[चतुर्दशोऽध्यायः]
भागसूचना
राजा वेनकी कथा
श्लोक-१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिनः।
गोप्तर्यसति वै नॄणां पश्यन्तः पशुसाम्यताम्॥
मूलम्
भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिनः।
गोप्तर्यसति वै नॄणां पश्यन्तः पशु1साम्यताम्॥ १ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—वीरवर विदुरजी! सभी लोकोंकी कुशल चाहनेवाले भृगु आदि मुनियोंने देखा कि अंगके चले जानेसे अब पृथ्वीकी रक्षा करनेवाला कोई नहीं रह गया है, सब लोग पशुओंके समान उच्छृंखल होते जा रहे हैं॥ १॥
वीरराघवः
एवं पुरोहितादिभिर्निवेदिता ऋषयः तमेव खलं वेनमभिषिच्य पुनस्तेन पीडिताः 2तं स्वतेजसा निहत्य तद्बाहुमथनादवतीर्णं भगवदंशभूतं पृथुं 3सस्त्रीकमभिषिच्य राज्ये प्रतिष्ठापयामासुरित्याह चतुर्दशे4 मुनिः भृग्वादय इति । लोकानां क्षेमदर्शिनः क्षेमचिन्तकास्ते विज्ञापिता भृग्वादय ऋषयः नॄणां गोप्तरि त्रातरि असति अविद्यमाने सति पशुसात्मतां पशु5सरूपतां पश्यन्तः । पशुसाम्यतामिति पाठे पशुभिः साम्यं येषां ते, पशुसाम्यास्तेषां भावः पशुसाम्यता तां पश्यन्तः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
वीर मातरमाहूय सुनीथां ब्रह्मवादिनः।
प्रकृत्यसम्मतं वेनमभ्यषिञ्चन् पतिं भुवः॥
मूलम्
वीर मातरमाहूय सुनीथां ब्रह्मवादिनः।
प्रकृत्यसम्मतं वेनमभ्यषिञ्चन् पतिं भुवः॥ २ ॥
अनुवाद (हिन्दी)
तब उन्होंने माता सुनीथाकी सम्मतिसे, मन्त्रियोंके सहमत न होनेपर भी वेनको भूमण्डलके राजपदपर अभिषिक्त कर दिया॥ २॥
वीरराघवः
ब्रह्मवादिनः वीरस्य वेनस्य मातरं सुनीथामाहूय तस्यै विज्ञाप्येत्यर्थः । प्रकृतीनाममात्यादीनां असम्मतमपि वेनं भुवः पतिमभ्यषिञ्चन् भुवः पतिं चक्रुरित्यर्थः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम्।
निलिल्युर्दस्यवः सद्यः सर्पत्रस्ता इवाखवः॥
मूलम्
श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम्।
निलिल्युर्दस्यवः सद्यः सर्प6त्रस्ता इवाखवः॥ ३ ॥
अनुवाद (हिन्दी)
वेन बड़ा कठोर शासक था। जब चोर-डाकुओंने सुना कि वही राजसिंहासनपर बैठा है, तब सर्पसे डरे हुए चूहोंके समान वे सब तुरंत ही जहाँ-तहाँ छिप गये॥ ३॥
वीरराघवः
अत्युग्रदण्डं वेनं राजासने प्रतिष्ठितं श्रुत्वा दस्यवः चोरादयः सर्पेभ्यः त्रस्ता भीताः आखवः मूषका इव सद्यः निलिल्युः लीना बभूवुः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
स आरूढनृपस्थान उन्नद्धोऽष्टविभूतिभिः।
अवमेने महाभागान् स्तब्धः सम्भावितः स्वतः॥
अनुवाद (हिन्दी)
राज्यासन पानेपर वेन आठों लोकपालोंकी ऐश्वर्यकलाके कारण उन्मत्त हो गया और अभिमानवश अपनेको ही सबसे बड़ा मानकर महापुरुषोंका अपमान करने लगा॥ ४॥
वीरराघवः
स वेनः आरूढं नृपस्थानं राजासनं येन सः अष्टविभूतिभिः लोकपालैश्वर्यैः अणिमादिभिर्वा उन्नद्धः गर्वितः अत एव स्तब्धः विवेकशून्यः स्वतः स्वयं सम्भावितः न त्वितरैः इति भावः । आत्मानं महाभागं महाबुद्धिमन्तं महाभाग्यवन्तं वा मेने ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विपः।
पर्यटन् रथमास्थाय कम्पयन्निव रोदसी॥
मूलम्
एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विपः।
पर्यटन् रथमास्थाय कम्पयन्निव रोदसी॥ ५ ॥
अनुवाद (हिन्दी)
वह ऐश्वर्यमदसे अंधा हो रथपर चढ़कर निरंकुश गजराजके समान पृथ्वी और आकाशको कँपाता हुआ सर्वत्र विचरने लगा॥ ५॥
वीरराघवः
एवं तथा ऐश्वर्यमदेन अन्धः अज्ञः निरङ्कुशो 9द्विपः गज इव उत्सिक्तः 10उत्पथः रथमास्थाय अधिरुह्य रोदसी द्यावापृ11थिव्यौ कम्पयन्निव पर्यटन् ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित्।
इति न्यवारयद्धर्मं भेरीघोषेण सर्वशः॥
मूलम्
न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित्।
12एवं न्यवार13यद्धर्मं भेरीघोषेण सर्व14तः॥ ६ ॥
अनुवाद (हिन्दी)
‘कोई भी द्विजातिय वर्णका पुरुष कभी किसी प्रकारका यज्ञ, दान और हवन न करे’ अपने राज्यमें यह ढिंढोरा पिटवाकर उसने सारे धर्म-कर्म बंद करवा दिये॥ ६॥
वीरराघवः
हे द्विजाः ! क्वचिदपि यागदानहोमादिकं न कर्तव्यमित्येवंरूपं धर्मं धर्माभासं भेरीध्वनिना न्यवारयत्, यत एव मतो दुर्मदः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम्।
विमृश्य लोकव्यसनं कृपयोचुः स्म सत्रिणः॥
मूलम्
वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम्।
विमृश्य लोकव्यसनं कृपयो15चुश्स्म सत्रिणः॥ ७ ॥
अनुवाद (हिन्दी)
