[पञ्चदशोऽध्यायः]
भागसूचना
महाराज पृथुका आविर्भाव और राज्याभिषेक
श्लोक-१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
अथ तस्य पुनर्विप्रैरपुत्रस्य महीपतेः।
बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत॥
मूलम्
अथ तस्य पुनर्विप्रैः 1अपुत्रस्य महीपतेः।
बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत॥ १ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—विदुरजी! इसके बाद ब्राह्मणोंने पुत्रहीन राजा वेनकी भुजाओंका मन्थन किया, तब उनसे एक स्त्री-पुरुषका जोड़ा प्रकट हुआ॥ १॥
वीरराघवः
अथानन्तरं तस्य अपुत्रस्य महीपतेः वेनस्य बाहुभ्यां पुनर्विप्रैर्मथ्यमानाभ्यां मिथुनं स्त्रीपुंसात्मकं समपद्यत उद्बभूव ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
तद् दृष्ट्वा मिथुनं जातमृषयो ब्रह्मवादिनः।
ऊचुः परमसन्तुष्टा विदित्वा भगवत्कलाम्॥
मूलम्
तद्दृष्ट्वा मिथुनं जातमृषयो ब्रह्मवादिनः।
ऊचुः परम2सन्तुष्टा विदित्वा भगवत्कलाम्॥ २ ॥
अनुवाद (हिन्दी)
ब्रह्मवादी ऋषि उस जोड़ेको उत्पन्न हुआ देख और उसे भगवान्का अंश जान बहुत प्रसन्न हुए और बोले॥ २॥
वीरराघवः
ब्रह्मवादिन ऋषयः तज्जातं मिथुनं दृष्ट्वा भगवत्कलां भगवदंशं विदित्वा अत एव परमसन्तुष्टा ऊचुः ॥ २ ॥
श्लोक-३
मूलम् (वचनम्)
3ऋषय ऊचुः
विश्वास-प्रस्तुतिः
एष विष्णोर्भगवतः कला भुवनपालिनी।
इयं च लक्ष्म्याः सम्भूतिः पुरुषस्यानपायिनी॥
अनुवाद (हिन्दी)
ऋषियोंने कहा—यह पुरुष भगवान् विष्णुकी विश्वपालिनी कलासे प्रकट हुआ है और यह स्त्री उन परम पुरुषकी अनपायिनी (कभी अलग न होनेवाली) शक्ति लक्ष्मीजीका अवतार है॥ ३॥
वीरराघवः
किमूचुरित्यत आह - एष इति चतुर्भिः । एष पुमान् भगवतो विष्णोर्भुवनपालिनी कला भुवनपालनार्थं कलयाऽवतीर्ण इत्यर्थः, इयं च स्त्री लक्ष्म्याः सम्भूतिः सम्भवः 6तस्याः कलेत्यर्थः । तत्र हेतुः पुरुषस्यानपायिनी पुरुषमविहाय जातेति भावः । “राघवत्वेऽभवत् सीता रुक्मिणी कृष्णजन्मनि । अन्येषु चावतारेषु विष्णोरेषाऽनपायिनी ।” (विष्णु.पु. 19-144) इति वचनार्थोऽत्रानुसन्धेयः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
अत्र तु प्रथमो राज्ञां पुमान् प्रथयिता यशः।
पृथुर्नाम महाराजो भविष्यति पृथुश्रवाः॥
अनुवाद (हिन्दी)
इनमेंसे जो पुरुष है वह अपने सुयशका प्रथन—विस्तार करनेके कारण परम यशस्वी ‘पृथु’ नामक सम्राट् होगा। राजाओंमें यही सबसे पहला होगा॥ ४॥
वीरराघवः
अयं मिथुने यः पुमान् सोऽयं राज्ञां प्रथमः मुख्यः यतोऽयं यशः कीर्तिं प्रथयिता विस्तारयिता, अतः 10पृथुश्रवाः10 पृथुकीर्तिसम्पन्नः पृथुर्नाम महाराजो भविष्यति । नामशब्दः प्रसिद्धौ । प्रथयति यशः पृथुरिति योगरूढिभ्यां प्रख्यातो महाराजो भविष्यतीत्यर्थः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
