२०

[विंशोऽध्यायः]

भागसूचना

महाराज पृथुकी यज्ञशालामें श्रीविष्णुभगवान‍्का प्रादुर्भाव

श्लोक-१

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

भगवानपि वैकुण्ठः साकं मघवता विभुः।
यज्ञैर्यज्ञपतिस्तुष्टो यज्ञभुक् तमभाषत॥

मूलम्

भग1वानपि वैकुण्ठः साकं मघवता विभुः।
यज्ञैर्यज्ञपतिः 2स्विष्टो यज्ञभुक् तमभाषत॥ १ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! महाराज पृथुके निन्यानबे यज्ञोंसे यज्ञभोक्ता यज्ञेश्वर भगवान् विष्णुको भी बड़ा सन्तोष हुआ। उन्होंने इन्द्रके सहित वहाँ उपस्थित होकर उनसे कहा॥ १॥

वीरराघवः

एवं चतुर्मुखादेश निवृत्तक्रोधः कृतशतक्रतु सख्य आदृतर्त्विग्देव3र्षिगण आसीदित्युक्तम् । अथ भगवता निवेदितेन्द्र क्षमापणः प्रतिबोधित तत्त्वत्रययाथात्म्यस्वधर्मः परवरणप्रवर्तितः प्रतिनिवृत्त त्रिवर्ग लिप्सः प्रपूरितपरमपूरुषः स्वपुरमगादित्याह मुनिः4 विंशेन भगवानपीति । षाड्गुण्यपूर्णो यज्ञरक्षकः सर्वयज्ञाराध्यो वैकुण्ठः परमपूरुषः पृथ्वनुष्ठितैर्यज्ञैः सम्यगाराधितो मघवता सह इन्द्रेण सह तं पृथुमभाषत जगाद ॥ १ ॥

श्लोक-२

मूलम् (वचनम्)

5श्रीभगवानुवाच5

विश्वास-प्रस्तुतिः

एष तेऽकारषीद‍्भङ्गं हयमेधशतस्य ह।
क्षमापयत आत्मानममुष्य क्षन्तुमर्हसि॥

मूलम्

एष 6तेऽकार्षीद‍्भङ्गं हयमेधशतस्य 7ह।
क्षमापयत आत्मानममुष्य क्षन्तुमर्हसि॥ २ ॥

अनुवाद (हिन्दी)

श्रीभगवान‍्ने कहा—राजन्! (इन्द्रने) तुम्हारे सौ अश्वमेध पूरे करनेके संकल्पमें विघ्न डाला है। अब ये तुमसे क्षमा चाहते हैं, तुम इन्हें क्षमा कर दो॥ २॥

वीरराघवः

8उक्तिमेवाह - एषइति । एष इन्द्रस्ते तव हयमेधशतस्याश्वमेधशतसङ्कल्पस्य हि यस्मात् भङ्गमकार्षीत् अत आत्मानं त्वां क्षमापयतः क्षमां कारयतः अमुष्य इन्द्रस्य क्षन्तुमर्हसि इन्द्रविषये क्षमां कर्तुमर्हसीत्यर्थः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

सुधियः साधवो लोके नरदेव नरोत्तमाः।
नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम्॥

मूलम्

सुधियः साधवो लोके नरदेव नरोत्त9माः।
नाभिद्रुह्यन्ति भूतेभ्यो 10यर्ह्यनात्मा कले11बरम्॥ ३ ॥

अनुवाद (हिन्दी)

नरदेव! जो श्रेष्ठ मानव साधु और सद‍्बुद्धि-सम्पन्न होते हैं, वे दूसरे जीवोंसे द्रोह नहीं करते; क्योंकि यह शरीर ही आत्मा नहीं है॥ ३॥

वीरराघवः

कथं दुस्सहोऽपराधः क्षन्तुं शक्यस्तत्राह सुधिय इति । हे नरदेव ! लोके नरोत्तमाः सुधियः देहात्मयाथात्म्यविदः साधवः परोपकारपराः भूतेभ्य आगस्कृद्भ्योऽपि भूतेभ्यः नाभिद्रुह्यन्ति, कुतः यर्हि यस्मात् कलेबरमनात्मा आत्मेतरत् । अतस्तदभिमानेन द्रोहं न कुर्वन्तीत्यर्थः । सुधि12यां सोढुं शक्य एवेति भावः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

पुरुषा यदि मुह्यन्ति त्वादृशा देवमायया।
श्रम एव परं जातो दीर्घया वृद्धसेवया॥

मूलम्

पुरुषा यदि मुह्यन्ति त्वादृशा देवमायया।
श्रम एव परंजातो दीर्घया वृद्धसेवया॥ ४ ॥

अनुवाद (हिन्दी)

यदि तुम-जैसे लोग भी मेरी मायासे मोहित हो जायँ, तो समझना चाहिये कि बहुत दिनोंतक की हुई ज्ञानीजनोंकी सेवासे केवल श्रम ही हाथ लगा॥ ४॥

वीरराघवः

एवमन्वयमुखेन सुधियां भूतद्रोहाकरणमभिधाय व्यतिरेकमुखेनाह - पुरुषा इति । यदि त्वादृशाः सुधियः पुरुषा ईश्वरमायया यदि मुह्यन्ति 13मोहं प्राप्नुवन्ति13 देहात्ममोहेन देह प्रयुक्त भूतद्रोहादिकं कुर्वन्ति तर्हि त्वादृशैः चिरका14लं कृतया महतां सेवया श्रम एव परं केवलं जातः सम्पादितः । ते दुर्धियः एवेति भावः॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

अतः कायमिमं विद्वानविद्याकामकर्मभिः।
आरब्ध इति नैवास्मिन् प्रतिबुद्धोऽनुषज्जते॥

मूलम्

अतः 15कायमिमं विद्वानविद्याकामकर्मभिः।
16आरब्ध इति नैवास्मिन् प्रतिबुद्धोऽ17नुषज्जते॥ ५ ॥

अनुवाद (हिन्दी)

ज्ञानवान् पुरुष इस शरीरको अविद्या, वासना और कर्मोंका ही पुतला समझकर इसमें आसक्त नहीं होता॥ ५॥

वीरराघवः

अतः सुधियां देहात्माभिमान प्रयुक्त भूतद्रोहादेरभावात्, अन्यथा दुर्धीत्वप्रसङ्गाच्च इमं कायं देहमविद्या कामकर्मभिः अविद्या अज्ञानं तच्च देहात्माभिमान स्वतन्त्रतात्माभिमानरूपेण द्विविधं, कामः अविद्यामूलकः शब्दादिविषयेष्विच्छाविशेषः, कर्म काममूलकं पुण्यापुण्यरूपम्, एभिरारब्धः उत्पादित इत्येवमिमं कार्य देहं विद्वान् जानन् अत एव प्रतिबुद्धः चिदचिदीशयाथात्म्यज्ञः अस्मिन् देहे नैवानुष18ज्यते । एवकारेण नितरामासक्त्यभावः सूच्यते ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

असंसक्तः शरीरेऽस्मिन्नमुनोत्पादिते गृहे।
अपत्ये द्रविणे वापि कः कुर्यान्ममतां बुधः॥

मूलम्

असंसक्तः शरीरेऽस्मिन्नमुनोत्पादिते गृहे।
अपत्ये द्रविणे 19वापि कः कुर्यान्ममतां बुधः॥ ६ ॥

अनुवाद (हिन्दी)

इस प्रकार जो इस शरीरमें ही आसक्त नहीं है, वह विवेकी पुरुष इससे उत्पन्न हुए घर, पुत्र और धन आदिमें भी किस प्रकार ममता रख सकता है॥ ६॥

वीरराघवः

देह एवानासक्तः, कथं देहानुबन्धि20ष्वासक्तः स्यादित्याह - असंसक्त इति । अस्मिन् शरीरे असंसक्तः समित्येकीकारे आत्मना सह देहमेकीकृत्य तस्मिन्नासक्त इत्यर्थः, अमुना शरीरेणोत्पादिते सम्पादिते गृहे अपत्ये पुत्रादौ द्रविणे वित्ते च ममतां को वा बुधः कुर्यात् ? न कोऽपि बुधः कुर्यात् । अज्ञस्तु कुर्यादित्यर्थः । अतो बुधः देहार्थं देहानुबन्ध्यर्थं वा भूतद्रोहादिकं न कुर्यादिति भावः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

एकः शुद्धः स्वयंज्योतिर्निर्गुणोऽसौ गुणाश्रयः।
सर्वगोऽनावृतः साक्षी निरात्माऽऽत्माऽऽत्मनः परः॥

मूलम्

एकः शुद्धः स्वयंज्योतिर्निर्गुणो21ऽसौ गुणाश्रयः।
सर्वगोऽनावृतः साक्षी परमा22त्माऽऽत्मनः परः॥ ७ ॥

अनुवाद (हिन्दी)

यह आत्मा एक, शुद्ध, स्वयंप्रकाश, निर्गुण, गुणोंका आश्रयस्थान, सर्वव्यापक, आवरणशून्य, सबका साक्षी एवं अन्य आत्मासे रहित है; अतएव शरीरसे भिन्न है॥ ७॥

