहां प्रपद्यते॥

मूलम्

विनिर्धुताशेषमनोमलः पुमानसङ्गविज्ञानविशेषवीर्यवान्।
यदङ्घ्रिमूले कृतकेतनः पुनः न संसृतिं क्लेशवहां प्रपद्यते॥ ३२ ॥

वीरराघवः

किं मलक्षपणसाध्यं तत्राह - विनिर्घृतं निरस्तमशेषं मनोमलं यस्य । असङ्गो वैराग्यं, इदं साधनसप्तकोपलक्षणम् । विज्ञानं प्रकृतिविविक्तात्म याथात्म्यवेदनं ताभ्यां विशेष्यत इति विशेषः, अङ्गभूत ज्ञानकर्मकृतोपकार इत्यर्थः । तदेव वीर्यं बलं यस्य भक्तियोगस्य सोऽस्यास्तीति तथा, यस्य भगवतोऽङ्घ्रिमूले कृतकेतनः कृतस्थानः तदेकनिरतः । अनेन भक्तियोगस्य विजातीय प्रत्ययान्तराव्यवहितत्वं विवक्षितम् । ईदृशः पुमान् क्लेशवहां गर्भजन्म जरामरणादिक्लेशकारिणीं संसृतिं पुनः न प्रतिपद्यते ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

तमेव यूयं भजतात्मवृत्तिभि-
र्मनोवचःकायगुणैः स्वकर्मभिः।
अमायिनः कामदुघाङ्घ्रिपङ्कजं
यथाधिकारावसितार्थसिद्धयः॥

मूलम्

तमेव यूयं भजताऽऽत्मवृत्तिभिः मनोवचः कायगुणैः स्वकर्मभिः।
अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्ध75यः॥ ३३ ॥

अनुवाद (हिन्दी)

जिनके चरणकमलोंकी सेवाके लिये निरन्तर बढ़नेवाली अभिलाषा उन्हींके चरणनखसे निकली हुई गंगाजीके समान, संसारतापसे संतप्त जीवोंके समस्त जन्मोंके संचित मनोमलको तत्काल नष्ट कर देती है, जिनके चरणतलका आश्रय लेनेवाला पुरुष सब प्रकारके मानसिक दोषोंको धो डालता तथा वैराग्य और तत्त्वसाक्षात्काररूप बल पाकर फिर इस दुःखमय संसारचक्रमें नहीं पड़ता और जिनके चरणकमल सब प्रकारकी कामनाओंको पूर्ण करनेवाले हैं—उन प्रभुको आपलोग अपनी-अपनी आजीविकाके उपयोगी वर्णाश्रमोचित अध्यापनादि कर्मों तथा ध्यान-स्तुति-पूजादि मानसिक, वाचिक एवं शारीरिक क्रियाओंके द्वारा भजें। हृदयमें किसी प्रकारका कपट न रखें तथा यह निश्चय रखें कि हमें अपने-अपने अधिकारानुसार इसका फल अवश्य प्राप्त होगा॥ ३१—३३॥

वीरराघवः

तस्मात् स्वकर्मभिः 76स्ववर्णाश्रमोचितैः पञ्चमहायज्ञादिभिः आत्मवृत्तिभिः “शमो दमस्तपश्शौचं क्षान्तिरार्जवमेव च” (भ.गी. 18-42) इत्यादिस्थानोक्त शमादिभिः मनोवचः कायगुणैः ध्यानस्तुति परिचर्यादिभिः अमायिनो निष्कपटाः सन्तः, कथम्भूतम् ? कामं समीहितं दोग्धि प्रपूरयतीति कामदुधं तदङ्घ्रिपङ्कजं यस्य, यथाऽधिकारावसितार्थसिद्धयः । 77अधिकारः फलं77 अधि कर्मण्यधिकृत्य क्रियते साध्यते इति व्युत्पत्तेः । यथाधिकारं 78स्वस्वसमीहितं फलमनतिक्रम्य अवसिता निश्चिता अर्थसिद्धिः फलसिद्धिर्येषां ते स्वस्वसमीहि79तार्थानुसारेण फलसिद्धिः भाविनी इत्येवं निश्चितबुद्धय इत्यर्थः । निश्चयस्याऽपि अनुष्ठानोपयोगित्वात् संशयस्य अनर्थावहत्वात् । तथा च स्मर्यते - “नायं लोकोऽस्ति न परो न सुखं संशयात्मनः । अज्ञश्चाऽश्रद्दधानश्च संशयात्मा विनश्यति ।” (भ.गी. 4-40) इति ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

असाविहानेकगुणोऽगुणोऽध्वरः
पृथग्विधद्रव्यगुणक्रियोक्तिभिः।
सम्पद्यतेऽर्थाशयलिङ्गनामभि-
र्विशुद्धविज्ञानघनः स्वरूपतः॥

मूलम्

असाविहानेकगुणोऽगुणोऽध्व80रः पृथग्वि81धद्रव्यगुणक्रियोक्तिभिः।
सम्पद्यतेऽर्थाशयलिङ्गनामभिः विशुद्धविज्ञानघनः स्वरूपतः॥ ३४ ॥

अनुवाद (हिन्दी)

भगवान् स्वरूपतः विशुद्ध विज्ञानघन और समस्त विशेषणोंसे रहित हैं; किन्तु इस कर्ममार्गमें जौ-चावल आदि विविध द्रव्य, शुक्लादि गुण, अवघात (कूटना) आदि क्रिया एवं मन्त्रोंके द्वारा और अर्थ, आशय (संकल्प), लिंग (पदार्थ-शक्ति) तथा ज्योतिष्टोम आदि नामोंसे सम्पन्न होनेवाले, अनेक विशेषणयुक्त यज्ञके रूपमें प्रकाशित होते हैं॥ ३४॥

