१७ धरित्रीनिग्रहः

[सप्तदशोऽध्यायः]

भागसूचना

महाराज पृथुका पृथ्वीपर कुपित होना और पृथ्वीके द्वारा उनकी स्तुति करना

श्लोक-१

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

एवं स भगवान् वैन्यः ख्यापितो गुणकर्मभिः।
छन्दयामास तान् कामैः प्रतिपूज्याभिनन्द्य च॥

मूलम्

एवं स भगवान् वैन्यः ख्यापितो गुणकर्मभिः।
छन्दयामास तान् कामैः प्रतिपूज्याऽभिनन्द्य च॥ १ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—इस प्रकार जब वन्दीजनने महाराज पृथुके गुण और कर्मोंका बखान करके उनकी प्रशंसा की, तब उन्होंने भी उनकी बड़ाई करके तथा उन्हें मनचाही वस्तुएँ देकर सन्तुष्ट किया॥ १॥

वीरराघवः

एवं सूतादिभिः प्रख्यापितोरुगुणगणः पृथुः प्रतिपूजित सूत ब्राह्मण भृ1त्यामात्यादिगणः क्षुत्पीडितजनैः प्राप्तशरणः आत्मनि रुद्धबीजां महीं जिघांसुः पुनस्तया प्रसादितो बभूवेत्याह मुनिष्षोडशेन - एवमिति । भगवान् वैन्यः पृथुः एवं गुणैः कर्मभिश्चात्मीयैः ख्यापितः प्रसिद्धिं प्रापितः तान् सूतादीन् कामैः तत्तदिच्छाविषयैः वस्त्राभरणादिभिः प्रतिपूज्य तेषां स्तुतिमभिनन्द्य च छन्दयामास तोषितवान् ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोधसः।
पौराञ्जानपदान् श्रेणीः प्रकृतीः समपूजयत्॥

मूलम्

ब्राह्मण प्रमुखान् वर्णान् भृत्यामात्यपुरोधसः।
पौराञ्जानपदान् श्रेणीः प्रकृतीः समपूजयत्॥ २ ॥

अनुवाद (हिन्दी)

उन्होंने ब्राह्मणादि चारों वर्णों, सेवकों, मन्त्रियों, पुरोहितों, पुरवासियों, देशवासियों, भिन्न-भिन्न व्यवसायियों तथा अन्यान्य आज्ञानुवर्तियोंका भी सत्कार किया॥ २॥

वीरराघवः

ब्राह्मणादीन् चतुरो वर्णान् भृत्या न मत्यान् पुरोधसः पुरोहितान् श्रेणीः तैलिकताम्बूलिकादीन् पौरान् पुरवासिनः जानपदान् देशवासिनो जनान् प्रकृतीः 2नियोगिनः सम्यगपूजयत् ॥ २ ॥

श्लोक-३

मूलम् (वचनम्)

विदुर उवाच

विश्वास-प्रस्तुतिः

कस्माद्दधार गोरूपं धरित्री बहुरूपिणी।
यां दुदोह पृथुस्तत्र को वत्सो दोहनं च किम्॥

मूलम्

कस्माद्दधार गोरूपं 3धरिणी बहुरूपिणी।
यां दुदोह पृथुस्तत्र को वत्सो दोहनं च किम्॥ ३ ॥

अनुवाद (हिन्दी)

विदुरजीने पूछा—ब्रह्मन्! पृथ्वी तो अनेक रूप धारण कर सकती है, उसने गौका रूप ही क्यों धारण किया? और जब महाराज पृथुने उसे दुहा, तब बछड़ा कौन बना? और दुहनेका पात्र क्या हुआ?॥ ३॥

वीरराघवः

एवं सूतादिस्तुतिकथनव्याजेन समासतश्श्रावित पृथुचरितं मुनिं पुनस्तच्चरित 4विस्तर शुश्रूषया क्षत्ता पृच्छति 5इत्याह - विदुर इति । बहुरूपिणी कामरूपिणी 6धरित्री कस्माद्धेतोः गोरूपं दधार ? यां धरित्रीं पृथुर्दुदोह; तत्र वत्सः कः ? दोहनं दोहनसाधनं पात्रम् ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

प्रकृत्या विषमा देवी कृता तेन समा कथम्।
तस्य मेध्यं हयं देवः कस्य हेतोरपाहरत्॥

मूलम्

प्रकृत्या विषमा देवी कृता तेन समा कथम्।
तस्य मेध्यं हयं देवः कस्य हेतोरपाहरत्॥ ४ ॥

अनुवाद (हिन्दी)

पृथ्वी देवी तो पहले स्वभावसे ही ऊँची-नीची थी। उसे उन्होंने समतल किस प्रकार किया और इन्द्र उनके यज्ञसम्बन्धी घोड़ेको क्यों हर ले गये?॥ ४॥

वीरराघवः

प्रकृत्या स्वभावेन विषमा पर्वतादिभिर्निम्नोन्नता । देवी धरित्री कथं स7माकृता ? 8तस्य पृथोः मेध्यं यज्ञार्हं हयमश्वं देवः इन्द्रः कस्माद्धेतोः अपाहरत् ? ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

सनत्कुमाराद‍्भगवतो ब्रह्मन् ब्रह्मविदुत्तमात्।
लब्ध्वा ज्ञानं सविज्ञानं राजर्षिः कां गतिं गतः॥

मूलम्

सनत्कुमारा9द‍्भगवन् ब्रह्मन् ब्रह्मविदुत्तमात्।
लब्ध्वा ज्ञानं सविज्ञानं राजर्षिः कां गतिं गतः॥ ५ ॥

अनुवाद (हिन्दी)

ब्रह्मज्ञानियोंमें श्रेष्ठ भगवान् सनत्कुमारजीसे ज्ञान और विज्ञान प्राप्त करके वे राजर्षि किस गतिको प्राप्त हुए?॥ ५॥

वीरराघवः

हे भगवन् ! मैत्रेय ! ब्रह्मविदां मध्ये उत्तमात् सनत्कुमारात् ब्रह्मविषयं सविज्ञानं उपासनात्मकज्ञानसहितं, ज्ञानं श्रवणजन्यं ज्ञानं लब्ध्वा राजर्षिः पृथुः कां गतिं गतः प्राप्तः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

यच्चान्यदपि कृष्णस्य भवान् भगवतः प्रभोः।
श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम्॥

मूलम्

यच्चाऽन्यदपि कृष्णस्य 10ब्रह्मन् भगवतः प्रभोः।
श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम्॥ ६ ॥

वीरराघवः

सुश्रवसः शोभन कीर्तेः प्रभोः भगवतः कृष्णस्य । यः पूर्वदेहः प्रथमोऽवतारः पृथुः तस्य या कथा तदाश्रयं तत्प्रतिपाद्यं पुण्यं शृण्वतां पुण्यसम्पादकं श्रवो यशः, यच्चाऽन्यदपृष्टमपि तत्सर्वम् ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च।
वक्तुमर्हसि योऽदुह्यद्वैन्यरूपेण गामिमाम्॥

मूलम्

भक्ताय मेऽनुरक्ताय तव चाऽधोक्षजस्य च।
वक्तुमर्हसि योऽदुह्य द्वैन्यरूपेण गामिमाम्॥ ७ ॥

अनुवाद (हिन्दी)