इयं च सुदती देवी गुणभूषणभूषणा।
अर्चिर्नाम वरारोहा पृथुमेवावरुन्धती॥
मूलम्
इयं च देवी सुदती गुणभूषण11भूषणा।
अर्चिर्नाम वरारोहा पृथुमेवावरुन्धती॥ ५ ॥
अनुवाद (हिन्दी)
यह सुन्दर दाँतोंवाली एवं गुण और आभूषणोंको भी विभूषित करनेवाली सुन्दरी इन पृथुको ही अपना पति बनायेगी। इसका नाम अर्चि होगा॥ ५॥
वीरराघवः
इयं तस्मिन् मिथुने 12या स्त्री12 सेयं सुदती शोभनदन्तवती, 13इतरावयवसौष्ठवस्याप्युपलक्ष गमिदम् । वरारोहा स्त्री यतो गुणानां भूषणानां च भूषणा भूषणवदौज्ज्वल्यविशिष्टाश्रयभूतेत्यर्थः । ततोऽर्चिर्नाम अर्च्यते उज्ज्वलतीत्यर्चिरिति योगरूढिभ्यां प्रख्याता पृथुमेवावरुन्धती 14भर्तृत्वेन भजन्ती14 भविष्यति ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
एष साक्षाद्धरेरंशो जातो लोकरिरक्षया।
इयं च तत्परा हि श्रीरनुजज्ञेऽनपायिनी॥
मूलम्
एष साक्षाद्धरेरंशो जातो लोकरिरक्षया।
इयं च तत्परा हि श्रीरनुजज्ञेऽनपायिनी॥ ६ ॥
अनुवाद (हिन्दी)
पृथुके रूपमें साक्षात् श्रीहरिके अंशने ही संसारकी रक्षाके लिये अवतार लिया है और अर्चिके रूपमें, निरन्तर भगवान्की सेवामें रहनेवाली उनकी नित्य सहचरी श्रीलक्ष्मीजी ही प्रकट हुई हैं॥ ६॥
वीरराघवः
अत्र हेतुः - एष इति । रक्षितुमिच्छारिरक्षा लोकस्यरिरक्षया साक्षात् हरेरंशः एष पृथुर्जातः आवेशावतारोऽ15यम् । तत्परा तदनन्यार्हा अत एवानपायिनी श्रीः लक्ष्मीरियं जज्ञे, लक्ष्म्यंशजातेत्यर्थः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
प्रशंसन्ति स्म तं विप्रा गन्धर्वप्रवरा जगुः।
मुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति स्वः स्त्रियः॥
मूलम्
प्रशंसन्ति स्म तं विप्रा गन्धर्व17प्रवरा जगुः।
मुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति 18स्वः स्त्रियः॥ ७ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—विदुरजी! उस समय ब्राह्मणलोग पृथुकी स्तुति करने लगे, श्रेष्ठ गन्धर्वोंने गुणगान किया, सिद्धोंने पुष्पोंकी वर्षा की, अप्सराएँ नाचने लगीं॥ ७॥
वीरराघवः
तं पृथुं विप्राः प्रशंसन्ति स्म प्रशशंसुः गन्धर्वश्रेष्ठा जगुः गानं कृतवन्तः, सिद्धाः सुमनोधाराः पुष्पवृष्टीर्मुमुचुः स्वः स्त्रियः स्वः स्वर्गः तत्रत्याः स्त्रियः अप्सरसः नृत्यन्ति ननृतुः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
शङ्खतूर्यमृदङ्गाद्या नेदुर्दुन्दुभयो दिवि।
तत्र सर्व उपाजग्मुर्देवर्षिपितृणां गणाः॥
मूलम्
शङ्खतूर्यमृदङ्गाद्या नेदुर्दुन्दुभयो दिवि।
तत्र सर्व उपाजग्मुर्देवर्षिपि19तृणां गणाः॥ ८ ॥
अनुवाद (हिन्दी)