वीरराघवः

ननु कर्मणां द्रव्यदेवतादिभेदादेव भेदः । अन्यथा कर्मैक्यमेव स्यात् । ततश्च प्रतिनियतसाधनोपसंहार प्रयासो व्यर्थः स्यात् । एवं च कथमेकदेवतोद्देशेन सर्वकर्मानुष्ठानं कुरुतेत्युच्यते, तत्राह - असाविति । अत्र गुणाध्वर इति पाठः गुणोऽध्वर इति च । तत्र व्यस्तपाठे अगुण इति च्छेदः, भगवद्विशेषणं हेयगुणरहित इत्यर्थः । अनेकगुण इति शुभगुणविधानात् । समस्तपाठे तु अध्वरविशेषणं, सत्त्वादिगुणान्वित इत्यर्थः । कर्तृद्वारा तदन्वयो बोध्यः । तत्र स्वरूपतः स्वरूपेण विज्ञानघनः विज्ञानशब्देन अनुकूलात्मकं ज्ञानं विवक्षितम् । घनशब्देन तस्यैव सान्द्रत्वमभिप्रेतम् । विज्ञानैक स्वरूप इत्यर्थः । अगुणः निरस्तहेयगुणः, अनेक गुणः अनन्तकल्याणगुणः, योऽसौ परमात्मा स एव पृथग्विधानि द्रव्याणिव्रीह्याद्यपश्वादीनि गुणाः “शुक्लामालभेत” “कृष्णामालभेत” इत्यादि विध्युद्देशश्रुत शुक्लादयः, क्रियाः अवहननावेक्षणा लम्भनादयः उक्तयो मन्त्राः, पृथग्विधत्वं त्रिष्वप्यन्वेतव्यम् । पृथग्विधद्रव्यादिभिः अध्वरस्सन्, अध्वरस्य द्रव्यादिसंघातरूपत्वात् द्रव्यादीनां भगवच्छरीरत्वात् अध्वररूपो भूत्वेत्यर्थः, अर्थाशय लिङ्गनामभिः सम्पद्यते । अर्थः अध्वर प्रयोजनं स्वर्गादिरूपं फलं, तस्य आशयाः आश्रयभूतानि । 82जलाशय-कमलाशय-इति प्रयोगात्82 । लिङ्गानि अग्नीन्द्रादि रूप शरीराणि, नामानि वाचकाग्नीन्द्रादिशब्दाः तैः सम्पद्यते अग्नीन्द्रादिलिङ्गस्य फलाश्रयत्वं फलदानक्रियायाः अग्नीन्द्राद्याश्रितत्वात् बोध्यं, अध्वराराध्यत्वेन तत्फलदत्वेना वगताग्नीन्द्रादि नामरूपात्मको भवतीत्यर्थः । तथा च श्रुतिः- “यज्ञो वै विष्णुः” (तै.त्ति.सं 1,56, तै.त्ति.बा 1-2-5) “तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदुचन्द्रमाः, (म.ना.उ. 1-17) इति अग्नीन्द्रादिद्वारभेदेन द्रव्यादि भेदेन च कर्मणां भेदः । अग्न्याद्यन्तरात्मतयाऽवस्थितस्य परमपुरुषस्यैकस्यैव आराध्यत्व 83फलप्रदत्वाद्युपपत्तेः 84तात्पर्यतः84 एक देवताराधनत्वमपि उपपन्नमिति भावः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

प्रधानकालाशयधर्मसंग्रहे
शरीर एष प्रतिपद्य चेतनाम्।
क्रियाफलत्वेन विभुर्विभाव्यते
यथानलो दारुषु तद‍्गुणात्मकः॥

मूलम्

प्रधानकालाशय85कर्मसङ्ग्र86हे शरीर 87एष प्रतिपद्य चेत88नाम्।
क्रियाफलत्वेन विभुर्विभाव्यते यथाऽनलो दारुषु तद‍्गुणात्मकः॥ ३५ ॥

अनुवाद (हिन्दी)

जिस प्रकार एक ही अग्नि भिन्न-भिन्न काष्ठोंमें उन्हींके आकारादिके अनुरूप भासती है, उसी प्रकार वे सर्वव्यापक प्रभु परमानन्दस्वरूप होते हुए भी प्रकृति, काल, वासना और अदृष्टसे उत्पन्न हुए शरीरमें विषयाकार बनी हुई बुद्धिमें स्थित होकर उन यज्ञ-यागादि क्रियाओंके फलरूपसे अनेक प्रकारके जान पड़ते हैं॥ ३५॥

वीरराघवः

एवं कर्म तदाराध्यदेवतारूपत्वमुक्तम् । अथ कर्म 89फलभोक्तृजीवरूपत्वं तत्फलरूपत्वं चाह - प्रधानेति । एष भगवान् प्रधानं प्रकृतिः कालस्तद्गुणक्षोभकः, आशयो वासना, धर्मः अदृष्टम् एभिः सङ्गृह्यते उत्पद्यत इति । तथा तस्मिन् शरीरे चेतनां शब्दाद्यनुभवरूपं ज्ञानं प्रतिपद्य जीवद्वारा प्रतिपद्येत्यर्थः । तत्र जीवादिभिः सामानाधिकरण्ये च हेतुः - “विभुर्य आत्मनि तिष्ठन्” इत्युक्तरीत्या जीवान्तरात्मतयाऽवस्थानात् । सर्वजगदुपादान त्वादुपादानत्वस्य च भाव्यवस्थाविशेषवतः प्रागवस्थायोगित्व रूपत्वात् जीवं प्रति उपादानत्वेन च जीवधर्मभूत ज्ञान सङ्कोच विकासरूप विकाराश्रयत्वस्याऽपि जीवद्वारकत्वेन विभोः परस्य सत्त्वात् शब्दाद्यनुभवरूपचेतनां प्रतिपद्येत्युक्तम् । क्रियाफलत्वेन स्वर्गादिरूपतया विभाव्यते निश्चीयते । एवं कर्मतदाराध्य तत्फलभोक्तृ तत्फलरूयत्वमुक्तम् । तत्र कर्मादिगत दोषसंस्पर्शमाशङ्क्य तन्नेत्यभिप्रायेण दृष्टान्तमाह - यथेति । दारुषु अनलोऽग्निर्यथा तद्गुणात्मकः दारुगतदैर्ध्य वक्रत्वादिमान् प्रतीयते; तद्वत् वस्तुत एकरूपोऽप्यनलोऽधिष्ठानवैचित्र्याद्विचित्र इव प्रतीयते तथेत्यर्थः । 90सामानाधिकरण्येऽपि अयमेव दृष्टान्तः । वस्तुतः खादिरत्वादिव्यपदेशशून्योऽप्यनलः खादिरोऽनलः प्लक्षो नलः, नैयग्रोधोऽनलः इति खादिरत्वप्लक्षत्वनैयग्रोधत्वादिगुणकः90 सामानाधिकरण्येन व्यपदिश्यते 91खादिरादिदारुषु अभिव्याप्तेः । तद्वत् चेतनाचेतनेषु अभिव्याप्तत्वात् अभिव्याप्तिनिबन्धनेन सामानाधिकरण्येन व्यपदिश्यते91 इति ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

अहो ममामी वितरन्त्यनुग्रहं
हरिं गुरुं यज्ञभुजामधीश्वरम्।
स्वधर्मयोगेन यजन्ति मामका
निरन्तरं क्षोणितले दृढव्रताः॥

मूलम्

अहो 92ममाऽमी वितरन्त्यनुग्रहं हरिं गुरुं यज्ञभुजामधीश्वरम्।
स्वधर्मयोगेन यजन्ति मामका निरन्तरं क्षोणितले दृ93ढव्रताः॥ ३६ ॥

अनुवाद (हिन्दी)