दुष्ट वेनका ऐसा अत्याचार देख सारे ऋषि-मुनि एकत्र हुए और संसारपर संकट आया समझकर करुणावश आपसमें कहने लगे॥ ७॥
वीरराघवः
मुनयो भृग्वादयः सत्रिणः याज्ञि16काश्च मिलितास्सन्तः दुर्दृप्तस्य वेनस्य चेष्टितमवेक्ष्य लोकानां व्यसनं दुःखं विमृश्य कृपया ऊचुः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
अहो उभयतः प्राप्तं लोकस्य व्यसनं महत्।
दारुण्युभयतो दीप्ते इव तस्करपालयोः॥
मूलम्
अहो उभयतः प्राप्तं लोकस्य व्यसनं महत्।
दारुण्युभयतो दीप्ते इव तस्करपालयोः॥ ८ ॥
अनुवाद (हिन्दी)
‘अहो! जैसे दोनों ओर जलती हुई लकड़ीके बीचमें रहनेवाले चींटी आदि जीव महान् संकटमें पड़ जाते हैं, वैसे ही इस समय सारी प्रजा एक ओर राजाके और दूसरी ओर चोर-डाकुओंके अत्याचारसे महान् संकटमें पड़ रही है॥ ८॥
वीरराघवः
उक्तमेवाह - अहो इति । मूलतश्चाग्रतश्च प्रदीप्ते ज्वलिते काष्ठे तन्मध्यवर्तिनां पि17पीलिकादीनां यथोभयतो व्यसनम् एवं तस्करेभ्यः पालकात् पार्थिवाच्च दुःखं प्राप्तमित्यर्थः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
अराजकभयादेष कृतो राजातदर्हणः।
ततोऽप्यासीद्भयं त्वद्य कथं स्यात्स्वस्ति देहिनाम्॥
मूलम्
अराजकभयादेष कृतो राजाऽतदर्हणः।
ततोऽप्यासीद्भयं त्वद्य कथंस्यात्स्वस्ति देहिनाम्॥ ९ ॥
अनुवाद (हिन्दी)
हमने अराजकताके भयसे ही अयोग्य होनेपर भी वेनको राजा बनाया था; किन्तु अब उससे भी प्रजाको भय हो गया। ऐसी अवस्थामें प्रजाको किस प्रकार सुख-शान्ति मिल सकती है?॥ ९॥
वीरराघवः
तदेवाहुः - अराजकभयादिति । अतदर्हणः राज्यानर्होऽप्येष वेनः अराजकभयात् राजा कृतः । ततो राज्ञोऽप्यद्य भयमासीत्, देहिनां कथं स्वस्ति सुखं स्यात् ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
अहेरिव पयःपोषः पोषकस्याप्यनर्थभृत्।
वेनः प्रकृत्यैव खलः सुनीथागर्भसम्भवः॥
मूलम्
अहेरिव पयःपोषः पोषकस्याप्यनर्थ18कृत्।
वेनः प्रकृत्यैव खलः सुनीथागर्भसम्भवः॥ १० ॥
अनुवाद (हिन्दी)
सुनीथाकी कोखसे उत्पन्न हुआ यह वेन स्वभावसे ही दुष्ट है। परन्तु साँपको दूध पिलानेके समान इसको पालना, पालनेवालोंके लिये अनर्थका कारण हो गया॥ १०॥
वीरराघवः
अस्माकमप्यनिष्टं जातमित्याहुः - अहेः सर्पस्य यथा पयः पोषः क्षीरेण पोषणं पोषकस्याऽप्यनर्थं करोति तथा, तदेवाहुः - सुनीथाया 17गर्भात् सम्भूतो वेनः प्रकृत्या स्वभावेनैव खलः दुरात्मा ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
निरूपितः प्रजापालः स जिघांसति वै प्रजाः।
तथापि सान्त्वयेमामुं नास्मांस्तत्पातकं स्पृशेत्॥
मूलम्
निरूपितः प्रजापालः स जिघांसति वै प्रजाः।
तथाऽपि सान्त्व19येमामुं नास्मांस्तत्पातकं स्पृशेत्॥ ११ ॥
अनुवाद (हिन्दी)
हमने इसे प्रजाकी रक्षा करनेके लिये नियुक्त किया था, यह आज उसीको नष्ट करनेपर तुला हुआ है। इतना सब होनेपर भी हमें इसे समझाना अवश्य चाहिये; ऐसा करनेसे इसके किये हुए पाप हमें स्पर्श नहीं करेंगे॥ ११॥
वीरराघवः
अस्माभिः प्रजापालो निरूपितः नियुक्तः स एव प्रजाः जिघांसति हन्तुमिच्छति, तथाऽपि धातुकत्वेऽप्यमुं वेनं सान्त्वयेम उपपत्तिभिः प्रार्थयिष्यामः, ततस्तस्य पातकमस्मान्न स्पृशेत् ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
तद्विद्वद्भिरसद्वृत्तो वेनोऽस्माभिः कृतो नृपः।
सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत्॥
मूलम्
तद्विद्वद्भिरसद्वृत्तो वेनोऽस्माभिः कृतो नृपः।
सान्त्वितो यदि नो 20वाचं न ग्रहीष्यत्य21धर्मकृत्॥ १२ ॥
वीरराघवः
निषेधस्य प्रसक्तिपूर्वकत्वात् ता माहुः - तत् तस्य दौरात्म्यं विद्वद्भिर्जानद्भिरपि अस्माभि रसद्वृत्तो वेनः नृपः कृतः । अस्माभिः नृपीकरणाद्धेतोरयं भूतानि द्रुह्यति । अतोऽस्माभिः सान्त्वितञ्चेन्न भूतद्रोहकृतं पापमस्मान् स्पृशतीत्यर्थः । सान्त्वनेन अप्रसन्ने सति कृत्यमाहुः सान्त्वित इति । सान्त्वितः प्रार्थितः अधर्मकृदयं वेनोऽस्माकं याच्चां न ग्रहीष्यति चेत्, तर्हि लोकानां धिक्कारेण निन्दया नितरां दग्धं स्वतेजसा स्वेषामस्माकं तेजसा तपोबलेन दहिष्यामः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसा।
एवमध्यवसायैनं मुनयो गूढमन्यवः।
उपव्रज्याब्रुवन् वेनं सान्त्वयित्वा च सामभिः॥
मूलम्
लोकधिक्कार22सन्दग्धं दहिष्यामः स्वतेजसा।
एवमध्यवसायैनं मुनयो गूढमन्यवः।
उपव्रज्याऽब्रुवन् वेनं सान्त्वयि23त्वाऽथ सामभिः॥ १३ ॥
अनुवाद (हिन्दी)