पृथुरूपसे सर्वेश्वर भगवान् श्रीकृष्णने ही अवतार ग्रहण किया था; अतः पुण्यकीर्ति श्रीहरिके उस पृथु-अवतारसे सम्बन्ध रखनेवाले जो और भी पवित्र चरित्र हों, वे सभी आप मुझसे कहिये। मैं आपका और श्रीकृष्णचन्द्रका बड़ा अनुरक्त भक्त हूँ॥ ६-७॥

वीरराघवः

तव अधोक्षजस्य च भक्ताय अनुरक्ताय मे मह्यं वक्तुमर्हसि । कोऽसावधोक्षजो यस्य भक्तायेत्युक्तं - तत्राऽह - योऽधोक्षजो वैन्यरूपेण पृथुरूपेणाऽवतीर्णः इमां गां पृथ्वीम् अदुह्यत् दुग्धवान् ॥ ७ ॥

श्लोक-८

मूलम् (वचनम्)

11सूत उवाच

विश्वास-प्रस्तुतिः

चोदितो विदुरेणैवं वासुदेवकथां प्रति।
प्रशस्य तं प्रीतमना मैत्रेयः प्रत्यभाषत॥

मूलम्

चोदितो विदुरेणैवं वासुदेवकथां प्रति।
प्रशस्य तं प्रीतमना मैत्रेयः प्रत्यभाषत॥ ८ ॥

अनुवाद (हिन्दी)

श्रीसूतजी कहते हैं—जब विदुरजीने भगवान् वासुदेवकी कथा कहनेके लिये इस प्रकार प्रेरणा की, तब श्रीमैत्रेयजी प्रसन्नचित्तसे उनकी प्रशंसा करते हुए कहने लगे॥ ८॥

वीरराघवः

एवमापृष्टो मुनिर्विस्तरेण पृधुचरितं वक्तुमुपचक्रमे इत्याह सूतः चोदित इति । अस्य शुकवचनत्वं तु न्याय्यम् । विदुरेणैवं वासुदेवस्य पृथोः कथां प्रति चोदितो मैत्रेयः प्रीतमनास्सन् तं विदुरं प्रशस्य प्रस्तूय 12प्रत्यभाषत ॥ ८ ॥

श्लोक-९

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

यदाभिषिक्तः पृथुरङ्ग विप्रै-
रामन्त्रितो जनतायाश्च पालः।
प्रजा निरन्ने क्षितिपृष्ठ एत्य
क्षुत्क्षामदेहाः पतिमभ्यवोचन्॥

मूलम्

13यदाऽभिषिक्तः पृथुरङ्ग विप्रैरामन्त्रितो जनतायाश्च पालः।
प्रजा निरन्ने क्षितिपृष्ठ एत्य क्षुत्क्षामदेहाः पतिम14भ्यवोचन्॥ ९ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजीने कहा—विदुरजी! ब्राह्मणोंने महाराज पृथुका राज्याभिषेक करके उन्हें प्रजाका रक्षक उद्घोषित किया। इन दिनों पृथ्वी अन्नहीन हो गयी थी, इसलिये भूखके कारण प्रजाजनोंके शरीर सूखकर काँटे हो गये थे। उन्होंने अपने स्वामी पृथुके पास आकर कहा॥ ९॥

वीरराघवः

अङ्ग ! हे विदुर ! विप्रैर्यदा पृथुरभिषिक्तः जनतायाः जनसमूहस्य “ग्रामजनबन्धुभ्यस्तल्” (अष्टा. 4-2-43) इति समूहार्थे तल् प्रत्ययः । पाल इत्यामन्त्रितो नियुक्तश्च तदा क्षितिपृष्ठे भूमण्डले निरन्ने अन्नरहिते सति क्षुधा क्षामाः क्षीणाः देहाः यासां ताः प्रजाः एत्यसमीप15मागत्य पतिं15 पृथुमब्रुवन् ॥ ९ ॥

श्लोक-१०

मूलम् (वचनम्)

16प्रजा ऊचुः16

विश्वास-प्रस्तुतिः

वयं राजञ्जाठरेणाभितप्ता
यथाग्निना कोटरस्थेन वृक्षाः।
त्वामद्य याताः शरणं शरण्यं
यः साधितो वृत्तिकरः पतिर्नः॥

मूलम्

वयं राजन् ! जाठरेणाभितप्ता यथाऽग्निना कोटरस्थेन 17वृक्षाः।
त्वामद्य याताः शरणं शरण्यं य18स्साधितो वृत्तिकरः पतिर्नः॥ १० ॥

अनुवाद (हिन्दी)

‘राजन्! जिस प्रकार कोटरमें सुलगती हुई आगसे पेड़ जल जाता है, उसी प्रकार हम पेटकी भीषण ज्वालासे जले जा रहे हैं। आप शरणागतोंकी रक्षा करनेवाले हैं और हमारे अन्नदाता प्रभु बनाये गये हैं, इसलिये हम आपकी शरणमें आये हैं॥ १०॥

वीरराघवः

हे राजन् ! यथा कोटरगतेन वह्निना वृक्षा अभितस्तप्ता भवन्ति तथा 19वयं जाठरेणाऽग्निना अभितप्तास्सन्तः यो भवान् नोऽस्माकं वृत्तिकरः पतिः, विप्रैः साधितो मथनेन सम्पादितः तं शरण्यं त्वा मधुना शरणं याताः गताः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

तन्नो भवानीहतु रातवेऽन्नं
क्षुधार्दितानां नरदेवदेव।
यावन्न नङ्क्ष्यामह उज्झितोर्जा
वार्तापतिस्त्वं किल लोकपालः॥

मूलम्

तन्नो भवा20नीहतु 21रातवेऽन्नं क्षुधार्दितानां नरदेवदेव।
यावन्न-नङ्क्ष्यामह उज्झि22तोर्जा वार्तापतिस्त्वं किल लोकपालः॥ ११ ॥

अनुवाद (हिन्दी)

आप समस्त लोकोंकी रक्षा करनेवाले हैं,आप ही हमारी जीविकाके भी स्वामी हैं। अतः राजराजेश्वर! आप हम क्षुधापीड़ितोंको शीघ्र ही अन्न देनेका प्रबन्ध कीजिये; ऐसा न हो कि अन्न मिलनेसे पहले ही हमारा अन्त हो जाय’॥ ११॥

वीरराघवः

तस्मात् हे नरदेव उज्झितोर्जाः त्यक्तान्ना वयं यावत् न नङ्क्ष्यामहे न नाशं यास्यामः तावदेव क्षुधा अर्दितानां 23पीडितानां नोऽस्माकम् अन्नं 24दातवे दातुं भवानीहतु यत्नं करोतु; यतः त्वं वार्तायाः जीविकायाः पतिः रक्षिता लोकानां पालकश्च ॥ ११ ॥

श्लोक-१२

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

पृथुः प्रजानां करुणं निशम्य परिदेवितम्।
दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सोऽन्वपद्यत॥

मूलम्

पृथुः प्रजानां करुणं निशम्य परिदेवितम्।
दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सोऽन्वपद्यत॥ १२ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—कुरुवर! प्रजाका करुणक्रन्दन सुनकर महाराज पृथु बहुत देरतक विचार करते रहे। अन्तमें उन्हें अन्नाभावका कारण मालूम हो गया॥ १२॥