अहो! इस पृथ्वीतलपर मेरे जो प्रजाजन यज्ञ-भोक्ताओंके अधीश्वर सर्वगुरु श्रीहरिका एकनिष्ठभावसे अपने-अपने धर्मोंके द्वारा निरन्तर पूजन करते हैं, वे मुझपर बड़ी कृपा करते हैं॥ ३६॥

वीरराघवः

तदेवं अप्रवृत्तान् भगवद्भजने प्रवर्त्य स्वतः प्रवृत्तानां प्रकृत्यभिनन्दनेन प्रथयति - अहो इति । ये भूतले मामकाः मद्विषयवासिनो जनाः दृढव्रताः दृढसङ्कल्पाः स्ववर्णा 94श्रमोचितधर्मयोगेन यज्ञभुजां इन्द्रदीनामधीश्वरं अन्तरात्मानं गुरुं हितोपदेष्टारं हरिं स्वाश्रित दुरितहरं नित्यं भजन्ति । ते अमी जनाः मम अनुग्रहं वितरन्ति कुर्वन्ति । अहो इति हर्षे ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

मा जातु तेजः प्रभवेन्महर्द्धिभि-
स्तितिक्षया तपसा विद्यया च।
देदीप्यमानेऽजितदेवतानां
कुले स्वयं राजकुलाद् द्विजानाम्॥

मूलम्

मा जातु तेजः प्रभवेन्महर्द्धिभिस्तितिक्षया 95तपसा विद्यया च।
देदीप्यमानेऽजितदेवतानां कुले स्वयं राज96कुलाद् द्विजानाम्॥ ३७ ॥

अनुवाद (हिन्दी)

सहनशीलता, तपस्या और ज्ञान इन विशिष्ट विभूतियोंके कारण वैष्णव और ब्राह्मणोंके वंश स्वभावतः ही उज्ज्वल होते हैं। उनपर राजकुलका तेज, धन, ऐश्वर्य आदि समृद्धियोंके कारण अपना प्रभाव न डाले॥ ३७॥

वीरराघवः

इदानीं भगवद्भक्तिदार्ढ्याय ब्राह्मणभक्तिं विधत्ते माजातु इत्यष्टभिः । तत्र तावत् ब्राह्मण कुलस्य राजकुल निग्रहाविषयत्वं प्रार्थयते । महर्धिभिः महत्यश्चताः ऋद्धयः ताभिः यत् राजकुलस्य तेजः तस्मात् सकाशात् द्विजानां कथम्भूतानाम्, अजितो भगवान् देवता येषां तेषां कुले जातु कदाचिदपि मा प्रभवेत् प्रभावं न करोतु । कथम्भूते ? समृद्धिभिः विनाऽपि स्वयमेव तितिक्षादिभिः देदीप्यमाने । यद्वा राजकुलस्य ब्राह्मणकुल निग्रहाविषयत्वं प्रार्थयते । अजितदेवतानां द्विजानां कुले तितिक्षया द्वन्द्व सहनेन तपसा कृच्छ्रादिना ब्रह्मोपासनया वा आतिथ्यया अतिध्याराधनया चकाराच्छमदमादिसङ्ग्रहः । एभिः देदीप्यमाने सति तेषां तेजः महर्द्धिभिः राजकुलाद्धेतोः कदाचित् मा प्रभवेत् महर्धिप्रयुक्त गर्वसहितात् राजकुलात् ब्राह्मणकुलं कुपितं मा भूदित्यर्थः । कुलद्वय मन्योन्यं यथायोग्यमनुगृह्णात्विति भावः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

ब्रह्मण्यदेवः पुरुषः पुरातनो
नित्यं हरिर्यच्चरणाभिवन्दनात्।
अवाप लक्ष्मीमनपायिनीं यशो
जगत्पवित्रं च महत्तमाग्रणीः॥

मूलम्

ब्रह्मण्यदेवः पुरुषः पुरातनो नित्यं हरिर्यच्चरणाभिवन्दनात्।
अवाप लक्ष्मीमनपायिनीं यशो जगत्पवित्रं च महत्तमाग्रणीः॥ ३८ ॥

अनुवाद (हिन्दी)

ब्रह्मादि समस्त महापुरुषोंमें अग्रगण्य, ब्राह्मणभक्त, पुराणपुरुष श्रीहरिने भी निरन्तर इन्हींके चरणोंकी वन्दना करके अविचल लक्ष्मी और संसारको पवित्र करनेवाली कीर्ति प्राप्त की है॥ ३८॥

श्लोक-३९

विश्वास-प्रस्तुतिः

यत्सेवयाशेषगुहाशयः स्वराड्
विप्रप्रियस्तुष्यति काममीश्वरः।
तदेव तद्धर्मपरैर्विनीतैः
सर्वात्मना ब्रह्मकुलं निषेव्यताम्॥

मूलम्

यत्सेवयाऽशेष97गुहाशयः स्वराड् विप्रप्रियस्तुष्यति काममीश्वरः।
तदेव तद्धर्मपरैर्विनीतैः सर्वात्मना ब्रह्मकुलं निषेव्यताम्॥ ३९ ॥

अनुवाद (हिन्दी)

आपलोग भगवान‍्के लोकसंग्रहरूप धर्मका पालन करनेवाले हैं तथा सर्वान्तर्यामी स्वयंप्रकाश ब्राह्मणप्रिय श्रीहरि विप्रवंशकी सेवा करनेसे ही परम सन्तुष्ट होते हैं,अतः आप सभीको सब प्रकारसे विनयपूर्वक ब्राह्मणकुलकी सेवा करनी चाहिये॥ ३९॥

