१६

[षोडशोऽध्यायः]

भागसूचना

वन्दीजनद्वारा महाराज पृथुकी स्तुति

श्लोक-१

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः।
तुष्टुवुस्तुष्टमनसस्तद्वागमृतसेवया॥

मूलम्

इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः।
तुष्टुवुस्तुष्टमनसस्तद्वागमृतसेवया॥ १ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—महाराज पृथुने जब इस प्रकार कहा, तब उनके वचनामृतका आस्वादन करके सूत आदि गायकलोग बड़े प्रसन्न हुए। फिर वे मुनियोंकी प्रेरणासे उनकी इस प्रकार स्तुति करने लगे॥ १॥

वीरराघवः

एवमविकत्थयित्रा पृथुनाऽऽत्मस्तुतेः वारिता अपि 1तुष्टमनसो गायकास्तुष्टुवुरित्याह मुनिः 2षोडशेन - इतीति । गायकाः सूतादयः तस्य पृथोर्वागेवामृतं तस्य सेवया तुष्टं मनो येषां ते मुनिभिः भगवदंशभूतस्य पृथोः अविकत्थयितृत्वादि-कल्याणगुणजाताभिज्ञैः मुनिभिः प्रचोदितास्सन्तः, इति उक्तप्रकारेण ब्रुवन्तमपि नृपतिं पृथुं तुष्टुवुः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

नालं वयं ते महिमानुवर्णने
यो देववर्योऽवततार मायया।
वेनाङ्गजातस्य च पौरुषाणि ते
वाचस्पतीनामपि बभ्रमुर्धियः॥

मूलम्

नालं वयं ते महिमानुवर्णने यो देव3देवोऽवततार मायया।
वेनाङ्गजातस्य च पौरुषाणि ते वाचस्पतीनामपि बभ्रमुर्धियः॥ २ ॥

अनुवाद (हिन्दी)

‘आप साक्षात् देवप्रवर श्रीनारायण ही हैं’ जो अपनी मायासे अवतीर्ण हुए हैं; हम आपकी महिमाका वर्णन करनेमें समर्थ नहीं हैं। आपने जन्म तो राजा वेनके मृतक शरीरसे लिया है, किन्तु आपके पौरुषोंका वर्णन करनेमें साक्षात् ब्रह्मादिकी बुद्धि भी चकरा जाती है॥ २॥

वीरराघवः

तत्र गायकाः पृथोः कल्याणगुणानुवर्णनात्मकस्तुतावात्मनामसामर्थ्यमापादयन्तः पुनः मुन्यनुगृहीताः सन्तः तत्सामर्थ्यमाहुः - नाऽलमिति द्वाभ्याम् । ते तव महिम्नः अनुवर्णने वयं नाऽलं न समर्थाः, कुतः यो भवान् देवदेवः देवानां सद्गुणैर्दीप्यमानानामपि ब्रह्मादीनां देवः निरतिशयानन्तकल्याणगुणजातेन दीप्यमानो भवान् मायया आत्मीयसङ्कल्परूपज्ञानेन “माया वयुनं ज्ञानम्” (वेदा. नि. 3-9) इति मायाशब्दस्य ज्ञानपर्यायत्वात् अवततार अवतीर्णः अनन्तकल्याणगुणाकरो भगवानेव त्वद्रूपेणावतीर्णः । अतः कथमनन्तानां गुणानां वर्णने वयं प्रभव इत्यर्थः । ननु सत्यम्, अनन्तानां भगवद्गुणानां वर्णने यूयमसमर्था इति । अहं तु मानुषः, तत्कथं मद्गुणानुवर्णने यूयमप्रभवः, तत्राहुः - वेनस्याङ्गाज्जातस्यावतीर्णस्यापि 4ते अजहदनन्तकल्याणगुणजातस्य भगवदंशभूतस्य 5तव पौरुषाणि, प्रति इति शेषः, अप्रतर्क्यतया वाचस्पतीनां ब्रह्मादीनामपि धियो 6बुद्धयः 7बभ्रमुः किमुवक्तव्यं वयमसमर्था इति, यतो ब्रह्मादय एव मुमुहुरित्यर्थः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

अथाप्युदारश्रवसः पृथोर्हरेः
कलावतारस्य कथामृतादृताः।
यथोपदेशं मुनिभिः प्रचोदिताः
श्लाघ्यानि कर्माणि वयं वितन्महि॥

मूलम्

अथाप्युदारश्रवसः पृथोर्हरेः कलावतारस्य कथामृतादृताः।
यथोपदेशं मुनिभिः प्रचोदिताः श्लाघ्यानि कर्माणि वयं वितन्म8हे॥ ३ ॥

अनुवाद (हिन्दी)

तथापि आपके कथामृतके आस्वादनमें आदर-बुद्धि रखकर मुनियोंके उपदेशके अनुसार उन्हींकी प्रेरणासे हम आपके परम प्रशंसनीय कर्मोंका कुछ विस्तार करना चाहते हैं, आप साक्षात् श्रीहरिके कलावतार हैं और आपकी कीर्ति बड़ी उदार है॥ ३॥

वीरराघवः

यद्यपि त्वन्महिमानुवर्णने वयं नाऽलं, तथापि विपुलकीर्तेः हरेरंशावतारभूतस्य पृथोः कथामृते आदृताः सादरा वयं मुनिभिः उपदेशो यथा भवति तथा प्रचो9दिताः प्रेरितास्सन्तः श्लाघ्यान्यनवद्यानि कर्माणि वितन्महे विस्तारयामः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

एष धर्मभृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन्।
गोप्ता च धर्मसेतूनां शास्ता तत्परिपन्थिनाम्॥

