[त्रयोदशोऽध्यायः]
भागसूचना
ध्रुववंशका वर्णन, राजा अंगका चरित्र
श्लोक-१
मूलम् (वचनम्)
1सूत उवाच
विश्वास-प्रस्तुतिः
निशम्य कौषारविणोपवर्णितं
ध्रुवस्य वैकुण्ठपदाधिरोहणम्।
प्ररूढभावो भगवत्यधोक्षजे
प्रष्टुं पुनस्तं विदुरः प्रचक्रमे॥
मूलम्
निशम्य कौषारविणोपवर्णितं ध्रुवस्य वैकुण्ठपदाधिरोहणम्।
प्ररूढभावो भगवत्यधोक्षजे प्रष्टुं पुनस्तं विदुरः प्रचक्रमे॥ १ ॥
अनुवाद (हिन्दी)
श्रीसूतजी कहते हैं—शौनकजी! श्रीमैत्रेय मुनिके मुखसे ध्रुवजीके विष्णुपदपर आरूढ़ होनेका वृत्तान्त सुनकर विदुरजीके हृदयमें भगवान् विष्णुकी भक्तिका उद्रेक हो आया और उन्होंने फिर मैत्रेयजीसे प्रश्न करना आरम्भ किया॥ १॥
वीरराघवः
एवं कार्त्स्न्येन श्रुतध्रुवचेष्टितो विदुषो “महिमानं विलोक्यास्य नारदो भगवानृषिः । आतोद्यं वितुदन् श्लोकान् सत्रेऽगायत्प्रचेतसाम् ॥” (भाग 4-12-40) इत्युक्तप्रचेतस्सत्रे तत्र तत्र वर्णितभगवत्कथाबुभुत्सया पृच्छतीत्याह 2बादरायणिः - निशम्येति । कौषारविणा मैत्रेयेणोपवर्णितं यद्ध्रुवस्य वैकुण्ठस्थानाधिरोहणं तन्निशम्य श्रुत्वा पुनरधोक्षजे भगवति प्ररूढः 3अभिवृद्धः भावो भक्तिर्यस्य सः 4विदुरः तं कौषारविमन्यत्प्रष्टुमुपक्रान्तवान् ॥ १ ॥
श्लोक-२
मूलम् (वचनम्)
विदुर उवाच
विश्वास-प्रस्तुतिः
के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत।
कस्यान्ववाये प्रख्याताः कुत्र वा सत्रमासत॥
मूलम्
के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत।
कस्यान्ववाये प्रख्याताः कुत्र वा सत्रमास5त॥ २ ॥
अनुवाद (हिन्दी)
विदुरजीने पूछा—भगवत्परायण मुने! ये प्रचेता कौन थे? किसके पुत्र थे? किसके वंशमें प्रसिद्ध थे और इन्होंने कहाँ यज्ञ किया था?॥ २॥
वीरराघवः
प्रश्नमेवाह - के ते इति । ते प्रचेतसां सत्रे इत्युक्ताः प्रचेतसः के इति जातिप्रश्नः । हे सुव्रत ! मैत्रेय ! कस्यापत्यानि पुत्रा इति योनिसम्बन्धप्रश्नः । कस्यान्ववाये 6वंशे प्रख्याताः प्रसिद्धा इति वंशप्रश्नः । कुत्र वा सत्रमासत इति सत्रदेशप्रश्नः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
मन्ये महाभागवतं नारदं देवदर्शनम्।
येन प्रोक्तः क्रियायोगः परिचर्याविधिर्हरेः॥
मूलम्
मन्ये महाभागवतं नारदं देवदर्शनम्।
येन प्रोक्तः क्रियायोगः परिचर्याविधिर्हरेः॥ ३ ॥
अनुवाद (हिन्दी)
भगवान्के दर्शनसे कृतार्थ नारदजी परम भागवत हैं—ऐसा मैं मानता हूँ। उन्होंने पांचरात्रका निर्माण करके श्रीहरिकी पूजापद्धतिरूप क्रियायोगका उपदेश किया है॥ ३॥
वीरराघवः
नारदेन प्रचेतसां वर्णिताः कथाः प्रष्टुं तन्महिमानमाह - मन्य इति । देवदर्शनं देवो भगवान् तस्य दर्शनं, 7दृश्यते अनेनेति दर्शनं7, करणे ल्युट् । तत्त्वोपदेशेन भगवत्साक्षात्कारोपायभूत इत्यर्थः । देवस्य दर्शनं साक्षात्कारो यस्य यस्माद्वा इति बहुव्रीहिः तम् अत एव महाभागवतं मन्ये । तमेव विशिनष्टि - येन नारदेन हरेः परिचर्याविधिः पूजाप्रकाररूपः क्रियायोगः प्रोक्तः पञ्चरात्राद्युपदेशेन कथितः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
स्वधर्मशीलैः पुरुषैर्भगवान् यज्ञपूरुषः।