वीरराघवः

यच्चरणाभिवन्दनात् - येषां 98ब्रह्मणानां98 चरणाभिवन्दनात् हरिः लक्ष्मीं 99अनपायिनीं99 जगत्पवित्रं यशश्च अवाप । यत्सेवया च ईश्वरः तुष्यति, तदेव ब्रह्मकुलं निषेव्यतामिति द्वयोरन्वयः । हरिं विशिनष्टि - ब्रह्मण्य देवः ब्राह्मणसेवा परायणानां मन्वादीनामपि देवः पुराणः पुरुष इति । न चैवं ईश्वरस्य लक्ष्मी यशसः सम्बन्धस्य सोपाधिकत्व प्रसङ्गः । भगवदितरेषां यश आदि सम्बन्धस्य ब्राह्मणसेवायत्ततैक कथनमात्र तात्पर्यकत्वात् अस्य श्लोकस्य अर्थवादवाक्यस्य स्वार्थे तात्पर्याभावात्, विधेः स्तावकत्वात् । न च अर्थवादस्य स्वार्थे तात्पर्यभावे सति इतरेषामपि यशआदि सम्बन्धेऽपि तात्पर्यं नास्तीति वक्तुं शक्यम् । ब्राह्मण सेवाविध्यपेक्षित फलसमर्थकत्वेन तत्र तात्पर्यनिश्चयात् । न ह्यसता गुणेन प्ररोचना सम्भवति, न च “पयः पिब शिखा ते वर्धते, इति बाला द्युपच्छन्दन वाक्ये असताऽपि गुणेन प्ररोचना दृश्यत इति वाच्यम् । तत्राऽपि यद्यसत्व निश्चयः तर्ह्यप्रवृत्तेः प्रवृत्त्यर्थ प्ररोचनाया एवाऽनुपपत्तेः । तस्मात् तत्र असत्तामजा100नतां बालानां पयःपानादि प्रवृत्त्यर्थं शिखा वर्धनादिकं असदपि फलत्वेन कीर्त्यते । तत्र असत्वं प्रत्यक्षतः अवगतं, इह तु मन्वादिषु ब्राह्मणसेवकेषु यशस्सम्बन्धस्यैव प्रत्यक्षतुल्यशास्त्रेण अवगमात् असत्तानिश्चायकस्य प्रमाणान्तरस्य अभावात् । न च तेषां तत्सम्बन्धे ब्राह्मण सेवातिरिक्तं अदृष्टान्तरमेव कारणमिति वक्तुं युक्तम्, अदृष्टान्तरस्याऽपि स्वस्ववर्णाश्रमैकान्त नित्य नैमित्तिकादि पूर्वक याग जन्यत्वात् स्व स्व वर्णाश्रम धर्मेषु ब्राह्मणसेवायाः अपि अनुप्रविष्टत्वात् । स्वराट् स्वतन्त्रः अकर्मवश्यः, तथाऽपि विप्रप्रियः विप्राधीनः बहुव्रीहि षष्ठी तत्पुरुष समासद्वयेन अन्योन्यं भृशं प्रीतिविषयत्वलाभात् विषयवैलक्षण्याधीन त्वात् पारतन्त्र्यस्य स्वतन्त्रास्यापि स्वेच्छया पारतन्त्योपपत्तेः ईश्वरः तुष्यति । ईश्वरस्य कर्मवश्यत्वं नाम देव मनुष्यादि सजातीयचेष्टां कुर्वतोऽपि तच्चेष्टायत्त सुखदुःखाद्यस्पर्शनं चेति विप्रतिषिद्धम्, यच्छेष्टनं तत्प्रयुक्तसुखाद्यस्पर्शनं चेति विप्रतिषिद्धमिति शङ्कयम् । 101स्वर्गिना रकव्यापारेषु तथा दर्शनात् । एवञ्च, ईश्वरस्य ब्राह्मण सेवा तदभाव जन्यसुखाद्यस्पर्शिनोऽपि तत्सेवापरायणत्व कथनेन द्विजसेवायाः आवश्यकत्वद्योतनाय स्वराडिति विशेषणम् । नन्वन्यसेवया अन्यः कथं तुष्येत् । तत्राह अशेषगुहाश्यः । सेवकसेव्ययोरुभयोरपि हृदयगुहायां तदन्तरात्मतया निविष्टत्वेन सेवाजन्य द्विजादिनिष्ठ प्रीतेरपि द्विजातिद्वाराऽऽश्रयस्सन् सेवकनिष्ठसेवाश्रद्धादिकमेवक्ष्य तुष्यतीत्यर्थः । कामं तुष्यतीत्यनेन द्विजसेवातः अधिकः तोषहेतुर्नास्तीति द्योत्यते । तस्मात् द्विजसेवायाः यश आदि हेतुत्वात् 102भगवत्तोषहेतुत्वाच्च102 तद्धर्मपरैः द्विज सेवैकशीलैः तदुपयुक्तं गुणमाह - विनीतैः एकविशेषणोपादानेन द्विजप्रसादननियममन्तरेण अन्यो हेतुरनपेक्षित 103इति सूचितम् । सर्वात्मना करणत्रयैक्येन ब्रह्मकुलं निषेव्यताम् ॥ ३८, ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

पुमाल्ँलभेतानतिवेलमात्मनः
प्रसीदतोऽत्यन्तशमं स्वतः स्वयम्।
यन्नित्यसम्बन्धनिषेवया ततः
परं किमत्रास्ति मुखं हविर्भुजाम्॥

मूलम्

पुमाल्ँलभेता104नतिवेलमात्मनः 105प्रसीदतोऽत्यन्तशमं स्वतः स्वयम्।
यन्नित्यसम्बन्धनिषेवया ततः परं किमत्रास्ति 106मुखं हविर्भुजाम्॥ ४० ॥

अनुवाद (हिन्दी)

इनकी नित्य सेवा करनेसे शीघ्र ही चित्त शुद्ध हो जानेके कारण मनुष्य स्वयं ही (ज्ञान और अभ्यास आदिके बिना ही) परम शान्तिरूप मोक्ष प्राप्त कर लेता है। अतः लोकमें इन ब्राह्मणोंसे बढ़कर दूसरा कौन है जो हविष्यभोजी देवताओंका मुख हो सके?॥ ४०॥

वीरराघवः

किञ्च, “प्रसादे सर्वदुःखानां हानिरस्योपजायते प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ (भ.गी. 2-65) इत्युक्तरीत्या सर्वदुःखहानि हेतु भूत मनः प्रसाद निर्वर्तकत्वादपि द्विजसेवैव कार्येत्याह - पुमानिति । येषां ब्राह्मणानां नित्यसन्बन्धरूप सेवया पुमान् अनतिवेलं शीघ्रं स्वयमेव प्रयत्नान्तरमन्तरेणैव प्रसीदतः आत्मनः मनसः शमं शान्तिं लभेत । ततः 107शान्तान्मनसः107 108परं किमस्ति साध्यम् इति शेषः । शान्तमनसा असाध्यं किञ्चिदापि नास्तीत्यर्थः । किञ्च, हविर्भुजां इन्द्रादीनां मुखं ब्राह्मणकुलं ब्राह्मणसेवयैव तन्मुखानां हविर्भुजां यज्ञाराध्य देवानामपि सेवा कृता स्यात् । “ब्राह्मणोऽस्य मुखमासीत्, (तैत्ति. उ. 3-36-37) इति ब्राह्मणकुलस्य भगवदावेशावतारस्य ब्रह्मणो मुखत्वात् (पु. सू. 1-5) तदाराधनेनैव हविर्भुगन्तरात्मतया अवस्थितः परमात्मा तुष्यतीति ब्राह्मणा एव अन्नादिभिराराध्या इति भावः ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

अश्नात्यनन्तः खलु तत्त्वकोविदैः
श्रद्धाहुतं यन्मुख इज्यनामभिः।
न वै तथा चेतनया बहिष्कृते
हुताशने पारमहंस्यपर्यगुः॥