हमने जान-बूझकर दुराचारी वेनको राजा बनाया था। किन्तु यदि समझानेपर भी यह हमारी बात नहीं मानेगा, तो लोकके धिक्कारसे दग्ध हुए इस दुष्टको हम अपने तेजसे भस्म कर देंगे।’ ऐसा विचार करके मुनिलोग वेनके पास गये और अपने क्रोधको छिपाकर उसे प्रिय वचनोंसे समझाते हुए इस प्रकार कहने लगे॥ १२-१३॥
वीरराघवः
एवमध्यवसाय निश्चित्य गूढो मन्युः येषां ते, मुनयः एवमुपव्रज्य समीपमागत्य सामभिः प्रियोक्तिभिः वेनं सान्त्वयित्वा अब्रुवन् प्रार्थनापूर्वकमब्रुवन्नित्यर्थः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
नृपवर्य निबोधैतद्यत्ते विज्ञापयाम भोः।
आयुःश्रीबलकीर्तीनां तव तात विवर्धनम्॥
मूलम्
नृपवर्य निबोधैतद्यत्ते विज्ञापयाम25 भोः।
आयुःश्रीबलकीर्तीनां तव तात विवर्धनम्॥ १४ ॥
अनुवाद (हिन्दी)
मुनियोंने कहा—राजन्! हम आपसे जो बात कहते हैं, उसपर ध्यान दीजिये। इससे आपकी आयु, श्री, बल और कीर्तिकी वृद्धि होगी॥ १४॥
वीरराघवः
हे नृपवर्य वयं यद्विज्ञापयामहे तन्निबोध सावधानचित्तः आ26धत्स्व, कथम्भूतं तत् ? तव आयुरादीनां विवर्धनं विशेषेण वर्धकम् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
धर्म आचरितः पुंसां वाङ्मनःकायबुद्धिभिः।
लोकान् विशोकान् वितरत्यथानन्त्यमसङ्गिनाम्॥
अनुवाद (हिन्दी)
तात! यदि मनुष्य मन, वाणी, शरीर और बुद्धिसे धर्मका आचरण करे, तो उसे स्वर्गादि शोकरहित लोकोंकी प्राप्ति होती है। यदि उसका निष्कामभाव हो, तब तो वही धर्म उसे अनन्त मोक्षपदपर पहुँचा देता है॥ १५॥
वीरराघवः
किं तत् ? इत्याहुः - धर्म इत्यादिभिर29ष्टभिः । पुंसां वाङ्मनः कायानां वृत्तिभिः व्यापारैः धर्मः ईश्वराराधनरूपो धर्मः आचरितोऽनुष्ठितः लोकान् विशोकान् निर्दुःखान् वितरति कुरुते, असङ्गिनां विरक्तानामानन्त्यं मोक्षसुखानन्त्यमपि वितरति ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
स ते मा विनशेद्वीर प्रजानां क्षेमलक्षणः।
यस्मिन् विनष्टे नृपतिरैश्वर्यादवरोहति॥
मूलम्
स ते मा विनशेद्वीर प्रजानां क्षेमलक्षणः।
यस्मिन् विनष्टे नृपतिरैश्वर्यादवरोहति॥ १६ ॥
अनुवाद (हिन्दी)
इसलिये वीरवर! प्रजाका कल्याणरूप वह धर्म आपके कारण नष्ट नहीं होना चाहिये। धर्मके नष्ट होनेसे राजा भी ऐश्वर्यसे च्युत हो जाता है॥ १६॥
वीरराघवः
हे वीर ! सः लोकसुखकरो मोक्षसुखानन्त्यकरश्च 30धर्मः मा विनश्येत् न नश्येत्, यस्मिनुक्तधर्मे विनष्टे सति नृपतिः पार्थिवः ऐश्वर्यादवरोहति भ्रश्यति ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
राजन्नसाध्वमात्येभ्यश्चोरादिभ्यः प्रजा नृपः।
रक्षन् यथा बलिं गृह्णन्निह प्रेत्य च मोदते॥
मूलम्
राजन्नसाध्वमात्येभ्यश्चोरादिभ्यः प्रजा नृपः।
रक्षन् यथा बलिं गृह्णन्निह प्रेत्य च मोदते॥ १७ ॥
अनुवाद (हिन्दी)
जो राजा दुष्ट मन्त्री और चोर आदिसे अपनी प्रजाकी रक्षा करते हुए न्यायानुकूल कर लेता है, वह इस लोकमें और परलोकमें दोनों जगह सुख पाता है॥ १७॥
वीरराघवः
हे राजन् ! असाधवो ये अमात्याः तेभ्यः चोरादिभ्यः यथा यथाशास्त्रं प्रजाः पालयन् ताभ्यो बलिं पूजां गृह्णन् स्वीकुर्वत् इह लोके प्रेत्य परलोकं प्राप्य च मोदते सुखी भवति ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
यस्य राष्ट्रे पुरे चैव भगवान् यज्ञपूरुषः।
इज्यते स्वेन धर्मेण जनैर्वर्णाश्रमान्वितैः॥
मूलम्
यस्य राष्ट्रे पुरे चैव भगवान् यज्ञ31पूरुषः।
इज्यते स्वेन धर्मेण जनैर्वर्णाश्र32मान्वितैः॥ १८ ॥
वीरराघवः
यस्य राज्ञो 33राष्ट्रे पुरे च स्थितैश्चातुर्वर्ण्य चातुराश्रम्य 34रूपव्यवस्थया 35अवस्थितैः जनैः यज्ञानां भोक्ता प्रभुश्च भगवान् स्वधर्मेण पञ्च36महायज्ञादिरूपेण इज्यते आराध्यते ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
तस्य राज्ञो महाभाग भगवान् भूतभावनः।
परितुष्यति विश्वात्मा तिष्ठतो निजशासने॥
मूलम्
तस्य राज्ञो महा37भाग भगवान् भूतभावनः।
परितुष्यति विश्वात्मा तिष्ठतो निजशासने॥ १९ ॥
अनुवाद (हिन्दी)
जिसके राज्य अथवा नगरमें वर्णाश्रम-धर्मोंका पालन करनेवाले पुरुष स्वधर्मपालनके द्वारा भगवान् यज्ञपुरुषकी आराधना करते हैं, महाभाग! अपनी आज्ञाका पालन करनेवाले उस राजासे भगवान् प्रसन्न रहते हैं; क्योंकि वे ही सारे विश्वकी आत्मा तथा सम्पूर्ण भूतोंके रक्षक हैं॥ १८-१९॥
वीरराघवः
हे महाभाग ! तस्य निजशासने निजं स्वकीयं यच्छासनं शास्त्रविहितं प्रजापालनादिरूपं कर्म तस्मिन् तिष्ठतः राज्ञः विश्वात्मा सर्वात्मा भूतभावनः भूतानि भावयत्युत्पादयतीति भूतभावनः जगत्कारण भूतो भगवान् परितुष्यति ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