मूलम्

एष धर्मभृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन्।
गोप्ता च धर्मसेतूनां शास्ता तत्परिपन्थिनाम्॥ ४ ॥

अनुवाद (हिन्दी)

‘ये धर्मधारियोंमें श्रेष्ठ महाराज पृथु लोकको धर्ममें प्रवृत्त करके धर्ममर्यादाकी रक्षा करेंगे तथा उसके विरोधियोंको दण्ड देंगे॥ ४॥

वि10स्तरमेव प्रपञ्चयति - एष इति । एष पृथुः धर्मभृतां वर्णाश्रमानुबन्धिधर्मानुष्ठानपराणां मध्ये श्रेष्ठः “यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते” (भगी० 3-21) इत्युक्तरीत्या स्वयं कृत्स्नविदप्यकृत्स्नविल्लोकसङ्ग्रहार्थं नितरां स्ववर्णाश्रमोचितधर्मानुष्ठानपर इत्यर्थः । अत एव लोकमकृत्स्नविल्लोकं धर्मे अनुवर्तयन् अनुवर्तयिता स्वस्ववर्णाश्रमोचितधर्मं अनुष्ठापयिता 11धर्म सेतूनां11 धर्मः सेतुर्येषां तेषां, सेतुर्हि तीरान्तरप्रतिलम्भकः तद्वच्छ्रौतस्मार्तधर्मः, स समीहितप्रापको येषां ते धर्मसेतवः धर्मैकशरणाः साधव इति यावत्, तेषां गोप्ता तत्परिपन्थिनां धर्मविरोधिनामसाधूनां शास्ता । यद्वा धर्मा एव सेतवः मर्यादा येषां तेषां गोप्ता केनाकारेणेत्यपेक्षायां लोकं धर्मेऽनुवर्तयन् इत्यपेक्षितप्रकारनिर्देशः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

एष वै लोकपालानां बिभर्त्येकस्तनौ तनूः।
काले काले यथाभागं लोकयोरुभयोर्हितम्॥

मूलम्

एष वै लोकपालानां बिभर्त्येकस्तनौ तनूः।
काले काले यथाभागं लोकयोरुभयोर्हितम्॥ ५ ॥

अनुवाद (हिन्दी)

ये अकेले ही समय-समयपर प्रजाके पालन, पोषण और अनुरंजन आदि कार्यके अनुसार अपने शरीरमें भिन्न-भिन्न लोकपालोंकी मूर्तिको धारण करेंगे तथा यज्ञ आदिके प्रचारद्वारा स्वर्गलोक और वृष्टिकी व्यवस्थाद्वारा भूलोक—दोनोंका ही हित साधन करेंगे॥ ५॥

वीरराघवः

एष पृथुः स्वयमेक एव लोकपालानां सूर्येन्द्रादीनां तनूः तनुवत्कार्योपयोग्यपृथक्सिद्धविशेषण12भूतानितरसाधारणान् गुणान्12 । तनुशब्दस्य शरीरपरत्वेऽपि कार्योपयोग्यपृथक्सिद्धविशेषणत्वमेव प्रवृत्तिनिमित्तं, तद्गुणपरत्वेऽपि तुल्यम् । तनौ स्वदेहे काले काले यथाभागं भागमनतिक्रम्य उभयोर्लोकयोर्हितं यथा भवति तथा बिभर्ति । इहलोकस्य पालनपोषणानुरञ्जनद्वारेण अमुष्य लोकस्य यज्ञादिप्रवर्तनेनेत्येवं यथाभागं हितं यथा भवति तथा बिभर्तीत्यर्थः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

वसु काल उपादत्ते काले चायं विमुञ्चति।
समः सर्वेषु भूतेषु प्रतपन् सूर्यवद्विभुः॥

मूलम्

वसु काल उपा13दत्ते काले चायं विमुञ्चति।
समः सर्वेषु भूतेषु 14प्रतपन् सूर्यवद्विभुः॥ ६ ॥

अनुवाद (हिन्दी)

ये सूर्यके समान अलौकिक, महिमान्वित, प्रतापवान् और समदर्शी होंगे। जिस प्रकार सूर्य देवता आठ महीने तपते रहकर जल खींचते हैं और वर्षा-ऋतुमें उसे उड़ेल देते हैं, उसी प्रकार ये कर आदिके द्वारा कभी धन-संचय करेंगे और कभी उसका प्रजाके हितके लिये व्यय कर डालेंगे॥ ६॥

वीरराघवः

तत्र सूर्यादितनुधारणमेवाहाष्टभिः । वसु धनं काले 15करदानकाले15 उपादत्ते स्वीकरोति काले दुर्भिक्षकाले विमुञ्चति । अष्टौ मासान् सूर्यो यथा प्रतपन् वसु जलमादत्ते वर्षासु विमुञ्चति तद्वत्, अत एव सर्वेषु भूतेषु समः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि।
भूतानां करुणः शश्वदार्तानां क्षितिवृत्तिमान्॥

मूलम्

तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि।
भूतानां करुणः शश्वदार्तानां क्षितिवृत्तिमान्॥ ७ ॥

अनुवाद (हिन्दी)

ये बड़े दयालु होंगे। यदि कभी कोई दीन पुरुष इनके मस्तकपर पैर भी रख देगा, तो भी ये पृथ्वीके समान उसके इस अनुचित व्यवहारको सदा सहन करेंगे॥ ७॥

वीरराघवः

वैन्यः 16पृथुः उपरि मस्तके पादादिना आक्रमतामप्यार्तानां भूतानां करुणः करुणावान् अतिक्रमं तितिक्षति सहिष्यते । अतः क्षितिवृत्तिमान् 17क्षितेः भूमेर्या वृत्तिः 18सर्वसहनं 19सा वृत्तिर्यस्यास्तीति 20तथा ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