वीरराघवः

बुध इत्यनेन चिदचिदीशयाथात्म्यज्ञानवत्त्वमुपक्षिप्तं तत्कीदृशमित्यपेक्षायां तत्र एक इति द्वाभ्यां चिदचिदीशस्वरूपं विशोष्य 23ततो य एवमित्येकेन आत्मयाथात्म्यज्ञानयोगस्य भगवज्ज्ञानाङ्गत्वं तत एकेन कर्मयोग24स्यापि तदङ्गत्वमभिधाय तदुभयानुगृहीत 25भगवद्भक्ति योगस्य भगवत्प्राप्युपायतामभिदायेदृश भगवदुपासन निष्ठस्य 26देहतदनुबन्धि प्रयुक्त विकारा न स्युरित्याह - एक इत्यादिना । प्रकृति विविक्तात्म स्वरूपशोधनेन प्रकृति परिणामरूपदेहस्य तद्विपरीत धर्मवत्त्वस्यार्थादेव सिद्धेः पृथक् तद्बोधनं नापेक्षितमिति तावदात्मस्वरूपं प्रकृतिविविक्तं शोधयति । एकः ज्ञानकाकारतया सर्वत्र एकस्वरूपः “एको व्रीहिः सुसम्पन्नः सुपुष्टं कुरुते प्रजाः” इति वदयं निर्देशः । नानाकारेषु देवमनुष्यादिशरीरेष्ववस्थितोऽपि सर्वत्र ज्ञानैकाकारतया एक27स्वरूप इत्यर्थः । देहस्तु देवमनुष्यपशुपादपतदवान्तर भेदभिन्नः । शुद्धः निर्मलः देहस्तु मलिनः । स्वयंज्योतिः स्वयंप्रकाशः निर्गुणः रागद्वेषादिरहितः गुणाश्रयः ज्ञानानन्दादिगुणाश्रयः सर्वगः अणुस्वरूपत्वेऽपि धर्मभूतज्ञानेन सर्वव्यापी अनावृतः देह इव गृहादिभिः अनावृतः साक्षी देहेन्द्रियादीनामपरोक्षं द्रष्टा, देहस्तु परप्रकाश्यः रागद्वेषादि गुणाश्रयः ज्ञानादिगुणानाश्रयः व्याप्यः आवृतः दृश्यश्चेत्यर्थ सिद्धं, परं केवलमात्मा देहादिष्वन्तः प्रविश्य धारकः देहस्तु धार्यः, अत आत्मनः देहात्परः विलक्षणः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

य एवं सन्तमात्मानमात्मस्थं वेद पूरुषः।
नाज्यते प्रकृतिस्थोऽपि तद‍्गुणैः स मयि स्थितः॥

मूलम्

य एवं सन्तमात्मानमात्मस्थं वेद पूरुषः।
नाज्यते प्रकृतिस्थोऽपि तद‍्गुणैः 28स मयि स्थितः॥ ८ ॥

अनुवाद (हिन्दी)

जो पुरुष इस देहस्थित आत्माको इस प्रकार शरीरसे भिन्न जानता है, वह प्रकृतिसे सम्बन्ध रखते हुए भी उसके गुणोंसे लिप्त नहीं होता; क्योंकि उसकी स्थिति मुझ परमात्मामें रहती है॥ ८॥

वीरराघवः

य इति । यः पुमान् एवं परमात्मनो धार्यतया व्याप्यतया आत्मनि परमात्मनि स्थितं 29सन्तम् आत्मानं प्रत्यगात्मानं वेद उपास्ते न तु तदुपासनमात्रपरः, किन्तु मयि अन्तर्यामिणि पूर्वोक्तैकत्वादिधर्मिणि स्थितः मदुपासननिष्ठ इति यावत् । तिष्ठतेर्धातोरुपासन परत्वं “अभयं प्रतिष्ठां विन्दते” (तैत्ति. उ. 2-7) “तन्निष्ठस्य मोक्षोपदेशात् (ब्र.सू. 1-1-7) इत्यादि श्रुतिसूत्रादि प्रयोगादवगम्यते । ज्ञानयोगानुगृहीतमद्भक्ति योगनिष्ठ इत्यर्थः । प्रकृतिस्थोऽपि उपासनदशायां प्रकृतिविशिष्टोऽप्युपासननिर्वृत्त्यनन्तरं तद्गुणैः प्रकृतिगुणैः 30नाज्यते न युज्यते, किन्तु मुक्तो भवेदित्यर्थः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

यः स्वधर्मेण मां नित्यं निराशीः श्रद्धयान्वितः।
भजते शनकैस्तस्य मनो राजन् प्रसीदति॥

मूलम्

यः स्वधर्मेण मां नित्यं निराशीः श्रद्धयान्वितः।
भजते शनकैस्तस्य मनो राजन् प्रसीदति॥ ९ ॥

अनुवाद (हिन्दी)

राजन्! जो पुरुष किसी प्रकारकी कामना न रखकर अपने वर्णाश्रमके धर्मोंद्वारा नित्यप्रति श्रद्धापूर्वक मेरी आराधना करता है, उसका चित्त धीरे-धीरे शुद्ध हो जाता है॥ ९॥

वीरराघवः

एवं यः पुमान् स्वधर्मेण स्ववर्णाश्रमोचितपञ्चमहायज्ञादि नित्यनैमित्तिकादि धर्मेण निराशीः स्वधर्मसाध्यफलेष्वाशारहितः अनभिसंहित फलकर्तृसङ्ग इत्यर्थः । मां सर्व कर्माराध्यमिन्द्रादिसर्व देवता शरीरकं सर्वकर्मफलप्रदं नित्यं श्रद्धया कर्तव्येषु कर्मसु त्वरया भजते । हे राजन् ! पृथो ! तस्य ज्ञानकर्मयोगाभ्यामनुगृहीत भगवद्भक्तियोगनिष्ठस्य मनः शनकैः प्रसीदति दारादिभिरकलुषितं भवति ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

परित्यक्तगुणः सम्यग्दर्शनो विशदाशयः।
शान्तिं मे समवस्थानं ब्रह्म कैवल्यमश्नुते॥

मूलम्

परित्यक्तगुणः सम्यग्दर्शनो विशदाशयः।
31शान्तिं मे समवस्थानं ब्रह्म कैवल्यमश्नुते॥ १० ॥

अनुवाद (हिन्दी)

चित्त शुद्ध होनेपर उसका विषयोंसे सम्बन्ध नहीं रहता तथा उसे तत्त्वज्ञानकी प्राप्ति हो जाती है। फिर तो वह मेरी समतारूप स्थितिको प्राप्त हो जाता है। यही परम शान्ति, ब्रह्म अथवा कैवल्य है॥ १०॥

वीरराघवः

एवं परित्यक्तगुणः कार्त्स्न्येनत्यक्तरागादिगुणः अत एव विशदाशयः निर्मलान्तः करणः अन्त एव सम्यग्दर्शनः उक्तविधात्मस्वरूपतद्विलक्षण परमात्मस्वरूपदर्शी शान्तमशनायाधूर्मिषट्क रहितं मे मत्सम्बन्धि समवस्थानं सम्यगावासभूतं मच्छरीरभूतमित्यर्थः । ब्रह्म गुणतो बृहत्वात् ब्रह्मशब्दवाच्यं कैवल्यं केवलं प्रकृतिवियुक्तमाविर्भूतापहतपाप्मत्वादि गुणकमात्मस्वरूपम् अश्नुते प्राप्नोति । ब्रह्मात्मकाविर्भूतगुणाष्टकस्वरूपेण सम्पन्नो भवति, मुक्तो भवतीति यावत् ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम्।
कूटस्थमिममात्मानं यो वेदाप्नोति शोभनम्॥

मूलम्

उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम्।
कूटस्थमिममात्मानं यो वेदाऽऽप्नोति शोभनम्॥ ११ ॥

अनुवाद (हिन्दी)

जो पुरुष यह जानता है कि शरीर, ज्ञान, क्रिया और मनका साक्षी होनेपर भी कूटस्थ आत्मा उनसे निर्लिप्त ही रहता है, वह कल्याणमय मोक्षपद प्राप्त कर लेता है॥ ११॥

वीरराघवः

एवं तन्त्रत्रयविमर्शनपूर्वकं ज्ञानकर्मयोगानुगृहीतभगवद्भक्तियोगस्यामृतत्वप्राप्त्युपायतामभिधाय एवंविधस्य पुंसो जीवदवस्थायामवस्थान प्रकारमाह - उदासीनमिति । द्रव्यं पृथिव्यादिभूतानि, ज्ञानं श्रोत्रादि ज्ञानेन्द्रियाणि, क्रिया वागा32दिकर्मेन्द्रियाणि, आत्मा मनः, एषामध्यक्षमधिपं कूटस्थं स्वरूपतो निर्विकारम् अत एव33 34इममात्मानं प्रत्यगात्मानमुदासीनमिव स्थितं यो वेद द्रव्याद्यध्यक्षत्वं प्रकृतिसम्बन्धकृतं परमार्थतस्तु कूटस्थ उदासीनः, इत्येवमात्मानं यो वेद सः शोभनमाप्नोति 35जीवदशायामपि सुखमेवाप्नोतीत्यर्थः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