आकाशमें शंख, तुरही, मृदंग और दुन्दुभि आदि बाजे बजने लगे। समस्त देवता, ऋषि और पितर अपने-अपने लोकोंसे वहाँ आये॥ ८॥
वीरराघवः
शङ्खादयो दुन्दु20भयः विनेदुः । तत्र पृथोः समीपे देवादीनां गणाः उपाजग्मुः आगताः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
ब्रह्मा जगद्गुरुर्देवैः सहासृत्य सुरेश्वरैः।
वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः॥
मूलम्
ब्रह्मा जगद्गुरुर्दे21वैः 22सहागत्य सुरेश्वरैः।
वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः॥ ९ ॥
वीरराघवः
23जगतां गुरुः पिता हितोपदेष्टा च ब्रह्मा चतुर्मुखः देवैस्सहागत्य वैन्यस्य वेनापत्यस्य पृथोर्दक्षिणे हस्ते गदाभृतो भगवतः, चिह्न रेखात्मकं चक्रादिकं दृष्ट्वा ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
पादयोररविन्दं च तं वै मेने हरेः कलाम्।
यस्याप्रतिहतं चक्रमंशः स परमेष्ठिनः॥
अनुवाद (हिन्दी)
जगद्गुरु ब्रह्माजी देवता और देवेश्वरोंके साथ पधारे। उन्होंने वेनकुमार पृथुके दाहिने हाथमें भगवान् विष्णुकी हस्तरेखाएँ और चरणोंमें कमलका चिह्न देखकर उन्हें श्रीहरिका ही अंश समझा; क्योंकि जिसके हाथमें दूसरी रेखाओंसे बिना कटा हुआ चक्रका चिह्न होता है, वह भगवान्का ही अंश होता है॥ ९-१०॥
वीरराघवः
तथा पादयोररविन्दं च दृष्ट्वेत्यर्थः, हरेः कलामंशं मेने । अप्रतिहतं रेखान्तरैरभिन्नं चक्रं सुदर्शनं यस्य चिह्नं तस्य परमेष्ठिनः परमपुरुषस्यांशस्य व्यधिकरणे इमे षष्ठ्यौ । परमेष्ठिनेति तृतीयान्तपाठे तु तस्य पृथोः परमेष्ठिना ब्रह्मणा ब्राह्मणैस्सहाभिषेकः आरब्ध इत्यन्वयः । अंशः सन्निति पाठे अप्रतिहतं रेखान्तरैरसङ्कीर्णं चक्रं रेखात्मकं चक्रम् अंशस्सन् सुदर्शनांशस्सन् यस्य स्थितमिति शेषः । अंशशब्दापेक्षया सन्निति पुल्लिङ्गनिर्देशः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
तस्याभिषेक आरब्धो ब्राह्मणैर्ब्रह्मवादिभिः।
आभिषेचनिकान्यस्मै आजह्रुः सर्वतो जनाः॥
मूलम्
तस्याभिषेक 26आरब्धो ब्राह्मणैर्ब्रह्मवादिभिः।
आभिषेचनिकान्यस्मै आजह्रुः सर्वतो जनाः॥ ११ ॥
अनुवाद (हिन्दी)
वेदवादी ब्राह्मणोंने महाराज पृथुके अभिषेकका आयोजन किया। सब लोग उसकी सामग्री जुटानेमें लग गये॥ ११॥
वीरराघवः
अभिषेचनिकानि अभिषेकसाधनानि सर्वतो दिग्भ्यो जनाः अस्मै पृथवे आजहुः आहृतवन्तः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
सरित्समुद्रा गिरयो नागा गावः खगा मृगाः।
द्यौः क्षितिः सर्वभूतानि समाजह्रुरुपायनम्॥
मूलम्
सरित्समुद्रा गिरयो 27नागा गावः खगा मृगाः।
द्यौः क्षितिः सर्वभूतानि समाजह्रुरुपायनम्॥ १२ ॥
अनुवाद (हिन्दी)
उस समय नदी, समुद्र, पर्वत, सर्प, गौ, पक्षी, मृग, स्वर्ग, पृथ्वी तथा अन्य सब प्राणियोंने भी उन्हें तरह-तरहके उपहार भेंट किये॥ १२॥