वीरराघवः

प्रजानां करुणं परिदेवितं विलापं निशम्य श्रुत्वा पृथुः दीर्घं चिरं दध्यौ चिन्तितवान् । हे कुरुश्रेष्ठ ! स पृथुः निमित्तं लोकस्य निरन्नत्वे निमित्तं हेतुं अन्वपद्यत ज्ञातवान् ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

इति व्यवसितो बुद्‍ध्या प्रगृहीतशरासनः।
सन्दधे विशिखं भूमेः क्रुद्धस्त्रिपुरहा यथा॥

मूलम्

इति व्यवसितो बुद्‍ध्या प्रगृहीतशरासनः।
सन्दधे विशिखं 25भूमेः क्रुद्धस्त्रिपुरहा यथा॥ १३ ॥

अनुवाद (हिन्दी)

‘पृथ्वीने स्वयं ही अन्न एवं औषधादिको अपने भीतर छिपा लिया है’ अपनी बुद्धिसे इस बातका निश्चय करके उन्होंने अपना धनुष उठाया और त्रिपुरविनाशक भगवान् शंकरके समान अत्यन्त क्रोधित होकर पृथ्वीको लक्ष्य बनाकर बाण चढ़ाया॥ १३॥

वीरराघवः

इतीति । पृथिव्या ओषधिबीजानि ग्रस्तानीति व्यवसितः निश्चिन्वानः प्रगृहीतं शरासनं धनुर्येन सः, यथा त्रिपुरहन्ता रुद्रः तथा भूमेः हेतोः क्रुद्धः विशिखं बाणं सन्दधे ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

प्रवेपमाना धरणी निशाम्योदायुधं च तम्।
गौः सत्यपाद्रवद‍्भीता मृगीव मृगयुद्रुता॥

मूलम्

प्रवेपमाना धरणी नि26शाम्योदायुधं 27च तम्।
गौः सत्यपाद्रवद‍्भीता मृगीव मृग28युद्रुता॥ १४ ॥

अनुवाद (हिन्दी)

उन्हें शस्त्र उठाये देख पृथ्वी काँप उठी और जिस प्रकार व्याधके पीछा करनेपर हरिणी भागती है, उसी प्रकार वह डरकर गौका रूप धारण करके भागने लगी॥ १४॥

वीरराघवः

उदायुधं शरासने संहितशरं पृथुं नि29शाम्य दृष्ट्वा धरणी प्रवेपमाना नितरां भयात्कम्पमाना गौस्सती गोरूपं धृतवती मृगयुना 30व्याधेन द्रुता अनुद्रुता भीता मृगीव हरिणीव अपाद्रवत् पलायितवती ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

तामन्वधावत्तद्वैन्यः कुपितोऽत्यरुणेक्षणः।
शरं धनुषि संधाय यत्र यत्र पलायते॥

मूलम्

31तामन्वधावत्तद्वैन्यः कुपितोऽत्यरुणेक्षणः।
शरं धनुषि सन्धाय यत्र यत्र पलाय32ते॥ १५ ॥

अनुवाद (हिन्दी)

यह देखकर महाराज पृथुकी आँखें क्रोधसे लाल हो गयीं। वे जहाँ-जहाँ पृथ्वी गयी, वहाँ-वहाँ धनुषपर बाण चढ़ाये उसके पीछे लगे रहे॥ १५॥

वीरराघवः

33वैन्यः पृथुः कुपितः कोपयुक्तः अत एव अति नितरां अरुणे ईशणे यस्य सः, धनुषि बाणं सन्धाय यत्र यत्र सा पलायते पलायितवती33 तत्र तत्र तामेव धृतगोरूपां धरणीमनुसृत्य गतवान् ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

सा दिशो विदिशो देवी रोदसी चान्तरं तयोः।
धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम्॥

मूलम्

सा दिशो विदिशो देवी रोदसी चान्तरं तयोः।
34धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम्॥ १६ ॥

अनुवाद (हिन्दी)

दिशा, विदिशा, स्वर्ग, पृथ्वी और अन्तरिक्षमें जहाँ-जहाँ भी वह दौड़कर जाती, वहीं उसे महाराज पृथु हथियार उठाये अपने पीछे दिखायी देते॥ १६॥

वीरराघवः

सा देवी धरित्री दिशो विदिशः रोदसी द्यावापृथिव्यौ तयोः अन्तरमन्तरिक्षं च 35धावती सती तत्र 36तत्र दिग्विदिगादिषु एनं पृथुं अनु 37पृष्ठतः उद्यतमुद्धृतमायुधं येन तं ददर्श ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

लोके नाविन्दत त्राणं वैन्यान्मृत्योरिव प्रजाः।
त्रस्ता तदा निववृते हृदयेन विदूयता॥

मूलम्

लोके नाविन्दत त्राणं वैन्यान्मृत्योरिव प्रजाः।
त्रस्ता तदा निववृते हृदयेन विदूयता॥ १७ ॥

अनुवाद (हिन्दी)

जिस प्रकार मनुष्यको मृत्युसे कोई नहीं बचा सकता, उसी प्रकार उसे त्रिलोकीमें वेनपुत्र पृथुसे बचानेवाला कोई भी न मिला। तब वह अत्यन्त भयभीत होकर दुःखित चित्तसे पीछेकी ओर लौटी॥ १७॥

वीरराघवः

मृत्योः भीताः प्रजा इव वैन्यात् पृथो स्त्रस्ता सती त्राणं रक्षणोपायं लोके न अविन्दत नालभत । किन्तु तदा विदूयता नितरां उपतप्तेन हृदयेन निववृते न्यवर्तत ॥ १७ ॥

श्लोक-१८

मूलम् (वचनम्)

38भूमिः

विश्वास-प्रस्तुतिः

उवाच च महाभागं धर्मज्ञापन्नवत्सल।
त्राहि मामपि भूतानां पालनेऽवस्थितो भवान्॥

मूलम्

उवा39च च महाभा40गं धर्मज्ञापन्नवत्सल।
त्राहि मा41मपि भूतानां पालनेऽवस्थितो भवान्॥ १८ ॥

अनुवाद (हिन्दी)

और महाभाग पृथुजीसे कहने लगी—‘धर्मके तत्त्वको जाननेवाले शरणागतवत्सल राजन्! आप तो सभी प्राणियोंकी रक्षा करनेमें तत्पर हैं, आप मेरी भी रक्षा कीजिये॥ १८॥

वीरराघवः

उवाच च उ42क्तिमेवाह, हे महाभाग महाबुद्धिमन् ! परेङ्गितज्ञेत्यर्थः । धर्मज्ञ ! 43स्त्रीणां वधानर्हत्वरूपधर्मज्ञ ! आपन्न वत्सल ! आपन्नेषु आपदं प्राप्तेषु 44वात्सल्यविशिष्ट ! भूतानां पालने अवस्थितो भवान् । अतो भूतेष्वन्तर्भूतां मामपि त्राहि ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

स त्वं जिघांससे कस्माद्दीनामकृतकिल्बिषाम्।
अहनिष्यत्कथं योषां धर्मज्ञ इति यो मतः॥

मूलम्

स त्वं जिघांससे कस्माद्दीनामकृत 45किल्बिषाम्।
अहनिष्यत्कथं योषां धर्मज्ञ इति यो मतः॥ १९ ॥

अनुवाद (हिन्दी)

मैं अत्यन्त दीन और निरपराध हूँ, आप मुझे क्यों मारना चाहते हैं? इसके सिवा आप तो धर्मज्ञ माने जाते हैं; फिर मुझ स्त्रीका वध आप कैसे कर सकेंगे?॥ १९॥