देवेऽवर्षत्यसौ देवो नरदेववपुर्हरिः।
कृच्छ्रप्राणाः प्रजा ह्येष रक्षिष्यत्यञ्जसेन्द्रवत्॥

मूलम्

देवेऽवर्षत्यसौ देवो नरदेववपुर्हरिः।
कृच्छ्रप्राणाः प्रजा ह्येष रक्षिष्यत्यञ्जसेन्द्रवत्॥ ८ ॥

अनुवाद (हिन्दी)

कभी वर्षा न होगी और प्रजाके प्राण संकटमें पड़ जायँगे, तो ये राजवेषधारी श्रीहरि इन्द्रकी भाँति जल बरसाकर अनायास ही उसकी रक्षा कर लेंगे॥ ८॥

वीरराघवः

तथा देवे अवर्षति सति कृच्छ्रङ्गताः प्राणाः यासां, ताः प्रजाः स्वयं वृष्टिं कृत्वा इन्द्रवद्रक्षिष्यति । अत्र हेतुः असौ नरदेववपुर्हरिरिति ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

आप्याययत्यसौ लोकं वदनामृतमूर्तिना।
सानुरागावलोकेन विशदस्मितचारुणा॥

मूलम्

आप्याययत्यसौ लोकं वदनामृतमूर्तिना।
सानुरागावलोकेन विशदस्मितचारुणा॥ ९ ॥

अनुवाद (हिन्दी)

ये अपने अमृतमय मुखचन्द्रकी मनोहर मुसकान और प्रेमभरी चितवनसे सम्पूर्ण लोकोंको आनन्दमग्न कर देंगे॥ ९॥

वीरराघवः

असौ पृथुः वदनामृतमूर्तिना वदनमेवामृतमूर्तिश्चन्द्रस्तेन, लोकमाप्याययति वर्धयति । वदनामृतमूर्तिना कथम्भूतेन ? अनुरागसहितोऽवलोको यस्मिन्, विशदं यत् स्मितं तेन चारु सुन्दरं तेन । अत्र क्वचित् क्वचित् वर्तमाननिर्देशो “वर्तमानसामीप्ये वर्तमानद्वा" (अष्टा. 3-3-131) इति, भूतनिर्देशः “आशंसायां भूतवच्च" (अष्टा. 3-3-132) इति द्रष्टव्यः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

अव्यक्तवर्त्मैष निगूढकार्यो
गम्भीरवेधा उपगुप्तवित्तः।
अनन्तमाहात्म्यगुणैकधामा
पृथुः प्रचेता इव संवृतात्मा॥

मूलम्

अव्यक्तवर्त्मैष 21निगूढकार्यो गम्भीर22मेधा उपगुप्तवित्तः।
अनन्तमाहात्म्यगुणैकधामा पृभुः प्रचेता इव संवृतात्मा॥ १० ॥

अनुवाद (हिन्दी)

इनकी गतिको कोई समझ न सकेगा, इनके कार्य भी गुप्त होंगे तथा उन्हें सम्पन्न करनेका ढंग भी बहुत गम्भीर होगा। इनका धन सदा सुरक्षित रहेगा। ये अनन्त माहात्म्य और गुणोंके एकमात्र आश्रय होंगे। इस प्रकार मनस्वी पृथु साक्षात् वरुणके ही समान होंगे॥ १०॥

वीरराघवः

अव्यक्तं प्रवेशनिर्गमयोरविज्ञातं वर्त्म मार्गो यस्य, निगूढं निष्पत्तेः 23पूर्वमपरैरविज्ञातं कार्यं यस्य, गम्भीरवेदी किमर्थमेवं कृतवानिति परैरज्ञाताभिप्रायः, उपगुप्तं सुरक्षितं वित्तं 24धनं यस्य सः, अनन्तमाहात्म्याद्धेतोर्गुणानामेकं मुख्यं धाम आश्रयः, प्रचेता इव संवृतात्मा समुद्रावरणेन वरुण इव चतुर्भिः समुद्रैः जलप्राकारादिभिर्वापरिवेष्टितमूर्तिः । वरुणस्याप्युक्तगुणा द्रष्टव्याः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

दुरासदो दुर्विषह आसन्नोऽपि विदूरवत्।
नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनलः॥

मूलम्

दुरासदो दुर्विषह आसन्नोऽपि विदूरवत्।
नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनलः॥ ११ ॥

अनुवाद (हिन्दी)

‘महाराज पृथु वेनरूप अरणिके मन्थनसे प्रकट हुए अग्निके समान हैं। शत्रुओंके लिये ये अत्यन्त दुर्धर्ष और दुःसह होंगे। ये उनके समीप रहनेपर भी, सेनादिसे सुरक्षित रहनेके कारण, बहुत दूर रहनेवाले-से होंगे। शत्रु कभी इन्हें हरा न सकेंगे॥ ११॥

वीरराघवः

दुरासदः शत्रोर्मनसाऽ25पि प्राप्तुमशक्यः 26दुर्विषहः शत्रुभिः सोढुमशक्यः आसन्नः सन्निहितोऽपि विदूरवत्पौरुषेणाभि- भवितुमशक्यः, वेन एवारणिः तस्मादुत्थितोऽनलोऽग्निरिव । अनलस्याप्येते गुणा द्रष्टव्याः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

अन्तर्बहिश्च भूतानां पश्यन् कर्माणि चारणैः।
उदासीन इवाध्यक्षो वायुरात्मेव देहिनाम्॥

मूलम्

अन्तर्बहिश्च भूतानां पश्यन् कर्माणि चारणैः।
उदासीन इवाध्यक्षो वायुरात्मेव देहिनाम्॥ १२ ॥