वीरराघवः
सरित समुद्राश्च गिरयो हिमवदादयः, नागाः सर्पाः, खगाः शकुनयो द्यौरादयश्चेत्येवं सर्वभूतान्युपायनं सान्मानिकं समाजहुः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
सोऽभिषिक्तो महाराजः सुवासाः साध्वलङ्कृतः।
पत्न्यार्चिषालङ्कृतया विरेजेऽग्निरिवापरः॥
मूलम्
सोऽभिषिक्तो महाराजः सुवासाः साध्वलङ्कृतः।
पत्न्याऽर्चिषालङ्कृतया विरेजेऽग्निरिवापरः॥ १३ ॥
अनुवाद (हिन्दी)
सुन्दर वस्त्र और आभूषणोंसे अलंकृत महाराज पृथुका विधिवत् राज्याभिषेक हुआ। उस समय अनेकों अलंकारोंसे सजी हुई महारानी अर्चिके साथ वे दूसरे अग्निदेवके सदृश जान पड़ते थे॥ १३॥
वीरराघवः
स महाराजः पृथुरभिषिक्तः सुवासाः कौशेयादिमहार्हवस्त्रः स्रग्वी स्रक् वैजयन्ती अस्यास्तीति स्रग्वी, अलङ्कृतः किरीटाद्याभरणैरिति शेषः, तथालङ्कृतया भार्यया अर्चिषा सह अपरोऽग्निरिव रेजेरराज ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
तस्मै जहार धनदो हैमं वीर वरासनम्।
वरुणः सलिलस्रावमातपत्रं शशिप्रभम्॥
मूलम्
तस्मै जहार धनदो हैमं वीर वरासनम्।
वरुणः सलिलस्रावमातपत्रं शशिप्रभम्॥ १४ ॥
अनुवाद (हिन्दी)
वीर विदुरजी! उन्हें कुबेरने बड़ा ही सुन्दर सोनेका सिंहासन दिया तथा वरुणने चन्द्रमाके समान श्वेत और प्रकाशमय छत्र दिया, जिससे निरन्तर जलकी फुहियाँ झरती रहती थीं॥ १४॥
वीरराघवः
सर्वभूतानि समाजह्रुरुपायनमित्येत28देव प्रपञ्चयति - तस्मा इति । हे वीर ! तस्मै पृथवे धनदः हैमं हिरण्मयं श्रेष्ठं सिंहासनं जहार । सलिलस्य स्रावो यस्मात्तथाभूतं शशिप्रभमातपत्रं वरुणः 29जहार इत्यनुषङ्गः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
वायुश्च वालव्यजने धर्मः कीर्तिमयीं स्रजम्।
इन्द्रः किरीटमुत्कृष्टं दण्डं संयमनं यमः॥
मूलम्
वायुश्च वालव्यजने धर्मः कीर्तिमयीं स्रजम्।
इन्द्रः किरीट30मुत्कृष्टं दण्डं संयमनं यमः॥ १५ ॥
वीरराघवः
वायुर्द्वे वालव्यजने कीर्तिमयीं कीर्तिप्रचुरां कीर्तिसम्पादकत्वेन तत्प्राचुर्यमत्र विवक्षितम् । स्रजं, धर्मः, 31जहारेति सर्वत्रानुषङ्गः । संयमनं दुष्कृद्विषयसमीचीननियमनसाधनं दण्डम् ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
ब्रह्मा ब्रह्ममयं वर्म भारती हारमुत्तमम्।
हरिः सुदर्शनं चक्रं तत्पत्न्यव्याहतां श्रियम्॥
मूलम्
ब्रह्मा ब्रह्ममयं वर्म भारती हारमुत्तमम्।
हरिः सुदर्शनं चक्रं तत्पत्न्यव्याहतां श्रियम्॥ १६ ॥
वीरराघवः
ब्रह्मा चतुर्मुखः ब्रह्ममयं वेद32प्रचुरं ब्रह्मप्रवचनापादकसामर्थ्यवत्वेन ब्रह्मप्राचुर्यमत्र विवक्षितम् । वर्म कवचं, भारती सरस्वती उत्तमं महार्हं हारं, हरिः उपेन्द्रः सुदर्शनं चक्रं, यदा पृथौ भगवदंशोऽनुप्रविष्टः तदेदं चक्रमपि सुदर्शनांशेनानुप्रविष्टमिति भावः । तत्पत्नी 33हरेः पत्नी श्रीः अव्याहतां श्रियं सम्पदम् ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