वीरराघवः

स त्वं भूतपालनाधिकृतस्त्वं अकृतकिल्बिषां निरपराधां दीनां मां कथं जि46घांससे हन्तुमिच्छसि अनेन स्वस्याऽवध्यत्वमुक्तम् । हन्तृत्वं तवाऽनुचितमित्याह - अहनिष्यदिति । अतो न पौनरुक्तत्यम् । धर्मज्ञ इति मतः ज्ञातो यो भवान् योषां मां कथमहनिष्यत् हनिष्यति ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

प्रहरन्ति न वै स्त्रीषु कृतागःस्वपि जन्तवः।
किमुत त्वद्विधा राजन् करुणा दीनवत्सलाः॥

मूलम्

प्रहरन्ति न वै स्त्रीषु कृतागस्स्वपि जन्तवः।
किमुत त्वद्विधा राजन्! करुणा दीनवत्सलाः॥ २० ॥

अनुवाद (हिन्दी)

स्त्रियाँ कोई अपराध करें, तो साधारणजीव भी उनपर हाथ नहीं उठाते; फिर आप जैसे करुणामय और दीनवत्सल तो ऐसा कर ही कैसे सकते हैं?॥ २०॥

वीरराघवः

हे राजन् ! सामान्यजना अपि कृतागस्स्वपि कृतापराधास्वपि स्त्रीषु न वै प्रहरन्ति; किमुत दीनवत्सलाः करुणाः त्वादृशाः न प्रहरन्तीति ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम्।
आत्मानं च प्रजाश्चेमाः कथमम्भसि धास्यसि॥

मूलम्

मां 47विपाट्याऽजरां नावं यत्र विश्वं प्रतिष्ठितम्।
आत्मानं च प्रजाश्चेमाः कथमम्भसि धास्यसि॥ २१ ॥

अनुवाद (हिन्दी)

मैं तो एक सुदृढ़ नौकाके समान हूँ, सारा जगत् मेरे ही आधारपर स्थित हैं। मुझे तोड़कर आप अपनेको और अपनी प्रजाको जलके ऊपर कैसे रखेंगे?’॥ २१॥

वीरराघवः

किञ्च यत्र मयि विश्वं जगत् प्रतिष्ठितं तां अजरां दृढां नावं 48नौरूपां विपाट्य विभिद्य आत्मानम् इमाः प्रजाश्चाम्भसि कथं धास्यसि धारयिष्यसि ॥ २१ ॥

श्लोक-२२

मूलम् (वचनम्)

पृथुरुवाच

विश्वास-प्रस्तुतिः

वसुधे त्वां वधिष्यामि मच्छासनपराङ्‍मुखीम्।
भागं बर्हिषि या वृङ्‍क्ते न तनोति च नो वसु॥

मूलम्

वसुधे त्वां वधिष्यामि मच्छासनपराङ्‍मुखीम्।
भागं बर्हिषि या वृङ्‍क्ते न तनो49षि च 50नो वसु॥ २२ ॥

अनुवाद (हिन्दी)

महाराज पृथुने कहा—पृथ्वी! तू मेरी आज्ञाका उल्लंघन करनेवाली है। तू यज्ञमें देवतारूपसे भाग तो लेती है, किन्तु उसके बदलेमें हमें अन्न नहीं देती; इसलिये आज मैं तुझे मार डालूँगा॥ २२॥

वीरराघवः

एव मुक्तो धरित्र्या पृथुः तदुक्तीः प्रतिवक्ष्यन्नाह - वसुध इति । यत्त्वयोक्तं “स त्वं जिघांससे कस्मादीनामकृतकिल्बिषाम्” (भाग 4-17-19) इति तन्नेत्याह त्रिभिः; हे वसुधे! मच्छासन पराङ्मुखीं मदाज्ञातिवर्तिनीं त्वां वधिष्यामि; राज्ञो ममाज्ञातिलङ्घन मेवाऽ51यं भवत्याः प्रथमोऽपराध इति भावः । किञ्च या भवती बर्हिषि यज्ञे भागं वृङ्क्ते देवतारूपेण भागं भजते या च त्वं वसु धान्यादिकं न तनोषि न ददासि; उपकारानभिज्ञायास्तवाऽयं द्वितीयोऽपराधः इति भावः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

यवसं जग्ध्यनुदिनं नैव दोग्ध्यौधसं पयः।
तस्यामेवं हि दुष्टायां दण्डो नात्र न शस्यते॥

मूलम्

यवसं जग्ध्यनुदिनं नैव दोग्ध्यौधसं पयः।
तस्यामेवं हि दुष्टायां 52दण्डो नाऽत्र न शस्यते॥ २३ ॥

अनुवाद (हिन्दी)

तू जो प्रतिदिन हरी-हरी घास खा जाती है और अपने थनका दूध नहीं देती—ऐसी दुष्टता करनेपर तुझे दण्ड देना अनुचित नहीं कहा जा सकता॥ २३॥

वीरराघवः

ननु सापराधाया अपि गोरूपायाः मम वधोऽनुचितः तत्राऽह - यवसमिति । या गौः अनुदिनं यवसं तृणमेव 53परं जग्धि अत्ति, अथ पयस्तु नैव सन्दोग्धि न प्रपूरयति, तस्यां दुष्टायां गवि दण्ड एव उचितः, अन्यत्र अदुष्टायां गवि दण्डो न प्रशस्यत इत्ययं धर्मो दृश्यत इति भावः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

त्वं खल्वोषधिबीजानि प्राक् सृष्टानि स्वयम्भुवा।
न मुञ्चस्यात्मरुद्धानि मामवज्ञाय मन्दधीः॥

मूलम्

त्वं ख54ल्वोषधिबीजानि प्राक् सृष्टानि स्वयम्भुवा।
न मुञ्चस्यात्मरुद्धानि मामवज्ञाय मन्दधीः॥ २४ ॥

अनुवाद (हिन्दी)

तू नासमझ है, तूने पूर्वकालमें ब्रह्माजीके उत्पन्न किये हुए अन्नादिके बीजोंको अपनेमें लीन कर लिया है और अब मेरी भी परवा न करके उन्हें अपने गर्भसे निकालती नहीं॥ २४॥

वीरराघवः

स्वयम्भुवा ब्रह्मणा भूतानां जीवनार्थत्वे प्राक्कल्पादौ सृष्टानि ओषधिबीजानि आत्मनि स्वस्यां रुद्धानि आत्मनि ग्रस्तानीत्यर्थः । मां भूतपालनाधिकृतमवज्ञाय पराभूय अत एव मन्दधीः त्वं न मुञ्चसि; अतस्त्वद्वध उचित एवेति भावः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

अमूषां क्षुत्परीतानामार्तानां परिदेवितम्।
शमयिष्यामि मद‍्बाणैर्भिन्नायास्तव मेदसा॥

मूलम्

अमूषां क्षुत्परीतानामार्तानां परिदेवितम्।
शमयिष्यामि मद‍्बाणैर्भिन्नायास्तव मेदसा॥ २५ ॥

अनुवाद (हिन्दी)

अब मैं अपने बाणोंसे तुझे छिन्न-भिन्न कर तेरे मेदेसे इन क्षुधातुर और दीन प्रजाजनोंका करुण-क्रन्दन शान्त करूँगा॥ २५॥