तस्मिंस्तुष्टे किमप्राप्यं जगतामीश्वरेश्वरे।
लोकाः सपाला ह्येतस्मै हरन्ति बलिमादृताः॥
मूलम्
तस्मिंस्तुष्टे किमप्राप्यं जगतामीश्वरेश्वरे।
लोकाः सपाला ह्येतस्मै हरन्ति बलिमादृताः॥ २० ॥
अनुवाद (हिन्दी)
भगवान् ब्रह्मादि जगदीश्वरोंके भी ईश्वर हैं, उनके प्रसन्न होनेपर कोई भी वस्तु दुर्लभ नहीं रह जाती। तभी तो इन्द्रादि लोकपालोंके सहित समस्त लोक उन्हें बड़े आदरसे पूजोपहार समर्पण करते हैं॥ २०॥
वीरराघवः
38तुष्यतु भगवान् किं तेन ? तत्राह - तस्मिन्निति । जगतामीश्वरा ब्रह्मादयः तेषामपीश्वरे तस्मिन् भगवति तुष्टे सति सपालाः पालकैस्सहिताः लोका आदृताः आदरेण युक्ता एतस्मै परितुष्टभगवते राज्ञे बलिं हरन्ति प्रापयन्ति ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
तं सर्वलोकामरयज्ञसंग्रहं
त्रयीमयं द्रव्यमयं तपोमयम्।
यज्ञैर्विचित्रैर्यजतो भवाय ते
राजन् स्वदेशाननुरोद्धुमर्हसि॥
मूलम्
तं सर्वलोकामरयज्ञसंग्रहं त्रयीमयं 39द्रव्यमयं तपोमयम्।
यज्ञैर्विचित्रैर्यजतो भवाय ते राजन् स्वदेशा40ननुरोद्धुमर्हसि॥ २१ ॥
अनुवाद (हिन्दी)
राजन्! भगवान् श्रीहरि समस्त लोक, लोकपाल और यज्ञोंके नियन्ता हैं; वे वेदत्रयीरूप, द्रव्यरूप और तपःस्वरूप हैं। इसलिये आपके जो देशवासी आपकी उन्नतिके लिये अनेक प्रकारके यज्ञोंसे भगवान्का यजन करते हैं, आपको उनके अनुकूल ही रहना चाहिये॥ २१॥
वीरराघवः
सर्वान् लोकान् तत्पतींश्च अमरा नमरत्वप्रापकान् यज्ञां श्च संगृह्णाति नियच्छतीति तथातं, त्रयीमयं धर्माधर्मादिबोधक त्रयीप्रचुरं वेदैकप्रमाणकत्वेन तत्प्राचुर्यं विवक्षितम् । त्रथ्याः भागद्वयात्मकत्वात् किंरूपं पूर्वभागप्राचुर्यं किंरूपं चोपरितनभागप्राचुर्यमित्यत्र तद्विवेचयन् विशिनष्टि यज्ञमयं तपोमयमिति । यज्ञप्रचुरं पूर्वभागोदितानां तेषामाराधनत्वेन तत्प्राचुर्यं विवक्षितम् । आराधनप्रकार प्रकाशकत्वेन पूर्वभागस्य तस्मिन् प्रामाण्यमिति भावः । अत्र “सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति” (कठ. उ. 2-15) “वेदैश्च सर्वैरहमेव वेद्यः” (भगी. 15-15) इत्यादिकमनुसन्धेयम् । तपोमयं तपांसि उपासनानि तत्प्रचुरम् आराध्य स्वरूप41रूपगुणादिप्रकाशकत्वेनोपरितनभागस्य प्रामाण्यमिति भावः । तं विचित्रैर्द्रव्यदेवतादिभिर्नानाविधैः यज्ञैः ते अभवाय मुक्तये | भवायेतिच्छेदे ते तव समृद्धय इत्यर्थः । यजतः यागं कुर्वाणान् स्वदेशान् तद्वासिनो जनान् अनुरोद्धुमनुवर्तितुं हे राजन् ! अर्हसि ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
यज्ञेन युष्मद्विषये द्विजातिभि-
र्वितायमानेन सुराः कला हरेः।
स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं
तद्धेलनं नार्हसि वीर चेष्टितुम्॥
मूलम्
यज्ञेन युष्मद्विषये द्विजातिभिर्वितायमानेन सुराः कला हरेः।
स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं तद्धेलनं नार्हसि वीर चेष्टितुम्॥ २२ ॥
अनुवाद (हिन्दी)
जब आपके राज्यमें ब्राह्मणलोग यज्ञोंका अनुष्ठान करेंगे, तब उनकी पूजासे प्रसन्न होकर भगवान्के अंशस्वरूप देवता आपको मनचाहा फल देंगे। अतः वीरवर! आपको यज्ञादि धर्मानुष्ठान बंद करके देवताओंका तिरस्कार नहीं करना चाहिये॥ २२॥
वीरराघवः
यस्य राज्ञो देशवासिभिर्जनैः भगवानिज्यते सोऽपि मुच्यत इत्यभिप्रायेण ते भवायेत्युक्तम् । तदेव प्रपञ्चयति - यज्ञेनेति । युष्मद्विषये तव देशे द्विजातिभिर्वितायमानेन निरन्तरं क्रियमाणेन यज्ञेन हरेर्भगवतः कलाः शरीरभूताः सुराः इन्द्रादयो देवाः स्विष्टाः यथाशास्त्रमिज्यमाना अत एव तुष्टास्तव वाञ्छितं प्रदिशन्ति प्रयच्छन्ति । हे वीर ! तद्धेलनं तेषां देवनां हेलनम् अवज्ञां चेष्टितुं 42कर्तुं भवान्नार्हति ॥ २२ ॥
श्लोक-२३
मूलम् (वचनम्)
वेन उवाच
विश्वास-प्रस्तुतिः
बालिशा बत यूयं वा अधर्मे धर्ममानिनः।
ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते॥
मूलम्
बालिशा बत यूयं 43वा अधर्मे धर्ममानिनः।
ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते॥ २३ ॥
अनुवाद (हिन्दी)
वेनने कहा—तुमलोग बड़े मूर्ख हो! खेद है, तुमने अधर्ममें ही धर्मबुद्धि कर रखी है। तभी तो तुम जीविका देनेवाले मुझ साक्षात् पतिको छोड़कर किसी दूसरे जारपतिकी उपासना करते हो॥ २३॥
वीरराघवः
एवं विज्ञापितो वेन आहेत्याह - वेन इति । यूयं बालिशा अज्ञाः वै नूनं कुतः, यतः अधर्मे धर्ममानिनः धर्मं मन्वानाः । तदेव प्रपञ्चयति । ये 44भवादृशा जनाः वृत्तिदमन्नादिप्रदं प्रभुं हित्वा जारं पतिमुपासते ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