मूलम्

अश्नात्यनन्तः खलु तत्त्वकोविदैः श्रद्धाहुतं यन्मुख 109इज्यनामभिः।
न वै तथा चेतनया बहिष्कृते हुताशने पारमहंस्य110पर्यगुः॥ ४१ ॥

अनुवाद (हिन्दी)

उपनिषदोंके ज्ञानपरक वचन एकमात्र जिनमें ही गतार्थ होते हैं, वे भगवान् अनन्त इन्द्रादि यज्ञीय देवताओंके नामसे तत्त्वज्ञानियोंद्वारा ब्राह्मणोंके मुखमें श्रद्धापूर्वक हवन किये हुए पदार्थको जैसे चावसे ग्रहण करते हैं, वैसे चेतनाशून्य अग्निमें होमे हुए द्रव्यको नहीं ग्रहण करते॥ ४१॥

वीरराघवः

ननु “अग्निमुखा वै देवाः” इति देवानामग्निमुखत्वश्रवणात् अग्नौ हुतमेव हविर्भुगन्तरात्मभूत परमात्म प्रीतये भविष्यति । तत्राह - अश्नातीति । सत्यमग्निरपि तन्मुखमिति, तथाऽपि तत्त्वकोविदैः ब्राह्मणानां भगवत्प्रियतमशरीर त्वं जानद्भिः “न ब्राह्मणान्मे दयितं रूपमेतच्चतुर्भुजम्” (भाग. 10-86-54) इति भगवद्वचनात् । इज्यनामभिः आराध्येन्द्रादिनामभिः यस्य ब्राह्मणस्य मुखे श्रद्धया हुतं हविरनन्तो भगवान् यथा अश्नाति, तथा चेतनया 111बहिष्कृते111 रहिते हुताशने अग्नौ हुतं नाश्नाति कुत एवम्भूतोऽसौ तत्राह - पारमहंस्यपर्यगुः, परमहंसा भगवदुपासकाः तेषां भावः कर्म वा पारमहंस्यं, ज्ञाननिष्ठेति यावत् । यद्वा चतुर्वर्णादित्वात् स्वार्थेष्यञ्, परमहंसा एव पारमहंस्याः, तान् परित्यज्य न गच्छति 112अगुः । गाङ् गता वित्यस्मान्नञ् पूर्वा113त् “कुर्भ्रश्चे” त्यौणादिक सूत्रे प्राक् प्रत्ययनिर्देशात् धात्वन्तरादपि कुप्रत्ययस्याभ्युपगमात् कुप्रत्यये “आतो लोप इटिं च” (अष्टा. 6-4-64) इत्यालोपः । न च तत्राऽपि सन्वद्भावस्याऽपि विधानात् द्वित्वापत्तिः, बहुल ग्रहणा त्तदभावात् । यद्वा मृगय्वादेराकृतिगणत्वात् कुप्रत्ययः । “प्रियो हि ज्ञानिनोत्यर्थमहं स च मम प्रियः ।” (भ.गी. 7-17) “ज्ञानीत्वात्मैव मे मतम्” (भ.गी. 7-18) इति भगव114दुक्तरीत्या निरतिशयप्रीतिविषयान् परमहंसान् अत्यादरेणावेक्षमाणस्तत्रैव नित्यं सन्निहित इति तस्मिन् दत्तं साक्षात् स्वमुखेन्यस्तमिव भुङ्क्त इति भावः ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

यद‍्ब्रह्म नित्यं विरजं सनातनं
श्रद्धातपोमङ्गलमौनसंयमैः।
समाधिना बिभ्रति हार्थदृष्टये
यत्रेदमादर्श इवावभासते॥

मूलम्

यद‍्ब्रह्म नित्यं विरजं सनातनं श्रद्धातपोमङ्गलमौनसंयमैः।
समाधिना बिभ्र 115दिहार्थदृष्टये यत्रेदमादर्श इवावभासते॥ ४२ ॥

वीरराघवः

न केवलं चेतनत्वेन हुताशना द्विशेषः, किन्तु, वेद तदर्थ ज्ञानानुष्ठानादिनापीत्याह - यदिति । यद्बह्मकुलं विरजं रागाद्यपेतं भ्रमप्रमादादि पुरुषदोष विनिर्मुक्तं च सनातनमनादि ब्रह्म परं ब्रह्म तत्स्वरूपप्रकाशकं वेदं च श्रद्धा उपासनाया मध्ययनाध्यापन जपपारायणादिषु त्वरा 116तपः उपासनोपयुक्त ज्ञान कर्म योगः । अध्ययनाद्युपयुक्तकाण्डव्रतादिश्च कर्म योगस्य कृच्छ्रादिरूपानशनादिगर्भत्वात् तपश्शब्देनाभिधानं युक्तम् । मङ्गलं विशुद्धाचारः मौनं वाङ्नियमः आरम्भणसंशीलनं च संयमः ध्यानोपयुक्तशमदमादिः अध्ययनादुपयुक्तकरणनियमश्च समाधिना ध्यानेन धारणया च अर्थदृष्टये अर्थः पुरुषार्थरूपं ब्रह्म अभिधेयं यज्ञोपासना श्च तद्दृदृष्टये तत्साक्षात्काराय 117तज्ज्ञानाय117 च इहा स्मिल्लोके बिभ्रद्विभ्राणं यत् ब्राह्मणकुलम् । पुनर्ब्रह्म विशिनष्टि- यत्र ब्रह्मणि परस्मिन् वेदे च इदं विश्वं परमात्मस्वरूपादिकं च आदर्श इव 118दर्पण इव118 अवभासते प्रकाशते ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

तेषामहं पादसरोजरेणु-
मार्या वहेयाधिकिरीटमाऽऽयुः।
यं नित्यदा बिभ्रत आशु पापं
नश्यत्यमुं सर्वगुणा भजन्ति॥

मूलम्

तेषामहं पादसरोजरेणुमार्या वहेयाधिकिरीट 119मायुः।
यं नित्यदा बिभ्रत आशुपापं 120नश्यत्यमुं सर्वगुणा भजन्ति॥ ४३ ॥

अनुवाद (हिन्दी)

सभ्यगण! जिस प्रकार स्वच्छ दर्पणमें प्रतिबिम्बका भान होता है—उसी प्रकार जिससे इस सम्पूर्ण प्रपंचका ठीक-ठीक ज्ञान होता है, उस नित्य, शुद्ध और सनातन ब्रह्म (वेद)-को जो परमार्थ-तत्त्वकी उपलब्धिके लिये श्रद्धा, तप, मंगलमय आचरण, स्वाध्यायविरोधी वार्तालापके त्याग तथा संयम और समाधिके अभ्यासद्वारा धारण करते हैं, उन ब्राह्मणोंके चरणकमलोंकी धूलिको मैं आयुपर्यन्त अपने मुकुटपर धारण करूँ; क्योंकि उसे सर्वदा सिरपर चढ़ाते रहनेसे मनुष्यके सारे पाप तत्काल नष्ट हो जाते हैं और सम्पूर्ण गुण उसकी सेवा करने लगते हैं॥ ४२-४३॥