इज्यमानो भक्तिमता नारदेनेरितः किल॥
मूलम्
स्वधर्मशीलैः पुरुषैर्भगवान् 8यज्ञपूरुषः।
इज्यमानो भक्तिमता नारदेनेरितः किल॥
अनुवाद (हिन्दी)
जिस समय प्रचेतागण स्वधर्मका आचरण करते हुए भगवान् यज्ञेश्वरकी आराधना कर रहे थे, उसी समय भक्तप्रवर नारदजीने ध्रुवका गुणगान किया था॥ ४॥
वीरराघवः
क्रियायोगमेव विशदयन् नारदं प्रस्तौति - स्वधर्मेति । भक्तिमता निरतिशयभगवद्भक्तिमता नारदेन यज्ञपूरुषः यज्ञानां भोक्ता प्रभुश्च भगवान् स्वधर्मशीलैः स्वस्ववर्णाश्रमोचितभगवदाराधनरूपपञ्चमहायज्ञाद्यनुष्ठानपरैः पुरुषैः इज्यमान आराध्यमान ईरितः कथितः किल सर्वयज्ञाराध्यभगवत्परिचर्यारूपत्वेन स्वस्ववर्णाश्रमोचित9धर्मा अनुष्ठेया इति पञ्चरात्रादौ नारदेन भगवता कथितमित्यर्थः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
यास्ता देवर्षिणा तत्र वर्णिता भगवत्कथाः।
मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्न्येनाचष्टुमर्हसि॥
मूलम्
यास्ता देवर्षिणा तत्र वर्णिता भगवत्कथाः।
मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्न्येनाऽऽचष्टुमर्हसि॥ ५ ॥
अनुवाद (हिन्दी)
ब्रह्मन्! उस स्थानपर उन्होंने भगवान्की जिन-जिन लीला-कथाओंका वर्णन किया था, वे सब पूर्णरूपसे मुझे सुनाइये; मुझे उनके सुननेकी बड़ी इच्छा है॥ ५॥
वीरराघवः
एवं नारदं प्रस्तुत्य प्रचेतोभ्यः तदुपदिष्टकथाः पृच्छति - या इति । देवर्षिणा नारदेन तत्र तत्र प्रचेतसां ब्रह्मसत्रे या भगवत्कथा वर्णिताः ताः कथाः शुश्रूषवे 10श्रोतुमिच्छवे10 मह्यं कार्त्स्न्येन वक्तुमर्हसि ॥ ५ ॥
श्लोक-६
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम्।
सार्वभौमश्रियं नैच्छदधिराजासनं पितुः॥
मूलम्
ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम्।
सार्वभौमश्रियं नैच्छदधिराजासनं पितुः॥ ६ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजीने कहा—विदुरजी! महाराज ध्रुवके वन चले जानेपर उनके पुत्र उत्कलने अपने पिताके सार्वभौम वैभव और राज्यसिंहासनको अस्वीकार कर दिया॥ ६॥
वीरराघवः
एवमापृष्टो मुनिः प्रचेतसो ध्रुववंशे जाता इति वक्तुं ध्रुववंशमनु11क्रामति - ध्रुवस्येति । ध्रुवस्य पुत्रः उत्कलाख्यः पितरि ध्रुवे वनं प्रति गच्छति सति सार्वभौमश्रियं पितुरधिराजासनं च नैच्छत् ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
स जन्मनोपशान्तात्मा निःसङ्गः समदर्शनः।
ददर्श लोके विततमात्मानं लोकमात्मनि॥
मूलम्
स जन्मनोपशान्तात्मा निस्सङ्गः समदर्शनः।
ददर्श लोके विततमात्मानं लोकमात्मनि॥ ७ ॥
अनुवाद (हिन्दी)
वह जन्मसे ही शान्तचित्त, आसक्तिशून्य और समदर्शी था; तथा सम्पूर्ण लोकोंको अपनी आत्मामें और अपनी आत्माको सम्पूर्ण लोकोंमें स्थित देखता था॥ ७॥
वीरराघवः
अनिच्छायां किं कारणमित्यपेक्षायां बहुजन्मसिद्धयोगमाहात्म्यप्रत्यक्षितस्वात्मयाथात्म्यानुभवतृप्तत्वादन्यत्पुरुषार्थ12जातं नैच्छदिति वक्तुं तस्य स्वात्मानन्दानुभवमाह - स इति । स उत्कलः जन्मना जन्मप्रभृति उप13शान्तः रागादिभिरकलुषि14त आत्मा मनो यस्य । अत एव निस्सङ्गः रागिभिः सङ्गरहितः समदर्शनस्सन् लोके विततं व्याप्तम् आत्मानम् आत्मनि लोकं च ददर्श । लोके विततमात्मानमिति शरीरव्यापकत्वमुक्तम् । आत्मनि लोकमित्यात्मनो धारकत्वमुक्तं, लोक्यते 15दृश्यते इति लोकः शरीरम् ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