दशचन्द्रमसिं रुद्रः शतचन्द्रं तथाम्बिका।
सोमोऽमृतमयानश्वांस्त्वष्टा रूपाश्रयं रथम्॥
मूलम्
दशचन्द्रमसिं रुद्रः शतचन्द्रं तथाम्बिका।
सोमोऽमृतमयानश्वांस्त्वष्टा रूपाश्रयं रथम्॥ १७ ॥
वीरराघवः
दश चन्द्राकाराणि बिम्बानि कोशे यस्य तमसिं खङ्गं रुद्र आजहार । 34रुद्रपत्नी अम्बिका 35शतचन्द्र35 शतं चन्द्राकाराणि बिम्बानि यस्मिन् तत् 36शतचन्द्र36 शतचन्द्राख्यं खेटापरपर्यायं चर्मेत्यर्थः । सोमः चन्द्रः अमृतमयान् अमृतस्रावित्वेन तत्प्राचुर्यमत्र विवक्षितम् शतं चन्द्राकाराणि बिम्बानि अश्वानाजहार । रूपाश्रयमतिसुन्दरं रथम् ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
अग्निराजगवं चापं सूर्यो रश्मिमयानिषून्।
भूः पादुके योगमय्यौ द्यौः पुष्पावलिमन्वहम्॥
वीरराघवः
अग्निराजगवमजस्य गोश्च शृङ्गाभ्यां निर्मितं चापं सूर्यः रश्मिमयान् रश्मिवत्सर्वत्र प्रवेशसामर्थ्येन तत्प्राचुर्यमत्र विवक्षितं, 39भूर्धरणी योगमय्यौ योगवदभीष्टदेशप्रापणसमर्थत्वेन तत्प्राचुर्यमत्र विवक्षितम् । अन्वहम्39 अहरहर्बलिं 40पूजा पूजार्हं पुष्पं द्यौराजहार ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
नाट्यं सुगीतं वादित्रमन्तर्धानं च खेचराः।
ऋषयश्चाशिषः सत्याः समुद्रः शङ्खमात्मजम्॥
मूलम्
नाट्यं सुगीतं वादित्रमन्तर्धानं च खेचराः।
ऋषयश्चाशिषस्सत्याः समुद्रः शङ्खमात्मजम्॥ १९ ॥
वीरराघवः
खेचराः सिद्धसाध्यगन्धर्वादयः नाट्यादीनि आ41जह्रुः प्रापयामासुः । ऋषयः सत्याः आशिषः आ42जह्रुः कृतवन्त इत्यर्थः । समुद्रः आत्मजं स्वस्माद्भवं शङ्खमाजहार ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
सिन्धवः पर्वता नद्यो रथवीथीर्महात्मनः।
सूतोऽथ मागधो वन्दी तं स्तोतुमुपतस्थिरे॥
मूलम्
सिन्धवः पर्वता नद्यो रथवीथीर्महात्मनः।
सूतोऽथ मागधो वन्दी तं स्तोतुमुपतस्थिरे॥ २० ॥
अनुवाद (हिन्दी)
वायुने दो चँवर, धर्मने कीर्तिमयी माला, इन्द्रने मनोहर मुकुट, यमने दमन करनेवाला दण्ड, ब्रह्माने वेदमय कवच, सरस्वतीने सुन्दर हार, विष्णुभगवान्ने सुदर्शनचक्र, विष्णुप्रिया लक्ष्मीजीने अविचल सम्पत्ति, रुद्रने दस चन्द्राकार चिह्नोंसे युक्त कोषवाली तलवार, अम्बिकाजीने सौ चन्द्राकार चिह्नोंवाली ढाल, चन्द्रमाने अमृतमय अश्व, त्वष्टा (विश्वकर्मा)-ने सुन्दर रथ, अग्निने बकरे और गौके सींगोंका बना हुआ सुदृढ़ धनुष, सूर्यने तेजोमय बाण, पृथ्वीने चरणस्पर्श-मात्रसे अभीष्ट स्थानपर पहुँचा देनेवाली योगमयी पादुकाएँ, आकाशके अभिमानी द्यौ देवताने नित्य नूतन पुष्पोंकी माला, आकाशविहारी सिद्ध-गन्धर्वादिने नाचने-गाने, बजाने और अन्तर्धान हो जानेकी शक्तियाँ, ऋषियोंने अमोघ आशीर्वाद, समुद्रने अपनेसे उत्पन्न हुआ शंख तथा सातों समुद्र, पर्वत और नदियोंने उनके रथके लिये बेरोक-टोक मार्ग उपहारमें दिये। इसके पश्चात् सूत, मागध और वन्दीजन उनकी स्तुति करनेके लिये उपस्थित हुए॥ १५—२०॥
वीरराघवः
सिन्धवो नदाः, नद्यः पर्वताश्च महात्मनः पृथोः रथवीथीः रथमार्गान् आ43जह्रुः ददुः । धातूनामनेकार्थत्वाद्दाने वृत्तिः । ततः सूतादयः तं पृथुं स्तोतुमुपतस्थिरे उप समीपे स्थितवन्तः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
स्तावकांस्तानभिप्रेत्य पृथुर्वैन्यः प्रतापवान्।
मेघनिर्ह्रादया वाचा प्रहसन्निदमब्रवीत्॥
मूलम्
स्तावकांस्तानभिप्रेत्य पृथुर्वैन्यः प्रतापवान्।
मेघनिर्ह्रादया वाचा प्रहसन्निदमब्रवीत्॥ २१ ॥
अनुवाद (हिन्दी)
तब उन स्तुति करनेवालोंका अभिप्राय समझकर वेनपुत्र परम प्रतापी महाराज पृथुने हँसते हुए मेघके समान गम्भीर वाणीमें कहा॥ २१॥
वीरराघवः
तान् सूतादीन् स्तावकान् स्तोतुमुद्युक्तान् अभिप्रेत्य प्रतापवान् महाप्रभावः वेनस्यापत्यं पृथुः मेघनिर्ह्रादया 44मेघगर्जनवत्44 गम्भीरया वाचा प्रहसन् स्मितपूर्वमिदं वक्ष्यमाणमब्रवीत् ॥ २१ ॥
श्लोक-२२
मूलम् (वचनम्)
पृथुरुवाच
विश्वास-प्रस्तुतिः
भोः सूत हे मागध सौम्य वन्दिँ-
ल्लोकेऽधुनास्पष्टगुणस्य मे स्यात्।
किमाश्रयो मे स्तव एष योज्यतां
मा मय्यभूवन् वितथा गिरो वः॥
मूलम्
45भोः सूत हे मागध सौम्य वन्दिन् लोकेऽधुनाऽस्पष्टगुणस्य मे स्यात्।
किमाश्रयो मे स्तव एष 46योज्यतां मा मय्यभूवन् वितथा गिरो वः॥ २२ ॥
अनुवाद (हिन्दी)
पृथुने कहा—सौम्य सूत, मागध और वन्दीजन! अभी तो लोकमें मेरा कोई भी गुण प्रकट नहीं हुआ। फिर तुम किन गुणोंको लेकर मेरी स्तुति करोगे? मेरे विषयमें तुम्हारी वाणी व्यर्थ नहीं होनी चाहिये। इसलिये मुझसे भिन्न किसी औरकी स्तुति करो॥ २२॥
वीरराघवः
47उक्तिमेवाह - हे सूतादयः ! लोकेऽधुनाऽस्पष्टगुणस्य सतो मे मम एषः युष्माभिः करिष्यमाणः स्तवः किमाश्रयो योज्यतां, लोके प्रख्याता हि गुणाः स्तोत्रविषया अप्रख्यातगुणस्य मे स्तवो विषयाभावाद्वितथः स्यात् । अतो वो युष्माकं स्तुतिगिरः मयि वितथा मा भूवन् । 48मम युष्माकं चानिष्टापत्तिः स्यादिति भावः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
तस्मात्परोक्षेऽस्मदुपश्रुतान्यलं
करिष्यथ स्तोत्रमपीच्यवाचः।
सत्युत्तमश्लोकगुणानुवादे
जुगुप्सितं न स्तवयन्ति सभ्याः॥
मूलम्
तस्मात्परोक्षेऽस्मदु49पश्रुतान्यलंकरिष्यथ स्तोत्रमपी50च्यवाचः।
सत्युत्तमश्लोकगुणानुवादे जुगुप्सितं न स्तवयन्ति सभ्याः॥ २३ ॥
