[एकोनविंशोऽध्यायः]
भागसूचना
महाराज पृथुके सौ अश्वमेध यज्ञ
श्लोक-१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
अथादीक्षत राजा तु हयमेधशतेन सः।
ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती॥
मूलम्
अथादीक्षत 1राजर्षि हयमेध शतेन सः।
ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती॥ १ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—विदुरजी! महाराज मनुके ब्रह्मावर्त क्षेत्रमें, जहाँ सरस्वती नदी पूर्वमुखी होकर बहती है, राजा पृथुने सौ अश्वमेध-यज्ञोंकी दीक्षा ली॥ १॥
वीरराघवः
एवं पृथुर्धरित्र्या गोरूपधरायास्तत्सन्दर्शितोपाय दुग्धौषधिबीजस्समीकृत भूमिः कल्पितप्रजानिवासोऽभूदित्युक्तम् । अथ सङ्कल्पितशताश्वमेधः स्वनुष्ठितैकोनशताश्वमेधः 2शतक्रत्वपहृत चरमाश्वमेध2 पशुः जिघांसितशतक्रतुः चतुरानन निदे3शेन निवृत्तशतक्रतु3 वधो 4विरत चरम क्रतुः कृतशतक्रतु संख्यः कृतावभृथस्नानः प्राप्तदेव वरो विप्रगणा5शासितो दत्त ऋत्विग्दक्षिणः पूजित देवर्षिगणो बभूवेत्याह मुनि6रेकोनविंशेन अथेति । अथ दोहन समीकरण प्रजानिवासकरणानन्तरं स राजर्षिः पृथुः हयमेधशतेन निमित्तेन आदीक्षत दीक्षितोऽभूत् शताश्वमेध सङ्कल्पमकरोदित्यर्थः । कुत्रेत्यत्राह - “सरस्वती दृषद्वत्योर्देवनद्योर्यदन्तरम् । तं देव निर्मितं देशं ब्रह्मावर्तं प्रचक्षते” (मनु.स्मृ. 2-17) इति प्रसिद्धे ब्रह्मावर्ताख्ये, यत्र क्षेत्रे प्राची सरस्वती नदी प्रवहति इति शेषः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
तदभिप्रेत्य भगवान् कर्मातिशयमात्मनः।
शतक्रतुर्न ममृषे पृथोर्यज्ञमहोत्सवम्॥
मूलम्
तदभिप्रेत्य भगवान् कर्मातिशयमात्मनः।
शतक्रतुर्न ममृषे पृथोर्यज्ञमहोत्सवम्॥ २ ॥
अनुवाद (हिन्दी)
यह देखकर भगवान् इन्द्रको विचार हुआ कि इस प्रकार तो पृथुके कर्म मेरे कर्मोंकी अपेक्षा भी बढ़ जायँगे। इसलिये वे उनके यज्ञमहोत्सवको सहन न कर सके॥ २॥
वीरराघवः
भगवान् शतक्रतुरिन्द्रः तत् आत्मनः स्वस्य कर्म, अतिशेते इत्यतिशयम्, अभिप्रेत्य ज्ञात्वा आत्मन इति पञ्चमी वा । पृथोः यज्ञमहोत्सवं न ममृषे न सेहे ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
श्लोक-३
यत्र यज्ञपतिः साक्षाद्भगवान् हरिरीश्वरः।
अन्वभूयत सर्वात्मा सर्वलोकगुरुः प्रभुः॥
मूलम्
यत्र यज्ञपतिः साक्षाद्भगवान् हरिरीश्वरः।
7अन्वभूयत सर्वात्मा सर्वलोकगुरुः प्रभुः॥ ३ ॥
अनुवाद (हिन्दी)
महाराज पृथुके यज्ञमें सबके अन्तरात्मा सर्वलोकपूज्य जगदीश्वर भगवान् हरिने यज्ञेश्वररूपसे साक्षात् दर्शन दिया था॥ ३॥
वीरराघवः
कर्मातिशयं प्रपञ्चयन् ब्रह्मावर्तं प्रस्तौति यत्रेति सप्तभिः । यत्र महोत्सवदेशे ईश्वरस्सर्वान्तरात्मा षाड्गुण्यपूर्णः सर्वलोकहितोपदेष्टा प्रभुः यज्ञाराध्यः तत्फलप्रदश्च हरिः साक्षादन्वभूयत प्रत्यक्षोऽभूत् तत्र आविर्बभूवेति यावत् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
अन्वितो ब्रह्मशर्वाभ्यां लोकपालैः सहानुगैः।
उपगीयमानो गन्धर्वैर्मुनिभिश्चाप्सरोगणैः॥
मूलम्
अन्वितो ब्रह्मशर्वाभ्यां लोकपालैस्सहानुगैः।
उपगीयमानो गन्धर्वैः मुनिभिश्चाप्सरोगणैः॥ ४ ॥
अनुवाद (हिन्दी)
उनके साथ ब्रह्मा, रुद्र तथा अपने-अपने अनुचरोंके सहित लोकपालगण भी पधारे थे। उस समय गन्धर्व, मुनि और अप्सराएँ प्रभुकी कीर्ति गा रहे थे॥ ४॥
वीरराघवः
कथम्भूतोऽन्वभूयत तत्राऽह ब्रह्म 8रुद्राभ्यां तथा सभृत्यैर्लोकपालैश्च अन्वितो युक्तः गन्धर्वादिभिः उपगीयमानः अन्वभूयत ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः।
सुनन्दनन्दप्रमुखाः पार्षदप्रवरा हरेः॥
वीरराघवः
सिद्धादयस्सुनन्दनन्दौ प्रमुखौ मुख्यौ येषां ते हरेर्भगवतः पार्षदप्रवराश्च ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
कपिलो नारदो दत्तो योगेशाः सनकादयः।
तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः॥
मूलम्
कपिलो नारदो दत्तो 11योगेशास्सनकादयः।
तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः॥ ६ ॥
अनुवाद (हिन्दी)
सिद्ध, विद्याधर, दैत्य, दानव, यक्ष, सुनन्द-नन्दादि भगवान्के प्रमुख पार्षद और जो सर्वदा भगवान्की सेवाके लिये उत्सुक रहते हैं—वे कपिल, नारद, दत्तात्रेय एवं सनकादि योगेश्वर भी उनके साथ आये थे॥ ५-६॥
वीरराघवः