वीरराघवः

तर्हि किं मद्बधसाध्यं ? प्रत्युतमद्वधे अन्नं न स्यात्तत्राह - अमूषामिति । क्षुत्परीतानां क्षुधा परितो व्याप्तानां अत एव आर्तानां अमूषां प्रजानां परिदेवितं दुःखं मद्बाणैर्भिन्नायाः तव मेदसा मांसेन शमयिष्यामि ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

पुमान् योषिदुत क्लीब आत्मसम्भावनोऽधमः।
भूतेषु निरनुक्रोशो नृपाणां तद्वधोऽवधः॥

मूलम्

पुमान् योषिदुत क्लीब आत्मसम्भा55वितोऽधमः।
भूतेषु निरनुक्रोशो नृपाणां तद्वधोऽ56वधः॥ २६ ॥

अनुवाद (हिन्दी)

जो दुष्ट अपना ही पोषण करनेवाला तथा अन्य प्राणियोंके प्रति निर्दय हो—वह पुरुष, स्त्री अथवा नपुंसक कोई भी हो—उसका मारना राजाओंके लिये न मारनेके ही समान है॥ २६॥

वीरराघवः

यदप्युक्तम् - “अहनिष्यत्कथं योषां धर्मज्ञ इति यो मतः” (भाग. 4-17-19) इति तत्राह - पुमानिति । पुमान् योषिद्वा क्लीबः नपुंसको वा आत्मसम्भावितः आत्मनैव सम्भावितः न तु परैः । अत एव अधमः भूतेषु निरनुक्रोशः निष्कृपः स्यात् । तर्हि पुमादिविभागमनादृत्य तद्वध एव नृपाणामुचित इत्यर्थः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

त्वां स्तब्धां दुर्मदां नीत्वा मायागां तिलशः शरैः।
आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः॥

मूलम्

त्वां स्तब्धां दुर्मदां नीत्वा मायागां तिलशः शरैः।
आत्मयोगबले57नेमा धारयिष्याम्यहं प्रजाः॥ २७ ॥

अनुवाद (हिन्दी)

तू बड़ी गर्वीली और मदोन्मत्ता है; इस समय मायासे ही यह गौका रूप बनाये हुए है। मैं बाणोंसे तेरे टुकड़े-टुकड़े करके अपने योगबलसे प्रजाको धारण करूँगा॥ २७॥

वीरराघवः

यदप्युक्तं - “मां विपाट्य” (भाग 4-17-21) इत्यदिना तत्राह - त्वामिति । मायागां 58मायाधृतगोरूपां तथा दुर्मदां मदभावे कथमम्भसि प्रजा धास्यतीत्येवंरूपदुर्मदविशिष्टां त्वां शरैर्मद्बाणैः तिलशः तिलप्रमाणानि खण्डानि इत्येवम्भूतामवस्थां नीत्वा प्रापय्य आत्मनो मम योगबलेन योगसामर्थ्येनैव अहं प्रजा आत्मानं च धारयिष्यामि ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

एवं मन्युमयीं मूर्तिं कृतान्तमिव बिभ्रतम्।
प्रणता प्राञ्जलिः प्राह मही सञ्जातवेपथुः॥

मूलम्

एवं मन्युमयीं मूर्तिं कृतान्तमिव बिभ्रतम्।
प्रणता प्राञ्जलिः प्राह मही सञ्जातवेपथुः॥ २८ ॥

अनुवाद (हिन्दी)

इस समय महाराज पृथु कालकी भाँति क्रोधमयी मूर्ति धारण किये हुए थे। उनके ये शब्द सुनकर धरती काँपने लगी और उसने अत्यन्त विनीतभावसे हाथ जोड़कर कहा॥ २८॥

वीरराघवः

एवं मन्युमयीं 59क्रोधप्रचुरं मूर्तिं विग्रहं बिभ्रतं कृतान्तमिव स्थितं पृथुमित्यर्थः, न तु कृतान्तवत् मन्युमयीं मूर्तिं बिभ्रतमिति । कृतान्तस्य तदभावात् । प्रणता प्रह्वीभूता, मही धरित्री सञ्जातकम्पा प्राञ्जलिः प्राह ॥ २८ ॥

श्लोक-२९

मूलम् (वचनम्)

60धरोवाच

विश्वास-प्रस्तुतिः

नमः परस्मै पुरुषाय मायया
विन्यस्तनानातनवे गुणात्मने।
नमः स्वरूपानुभवेन निर्धुत-
द्रव्यक्रियाकारकविभ्रमोर्मये॥

मूलम्

नमः परस्मै पुरुषाय मायया विन्यस्तनानातनवे गुणात्मने।
नमः स्वरूपानुभवेन नि61र्धुतद्रव्यक्रियाकारकविभ्रमोर्मये॥ २९ ॥

अनुवाद (हिन्दी)

पृथ्वीने कहा—आप साक्षात् परमपुरुष हैं तथा अपनी मायासे अनेक प्रकारके शरीर धारणकर गुणमय जान पड़ते हैं; वास्तवमें आत्मानुभवके द्वारा आप अधिभूत, अध्यात्म और अधिदैवसम्बन्धी अभिमान और उससे उत्पन्न हुए राग-द्वेषादिसे सर्वथा रहित हैं। मैं आपको बार-बार नमस्कार करती हूँ॥ २९॥