अवजानन्त्यमी मूढा नृपरूपिणमीश्वरम्।
नानुविन्दन्ति ते भद्रमिह लोके परत्र च॥
मूलम्
अवजान45न्त्यमी मूढा नृपरूपिणमीश्वरम्।
नानुविन्दन्ति ते भद्रमिह लोके परत्र च॥ २४ ॥
अनुवाद (हिन्दी)
जो लोग मूर्खतावश राजारूप परमेश्वरका अनादर करते हैं, उन्हें न तो इस लोकमें सुख मिलता है और न परलोकमें ही॥ २४॥
वीरराघवः
ये च मूढाः नृपरूपेणावस्थितमीश्वरमवजानन्ति अवज्ञां कुर्वन्ति ते जना इह परत्र च लोके भद्रं कल्याणं नाऽनुविन्दन्ति न प्राप्नुवन्ति, किन्तु दुःखि46नो भवन्तीत्यर्थः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
को यज्ञपुरुषो नाम यत्र वो भक्तिरीदृशी।
भर्तृस्नेहविदूराणां यथा जारे कुयोषिताम्॥
मूलम्
को यज्ञपुरुषो नाम यत्र वो भक्तिरीदृशी।
भर्तृस्नेहविदूराणां यथा जारे कुयोषिताम्॥ २५ ॥
अनुवाद (हिन्दी)
अरे! जिसमें तुमलोगोंकी इतनी भक्ति है, वह यज्ञपुरुष है कौन? यह तो ऐसी ही बात हुई जैसे कुलटा स्त्रियाँ अपने विवाहित पतिसे प्रेम न करके किसी परपुरुषमें आसक्त हो जायँ॥ २५॥
वीरराघवः
भर्तृस्नेहः विदूरः यासां तासां कुयोषितां 47निन्दितस्त्रीणां यथा जारपुरुषे भक्तिस्तथा 48यत्र यज्ञपुरुषे वः युष्माकमीदृशी भक्तिः स यज्ञपुरुषः को नाम ? किंशब्दः कुत्सायाम् असम्भावनायां वा ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
विष्णुर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रविः।
पर्जन्यो धनदः सोमः क्षितिरग्निरपाम्पतिः॥
मूलम्
विष्णुर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रविः।
पर्जन्यो धनदः सोमः क्षितिरग्निरपाम्पतिः॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
एते चान्ये च विबुधाः प्रभवो वरशापयोः।
देहे भवन्ति नृपतेः सर्वदेवमयो नृपः॥
मूलम्
एते चान्ये च विबुधाः प्रभवो वरशापयोः।
देहे 49वसन्ति नृपतेः सर्वदेवमयो नृपः॥ २७ ॥
अनुवाद (हिन्दी)
विष्णु, ब्रह्मा, महादेव, इन्द्र, वायु, यम, सूर्य, मेघ, कुबेर, चन्द्रमा, पृथ्वी, अग्नि और वरुण तथा इनके अतिरिक्त जो दूसरे वर और शाप देनेमें समर्थ देवता हैं, वे सब-के-सब राजाके शरीरमें रहते हैं; इसलिये राजा सर्वदेवमय है और देवता उसके अंशमात्र हैं॥ २६-२७॥
वीरराघवः
वरशापयोनुग्रहनिग्रहयोः प्रभवः समर्थाः विष्ण्वादयोऽन्ये च देवा नृपतेः राज्ञो देहे वसन्ति; अतो नृपः सर्वदेवमयः सर्वदेवताप्रचुरः ॥ २६, २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सराः।
बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्रभुक् पुमान्॥
मूलम्
तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सराः।
बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्रभुक्पुमान्॥ २८ ॥
अनुवाद (हिन्दी)
इसलिये ब्राह्मणो! तुम मत्सरता छोड़कर अपने सभी कर्मोंद्वारा एक मेरा ही पूजन करो और मुझीको बलि समर्पण करो। भला मेरे सिवा और कौन अग्रपूजाका अधिकारी हो सकता है॥ २८॥
वीरराघवः
तस्मात् नृपस्य सर्वदेवमयत्वात् मामेव हे विप्राः ! गतमत्सरा यूयं यजध्वं मह्यमेव बलिं स्वामिग्राह्यभागादिकं हरत समर्पयत । 50मत्तः अग्रभुक् आराध्यः कः पुमानस्ति ? ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
इत्थं विपर्ययमतिः पापीयानुत्पथं गतः।
अनुनीयमानस्तद्याच्ञां न चक्रे भ्रष्टमङ्गलः॥
मूलम्
इत्थं विपर्ययमतिः पापीयानुत्पथं गतः।
अनुनीयमानस्तद्याच्ञां न चक्रे भ्रष्टमङ्गलः॥ २९ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—इस प्रकार विपरीत बुद्धि होनेके कारण वह अत्यन्त पापी और कुमार्गगामी हो गया था। उसका पुण्य क्षीण हो चुका था, इसलिये मुनियोंके बहुत विनयपूर्वक प्रार्थना करनेपर भी उसने उनकी बातपर ध्यान न दिया॥ २९॥
वीरराघवः
इत्थमेवं विपरीतमतिः पापीयान् उत्पथं दुर्मार्गं प्राप्तः अनुनीयमानोऽपि प्रार्थ्यमानोऽपि तेषामृषीणां याच्ञा न चक्रे यतोऽयं भ्रष्टमङ्गलः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
इति तेऽसत्कृतास्तेन द्विजाः पण्डितमानिना।
भग्नायां भव्ययाच्ञायां तस्मै विदुर चुक्रुधुः॥
मूलम्
इति तेऽसत्कृतास्तेन द्विजाः पण्डितमानिना।
भग्नायां 52भव्ययाच्ञायां तस्मै विदुर चुक्रुधुः॥ ३० ॥
अनुवाद (हिन्दी)
कल्याणरूप विदुरजी! अपनेको बड़ा बुद्धिमान् समझनेवाले वेनने जब उन मुनियोंका इस प्रकार अपमान किया, तब अपनी माँगको व्यर्थ हुई देख वे उसपर अत्यन्त कुपित हो गये॥ ३०॥
वीरराघवः
