१८

[अष्टादशोऽध्यायः]

भागसूचना

पृथ्वी-दोहन

श्लोक-१

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

इत्थं पृथुमभिष्टूय रुषा प्रस्फुरिताधरम्।
पुनराहावनिर्भीता संस्तभ्यात्मानमात्मना॥

मूलम्

इत्थं पृथुमभिष्टूय रुषा प्रस्फुरिताधरम्।
पुनराहावनिर्भीता संस्तभ्यात्मानमात्मना॥ १ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! इस समय महाराज पृथुके होठ क्रोधसे काँप रहे थे। उनकी इस प्रकार स्तुति कर पृथ्वीने अपने हृदयको विचारपूर्वक समाहित किया और डरते-डरते उनसे कहा॥ १॥

वीरराघवः

एवं सर्वकारणत्वेन विचित्र1शक्तित्वेन च पृथुं प्रस्तूय तदभिमतौषधिबीजनिर्गमोपायं विवक्षन्ती तत्र तं विश्वासयितुं प्रसादयन्त्याह मही इत्याह मुनिः । इत्थं पूर्वोक्तप्रकारेण पृथुमभिष्टूय ततोप्यनिवृत्तरुषा प्रस्फुरितः नितरां चलितः अधरोष्ठो यस्य तं, दृष्ट्वेति शेषः, भीता सती अवनिः मही आत्मानं मन आत्मना बुद्ध्या संस्तभ्य निर्भयं कृत्वा आह ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

संनियच्छाभिभो मन्युं निबोध श्रावितं च मे।
सर्वतः सारमादत्ते यथा मधुकरो बुधः॥

मूलम्

सन्निय2च्छाऽभि भो मन्युं निबोध श्रावितं च मे।
सर्वतः सारमादत्ते यथा मधुकरो बुधः॥ २ ॥

अनुवाद (हिन्दी)

‘प्रभो! आप अपना क्रोध शान्त कीजिये और मैं जो प्रार्थना करती हूँ, उसे ध्यान देकर सुनिये। बुद्धिमान् पुरुष भ्रमरके समान सभी जगहसे सार ग्रहण कर लेते हैं॥ २॥

वीरराघवः

उक्तमेवाह - भो हे पृथो ! अभि अभितः कार्त्स्न्येन मन्युं क्रोधं सन्नियच्छ उपसंहर | मे मया श्रावितं विज्ञापितं निबोध जानीहि । किं तदित्यत्राह । बुधः सारासारविभागज्ञः यथा मधुकरः भृङ्गः तथा सर्वतः सर्वेभ्यो वस्तुभ्यः सारमादत्ते गृह्णाति । वक्ष्यमाणरीत्या मत्तः सारभूतक्षीरादानेनैवेष्टसिद्धौ किं वृथा मह्यं क्रुध्यसीति भावः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

अस्मिँल्लोकेऽथवामुष्मिन्मुनिभिस्तत्त्वदर्शिभिः।
दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये॥

मूलम्

अस्मिंल्लोकेऽथवामुष्मिन् मुनिभिस्तत्त्वदर्शिभिः।
दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयः प्रसिद्धये॥ ३ ॥

अनुवाद (हिन्दी)

तत्त्वदर्शी मुनियोंने इस लोक और परलोकमें मनुष्योंका कल्याण करनेके लिये कृषि, अग्निहोत्र आदि बहुत-से उपाय निकाले और काममें लिये हैं॥ ३॥

वीरराघवः

मया गीर्णा ओषधीरुपायेन गृहाणेति वक्तुमुपायेन सर्वं सिध्यति नान्यथेत्याह - अस्मिन्निति त्रिभिः । पुंसां कामिनां श्रेयसः पुरुषार्थस्य प्रसिद्धये निष्पत्तये तत्त्वदर्शिभिः मुनिभिरस्मिंल्लोके ये उपायाः कृषिगो3रक्षवाणिज्यादयः जीवनोपाया दृष्टा विज्ञाता निर्णीता इति यावत्, ये चामुष्मिन् परस्मिन् लोके स्वर्गसाधनभूता अग्निहोत्रादयः उपायाः प्रयुक्ता अनुष्ठिता4श्च, चशब्दात् दृष्टाश्च ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

तानातिष्ठति यः सम्यगुपायान् पूर्वदर्शितान्।
अवरः श्रद्धयोपेत उपेयान् विन्दतेऽञ्जसा॥

मूलम्

तानातिष्ठति यः सम्यगुपायान् पूर्वदर्शितान्।
5वरः श्रद्धयोपेत उ6पायान् विन्दतेऽञ्जसा॥ ४ ॥

अनुवाद (हिन्दी)

उन प्राचीन ऋषियोंके बताये हुए उपायोंका इस समय भी जो पुरुष श्रद्धापूर्वक भलीभाँति आचरण करता है, वह सुगमतासे अभीष्ट फल प्राप्त कर लेता है॥ ४॥

वीरराघवः

तानेव पूर्वैर्मुनिभिर्दर्शितान् उपायान् योऽवरोऽर्वाचीनः सम्यक् श्रद्धया कर्तव्येषु त्वरया उपेतः युक्तस्सन् आतिष्ठति स एवाञ्जसा सुखेनोपायानुपायसाध्यान् विन्दते लभते ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