अनुवाद (हिन्दी)

जिस प्रकार प्राणियोंके भीतर रहनेवाला प्राणरूप सूत्रात्मा शरीरके भीतर-बाहरके समस्त व्यापारोंको देखते रहनेपर भी उदासीन रहता है, उसी प्रकार ये गुप्तचरोंके द्वारा प्राणियोंके गुप्त और प्रकट सभी प्रकारके व्यापार देखते हुए भी अपनी निन्दा और स्तुति आदिके प्रति उदासीनवत् रहेंगे॥ १२॥

वीरराघवः

चारणैर्गूढपुरुषैः अन्तर्बहिश्च भूतानां कर्माणि पश्यन्नपि स्तुतिनिन्दादावुदासीनो वर्तिष्यते, देहिनामध्यक्षो देहधारणे प्रधानहेतुभूतः, सूत्रात्मा सूत्ररूपो वायुरिव, सूत्रात्मेति ह्रस्व आर्षः, वायुरात्मेव देहिनाम् इति पाठान्तरं, तत्र आत्मा अन्तः प्रविश्य धार27को वायुरिवेत्यर्थः, उदासीन इव 28उदासीनवत्28 आस्त इत्यत्र दृष्टान्तः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

नादण्ड्यं दण्डयत्येष सुतमात्मद्विषामपि।
दण्डयत्यात्मजमपि दण्ड्यं धर्मपथे स्थितः॥

मूलम्

नादण्ड्यं दण्ड्यत्येष सुतमात्मद्विषामपि।
दण्डयत्यात्मजमपि दण्ड्यं धर्मपथे स्थितः॥ १३ ॥

अनुवाद (हिन्दी)

ये धर्ममार्गमें स्थित रहकर अपने शत्रुके पुत्रको भी, दण्डनीय न होनेपर, कोई दण्ड न देंगे और दण्डनीय होनेपर तो अपने पुत्रको भी दण्ड देंगे॥ १३॥

वीरराघवः

एष पृथुः आत्मद्विषां शत्रूणामपि सुतमदण्ड्यं न दण्डयति, सुतग्रहणं स्वात्मजसाम्यार्थम्, आत्मजमपि दण्ड्यं दण्डयति, यतोऽसौ धर्मपथे स्थितः यमस्य वृत्तौ स्थितः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

अस्याप्रतिहतं चक्रं पृथोरामानसाचलात्।
वर्तते भगवानर्को यावत्तपति गोगणैः॥

मूलम्

अस्याप्रतिहतं चक्रं पृथोरामानसाचलात्।
वर्तते भगवानर्को यावत्तपति गोगणैः॥ १४ ॥

अनुवाद (हिन्दी)

भगवान् सूर्य मानसोत्तर पर्वततक जितने प्रदेशको अपनी किरणोंसे प्रकाशित करते हैं, उस सम्पूर्ण क्षेत्रमें इनका निष्कण्टक राज्य रहेगा॥ १४॥

वीरराघवः

अस्य 29पृथोः चक्रम् आज्ञा, रथचक्रं च अप्रतिहतं सत् मानसाचलमभिव्याप्य वर्तते । किं वक्तव्यम् आ मानसाचलादिति ? यतोऽसावर्कः सूर्यो यावद् गोगणैः किरणसमूहैस्तपति तावत् वर्तते ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

रञ्जयिष्यति यल्लोकमयमात्मविचेष्टितैः।
अथामुमाहू राजानं मनोरञ्जनकैः प्रजाः॥

मूलम्

रञ्जयिष्यति यल्लोकमयमात्मविचेष्टितैः।
अथामुमाहू राजानं मनोरञ्जनकैः प्रजाः॥ १५ ॥

अनुवाद (हिन्दी)

ये अपने कार्योंसे सब लोकोंको सुख पहुँचावेंगे—उनका रंजन करेंगे; इससे उन मनोरंजनात्मक व्यापारोंके कारण प्रजा इन्हें ‘राजा’ कहेगी॥ १५॥

वीरराघवः

राजशब्दप्रवृत्तिनिमित्तं प्रजारञ्जनरूपम् अस्मिन्नेव पुष्कलमित्याहुः- रञ्जयिष्यतीति । अयं पृथुरात्मनः स्वस्य विचेष्टितैर्व्यापारैः यतो लोकं रञ्जयिष्यति । अथ ततः मनोरञ्जनैः हेतुभिरमुं राजानं प्रजाः आहुः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

दृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः।
शरण्यः सर्वभूतानां मानदो दीनवत्सलः॥

मूलम्

दृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः।
शरण्यः सर्वभूता30नां मानदो दीनवत्सलः॥ १६ ॥

अनुवाद (हिन्दी)

ये बड़े दृढ़संकल्प, सत्यप्रतिज्ञ, ब्राह्मणभक्त, वृद्धोंकी सेवा करनेवाले, शरणागतवत्सल, सब प्राणियोंको मान देनेवाले और दीनोंपर दया करनेवाले होंगे॥ १६॥

वीरराघवः

दृढव्रतः अप्रतिहतसङ्कल्पः । सङ्कल्पोऽपि तस्य नासमीचीनविषय इत्या31ह । सत्यसन्धः सत्यं समीचीनं सन्धत्ते सङ्कल्पते इति सत्यसन्धः, ब्रह्मण्यः ब्राह्मणेषु साधुः, वृद्धनां ज्ञानवृद्धानां सेवकः, सर्वभूतानां शरण्यः रक्षकत्वेन विश्वसनीयः, मानदः सम्मान32कारः दीनेषु वत्सलः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