इतीत्थं पण्डितमात्मानं मन्वानेन तेन 53वेनेन असत्कृता अवज्ञातास्ते मुनयः भव्ययाच्ञायां लोकशुभा54वहायां याच्ञायां 55भग्नायां सत्यां हे विदुर ! तस्मै चुक्रुधुः कुपितवन्तः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
हन्यतां हन्यतामेष पापः प्रकृतिदारुणः।
जीवञ्जगदसावाशु कुरुते भस्मसाद् ध्रुवम्॥
मूलम्
हन्यतां हन्यतामेष पापः प्रकृतिदारुणः।
जीवञ्जगदसावाशु कुरुते भस्मसाद् ध्रुवम्॥ ३१ ॥
अनुवाद (हिन्दी)
‘मार डालो! इस स्वभावसे ही दुष्ट पापीको मार डालो! यह यदि जीता रह गया तो कुछ ही दिनोंमें संसारको अवश्य भस्म कर डालेगा॥ ३१॥
वीरराघवः
क्रोधमेव प्रपञ्चयति हन्यतामिति । प्रकृत्या स्वभावेन दारुणो घातुकः अत एव पापीयान् एष वेनो हन्यतां, कोपात् द्विरुक्तिः । यतोऽसौ जीवन् जगत् भस्मसात् 56भस्मीभूतमाशु कुरुते ध्रुवं नूनम् ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
नायमर्हत्यसद्वृत्तो नरदेववरासनम्।
योऽधियज्ञपतिं विष्णुं विनिन्दत्यनपत्रपः॥
मूलम्
नायमर्हत्यसद्वृत्तो नरदेववरासनम्।
57योऽधियज्ञपतिं विष्णुं विनिन्दत्यनपत्रपः॥ ३२ ॥
अनुवाद (हिन्दी)
यह दुराचारी किसी प्रकार राजसिंहासनके योग्य नहीं है, क्योंकि यह निर्लज्ज साक्षात् यज्ञपति श्रीविष्णुभगवान्की निन्दा करता है॥ ३२॥
वीरराघवः
असद्वृत्तोऽयं वेनो राजासनं प्रति नार्हति योग्यो न भवति, हि यस्मात् यो वेनः अनपत्रपो निर्लज्जः, यज्ञपतिं विष्णुं विनिन्दति ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
को वैनं परिचक्षीत वेनमेकमृतेऽशुभम्।
प्राप्त ईदृशमैश्वर्यं यदनुग्रहभाजनः॥
अनुवाद (हिन्दी)
अहो! जिनकी कृपासे इसे ऐसा ऐश्वर्य मिला, उन श्रीहरिकी निन्दा अभागे वेनको छोड़कर और कौन कर सकता है’?॥ ३३॥
वीरराघवः
अशुभमशुभाचारं वेनमेक मृते विना को वै पुमान् तं विष्णुं परिचक्षीत निन्देत् । वेनस्य कृतघ्नतामाह - यस्य विष्णोः अनुग्रहभाजनः अनुग्रहविषयस्सन् ईदृशमैश्वर्यं प्राप्तः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
इत्थं व्यवसिता हन्तुमृषयो रूढमन्यवः।
निजघ्नुर्हुङ्कृतैर्वेनं हतमच्युतनिन्दया॥
अनुवाद (हिन्दी)
इस प्रकार अपने छिपे हुए क्रोधको प्रकट कर उन्होंने उसे मारनेका निश्चय कर लिया। वह तो भगवान्की निन्दा करनेके कारण पहले ही मर चुका था, इसलिये केवल हुंकारोंसे ही उन्होंने उसका काम तमाम कर दिया॥ ३४॥
वीरराघवः
इत्थं व्यवसिता निश्चिन्वाना ऋषयः रूढमन्यवः पूर्वं गूढमन्यव इदानीं रूढमन्यवः सन्तः पूर्वमेव भगवन्निन्दया हतप्रायं वेनं हुङ्कारैर्निजघ्नुः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
ऋषिभिः स्वाश्रमपदं गते पुत्रकलेवरम्।
सुनीथा पालयामास विद्यायोगेन शोचती॥
मूलम्
ऋषिभिः स्वाश्रमपदं गते पुत्रकलेबरम्।
सुनीथा पालयामास विद्यायोगेन शोचती॥ ३५ ॥
अनुवाद (हिन्दी)
जब मुनिगण अपने-अपने आश्रमोंको चले गये, तब इधर वेनकी शोकाकुला माता सुनीथा मन्त्रादिके बलसे तथा अन्य युक्तियोंसे अपने पुत्रके शवकी रक्षा करने लगी॥ ३५॥
वीरराघवः
एवं हुङ्का62रैरेव वेनं निहत्य ऋषिभिः स्वाश्रमस्थाने गते प्राप्ते सति शोचती सुनीथा पुत्रस्य 63वेनस्य कलेबरं विद्यायोगेन मन्त्रसहितया युक्त्या पालयामास ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
एकदा मुनयस्ते तु सरस्वत्सलिलाप्लुताः।
हुत्वाग्नीन् सत्कथाश्चक्रुरुपविष्टाः सरित्तटे॥
मूलम्
एकदा मुनयस्ते तु 64सरस्वत्सलिलाप्लुताः।
हुत्वाग्नीन् सत्कथाश्चक्रुरुपविष्टाः सरित्तटे॥ ३६ ॥
अनुवाद (हिन्दी)
एक दिन वे मुनिगण सरस्वतीके पवित्र जलमें स्नान कर अग्निहोत्रसे निवृत्त हो नदीके तीरपर बैठे हुए हरिचर्चा कर रहे थे॥ ३६॥
वीरराघवः
ते मुनयः एकदा सरस्वत्याः सलिलैराप्लुताः स्नाताः, पुंवद्भाव आर्षः । अग्निं हुत्वा प्रातरग्निकार्यं कृत्वा सरितः सरस्वत्यास्तटे उपविष्टास्सन्तः सत्कथां भगवत्कथां चक्रुः कथयामासुः ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
वीक्ष्योत्थितांस्तदोत्पातानाहुर्लोकभयङ्करान्।
अप्यभद्रमनाथाया दस्युभ्यो न भवेद्भुवः॥
मूलम्
वीक्ष्योत्थि65तान् महोत्पातानाहुर्लोकभयङ्करान्।
अप्यभद्रमनाथायादस्युभ्यो न भवेद्भुवः॥ ३७ ॥
अनुवाद (हिन्दी)
उन दिनों लोकोंमें आतंक फैलानेवाले बहुत-से उपद्रव होते देखकर वे आपसमें कहने लगे, ‘आजकल पृथ्वीका कोई रक्षक नहीं है; इसलिये चोर-डाकुओंके कारण उसका कुछ अमंगल तो नहीं होनेवाला है?’॥ ३७॥
वीरराघवः