ताननादृत्य यो विद्वानर्थानारभते स्वयम्।
तस्य व्यभिचरन्त्यर्था आरब्धाश्च पुनः पुनः॥

मूलम्

ताननादृत्य यो विद्वानर्थानारभते स्वयम्।
तस्य व्यभिचरन्त्यर्थाः 7आरब्धाश्च पुनः पुनः॥ ५ ॥

अनुवाद (हिन्दी)

परन्तु जो अज्ञानी पुरुष उनका अनादर करके अपने मनःकल्पित उपायोंका आश्रय लेता है, उसके सभी उपाय और प्रयत्न बार-बार निष्फल होते रहते हैं॥ ५॥

वीरराघवः

अन्यस्तु न विन्दत इत्याह - तानिति । यो विद्वानविद्वान् वा तान् पूर्वदर्शितानुपायान् अनादृत्य, 8स्वयमर्थान् स्वबुद्धिमात्रे9णैव पुरुषार्थसाधनत्वेनावधारणीयान् 10अर्थान् पुरुषार्थोपायाभासानारभते । तस्यार्थास्ते उपायाभासाः पुनः पुनः प्रारब्धाश्च11 अन्तरायविहतौ पुनः पुनरनुष्ठिता अपि व्यभिचरन्ति, न फलजनका भवन्तीत्यर्थः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

पुरा सृष्टा ह्योषधयो ब्रह्मणा या विशाम्पते।
भुज्यमाना मया दृष्टा असद‍्भिरधृतव्रतैः॥

मूलम्

पुरा सृष्टा 12ह्योषधयो ब्रह्म13णा या विशाम्पते।
भुज्यमाना मया दृष्टा असद‍्भिरधृतव्रतैः॥ ६ ॥

अनुवाद (हिन्दी)

राजन्! पूर्वकालमें ब्रह्माजीने जिन धान्य आदिको उत्पन्न किया था, मैंने देखा कि यम-नियमादि व्रतोंका पालन न करनेवाले दुराचारीलोग ही उन्हें खाये जा रहे हैं॥ ६॥

वीरराघवः

नन्वस्त्वेवं, कोऽसावोषधिबीजनिर्गमोपायः, किमर्थं च तानि त्वग्रसः इत्यत्राह - पुरेति । हे विशाम्पते ! ब्रह्मणा पुरा या ओषधयः सृष्टाः इह जीवनार्थत्वेन यज्ञानुष्ठानद्वारा परत्र लोके स्वर्गाद्यर्थत्वेन च सृष्टाः, ता ओषधयः अधृतव्रतैः लोकपालन14यज्ञाद्यनुष्ठान15रूपव्रतरहितैः, अत एवासद्भिः भुज्यमानाः मया दृष्टाः असद्भिर्भुज्यमाना इमा ओषधयः समू16लं नश्येयुरिति आलोचिता इत्यर्थः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

अपालितानादृता च भवद‍्भिर्लोकपालकैः।
चोरीभूतेऽथ लोकेऽहं यज्ञार्थेऽग्रसमोषधीः॥

मूलम्

अपालितानादृ17ता च भवद‍्भिर्लोकपालकैः।
चोरीभूतेऽथ लोकेऽहं यज्ञार्थेऽग्रसमोषधीः॥ ७ ॥

अनुवाद (हिन्दी)

लोकरक्षक! आप राजालोगोंने मेरा पालन और आदर करना छोड़ दिया; इसलिये सब लोग चोरोंके समान हो गये हैं। इसीसे यज्ञके लिये ओषधियोंको मैंने अपनेमें छिपा लिया॥ ७॥

वीरराघवः

अहं च भवद्भिः भवादृशैः लोकपालैरपालिता अनादृत्ता च सती, लोके सर्वस्मिन् चौरीभूते चौरप्राये सति, यज्ञार्थे यज्ञनिमित्तम् ओषधीरग्रसं गिलितवती । असद्धिर्भुज्यमाना न रोक्ष्यन्ति, ततश्च यज्ञादयो न सिध्येयुरित्यालोच्याग्रसमित्यर्थः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा।
तत्र योगेन दृष्टेन भवानादातुमर्हति॥

मूलम्

नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा।
तत्र योगेन दृष्टेन भवानादातुमर्हति॥ ८ ॥

अनुवाद (हिन्दी)

अब अधिक समय हो जानेसे अवश्य ही वे धान्य मेरे उदरमें जीर्ण हो गये हैं; आप उन्हें पूर्वाचार्योंके बतलाये हुए उपायसे निकाल लीजिये॥ ८॥

वीरराघवः

ता मया गीर्णा वीरुधः ओषधयः भूयसा महता कालेन मयि क्षीणाः जीर्णाः, नूनं निश्चये 18तत्र जीर्णानां पुनर्निर्गमने दृष्टेन निश्चितेन योगेनोपायेन आदातुं ग्रहीतुमर्हति ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

वत्सं कल्पय मे वीर येनाहं वत्सला तव।
धोक्ष्ये क्षीरमयान् कामाननुरूपं च दोहनम्॥

मूलम्

वत्सं कल्पय मे वीर येनाहं वत्सला तव।
धोक्ष्ये क्षीरमयान् कामाननुरूपं च दोहनम्॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