मातृभक्तिः परस्त्रीषु पत्न्यामर्ध इवात्मनः।
प्रजासु पितृवत्स्निग्धः किङ्करो ब्रह्मवादिनाम्॥

मूलम्

मातृभक्तिः परस्त्रीषु 33पत्न्यामर्ध इवात्मनः।
प्रजासु पितृवत्स्निग्धः किङ्करो ब्रह्मवादिनाम्॥ १७ ॥

अनुवाद (हिन्दी)

ये परस्त्रीमें माताके समान भक्ति रखेंगे, पत्नीको अपने आधे अंगके समान मानेंगे, प्रजापर पिताके समान प्रेम रखेंगे और ब्रह्मवादियोंके सेवक होंगे॥ १७॥

वीरराघवः

परस्त्रीषु परदारेषु मातरीव भक्तिर्भजनं यस्य, आत्मनो देहस्यार्धे इव पत्न्यां वर्तते । प्रजासु पितृवत् स्निग्धः दोषाऽनवेक्षणेन प्रीतिपूर्वकमनुवर्तनशीलः, ब्रह्मवादिनां 34ब्रह्मविदां34 किङ्करो दासः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

देहिनामात्मवत्प्रेष्ठः सुहृदां नन्दिवर्धनः।
मुक्तसङ्गप्रसङ्गोऽयं दण्डपाणिरसाधुषु॥

मूलम्

देहिनामात्मवत्प्रेष्ठः सुहृ35दानन्दिवर्धनः।
मुक्तसङ्गप्रसङ्गोऽयं दण्डपाणिरसाधुषु॥ १८ ॥

अनुवाद (हिन्दी)

दूसरे प्राणी इन्हें उतना ही चाहेंगे जितना अपने शरीरको। ये सुहृदोंके आनन्दको बढ़ायेंगे। ये सर्वदा वैराग्यवान् पुरुषोंसे विशेष प्रेम करेंगे और दुष्टोंको दण्डपाणि यमराजके समान सदा दण्ड देनेके लिये उद्यत रहेंगे॥ १८॥

वीरराघवः

देहिनामात्मवत् निरतिशयप्रीतिविषयः सुहृदां 36नन्दिमानन्दं सुखं वर्धयतीति तथा, मुक्तसङ्गेषु वीत37रागेषु प्रकृष्टः सङ्गो यस्य, असाधुषु दण्डपाणिरिवेत्यपराधाक्षमोच्यते । नादण्ड्यमित्यत्र पक्षपाताभाव इत्यपौनरुक्त्यम् ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

अयं तु साक्षाद‍्भगवांस्त्र्यधीशः
कूटस्थ आत्मा कलयावतीर्णः।
यस्मिन्नविद्यारचितं निरर्थकं
पश्यन्ति नानात्वमपि प्रतीतम्॥

मूलम्

अयं तु साक्षाद‍्भगवांस्त्र्यधीशः कूटस्थ आत्मा कलयावतीर्णः।
यस्मिन्नविद्यारचितं निरर्थकं पश्यन्ति नानात्व38मपि प्रतीतम्॥ १९ ॥

अनुवाद (हिन्दी)

‘तीनों गुणोंके अधिष्ठाता और निर्विकार साक्षात् श्रीनारायणने ही इनके रूपमें अपने अंशसे अवतार लिया है, जिनमें पण्डितलोग अविद्यावश प्रतीत होनेवाले इस नानात्वको मिथ्या ही समझते हैं॥ १९॥

वीरराघवः

किं बहुना ? अयं सद्गुणानामाश्रय इति यतोऽसावनन्तकल्याणगुणनिधिर्भगवा39नेवावतीर्ण इत्याहुः - अयं त्विति । अयं त्वित्यनेन निस्समाभ्यधिकत्वमभिप्रेतं, तत्र हेतुः, साक्षाद्भगवान् भगवच्छब्दप्रवृत्तिनिमित्तभूतज्ञानादिषाड्गुण्यपूर्णहेयगुणराहित्यमुच्यते । कूटस्थ इति निर्विकार इत्यर्थः । त्र्यधीशः त्रिलोकेशः त्रिविधचेतनानामीश इति वा, एवम्भूतो यः परमात्मा स कलया स्वांशेन जीवेनावतीर्ण इत्यर्थः । शरीरभूत पृथ्वाख्यजीवोपलक्षितोऽवतीर्णः, आवेशावतार इत्यर्थः । यद्वा यो भगवान् स आत्मा जीवशरीरकः विशेष्यसन्निधौ गवादिशब्दानां व्यक्तिपर्यन्तत्ववज्जीववाचिनोऽपि आत्मशब्दस्य शरीरिपरमपुरुषपर्यन्तत्वस्याकृतिनयसिद्धत्वात् । कलया इत्थम्भूतलक्षणे तृतीयेयं, स्वापृथक्सिद्धज्ञानादिगुणविशेषणोपलक्षितोऽवतीर्णः । कोऽसावात्मा यच्छरीरकोऽवतीर्ण इत्यत्राह - यस्मिन्निति । यस्मिन् जीवे प्रतीतमपि अविद्यारचितं प्रकृतिपरिणामरूपं नानात्वं देवमनुष्यादिभेदं निर्गतम् अर्थाद्वस्तु40नः निरर्थकम् अवास्तविकं पश्यन्ति, तत्वदर्शिन इति शेषः । परमार्थतः आत्मनि अविद्यमानं देहात्माभिमानिनामात्मनि प्रतीतमपि नानात्वं देहविलक्षणात्मयाथात्म्यदर्शिनः प्रकृतिपरिणामरूपत्वेन तद्गतमेव पश्यन्तीत्यर्थः । यस्मिन् प्रतीतं नानात्वमित्यनेनात्मनि नानात्वस्य प्रतीतिविषयत्वं, न तु प्रमितिविषयत्वमित्युक्तम् । अनेन जीवे नानात्वमविद्यासम्बन्धकृतं न तु स्वभावतः इत्युक्तं भवति । यद्वा ननु जीवशरीरकः कलयावतीर्णश्चेत् जीवस्याविद्यासम्बन्धादाविद्यका जैवा दोषाः परस्मिन् पुरुषे प्रस41जेयुः तत्राहुः - यस्मिन्निति । भगवति प्रतीतमपि जीवशरीरकत्वादिना 42हेतुना 43प्रतीयमानमपि43 अविद्याकृतं नानात्वं 44देवादिरूपनानात्वं44 निरर्थकं पश्यन्ति अर्थात् प्रयोजनान्निर्गतं निरर्थकमकार्यकर, यद्यपि जीवशरीरकत्वादिना 45हेतुना प्रतीयते, तथापि जीव इव बालत्वयुक्त्वादिकं देवादिदेहसम्बन्धात् प्रतीयमानमपि न वास्तविकं, किन्तु देवादिदेहगत46मेव । एवं परस्मिन्नपि पुरुषे जीवसम्बन्धात् प्रतीतमपि जीवगतमेव, न तु परमपुरुषगतम् । न चैवं जीववत् सशरीरत्वादवास्तविकेनापि नानात्वेनार्थप्रसक्तिरिति वाच्यं, जीवस्याप्यनर्थप्रसक्तेः सशरीरत्वप्रयुक्तत्वाभावात् प्रकृतिवश्यत्वाद्यायत्तत्वात्, परमात्मनस्तु मायां स्ववशीकुर्वतः प्रकृतिवश्यत्वकर्मवश्यत्वाद्यभावेनानानर्थाप्रसक्तेः । एतदेवाभिप्रेत्य निरर्थकं पश्यन्तीत्युक्तम् ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