भिन्नस्य लिङ्गस्य गुणप्रवाहो
द्रव्यक्रियाकारकचेतनात्मनः।
दृष्टासु सम्पत्सु विपत्सु सूरयो
न विक्रियन्ते मयि बद्धसौहृदाः॥

मूलम्

भिन्नस्य लिङ्गस्य गुणप्रवाहो36 द्रव्यक्रियाकारकचेतनात्मनः।
37दृष्टासु सम्पत्सु विपत्सु सूरयो न विक्रियन्ते मयि बद्धसौहृदाः॥ १२ ॥

अनुवाद (हिन्दी)

राजन्! गुणप्रवाहरूप आवागमन तो भूत, इन्द्रिय, इन्द्रियाभिमानी देवता और चिदाभास—इन सबकी समष्टिरूप परिच्छिन्न लिंगशरीरका ही हुआ करता है; इसका सर्वसाक्षी आत्मासे कोई सम्बन्ध नहीं है। मुझमें दृढ़ अनुराग रखनेवाले बुद्धिमान् पुरुष सम्पत्ति और विपत्ति प्राप्त होनेपर कभी हर्ष-शोकादि विकारोंके वशीभूत नहीं होते॥ १२॥

वीरराघवः

ननु विप्रतिषिद्धमेतदुच्यते द्रव्याद्यध्यक्षत्वं कूटस्थत्वमुदासीनत्वं चेति । करणप्रवर्तकत्वमेव हि करणाधिपत्त्वं तच्च विकारः तदभावः कूटस्थत्वमुदासीनत्वं तत्राह - भिन्नस्येति । द्रव्य क्रियाकारकचेतनात्मनः द्रव्यं पृथिव्यादि, क्रियाकारकाणि कर्मेन्द्रियाणि, चेतना ज्ञानेन्द्रियजातम् एतदात्मकस्येत्यर्थः । क्रिया कर्मेन्द्रियाणि, कारकाणि ज्ञानकरणानि श्रोत्रादीनि, चेतना चित्तमेतदात्मकस्येति वार्थः । द्रव्याद्यात्मकस्यात एवं भिन्नस्य देवमनुष्यादिभावेन भिन्नस्य लिङ्गस्य शरीरस्य गुणप्रवाहः गुणपरिणामो भवति । अयं भावः - यद्यपि द्रव्याद्यध्यक्षत्वरूपविकार आत्मन्यस्ति, तथापि स विकारः ज्ञानविकाररूपः, स च धर्मभूतज्ञानगतो न स्वरूपगत इति स्वरूपतः कूटस्थत्वमुदासीनत्वं च । देवादिरूपेण परिणामस्तु द्रव्यादिसङ्घातस्यैवेति । 38ननु धर्मतो वाऽपि सति विकारे न कूटस्थततोपपत्तिः, कूटस्थता हि निर्विकारता सा च नित्यताऽपरपर्याया धर्मतो वा, नित्यत्वे कथं नित्यतेति चेत् उच्यते - धर्मभूतं ज्ञानद्रव्यं नित्यमेव, तस्य च कर्मणा कदाचित् सङ्कोचः कदाचिद्विकासश्च इत्यवस्थाद्वयमङ्गीक्रियते । तत्र सङ्कोचो नाम प्रसराभावः, तदभावो 39विकासप्रसररूपः, अभावाभावस्य39 भावरूपत्वात्, अतो धर्मभूतं ज्ञानद्रव्यमपि नित्यमेवेति धर्मतोऽपि कूटस्थतोपपत्तिः । पृथिव्यादीनां तु स्वरूपतः स्वभावतश्च विकार इति न कूटस्थत्वम् । अव आत्मनः सततमेकरूपत्वात् देहस्य प्रतिक्षणपरिणामित्वादपुरुषार्थ 40रूपत्वाद् देह प्रयुक्तासु दृष्टासु प्राप्तासु सम्पत्सु विपत्सु च सूरयः तत्त्वत्रयविवेचनचतुरा न विक्रियन्ते सम्पदापत्प्रयुक्तहर्षशोकाभ्यां न युज्यन्त इत्यर्थः । कथं सति शरीरे तत्प्रयुक्तहर्षशोकासम्बन्धः तत्राह । मयि निरतिशयप्रीतिविषये बद्धं सौहृदं यैस्ते । सौहृदशब्देन सुहृदो धर्मो निरतिशयप्रेमोच्यते । तेन प्रीति रूपमुपासनं लक्ष्यते । बद्धशब्देन तस्य विजातीयाप्रत्ययान्तराव्यवहितत्वं च, तथा च 41विजातीय प्रत्ययान्तराव्यवहितमद्विषयनिरतिशय 42प्रीतिरूपभक्त्या विस्मृतदेहधर्मा हर्षशोकाभ्यां न युज्यन्त इत्यर्थः । त्वं च सूरिः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

समः समानोत्तममध्यमाधमः
सुखे च दुःखे च जितेन्द्रियाशयः।
मयोपक्लृप्ताखिललोकसंयुतो
विधत्स्व वीराखिललोकरक्षणम्॥

मूलम्

समः समानोत्तममध्यमाधमः सुखे च दुःखे च जितेन्द्रियाशयः।
मयोपक्लृप्ताखिल43लोकसंयुतो विधत्स्व 44धीराखिललोकरक्षणम्॥ १३ ॥

अनुवाद (हिन्दी)

इसलिये वीरवर! तुम उत्तम, मध्यम और अधम पुरुषोंमें समानभाव रखकर सुख-दुःखको भी एक-सा समझो तथा मन और इन्द्रियोंको जीतकर मेरे ही द्वारा जुटाये हुए मन्त्री आदि समस्त राजकीय पुरुषोंकी सहायतासे सम्पूर्ण लोकोंकी रक्षा करो॥ १३॥

वीरराघवः

अतः सुखे दुःखे च देहप्रयुक्ते समस्सन्, साम्यं मम कथं सम्भवेत्तत्राह - विजितेन्द्रियाशयः वशीकृतबाह्येन्द्रियान्तः करणः । जितेन्द्रियस्य तव सुखदुःखयोः साम्यं सम्भवेदेवेत्यर्थः । अत एव समाना उत्तममध्यमाधमाः यस्य स तिर्यङ्मनुजदेवादिषु देहातिरिक्तसर्वात्म 45सामान्यानुसन्धान परस्तेषां च ब्रह्मात्मकत्वे साम्यधीः त्वमखिललोकरक्षणं विधत्स्व । कथमेकेन मया तत्कर्तुं शक्यं तत्राह । मया ईश्वरेण उपक्लृप्ताः सम्पादिताः अमात्यादयो येऽखिला लोकाः तैः संयुतः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

श्रेयः प्रजापालनमेव राज्ञो
यत्साम्पराये सुकृतात् षष्ठमंशम्।
हर्तान्यथा हृतपुण्यः प्रजाना-
मरक्षिता करहारोऽघमत्ति॥

मूलम्

श्रेयः प्रजापालनमेव राज्ञो यत्साम्पराये सुकृ46तात् षष्ठमंशम् ।
47हर्ताऽन्यथा हृतपुण्यः प्रजानामरक्षिता करहारोऽघमत्ति॥ १४ ॥

अनुवाद (हिन्दी)

राजाका कल्याण प्रजापालनमें ही है। इससे उसे परलोकमें प्रजाके पुण्यका छठा भाग मिलता है। इसके विपरीत जो राजा प्रजाकी रक्षा तो नहीं करता; किंतु उससे कर वसूल करता जाता है, उसका सारा पुण्य तो प्रजा छीन लेती है और बदलेमें उसे प्रजाके पापका भागी होना पड़ता है॥ १४॥

वीरराघवः

ननु मम मुमुक्षामनुत्पाद्य किमखिललोकरक्षणं विधत्स्वेत्युच्यते तत्राह - श्रेय इति । राज्ञः प्रजापालनमेव 48श्रेयः श्रेयस्साधनं समीहितपुरुषार्थसाधनमित्यर्थः । कुतः, यत् यस्मात् प्रजापालनात् साम्पराये देह वियोगे प्रजाभिर्यत्कृतं सुकृतं तस्य षष्ठमंशं हर्ता हरति । अन्यथा लोकरक्षणाभावे प्रजानामरक्षिता प्रत्युत प्रजापीडनादिना तद्दत्तं करं स्वामिग्राह्यभागं, हरतीति हारः तथाभूतः अत एव प्रजाभिरात्तपुण्यः तासामघमत्ति 49आदत्ते ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

एवं द्विजाग्र्यानुमतानुवृत्त-
धर्मप्रधानोऽन्यतमोऽवितास्याः।
ह्रस्वेन कालेन गृहोपयातान्
द्रष्टासि सिद्धाननुरक्तलोकः॥

मूलम्

एवं द्विजाग्र्यानुमतानु50वृत्तो 51र्मप्रधा52नोऽन्यतमोऽवितास्याः।
ह्रस्वेन कालेन गृहोपयातान् द्रष्टासि सिद्धाननुरक्तलोकः॥ १५ ॥

अनुवाद (हिन्दी)