दोग्धारं च महाबाहो भूतानां भूतभावन।
अन्नमीप्सितमूर्जस्वद‍्भगवान् वाञ्छते यदि॥

मूलम्

दोग्धारं च महाबाहो भूतानां भूतभावन।
अन्नमीप्सित19मूर्जस्वद‍्भगवान् वाञ्छते यदि॥ १० ॥

अनुवाद (हिन्दी)

लोकपालक वीर! यदि आपको समस्त प्राणियोंके अभीष्ट एवं बलकी वृद्धि करनेवाले अन्नकी आवश्यकता है तो आप मेरे योग्य बछड़ा, दोहनपात्र और दुहनेवालेकी व्यवस्था कीजिये; मैं उस बछड़ेके स्नेहसे पिन्हाकर दूधके रूपमें आपको सभी अभीष्ट वस्तुएँ दे दूँगी॥ ९-१०॥

वीरराघवः

कोऽसौ दृष्टो योगस्तत्राह - वत्समिति त्रिभिः । हे वीर ! महाबाहो ! हे भूतभावन ! यदि भवान् भूतानामूर्जस्वद्वलप्रदमन्नं वाञ्छति, तर्हि मे गोरूपाया ममानुरूपं वत्सं दोहने, दुहन्त्यस्मिन्निति दोहनं पात्रं, दोग्धारं चोपकल्पय, येन वत्सादिसामग्रीसम्पादनेन अहं तव वत्सला त्वद्विषये वात्सल्यवती क्षीरमयान् क्षीरविकारान् 20मत्क्षीरप्रकृतिकान् कामान्, काम्यन्त इति कामाः, ओषधीः छन्दस्सोमवीर्यौजोबलासवादयस्तान् धोक्ष्ये क्षीररूपेण प्रपूरयिष्यामि ॥ ९, १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

समां च कुरु मां राजन्देववृष्टं यथा पयः।
अपर्तावपि भद्रं ते उपावर्तेत मे विभो॥

मूलम्

समां च कुरु 21मां राजन् देव22वृष्टं यथा पयः।
अपर्तावपि भद्रं ते उपावर्तेत 23मे विभो॥ ११ ॥

अनुवाद (हिन्दी)

राजन्! एक बात और है; आपको मुझे समतल करना होगा, जिससे कि वर्षा-ऋतु बीत जानेपर भी मेरे ऊपर इन्द्रका बरसाया हुआ जल सर्वत्र बना रहे—मेरे भीतरकी आर्द्रता सूखने न पावे। यह आपके लिये बहुत मंगलकारक होगा’॥ ११॥

वीरराघवः

हे वीर ! 24मां पर्वतादिभिः निम्नोन्नतां पृथ्वीं समां कुरु, किं त्वत्समीकरणसाध्यं तत्राह । देववृष्टं वर्षासु 25देवेन पर्जन्येन वृष्टं पयः जलमपर्तावपि 26वर्षर्त्वपगमेऽपि26 मे मम यथा उपावर्तेत सर्वतो वर्तेत । 27इत्थं समीकरणाभावे क्वापि 28मयि जलं न तिष्ठेदतः समाहं कर्तव्येत्यर्थः । हे प्रभो ! ते तुभ्यं भद्रं दोहनसमीकरणाभ्यां भद्रं भूयादित्यर्थः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

इति प्रियं हितं वाक्यं भुव आदाय भूपतिः।
वत्सं कृत्वा मनुं पाणावदुहत्सकलौषधीः॥

मूलम्

इति प्रि29यहितं वाक्यं भुव आदाय भूपतिः।
30वत्सं कृत्वा मनुं पाणावदुहत्सकलौषधीः॥ १२ ॥

अनुवाद (हिन्दी)

पृथ्वीके कहे हुए ये प्रिय और हितकारी वचन स्वीकार कर महाराज पृथुने स्वायम्भुव मनुको बछड़ा बना अपने हाथमें ही समस्त धान्योंको दुह लिया॥ १२॥

वीरराघवः

एवं धरित्र्याऽभिहितः पृथुः तथैवाकरोदित्याह मुनिः । इति उक्तविधं प्रियं हितं च भूमेर्वाक्यमादाय ओमिति 31अनुमन्य मनुं स्वायम्भुवं वत्सं कृत्वा पाणौ दोहनपात्रे स्वयं दोग्धा भूत्वा सकलौषधीः अदुहत्, सकलौषधिप्रकृतिभूतं क्षीरमदुहत् । क्षीरं प्रदुह्य धरित्र्यां तद्विकिरन् ओषधीः प्रादुर्भावयामासेत्यर्थः । एवमग्रेऽपि बोध्यम् ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

तथा परे च सर्वत्र सारमाददते बुधाः।
ततोऽन्ये च यथाकामं दुदुहुः पृथुभाविताम्॥

मूलम्

32तथा 33परे च सर्वत्र सारमाददते बुधाः।
ततोऽ34न्ये च यथाकामं दुदुहुः पृथुभाविताम्॥ १३ ॥

अनुवाद (हिन्दी)

पृथुके समान अन्य विज्ञजन भी सब जगहसे सार ग्रहण कर लेते हैं, अतः उन्होंने भी पृथुजीके द्वारा वशमें की हुई वसुन्धरासे अपनी-अपनी अभीष्ट वस्तुएँ दुह लीं॥ १३॥