तदा उत्थितान् हि महोत्पातान् वीक्ष्य उत्पातैर्यल्लोकानां भयं तेनातुरा दुःखिताः अनाथाया भुवः दस्युभ्यश्चौरादिभ्योऽभद्रं न भवेत्किमित्याहुः ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
एवं मृशन्त ऋषयो धावतां सर्वतोदिशम्।
पांसुः समुत्थितो भूरिश्चोराणामभिलुम्पताम्॥
मूलम्
एवं 66ब्रुवत्सु ऋषिषु66 धावतां सर्वतो दिशम्।
पांसुः समुत्थितो 67भूरि68श्चोरा69णामभिलुम्पताम्॥ ३८ ॥
अनुवाद (हिन्दी)
ऋषिलोग ऐसा विचार कर ही रहे थे कि उन्होंने सब दिशाओंमें धावा करनेवाले चोरों और डाकुओंके कारण उठी हुई बड़ी भारी धूल देखी॥ ३८॥
वीरराघवः
एवम् ऋषिषु ब्रुवत्सु सत्सु सर्वतो दिशं सर्वासु दिक्षु धावतामभितो धनादिकं लुम्पतां हरतां 70चौराणां भूरिर्बहुलः पांसुः समुत्थितोऽभूत् ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
तदुपद्रवमाज्ञाय लोकस्य वसु लुम्पताम्।
भर्तर्युपरते तस्मिन्नन्योन्यं च जिघांसताम्॥
मूलम्
तदुपद्रवमाज्ञाय लोकस्य वसु लुम्पताम्।
भर्तर्युपरते तस्मिन्नन्योन्यं च जिघांसताम्॥ ३९ ॥
वीरराघवः
वसु धनं लुम्पतां 71हरतां 72चौराणां भर्तरि राज्ञि उपरते नष्टे सति अन्योन्यं जिघांसतां हन्तुमिच्छतां लोकानां च तथाविधमुपद्रवम् ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
चोरप्रायं जनपदं हीनसत्त्वमराजकम्।
लोकान्नावारयञ्छक्ता अपि तद्दोषदर्शिनः॥
अनुवाद (हिन्दी)
देखते ही वे समझ गये कि राजा वेनके मर जानेके कारण देशमें अराजकता फैल गयी है, राज्य शक्तिहीन हो गया है और चोर-डाकू बढ़ गये हैं; यह सारा उपद्रव लोगोंका धन लूटनेवाले तथा एक-दूसरेके खूनके प्यासे लुटेरोंका ही है। अपने तेजसे अथवा तपोबलसे लोगोंको ऐसी कुप्रवृत्तिसे रोकनेमें समर्थ होनेपर भी ऐसा करनेमें हिंसादि दोष देखकर उन्होंने इसका कोई निवारण नहीं किया॥ ३९-४०॥
वीरराघवः
तथा 75चौरप्रायमराजकं हीनसत्त्वं च जनपदमाज्ञाय ज्ञात्वा शक्ता अपि वेनमिव हुङ्का76रेणैव 77चौरान्निहन्तुं शक्ता अपि ऋषयः तद्दोषदर्शिनः तस्मा78च्चौरादिहनना द्यो दोषः पापं तं पश्यन्तः “घातुं (तं) न धातु (त) को विप्रः” इति स्वधर्मं पश्यन्त इति भावः, नावारयन् न निवारितवन्तः ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
ब्राह्मणः समदृक् शान्तो दीनानां समुपेक्षकः।
स्रवते ब्रह्म तस्यापि भिन्नभाण्डात्पयो यथा॥
मूलम्
ब्राह्मणः समदृक् शान्तो दीनानां समुपेक्षकः।
स्रवते ब्रह्म तस्यापि भिन्न79भाण्डात्पयो यथा॥ ४१ ॥
अनुवाद (हिन्दी)
फिर सोचा कि ‘ब्राह्मण यदि समदर्शी और शान्तस्वभाव भी हो तो भी दीनोंकी उपेक्षा करनेसे उसका तप उसी प्रकार नष्ट हो जाता है जैसे फूटे हुए घड़ेमेंसे जल बह जाता है॥ ४१॥
वीरराघवः
नन्वेवमृषीणामपि शक्तानां चोरोपद्रुत दीन लोकोपेक्षायां तपोनाशप्रसङ्गस्स्यादिति ब्राह्मणः समदृगित्यनेनाशङ्क्य स्वतपसो नाशाभावार्थं राजान्तरमेव सम्पाद्य तन्मुखेनैव दीनपरित्राणं कार्यमित्यभिप्रायेण राजान्तरकरणोपाय 80मूरुमन्थनादिकं चक्रुरित्याह - नाङ्गस्येति द्वाभ्याम् । समदृक् सर्वस्य ब्रह्मात्मकत्व दर्शी तदुपयुक्तशमादिसम्पन्नोऽपि ब्राह्मणो यदि दीनानां समुपेक्षकः स्यात् तर्हि तस्य ब्रह्म 81ब्राह्म्यं तपः इति यावत्, 82स्रवते गच्छति यथा भिन्नभाण्डस्थं जलं तद्वत् ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
नाङ्गस्य वंशो राजर्षेरेष संस्थातुमर्हति।
अमोघवीर्या हि नृपा वंशेऽस्मिन् केशवाश्रयाः॥
मूलम्
नाङ्गस्य वंशो राजर्षेरेष संस्थातुमर्हति।
अमोघवीर्या हि नृपा वंशेऽस्मिन् केशवाश्रयाः॥ ४२ ॥
अनुवाद (हिन्दी)
फिर राजर्षि अंगका वंश भी नष्ट नहीं होना चाहिये, क्योंकि इसमें अनेक अमोघ-शक्ति और भगवत्परायण राजा हो चुके हैं’॥ ४२॥
वीरराघवः
अत उपेक्षारूपं दोषपरिहाराय नाङ्गस्येत्यादि विनिश्चित्य महीपते रूरुं तरसा ममन्युरित्यन्वयः । राजर्षे रङ्गस्यैष वंशः संस्थातुं अवसानं प्राप्तुं नाऽर्हति । हि यतोऽस्मिन्वंशे जाता नृपा अमोघवीर्याः, तत्र हेतुः केशवाश्रयाः ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
विनिश्चित्यैवमृषयो विपन्नस्य महीपतेः।
ममन्थुरूरुं तरसा तत्रासीद्बाहुको नरः॥
मूलम्
विनिश्चित्यैव मृषयो विपन्नस्य महीपतेः।
ममन्थुरूरुं तरसा तत्राऽऽसीद्बाहुको नरः॥ ४३ ॥
अनुवाद (हिन्दी)
ऐसा निश्चय कर उन्होंने मृत राजाकी जाँघको बड़े जोरसे मथा तो उसमेंसे एक बौना पुरुष उत्पन्न हुआ॥ ४३॥
वीरराघवः
एवमित्थं विनिश्चित्य ऋषयः विपन्नस्य विपत्तिं प्राप्तस्य मृतस्येत्यर्थः । ऊरुं तरसा बलेन ममन्थुः मथितवन्तः, तत्र मथिते ऊरौ बाहुको 83नामतो नर आसीत् उद्बभूव ।। ४३ ।।