आत्मानं ब्रह्म निर्वाणं प्रत्यस्तमितविग्रहम्।
अवबोधरसैकात्म्यमानन्दमनुसन्ततम्॥
मूलम्
आत्मानं ब्रह्मनिर्वाणं प्रत्यस्तमितविग्रहम्।
अवबोधरसैकात्म्यमानन्दमनुसन्ततम्॥ ८ ॥
वीरराघवः
आत्मानं प्रत्यगात्मानं ब्रह्म धर्मभूतज्ञानबृहत्तया ब्रह्मशब्दवाच्यं निर्वाणं सुख16स्वरूपं प्रत्यस्तमितविग्रहं देहविनिर्मुक्तम् “अशरीरं शरीरेषु” (कठ. उ. 2-22) इति श्रुतेः । अवबोधरसैकात्म्यं अवबोध एव रसः ऐकात्म्यमेकस्वभावत्वं यस्य तं क्वचिदप्यंशे जाड्यरहितमित्यर्थः । आनन्दं धर्मभूतानन्दगुणविशिष्टं “गुणवचनेभ्योमतुपो लुग्वक्तव्यः” (वार्तिक under अष्टा 1-4-19) इत्यनुशासनात् अतिसन्ततमत्यन्तं नित्यम् ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाशयः।
स्वरूपमवरुन्धानो नात्मनोऽन्यं तदैक्षत॥
मूलम्
अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाशयः।
स्वरूपमवरुन्धानो 17नात्मनोऽन्यं तदैक्षत॥ ९ ॥
अनुवाद (हिन्दी)
उसके अन्तःकरणका वासनारूप मल अखण्ड योगाग्निसे भस्म हो गया था। इसलिये वह अपनी आत्माको विशुद्ध बोधरसके साथ अभिन्न, आनन्दमय और सर्वत्र व्याप्त देखता था। सब प्रकारके भेदसे रहित प्रशान्त ब्रह्मको ही वह अपना स्वरूप समझता था; तथा अपनी आत्मासे भिन्न कुछ भी नहीं देखता था॥ ८-९॥
वीरराघवः
स्वरूपं स्वस्वरूपभूतमवरुन्धानः अनुसन्दधानः अत एव अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाशयः अव्यवच्छिन्नः निरन्तरः योगः आत्मयाथात्म्यज्ञानयोगः स एवाग्निस्तेन दग्धं कर्मरूपमलं यस्य सः, आशयोऽन्तः करणं यस्येति बहुव्रीहिगर्भो बहुव्रीहिः । अन्यत् आत्मस्वरूपादन्यत् पुरुषार्थभूतदेहतदनुबन्ध्यादिकं स्वयमन्यः देहादिभ्यो विलक्षणः नैक्षत नापश्यत् ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
जडान्धबधिरोन्मत्तमूकाकृतिरतन्मतिः।
लक्षितः पथि बालानां प्रशान्तार्चिरिवानलः॥
मूलम्
जडान्धबधिरोन्मत्तमूकाकृतिरतन्मतिः।
लक्षितः पथि बालानां प्रशान्तार्चिरिवानलः॥ १० ॥
अनुवाद (हिन्दी)
वह अज्ञानियोंको रास्ते आदि साधारण स्थानोंमें बिना लपटकी आगके समान मूर्ख, अंधा, बहिरा, पागल अथवा गूँगा-सा प्रतीत होता था—वास्तवमें ऐसा था नहीं॥ १०॥
वीरराघवः
जडादितुल्यवेषः अतन्मतिः जडादितुल्यमतिरहितः प्रशान्तानि अर्चीषि ज्वाला यस्य सोऽग्निरिव स्थितः बालानां पथि मार्गे स्वमाहात्म्यानाविष्काररूपे लक्षितः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
मत्वा तं जडमुन्मत्तं कुलवृद्धाः समन्त्रिणः।
वत्सरं भूपतिं चक्रुर्यवीयांसं भ्रमेः सुतम्॥
मूलम्
मत्वा तं जडमुन्मत्तं कुलवृद्धाः समन्त्रिणः।
वत्सरं भूपतिं चक्रुर्यवीयांसं भ्रमेः सुतम्॥ ११ ॥
अनुवाद (हिन्दी)
इसलिये कुलके बड़े-बूढ़े तथा मन्त्रियोंने उसे मूर्ख और पागल समझकर उसके छोटे भाई भ्रमिपुत्र वत्सरको राजा बनाया॥ ११॥