वीरराघवः

यथा पृथुः एवमपरे च बुधाः सारासारविवेककुशलाः सर्वत्र सर्वेषु 35पदार्थेषु सारमाददते । गोरूपाया धरित्र्याः क्षीरं प्रदुह्य सर्ववस्तुषु सारं निहितवन्त इत्यर्थः, 36एतदेवाह अन्ये ऋषिप्रभृतयः यथाकामं स्वस्वकामानुरूपं पृथुभावितां पृथुना वशीकृतां 37गां दुदुहुः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

ऋषयो दुदुहुर्देवीमिन्द्रियेष्वथ सत्तम।
वत्सं बृहस्पतिं कृत्वा पयश्छन्दोमयं शुचि॥

मूलम्

ऋषयो दुदुहुर्देवीमिन्द्रियेष्वथ सत्तम।
वत्सं बृहस्पतिं कृत्वा पयश्छन्दोमयं 38शुचि॥ १४ ॥

अनुवाद (हिन्दी)

ऋषियोंने बृहस्पतिजीको बछड़ा बनाकर इन्द्रिय (वाणी, मन और श्रोत्र) रूप पात्रमें पृथ्वीदेवीसे वेदरूप पवित्र दूध दुहा॥ १४॥

वीरराघवः

के के किं किम् अदुहन् ? तत्राह - ऋषय इति । ऋषयो वसिष्ठादयः बृहस्पतिं वत्सं कृत्वा देवीं धरित्रीमिन्द्रियेषु पात्रभूतेषु, वाङ्मनश्श्रवणैः वेदग्रहणादिन्द्रियाणां पात्रत्वम् । हे सत्तम ! विदुर ! शुचि पवित्रं छन्दोमयं छन्दः प्रचुरं छन्दः प्रकृतित्वेन तत्प्राचुर्यमात्र विवक्षितं, पयः क्षीरं दुदुहुः दुग्धवन्तः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन्।
हिरण्मयेन पात्रेण वीर्यमोजो बलं पयः॥

मूलम्

कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन्।
हिरण्मयेन पात्रेण वीर्यमोजो बलं पयः॥ १५ ॥

अनुवाद (हिन्दी)

देवताओंने इन्द्रको बछड़ेके रूपमें कल्पना कर सुवर्णमय पात्रमें अमृत, वीर्य (मनोबल), ओज (इन्द्रियबल) और शारीरिक बलरूप दूध दुहा॥ १५॥

वीरराघवः

तदा सुरगणाः इन्द्रं वत्सं कृत्वा हिरण्मयेन पात्रेण वीर्यं मनश्शक्तिः, ओजः इन्द्रियशक्तिः, बलं देहशक्तिः, एतत्त्रयसम्पादकं सोमममृ39तं तदात्मकं पयः अदूदुहन् ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

दैतेया दानवा वत्सं प्रह्रादमसुरर्षभम्।
विधायादूदुहन् क्षीरमयःपात्रे सुरासवम्॥

मूलम्

दैतेया दानवा वत्सं प्रह्लादमसुरर्षभम्।
विधा40यं दुदुहुः क्षीरम41यः पात्रे सुरासवम्॥ १६ ॥

अनुवाद (हिन्दी)

दैत्य और दानवोंने असुरश्रेष्ठ प्रह्लादजीको वत्स बनाकर लोहेके पात्रमें मदिरा और आसव (ताड़ी आदि) रूप दूध दुहा॥ १६॥

वीरराघवः

दितेरपत्यानि, दानवाः, दोग्धारः असुरश्रेष्ठं प्रह्लादं वत्सं विधाय कृत्वा 42अयस्पात्रे “गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा" (मनु. स्मृ. 11-94) इति त्रिविधां सुरामासवं च तालादिमद्यं पयः दुदुहुः । कार्यकारणयोरभेदोपचारेण सुरासवं पयो दुदुहुरित्यभेदनिर्देशः, एवमग्रेऽपि ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

गन्धर्वाप्सरसोऽधुक्षन् पात्रे पद्ममये पयः।
वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम्॥

मूलम्

गन्धर्वाप्सरसोऽधुक्षन् पात्रे पद्ममये पयः।
वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम्॥ १७ ॥

अनुवाद (हिन्दी)

गन्धर्व और अप्सराओंने विश्वावसुको बछड़ा बनाकर कमलरूप पात्रमें संगीतमाधुर्य और सौन्दर्यरूप दूध दुहा॥ १७॥

वीरराघवः

गन्धर्वाः अप्सरसश्च दोग्धारः विश्वावसुं वत्सं कृत्वा पद्ममये पद्मात्मके पात्रे 43गान्धर्वं गन्धर्वाणां सम्बन्धि 44मधु वाङ्माधुर्यं, सौभगम् अप्सरसां सम्बन्धि44 सौन्दर्यं च पयः अधुक्षन् दुदुहुः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षत।
आमपात्रे महाभागाः श्रद्धया श्राद्धदेवताः॥

मूलम्

वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षत।
आमपात्रे महाभा45गं श्रद्धया श्राद्धदेवताः॥ १८ ॥

अनुवाद (हिन्दी)