ऐसा विचारकर यदि तुम श्रेष्ठ ब्राह्मणोंकी सम्मति और पूर्व परम्परासे प्राप्त हुए धर्मको ही मुख्यतः अपना लो और कहीं भी आसक्त न होकर इस पृथ्वीका न्यायपूर्वक पालन करते रहो तो सब लोग तुमसे प्रेम करेंगे और कुछ ही दिनोंमें तुम्हें घर बैठे ही सनकादि सिद्धोंके दर्शन होंगे॥ १५॥

वीरराघवः

तस्मात् यदि प्रजाः पालयसि धर्मतस्तदा तव मुक्तिरपि सुलभा स्यादित्याह - एवमिति । द्विजाग्र्याणामनुमतश्चासावनुवृत्तश्च । व्यस्तपाठे 53अनुमतः53 अनुवृत्तश्च । धर्मप्रधानः अनभिसंहित फलस्ववर्णाश्रमोचितधर्मप्रधानः, अन्यतमः प्रजानां मध्ये अन्यतम इव स्वस्मिन् स्वातन्त्र्यमनारोप्येत्यर्थः । अविता रक्षिता यदि स्याः भवेः तदा ह्रस्वेन 54अल्पेन कालेन गृहान् प्रत्युपगतान् सिद्धान् सनकादीन् अनुरक्ताः स्वस्मिन् अनुरागयुक्ता लोका यस्य स त्वं द्रष्टासि । तैरुपदिष्टतत्त्वोऽमृतत्वं यास्यसीत्यर्थः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

वरं च मत् कञ्चन मानवेन्द्र
वृणीष्व तेऽहं गुणशीलयन्त्रितः।
नाहं मखैर्वै सुलभस्तपोभि-
र्योगेन वा यत्समचित्तवर्ती॥

मूलम्

वरं च मत् कञ्चन मानवेन्द्र वृणीष्व तेऽहं गुणशीलयन्त्रितः।
नाहं मखैर्वै सुलभस्तपोभिर्योगेन वा यत्सम55चित्तवर्ती॥ १६ ॥

अनुवाद (हिन्दी)

राजन्! तुम्हारे गुणोंने और स्वभावने मुझको वशमें कर लिया है। अतः तुम्हें जो इच्छा हो, मुझसे वर माँग लो। उन क्षमा आदि गुणोंसे रहित यज्ञ, तप अथवा योगके द्वारा मुझको पाना सरल नहीं है, मैं तो उन्हींके हृदयमें रहता हूँ जिनके चित्तमें समता रहती है॥ १६॥

वीरराघवः

किञ्च हे मानवेन्द्र ! मत् मत्तः सकाशात् कञ्चिद्वरं वृणीष्व । ते तव गुणाः शमादयः शीलं निर्मत्सरादिस्वभावः तैर्यन्त्रितः वशीकृतोऽहं तद्रहितैस्तु मखैर्यागैः तपोभिः कृच्छ्रचान्द्रायणादिभिर्योगेन वा नाहं सुलभः, कुतः यत् यस्मात् समं चित्तं येषां तेष्वेव वर्तितुं शीलमस्य सोऽहम् ॥ १६ ॥

श्लोक-१७

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

स इत्थं लोकगुरुणा विष्वक्सेनेन विश्वजित्।
अनुशासित आदेशं शिरसा जगृहे हरेः॥

मूलम्

स इत्थं लोकगुरुणा विष्वक्सेनेन विश्वजित्।
अनुशासि56त आदेशं शिरसा जगृहे हरेः॥ १७ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! सर्वलोकगुरु श्रीहरिके इस प्रकार कहनेपर जगद्विजयी महाराज पृथुने उनकी आज्ञा शिरोधार्य की॥ १७॥

वीरराघवः

स विश्वजित् पृथुरेवं लोकगुरुणा विष्वक्सेनेन भगवता अनुशिष्टः हरेरादेशमाज्ञां शिरसा जगृहे अतीवाऽऽदृतवानित्यर्थः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

स्पृशन्तं पादयोः प्रेम्णा व्रीडितं स्वेन कर्मणा।
शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह॥

मूलम्

स्पृशन्तं पादयोः 57प्रेम्णा व्रीडितं स्वेन 58कर्मणा।
शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह॥ १८ ॥

अनुवाद (हिन्दी)

देवराज इन्द्र अपने कर्मसे लज्जित होकर उनके चरणोंपर गिरना ही चाहते थे कि राजाने उन्हें प्रेमपूर्वक हृदयसे लगा लिया और मनोमालिन्य निकाल दिया॥ १८॥

वीरराघवः

ततः पादयोः क्षमापयितुं स्पृशन्तं स्वेन स्वीयेन अश्वहरणादिकर्मणा व्रीडितं लज्जितं शतक्रतुमिन्द्रं प्रेम्णा परिष्वज्यालिङ्ग्य तस्मिन् विद्वेषं विससर्ज अत्याक्षीत् । हेति विस्मये । आर्द्रापराधजनितविद्वेषं तदैव विससर्जेति विस्मये ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

भगवानथ विश्वात्मा पृथुनोपहृतार्हणः।
समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः॥

मूलम्

भगवान59पि विश्वात्मा पृथुनोपहृतार्हणः।
समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः॥ १९ ॥

अनुवाद (हिन्दी)

फिर महाराज पृथुने विश्वात्मा भक्तवत्सल भगवान‍्का पूजन किया और क्षण-क्षणमें उमड़ते हुए भक्तिभावमें निमग्न होकर प्रभुके चरणकमल पकड़ लिये॥ १९॥

श्लोक-२०

विश्वास-प्रस्तुतिः

प्रस्थानाभिमुखोऽप्येनमनुग्रहविलम्बितः।
पश्यन् पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम्॥

मूलम्

प्रस्थानाभिमुखोऽप्येनमनुग्रहवि60लम्बितः।
पश्यन् पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम्॥ २० ॥

अनुवाद (हिन्दी)

श्रीहरि वहाँसे जाना चाहते थे; किन्तु पृथुके प्रति जो उनका वात्सल्यभाव था उसने उन्हें रोक लिया। वे अपने कमलदलके समान नेत्रोंसे उनकी ओर देखते ही रह गये, वहाँसे जा न सके॥ २०॥

वीरराघवः

ततो विश्वात्मा 61सर्वात्मा भगवानपि पृथुनोपहृतं समर्पितमर्हणमर्घ्यादिकं यस्य समुज्जिहानया समुद्रिक्तया भक्त्या गृहीतौ चरणौ अम्बुजे इव यस्य । प्रस्थानाभिमुखः स्वलोकं प्रति प्रयाणाभिमुखोऽपि अनुग्रहेण विलम्बितः सञ्जातविलम्बः सतां भक्तानां सुहत् निरतिशयप्रीतिमान् एनं पृथुं पश्यन् पद्मदलवद्विशाले अक्षिणी यस्य सः पद्मपत्रवद्विशालाभ्यामक्षिभ्यां पश्यन्निति भावः, न प्रतस्थे न ययावित्यर्थः ॥ १९,२० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

स आदिराजो रचिताञ्जलिर्हरिं
विलोकितुं नाशकदश्रुलोचनः।
न किञ्चनोवाच स बाष्पविक्लवो
हृदोपगुह्यामुमधादवस्थितः॥

मूलम्

स आदिराजो रचिताञ्जलिर्हरिं विलोकितुं नाशकदश्रुलोचनः।
न किञ्चनोवाच 62स बाष्पविक्लबो हृदोप63गूह्या64मुमधादवस्थितः॥ २१ ॥

अनुवाद (हिन्दी)

आदिराज महाराज पृथु भी नेत्रोंमें जल भर आनेके कारण न तो भगवान‍्का दर्शन ही कर सके और न तो कण्ठ गद‍्गद हो जानेसे कुछ बोल ही सके। उन्हें हृदयसे आलिंगन कर पकड़े रहे और हाथ जोड़े ज्यों-के-त्यों खड़े रह गये॥ २१॥

वीरराघवः

एवं भगवतो भक्ते पृथौ कृपातिरेक उक्तः पृथोः भगवति भक्त्युद्रेकमाह - स इति द्वाभ्याम् । स आदिराजः पृथुः बद्धाञ्जलिः आनन्दाश्रुपूर्णलोचनः अत एव हरिमवलोकितुं नाशकत् न समर्थोऽभूत् । बाष्पैर्विक्लबः अधृष्टस्तूष्णीमवस्थितस्सन् किञ्चिदपि नोवाच च । 65किन्तु अमुं हरिं हृदा उप66गूह्य आवृत्य संश्लिष्य आलिङ्ग्येति यावत्, अधात् धृतवान् ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

अथावमृज्याश्रुकला विलोकयन्
अतृप्तदृग्गोचरमाह पूरुषम्।
पदा स्पृशन्तं क्षितिमंस उन्नते
विन्यस्तहस्ताग्रमुरङ्गविद्विषः॥

मूलम्

अथा67वमृ68ज्याश्रु69कला विलोकयन्नतृप्तदृग्गोचरमाह पूरुषम्।
पदा स्पृशन्तं क्षितिमंस उन्नते विन्यस्तहस्ताग्रमुरङ्गविद्विषः॥ २२ ॥

अनुवाद (हिन्दी)