वीरराघवः
तमुत्कलं मन्त्रिभिस्सहितास्सर्वे तत्कुलवृद्धाः जडमुन्मत्तं च ज्ञात्वा तं विहायेत्यर्थः । भ्रमेः सुतं यवीयांसं कनीयांसं वत्सरं भूपतिं राजानं चक्रुः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
स्वर्वीथिर्वत्सरस्येष्टा भार्यासूत षडात्मजान्।
पुष्पार्णं तिग्मकेतुं च इषमूर्जं वसुं जयम्॥
मूलम्
18सर्वर्द्धिर्वत्सरस्येष्टा भार्याऽसूत षडात्मजान्।
पुष्पार्णं 19तिग्मकेतुं च इषमूर्जं वसुं जयम्॥ १२ ॥
अनुवाद (हिन्दी)
वत्सरकी प्रेयसी भार्या स्वर्वीथिके गर्भसे पुष्पार्ण, तिग्मकेतु, इष, ऊर्ज, वसु और जय नामके छः पुत्र हुए॥ १२॥
वीरराघवः
वत्सरस्येष्टा शीलरूपगुणादिभिः नितरामनुकूला 20सर्वर्द्ध्याख्या भार्या पुष्पार्णादीन् षट् पुत्रानसूत सुषुवे ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः।
प्रातर्मध्यन्दिनं सायमिति ह्यासन् प्रभासुताः॥
मूलम्
पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः।
प्रातर्मध्यन्दिनं सायमिति ह्यासन् प्रभासुताः॥ १३ ॥
अनुवाद (हिन्दी)
पुष्पार्णके प्रभा और दोषा नामकी दो स्त्रियाँ थीं; उनमेंसे प्रभाके प्रातः, मध्यन्दिन और सायं—ये तीन पुत्र हुए॥ १३॥
वीरराघवः
तत्र षण्णां पुत्राणां मध्ये पुष्पार्णाख्यस्य ज्येष्ठस्य प्रभा दोषेति द्वे भार्ये बभूवतुः । तत्र प्रभायाः सुताः प्रातरादयस्त्रयो बभूवुः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रयः।
व्युष्टः सुतं पुष्करिण्यां सर्वतेजसमादधे॥
अनुवाद (हिन्दी)
दोषाके प्रदोष, निशीथ और व्युष्ट—ये तीन पुत्र हुए। व्युष्टने अपनी भार्या पुष्करिणीसे सर्वतेजा नामका पुत्र उत्पन्न किया॥ १४॥
वीरराघवः
दोषासुताः प्रदोषादयस्त्रयः आसन्। अत्र व्यु23ष्टिः पुष्करिण्याख्यायां भार्यायां सर्वतेज24साख्यं सुतमादधे जनयामास ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
स चक्षुः सुतमाकूत्यां पत्न्यां मनुमवाप ह।
मनोरसूत महिषी विरजान्नड्वला सुतान्॥
मूलम्
स चक्षुः सुतमाकूत्यां पत्न्यां मनुमवाप ह।
मनोरसूत महिषी 25विरजान्नड्वला सुतान्॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तमृतं व्रतम्।
अग्निष्टोममतीरात्रं प्रद्युम्नं शिबिमुल्मुकम्॥
मूलम्
26पुरुं कुत्सं त्रितं द्युम्नं सत्य27वन्तमृतं व्रतम्।
अग्निष्टोममतीरात्रं 28प्रद्युम्नं शिबिमुल्मुकम्॥ १६ ॥
अनुवाद (हिन्दी)
उसकी पत्नी आकूतिसे चक्षु नामक पुत्र हुआ। चाक्षुष मन्वन्तरमें वही मनु हुआ। चक्षु मनुकी स्त्री नड्वलासे पुरु, कुत्स, त्रित, द्युम्न, सत्यवान्, ऋत, व्रत, अग्निष्टोम, अतिरात्र, प्रद्युम्न, शिबि और उल्मुक—ये बारह सत्त्वगुणी बालक उत्पन्न हुए॥ १५-१६॥
वीरराघवः
स सर्व29तेजसः आकू30त्याख्यायां पत्न्यां चक्षुस्संज्ञं सुतमनुमवाप । मनोः चक्षुस्संज्ञस्य नड्वाख्या महिषी भार्या विरजान् शुद्धान् सुतान् पुरुप्रमुखान् द्वादश पुत्रान् असूत ॥ १५, १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
उल्मुकोऽजनयत्पुत्रान्पुष्करिण्यां षडुत्तमान्।
अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं गयम्॥
मूलम्
उल्मुकोऽजनयत्पुत्रान्पुष्करिण्यां षडुत्तमान्।
अङ्गं 31सुमनसं 32ख्यातिं क्रतु33मङ्गिरसं गयम्॥ १७ ॥
अनुवाद (हिन्दी)
इनमें उल्मुकने अपनी पत्नी पुष्करिणीसे अंग, सुमना, ख्याति, क्रतु, अंगिरा और गय—ये छः उत्तम पुत्र उत्पन्न किये॥ १७॥
वीरराघवः
तत्रोल्मुकः पुष्करिण्यां भार्यायाम् उत्तमान् श्रेष्ठान् अङ्गादीन् षट् पुत्रानजनयत् ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
सुनीथाङ्गस्य या पत्नी सुषुवे वेनमुल्बणम्।
यद्दौःशील्यात्स राजर्षिर्निर्विण्णो निरगात्पुरात्॥
मूलम्
सुनीथाङ्गस्य या पत्नी सुषुवे वेनमुल्वणम्।
यद्दौश्शील्यात्स राजर्षिर्निर्विण्णो निरगात्पुरात्॥ १८ ॥
अनुवाद (हिन्दी)
अंगकी पत्नी सुनीथाने क्रूरकर्मा वेनको जन्म दिया, जिसकी दुष्टतासे उद्विग्न होकर राजर्षि अंग नगर छोड़कर चले गये थे॥ १८॥
वीरराघवः
तत्राङ्गस्य या सुनीथाख्या भार्या सा उल्बणं दुरात्मानं वेननामकं पुत्रं सुषुवे । दौरात्म्यमेव प्रपञ्चयति - यदित्यादिना । यस्य वेनस्य दौश्शील्यात् दुष्टस्वभावाद्धेतोः स राजर्षिरङ्गः निर्विण्णः नितरां दुःखितः पुरान्निरगात् निर्गतः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
यमङ्ग शेपुः कुपिता वाग्वज्रा मुनयः किल।
गतासोस्तस्य भूयस्ते ममन्थुर्दक्षिणं करम्॥
मूलम्
यमङ्ग शेपुः कुपिता वाग्वज्रा मुनयः किल।
गतासोस्तस्य भूयस्ते ममन्थुर्दक्षिणं करम्॥ १९ ॥
वीरराघवः
हे अङ्ग ! हे विदुर ! मुनयः कुपिताः वेनेन कोपं प्रापिताः वागेव वज्रं येषां ते यं वेनं शेपुः किल शप्तवन्तः । शापाद्गतप्राणस्य तस्य वेनस्य दक्षिण करं हस्तं पुनस्ते मुनयो ममन्थुः मथितवन्तः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
अराजके तदा लोके दस्युभिः पीडिताः प्रजाः।
जातो नारायणांशेन पृथुराद्यः क्षितीश्वरः॥
मूलम्
अराजके तदा लोके दस्युभिः पीडिताः प्रजाः।
जातो नारायणांशेन 34पृथुराद्यः क्षितीश्वरः॥ २० ॥
अनुवाद (हिन्दी)
प्यारे विदुरजी! मुनियोंके वाक्य वज्रके समान अमोघ होते हैं; उन्होंने कुपित होकर वेनको शाप दिया और जब वह मर गया, तब कोई राजा न रहनेके कारण लोकमें लुटेरोंके द्वारा प्रजाको बहुत कष्ट होने लगा। यह देखकर उन्होंने वेनकी दाहिनी भुजाका मन्थन किया, जिससे भगवान् विष्णुके अंशावतार आदिसम्राट् महाराज पृथु प्रकट हुए॥ १९-२०॥
वीरराघवः
मथने हेतुमाह - अराजक इति । तदा शापानन्तरं लोके अराजके राज्ञा रहिते सति अत एव दस्युभिः पीडिताः प्रजा बभूवुः । तदा पृथुर्नाम आद्यः पुरग्रामादीनां तेन रचितत्वात् क्षितीश्वरो राजा नारायणांशेन जातः ॥ २० ॥
श्लोक-२१
मूलम् (वचनम्)
विदुर उवाच
विश्वास-प्रस्तुतिः
तस्य शीलनिधेः साधोर्ब्रह्मण्यस्य महात्मनः।
राज्ञः कथमभूद्दुष्टा प्रजा यद्विमना ययौ॥
मूलम्
तस्य शीलनिधेः साधोर्ब्रह्मण्यस्य महात्मनः।
राज्ञः कथमभूत् दुष्टा प्रजा यद्विमना ययौ॥ २१ ॥
अनुवाद (हिन्दी)
विदुरजीने पूछा—ब्रह्मन्! महाराज अंग तो बड़े शीलसम्पन्न, साधुस्वभाव, ब्राह्मण-भक्त और महात्मा थे। उनके वेन-जैसा दुष्ट पुत्र कैसे हुआ, जिसके कारण दुःखी होकर उन्हें नगर छोड़ना पड़ा॥ २१॥