श्राद्धके अधिष्ठाता महाभाग पितृगणने अर्यमा नामके पित्रीश्वरको वत्स बनाया तथा मिट्टीके कच्चे पात्रमें श्रद्धापूर्वक कव्य (पितरोंको अर्पित किया जानेवाला अन्न) रूप दूध दुहा॥ १८॥

वीरराघवः

श्राद्धदेवताः पितरः पित्रादिपितृगणाः दोग्धारः अर्यम्णा वत्सेन अर्यमणं वत्सं कृत्वेत्यर्थः । आमपात्रे अपक्वे मृण्मये पात्रे श्रद्धया कव्यं पितॄणामन्नं क्षीरमधुक्षत दुदुहुः, आर्षत्वात् व्यत्ययेनादादेशः । कव्यस्य विशेषेण श्रद्धया देयत्वज्ञापनाय श्रद्धया अधुक्षतेत्युक्तं, यद्यपि श्रद्धयादेयं श्राद्धं (सा अस्य) “तस्य देवता” (अष्टा. 4-2-24) इत्यवयवार्थादेव कव्यस्य श्रद्धापूर्वकत्वं प्रतीयते, तथापि गच्छतीति गौः “गमेर्डोः” (उणादि सू. 2-68) गौर्गच्छतीत्यत्र प्रकृत्युपात्तगमनस्येव प्रकृत्युपात्तश्रद्धाया अविवक्षणात् श्रद्धयेत्युक्तम् ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्कल्पनामयीम्।
सिद्धिं नभसि विद्यां च ये च विद्याधरादयः॥

मूलम्

प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्कल्पनामयीम्।
सिद्धिं नभसि विद्यां च ये च विद्याधरादयः॥ १९ ॥

अनुवाद (हिन्दी)

फिर कपिलदेवजीको बछड़ा बनाकर आकाशरूप पात्रमें सिद्धोंने अणिमादि अष्टसिद्धि तथा विद्याधरोंने आकाशगमन आदि विद्याओंको दुहा॥ १९॥

वीरराघवः

सिद्धा दोग्धारः कपिलं मुनिं वत्सं प्रकल्प्य 46विधाय नभसि आकाशे पात्रे सङ्कल्पनामयीं सङ्कल्पप्रचुरामणिमादेः सङ्कल्पानु47सारभावित्वात् सङ्कल्पनामयीमित्युक्तम् । सिद्धिमणिमादिसिद्धिम् अधुक्षन्त । तथा ये च विद्याधरादयस्ते दोग्धारः ते पितरमेव वत्सं कपिलं प्रकल्प्य नभस्येव पात्रे खेचरत्वादिरूपां विद्यां क्षीरात्मना दुदुहुः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

अन्ये च मायिनो मायामन्तर्धानाद‍्भुतात्मनाम्।
मयं प्रकल्प्य वत्सं ते दुदुहुर्धारणामयीम्॥

मूलम्

अन्ये च मायिनो मायामन्तर्धा48नाद‍्भुतात्मनाम्।
मयं प्रकल्प्य 49वत्सत्वे ते दुदुहुर्धारणामयीम्॥ २० ॥

अनुवाद (हिन्दी)

किम्पुरुषादि अन्य मायावियोंने मयदानवको बछड़ा बनाया तथा अन्तर्धान होना, विचित्र रूप धारण कर लेना आदि संकल्पमयी मायाओंको दुग्धरूपसे दुहा॥ २०॥

वीरराघवः

अथान्ये च मायिनः आश्चर्यरूपधारिणः किम्पुरुषादयो दोग्धारः वत्सत्वे वत्सभावे 50मयं प्रकल्प्य50, मयं वत्सं कृत्वेत्यर्थः । धारणामयीं धारणाप्रचुरां मनोव्यापारविशेषधारणाख्ययोगानुसारित्वाद्धारणामयीमित्युक्तम्, एतच्चैकादशस्कन्धे स्फुटीभविष्यति, अन्तर्धानमद्भुतरूपं चेत्येतदुभयकारित्वेन तदात्मिकां मायां विचित्ररूपसर्गकारिणीं शक्तिं दुदुहुः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

यक्षरक्षांसि भूतानि पिशाचाः पिशिताशनाः।
भूतेशवत्सा दुदुहुः कपाले क्षतजासवम्॥

मूलम्

यक्षरक्षांसि भूतानि पिशाचाः पिशिताशनाः।
भूतेशवत्सा दुदुहुः कपाले क्षतजासवम्॥ २१ ॥

अनुवाद (हिन्दी)

इसी प्रकार यक्ष-राक्षस तथा भूत-पिशाचादि मांसाहारियोंने भूतनाथ रुद्रको बछड़ा बनाकर कपालरूप पात्रमें रुधिरासवरूप दूध दुहा॥ २१॥

वीरराघवः

पिशिताशना मांसभक्षा यक्षादयो दोग्धारः भूतेशो रुद्रो वत्सो येषां ते । भूतेशं वत्सं विधायेत्यर्थः । कपाले पात्रे क्षतजं रुधिरं, तदेवासवम् आसववन्मादकत्वात् आसवमित्युक्तं दुदुहः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

तथाहयो दन्दशूकाः सर्पा नागाश्च तक्षकम्।
विधाय वत्सं दुदुहुर्बिलपात्रे विषं पयः॥

मूलम्

तथाहयो दन्दशूकाः सर्पा नागाश्च तक्षकम्।
विधाय वत्सं दुदुहुर्बिलपात्रे विषं पयः॥ २२ ॥