अयं भुवो मण्डलमोदयाद्रे-
र्गोप्तैकवीरो नरदेवनाथः।
आस्थाय जैत्रं रथमात्तचापः
पर्यस्यते दक्षिणतो यथार्कः॥

मूलम्

अयं भुवो मण्डलमोदयाद्रेः गोप्तैकवीरो नर47देवनाथः।
आस्थाय जैत्रं रथमात्तचापः 48पर्यस्यते दक्षिणतो यथाऽर्कः॥ २० ॥

अनुवाद (हिन्दी)

ये अद्वितीय वीर और एकच्छत्र सम्राट् होकर अकेले ही उदयाचलपर्यन्त समस्त भूमण्डलकी रक्षा करेंगे तथा अपने जयशील रथपर चढ़कर धनुष हाथमें लिये सूर्यके समान सर्वत्र प्रदक्षिणा करेंगे॥ २०॥

वीरराघवः

अयं नरदेवनाथः पृथुः आ उदयाद्रेः उदयाद्रिपर्यन्तं भुवो मण्डलं गोप्ता रक्षिष्यति । रक्षणार्थमेकवीरः स्वस49माभ्यधिकवीरान्तरशून्यः जैत्रं जयशीलं रथमास्थाय अधिष्ठाय आत्तो धृतः चापो धनुर्येन सः अर्क 50इव दक्षिणतः 51पर्येष्यते प्रदक्षिणीकरिष्यतीत्यर्थः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

अस्मै नृपालाः किल तत्र तत्र
बलिं हरिष्यन्ति सलोकपालाः।
मंस्यन्त एषां स्त्रिय आदिराजं
चक्रायुधं तद्यश उद्धरन्त्यः॥

मूलम्

52तस्मै नृपालाः किल तत्र तत्र बलिं हरिष्यन्ति सलोकपालाः।
53मंस्यन्त 54एषां स्त्रिय आदिराजं चक्रायुधं तद्यश 55उच्चरन्त्यः॥ २१ ॥

अनुवाद (हिन्दी)

उस समय जहाँ-तहाँ सभी लोकपाल और पृथ्वीपाल इन्हें भेंटें समर्पण करेंगे, उनकी स्त्रियाँ इनका गुणगान करेंगी और इन आदिराजको साक्षात् श्रीहरि ही समझेंगी॥ २१॥

वीरराघवः

56तस्मै तथा प्रदक्षि57णं कुर्वते पृथवे लोकपालैरिन्द्रादिभिः सहिता नृपाला राजानः तत्र तत्र बलिमुपायनं 58हरिष्यन्ति समर्पयिष्यन्ति58 । एषां 59सलोकपालानां नृपाणां59 स्त्रियः तस्य पृथोः यशः उच्चरन्त्यः कथयन्त्यः आदिराजं पृथुं चक्रायुधं भगवन्तं मंस्यन्ते ज्ञास्यन्ति ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

अयं महीं गां दुदुहेऽधिराजः
प्रजापतिर्वृत्तिकरः प्रजानाम्।
यो लीलयाद्रीन् स्वशरासकोट्या
भिन्दन् समां गामकरोद्यथेन्द्रः॥

मूलम्

अयं महीं गां दुदुहेऽधिराजः प्रजापतिर्वृत्तिकरः प्रजानाम्।
यो लीलयाऽद्रीन् स्वशरा55सकोट्या भिन्दन् समां गामकरोद्यथेन्द्रः॥ २२ ॥

अनुवाद (हिन्दी)

ये प्रजापालक राजाधिराज होकर प्रजाके जीवन-निर्वाहके लिये गोरूपधारिणी पृथ्वीका दोहन करेंगे और इन्द्रके समान अपने धनुषके कोनोंसे बातों-की-बातमें पर्वतोंको तोड़-फोड़कर पृथ्वीको समतल कर देंगे॥ २२॥