प्रभु अपने चरणकमलोंसे पृथ्वीको स्पर्श किये खड़े थे; उनका कराग्रभाग गरुडजीके ऊँचे कंधेपर रखा हुआ था। महाराज पृथु नेत्रोंके आँसू पोंछकर अतृप्त दृष्टिसे उनकी ओर देखते हुए इस प्रकार कहने लगे॥ २२॥

वीरराघवः

अथानन्तरमश्रुकला अश्रुकणान् हस्तेनावमृज्य अतृप्तयोर्दृशोर्गोचरं विषयभूतं पदा चरणेन क्षितिं भूमिं स्पृशन्तम् । अयं भावः - न खलु देवाः पदा भुवं स्पृशन्ति । अतः कृपापारवश्यान्नूनं हरिरात्मानं विस्मृतवानिवेति उरङ्गद्विषो वैनतेयस्य उन्नते अंसे स्कन्धे विन्यस्तं हस्ताग्रं येन तं, पुरुषं परमपूरुषमाह उवाच ॥ २२ ॥

श्लोक-२३

मूलम् (वचनम्)

पृथुरुवाच

विश्वास-प्रस्तुतिः

वरान् विभो त्वद्वरदेश्वराद् बुधः
कथं वृणीते गुणविक्रियात्मनाम्।
ये नारकाणामपि सन्ति देहिनां
तानीश कैवल्यपते वृणे न च॥

मूलम्

वरान् विभो त्वद्वरदेश्वराद् बुधः कथं वृणीते गुणविक्रियात्मनाम्।
ये नारकाणामपि सन्ति देहिनां तानीश कैवल्यपते 70वृणे न च॥ २३ ॥

अनुवाद (हिन्दी)

महाराज पृथु बोले—मोक्षपति प्रभो! आप वर देनेवाले ब्रह्मादि देवताओंको भी वर देनेमें समर्थ हैं। कोई भी बुद्धिमान् पुरुष आपसे देहाभिमानियोंके भोगने योग्य विषयोंको कैसे माँग सकता है? वे तो नारकी जीवोंको भी मिलते ही हैं। अतः मैं इन तुच्छ विषयोंको आपसे नहीं माँगता॥ २३॥

वीरराघवः

तत्र यदुक्तं वरं वृणीष्वेति तदसहमान आह - हे विभो ! वरदानां ब्रह्मादीनामीश्वराद्वरदात् त्वत् त्वत्तः सकाशात् बुधः अर्थकामादीनां सातिशयत्त्वं नश्वरत्वं च जानन् वरान् वृणीते । कीदृशान् ? ये वरा गुणविक्रियात्मनां सत्त्वादिगुणानुसारेण विक्रिया विकाराः यस्मिन्नात्मनि स्वभावे स आत्मा स्वभावो येषां नारकाणां संसारिणामपि देहिनां सन्ति तेषामपि भोग्या इत्यर्थः, तस्मात् हे कैवल्यपते ! मुक्त्यधिपते ! मुक्तिप्रदेत्यर्थः, हे ईश ! सर्वान्तर ! तान् क्षुद्रान् न वृणे ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

न कामये नाथ तदप्यहं क्वचि-
न्न यत्र युष्मच्चरणाम्बुजासवः।
महत्तमान्तर्हृदयान्मुखच्युतो
विधत्स्व कर्णायुतमेष मे वरः॥

मूलम्

न कामये नाथ तदप्यहं क्वचिन्न यत्र युष्मच्चरणाम्बुजास71वः।
महत्तमान्तर्हृदयान्मुखच्यु72तो विधत्स्व कर्णा73युतमेष मे वरः॥ २४ ॥

अनुवाद (हिन्दी)

मुझे तो उस मोक्षपदकी भी इच्छा नहीं है जिसमें महापुरुषोंके हृदयसे उनके मुखद्वारा निकला हुआ आपके चरणकमलोंका मकरन्द नहीं है—जहाँ आपकी कीर्ति-कथा सुननेका सुख नहीं मिलता। इसलिये मेरी तो यही प्रार्थना है कि आप मुझे दस हजार कान दे दीजिये, जिनसे मैं आपके लीलागुणोंको सुनता ही रहूँ॥ २४॥

वीरराघवः

तर्हि कैवल्यमेव वरय तत्राह - नेति । हे नाथ ! महत्तमानां भागवतानामन्तर्हृदयात् मुखद्वारेण निर्गतो भगवत्पदाम्बुजमकरन्दो यशश्श्रवणादिसुखं यत्र नास्ति तादृशं चेत् कैवल्यमपि तन्न कामये न वृणे । तर्हि किं कामयसे तत्राह - त्वद्गुणश्रवणाय मे मह्यं कर्णायुतं कर्णानामयुतम् अयुतशब्द आनन्त्यपरः गुणानामानन्त्यादनन्तगुणश्रवणार्थमनन्तश्रोत्राणि विधत्स्व 74धेहि। एष एव ममाभिमतो वर इत्यर्थः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

स उत्तमश्लोक महन्मुखच्युतो
भवत्पदाम्भोजसुधाकणानिलः।
स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां
कुयोगिनां नो वितरत्यलं वरैः॥

मूलम्

स उत्तमश्लोक महन्मुखच्युतो भवत्पदाम्भोजसुधाकणानिलः।
स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां कुयोगिनां नो वितरत्यलं वरैः॥ २५ ॥

अनुवाद (हिन्दी)

पुण्यकीर्ति प्रभो! आपके चरणकमल-मकरन्दरूपी अमृत-कणोंको लेकर महापुरुषोंके मुखसे जो वायु निकलती है, उसीमें इतनी शक्ति होती है कि वह तत्त्वको भूले हुए हम कुयोगियोंको पुनः तत्त्वज्ञान करा देती है। अतएव हमें दूसरे वरोंकी कोई आवश्यकता नहीं है॥ २५॥

वीरराघवः

किं मद्गुणश्रवणसाध्यं यदर्थं कर्णायुतं प्रार्थयसे तत्राह - स इति । हे उत्तमश्लोक ! महतां त्वद्भक्तानां मुखाच्च्युतः स भवतः पदाम्भोजयोः या सुधा तस्या यो लेशः तत्सम्बन्धी योऽनिलः वायुः दूरादपि किञ्चिद्यशश्श्रवणमात्रमित्यर्थः । विस्मृतं तत्त्वत्वर्त्म तत्त्वमार्गः यैः कुयोगिभिः तेषामपि नः अस्माकं त्वद्विषयां स्मृतिं भक्तिं वितरति ददाति, अतो वरैः पुरुषार्थान्तर साधनभूतैरलम् ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

यशः शिवं सुश्रव आर्यसङ्गमे
यदृच्छया चोपशृणोति ते सकृत्।
कथं गुणज्ञो विरमेद्विना पशुं
श्रीर्यत्प्रवव्रे गुणसंग्रहेच्छया॥

मूलम्

यशः शिवं सुश्रव आर्यसङ्गमे यदृच्छया चोपशृणो75ति ते सकृत्।
कथं गुणज्ञो विरमे76द्विना पशुं श्रीर्यत्प्रवव्रे गुणसङ्ग्रहेच्छया॥ २६ ॥

अनुवाद (हिन्दी)

उत्तम कीर्तिवाले प्रभो! सत्संगमें आपके मंगलमय सुयशको दैववश एक बार भी सुन लेनेपर कोई पशुबुद्धि पुरुष भले ही तृप्त हो जाय; गुणग्राही उसे कैसे छोड़ सकता है? सब प्रकारके पुरुषार्थोंकी सिद्धिके लिये स्वयं लक्ष्मीजी भी आपके सुयशको सुनना चाहती हैं॥ २६॥

वीरराघवः

त्वद्विषयभक्तिवर्धकत्वात् त्वगु77णानुश्रवणस्य यदृच्छयापि त्वद्गुणानेव श्रृणुयामित्याह - यश इति । हे सुश्रवः ! शोभनकीर्ते ! सतां सङ्गमे सति सकृदपि 78यदृच्छयापि ते तव यशः कीर्तिमेव परं शृणोमि । सकृदपि78 यदृच्छयापीत्यनेन असकृदत्यादरेण यशसः श्रोतव्यता सूच्यते । तदुपपादयति यः कश्चित् पुमान् गुणज्ञः सारग्राही चेत् पशुं कर्मजडमृते कथं विरमेत् ? 79त्वद्गुणानुश्रवणादिति शेषः । अगुणज्ञः पशुश्चेत् त्वद्यशः सकृदाश्रुत्य ततो विरमेदित्यर्थः । गुणज्ञस्याविराम80मेव सदृष्टान्तमुपपादयति यत्-यस्मात् श्रीः लक्ष्मीः गुणानां भवदीयकल्याणगुणानां सङ्ग्रहेच्छ्या संस्मरणेच्छया प्रवव्रे त्वामिति शेषः । यद्वा गुणानां सर्वपुरुषार्थानां सङ्ग्रहः स्वस्मिन् समाहारः तदिच्छया 81यत् त्वद्यशः प्रवव्रे नितरां वृतवती ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