वीरराघवः
35एवं दत्तप्रश्नावसरः क्षत्ता पृच्छति - तस्येति । शीलनिधेः सुस्वभावसद्वृत्त्याश्रयस्य अत एव ब्रह्मण्यस्य ब्राह्मणसेवापरायणस्य ब्रह्मनिष्ठस्येति वा । अत एव महात्मनः सार्वात्म्यब्रह्मोपासनपरमनोयुक्तस्य साधोः परकार्यसाधनशीलस्य तस्य अङ्गस्य राज्ञः दुष्टा प्रजा पुत्रः35 कथमभूत् अजायत 36यत् यतः दुष्टायाः प्रजाया हेतोर्विमनाः दुःखितमना ययौ पुरान्निर्गतः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
किं वांहो वेन उद्दिश्य ब्रह्मदण्डमयूयुजन्।
दण्डव्रतधरे राज्ञि मुनयो धर्मकोविदाः॥
अनुवाद (हिन्दी)
राजदण्डधारी वेनका भी ऐसा क्या अपराध था, जो धर्मज्ञ मुनीश्वरोंने उसके प्रति शापरूप ब्रह्मदण्डका प्रयोग किया॥ २२॥
वीरराघवः
दण्डः असाधुनिग्रहरूपो दण्डः स एव व्रतं तद्बिभर्तीति तत्तस्मिन् राज्ञि 39वेने धर्मकोविदा मुनयः किं वा अंहः अपराधम् उद्दिश्याऽऽलक्ष्य वेनं ब्रह्मदण्डं 40प्रति अयूयुजन् ब्रह्मशापेन युक्तं कृतवन्तः । प्रजापरिपालननिष्ठे राज्ञि शापकरणं मुनिभिरनुचितमिति भावः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
नावध्येयः प्रजापालः प्रजाभिरघवानपि।
यदसौ लोकपालानां बिभर्त्योजः स्वतेजसा॥
मूलम्
नावध्येयः प्रजापालः प्रजाभिरघवानपि।
यदसौ लोकपालानां बिभर्त्योजः स्वतेजसा॥ २३ ॥
अनुवाद (हिन्दी)
प्रजाका कर्तव्य है कि वह प्रजापालक राजासे कोई पाप बन जाय तो भी उसका तिरस्कार न करे; क्योंकि वह अपने प्रभावसे आठ लोकपालोंके तेजको धारण करता है॥ २३॥
वीरराघवः
तदेवाह - नेति । अघवानपि अपराध्यपि प्रजापालः राजा प्रजाभिर्नावध्येयः अवज्ञेयो न भवति यत् यस्मादसौ प्रजापालः लोकपालानामोजः स्वतेजसा बिभर्ति ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
एतदाख्याहि मे ब्रह्मन् सुनीथात्मजचेष्टितम्।
श्रद्दधानाय भक्ताय त्वं परावरवित्तमः॥
मूलम्
एतदाख्याहि मे ब्रह्मन् सुनीथात्मजचेष्टितम्।
श्रद्दधानाय भक्ताय त्वं परावरवित्तमः॥ २४ ॥
अनुवाद (हिन्दी)
ब्रह्मन्! आप भूत-भविष्यकी बातें जाननेवालोंमें सर्वश्रेष्ठ हैं, इसलिये आप मुझे सुनीथाके पुत्र वेनकी सब करतूतें सुनाइये। मैं आपका श्रद्धालु भक्त हूँ॥ २४॥
वीरराघवः
हे ब्रह्मन् ! एतत् सुनीथात्मजस्य 41वेनस्य चेष्टितं श्रद्दधानाय शुश्रूषात्वरायुक्ताय भक्ताय 42मे मह्यम् अनेन स्वस्य श्रवणे योग्यतोक्ता । परावरवित्तमः परः परमात्माः अवरः प्रकृतिपुरुषादिः तद्विदां मध्ये श्रेष्ठस्त्वम्, अनेन 43श्रावणे योग्यतोक्ता । आख्याहि कथय ॥ २४ ॥
श्लोक-२५
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
अङ्गोऽश्वमेधं राजर्षिराजहार महाक्रतुम्।
नाजग्मुर्देवतास्तस्मिन्नाहूता ब्रह्मवादिभिः॥
मूलम्
अङ्गोऽश्वमेधं राजर्षिराजहार महा44क्रतुम्।
नाऽऽजग्मुर्देवतास्तस्मिन्नाहूता ब्रह्मवादिभिः॥ २५ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजीने कहा—विदुरजी! एक बार राजर्षि अंगने अश्वमेध-महायज्ञका अनुष्ठान किया। उसमें वेदवादी ब्राह्मणोंके आवाहन करनेपर भी देवतालोग अपना भाग लेने नहीं आये॥ २५॥