तथा कपिलादयः ये चान्ये भगवतो भक्तास्तेपि तत्सेवने भगवत्सेवने उत्सुका आसक्ताः सन्तः तं भगवन्तमन्वीयुः 12अनुसृतवन्तः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
यत्र धर्मदुघा भूमिः सर्वकामदुघा सती।
दोग्धि स्माभीप्सितानर्थान् यजमानस्य भारत॥
अनुवाद (हिन्दी)
भारत! उस यज्ञमें यज्ञसामग्रियोंको देनेवाली भूमिने कामधेनुरूप होकर यजमानकी सारी कामनाओंको पूर्ण किया था॥ ७॥
वीरराघवः
हे भारत ! यत्र ब्रह्मावर्ते धर्मदुघा घृतादि हविर्दोग्ध्री भूमिः सर्वकामदुघा तत्तदीप्सितान् अनीप्सितांश्च कामान् दुहन्ती यजमानस्य पृथोः अभीप्सितानर्थान् दोग्ध्री 15स्म दुदुहे ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
ऊहुः सर्वरसान्नद्यः क्षीरदध्यन्नगोरसान्।
तरवो भूरिवर्ष्माणः प्रासूयन्त मधुच्युतः॥
मूलम्
ऊहुः सर्वरसान्नद्यः क्षीरदध्यन्नगोरसान्।
तरवो भूरिवर्ष्माणः प्रासूयन्त मधु16च्युतः॥ ८ ॥
अनुवाद (हिन्दी)
नदियाँ दाख और ईख आदि सब प्रकारके रसोंको बहा लाती थीं तथा जिनसे मधु चूता रहता था—ऐसे बड़े-बड़े वृक्ष दूध, दही, अन्न और घृत आदि तरह-तरहकी सामग्रियाँ समर्पण करते थे॥ ८॥
वीरराघवः
नद्यः सर्वरसान् इक्षुद्राक्षादिरसान् क्षीरं दधिचान्नं पानकादि गोरसं घृतं तक्रं च ऊहुः वहन्तिस्म । तरवः भूरीणि विस्तृतानि वर्ष्माणि शरीराणि येषां तथा भूताः मधुश्चतः मधु स्राविणस्सन्तः प्रासूयन्त पुष्पफलादिकमिति शेषः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
सिन्धवो रत्ननिकरान् गिरयोऽन्नं चतुर्विधम्।
उपायनमुपाजह्रुः सर्वे लोकाः सपालकाः॥
मूलम्
सिन्धवो रत्ननिकरान् गिरयोऽन्नं चतुर्विधम्।
उपाय17नमुपाजह्रुः सर्वे लोकाः सपालकाः॥ ९ ॥
अनुवाद (हिन्दी)
समुद्र बहुत-सी रत्नराशियाँ, पर्वत भक्ष्य, भोज्य, चोष्य और लेह्य—चार प्रकारके अन्न तथा लोकपालोंके सहित सम्पूर्ण लोक तरह-तरहके उपहार उन्हें समर्पण करते थे॥ ९॥
वीरराघवः
सिन्धवस्समुद्राः रत्नानां निकरान् समूहान् धृतवन्त इति योग्य क्रियाध्याहारः यद्वा अनुषक्तस्य प्रासूयन्तेत्यस्य प्रकृतोपयुक्तार्थ परत्वम् । गिरयः चतुर्विधं भक्ष्यभोज्य18चोष्य लेह्यभेदेन चतुर्विधमन्नं प्रददुः सपालकास्सर्वे जनाः उपायनं साम्मानिकं उपाजह्रु समर्पितवन्तः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
इति चाधोक्षजेशस्य पृथोस्तु परमोदयम्।
असूयन् भगवानिन्द्रः प्रतिघातमचीकरत्॥
अनुवाद (हिन्दी)
महाराज पृथु तो एकमात्र श्रीहरिको ही अपना प्रभु मानते थे। उनकी कृपासे उस यज्ञानुष्ठानमें उनका बड़ा उत्कर्ष हुआ। किन्तु यह बात देवराज इन्द्रको सहन न हुई और उन्होंने उसमें विघ्न डालनेकी भी चेष्टा की॥ १०॥
वीरराघवः
अधोक्षजो भगवान् ईशो नाथो यस्य, तस्य पृथोः भगवदवतारभूतस्याप्यावेशावतारत्वाज्जीवाभिप्रायेणऽधोक्षजेशस्येत्युक्तम् । इत्युक्तविधं परमः उदयो वृद्धिर्यस्मिन् तत्कर्म 21असूयुरसहमानः प्रतिघातं विघ्नं अचीकरत् अकरोत् निवृत्तप्रे22रणात् कृञोणिच् ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
चरमेणाश्वमेधेन यजमाने यजुष्पतिम्।
वैन्ये यज्ञपशुं स्पर्धन्नपोवाह तिरोहितः॥
मूलम्
चरमेणाश्वमेधेन यजमाने यजुष्पतिम्।
वैन्ये यज्ञ23पशुं स्पर्धन्नपोवाह तिरोहितः॥ ११ ॥
अनुवाद (हिन्दी)
जिस समय महाराज पृथु अन्तिम यज्ञद्वारा भगवान् यज्ञपतिकी आराधना कर रहे थे, इन्द्रने ईर्ष्यावश गुप्तरूपसे उनके यज्ञका घोड़ा हर लिया॥ ११॥
वीरराघवः
प्रतिघातकरणमेव प्रपञ्चयति चरमेणेत्यादिना । यजुष्पतिं भगवतस्त्रयीपतित्वेपि प्रकृतस्याश्वमेधस्य यजुर्वेद विहितत्वात्तदधिपति24त्वाभिप्रायेण यजुष्पतिमित्युक्तम् । यजुष्पतिं भगवन्तं चरमेण शततमेनाश्वमेधेन वैन्ये पृथौ यजमाने आराधयति 25सति स्पर्धन्स्पर्धमानः 26इन्द्रः चक्षिङोङित्करणेन अनुदात्ते त्वल्लक्षणस्यात्मनेपदस्यानित्यत्वज्ञापनाच्छत्रादेशः । तिरोहितस्सन् यज्ञ पशुमश्वमपोवाह अपहृतवानित्यर्थः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
तमत्रिर्भगवानैक्षत्त्वरमाणं विहायसा।
आमुक्तमिव पाखण्डं योऽधर्मे धर्मविभ्रमः॥
मूलम्
तमत्रिर्भगवानैक्षत्त्वरमाणं विहायसा।
आमुक्तमिव पा27षण्डं योऽधर्मे धर्मविभ्रमः॥ १२ ॥
वीरराघवः