अथाभजे त्वाखिलपूरुषोत्तमं
गुणालयं पद्मकरेव लालसः।
अप्यावयोरेकपतिस्पृधोः कलि-
र्न स्यात्कृतत्वच्चरणैकतानयोः॥

मूलम्

अथाभ82जं त्वाखिलपूरुषोत्तमं गुणालयं पद्मकरेव लालसः।
अप्यावयोरेकपतिस्पृधोः कलिर्न स्यात्कृतत्वच्चरणैकतानयोः॥ २७ ॥

अनुवाद (हिन्दी)

अब लक्ष्मीजीके समान मैं भी अत्यन्त उत्सुकतासे आप सर्वगुणधाम पुरुषोत्तमकी सेवा ही करना चाहता हूँ। किन्तु ऐसा न हो कि एक ही पतिकी सेवा प्राप्त करनेकी होड़ होनेके कारण आपके चरणोंमें ही मनको एकाग्र करनेवाले हम दोनोंमें कलह छिड़ जाय॥ २७॥

वीरराघवः

अतो लक्ष्मीरिवान्यपरित्यागेन त्वामेवाहं भजामीत्याह - अथेति83अथ हे भगवन् ! अखिलपूरुषोत्तममखिलेभ्यो बद्धमुक्त 84नित्यभेदेन त्रिविधेभ्यः84 पूरुषेभ्यः उत्तमं “पञ्चमी भयेन” (अष्टा 2-1-37) इत्यत्र पञ्चमीति योगविभागात्समासः । अनेन जीवानामभजनीयत्वं विवक्षितम् । अखिलपुरुषोत्तमत्वे हेतुः - गुणालयं त्रिविधेष्वपि चेतनेष्वसम्भावितनित्यनिरुपाधि कानन्याधीनसर्वज्ञत्वसर्वशक्तित्वसर्वकारणत्वसत्यत्वज्ञानत्वानन्तत्वादिकल्याण - गुणाश्रयं त्वामेव पद्मकरेव लक्ष्मीरिव लालसः 85अत्यासक्तः85 अभजं भजेयमित्यर्थः । ननु द्वयोरपि मां भजमानयोरिन्द्रेण सहेव तव कलहः स्यात् तत्राह - एकपतिस्पृधोः एकस्मिन् पत्यौ स्पर्धमानयोः एकभर्तृश्रद्धावतोरिति यावत् । आवयोः लक्ष्म्या मम च कलिः कलहो न स्यात् असम्भावितः । असम्भवमेवोपपादयति त्वच्चरणैकतानयोः त्वच्चरणयोरेकतानो मनस ऐकाग्र्येण वृत्तिर्ययोस्तयोः आवयोः तत्कलिरित्येतत् क्व न भवेदेवेत्यर्थः, विषयस्यापरिच्छिन्नत्वादिति भावः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

जगज्जनन्यां जगदीश वैशसं
स्यादेव यत्कर्मणि नः समीहितम्।
करोषि फल्ग्वप्युरु दीनवत्सलः
स्व एव धिष्ण्येऽभिरतस्य किं तया॥

मूलम्

86जगज्जनन्यां जगदीश वैशसंस्यादेव यत्कर्मणि नः समीहितम्।
करो87षि फल्ग्वप्युरु दीनवत्स88लः स्व एव धिष्ण्येऽभिरतस्य किं तया॥ २८ ॥

अनुवाद (हिन्दी)

जगदीश्वर! जगज्जननी लक्ष्मीजीके हृदयमें मेरे प्रति विरोधभाव होनेकी संभावना तो है ही; क्योंकि जिस आपके सेवाकार्यमें उनका अनुराग है, उसीके लिये मैं भी लालायित हूँ। किन्तु आप दीनोंपर दया करते हैं, उनके तुच्छ कर्मोंको भी बहुत करके मानते हैं। इसलिये मुझे आशा है कि हमारे झगड़ेमें भी आप मेरा ही पक्ष लेंगे। आप तो अपने स्वरूपमें ही रमण करते हैं; आपको भला, लक्ष्मीजीसे भी क्या लेना है॥ २८॥

वीरराघवः

भवतु नाम कलिस्तथापि भजेयमित्याह - जगदिति । हे जगदीश ! जगज्जनन्यां जगन्मातरि लक्ष्म्यां वैशसं विरोधः स्यादेव । सत्र हेतुः - यस्याः कर्मणि नः समीहितमिच्छा भवति, तथापि इन्द्रविरो89धे मत्पक्षपातवत् अत्रापि तव मत्पक्षपात एव स्यादित्याह ! फल्गु तुच्छमपि उरु बहु करोषि यतो दीनेषु वत्सलः । स्व एव धिष्ण्ये स्वस्वरूप एवाभिरतस्य तव तया जगज्जनन्या किं प्रयोजनं तां नाद्रियस इत्यर्थः । यद्वा नन्वेतावन्तं कालं कर्म फलासङ्गेनानुष्ठितमधुना फलासङ्गाभावेऽप्यवश्यं मां भजतोऽप्यैहिकं फलं दास्याम्येव तत्राह - जगज्जनन्यामिति । हे जगदीश ! कर्मणि यज्ञादौ जगज्जनन्या प्रकृत्या यन्नः अस्माकं समीहितं फलं तद्वैशसमनर्थरूपं फलं संसाराभिप्रायेण वैशसमित्युक्तं स्यादेव प्राकृतं फलं स्यादेवेत्यर्थः । किन्तु फल्ग्वपि प्राकृतफलसाधनत्वेन तुच्छमपि यज्ञादिकर्म उरु फल्ग्वपि प्राकृतफलसाधनत्वेन तुच्छमपि यज्ञादिकर्म उरु करोषि तस्मिन् स्वाराधनैकवेषतामापाद्य स्वविषयभक्त्युत्पादनद्वारा अनन्तस्थिरमुक्ति फलसाधनतासम्पादनेनोरु करोषीत्यर्थः । यतो भवान् दीनवत्सलः 90दीनेषु वत्सलः90 दोषादर्शी । अयम्भावः - यद्यपि 91वयम् अनादिप्रकृतिसम्बन्धात् यज्ञादिकर्मणां त्वदाराधनरूपतामजानन्तः पशुपुत्रवृष्ट्यन्नस्वर्गाद्यैहिकामुष्मिकफलसाधनतामापाततश्चोदनाभ्यः प्रतिपन्नामवबुद्ध्य कर्मानुतिष्ठामः । तथापि त्वं दीनेषु दासेषु दोषादर्शी 92फल्गु फलाशां निवर्त्यानन्तस्थिरफलसाधनतामेव निष्पादयसीति । जगज्जगत्यामिति पाठे प्राणिपूर्णभुवने इत्यर्थः । फल्गुत्वमेवोपपादयति - स्व एव धिष्ण्ये स्वस्वरूप एवाभिरतस्य स्वात्मारामस्येत्यर्थः, तया जनन्या किं प्रयोजनं स्वात्मारामस्य प्राकृतं फलं किमिति न भवति अतिक्षुद्रमित्यर्थः, स्वात्मारामस्य जगजगत्यां फल्गु परलोकप्राप्तिरित्यर्थः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

भजन्त्यथ त्वामत एव साधवो
व्युदस्तमायागुणविभ्रमोदयम्।
भवत्पदानुस्मरणादृते सतां
निमित्तमन्यद‍्भगवन्न विद्महे॥

मूलम्

भजन्त्यथ त्वामत एव साधवो व्युदस्तमायागुणविभ्रमोदयम्।
भवत्पदानुस्मरणादृते सतां निमित्तमन्यद‍्भगवन्न विद्महे॥ २९ ॥

अनुवाद (हिन्दी)

इसीसे निष्काम महात्मा ज्ञान हो जानेके बाद भी आपका भजन करते हैं। आपमें मायाके कार्य अहंकारादिका सर्वथा अभाव है। भगवन्! मुझे तो आपके चरणकमलोंका निरन्तर चिन्तन करनेके सिवा सत्पुरुषोंका कोई और प्रयोजन ही नहीं जान पड़ता॥ २९॥

वीरराघवः

एवमैश्वर्यान्तरेभ्य आत्मानुभवस्यातिशय उक्तः, ततोऽपि भगवद्नुभवस्यातिशयत्वं सूचयन् स्वात्मानुभवपूर्वकभक्तियोगस्य कर्तव्यतां सोदाहरणमाह - भजन्तीति । अत एव केवलकर्मणां फल्गुत्वादेव साधवो निष्कामाः अथ प्रत्यगात्मयाथात्म्यज्ञानानन्तरं त्वां भजन्ति । कथम्भूतम् ? व्युदस्तमायागुणविभ्रमोदयं मायाया ये गुणा रजस्तमादयः तन्मूलको यो भ्रमः देहात्मभ्रमः स्वतन्त्र्यात्मभ्रमश्च तस्य य उदयः उद्रेकः व्युदस्तः निरस्तः मायागुणविभ्रमोदयो येन तं संश्रितमायागुणभ्रमनिरासकमित्यर्थः । निरतिशयानन्दरूपमात्मानुभवं लब्ध्वापि किमर्थं मां भजन्ते तत्राह - हे भगवन् ! सतां भवत्पदानुस्मरणात् ऋते त्वत्पदाम्बुजस्मरणं विना अन्यन्निमित्तं फलं न विद्महे, नित्यनिरतिशयानन्तानन्दरूपे त्वच्चरणस्मरणे समुद्रे विप्रु डिव केवलस्वात्मानुभवोऽप्यतितुच्छ इति भावः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