अनुवाद (हिन्दी)

बिना फनवाले साँप, फनवाले साँप, नाग और बिच्छू आदि विषैले जन्तुओंने तक्षकको बछड़ा बनाकर मुखरूप पात्रमें विषरूप दूध दुहा॥ २२॥

वीरराघवः

अहयो निष्फणा, दन्दशूकाः दंशनस्वभावाः, सर्पाः सफणाः, त एव कद्रूसन्ततिजाता नागाः, दोग्धारः तक्षकं वत्सं विधाय बिलान्येव पात्राणि तेषु विषं पयः दुदुहुः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

पशवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम्।
अरण्यपात्रे चाधुक्षन्मृगेन्द्रेण च दंष्ट्रिणः॥

मूलम्

पशवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम्।
अरण्यपात्रे चाधुक्षन्मृगेन्द्रेण च दंष्ट्रिणः॥ २३ ॥

वीरराघवः

तदा पशवो दोग्धारः गोवृषं गोषु वृषं श्रेष्ठं रुद्रवाहनं वृषभं बत्सं कृत्वा अरण्यमेव पात्रं तस्मिन् 51तृणं क्षीरम् अधुक्षन्, मृगेन्द्रेणेत्युत्त52रेणान्वयः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे।
सुपर्णवत्सा विहगाश्चरं चाचरमेव च॥

मूलम्

क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः 53स्वकले54बरे।
सुपर्णवत्सा विहगाश्चरं चाचरमेव च॥ २४ ॥

अनुवाद (हिन्दी)

पशुओंने भगवान् रुद्रके वाहन बैलको वत्स बनाकर वनरूप पात्रमें तृणरूप दूध दुहा। बड़ी-बड़ी दाढ़ोंवाले मांसभक्षी जीवोंने सिंहरूप बछड़ेके द्वारा अपने शरीररूप पात्रमें कच्चा मांसरूप दूध दुहा तथा गरुडजीको वत्स बनाकर पक्षियोंने कीट-पतंगादि चर और फलादि अचर पदार्थोंको दुग्धरूपसे दुहा॥ २३-२४॥

वीरराघवः

क्रव्यादा मांसाशिनः दंष्ट्रिणो व्याघ्रादयः प्राणिनः दोग्धारः मृगेन्द्रेण सिंहेन वत्सेन स्वकले55बरे पात्रे क्रव्यं मांसं दुदुहः । विहगाः पक्षिणः सुपर्णो गरुडः येषां ते चरं कीटादिकम् अचरं फलादिकं च दुदुहुः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

वटवत्सा वनस्पतयः पृथग्रसमयं पयः।
गिरयो हिमवद्वत्सा नानाधातून् स्वसानुषु॥

मूलम्

वटवत्सा वन56स्पतयः पृथ57ग्रसमयं पयः।
गिरयो हिमवद्वत्सा नानाधातून् स्वसानुषु॥ २५ ॥

अनुवाद (हिन्दी)

वृक्षोंने वटको वत्स बनाकर अनेक प्रकारका रसरूप दूध दुहा और पर्वतोंने हिमालयरूप बछड़ेके द्वारा अपने शिखररूप पात्रोंमें अनेक प्रकारकी धातुओंको दुहा॥ २५॥

वीरराघवः

वनस्पतयः वृक्षाः वटो वत्सो येषां तथाभूतास्सन्तः पृथक् कट्वाम्लमधुरादिभिन्नं रसमयं पयः दुदुहः । गिरयः पर्वता दोग्धारः हिमवान् वत्सो येषां तथाभूतास्सन्तः स्वसानुषु पात्रभूतेषु नानाधातून् गैरिकादीन् दुदुहः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक् पयः।
सर्वकामदुघां पृथ्वीं दुदुहुः पृथुभाविताम्॥

मूलम्

सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक् 58पयः।
सर्वकामदुधां पृथ्वीं दुदुहुः पृथुभावि59ताम्॥ २६ ॥

अनुवाद (हिन्दी)

पृथ्वी तो सभी अभीष्ट वस्तुओंको देनेवाली है और इस समय वह पृथुजीके अधीन थी। अतः उससे सभीने अपनी-अपनी जातिके मुखियाको बछड़ा बनाकर अलग-अलग पात्रोंमें भिन्न-भिन्न प्रकारके पदार्थोंको दूधके रूपमें दुह लिया॥ २६॥

वीरराघवः

अनुक्तसङ्ग्रहार्थमाह । सर्वे स्वजातौ यो मुख्यस्तेन वत्सेन स्वे स्वे पात्रे सर्वान् स्वापेक्षितान् कामान् दोग्धीति तां सर्वकामदुघां पृथ्वीं पृथक् 60पृथक् पयः दुदुहुः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

एवं पृथ्वादयः पृथ्वीमन्नादाः स्वन्नमात्मनः।
दोहवत्सादिभेदेन क्षीरभेदं कुरूद्वह॥

मूलम्

एवं पृथ्वादयः पृथ्वी61मन्नादाः स्वन्नमात्मनः।
दोहवत्सादिभेदेन क्षीरभेदं कुरूद्वह॥ २७ ॥