तमिन्द्रं विहाय28सा आकाशे त्वरमाणं धावन्तं भगवानत्रिर्मुनिः ऐक्षत्। कथम्भूतम् ? अधर्मे धर्म विभ्रमः धर्मभ्रान्तिकर जटिलत्वाद्याकार लक्षणो 29यः पा30षण्डः तं आमुक्तं प्रविष्टम् । यद्वा आमुक्तमिव 31कवचितमिव पाषण्डं पाषण्डरूपं31 कवचमिव 32गृहीतवन्तमित्यर्थः32 । कोऽसौ पा33षण्डः येन अमुक्तस्तत्राह - य इति । पूर्ववदर्थः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
अत्रिणा चोदितो हन्तुं पृथुपुत्रो महारथः।
अन्वधावत संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्॥
मूलम्
अत्रिणा 34चोदितो हन्तुं पृथुपुत्रो महारथः।
अन्वधावत स35ङ्कद्धस्तिष्ठ तिष्ठेति - चाब्रवीत्॥ १३ ॥
अनुवाद (हिन्दी)
इन्द्रने अपनी रक्षाके लिये कवचरूपसे पाखण्डवेष धारण कर लिया था, जो अधर्ममें धर्मका भ्रम उत्पन्न करनेवाला है—जिसका आश्रय लेकर पापी पुरुष भी धर्मात्मा-सा जान पड़ता है। इस वेषमें वे घोड़ेको लिये बड़ी शीघ्रतासे आकाशमार्गसे जा रहे थे कि उनपर भगवान् अत्रिकी दृष्टि पड़ गयी। उनके कहनेसे महाराज पृथुका महारथी पुत्र इन्द्रको मारनेके लिये उनके पीछे दौड़ा और बड़े क्रोधसे बोला, ‘अरे खड़ा रह! खड़ा रह’॥ १२-१३॥
वीरराघवः
अत्रिणा ज्ञापितः सूचितः पृथोः पुत्रः सङ्क्रुद्धस्सन् तं पशुहर्तारमन्वधावत् तिष्ठतिष्ठेत्यब्रवीच्च ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम्।
जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति॥
मूलम्
तं तादृशाकृतिं वीक्ष्य 36मेने धर्मं शरीरिणम्।
जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति॥ १४ ॥
अनुवाद (हिन्दी)
इन्द्र सिरपर जटाजूट और शरीरमें भस्म धारण किये हुए थे। उनका ऐसा वेष देखकर पृथुकुमारने उन्हें मूर्तिमान् धर्म समझा, इसलिये उनपर बाण नहीं छोड़ा॥ १४॥
वीरराघवः
तादृशाकृतिं पा37षण्डाकृतिं तमश्वहर्तारं वीक्ष्य जटिलं जटाधारिणं भस्मनाच्छन्नं हेतुगर्भमिदं विशेषणद्वयम् । जटिलत्वाद्भस्मनाच्छन्न त्वाच्च शरीरिणां मूर्तं धर्मं मेने बभ्रामेत्यर्थः । अतस्तस्मै अश्वहर्त्रे 38अश्वहर्तारं हन्तुं38 बाणं न मुञ्चति, ना मुञ्चत् । जटिल त्वा39दिना रूपेण अधर्मेपि धर्मभ्रमकरेण भ्रान्तस्तस्मै बाणं नामुञ्चदित्यर्थः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
वधान्निवृत्तं तं भूयो हन्तवेऽत्रिरचोदयत्।
जहि यज्ञहनं तात महेन्द्रं विबुधाधमम्॥
अनुवाद (हिन्दी)
जब वह इन्द्रपर वार किये बिना ही लौट आया, तब महर्षि अत्रिने पुनः उसे इन्द्रको मारनेके लिये आज्ञा दी—‘वत्स! इस देवताधम इन्द्रने तुम्हारे यज्ञमें विघ्न डाला है, तुम इसे मार डालो’॥ १५॥
वीरराघवः
वधादश्वहर्तुर्वधात्रिवृत्तं तं पृथुपुत्रं अत्रिर्भूयः पुनः हन्तुं अचोदयत् प्रेरयामास । चोदनामेवाह हे तात ! यज्ञहनं यज्ञ विघ्नकर्तारमत एव विबुधेष्वधमं यज्ञस्य विबुधाराधनरूपस्य हन्तृत्वा43त्तेषु अधममिति 44अभिप्रायः । महेन्द्रं जहि संहर ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
एवं वैन्यसुतः प्रोक्तस्त्वरमाणं विहायसा।
अन्वद्रवदभिक्रुद्धो रावणं गृध्रराडिव॥
अनुवाद (हिन्दी)
अत्रि मुनिके इस प्रकार उत्साहित करनेपर पृथुकुमार क्रोधमें भर गया। इन्द्र बड़ी तेजीसे आकाशमें जा रहे थे। उनके पीछे वह इस प्रकार दौड़ा, जैसे रावणके पीछे जटायु॥ १६॥
वीरराघवः
एवं प्रोक्तो वैन्यसुतः पृथुपुत्रः विहायसा आकाशे त्वरमाणं धावन्तं इन्द्रं वारणं गजं मृगराडिव सिंह इव अत्यन्तं क्रुद्धः अन्वद्रवत् अनु पृष्ठतः अद्रवत् अ47धावीत् ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
सोऽश्वं रूपं च तद्धित्वा तस्मा अन्तर्हितः स्वराट्।
वीरः स्वपशुमादाय पितुर्यज्ञमुपेयिवान्॥
मूलम्
सोऽश्वं रूपं च तद्धित्वा 48तस्था वन्तर्हितः स्वराट्।
49वीरः 50स्वपशुमादाय पितुर्यज्ञमुपेयिवान्॥ १७ ॥
अनुवाद (हिन्दी)
स्वर्गपति इन्द्र उसे पीछे आते देख, उस वेष और घोड़ेको छोड़कर वहीं अन्तर्धान हो गये और वह वीर अपना यज्ञपशु लेकर पिताकी यज्ञशालामें लौट आया॥ १७॥
वीरराघवः
स स्वराडिन्द्रः तत्पा51षण्डं रूपमश्वञ्च हित्वा अन्तर्हितः तिरोहितः तस्थौ स्थितवान्, स वीरः पुथुपुत्रः पशुम् अश्वम् आदाय गृहीत्वा पितुः पृथोः यज्ञम् उपेयिवान् प्राप्तवान् ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
तत्तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः।
नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो॥
मूलम्
तत्तस्य चाद्भुतं कर्म 52विचक्ष्य परमर्षयः।
नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो॥ १८ ॥
अनुवाद (हिन्दी)
शक्तिशाली विदुरजी! उसके इस अद्भुत पराक्रमको देखकर महर्षियोंने उसका नाम विजिताश्व रखा॥ १८॥
वीरराघवः
तस्य च पृथुपुत्रस्य तदद्भुतं विस्मयनीयं कर्म इन्द्रजयेनाश्वाहरणरूपव्यापारं 53विचक्ष्य दृष्ट्वा परमर्षयोऽत्र्यादयस्सर्वे तस्मै पृथुपुत्राय विजिताश्वः विजयेनाऽऽहृतः अश्वो येन स विजिताश्व इत्यन्वर्थं नामधेयं ददुः चक्रुः । हे प्रभो ! विजितेन्द्रिय ! विदुर ! ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
उपसृज्य तमस्तीव्रं जहाराश्वं पुनर्हरिः।
चषालयूपतश्छन्नो हिरण्यरशनं विभुः॥
मूलम्
उपसृज्य तमस्तीव्रं जहाराश्वं पुनर्हरिः।
चषाल54यूपतश्छन्नो हिरण्यरशनं विभुः॥ १९ ॥
अनुवाद (हिन्दी)
यज्ञपशुको चषाल और यूपमें बाँध दिया गया था। शक्तिशाली इन्द्रने घोर अन्धकार फैला दिया और उसीमें छिपकर वे फिर उस घोड़ेको उसकी सोनेकी जंजीर समेत ले गये॥ १९॥
वीरराघवः
प्रभुः हरिरिन्द्रः तीव्रं निबिडं तमः उपसृज्य सृष्ट्वा तेन तमसाच्छन्नस्सन् चषालयूपे चषालोऽग्रे क्षिप्तः काष्ठकटकः तद्युक्ता द्यूपादित्यर्थः । हिरण्यनिर्मिता रशना यस्य तं अश्वं पुनः जहार अपहृतवान् ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
अत्रिः सन्दर्शयामास त्वरमाणं विहायसा।
कपालखट्वाङ्गधरं वीरो नैनमबाधत॥
मूलम्
अत्रिः सन्दर्शयामास त्वरमाणं विहायसा।
कपालखट्वाङ्गधरं वीरो नैनम55बोधत॥ २० ॥
अनुवाद (हिन्दी)
अत्रि मुनिने फिर उन्हें आकाशमें तेजीसे जाते दिखा दिया, किन्तु उनके पास कपाल और खट्वांग देखकर पृथुपुत्रने उनके मार्गमें कोई बाधा न डाली॥ २०॥
वीरराघवः
पूर्ववद्विहायसा त्वरमाणं इन्द्र अत्रिमुनिः विजिताश्वाय सन्दर्शयामास सन्दर्शितोऽपि वीरो विजिताश्वः एतमिन्द्रं कपाल खट्वाङ्गाधरं हेतुगर्भमिदं, कपालखट्वाङ्ग56धरत्वात् 57नाबोधत न ज्ञातवान्57 ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा।
सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट्॥
मूलम्
अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा।
सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट्॥ २१ ॥
अनुवाद (हिन्दी)
तब अत्रिने राजकुमारको फिर उकसाया और उसने गुस्सेमें भरकर इन्द्रको लक्ष्य बनाकर अपना बाण चढ़ाया। यह देखते ही देवराज उस वेष और घोड़ेको छोड़कर वहीं अन्तर्धान हो गये॥ २१॥
वीरराघवः
अत्रिणा पुनः स एवेन्द्र इति चोदितो विजिताश्वः रुषा तस्मै इन्द्राय विशिखं बाणं सन्दधे । इन्द्रः अश्वं तद्रूपं कपालखद्वाङ्ग धरत्वादिरूपं च हित्वा अन्तर्हित58स्सन् तस्थौ ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
वीरश्चाश्वमुपादाय पितृयज्ञमथाव्रजत्।
तदवद्यं हरे रूपं जगृहुर्ज्ञानदुर्बलाः॥
मूलम्
वीर59स्स्वाश्वमुपादाय पितृयज्ञमथाऽव्रजत्।
तदवद्यं हरे रूपं जगृहुर्ज्ञानदुर्बलाः॥ २२ ॥
अनुवाद (हिन्दी)
वीर विजिताश्व अपना घोड़ा लेकर पिताकी यज्ञशालामें लौट आया। तबसे इन्द्रके उस निन्दित वेषको मन्दबुद्धि पुरुषोंने ग्रहण कर लिया॥ २२॥
वीरराघवः
अथानन्तरं वीरो विजिताश्वः स्वाश्वं स्वपितुर्यज्ञानमश्वमुपादाय गृहीत्वा पितुः पृथोर्यज्ञमव्रजत् । तत्प्रभृति पाषण्डमार्गः प्रवृत्त इत्याह - तदवद्यमिति सार्धैस्त्रिभिः । हरेरिन्द्रस्य तदवद्यं निन्दितं रूपं 60जटिलत्वादिरूपं60 ज्ञानदुर्बलाः ज्ञानहीनाः जगृहुः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया।
तानि पापस्य खण्डानि लिङ्गं खण्डमिहोच्यते॥
अनुवाद (हिन्दी)
इन्द्रने अश्वहरणकी इच्छासे जो-जो रूप धारण किये थे, वे पापके खण्ड होनेके कारण पाखण्ड कहलाये। यहाँ ‘खण्ड’ शब्द चिह्नका वाचक है॥ २३॥
वीरराघवः
एत63देवोपपादयति - हयस्याश्वस्य जिघृक्षया ग्रहीतुमिच्छया यानि यानि रूपाणि जग्राह तानि तानि रूपाणि पापस्य 64षण्डानि समूहा इति वर्णलोपेन निरुक्तानि रूपाणि लिङ्गं षण्डलिङ्गं पापित्वज्ञापकं षण्डं समूह इत्यन्वर्थनाम्ना इहास्मिन् लोके उच्यत इत्यर्थः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
एवमिन्द्रे हरत्यश्वं वैन्ययज्ञजिघांसया।
तद्गृहीतविसृष्टेषु पाखण्डेषु मतिर्नृणाम्॥
वीरराघवः