मन्ये गिरं ते जगतां विमोहिनीं
वरं वृणीष्वेति भजन्तमात्थ यत्।
वाचा नु तन्त्या यदि ते जनोऽसितः
कथं पुनः कर्म करोति मोहितः॥

मूलम्

मन्ये गिरं ते जगतां विमोहिनीं वरं वृणीष्वेति भजन्तमात्थ यत्।
वाचा नु तन्त्र्या यदि ते जनोऽसितः कथं पुनः कर्म करोति मोहितः॥ ३० ॥

अनुवाद (हिन्दी)

मैं भी बिना किसी इच्छाके आपका भजन करता हूँ, आपने जो मुझसे कहा कि ‘वर माँग’ सो आपकी इस वाणीको तो मैं संसारको मोहमें डालनेवाली ही मानता हूँ। यही क्या, आपकी वेदरूपा वाणीने भी तो जगत‍्को बाँध रखा है। यदि उस वेदवाणीरूप रस्सीसे लोग बँधे न होते, तो वे मोहवश सकाम कर्म क्यों करते?॥ ३०॥

वीरराघवः

वरैः प्रलोभनं कृपालोस्तवानुचितमित्याशयेनाह - मन्य इति । त्वां भजन्तं मां वरं वृणीष्वेति यदात्थ अवोचः तां ते तव गिरं जगतां विमोहिनीं विषमिश्रपयः पानप्रलोभनवाक्यतुल्यां मन्ये । त्वदभजनात् प्राप्तसंसाराणां दैवात् त्वद्भजने सति पुनस्तेषां वरप्रलोभनैः संसारहेतुमेवाऽऽपादयसि भक्तानुग्रहैकशीलस्य दयालोस्तव तन्निग्रहोऽनुचित इति भावः । नु अहो ते तव तन्त्या दामतुल्यया बन्धक्या वाचा “अपाम सोमममृता अभूम, अक्षय्यं हवैचातुर्मास्य याजिनः सुकृतं भवति” । (ऋक्. सं. 6-4-11) इत्यादिकया “यामिमां पुष्पितां वाचम्” (भ.गी. 2-42) इति त्वदुक्त विधया वेदगिरा जनो लोकः यदि असितः अबद्धः स्यात्, “षिञ् बन्धने” । (धातुपाठे) आपाततः प्रतिपन्नफलाशानिर्मुक्तो मुमुक्षुः स्यादित्यर्थः । तर्हि कथं पुनः फलैः मोहितस्सन् कर्म प्रवृत्तिधर्मं करोतीत्यर्थः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

त्वन्माययाद्धा जन ईश खण्डितो
यदन्यदाशास्त ऋतात्मनोऽबुधः।
यथा चरेद‍्बालहितं पिता स्वयं
तथा त्वमेवार्हसि नः समीहितुम्॥

मूलम्

त्वन्माययाद्धा 93जन ईश खण्डितो यदन्यदाशास्त ऋतात्मनोऽबुधः।
यथा चरेद‍्बालहितं पिता स्वयं तथा त्वमेवार्हसि नः समी94हितम्॥ ३१ ॥

अनुवाद (हिन्दी)

प्रभो! आपकी मायासे ही मनुष्य अपने वास्तविक स्वरूप आपसे विमुख होकर अज्ञानवश अन्य स्त्री-पुत्रादिकी इच्छा करता है। फिर भी जिस प्रकार पिता पुत्रकी प्रार्थनाकी अपेक्षा न रखकर अपने-आप ही पुत्रका कल्याण करता है, उसी प्रकार आप भी हमारी इच्छाकी अपेक्षा न करके हमारे हितके लिये स्वयं ही प्रयत्न करें॥ ३१॥

वीरराघवः

त्वन्मायया मोहितस्य त्वया पुनर्मोहनं 95न कार्यं95 किन्तु हितमेव चेष्टितव्यमित्याह - त्वन्माययेतिहे ईश ! त्वन्मायया अबुधः स्वात्मपरमात्मयाथात्म्य ज्ञानविधुरः जनः लोकः दैवात्वां भजन् ऋतात्मनः सत्यात्मनस्त्वत्तः यदि अन्यत् अर्थकामादिकमाशास्ते तर्हि खण्डितः पृथक्कृतः दूरीकृत एव स्यादित्यर्थः । ईशेति हेतुगर्भम्, आत्मना ईशेन त्वया आ96त्मीयमीशित्वं दूरीकृतं स्यादितीशत्वमेव विप्लुतं स्यादिति भावः । अतः स्वयमविज्ञापित एव 97त्वं बालहित98मज्ञपुत्रहितं पिता यथा चरेत् कुर्यात् तथा नः समीहितं कर्तुमर्हसि ॥ ३१ ॥

श्लोक-३२

मूलम् (वचनम्)

99मैत्रेय उवाच99

विश्वास-प्रस्तुतिः

इत्यादिराजेन नुतः स विश्वदृक्
तमाह राजन् मयि भक्तिरस्तु ते।
दिष्ट्येदृशी धीर्मयि ते कृता यया
मायां मदीयां तरति स्म दुस्त्यजाम्॥

मूलम्

100इत्यादिराजेन नुतः स विश्वदृक् तमाह राज101न्मयि भक्ति102रस्तु ते।
दिष्ट्येदृशी धीर्मयि 103ते कृता यया मायां मदीयां 104तरति स्म दुस्त्यजाम्104॥ ३२ ॥

वीरराघवः

इति पूर्वोक्तरीत्या आदिराजेन पृथुना नुतः स्तुतः स विश्वभुग्भगवान् तमादिराजं प्रत्याह । उक्तमेवाह - हे राजन् ! मयि ते तव भक्तिरस्तु वर्धतां, दिष्टया दैववशेन ते त्वया मयीदृशी धीर्भक्तिः कृता, कथम्भूता ? यया धिया दुस्त्यजामपि मदीयां मायां तरति स्म ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

तत्त्वं कुरु मयाऽऽदिष्टमप्रमत्तः प्रजापते।
मदादेशकरो लोकः सर्वत्राप्नोति शोभनम्॥

मूलम्

105 106तत्त्वं कुरु 107मयाऽऽदिष्टमप्रमत्तः प्रजापते।
मदादेशकरो लोकः सर्व108त्राप्नोति शोभनम्॥ ३३ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—आदिराज पृथुके इस प्रकार स्तुति करनेपर सर्वसाक्षी श्रीहरिने उनसे कहा, ‘राजन्! तुम्हारी मुझमें भक्ति हो। बड़े सौभाग्यकी बात है कि तुम्हारा चित्त इस प्रकार मुझमें लगा हुआ है। ऐसा होनेपर तो पुरुष सहजमें ही मेरी उस मायाको पार कर लेता है, जिसको छोड़ना या जिसके बन्धनसे छूटना अत्यन्त कठिन है। अब तुम सावधानीसे मेरी आज्ञाका पालन करते रहो। प्रजापालक नरेश! जो पुरुष मेरी आज्ञाका पालन करता है, उसका सर्वत्र मंगल होता है’॥ ३२-३३॥

वीरराघवः

उपसंहरति - इतीति । वैन्यस्य राजर्षेः प्रभोः अर्थवत् श्रुण्वतामपि पुरुषार्थसाधनं वचः अभिनन्द्य तेन पूजितः एनं वैन्यं अनुगृह्याच्युतो भगवान् गन्तुं मतिं चक्रे ॥ ३३ ॥

श्लोक-३४

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद्वचः।
पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेऽच्युतो मतिम्॥

मूलम्

इति वैन्यस्य राजर्षेः 109प्रतिनन्द्यार्थवद्वचः।
पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेऽच्युतो मतिम्॥ ३४ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! इस प्रकार भगवान‍्ने राजर्षि पृथुके सारगर्भित वचनोंका आदर किया। फिर पृथुने उनकी पूजा की और प्रभु उनपर सब प्रकार कृपा कर वहाँसे चलनेको तैयार हुए॥ ३४॥

श्लोक-३५

विश्वास-प्रस्तुतिः

देवर्षिपितृगन्धर्वसिद्धचारणपन्नगाः।
किन्नराप्सरसो मर्त्याः खगा भूतान्यनेकशः॥

मूलम्

देवर्षिपितृगन्ध110र्वसिद्धचारणपन्नगाः।
किन्नराप्सरसो मर्त्याः खगा भूतान्यनेकशः॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः।
सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः॥

मूलम्

यज्ञेश्वरधिया राज्ञा 111वाग्चित्ताञ्जलिभक्ति112भिः।
सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः॥ ३६ ॥

अनुवाद (हिन्दी)

महाराज पृथुने वहाँ जो देवता, ऋषि, पितर, गन्धर्व, सिद्ध, चारण, नाग, किन्नर, अप्सरा, मनुष्य और पक्षी आदि अनेक प्रकारके प्राणी एवं भगवान‍्के पार्षद आये थे, उन सभीका भगवद‍्बुद्धिसे भक्तिपूर्वक वाणी और धनके द्वारा हाथ जोड़कर पूजन किया। इसके बाद वे सब अपने-अपने स्थानोंको चले गये॥ ३५-३६॥