अनुवाद (हिन्दी)
मृदुभाषियो! कालान्तरमें जब मेरे अप्रकट गुण प्रकट हो जायँ, तब भरपेट अपनी मधुर वाणीसे मेरी स्तुति कर लेना। देखो, शिष्ट पुरुष पवित्रकीर्ति श्रीहरिके गुणानुवादके रहते हुए तुच्छ मनुष्योंकी स्तुति नहीं किया करते॥ २३॥
वीरराघवः
तस्मात्परोक्षे कालान्तरे स्प51ष्टेषु गुणेषु सत्सु अस्मानुपाश्रितानि यशांसि प्रति स्तोत्रमलमत्यर्थं करिष्यथ । हे अपीच्यवाचः ! मधुरवाचः ! सूतादयः ! 52अनवसरे समीरितानां मधुरगिरां शोभा नोपपद्यत इत्यभिप्रायः52 । सभ्यैः प्रेरिता वयं त्वामेवस्तुम इति चेत्तत्राह - उत्तमश्लोकस्य भगवतो गुणानुवादे कार्ये सति जुगुप्सितमनुत्तमश्लोकं मादृशं सभ्या न स्तावयन्ति न स्तुतिं कारयन्ति ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
महद्गुणानात्मनि कर्तुमीशः
कः स्तावकैः स्तावयतेऽसतोऽपि।
तेऽस्याभविष्यन्निति विप्रलब्धो
जनावहासं कुमतिर्न वेद॥
मूलम्
महद्गुणानात्मनि कर्तु53मीशः कः स्तावकैः स्तावयतेऽसतोऽपि।
54एतेऽभविष्यन्निति विप्रलब्धो जना55पहासं कुमतिर्न वेद॥ २४ ॥
अनुवाद (हिन्दी)
महान् गुणोंको धारण करनेमें समर्थ होनेपर भी ऐसा कौन बुद्धिमान् पुरुष है, जो उनके न रहनेपर भी केवल सम्भावनामात्रसे स्तुति करनेवालों द्वारा अपनी स्तुति करायेगा? यदि यह विद्याभ्यास करता तो इसमें अमुक-अमुक गुण हो जाते—इस प्रकारकी स्तुतिसे तो मनुष्यकी वंचना की जाती है। वह मन्दमति यह नहीं समझता कि इस प्रकार तो लोग उसका उपहास ही कर रहे हैं॥ २४॥
वीरराघवः
ननु गुणानामधुनाऽस्पष्टत्वेऽपि भविष्यद्गुणैरात्मान जन स्ताव56यतीति चेत्तत्राह - महगुणानिति । अधुनाऽसतोऽपि 57महता गुणानात्मनि स्वस्मिन् कर्तुं सम्पादयितुमीश शक्तोऽपि स्तावकै स्तोतृभि क स्तावयते स्तुति कारय58ति, न कोऽपीत्यर्थ । यदि कश्चित्, एते गुणा अभविष्यन्निति करिष्यमाणशत्रुजयादिभि शौर्यादयो गुणा स्वस्मिन्नभविष्यन्निति बुद्ध्याऽऽत्मान स्तावयते स कुमति विप्रलब्धोऽधिक्षिप्तो जनानामपहास न वेद ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
प्रभवो ह्यात्मनः स्तोत्रं जुगुप्सन्त्यपि विश्रुताः।
ह्रीमन्तः परमोदाराः पौरुषं वा विगर्हितम्॥
मूलम्
प्रभवो ह्यात्मनः 59स्तोत्रं जुगुप्सन्त्य60ति विश्रुताः।
ह्रीमन्तः परमोदाराः पौरुषं 61वा विगर्हितम्॥ २५ ॥
अनुवाद (हिन्दी)
जिस प्रकार लज्जाशील उदार पुरुष अपने किसी निन्दित पराक्रमकी चर्चा होनी बुरी समझते हैं, उसी प्रकार लोकविख्यात समर्थ पुरुष अपनी स्तुतिको भी निन्दित मानते हैं॥ २५॥
वीरराघवः