श्लोक-४४
विश्वास-प्रस्तुतिः
काककृष्णोऽतिह्रस्वाङ्गो ह्रस्वबाहुर्महाहनुः।
ह्रस्वपान्निम्ननासाग्रो रक्ताक्षस्ताम्रमूर्धजः॥
मूलम्
काककृष्णोऽतिह्रस्वाङ्गो ह्रस्वबाहुर्महाहनुः।
ह्रस्व84पान्निम्ननासाग्रो रक्ताक्षस्ताम्रमूर्धजः॥ ४४ ॥
अनुवाद (हिन्दी)
वह कौएके समान काला था; उसके सभी अंग और खासकर भुजाएँ बहुत छोटी थीं, जबड़े बहुत बड़े, टाँगे छोटी, नाक चपटी, नेत्र लाल और केश ताँबेके-से रंगके थे॥ ४४॥
वीरराघवः
बाहुकमेव विशिनष्टि - काकेति । काक इव कृष्णः अतीव ह्रस्वाङ्गः, हृस्वौ बाहू यस्य, महान्तौ हनू कपोलप्रान्तौ यस्य हृस्वा वाक् यस्य, निम्नं नतं नासिकाग्रं यस्य, रक्ते अक्षिणी यस्य, ताम्रवर्णा मूर्धजाः केशा यस्य सः ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
तं तु तेऽवनतं दीनं किं करोमीति वादिनम्।
निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत्॥
मूलम्
तं तु तेऽवनतं दीनं किं करोमीति वादिनम्।
निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत्॥ ४५ ॥
अनुवाद (हिन्दी)
उसने बड़ी दीनता और नम्रभावसे पूछा कि ‘मैं क्या करूँ?’ तो ऋषियोंने कहा—‘निषीद (बैठ जा)।’ इसीसे वह ‘निषाद’ कहलाया॥ ४५॥
वीरराघवः
तं बाहुकं दीनं किङ्करोमीति दीनवादिनं च राज्यानर्हमभिप्रेत्य निषीदेति उपविशेति 85अब्रुवन् 86उक्तवन्तः । हे तात ! ततः निषीदेति ऋषिवचनात् स 87बाहुकः निषादोऽभवत् । 88स च88 निषादजातीयोऽभवदित्यर्थः ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
तस्य वंश्यास्तु नैषादा गिरिकाननगोचराः।
येनाहरज्जायमानो वेनकल्मषमुल्बणम्॥
अनुवाद (हिन्दी)
उसने जन्म लेते ही राजा वेनके भयंकर पापोंको अपने ऊपर ले लिया, इसीलिये उसके वंशधर नैषाद भी हिंसा, लूट-पाट आदि पापकर्मोंमें रत रहते हैं; अतः वे गाँव और नगरमें न टिककर वन और पर्वतोंमें ही निवास करते हैं॥ ४६॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते निषादोत्पत्तिर्नाम चतुर्दशोऽध्यायः॥ १४॥
वीरराघवः
तस्य बाहुकस्य ये वंश्यास्ते नैषादाः । गिरिः काननं गोचरः आश्रयः न तु पुरादिप्रवेशो येषां ते अभवन् । तत्र हेतुः येन कारणेन असौ बाहुको जायमानः उल्बणमुत्कटं 91कल्मषं पापमहरत् स्वीकृतवान् ततस्तस्य वंश्यास्तथाभूता इत्यर्थः ॥ ४६ ॥
इति श्रीमद्भागवते चतुर्थस्कन्धे श्री वीरराघवविदुषा लिखितायां भागवत चन्द्रचन्द्रिकायां व्याख्यायां चतुर्दशोऽध्यायः ॥ १४ ॥
-
A,B,G,I,J,M,Ma,T,V साम्यताम् ↩︎
-
A,B,T omit तं ↩︎
-
A,B,T नप्त्रियम ↩︎
-
A,B,T शेन ↩︎
-
A,B,T समानरू ↩︎
-
W ग्रस्ताः ↩︎
-
W मेनेत्मानं महाभागं ↩︎
-
M,Ma शठः ↩︎
-
A,B,T omit द्विपः ↩︎
-
A,B,T उत्थितः ↩︎
-
W पृथिवी ↩︎
-
A,B,G,I,J,T,V इति ↩︎
-
W यत्सर्वं ↩︎
-
A,B,G,I,J,T शः ↩︎
-
A,B,G,I,J,M,Ma,Ms,T चुः स्म ↩︎
-
A,B,T का अपि ↩︎
-
A,B,G,I,J,T,V भृत्; Ms वत् ↩︎
-
M,Ma यामोऽमुं मा ↩︎
-
W याच्ञा ↩︎
-
Ms क ↩︎
-
W निर्दग्धं ↩︎
-
A,B,G,I,J,T त्वा च ↩︎
-
W महे । ↩︎
-
W द ↩︎
-
A,B,G,I,J,M,Ma,Ms,T,W यबुद्धिभिः ↩︎
-
Ms त्यद्धा; W त्यस्या ↩︎
-
A,B,T ष्ट ↩︎
-
A,B,T omit धर्मः ↩︎
-
W भुवप्रभुः ↩︎
-
M,Ma,Ms,V मात्मकैः; W मस्थितैः ↩︎
-
A,B,T राज्ये ↩︎
-
A,B,T रूपतया ↩︎
-
A,B,T व्यव ↩︎
-
A,B,T omit महा ↩︎
-
M,Ma,Ms राज ↩︎
-
A,B,T add परि ↩︎
-
B वेद; W यज्ञ ↩︎
-
Ms न्न नि; V न्न वि ↩︎
-
A,B,T omit रूप ↩︎
-
T omits कर्तुं ↩︎
-
M,Ma वै ↩︎
-
A,B,T त्वा ↩︎
-
M,Ma,Ms,V न्ति ये ↩︎
-
A,B,T तो ↩︎
-
A,B,T निज (नीच) ↩︎
-
A,B,T omit यत्र ↩︎
-
A,B,G,I,J,T,V भवन्ति, M,Ma,Ms तिष्ठन्ति ↩︎
-
A,B,T omit मत्तः ↩︎
-
M,Ma,Ms हव्य ↩︎
-
A,B,T omit वेनेन ↩︎
-
A,B,T वहया ↩︎
-
A,B,T omit भग्नायां ↩︎
-
A,B,T भस्म ↩︎
-
M,Ma यो वै; V यो हि ↩︎
-
W वैतं ↩︎
-
M,Ma,Ms भाजनम्; V भाग्जनः ↩︎
-
W गूढ ↩︎
-
M,Ma निर्ज ↩︎
-
W रणैव ↩︎
-
A,B,T omit वेनस्य ↩︎
-
M,Ma,Ms सरयूस ↩︎
-
I तांस्तदो ↩︎
-
M,Ma,Ms भूमे ↩︎
-
W श्चौ ↩︎
-
M,Ma,Ms णां वसु ↩︎
-
A,B,T चो ↩︎
-
A,B,T omit हरतां ↩︎
-
A,B,T चो ↩︎
-
W चौर ↩︎
-
M,Ma लोका ना ↩︎
-
A,B,T चो ↩︎
-
W रे रेव ↩︎
-
W चो ↩︎
-
W च्चो ↩︎
-
W भाण्डपयो ↩︎
-
A,B,T भूत ↩︎
-
A,B,T omits ब्राह्म्यं ↩︎
-
W स्रवति ↩︎
-
A,B,T नाम ↩︎
-
W वाङ्निम्न ↩︎
-
A,B,T omit अब्रुवन् ↩︎
-
W omits उक्तवन्तः ↩︎
-
T omits बाहुकः ↩︎
-
M,Ma,Ms दृष्ट्वा ↩︎
-
M,Ma,Ms योऽपा ↩︎
-
T omits कल्मषं ↩︎