वीरराघवः

पृथुनैवं प्रत्युक्ता पृथ्वी साक्षाद्भगवदवतारभूतोऽयं पृथुः सर्वज्ञः सर्वशक्तिः न मया वञ्चयितुं शक्य इत्यालोच्य 62स्वतः ओषधि बीजनिर्गमोपायम् 63उपदिदिक्षन्ती63 क्रोधादयं स्वोपदिष्टोपायं मा ग्रहीदित्याशङ्क्य तावत् 64तत्क्रोधोपशमनाय आत्मनो दैन्यं आकिञ्चन्यञ्च निवेदयन्ती 65तं चिदचिच्छरीरत्वेन जगत्सृष्ट्यादिकारणत्वेन धर्मपरित्राण निमित्तावतारविशिष्टत्वेन च स्तौति - नमः परस्मै इति । मायया स्वापृथक्सिद्ध विशेषणभूतया मायया प्रकृत्या विन्यस्तनाना तनवे निष्पादितदेवमनुष्यादि व्यष्टि क्षेत्रज्ञ शरीराय अनेन प्रकृति पुरुषशरीरकत्वं जगत्कारणत्वं तच्च सद्वारकमिति चोक्तं भवति । सद्वारकत्वमेव व्यनक्ति - गुणात्मने इति । प्रकृतिगुणविशिष्टत्वात् तद्वारा सत्त्वादिगुणस्वभावाय यथा “काठिन्यवान् यो बिभर्ति ……तस्मै भूम्यात्मने नमः" (विष्णु. पु. 1-12-28) इति भूमिद्वारा काठिन्यवत्त्वं, न तु स्वरूपतो गुणात्मकत्वं, निर्गुणश्रुतिविरोधात् । प्रकृतिपुरुषशरीरकत्वेऽपि तद्वैलक्षण्येन स्थितिमाह - परस्मै प्रकृतिपुरुषविलक्षणाय । वैलक्षण्ये हेतुमाह - स्वरूपानुभवेन निर्धुत द्रव्यक्रिया कारकविभ्रमोर्मये स्वरूपानुभवः स्वरूप विषयं यथाऽवस्थितं ज्ञानं स्वरूपशब्देन प्रकृतिपुरुषेश्वरस्वरूपाणि 66त्रीण्यपि विवक्षितानि । स्वरूपाणां प्रकृतिपुरुषेश्वररूपाणां अनुभवेन याथात्म्यज्ञानेन निर्धुताः निरस्ताः द्रव्यक्रियाकारक विभ्रमाः द्रव्य क्रिया कारकेति द्वन्द्वः । विभ्रमशब्दः प्रत्येकं सम्बध्यते, द्वन्द्वान्ते श्रुतत्वात् । तत्र द्रव्यभ्रमो नाम पृथिव्यादिद्रव्यारब्धेषु देहिष्वात्मभ्रमः, 67गच्छामि इच्छामि द्वेष्मीति देहगतक्रियाणामात्मनि भ्रमः क्रियाभ्रमः । कारकभ्रमः कर्तृत्वभ्रमः । स च “अधिष्ठानं तथा कर्ता कारणं च पृथग्विधम् । विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् । शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः । तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥" इत्युक्तरीत्या कर्तृत्वस्य अधिष्ठानादिषु पञ्चस्वनुगतत्वेऽपि 68अननुगतत्वेनैव प्रतीतिरूपः । एते त्रयो भ्रमाः तत्प्रयुक्ताः ऊर्मयः अशनाया पिपासा शोक मोह जरा मृत्य्वाख्याः तस्मै सर्वदा युगपत्प्रत्यक्षित सर्ववस्तुविषय प्रमितिरूप साक्षात्कार निरस्त दोषमूल भ्रम तत्कार्यत्वाद्वैलक्षण्यसिद्धिः । गुणभेदाभि प्रायेण नमसो द्विरुक्तिः । अत्र जगत्कारणत्वकथनेन तदुपयुक्त सार्वज्ञ्य सर्वशक्ति त्वादिमत्त्वस्याऽप्यभिप्रेतत्वात्सर्वज्ञं सर्वशक्तिं त्वां त्वकार्यजगदन्तर्भूताऽहं वञ्चयितुं असमर्थेत्यभिप्रेतम् । अनेन स्वस्या आकिञ्चन्य69मप्युक्तम् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

येनाहमात्मायतनं विनिर्मिता
धात्रा यतोऽयं गुणसर्गसङ्‍ग्रहः।
स एव मां हन्तुमुदायुधः स्वरा-
डुपस्थितोऽन्यं शरणं कमाश्रये॥

मूलम्

येनाऽह70मात्मायतनं70 विनिर्मिता धात्रा यतोऽयं गुणसर्गसङ्‍ग्रहः।
स एव मां हन्तुमुदायुधः स्वराडुपस्थितोऽन्यं शरणं कमाश्रये॥

अनुवाद (हिन्दी)

आप सम्पूर्ण जगत‍्के विधाता हैं; आपने ही यह त्रिगुणात्मक सृष्टि रची है और मुझे समस्त जीवोंका आश्रय बनाया है। आप सर्वथा स्वतन्त्र हैं। प्रभो! जब आप ही अस्त्र-शस्त्र लेकर मुझे मारनेको तैयार हो गये, तब मैं और किसकी शरणमें जाऊँ?॥ ३०॥

वीरराघवः

तदेव विशदयन्त्याह - येनेति । येन धात्रा दधाति विदधाति सृजतीति धाता, तेन त्वया आत्मायतनं आत्मनां व्यष्टि जीवानाम् आयतनं स्थानभूताऽहं विनिर्मिता सृष्टा । कथम्भूताऽहम् ? यतः यस्यां मयि गुणसर्गसंग्रहः गुणमय प्रकृति परिणामात्मक देवादिप्रपञ्चो वर्तते स एव धात्रा भवान् उदायुधः उद्धृतायुधः स्वराट् स्वतन्त्रस्सन्। स्वराडित्यनेन न ह्यन्यो निवारको त्यभिप्रेतम् । मां स्वसृष्टां भूमिं हन्तुमुपस्थितः ततः त्वत्तोऽन्यं कं शरणं रक्षणोपायम् आश्रये ? न कमपि, किन्तु त्वामेवेत्यभिप्रायः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

य एतदादावसृजच्चराचरं
स्वमाययाऽऽत्माश्रययावितर्क्यया।
तयैव सोऽयं किल गोप्तुमुद्यतः
कथं नु मां धर्मपरो जिघांसति॥

मूलम्

य एतदादावसृजच्चराचरं स्वमाययाऽऽत्माश्रययाऽवितर्क्यया।
तयैव सोऽयं किल गोप्तुमुद्यतः कथं नु मां धर्मपरो जिघांस71सि॥ ३१ ॥

अनुवाद (हिन्दी)

कल्पके आरम्भमें आपने अपने आश्रित रहनेवाली अनिर्वचनीया मायासे ही इस चराचर जगत‍्की रचना की थी और उस मायाके ही द्वारा आप इसका पालन करनेके लिये तैयार हुए हैं। आप धर्मपरायण हैं; फिर भी मुझ गोरूपधारिणीको किस प्रकार मारना चाहते हैं?॥ ३१॥

वीरराघवः

ननु य एव स्रष्टा, स एव हन्ति चेत् किं त्वया विधेयम् ? सत्यं, स्रष्टुरपि हन्तृरूपधारण एव हनने प्रवृत्ति रुचिता, न त्ववितृरूपधारिणस्तवेत्याह - य एतदिति । यो भवा72नेव एतच्चराचरात्मकं जगत्, आत्मा आश्रयो यस्यास्तया अवितर्क्यया एवं विधेति चिन्तयितुमशक्यया स्वाऽपृथक्सिद्ध विशेषणभूतया प्रकृत्या । मायाशब्दः सङ्कल्परूपज्ञानपरो वा । अवितर्क्येण स्वसङ्कल्पेनाऽसृजत् । स एव भवान् तयैव सङ्कल्पेन गोतुं चराचरात्मकं जगद्रक्षितुमुद्यतः उद्युक्तः । न तु कालाग्निरुद्राद्यवतारेणेव हन्तुं प्रवृत्त इत्यर्थः । अतः प्रजापालनरूप धर्मप्र73वृत्तस्त्वं 74मां प्रजानां भोग्य भोगोपकरण भोगस्था75नादिरूपां मां कथं नु जिघांससि हन्तुमिच्छसि ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

नूनं बतेशस्य समीहितं जनै-
स्तन्मायया दुर्जययाकृतात्मभिः।
न लक्ष्यते यस्त्वकरोदकारयद्-
योऽनेक एकः परतश्च ईश्वरः॥

मूलम्

नूनं 76बतेशस्य समीहितं जनैः 77त्वन्मायया दुर्जययाऽकृतात्मभिः।
न लक्ष्यते यस्त्वकरोदकारयत् योऽनेक एकः परत78स्स ईश्वरः॥ ३२ ॥

अनुवाद (हिन्दी)

आप एक होकर भी मायावश अनेक रूप जान पड़ते हैं तथा आपने स्वयं ब्रह्माको रचकर उनसे विश्वकी रचना करायी है। आप साक्षात् सर्वेश्वर हैं, आपकी लीलाओंको अजितेन्द्रिय लोग कैसे जान सकते हैं? उनकी बुद्धि तो आपकी दुर्जय मायासे विक्षिप्त हो रही है॥ ३२॥