सुमतय62स्तु स्वात्मस्तुति निन्दन्तीत्याह - प्रभव इति । परमोदारा निरतिशयौदार्यादिगुणसम्पन्ना प्रभवोऽपि सद्गुणानात्मनि सम्पादयितु शक्ता अपि विश्रुता प्रख्याता अपि ह्रीमन्तो लज्जायुक्तास्सन्त आत्मन 63स्वस्यापि गर्हित पौरुष तद्विषय स्तोत्र वा जुगुप्सन्ति निन्दन्ति ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
वयं त्वविदिता लोके सूताद्यापि वरीमभिः।
कर्मभिः कथमात्मानं गापयिष्याम बालवत्॥
अनुवाद (हिन्दी)
सूतगण! अभी हम अपने श्रेष्ठ कर्मोंके द्वारा लोकमें अप्रसिद्ध ही हैं; हमने अबतक कोई भी ऐसा काम नहीं किया है, जिसकी प्रशंसा की जा सके। तब तुमलोगोंसे बच्चोंके समान अपनी कीर्तिका किस प्रकार गान करावें?॥ २६॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते पञ्चदशोऽध्यायः॥ १५॥
वीरराघवः
हे सूताद्या सूतप्रभृतय लोके अविदिता अप्रख्याता वयन्तु विवरीमभि नितरा वरिष्ठै दीर्घ आर्ष । सूताऽद्यापीति पाठे सूतेति जात्यभिप्रायमेकवचन, तच्च मागधादीनामप्युपलक्षण, हे सूतादय ! अद्यापि अधुनापि वरीमभि वरिष्ठै कर्मभिर्लोके अविदिता वयमत कथम् 66अह बालवदात्मान गापयिष्या67मि, 68गै शब्दे68 णिच्यात्वे “अर्तिह्रीव्लीरी” (अष्टा 7-3-36) इत्यादिना पुक्, तस्मात् 69लृटि उत्तमैकवचन69स्तावयिष्या70मि इत्यर्थ ॥ २६ ॥
इति श्रीमद्भागवते चतुर्थस्कन्धे श्रीवीरराघवविदुषा लिखिताया भागवत चन्द्रचन्द्रिकाया व्याख्याया पञ्चदशोऽध्याय ॥ १५ ॥
-
M,Ma,Ms विपन्नस्य ↩︎
-
B संहृष्टाः ↩︎
-
Ms विप्राः ↩︎
-
B,J पालनी, M,Ma,Ms पावनी ↩︎
-
M,Ma लक्ष्मीः, Ms,W लक्ष्मीस ↩︎
-
A,B,T omit तस्याः ↩︎
-
B,J,M,Ma,Ms अत्र ↩︎
-
W राजा ↩︎
-
M,Ma राजा ↩︎
-
M,Ma भूषिता ↩︎
-
A,B,T इतरस्या ↩︎
-
A,B,T omit अयम् ↩︎
-
Ma प्रमुखा ↩︎
-
M,Ma,Ms स ↩︎
-
G,I तृ ↩︎
-
A,B,T भ्यादयः ↩︎
-
M,Ma,Ms,V वः ↩︎
-
A,B,G,I,J,T सहाऽऽसृत्य; V उपसृत्य; W सहाऽऽश्रित्य ↩︎
-
A,B,T omit जगतां ↩︎
-
M,Ma,Ms तस्मिन्; V वैन्यं ↩︎
-
A,B,G,I,J,T,V मंशः सः ↩︎
-
Ms आरब्धे ↩︎
-
V,W नगा ↩︎
-
A,B,T omit एव ↩︎
-
A,B,T आजहार ↩︎
-
W मकुटं ↩︎
-
A,B,T आजहार ↩︎
-
A,B,T मयं ↩︎
-
A,B,T हरिपत्नी ↩︎
-
A,B,T omit रुद्र ↩︎
-
M,Ma,Ms मये ↩︎
-
A,B,G,I,J,T पुष्पावलि; M,Ma,Ms पुष्पबलि ↩︎
-
A,B,T omit पूजां ↩︎
-
W जह्रुः ↩︎
-
W जह्रुः ↩︎
-
W जह्रुः ↩︎
-
M,Ma,Ms है; J,W भो ↩︎
-
W यु ↩︎
-
A,B,T उक्त ↩︎
-
A,B,T omit मम ↩︎
-
M,Ma,Ms पाश्रि । V पष्टु ↩︎
-
M,Ma,Ms ड्य ↩︎
-
A,B,T ष्टगु ↩︎
-
M,Ma,Ms मिच्छन ↩︎
-
A,B,G,I,J,T,V तेऽस्या; M,Ma,Ms स वै भ ↩︎
-
A,B,G,I,J,T व ↩︎
-
A,B,T येदिति ↩︎
-
A,B,T महत ↩︎
-
A,B,T ते ↩︎
-
V ख्यातिं ↩︎
-
A,B,G,I,J,M,Ma,Ms,T पि ↩︎
-
W वाऽपि ग ↩︎
-
A,B,T omit तु ↩︎
-
A,B,T स्वस्य विग ↩︎
-
W द्या विव ↩︎
-
A,B,G,I,J,M,Ma,Ms,T,V म ↩︎
-
A,T वय ↩︎
-
A,T ̈म ↩︎
-
A,B,T म ↩︎