वीरराघवः

तदा देवादयः सर्वे राज्ञा यज्ञेश्वर धिया भगवदात्मकत्वधिया यथायोग्यं वागादिभिः सभाजिताः पूजिताः ततः यज्ञभूमेः वैकुण्ठं ? भगवन्तमनुसृत्य गताः ययुः ॥ ३५, ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

भगवानपि राजर्षेः सोपाध्यायस्य चाच्युतः।
हरन्निव मनोऽमुष्य स्वधाम प्रत्यपद्यत॥

मूलम्

भगवानपि राजर्षेः सोपाध्यायस्य 113पश्यतः।
हरन्निव मनोऽमुष्य स्वधाम 114प्रत्यगा115त्प्रभुः॥ ३७ ॥

अनुवाद (हिन्दी)

भगवान् अच्युत भी राजा पृथु एवं उनके पुरोहितोंका चित्त चुराते हुए अपने धामको सिधारे॥ ३७॥

वीरराघवः

सोपाध्यायस्य राज्ञः पश्यतस्सतः अमुष्य राज्ञो मनो हरन्निव भगवान् स्वधाम प्रत्यगात् ॥ ३९ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने।
अव्यक्ताय च देवानां देवाय स्वपुरं ययौ॥

मूलम्

अदृष्टाय नमस्कृत्य 116नृपस्सन्दर्शितात्मने।
117वासुदेवाय देवानां देवाय स्वपुरं ययौ॥ ३८ ॥

अनुवाद (हिन्दी)

तदनन्तर अपना स्वरूप दिखाकर अन्तर्धान हुए अव्यक्तस्वरूप देवाधिदेव भगवान‍्को नमस्कार करके राजा पृथु भी अपनी राजधानीमें चले आये॥ ३८॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे विंशोऽध्यायः॥ २०॥

वीरराघवः

अदृष्टाय चक्षुर्विषयतामप्राप्ताय सन्दर्शित आत्मा येन तस्मै, देवानां ब्रह्मादीनामपि देवाय वासुदेवाय । “वसन्ति यत्र भूतानि भूतात्मानि” (वि.पु. 6-5-75) इति निरुक्त वासुदेव पदवाच्याय नमस्कृत्य स्वपुरं ययौ ॥ ३८ ॥

इति श्रीमद्भागवते चतुर्थस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवत चन्द्रचन्द्रिकायां व्याख्यायां विंशोऽध्यायः ॥ २० ॥


  1. M,MA वाञ्चापि ↩︎

  2. A,B,G,J,T स्तुष्टो ↩︎

  3. A,B,T omit ऋषि ↩︎

  4. A,B add एकोन ↩︎

  5. MS श्रीवैकुण्ठः, W Omits ↩︎ ↩︎

  6. M,MA,MS ते ह्यकार्षी, A,B,J,T तेऽकारर्षी ; G,I तेऽकार्षो; V तेऽकारिष ↩︎

  7. W हि ↩︎

  8. A,B,T उक्त ↩︎

  9. M,MA म ! ↩︎

  10. A,B,G,I,J,T,V यर्हि नात्मा ↩︎

  11. W रः ↩︎

  12. A,B,T या ↩︎

  13. A,B,T omit ↩︎ ↩︎

  14. A,B,T ल ↩︎

  15. M,MA,MS एवं इमं ↩︎

  16. M,MA,MS आरब्धमिति ↩︎

  17. M,MA न सञ्जते; A,B,G,I,J,T,MA,V ऽनुषज्जते ↩︎

  18. A,B,T ज्ज ↩︎

  19. A,B,G,I,J,T,V निरात्माऽऽत्माऽऽत्मनः; M,Ma,Ms निरात्मा नाऽऽत्मनः ↩︎

  20. W ष्व ↩︎

  21. M,Ma,Ms र्था ↩︎

  22. M,Ma,Ms वै धर्मः ↩︎

  23. A,B,T अथ ↩︎

  24. A,B,T omit अपि ↩︎

  25. A,B,T omit भगवद् ↩︎

  26. A,B,T देहानु ↩︎

  27. W omits स्व ↩︎

  28. M,Ma समव ↩︎

  29. A,B,T omit सन्तम् ↩︎

  30. A,B,T omit नाज्यते ↩︎

  31. W शान्तं ↩︎

  32. W दीनि ↩︎

  33. A,B,T add द्रव्यमयम् ↩︎

  34. A,B,T omit इमम् ↩︎

  35. A,B,T जीवनद ↩︎

  36. M,Ma,Ms हं ↩︎

  37. M,Ma,Ms दृष्ट्वा सुस ↩︎

  38. A,T omit ननु ↩︎

  39. A,B,T विकासः प्रसररूपाभावस्य ↩︎ ↩︎

  40. A,B,T omit रूप ↩︎

  41. A,B,T omit विजातीय ↩︎

  42. A,B,T omit प्रीति ↩︎

  43. M,Ma,Ms सत्व ↩︎

  44. A,B,G,I,J,T,V वी ↩︎

  45. A,B,T साम्यानु ↩︎

  46. M,Ma,Ms तं ↩︎

  47. M,Ma,Ms अतोऽ ↩︎

  48. A,B,T omit श्रेयः ↩︎

  49. A,B,T omit आदत्ते ↩︎

  50. A,B,G,I,J,T,MS,V वृत्त ↩︎

  51. M,Ma धर्मे प्रजानां च समोऽ ↩︎

  52. Ms नाऽ ↩︎

  53. A,B,T omit ↩︎ ↩︎

  54. W आसन्नेन ↩︎

  55. M,Ma,Ms वृत्त ↩︎

  56. W तमादेश ↩︎

  57. M,Ma,Ms शीर्ष्णा ↩︎

  58. W पाप्मना ↩︎

  59. A,B,G,I,J,Ms,T थ ↩︎

  60. Ms ड ↩︎

  61. W omits सर्वात्मा ↩︎

  62. W च ↩︎

  63. A,B,G,I,J,M,Ma,T गु ↩︎

  64. Ms नुपथादव; M,Ma मुमथाध्यव ↩︎

  65. A,B,T एवं तु ↩︎

  66. A,B,T गु ↩︎

  67. M,Ma भि ↩︎

  68. Ms श्या ↩︎

  69. M,Ma,Ms कणान् ↩︎

  70. M,Ma र्वृणीत कः ↩︎

  71. M,Ma,Ms बम् । ↩︎

  72. M,Ma,Ms तं ↩︎

  73. M,Ms मृत ↩︎

  74. A,B,T देहि ↩︎

  75. W मि ↩︎

  76. V दृते ↩︎

  77. A,B,T omit अनु ↩︎

  78. A,T omit ↩︎ ↩︎

  79. W omits त्वत् ↩︎

  80. A,B,T omit एव ↩︎

  81. A,B,T omit यत् ↩︎

  82. A,B,G,I,J,T जे ↩︎

  83. A,B,T omit अथ ↩︎

  84. A,B,T नित्येभ्यः ↩︎ ↩︎

  85. A,B,T omit ↩︎ ↩︎

  86. M,Ma जन्तोर्जगत्यां ↩︎

  87. B ति ↩︎

  88. M,Ma,Ms ल ↩︎

  89. A,B,T add अपि ↩︎

  90. A,B,T omit ↩︎ ↩︎

  91. A,B,T omit वयम् ↩︎

  92. W omits फल्गु ↩︎

  93. M,Ma जगदीश ↩︎

  94. A,B,G,I,J,M,Ma,Ms,T,V तुम् ↩︎

  95. A,B,T नोचितं ↩︎ ↩︎

  96. A,B,T मैश्वर्यं ↩︎

  97. A,B,T omit त्वं ↩︎

  98. W omits अज्ञ ↩︎

  99. M,Ma श्री भगवानुवाच; Ms श्रीवैकुण्ठः ↩︎ ↩︎

  100. This verse is not printed in M,Ma Edns. There is not commentary of Vijayadwaja in the same. ↩︎

  101. Ms adds श्रीवैकुण्ठः ↩︎

  102. Ms रस्खला ↩︎

  103. Ms लोकहिते ↩︎

  104. ततरुस्सुदुस्तराम् ↩︎ ↩︎

  105. This verse is not commnented by either Sridhara or Verreraghava or Vijayadhaja ↩︎

  106. Ms,V सत्वं ↩︎

  107. Ms ममाऽऽदि; W मयोद्दि ↩︎

  108. Ms,T,V मा ↩︎

  109. Ms,V अभि ↩︎

  110. Ms र्वाः ↩︎

  111. A,B,G,I,J,M,Ma,Ms,T वाग्वि ↩︎

  112. A,B,G,I,J,M,Ma,Ms,T तः । ↩︎

  113. A,B,G,I,J,T,V चाच्युतः ↩︎

  114. A,B,G,I,J,T प्रत्यषद्यत ↩︎

  115. V द्विभुः ↩︎

  116. M,Ma,Ms स्वस्य स ↩︎

  117. A,B,G,I,J,T अव्यक्ताय च ↩︎