वीरराघवः

विचित्रानन्तशक्तेस्तव प्रभावमजानत्या ममेदं त्वदीयं कृत्यं अनुचितमिव प्रतीयते, त्वच्चिकीर्षितन्तु न 79केऽपि 80जानीयुरित्याह - नूनमिति । अकृतात्मभिः अवशीकृतचित्तैः त्वां अप्रपन्नैः इति यावत् । दुर्जयया जेतुमशक्यया स्वमायया 81आत्मीय मायया करणभूतया ईशस्य तव समीहितं चेष्टितं 82द्वाभ्यां चिकीर्षितं जनैर्न लक्ष्यते न ज्ञायते83 । यद्वा दुर्जयया स्वमायया हेतुभूतया अकृतात्मभिः मोहितचित्तैः मादृशैः जनैः ईशस्य तव समीहितं न लक्ष्यत इत्यर्थः । कोऽसा वीश्वरः यस्य समीहितं न लक्ष्यते तत्राह- यः स्वत एकोऽपि परतः ब्रह्मरुद्रादि क्षेत्रज्ञरूप शरीरभेदादनेकस्सन् अकरोत् महदादि पृथिव्यन्त जगत्सृष्टिं अकारयत्, व्यष्टिसृष्टिमित्यर्थः । सः ईश्वरः त्वमेवेति भावः ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

सर्गादि योऽस्यानुरुणद्धि शक्तिभि-
र्द्रव्यक्रियाकारकचेतनात्मभिः।
तस्मै समुन्नद्धनिरुद्धशक्तये
नमः परस्मै पुरुषाय वेधसे॥

मूलम्

सर्गादि योऽस्याऽनुरुणद्धि शक्तिभिर्द्रव्यक्रियाकारकचेतनात्मभिः।
तस्मै समुन्नद्धनिरुद्धशक्त्ये नमः परस्मै पुरुषाय वेधसे॥ ३३ ॥

अनुवाद (हिन्दी)

आप ही पंचभूत, इन्द्रिय, उनके अधिष्ठातृ देवता, बुद्धि और अहंकाररूप अपनी शक्तियोंके द्वारा क्रमशः जगत‍्की उत्पत्ति, स्थिति और संहार करते हैं। भिन्न-भिन्न कार्योंके लिये समय-समयपर आपकी शक्तियोंका आविर्भाव-तिरोभाव हुआ करता है। आप साक्षात् परमपुरुष और जगद्विधाता हैं, आपको मेरा नमस्कार है॥ ३३॥

वीरराघवः

अतोऽचिन्त्यशक्तये तुभ्यं केवलं नम इत्याह- सर्गादीति । यो भवान् अस्य जगतः सर्गादि सृष्ट्यादिकं द्रव्यक्रिया कारक चेतनात्मभिः, द्रव्यं प्रधानात्मकमचिद्रव्यं, क्रिया जीवादृष्टाख्यं कर्म, कारकः करोति गुणक्षोभमिति कारकः कालः, चेतनो जीवः, एतद्रूपाभि84स्स्वशक्तिभिः अनुरुणद्धि अनुवर्तते करोतीति यावत् । तस्मै समुन्नद्धाः कार्योन्मुखाः विरुद्धाश्शक्तयो यस्य तस्मै । सृष्टिस्थितिसंहाराणां युगपद्विरुद्धत्वात्तद्द्द्वारा तदुपयुक्तशक्तीनां विरोधः । युगपत् सृष्ट्यादीनां मिथो विरुद्धत्वेऽपि कालभेदादुपपन्नत्वेन सृष्ट्याद्युपयुक्तशक्तिमत्त्वमुपपन्नम् । वेधसे कारणभूताय परस्मै प्रकृतिपुरुष विलक्षणाय पुरुषाय तुभ्यं नमः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

स वै भवानात्मविनिर्मितं जगद्
भूतेन्द्रियान्तःकरणात्मकं विभो।
संस्थापयिष्यन्नज मां रसातला-
दभ्युज्जहाराम्भस आदिसूकरः॥

मूलम्

स वै भवानात्मविनिर्मितं जगद् भूतेन्द्रियान्तः करणात्मकं विभो!
संस्थापयिष्यन्नज मां रसातलादभ्युज्जहाराम्भस आदिसूकरः॥ ३४ ॥

अनुवाद (हिन्दी)

अजन्मा प्रभो! आप ही अपने रचे हुए भूत, इन्द्रिय और अन्तःकरणरूप जगत‍्की स्थितिके लिये आदिवराहरूप होकर मुझे रसातलसे जलके बाहर लाये थे॥ ३४॥

वीरराघवः

तव समुन्नद्ध विरुद्धशक्तिमत्त्वं न मानान्तरगम्यम् । अपि तु अपरोक्षं मयैवाऽनुभूतमित्याह - स वा इति द्वाभ्याम् । हे विभो ! आत्मनि आत्मना स्वयं विनिर्मितं, भूतानि पृथिव्यादीनि इन्द्रियाणि श्रोत्रादीनि, अन्तःकरणं चैतदात्मकं जगत्संस्थापयिष्यन् हे अज ! कर्मायत्तोत्पत्तिशून्य ! तथाऽपि आदिसूकरः स्वेच्छोपात्ता प्राकृत दिव्यवराहावतारो भूत्वा 85स वै प्रसिद्धः85 भवान्मां त्वन्निमित्त जगदाधारभूतां मां अम्भसः अम्भसि प्रविश्य “ल्यब्लोपे कर्मण्यधिकरणे च" (भुवः प्रभवः (1-4-31) इतिसूत्रे 1474, 1475) इत्यधिकरणे पञ्चमी रसातलात् अभ्युज्जहार उद्धृतवान् ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

अपामुपस्थे मयि नाव्यवस्थिताः
प्रजा भवानद्य रिरक्षिषुः किल।
स वीरमूर्तिः समभूद्धराधरो
यो मां पयस्युग्रशरो जिघांससि॥

मूलम्

अपामुपस्थे मयि नाव्यवस्थिताः प्रजा भवानद्यरिरक्षिषुः किल।
स वीरमूर्तिः समभूद्धराधरो यो मां पयस्युग्रशरो जिघांस86सि॥ ३५ ॥

अनुवाद (हिन्दी)

इस प्रकार एक बार तो मेरा उद्धार करके आपने धराधर नाम पाया था; आज वही आप वीरमूर्तिसे जलके ऊपर नौकाके समान स्थित मेरे ही आश्रय रहनेवाली प्रजाकी रक्षा करनेके अभिप्रायसे पैने-पैने बाण चढ़ाकर दूध न देनेके अपराधमें मुझे मारना चाहते हैं॥ ३५॥

वीरराघवः

स धराधरः आदिवराहः अद्य अपामुपस्थे उपरि नावि नौकावदाधारभूतायां मयि अवस्थिताः प्रजारिरक्षिषुः रक्षितुमिच्छुः भवान् समभूत् भवद्रूपेण अवतीर्णः । स एव त्व मधुना वीरमूर्तिः 87पृथुरूपः उग्रस्तीक्ष्णः शरो यस्य । पयसि निमित्ते गां गोरूपां मां जिघांससि हन्तुमिच्छसि किल; इत्येतत् विरुद्ध शक्तिमत्त्वं मयैवोप88लब्धमित्यर्थः ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

नूनं जनैरीहितमीश्वराणा-
मस्मद्विधैस्तद‍्गुणसर्गमायया।
न ज्ञायते मोहितचित्तवर्त्मभि-
स्तेभ्यो नमो वीरयशस्करेभ्यः॥