एवं वैन्यस्य पृथोः यज्ञजिघांसया यज्ञविघ्नं कर्तुमिच्छया अश्वमिन्द्रे हरति सति अश्वहरणोपायतया तेन इन्द्रेण गृहीतेषु पुनः पुनः विसृष्टेषु ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु।
प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु॥
मूलम्
धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु।
प्रायेण 67सज्रते भ्रान्त्या पेशलेषु च वाग्मिषु॥ २५ ॥
अनुवाद (हिन्दी)
इस प्रकार पृथुके यज्ञका विध्वंस करनेके लिये यज्ञपशुको चुराते समय इन्द्रने जिन्हें कई बार ग्रहण करके त्यागा था, उन ‘नग्न’, ‘रक्ताम्बर’ तथा ‘कापालिक’ आदि पाखण्डपूर्ण आचारोंमें मनुष्योंकी बुद्धि प्रायः मोहित हो जाती है; क्योंकि ये नास्तिकमत देखनेमें सुन्दर हैं और बड़ी-बड़ी युक्तियोंसे अपने पक्षका समर्थन करते हैं। वास्तवमें ये उपधर्ममात्र हैं। लोग भ्रमवश धर्म मानकर उनमें आसक्त हो जाते हैं॥ २४-२५॥
वीरराघवः
उपधर्मेषु धर्माभासेषु अत एव पेशलेषु मृदुलेषु अनुकूलाभासेष्विति यावत् । वाग्मिषुमितमिव सम्यगिव वादिषु नग्न रक्तपटादिषु भावप्रधानो निर्देशः । नग्नत्व रक्तपटादित्ववत्सु पाषण्डेषु 68रूपेषु नृणां मतिर्धर्म इति भ्रान्त्या प्रायेण प्रायशः 69सज्जते आसक्ता भवति ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
तदभिज्ञाय भगवान् पृथुः पृथुपराक्रमः।
इन्द्राय कुपितो बाणमादत्तोद्यतकार्मुकः॥
मूलम्
तदभिज्ञाय भगवान् पृथुः पृथुपराक्रमः।
इन्द्राय कुपितो बाणमादत्तोद्यतकार्मुकः॥ २६ ॥
अनुवाद (हिन्दी)
इन्द्रकी इस कुचालका पता लगनेपर परम पराक्रमी महाराज पृथुको बड़ा क्रोध हुआ। उन्होंने अपना धनुष उठाकर उसपर बाण चढ़ाया॥ २६॥
वीरराघवः
तत् इन्द्रकृतं क्रतुविघ्नमभिज्ञाय ज्ञात्वा अपरिमित पराक्रमः पृथुः कुपितस्सन् उद्यतं कार्मुकं धनुर्यस्य सः, इन्द्राय बाणमादत्त | इन्द्रं हन्तुं बाणं गृहीतवानित्यर्थः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
तमृत्विजः शक्रवधाभिसन्धितं
विचक्ष्य दुष्प्रेक्ष्यमसह्यरंहसम्।
निवारयामासुरहो महामते
न युज्यतेऽत्रान्यवधः प्रचोदितात्॥
मूलम्
तमृत्विजः शक्रवधाभिसन्धितं विचक्ष्य 70दुष्प्रेक्ष्यमसह्यरंहसा71।
निवारयामासुरहो महामते न युज्यतेऽत्रान्य72वधः प्रचोदितात्॥ २७ ॥
अनुवाद (हिन्दी)
उस समय क्रोधावेशके कारण उनकी ओर देखा नहीं जाता था। जब ऋत्विजोंने देखा कि असह्य पराक्रमी महाराज पृथु इन्द्रका वध करनेको तैयार हैं, तब उन्हें रोकते हुए कहा, ‘राजन्! आप तो बड़े बुद्धिमान् हैं, यज्ञदीक्षा ले लेनेपर शास्त्रविहित यज्ञपशुको छोड़कर और किसीका वध करना उचित नहीं है॥ २७॥
वीरराघवः
शक्रवधे अभिसन्धितं कृताभिप्राय मत एव क्रोधेन दुष्प्रेक्ष्यमसह्यं परैः सोढुमशक्यं रहो बलं वेगश्च यस्य तं, पृथुमृत्विजः अत्य्रादयः निवारयामासुः । निवारणमेवाह - अहो ! महामते ! प्रचोदिताद्विहितात्पशोर्वधात् अन्यस्य वधस्तु न युज्यते ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
वयं मरुत्वन्तमिहार्थनाशनं
ह्वयामहे त्वच्छ्रवसा हतत्विषम्।
अयातयामोपहवैरनन्तरं
प्रसह्य राजन् जुहवाम तेऽहितम्॥
मूलम्
वयं मरुत्वन्तमिहार्थनाशनं ह्वयामहे 73त्वच्छ्रवसा हतत्विषम्।
अयातयामोप74हवै75स्तमग्नये प्रसह्य राजन् जुहवाम तेऽहितम्॥ २८ ॥
अनुवाद (हिन्दी)
इस यज्ञकार्यमें विघ्न डालनेवाला आपका शत्रु इन्द्र तो आपके सुयशसे ही ईर्ष्यावश निस्तेज हो रहा है। हम अमोघ आवाहन-मन्त्रोंद्वारा उसे यहीं बुला लेते हैं और बलात् अग्निमें हवन किये देते हैं’॥ २८॥
वीरराघवः
तद्बधन्तु वयं करिष्याम इत्याहुः - वयमिति । इहाऽर्थनाशनं यज्ञनाशकं त्वत्कीर्त्यैव हतप्रभंमरुत्वन्तमिन्द्रं वय माह्वयामहे कैः ? अयातयामैः अगतवीर्यैः उपहवैः आह्वानमन्त्रैः, अनन्तरं च हे राजन् ! ते तव अहितं शत्रुं व मिन्द्रं प्रसह्य मन्त्रबलेन अग्नये जुहवाम, पशु पुरोडाशमिवाग्नौ होष्यामः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
इत्यामन्त्र्य क्रतुपतिं विदुरास्यर्त्विजो रुषा।
स्रुग्धस्ताञ्जुह्वतोऽभ्येत्य स्वयम्भूः प्रत्यषेधत॥
मूलम्
इत्यामन्त्र्य क्रतुपतिं विदुरास्यर्त्विजो रुषा।
76स्रुग्धस्ताञ्जुह्व77तोऽभ्येत्य स्वयम्भूः प्रत्यषेधत॥ २९ ॥
अनुवाद (हिन्दी)
विदुरजी! यजमानसे इस प्रकार सलाह करके उसके याजकोंने क्रोधपूर्वक इन्द्रका आवाहन किया। वे स्रुवाद्वारा आहुति डालना ही चाहते थे कि ब्रह्माजीने वहाँ आकर उन्हें रोक दिया॥ २९॥