वीरराघवः

तेषां ब्राह्मणानां पादसरोजरेणुं हे आर्याः ! आयुः आ आयुः इत्याङ्प्रश्लेषोऽत्र बोध्यः, यावज्जीवमित्यर्थः । अधिकिरीटं मुकुटोपरि वहेयेति प्रार्थनायां लिङ्; किं तद्वहन साध्यं तत्राह - यं ब्राह्मण पादसरोजरेणुं नित्यदा बिभ्रतः वहतः पुरुषस्य पापमाशु 121नश्यति अमुं वहन्तं सर्वगुणा कल्याणगुणाः भजन्ति आश्रयन्ते ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

गुणायनं शीलधनं कृतज्ञं
वृद्धाश्रयं संवृणतेऽनु सम्पदः।
प्रसीदतां ब्रह्मकुलं गवां च
जनार्दनः सानुचरश्च मह्यम्॥

मूलम्

गुणाऽऽ122लयं शीलधनं कृतज्ञं 123श्रद्धाश्रयं संवृणतेऽनु सम्पदः।
प्रसीद124तां ब्रह्मकुलं गवां च जनार्दनः सानुचरश्च मह्यम्॥ ४४ ॥

अनुवाद (हिन्दी)

उस गुणवान्, शीलसम्पन्न, कृतज्ञ और गुरुजनोंकी सेवा करनेवाले पुरुषके पास सारी सम्पदाएँ अपने-आप आ जाती हैं। अतः मेरी तो यही अभिलाषा है कि ब्राह्मणकुल, गोवंश और भक्तोंके सहित श्रीभगवान् मुझपर सदा प्रसन्न रहें॥ ४४॥

वीरराघवः

तं च गुणालयं शुभगुणाश्रयं शीलमेव धनं यस्य तं, कृतमुपकारं जानातीति कृतज्ञं, वृद्धान् ज्ञानाधिकान् आश्रयत इति तं, सर्वाः सम्पदः संवृणते, वृणतेर्लट् । “आत्मने पदेष्वनतः” (अष्टा. 3-1-54) इति झस्यादादेशः, “श्नाभ्यस्तयो रातः” (अष्टा. 6-4-112) इत्यालोपः । सम्यक् भजन्ते उपसंहरन्ति । ब्रह्मकुलं द्विजकुलं गवां च कुलं सानुचरः सभक्तः भगवांश्च मह्यं प्रसीदताम् ॥ ४४ ॥

श्लोक-४५

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

इति ब्रुवाणं नृपतिं पितृदेवद्विजातयः।
तुष्टुवुर्हृष्टमनसः साधुवादेन साधवः॥

मूलम्

इति ब्रुवाणं नृपतिं पितृदेवद्विजातयः।
तुष्टुवुर्हृष्टमनसः साधुवादेन साधवः॥ ४५ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—महाराज पृथुका यह भाषण सुनकर देवता, पितर और ब्राह्मण आदि सभी साधुजन बड़े प्रसन्न हुए और ‘साधु! साधु!’ यों कहकर उनकी प्रशंसा करने लगे॥ ४५॥

वीरराघवः

एवं वदन्तं नृपतिं पृथुं पित्रादयः साधवः गुणज्ञास्तुष्टमनसः साधुवादेन साधु साध्विति वादेन तुष्टुवुः स्तुतवन्तः ॥ ४४ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

पुत्रेण जयते लोकानिति सत्यवती श्रुतिः।
ब्रह्मदण्डहतः पापो यद्वेनोऽत्यतरत्तमः॥

मूलम्

पुत्रेण जयते 125लोकानिति सत्यवती श्रुतिः।
ब्रह्मदण्डहतः पापो यद्वेनोऽत्यतरत्तमः॥ ४६ ॥

अनुवाद (हिन्दी)

उन्होंने कहा, ‘पुत्रके द्वारा पिता पुण्यलोकोंको प्राप्त कर लेता है’ यह श्रुति यथार्थ है; पापी वेन ब्राह्मणोंके शापसे मारा गया था; फिर भी इनके पुण्यबलसे उसका नरकसे निस्तार हो गया॥ ४६॥

वीरराघवः

स्तुतिमेवाह पुत्रेणेति । पुत्रेण लोकान् पुण्यलोकान् पिता जयति साधयतीति श्रुतिः जनश्रुतिः सत्यवती अबाधिता, पुत्रेणेति पुत्रशब्दावयवार्थ विषयभूतेनेत्यर्थः । पुं (पुत्) संज्ञकान्नरकात् त्रायते इति । हि पुत्रशब्दं निदर्शयन्ति । यत् यस्माद्वेनोऽपि तमः नरकम् अतरत् ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

हिरण्यकशिपुश्चापि भगवन्निन्दया तमः।
विविक्षुरत्यगात्सूनोः प्रह्रादस्यानुभावतः॥

मूलम्

हिरण्यकशिपुश्चाऽपि भगवन्निन्दया तमः।
विविक्षुरत्यगात्सूनोः प्रह्रादस्यानुभावतः॥ ४७ ॥

अनुवाद (हिन्दी)

इसी प्रकार हिरण्यकशिपु भी भगवान‍्की निन्दा करनेके कारण नरकोंमें गिरनेवाला ही था कि अपने पुत्र प्रह्लादके प्रभावसे उन्हें पार कर गया॥ ४७॥

वीरराघवः

तथा हिरण्यकशिपुरपि भगवन्निन्दया तमो विविक्षुः प्रवेशमाशङ्कितः “आशङ्कायां सन् वक्तव्यः, (अष्टा. 6-4-17 वार्तिकम्) इति सन्नन्तात् “सनाशंसभिक्षउः, (अष्टा. 3-2-168) इत्युः, सूनोः प्रह्लादस्यानुभावतः प्रभावात् तमः नरकं अत्यगात् अतिक्रम्य भगवन्तमगादित्यर्थः ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

वीरवर्य पितः पृथ्व्याः समाः सञ्जीव शाश्वतीः।
यस्येदृश्यच्युते भक्तिः सर्वलोकैकभर्तरि॥

मूलम्

वीरवर्य 126पितः ! पृथ्व्याः समाः सञ्जीव शाश्वतीः।
यस्येदृश्यच्युते भक्तिः सर्वलोकैकभर्तरि॥ ४८ ॥

अनुवाद (हिन्दी)

वीरवर पृथुजी! आप तो पृथ्वीके पिता ही हैं और सब लोकोंके एकमात्र स्वामी श्रीहरिमें भी आपकी ऐसी अविचल भक्ति है, इसलिये आप अनन्त वर्षोंतक जीवित रहें॥ ४८॥