मूलम्

नूनं जनैरीहितमीश्वराणामस्मद्विधैस्तद‍्गुणसर्गमायया।
न ज्ञायते मोहितचित्त89वृर्त्मभिस्तेभ्यो नमो वीरयशस्करेभ्यः॥ ३६ ॥

अनुवाद (हिन्दी)

इस त्रिगुणात्मक सृष्टिकी रचना करनेवाली आपकी मायासे मेरे-जैसे साधारण जीवोंके चित्त मोहग्रस्त हो रहे हैं। मुझ-जैसे लोग तो आपके भक्तोंकी लीलाओंका भी आशय नहीं समझ सकते, फिर आपकी किसी क्रियाका उद्देश्य न समझें तो इसमें आश्चर्य ही क्या है। अतः जो इन्द्रिय-संयमादिके द्वारा वीरोचित यज्ञका विस्तार करते हैं, ऐसे आपके भक्तोंको भी नमस्कार है॥ ३६॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुविजये धरित्रीनिग्रहो नाम सप्तदशोऽध्यायः॥ १७॥

वीरराघवः

एवमचिन्त्य विविधशक्तिमत्त्वेन भगवन्तं स्तुत्वा तदेव पुनरनुसन्दधती सर्वानवतारान्नमस्करोति - नूनमिति । येषामीश्वराणामीश्वरावताराणां ईहितं चिकीर्षितं तद्गुणसर्गमायया तस्य ईश्वरस्य सम्बन्धिन्या सत्त्वादिगुणकार्यप्रपञ्चमूलया मायया मोहितं यच्चित्तं तस्य वर्त्मनि वृत्तयो येषां तैः मादृशैः 90अज्ञैर्जनैः न ज्ञायते । नूनं 91निश्चये । तेभ्यः वीराणामन्येषामपि यशस्करेभ्यो हिरण्याक्षादयः भगवता युद्धे निहता, इत्येवंरूपकीर्तिसम्पादकेभ्यः अवतारेभ्यो नमः ॥ ३६ ॥

इति श्रीमद्भागवते चतुर्थस्कन्धे श्री वीरराघवविदुषा लिखितायां भागवत चन्द्रचन्द्रिकायां व्याख्यायां सप्तदशोऽध्यायः ॥ १७ ॥


  1. A,T त्यगणः ↩︎

  2. B,W निजयो ↩︎

  3. A,B,G,I,J,M,Ma,Ms,T धरित्री ↩︎

  4. A,B,T omit विस्तर ↩︎

  5. W omits इत्याह ↩︎

  6. A,B,T omit धरित्रीं ↩︎

  7. A,B,T मीकृ ↩︎

  8. A,B,T omit तस्य ↩︎

  9. A,B,G,I,J,M,Ma,Ms,T,V वतो ↩︎

  10. A,B,G,I,J,T भवान्; W भगवन् ↩︎

  11. M,Ma श्रीशुकः ; Ms श्रीबादरायणिः ↩︎

  12. A,B,T अभाषत ↩︎

  13. Ms यथार ↩︎

  14. V न्व ↩︎

  15. W omits ↩︎ ↩︎

  16. A,B,G,I,J,T,V omit ↩︎ ↩︎

  17. M,Ma वृक्षः ↩︎

  18. M,Ma,Ms श्शाधि नो ↩︎

  19. A,B,T omit वयं ↩︎

  20. M,Ma नर्हति ↩︎

  21. W दा ↩︎

  22. M,Ma तान्ना ↩︎

  23. A,B,T omit पीडितानां ↩︎

  24. A,B,T रा ↩︎

  25. M,Ma,Ms भूमौ ↩︎

  26. M,Ma श ↩︎

  27. Ms,V पृथुम् । ↩︎

  28. M,Ma योर्द्रुतम् । ↩︎

  29. A,B श ↩︎

  30. A,B,T add क्रुद्धेन ↩︎

  31. M,Ma तामेवान्व व्रजद्वैन्यः ; Ms,V तामेवाऽन्यद्रवद्वैन्यः ↩︎

  32. M,Ma ति ↩︎

  33. A,B,T omit ↩︎ ↩︎

  34. B,M,Ma धावती ↩︎

  35. A,T धावन्ती ↩︎

  36. A,T omit तत्र ↩︎

  37. A,B,T प्रविष्टं ↩︎

  38. A,B,G,I,J,M,Ma,V,T omit भूमिः ↩︎

  39. M,Ma चाऽथ ↩︎

  40. A,B,G,I,J,M,Ma,T गं ↩︎

  41. V मभि ↩︎

  42. A,B,T क्त ↩︎

  43. A,B,T श्रीवधा ↩︎

  44. A,B,T वत्सलत्व ↩︎

  45. V कल्पषाम् । ↩︎

  46. A,B,T सि ↩︎

  47. M,Ma,Ms निहत्या ↩︎

  48. A,B,T नावरूपां ↩︎

  49. A,B,G,I,J,T ति ↩︎

  50. V या ↩︎

  51. A,B,T ऽद्यं ↩︎

  52. W दण्डोऽन्यत्र ↩︎

  53. A,B,T omit परं ↩︎

  54. M,Ma,V ल्वौ ↩︎

  55. A,B,G,T,I,T,J,M,Ma,Ms,T वनोऽ ↩︎

  56. M,Ma,Ms वरः ↩︎

  57. W नैव ↩︎

  58. A,B,T मायया ↩︎

  59. W मन्यु ↩︎

  60. पृथिव्युवाच; M,Ma धरण्युवाच; Ms भूमिः; V मह्युवाच; W omits घरोवाच ↩︎

  61. T र्धू ↩︎

  62. A,B,T स्वयम् ↩︎

  63. A,B,T विवक्षन्ती ↩︎ ↩︎

  64. A,B,T omit तत् ↩︎

  65. A,B,T omit तं ↩︎

  66. A,B,T omit त्रीणि ↩︎

  67. A,B,T omit गच्छामि ↩︎

  68. A,B,T आत्मगतत्व ↩︎

  69. W मित्युक्तम् ↩︎

  70. M,Ma,Ms मात्मीयतनुर्वि ↩︎ ↩︎

  71. A,B,G,I,J,M,Ma,Ms,T ति ↩︎

  72. W omits एव ↩︎

  73. A,B,T प्रवर्तक ↩︎

  74. A,T omit मां ↩︎

  75. A,B,T omit नरू ↩︎

  76. M,Ma,Ms ति ↩︎

  77. M,Ma,Ms तवेशस्य ↩︎

  78. A,B,G,I,J,T तन्मा; M,Ma,Ms स्वमा ↩︎

  79. A,B,T omit केऽपि ↩︎

  80. A,B,T चिजा ↩︎

  81. A,B,T स्वात्मी ↩︎

  82. A,B,T omit द्वाभ्यां ↩︎

  83. A,B,T add इति । ↩︎

  84. A,B,T omit स्व ↩︎

  85. A,B,T omit ↩︎ ↩︎

  86. A,B,G,I,J,T श्च ↩︎

  87. W क्रोध ↩︎

  88. 4,B,T लक्षित ↩︎

  89. A,B,G,I,J,T,V वर्त्मभि ↩︎

  90. B,T omit अज्ञैः ↩︎

  91. A,B,T निश्चितम् । ↩︎