वीरराघवः
इति इत्थं क्रतुपतिं पृथुमामन्त्र्य विज्ञाप्य हे विदुर ! अस्य पृथोः ऋत्विजः सुक् हस्ते येषां तान्, रुषा क्रोधेन जुह्वतः कुर्वाणान् स्वयम्भूश्चतुराननः अभ्येत्य आगत्य प्रत्यषेधत निवारयामास ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
न वध्यो भवतामिन्द्रो यद्यज्ञो भगवत्तनुः।
यं जिघांसथ यज्ञेन यस्येष्टास्तनवः सुराः॥
अनुवाद (हिन्दी)
वे बोले, ‘याजको! तुम्हें इन्द्रका वध नहीं करना चाहिये, यह यज्ञसंज्ञक इन्द्र तो भगवान्की ही मूर्ति है। तुम यज्ञद्वारा जिन देवताओंकी आराधना कर रहे हो, वे इन्द्रके ही तो अंग हैं और उसे तुम यज्ञद्वारा मारना चाहते हो॥ ३०॥
वीरराघवः
प्रतिषेधमेवाह - भवतामार्त्विज्ये कर्मणि अधिकृतानामिन्द्रो वध्यो न भवति, कुतः ? यत् यस्मात् यज्ञः भगवतस्तनुः शरीरं तथा सुराश्च यस्य भगवतः इष्टाः निरतिशय प्रीति विषयाः तनवः । तत्कथं यज्ञेन 80भगवच्छरीरभूतेन यं80 भगवच्छरीरभूतमिन्द्रं जिघांसथ हन्तुमिच्छथ ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
तदिदं पश्यत महद्धर्मव्यतिकरं द्विजाः।
इन्द्रेणानुष्ठितं राज्ञः कर्मैतद्विजिघांसता॥
अनुवाद (हिन्दी)
पृथुके इस यज्ञानुष्ठानमें विघ्न डालनेके लिये इन्द्रने जो पाखण्ड फैलाया है, वह धर्मका उच्छेदन करनेवाला है। इस बातपर तुम ध्यान दो, अब उससे अधिक विरोध मत करो; नहीं तो वह और भी पाखण्ड मार्गोंका प्रचार करेगा॥ ३१॥
वीरराघवः
हे द्विजाः ! राज्ञः पृथोरेतद्धर्मरूपं कर्म जिघांसता नाशयितुमिच्छता इन्द्रेणाऽनुष्ठितं धर्मव्यतिकरः 83संकरः पाषण्डात्मकं महदन्याय्यं पश्यत ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
पृथुकीर्तेः पृथोर्भूयात्तर्ह्येकोनशतक्रतुः।
अलं ते क्रतुभिः स्विष्टैर्यद्भवान्मोक्षधर्मवित्॥
मूलम्
84पृथुकीर्तेः84 पृथोर्भूया85त्तर्ह्येकोनशतक्रतुः।
अलं ते क्रतुभिः 86स्विष्टैर्यद्भवान्मोक्षधर्मवित्॥ ३२ ॥
अनुवाद (हिन्दी)
अच्छा, परमयशस्वी महाराज पृथुके निन्यानबे ही यज्ञ रहने दो।’ फिर राजर्षि पृथुसे कहा, ‘राजन्! आप तो मोक्षधर्मके जाननेवाले हैं; अतः अब आपको इन यज्ञानुष्ठानोंकी आवश्यकता नहीं है॥ ३२॥
वीरराघवः
तर्हि तथा चेत् पृथुकीर्तेः विपुलकीर्तेः पृथोः एकेन ऊनं शतं यस्मिन् तादृशक्रतु प्रयो87गः एकोनशतक्रतुरपि पृथुः महेन्द्रात् पृथुकीर्तिः भूयादित्यर्थः । पृथुकीर्तिः पृथुरिति पाठे एकोनशतं क्रतवो यस्य तादृशः पृथुर्भूयादित्यर्थः । पृथुं सान्त्वयति ते त्वया स्विष्टैः सम्यगनुष्ठितैः एतावद्भिः क्रतुभिरलं यत् यस्मात् भवान् मोक्षधर्मवित् मुमुक्षोः रागाद्यपेतमेव कर्मानुष्ठानं युक्तमिति भावः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसि।
उभावपि हि भद्रं ते उत्तमश्लोकविग्रहौ॥
मूलम्
नैवात्म88नो महेन्द्राय रोषमाहर्तुमर्हसि।
उभावपि हि भद्रं ते उत्तमश्लोकविग्रहौ॥ ३३ ॥
अनुवाद (हिन्दी)
आपका मंगल हो! आप और इन्द्र—दोनोंकी पवित्रकीर्ति भगवान् श्रीहरिके शरीर हैं; इसलिये अपने ही स्वरूपभूत इन्द्रके प्रति आपको क्रोध नहीं करना चाहिये॥ ३३॥
वीरराघवः
आत्मना मनसा रोषं महेन्द्राय आहर्तुं स्वीकर्तुं त्वं नार्हसि, हि यस्मात् त्वं महेन्द्रश्चेति उभावपि उत्तमश्लोकस्य भगवतो विग्रहौ शरीरभूतौ अतः नाऽन्योन्यं विरोधो युक्त इति भावः । ते तुभ्यं भद्रं भूयात् ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
मास्मिन्महाराज कृथाः स्म चिन्तां
निशामयास्मद्वच आदृतात्मा।
यद्ध्यायतो दैवहतं नु कर्तुं
मनोऽतिरुष्टं विशते तमोऽन्धम्॥
मूलम्
माऽस्मिन् महा89भाग कृथाः स्म चिन्तां निशामयास्मद्वच आदृतात्मा।
यद्ध्यायतो दैवहतं 90तु कर्तुं मनोऽति91रुष्टं विशते तमोऽन्धम्॥ ३४ ॥
अनुवाद (हिन्दी)
आपका यह यज्ञ निर्विघ्न समाप्त नहीं हुआ—इसके लिये आप चिन्ता न करें। हमारी बात आप आदरपूर्वक स्वीकार कीजिये। देखिये, जो मनुष्य विधाताके बिगाड़े हुए कामको बनानेका विचार करता है, उसका मन अत्यन्त क्रोधमें भरकर भयंकर मोहमें फँस जाता है॥ ३४॥
वीरराघवः
हे महाभाग ! अवहितमना मद्वचो निशामय श्रुणु अस्मिन् यज्ञविघ्ने चिन्तां मास्म कृथाः, यत् यस्मात् दैवहतं कार्यं कर्तुं ध्यायतः पुरुषस्य मनः नु निश्चितमिति रुष्टमन्धं तमः मोहं विशति न तु शान्तिं लभते ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