वीरराघवः

तस्माद्धे वीरश्रेष्ठ ! पृथ्व्याः पति स्त्वं शाश्वतीः समाः संवत्सरान् सञ्जीव । “कालाध्वनोरत्यन्तसंयोगे, (अष्टा. 2-3-5) इति द्वितीया । यस्य तव सर्वलोकानामेकस्मि” न्नद्वितीये भर्तर्यच्युते इदृशी भक्तिरस्ति ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

अहो वयं ह्यद्य पवित्रकीर्ते
त्वयैव नाथेन मुकुन्दनाथाः।
य उत्तमश्लोकतमस्य विष्णो-
र्ब्रह्मण्यदेवस्य कथां व्यनक्ति॥

मूलम्

अहो वयं 127ह्यद्य पवित्र128कीर्ते त्वयैव नाथेन मुकुन्दनाथाः।
129य उत्तमश्लोकतमस्य विष्णोर्ब्रह्मण्यदेवस्य कथां व्यन130क्ति॥ ४९ ॥

अनुवाद (हिन्दी)

आपका सुयश बड़ा पवित्र है; आप उदारकीर्ति ब्रह्मण्यदेव श्रीहरिकी कथाओंका प्रचार करते हैं। हमारा बड़ा सौभाग्य है; आज आपको अपने स्वामीके रूपमें पाकर हम अपनेको भगवान‍्के ही राज्यमें समझते हैं॥ ४९॥

वीरराघवः

हे पवित्रकीर्ते ! वयं त्वयैव नाथेन मुकुन्दनाथाः त्वन्नाथत्वमेवामस्माकं मुकुन्दनाथत्वे पर्यवसितमित्यर्थः । कुतः ? यो भवान् ब्रह्मण्य देवस्य उत्तमश्लोकस्य विष्णोः कथां व्यनक्ति प्रकाशयति ॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

नात्यद‍्भुतमिदं नाथ तवाजीव्यानुशासनम्।
प्रजानुरागो महतां प्रकृतिः करुणात्मनाम्॥

मूलम्

नात्य131द‍्भुतमिदं नाथ 132तवाजीव्यानुशासनम्।
प्रजानुरागो महतां प्रकृतिः करुणात्मनाम्॥ ५० ॥

अनुवाद (हिन्दी)

स्वामिन्! अपने आश्रितोंको इस प्रकारका श्रेष्ठ उपदेश देना आपके लिये कोई आश्चर्यकी बात नहीं है; क्योंकि अपनी प्रजाके ऊपर प्रेम रखना तो करुणामय महापुरुषोंका स्वभाव ही होता है॥ ५०॥

वीरराघवः

हे नाथ! तब आजीव्यानुशासनं राजानमजीवन्ति उपजीवन्तिमाजीव्याः तेषामस्माकम् अनुशासनमिति यदिदं नाऽत्यद्भुतं, कुतः ? महात्मनां करुणात्मनां कृपास्वभावानां प्रजास्वनुरागः प्रकृतिः स्वभावः ॥ ५० ॥

श्लोक-५१

विश्वास-प्रस्तुतिः

अद्य नस्तमसः पारस्त्वयोपासादितः प्रभो।
भ्राम्यतां नष्टदृष्टीनां कर्मभिर्दैवसंज्ञितैः॥

मूलम्

अद्य नस्तमसः पारस्त्वयोपासादितः प्रभो।
भ्राम्यतां नष्टदृष्टीनां कर्मभिर्दैवसंज्ञितैः॥ ५१ ॥

अनुवाद (हिन्दी)

हमलोग प्रारब्धवश विवेकहीन होकर संसारारण्यमें भटक रहे थे; सो प्रभो! आज आपने हमें इस अज्ञानान्धकारके पार पहुँचा दिया॥ ५१॥

वीरराघवः

हे प्रभो ! दैवसंज्ञितैः दैवापरपर्यायैः कर्मभिः भ्रमतां संसरतां अत एव नष्टदृष्टीनां नोऽस्माकं अधुना त्वया तमसः नरकस्य पारस्तीरमुपासादितः प्रापितः ॥ ५१ ॥

श्लोक-५२

विश्वास-प्रस्तुतिः

नमो विवृद्धसत्त्वाय पुरुषाय महीयसे।
यो ब्रह्म क्षत्रमाविश्य बिभर्तीदं स्वतेजसा॥

मूलम्

नमो विवृद्ध133सत्त्वाय पुरुषाय महीयसे।
यो ब्रह्मक्षत्रमाविश्य बिभर्तीदं स्वतेजसा॥ ५२ ॥

अनुवाद (हिन्दी)

आप शुद्ध सत्त्वमय परमपुरुष हैं, जो ब्राह्मणजातिमें प्रविष्ट होकर क्षत्रियोंकी और क्षत्रियजातिमें प्रविष्ट होकर ब्राह्मणोंकी तथा दोनों जातियोंमें प्रतिष्ठित होकर सारे जगत‍्की रक्षा करते हैं। हमारा आपको नमस्कार है॥ ५२॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे एकविंशोऽध्यायः॥ २१॥

वीरराघवः

ईश्वरदृष्ट्या प्रणमन्ति नम इति । ब्राह्मणजातिमधिष्ठाय134 यः क्षत्त्रं बिभर्ति, क्षत्त्रमाविश्य ब्रह्मकुलं बिभर्ति, तदुभयमाविश्य इदं विश्वं बिभर्ति, तस्मै भरणोपयुक्तगुणमाह विवृद्धसत्त्वाय रजस्तमोभ्या मनभिभूतसत्त्वप्रचुराय, अत एव महीयसे 135पुरूषाय परमपुरुषविभूतिभूताय तुभ्यं नमः ॥ ५२ ॥

इति श्रीमद्भागवते चतुर्थस्कन्धे श्री वीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां एकविंशोऽध्यायः ॥ २१ ॥