वीरराघवः

तद्यशः कथनरूपं स्त्रीणां वाक्यमाहुः - अयमित्यादिभिश्चतुर्भिः । अयमित्यादिकं न सूतादिवाक्यम् । “एष दोग्धा महावीरो गां सतीम्” इत्यनेन पौनरुक्त्यापत्तेः । अत एव दुदुहे अकरोत् निलिल्युरिति भूतनिर्देशोपपत्तिः । अयमधिराजः पृथुः प्रजापतिः प्रजापालनाधिकृतः प्रजानां जीवनोपायकरः जीवनोपायं चिकीर्षुरित्यर्थे पर्यवसानं बोध्यम् । गां गोरूपधरां महीं दुदुहे । इन्द्र इव, स्वशराग्र्यकोट्या शरशब्दो 60धनुः परः धनुः कोट्येति पूर्वमुक्तत्वात् शराग्र्यस्य धनुः श्रेष्ठस्य कोट्या अग्रेण लीलया अद्रीन् भिन्दन् गां भूमिं समामकरोत् करिष्यतीत्यर्थः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

विस्फूर्जयन्नाजगवं धनुः स्वयं
यदाचरत्क्ष्मामविषह्यमाजौ।
तदा निलिल्युर्दिशि दिश्यसन्तो
लाङ्‍गूलमुद्यम्य यथा मृगेन्द्रः॥

मूलम्

विस्फूर्जयन्नाजगवं धनुः स्वयं यदाचरत्क्ष्मामविषह्य61माजौ।
तदा निलिल्युर्दिशि दिश्यसन्तो लाङ्‍गूलमुद्यम्य यथा मृगेन्द्रः॥ २३ ॥

अनुवाद (हिन्दी)

रणभूमिमें कोई भी इनका वेग नहीं सह सकेगा। जिस समय ये जंगलमें पूँछ उठाकर विचरते हुए सिंहके समान अपने ‘आजगव’ धनुषका टंकार करते हुए भूमण्डलमें विचरेंगे, उस समय सभी दुष्टजन इधर-उधर छिप जायँगे॥ २३॥

वीरराघवः

लाङ्गूलं पुच्छमुद्यम्य उन्नमय्य यथा मृगेन्द्रः सिंहः चरति तथा आजगवं धनुः विस्फूर्जयन् शत्रुभिः सोढुमशक्यो विक्रमो यस्य सः, यदा क्ष्मामचरत् तदा असन्तो धर्मविरोधिनो दिशि दिशि निलिल्युः लीना बभूवुः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

एषोऽश्वमेधान् शतमाजहार
सरस्वती प्रादुरभावि यत्र।
अहारषीद्यस्य हयं पुरन्दरः
शतक्रतुश्चरमे वर्तमाने॥

मूलम्

एषोऽश्वमेधाञ् शतमाजहार सरस्वती प्रादु62रभावि यत्र।
63अहार्षीद्यस्य हयं पुरन्दरः शत64क्रतुश्चरमे वर्तमाने॥ २४ ॥

अनुवाद (हिन्दी)

ये सरस्वतीके उद‍्गमस्थानपर सौ अश्वमेधयज्ञ करेंगे। तब अन्तिम यज्ञानुष्ठानके समय इन्द्र इनके घोड़ेको हरकर ले जायँगे॥ २४॥

वीरराघवः

एष पृथुः सरस्वती सरस्वत्याख्या महानदी यत्र यस्मिन् ब्रह्मावर्ते प्रादुरभावि प्रादुरभूत्, कर्मकर्तरि चिण्, तत्र देशे शतमश्वमेधानाजहाराकरोत् । यस्य शतक्रतोः क्रतुशतं सङ्कल्प्यानुतिष्ठतः पृथोश्चरमे शततमे क्रतौ वर्तमाने प्रवर्तमाने सति पुरन्दरः इन्द्रोऽयमश्वमहार्षीत् हृतवान् ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

एष स्वसद्मोपवने समेत्य
सनत्कुमारं भगवन्तमेकम्।
आराध्य भक्त्यालभतामलं तज्-
ज्ञानं यतो ब्रह्म परं विदन्ति॥

मूलम्

एष स्वसद्मोप65वने समेत्य सनत्कुमारं भगवन्तमेकम्।
आराध्य भक्त्याऽलभताऽमलं तज्ज्ञानं यतो ब्रह्म परं 66विदन्ति॥ २५ ॥

अनुवाद (हिन्दी)

अपने महलके बगीचेमें इनकी एक बार भगवान् सनत्कुमारसे भेंट होगी। अकेले उनकी भक्तिपूर्वक सेवा करके ये उस निर्मल ज्ञानको प्राप्त करेंगे, जिससे परब्रह्मकी प्राप्ति होती है॥ २५॥

वीरराघवः

एष पृथुः स्वसद्मनः स्वगृहस्य उप समीपे यद्वनं तत्समेत्य तत्रैकमसहायं भगवन्तं सनत्कुमारं भक्त्या आराध्य तदमलं ज्ञानमलभत । किं तृत् यतो ज्ञानात् परं ब्रह्म विदन्ति ॥ २६ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रमः।
श्रोष्यत्यात्माश्रिता गाथाः पृथुः पृथुपराक्रमः॥

मूलम्

तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रमः।
श्रोष्यत्यात्माश्रिता गाथाः पृथुः पृथुपराक्रमः॥ २६ ॥

अनुवाद (हिन्दी)

इस प्रकार जब इनके पराक्रम जनताके सामने आ जायँगे, तब ये परमपराक्रमी महाराज जहाँ-तहाँ अपने चरित्रकी ही चर्चा सुनेंगे॥ २६॥