क्रतुर्विरमतामेष देवेषु दुरवग्रहः।
धर्मव्यतिकरो यत्र पाखण्डैरिन्द्रनिर्मितैः॥
मूलम्
क्रतुर्विरमतामेष देवेषु दुरवग्रहः।
धर्मव्यतिकरो यत्र पा92षण्डैरिन्द्रनिर्मितैः॥ ३५ ॥
अनुवाद (हिन्दी)
बस, इस यज्ञको बंद कीजिये। इसीके कारण इन्द्रके चलाये हुए पाखण्डोंसे धर्मका नाश हो रहा है; क्योंकि देवताओंमें बड़ा दुराग्रह होता है॥ ३५॥
वीरराघवः
अत एव तव क्रतुर्विरमताम् । नन्विन्द्रः किं न निवार्यते तत्राह । यतो देवेषु दुरवग्रहो भवति यत्र क्रतौ इन्द्रनिर्मितैः पाषण्डैर्धर्मव्यतिकरोऽभवत् ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
एभिरिन्द्रोपसंसृष्टैः पाखण्डैर्हारिभिर्जनम्।
ह्रियमाणं विचक्ष्वैनं यस्ते यज्ञध्रुगश्वमुट्॥
मूलम्
एभि93रिन्द्रोपसंसृष्टैः 94पाषण्डैर्हारिभिर्ज95नम्।
ह्रियमाणं विचक्ष्वै96नं यस्ते यज्ञध्रुगश्वमुट्॥ ३६ ॥
अनुवाद (हिन्दी)
जरा देखिये तो, जो इन्द्र घोड़ेको चुराकर आपके यज्ञमें विघ्न डाल रहा था, उसीके रचे हुए इन मनोहर पाखण्डोंकी ओर सारी जनता खिंचती चली जा रही है॥ ३६॥
वीरराघवः
इन्द्रदुराग्रहकृतमनर्थं पश्येत्याह । एभिरि97न्द्रेणावसृष्टैः कल्पितैः पाषण्डैर्हारिभिश्चित्तापकर्षकैः ह्रियमाणां स्ववशीक्रियमाणं जनं विचक्ष्व पश्य यस्ते तव यज्ञध्रुक् यज्ञनाशकः अश्वमुष्णाति अपहरतीति तथा ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
भवान् परित्रातुमिहावतीर्णो
धर्मं जनानां समयानुरूपम्।
वेनापचारादवलुप्तमद्य
तद्देहतो विष्णुकलासि वैन्य॥
मूलम्
भवान् परित्रातुमिहावतीर्णो 98धर्मज्ञ नाना समयानुरूपम्।
वेनापचारादवलुप्तमद्य तद्देहतो विष्णुकलाऽसि 99वैन्य॥ ३७ ॥
अनुवाद (हिन्दी)
आप साक्षात् विष्णुके अंश हैं। वेनके दुराचारसे धर्म लुप्त हो रहा था, उस समयोचित धर्मकी रक्षाके लिये ही आपने उसके शरीरसे अवतार लिया है॥ ३७॥
वीरराघवः
ततो मम किमितिः 100चेत् तत्राह - भवानिति द्वाभ्याम् । नाना समयानुरूपं विविधसिद्धान्तानुरूपं धर्मं वेनस्या पचारादन्यायादवप्लुतं परित्रातुं अद्य अधुना तस्य वेनस्य देहतः इह लोकेऽवतीर्णः वैन्यः वेनपुत्रोऽपि त्वं विष्णुकलाऽसि101 विष्णो रंशभूतोऽसि ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
स त्वं विमृश्यास्य भवं प्रजापते
सङ्कल्पनं विश्वसृजां पिपीपृहि।
ऐन्द्रीं च मायामुपधर्ममातरं
प्रचण्डपाखण्डपथं प्रभो जहि॥
मूलम्
स त्वं विमृश्या102स्य भवं प्रजा103पते सङ्क104ल्पनां विश्व105सृजां पिपीपृहि।
ऐन्द्रीं च मायामुपधर्ममातरं प्रचण्डपा106षण्डपथं प्रभो जहि॥ ३८ ॥
अनुवाद (हिन्दी)
अतः प्रजापालक पृथुजी! अपने इस अवतारका उद्देश्य विचारकर आप भृगु आदि विश्वरचयिता मुनीश्वरोंका संकल्प पूर्ण कीजिये। यह प्रचण्ड पाखण्ड-पथरूप इन्द्रकी माया अधर्मकी जननी है। आप इसे नष्ट कर डालिये’॥ ३८॥
वीरराघवः
स विष्णुकलाभूतस्त्वमस्य जगतो भवमुत्पत्तिं विमृश्य विचार्य हे प्रजापते ! विश्वसृजां सङ्कल्पा107नां सङ्कल्पं पिपीपृहि पूरय । येभ्यो विश्वसृङ्भ्योऽस्य जगत युक्तमित्यभिप्रायेण प्रजापते इति सम्बोधनं कृतम् । प्रचण्डो यः पाषण्डमार्गः सैवेन्द्री माया उपधर्मस्य माता जननी तां जहि प्रभो ! तथा कर्तुं समर्थस्त्वमित्यभिप्रायेण प्रभो इति सम्बोधनम् ॥ ३८ ॥
श्लोक-३९
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
इत्थं स लोकगुरुणा समादिष्टो विशाम्पतिः।
तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे॥
मूलम्
इत्थं स लोकगुरुणा समादिष्टो विशाम्पतिः।
तथा च 108कृतवान् सख्यं मघोनापि च सन्दधे॥ ३९ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—लोकगुरु भगवान् ब्रह्माजीके इस प्रकार समझानेपर प्रबल पराक्रमी महाराज पृथुने यज्ञका आग्रह छोड़ दिया और इन्द्रके साथ प्रीतिपूर्वक सन्धि भी कर ली॥ ३९॥
वीरराघवः
उपसंहरति- इत्थमिति पञ्चभिः । इत्थमेवं लोकगुरुणा 109ब्रह्मणा सम्यगादिष्टो दिशाम्पतिः दिक्पतिः स पृथुः मघोना इन्द्रेण सह तथा च ब्रह्मोक्तरीत्या सख्यं 110कृतवान् तेनैव च सन्दधे सन्धिं कृतवान् ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
कृतावभृथस्नानाय पृथवे भूरिकर्मणे।
वरान्ददुस्ते वरदा ये तद्बर्हिषि तर्पिताः॥
अनुवाद (हिन्दी)
इसके पश्चात् जब वे यज्ञान्त स्नान करके निवृत्त हुए , तब उनके यज्ञोंसे तृप्त हुए देवताओंने उन्हें अभीष्ट वर दिये॥ ४०॥