  1. A,B,G,I,J,M,Ma,Ms,T मम्र ↩︎

  2. V च ↩︎

  3. V,W ग ↩︎

  4. M,Ma,Ms यै; W कै ↩︎

  5. A,G,I,J,MS,V र्भि ↩︎

  6. A,B,T तौक्मैः ↩︎

  7. A अर्चिर्भिः ↩︎

  8. A,B,G,I,J,T सवृन्दैः; M,Ma,Ms संवृतैः; V संवृत्तं ↩︎

  9. W अभिजग्मुर्मुष्टकन्याः ↩︎ ↩︎

  10. A,B,T निघ ↩︎

  11. A,B,T अभीयुः । ↩︎ ↩︎

  12.  ↩︎
  13. A,B,T त्तर ↩︎

  14. A,B,T आरुरोह ↩︎

  15. Ms बादरायणिः ↩︎ ↩︎

  16. M,Ma,Ms शुत्वादि ↩︎

  17. V दोषै ↩︎

  18. M,Ma,Ms गुरुं सम ↩︎

  19. A,B,T omit ↩︎ ↩︎

  20. A,B,G,I,J,T त्स ↩︎

  21. A,B,T उक्त ↩︎

  22. A,B,T omit बाहुभ्यां ↩︎

  23. A,B,T तुच्छ ↩︎ ↩︎

  24. B omits ↩︎ ↩︎

  25. V प्रा ↩︎

  26. A,B,T धि ↩︎

  27. A,B,T बुद्धिः, अतो ↩︎

  28. A,B,T भोगे ↩︎

  29. A,B,G,I,J,M,Ma,Ms,T धृक् ↩︎

  30. W omits अप्रतिहतः ↩︎

  31. A,B,G,I,J,T राज ↩︎

  32. M,Ma,Ms स सदो ↩︎

  33. A,B,T omit सर्वेषु ↩︎

  34. A,T देवेनेति ↩︎

  35. V ऽऽयते ↩︎

  36. M,Ma सुद्विजः स्मितः; Ms सुस्मितद्विजः ↩︎ ↩︎

  37. A,B,T नासिका ↩︎

  38. M,Ma वलीवल्गुतरोदरः; W दलवत्पल्लवोदरः ↩︎

  39. M,Ma वाक् ↩︎

  40. A,B,T मञ्जु ↩︎

  41. A,B,T न्निम्ना ↩︎

  42. W धनदु ↩︎

  43. A,B,G,I,J,Ma,Ms,T धा ↩︎

  44. M,Ma,Ms धाय ↩︎

  45. M,Ma,Ms तानै ↩︎

  46. W उक्त ↩︎

  47. M,Ma सदस्यान् ह ↩︎

  48. A,B,T चारुश्रोत्रप्रियं चारूणि ↩︎ ↩︎

  49. An extra half verse is found in A,B,G,I,J&T Edns. ↩︎ ↩︎ ↩︎

  50. A,B,G,I,J,T,W राजा ↩︎

  51. M,Ma तेषु ↩︎

  52. M,Ma,Ms द्यदा ↩︎

  53. A,B,T रक्षादि ↩︎

  54. M,Ma,Ms भागं ↩︎

  55. M,Ma,Ms अप्यन ↩︎

  56. M,Ms धियं ↩︎

  57. A,B,T omit ↩︎ ↩︎

  58. A,B,T omit ↩︎ ↩︎

  59. A omits ↩︎ ↩︎

  60. W ल्यबन्त ↩︎

  61. A,B,G,I,J,T,V दर्ह ↩︎

  62. V दृश्यन्ते ↩︎

  63. A,B अ ↩︎

  64. W omits ↩︎ ↩︎

  65. A,B,T ति ↩︎

  66. A,B,T omit सर्वज्ञत्व ↩︎

  67. A,B,T omit परमात्म ↩︎

  68. M,Ma,Ms भृतः ↩︎

  69. अस्य श्लोकस्य पूर्वार्धोत्तरार्धयोः व्यत्ययेन पाठः M,Ma,Ms ग्रन्थेषु मुद्रितः । ↩︎

  70. M,Ma,Ms राज्य ↩︎

  71. M,Ma,Ms ता । ↩︎

  72. A,B,T द्वारेण फलसाधनत्वं ↩︎ ↩︎

  73. A,T जन्मा ↩︎

  74. A,B,T ष्ठवि ↩︎

  75. M,Ma,Ms ये ↩︎

  76. A,B,T omit स्व ↩︎

  77. A,B,T omit ↩︎ ↩︎

  78. A,B,T omit स्व ↩︎

  79. W तानु ↩︎

  80. M,Ma,Ms गुणाध्वरैश्शता ↩︎

  81. M,Ma,Ms धैः धर्म ↩︎

  82. W omits ↩︎ ↩︎

  83. W फलद ↩︎

  84. A,B,T स्वारस्यतः ↩︎ ↩︎

  85. A,B,G,I,J,T,V धर्म ↩︎

  86. M,Ma,Ms हः ↩︎

  87. M,Ma,Ms शेषं ↩︎

  88. M,Ma,Ms नः ↩︎

  89. A,B,T omit फल ↩︎

  90. A,B,T omit ↩︎ ↩︎

  91. A,B,T omit ↩︎ ↩︎

  92. M,Ma,Ms बतामी ↩︎

  93. M,Ma,Ms धृत ↩︎

  94. A,B,T omit उचित ↩︎

  95. W साऽऽतिथ्यया च ↩︎

  96. M,Ma,Ms कुले ↩︎

  97. M,Ma,Ms गुणाश्रयः ↩︎

  98. A,B,T omit ↩︎ ↩︎

  99. A,B,T omit ↩︎ ↩︎

  100. T नानां ↩︎

  101. A,B,T स्वार्ग ↩︎

  102. A,B,T omit ↩︎ ↩︎

  103. W इव ↩︎

  104. M,Ma,Ms प्यति ↩︎

  105. M,Ma,Ms प्रसा ↩︎

  106. M,Ma,Ms सुखं ↩︎

  107. A,B,T शान्तमनसः ↩︎ ↩︎

  108. A,B,T omit परं ↩︎

  109. M,Ma इड्य ↩︎

  110. M,Ma वर्य ↩︎

  111. A,B,T omit ↩︎ ↩︎

  112. A,B,T add तैः परितो गीयत इति वा । ↩︎

  113. A,B,T add गै-शब्दे इत्यस्माद्वा । ↩︎

  114. A,B,T द्गीतोक्त ↩︎

  115. A,B,G,I,J,T ति हा ↩︎

  116. A,B,T omit तपः ↩︎

  117. A,B,T तदाराधनाय ↩︎ ↩︎

  118. A,B,T omit ↩︎ ↩︎

  119. M,Ma आयुः ↩︎

  120. Ms नङ्भ्यत्यमुं ↩︎

  121. A,B,T नङ्क्ष्यति ↩︎

  122. A,B,G,I,J,Ms,T ऽयनं ↩︎

  123. A,B,G,I,J,T,W वृ ↩︎

  124. V तु ↩︎

  125. M,Ma लोक इति ↩︎

  126. A,B,G,I,J,M,Ma,Ms,T पितः ↩︎

  127. V हृद्य; W स्माऽद्य ↩︎

  128. Ms कीर्तेः ↩︎

  129. M,Ma,Ms यदुत्तम ↩︎

  130. M,Ma,Ms ङ्क्ति ↩︎

  131. M,Ma,Ms न्तिक ↩︎

  132. A,B,G,I,J,T,W तवाची ↩︎

  133. W सत्याय ↩︎

  134. A,B,T omit यः ↩︎

  135. A,B,T omit पुरुषाय ↩︎