अनुवाद (हिन्दी)

कुरुश्रेष्ठ विदुरजी! इस प्रकार पृथु आदि सभी अन्न-भोजियोंने भिन्न-भिन्न दोहन-पात्र और वत्सोंके द्वारा अपने-अपने विभिन्न अन्नरूप दूध पृथ्वीसे दुहे॥ २७॥

वीरराघवः

उपसंहरति - एवमिति । एवमन्नादाः 62अन्नाकाङ्क्षिणः पृथ्वादय आत्मनः स्वस्य स्वन्नं समीचीनमन्नं स्वाभीष्टमन्नमित्यर्थः । तदेव क्षीरभेदं दोहः पात्रं दोहादिभेदेन दुदुहुः । हे कुरूद्वह ! ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

ततो महीपतिः प्रीतः सर्वकामदुघां पृथुः।
दुहितृत्वे चकारेमां प्रेम्णा दुहितृवत्सलः॥

मूलम्

63ततो महीपतिः प्रीतः सर्वकामदुघां पृथुः।
दुहितृत्वे चकारेमां प्रेम्णा दुहितृवत्सलः॥ २८ ॥

अनुवाद (हिन्दी)

इससे महाराज पृथु ऐसे प्रसन्न हुए कि सर्वकामदुहा पृथ्वीके प्रति उनका पुत्रीके समान स्नेह हो गया और उसे उन्होंने अपनी कन्याके रूपमें स्वीकार कर लिया॥ २८॥

वीरराघवः

ततो महीपतिः पृथुः प्रीत64स्सन् सर्वकामदुघामिमां पृथ्वीं प्रेम्णा दुहितृत्वे चकार दुहितरममन्यतेत्यर्थः । यतोऽयं दुहितृवत्सलः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

चूर्णयन् स्वधनुष्कोट्या गिरिकूटानि राजराट्।
भूमण्डलमिदं वैन्यः प्रायश्चक्रे समं विभुः॥

मूलम्

चूर्णयन् स्वध65नुष्कोट्या गिरिकूटानि राजराट्।
भूमण्डलमिदं वैन्यः प्रायश्चक्रे समं विभुः॥ २९ ॥

अनुवाद (हिन्दी)

फिर राजाधिराज पृथुने अपने धनुषकी नोकसे पर्वतोंको फोड़कर इस सारे भूमण्डलको प्रायः समतल कर दिया॥ २९॥

वीरराघवः

ततो राजराट् राज्ञां राजा विभुः समर्थः वैन्यः पृथुः स्व66धनुष्कोट्या स्वधनुषोऽग्रेण गिरिकूटानि गिरिशृङ्गाणि चूर्णयन् भूमण्डलं प्रायशः समं चक्रे । प्रायोग्रहरणात्तेनासमीकृतमपि क्वचित् क्वचित् दृश्यत इत्यभिप्रेतम् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

अथास्मिन् भगवान् वैन्यः प्रजानां वृत्तिदः पिता।
निवासान् कल्पयाञ्चक्रे तत्र तत्र यथार्हतः॥

मूलम्

अथास्मिन् भगवान् वैन्यः प्रजानां वृत्तिदः पिता।
निवासान् कल्पयाञ्चक्रे तत्र तत्र यथार्हतः॥ ३० ॥

अनुवाद (हिन्दी)

वे पिताके समान अपनी प्रजाके पालन-पोषणकी व्यवस्थामें लगे हुए थे। उन्होंने इस समतल भूमिमें प्रजावर्गके लिये जहाँ-तहाँ यथायोग्य निवासस्थानोंका विभाग किया॥ ३०॥

वीरराघवः

अथ दोहनसमीकरणानन्तरं प्रजानां वृत्तिदः जीविकाप्रदः पिता पितृवद्रक्षकश्च भगवान् वैन्यः पृथुः यथार्हतः यथायोग्यं तत्र 67तत्र 68अस्मिन् भूमण्डले प्रजानिवासान् कल्पयाञ्चक्रे ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च।
घोषान् व्रजान् सशिविरानाकरान् खेटखर्वटान्॥

मूलम्

ग्रामान् पुरः 69पत्तनानि दुर्गाणि विविधानि च।
घोषान् व्र70जांश्च सशिबिरानाकरान् खेटख71र्वटान्॥ ३१ ॥

अनुवाद (हिन्दी)

अनेकों गाँव, कस्बे, नगर, दुर्ग, अहीरोंकी बस्ती, पशुओंके रहनेके स्थान, छावनियाँ, खानें, किसानोंके गाँव और पहाड़ोंकी तलहटीके गाँव बसाये॥ ३१॥

वीरराघवः

के ते निवासास्तत्कल्पिता इत्यत्राह - ग्रामानिति । ग्रामा हट्टादिशून्याः, पुरः हट्टादिमत्यः, 72ता एव महत्यः72 पत्तनानि, दुर्गाणि विविधानि औदकपार्वतवार्क्षादिभेदभिन्नानि, घोषान् आभीराणां निवासान्, व्रजान् गवां निवासस्थानानि, शिबिरान् सेनानिवासस्थानानि, 73तत्सहितान्73 आकरान् स्वर्णोत्पत्तिस्थानानि, खेटान् कृषीवलग्रामान्, 74खर्पटान् पर्वतप्रान्तग्रामान्, कल्पयामासेत्यन्वयः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