वीरराघवः
एवमापृष्टो मुनिः ब्रह्मवित् काम्यकर्मणि बलादापातितोऽपि तेन न 45सुख्यतीति द्योतयन्46 अङ्गस्य पुत्रोत्पत्तिक्रममाह - अङ्ग इत्यादिना । राजा चासौ ऋषिः अङ्गः क्रतूनां मध्ये उत्तममश्वमेधमाजहार आरब्धवान् । तस्मिन्नश्वमेधे क्रतौ ब्रह्मवादिभिः श्रुताध्ययनादिसम्पन्नैः ऋत्विग्भिराहूताः सत्यः देवता नाऽऽजग्मुः नाऽऽगतवत्यः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
तमूचुर्विस्मितास्तत्र यजमानमथर्त्विजः।
हवींषि हूयमानानि न ते गृह्णन्ति देवताः॥
अनुवाद (हिन्दी)
तब ऋत्विजोंने विस्मित होकर यजमान अंगसे कहा—‘राजन्! हम आहुतियोंके रूपमें आपका जो घृत आदि पदार्थ हवन कर रहे हैं, उसे देवतालोग स्वीकार नहीं करते॥ २६॥
वीरराघवः
हे तात ! 49ऋत्विजो विस्मिता यजमानमङ्गमूचुः । 50उक्तिमेवाह ते त्वया त्वत्सम्बन्धीनि हूयमानानि देवतोद्देशेन प्रक्षेपपूर्वकं त्यक्तानि अयातयामानि अगतवीर्याणि सारवन्तीत्यर्थः । हर्वीषि पुरोडाशादीनि देवता न गृह्णन्ति ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
राजन् हवींष्यदुष्टानि श्रद्धयाऽऽसादितानि ते।
छन्दांस्ययातयामानि योजितानि धृतव्रतैः॥
मूलम्
राजन् हर्वीष्यदुष्टानि श्रद्ध51याऽऽसादितानि ते।
छन्दांस्ययातयामानि योजितानि धृतव्रतैः॥ २७ ॥
अनुवाद (हिन्दी)
हम जानते हैं आपकी होम-सामग्री दूषित नहीं है; आपने उसे बड़ी श्रद्धासे जुटाया है तथा वेदमन्त्र भी किसी प्रकार बलहीन नहीं हैं; क्योंकि उनका प्रयोग करनेवाले ऋत्विज्गण याजकोचित सभी नियमोंका पूर्णतया पालन करते हैं॥ २७॥
वीरराघवः
हे राजन् ! हर्वीषि अदुष्टानि शुद्धानि ते त्वया श्रद्ध52या साधितानि सम्पादितानि च तथा छन्दांसि क्रत्वङ्गभूता मन्त्रा अयातयामानि स्वरवर्णादिभिरगतवीर्याणि । तत्र हेतुः - दृढव्रतैः स्वरवर्णादियुक्तत्वेन मन्त्रोच्चरणमेव दृढं व्रतं येषां तैः ऋत्विग्भिर्योजितानि प्रयुक्तानि ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
न विदामेह देवानां हेलनं वयमण्वपि।
यन्न गृह्णन्ति भागान् स्वान् ये देवाः कर्मसाक्षिणः॥
मूलम्
न विदामेह देवानां हेलनं वयमण्वपि।
यन्न गृह्णन्ति भागान् स्वान् ये देवाः कर्मसाक्षिणः॥ २८ ॥
अनुवाद (हिन्दी)
हमें ऐसी कोई बात नहीं दीखती कि इस यज्ञमें देवताओंका किंचित् भी तिरस्कार हुआ है—फिर भी कर्माध्यक्ष देवतालोग क्यों अपना भाग नहीं ले रहे हैं?’॥ २८॥
वीरराघवः
एवं यथावत् अनुष्ठीयमाने क्रतौ देवहेलनं देवान् प्रति हेलनमपराधमणु अल्पमपि वयं न विदामो न जानीमः । यत् यस्मात् हेलनात् स्वकीयान् भागान् कर्मसाक्षिणः कर्म53णि गुणदोषद्रष्टारो देवा न गृह्णन्ति, अतोऽवश्यं केनचित् देवहेलनेन भवितव्यं, परन्तु तद्वयं न विदाम इत्यर्थः ॥ २८ ॥
श्लोक-२९
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
अङ्गो द्विजवचः श्रुत्वा यजमानः सुदुर्मनाः।
तत्प्रष्टुं व्यसृजद्वाचं सदस्यांस्तदनुज्ञया॥
मूलम्
अङ्गो द्विजवचः श्रुत्वा यजमानः सुदुर्मनाः।