वीरराघवः

विश्रुताः विक्रमाः यशांसि यस्य, पृथुः पराक्रमः प्रभावो यस्य सः पृथुः आत्माश्रयाः स्वविषया गाथाः प्रबन्धरूपा तास्ता गिरः 67इति एवं श्रोष्यति ॥ २७ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

दिशो विजित्याप्रतिरुद्धचक्रः
स्वतेजसोत्पाटितलोकशल्यः।
सुरासुरेन्द्रैरुपगीयमान-
महानुभावो भविता पतिर्भुवः॥

मूलम्

दिशो 68विजित्याप्रतिरुद्धचक्रः स्वतेजसोत्पाटितलोकशल्यः।
सुरा69सुरेन्द्रै70रनुगीय71मानमहानुभावो भविता पतिर्भुवः॥ २७ ॥

अनुवाद (हिन्दी)

इनकी आज्ञाका विरोध कोई भी न कर सकेगा तथा ये सारी दिशाओंको जीतकर और अपने तेजसे प्रजाके क्लेशरूप काँटेको निकालकर सम्पूर्ण भूमण्डलके शासक होंगे। उस समय देवता और असुर भी इनके विपुल प्रभावका वर्णन करेंगे’॥ २७॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे षोडशोऽध्यायः॥ १६॥

वीरराघवः

स्वतेजसा स्वबलेन उत्पाटिताः निर्मूलिताः लोकानां शल्यसदृशाः दुरात्मानो येन सः, अत एवाप्रतिरुद्धचक्रः अप्रतिहताशः दिशो विजेष्यते । सुरासुरश्रेष्ठैः उपगीयमानः महाननुभावो यस्य सः, भुवः पतिः भविता भविष्यति ॥ २८ ॥

इति श्रीमद्भागवते चतुर्थस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवत चन्द्रचन्द्रिकायां व्याख्यायां षोडशोऽध्यायः ॥ १६ ॥


  1. W तुष्टुषवः ↩︎

  2. W पञ्चदशेन ↩︎

  3. A,B,G,I,J,T,V वर्यो ↩︎

  4. A,B,T omit ते ↩︎

  5. A,B,T omit तव ↩︎

  6. W omits बुद्धयः ↩︎

  7. A,B,T omit बभ्रमुः ↩︎

  8. A,B,G,I,J,T हि ↩︎

  9. A,B णो ↩︎

  10. A,B,T स्ता ↩︎

  11. A,B,T omit ↩︎ ↩︎

  12. W भूतान् असाधारणगुणान् ↩︎ ↩︎

  13. Ms घ ↩︎

  14. V प्रावर्षत् ↩︎

  15. A,B,T omit ↩︎ ↩︎

  16. A,B,T प्रभुः ↩︎

  17. A,B,T omit क्षितेः ↩︎

  18. A,B,T omit सर्व ↩︎

  19. A,B,T तत् ↩︎

  20. A,B,T omit तथा ↩︎

  21. M,Ma,Ms विशुद्ध ↩︎

  22. A,B,G,I,J वेधा; M,Ma,Ms चेता; W वेदी ↩︎

  23. A,B,T प्रागवि ↩︎

  24. W omits धनं ↩︎

  25. A,B,T omit अधि ↩︎

  26. A,B,T omit दुर्विषहः ↩︎

  27. T णो ↩︎

  28. A,B,T omit ↩︎ ↩︎

  29. A,B,T प्रभोः ↩︎

  30. M,Ma नामानन्दो ↩︎

  31. W हुः ↩︎

  32. A,B,T करः ↩︎

  33. M,Ma,Ms पत्न्याः स्मर इवापरः । ↩︎

  34. W omits ↩︎ ↩︎

  35. A,B,G,I,J,T,V दां नन्दि ↩︎

  36. W omits नन्दिम् ↩︎

  37. A,B,T रागिषु ↩︎

  38. M,Ma,Ms मिव ↩︎

  39. A,B,T निहाव ↩︎

  40. A,B,T तः ↩︎

  41. A,B,T ज्जे ↩︎

  42. T omits ↩︎

  43. A,B प्रतीतमपि ↩︎ ↩︎

  44. A,B omit ↩︎ ↩︎

  45. A,B,T omit हेतुना ↩︎

  46. W omits एव ↩︎

  47. W लोक ↩︎

  48. W पर्येष्यते ↩︎

  49. A,B,T मानाभ्य ↩︎

  50. A,B,T वत् ↩︎

  51. A,B,T पर्यस्यते ↩︎

  52. A,B,G,I,J,T,W अ ↩︎

  53. M,Ma,Ms मंस्यन्ति; v मन्यन्त ↩︎

  54. Ms येषां ↩︎

  55. A,B,G,I,J,T उद्ध ↩︎ ↩︎

  56. A,B,T अस्मै ↩︎

  57. A,B,T णी ↩︎

  58. W हरन्ति समर्पयन्ति ↩︎ ↩︎

  59. A,B,T नरलोकपालानां नृणां ↩︎ ↩︎

  60. A,B,T omit धनुः परः ↩︎

  61. M,Ma,Ms आजौ; W विक्रमः ↩︎

  62. M,Ma,Ms रभूद्धि ↩︎

  63. A,B,G,I,J,T अहारषी; W आहार्षी ↩︎

  64. W क्रतो ↩︎

  65. W वनं ↩︎

  66. M,Ma,Ms वदन्ति; V व्रजन्ति ↩︎

  67. A,B,T omit इति एवं ↩︎

  68. W विजेता ↩︎

  69. M,Ma एवं सु ↩︎

  70. A,B,G,I,J,T रुप ↩︎

  71. M,Ma,Ms मानो ↩︎