प्राक‍‍्पृथोरिह नैवैषा पुरग्रामादिकल्पना।
यथासुखं वसन्ति स्म तत्र तत्राकुतोभयाः॥

मूलम्

प्राक‍‍्पृथोरिह नैवैषा पुरग्रामादिकल्पना।
यथासुखं वसन्ति स्म तत्र तत्राकुतोभयाः॥ ३२ ॥

अनुवाद (हिन्दी)

महाराज पृथुसे पहले इस पृथ्वीतलपर पुर-ग्रामादिका विभाग नहीं था; सब लोग अपने-अपने सुभीतेके अनुसार बेखटके जहाँ-तहाँ बस जाते थे॥ ३२॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुविजयेऽष्टादशोऽध्यायः॥ १८॥

वीरराघवः

किं पृथोः प्राक् ग्रामादयो नाभूवन् ? नेत्याह । इह भूमण्डले पृथोः प्राक् पूर्वमेषा पुरग्रामादिकल्पना नैव नास्त्येवेत्यर्थः । तत्र पृथुकल्पितग्रमादिषु, नास्ति कुतोऽपि भयं यासां ताः, प्रजा यथासुखं स्वस्वसुखानुसारेण वसन्ति स्म अवसन्नित्यर्थः ॥ ३२ ॥


  1. A,B,T शक्तिमत्त्वेन ↩︎

  2. M,Ma,Ms च्छ विभो ↩︎

  3. W रक्षा ↩︎

  4. A,B,T omit च ↩︎

  5. M,Ma,Ms प ↩︎

  6. A,G,I,J,T,W पे ↩︎

  7. M,Ma प्रायशश्च; Ma,V प्रारब्धाश्च ↩︎

  8. A,B,T add स्वबुद्ध्या ↩︎

  9. A,B,T omit एव ↩︎

  10. W omits अर्थान् ↩︎

  11. W adds अन्तरा ↩︎

  12. M, Ma श्चौ; Ms,V स्त्वो ↩︎

  13. Ms णाऽथ ↩︎

  14. A,B,T यज्ञानु ↩︎

  15. A,B,T omit रूप ↩︎

  16. A,B,T ला ↩︎

  17. M,Ma,Ms तास्ताः ↩︎

  18. A,B,T omit तत्र ↩︎

  19. M,Ma,Ms मोजस्व ↩︎

  20. A,B,T मत्तः क्षीर ↩︎

  21. Ms मे ↩︎

  22. Ms दृष्टं; V सृष्टं ↩︎

  23. M,Ma,Ms मां ↩︎

  24. A,B,T omit मां ↩︎

  25. T omits देवेन ↩︎

  26. T omits ↩︎ ↩︎

  27. W तदर्थं ↩︎

  28. A,B,T omit मयि ↩︎

  29. A,B,G,I,J,T,V यं ↩︎

  30. This half verse is the first half of 13th verse in M,Ma,Ms ↩︎

  31. अनुमत्य इति भाव्यम् ↩︎

  32. This half verse is the second half of the 12th verse in M,Ma,Ms ↩︎

  33. M,Ma,Ms चकार ↩︎

  34. M,Ma,Ms ऽपरे य ↩︎

  35. T omits पदार्थेषु ↩︎

  36. A,B,T तदेवाह ↩︎

  37. A,B,T omit गां ↩︎

  38. W भुवि ↩︎

  39. W तापरात्मकं ↩︎

  40. A,B,G,I,J,T,W यादुदुहन् ↩︎

  41. W यस्पा ↩︎

  42. A,B,T अयः पात्रे ↩︎

  43. A,B,T omit गान्धर्वं ↩︎

  44. A,B,T omit ↩︎ ↩︎

  45. A,B,G,I,J,T गाः श्रः ↩︎

  46. A,B,T omit विधाय ↩︎

  47. A,B,T सारित्वात् ↩︎

  48. M,Ma नगतात्मना; Ms नगतात्मनाम् ↩︎

  49. A,B,G,I,J,T वत्सं ते ↩︎

  50. W omits ↩︎ ↩︎

  51. T omits तृणं ↩︎

  52. W रत्रा ↩︎

  53. A,B,G,I,J,T स्वे ↩︎

  54. A,B,G,I,J,M,Ma,T वरे ↩︎

  55. A,B,T वरे ↩︎

  56. V स्पत्यः ↩︎

  57. V ग्रोह ↩︎

  58. M,Ma पृथक् । ↩︎

  59. M,Ma,Ms मुदुहन् ↩︎

  60. T omits पृथक् ↩︎

  61. M,Ma,Ms मुदुहन् ↩︎

  62. A,B,T अन्न ↩︎

  63. W एवं ↩︎

  64. W omits सन् ↩︎

  65. M,Ma,Ms,V,W नुः को ↩︎

  66. W धनुः कोटया ↩︎

  67. A,B,T omit तत्र ↩︎

  68. A,B,T तस्मिन् ↩︎

  69. V पट्टणानि ↩︎

  70. A,B,G,I,J,T,V जान् स ↩︎

  71. W र्प ↩︎

  72. W omits ↩︎ ↩︎

  73. W omits ↩︎ ↩︎

  74. W र्व ↩︎