वीरराघवः
कृतमवभृथसम्बन्धिस्नानं येन तस्मै, भूरिकर्मणे विपुलव्यापाराय पृथवे तस्य पृथोर्बर्हिषि यज्ञे ये तर्पितास्ते वरदा देवा वरान् ददुः ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
विप्राः सत्याशिषस्तुष्टाः श्रद्धया लब्धदक्षिणाः।
आशिषो युयुजुः क्षत्तरादिराजाय सत्कृताः॥
मूलम्
विप्राः सत्याशिषस्तुष्टाः श्रद्धया लब्धदक्षिणाः।
आशिषो युयुजुः क्षत्तः 113आदिराजाय 114सत्कृताः115॥ ४१ ॥
अनुवाद (हिन्दी)
आदिराज पृथुने अत्यन्त श्रद्धापूर्वक ब्राह्मणोंको दक्षिणाएँ दीं तथा ब्राह्मणोंने उनके सत्कारसे सन्तुष्ट होकर उन्हें अमोघ आशीर्वाद दिये॥ ४१॥
वीरराघवः
सत्याः फलाऽविनाभूताः आशिषः आशीर्वादाः येषां ते विप्राः श्रद्धया 116प्राप्तदक्षिणाः अत एव तुष्टाः पुनश्च सत्कृताः हे क्षत्तः । आदिराजाय पृथवे आशिषः युयुजुः कृतवन्तः ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
त्वयाऽऽहूता महाबाहो सर्व एव समागताः।
पूजिता दानमानाभ्यां पितृदेवर्षिमानवाः॥
अनुवाद (हिन्दी)
वे कहने लगे, ‘महाबाहो! आपके बुलानेसे जो पितर, देवता, ऋषि और मनुष्यादि आये थे, उन सभीका आपने दान-मानसे खूब सत्कार किया’॥ ४२॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुविजये एकोनविंशोऽध्यायः॥ १९॥
वीरराघवः
हे महाबाहो ! विदुर ! तथाऽन्ये ये तत्र यज्ञे समागतास्ते सर्वे आदृताः प्रीतिविषयीकृताः यथायोग्यं दान119मानाभ्यां पूजिताः पित्रादयः ॥ ४२ ॥
इति श्रीमद्भागवते चतुर्थस्कन्धे श्री वीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां एकोनविंशोऽध्यायः ॥ १९ ॥
-
A,B,G,I,J,T,W राजा तु ↩︎
-
A,B,T विरमित ↩︎
-
T शं ↩︎
-
A,B,W रष्टादशेन ↩︎
-
M,Ma,Ms अन्वाहू ↩︎
-
T शर्वाभ्यां ↩︎
-
B,J,M,Ma,Ms सिद्ध ↩︎
-
W मा ↩︎
-
V योगी ↩︎
-
A अनुसृत्य गतवन्तः ↩︎
-
M,Ma मही ↩︎
-
W दोग्ध्री ↩︎
-
A,B,T दोग्धि ↩︎
-
W इच्युः ↩︎
-
M नान्युपा ↩︎
-
T चूष्य लेहन ↩︎
-
M,Ma,Ms पृथोर्यज्ञमहोदयम् ↩︎
-
W व्युर्भ ↩︎
-
A,B,T असूयन् ↩︎
-
A,B,T ष ↩︎
-
V पतिः ↩︎
-
A,B,T रित्यभि ↩︎
-
A,B,T, Omit साति ↩︎
-
W Omits इन्द्रः ↩︎
-
A,B,G,I,J,M,Ma,T ख ↩︎
-
W ख ↩︎
-
A,B,T Omit यः ↩︎
-
A,B,T, ख ↩︎
-
A,B,T ख ↩︎
-
V सूचितं, W ज्ञापितो ↩︎
-
B सन्नद्धः, V तं कुद्धः ↩︎
-
M,Ma नेऽधर्म J,MS,V ने धर्म ↩︎
-
A,B,T, ख ↩︎
-
A,B,T दिरु ↩︎
-
M,Ma पापान्नि ↩︎
-
M,Ma वै ↩︎
-
M,Ms,Ms धिपम् ↩︎
-
W Omits तेषु ↩︎
-
A,B,T भावः ↩︎
-
M,MA,MS, धावदति ↩︎
-
T,W वारणं मृग ↩︎
-
A,B आधाविज्ञः ↩︎
-
A,B,G,I,J,T तस्मा अन्त ↩︎
-
M,MA, धीरः ↩︎
-
MS,W स ↩︎
-
A,B,T ख ↩︎
-
M,MA,MS, विलक्ष्य ↩︎
-
A,B,T वीक्ष्य ↩︎
-
M,MA यूपयोच्छन्नोः, MS यूपान्तश्छन्नोः, V,W व्यूपात्तं छन्नो ↩︎
-
A,B,G,J,MS,T,V बा ↩︎
-
A,B,T धारि ↩︎
-
W Omits सन् ↩︎
-
A,B,G,I,J,M,MA,MS,T श्चा ↩︎
-
A,B,G,I,J,M,MA,T ख ↩︎
-
A,B,G,I,J,M,MA,T ख ↩︎
-
T दुप ↩︎
-
A,B,T ख ↩︎
-
M,MA मिन्द्रो ↩︎
-
A,B,G,I,J,M,MA,T ख ↩︎
-
W सज्यते ↩︎
-
W Omits रूपेषु ↩︎
-
W सज्यने ↩︎
-
M,MA दुःप्रे ↩︎
-
A,B,G,I,J,T सम् ↩︎
-
M,MA वधोऽप्रचोदितः ↩︎
-
W त्वद्यशया ↩︎
-
V हुतै ↩︎
-
A,B,G,I,J,T रनन्तरं ↩︎
-
M,MA सुड्नस्नज्ञु ↩︎
-
W तो वीक्ष्य ↩︎
-
M,MA तं ↩︎
-
A,B,G,I,J,T,V ↩︎
-
M,MA द्धि ↩︎
-
M,MA या ↩︎
-
A,B,T Omit सङ्करः ↩︎
-
M,MA,MS त्वं ह्येकोन ↩︎
-
M,MA,MS शिष्टै ↩︎
-
W गं ↩︎
-
A,B,G,I,J,MA,MS,T ने ↩︎
-
A,B,G,I,J,M,MA,T राज ↩︎
-
A,B,G,I,J,T,W न ↩︎
-
M,MA,MS कष्टं ↩︎
-
A,B,G,I,J,M,MA,T ख ↩︎
-
W, रिन्द्राव ↩︎
-
A,B,G,I,J,M,MA,T ख ↩︎
-
MS नैः ↩︎
-
M,MA,MS तत् ↩︎
-
W णोप ↩︎
-
A,B,G,I,J,T धर्मं जनानां; M,MA,MS धर्मं च नाना ↩︎
-
MS,W वैन्यः ↩︎
-
A,B,T omit चेत् ↩︎
-
W omits कृतं ↩︎
-
M,MA भिभवं ↩︎
-
M,MA,MS पतेः ↩︎
-
A,B,G,I,J,T ल्पनं, M,MA,MS ल्पितं ↩︎
-
M,MA,MS सृजोऽतिपी ↩︎
-
A,B,G,I,J,M,MA,T ख ↩︎
-
A,B,T नं ↩︎
-
A,B,G,I,J,T,V कृत्वा वात्सल्यं ↩︎
-
A,B,T omit ब्रह्मणा ↩︎
-
A,B,T कृतं ↩︎
-
A,B,G,I,J,T भृया ↩︎
-
V वरं ↩︎
-
M राज ↩︎
-
MS सत्कथाः ↩︎
-
MS adds सदस्याः This Vesseis Not Found in M,Ma ↩︎
-
A,B,T आवाप्त ↩︎
-
M,MA तथाऽऽहनाः ↩︎
-
M,Ma ऽऽहनाः ↩︎
-
W सम्माना ↩︎