तत्प्रष्टुं व्यसृजद्वाचं सदस्यांस्तदनुज्ञया॥ २९ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—ऋत्विजोंकी बात सुनकर यजमान अंग बहुत उदास हुए। तब उन्होंने याजकोंकी अनुमतिसे मौन तोड़कर सदस्योंसे पूछा॥ २९॥
वीरराघवः
एवं ऋत्विग्भिरुक्तोऽङ्गः तानाहेत्याह मुनिः । द्विजवचः श्रुत्वा अथानन्तरं सुतरां दुःखितमना यजमानोऽङ्गः यज्ञे गृहीतमौनोऽपि सदस्यान् सदसि स्थितान् प्रति तदनुज्ञया सदस्यानुज्ञया त्यक्तमौनः तद्देवतानागमनकारणं प्रष्टुंवाचं व्यसृजत् प्रायुङ्क्त ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
नागच्छन्त्याहुता देवा न गृह्णन्ति ग्रहानिह।
सदसस्पतयो ब्रूत किमवद्यं मया कृतम्॥
मूलम्
नागच्छन्त्याहुता देवा न गृह्णन्ति ग्रहानिह।
सदसस्पतयो ब्रूत किमवद्यं मया कृतम्॥ ३० ॥
अनुवाद (हिन्दी)
‘सदस्यो! देवतालोग आवाहन करनेपर भी यज्ञमें नहीं आ रहे हैं और न सोमपात्र ही ग्रहण करते हैं; आप बतलाइये मुझसे ऐसा क्या अपराध हुआ है?’॥ ३०॥
वीरराघवः
वाग्विसर्गमेवाह - नागच्छन्तीति । इह क्रतौ देवता आहूता नागच्छन्ति ग्रहान् सोमपात्राणि न गृह्णन्ति, हे सदसस्पतयः ! मया किमवद्यं हेलनं कृतं तद्यूयं ब्रूत ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
नरदेवेह भवतो नाघं तावन्मनाक् स्थितम्।
अस्त्येकं प्राक्तनमघं यदिहेदृक् त्वमप्रजः॥
मूलम्
नरदेवेह भवतो 55नाघं तावन्मनाक् स्थितम्।
अस्त्येकं प्राक्तनमघं यदिहेदृक् त्वमप्रजः॥ ३१ ॥
अनुवाद (हिन्दी)
सदस्योंने कहा—राजन्! इस जन्ममें तो आपसे तनिक भी अपराध नहीं हुआ; हाँ, पूर्वजन्मका एक अपराध अवश्य है, जिसके कारण आप ऐसे सर्वगुण-सम्पन्न होनेपर भी पुत्रहीन हैं॥ ३१॥
वीरराघवः
हे नरदेव ! इह जन्मनि भवतः ब्रह्मविदः तावन्मनागीषद56प्यघं न स्थितं किन्तु प्राक्तनमेकमघमस्ति यद्यस्मादघादीदृक् गुणाधिको57ऽपि त्वम58प्रजः प्रजारहितो 59बभूविथ ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
तथा साधय भद्रं ते आत्मानं सुप्रजं नृप।
इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक्॥
अनुवाद (हिन्दी)
आपका कल्याण हो! इसलिये पहले आप सुपुत्र प्राप्त करनेका कोई उपाय कीजिये। यदि आप पुत्रकी कामनासे यज्ञ करेंगे, तो भगवान् यज्ञेश्वर आपको अवश्य पुत्र प्रदान करेंगे॥ ३२॥
वीरराघवः
अतो देवा यथा हवींषि गृह्णीयुः तथाऽऽत्मानं सप्रजं सपुत्रं साधय । कथं साधनीयं तन्ना62हुः - इष्ट इति । यज्ञभुक् भगवान् पुत्रं कामयमानस्य ते त्वया इष्ट इज्यमानस्तुभ्यं पुत्रं दास्यति ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
तथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः।
यद्यज्ञपुरुषः साक्षादपत्याय हरिर्वृतः॥
मूलम्
63तथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः।
यद्यज्ञपुरुषः साक्षादपत्याय हरिर्वृतः॥ ३३ ॥
अनुवाद (हिन्दी)
जब सन्तानके लिये साक्षात् यज्ञपुरुष श्रीहरिका आवाहन किया जायगा, तब देवतालोग स्वयं ही अपना-अपना यज्ञ-भाग ग्रहण करेंगे॥ ३३॥
वीरराघवः
64तथा तथा सति दिवौकसो देवाः स्वभागधेयानि स्वभागान् “भागरूपनामभ्यो धेयः” (वार्तिक under अष्टा 5-4-25) इति स्वार्थे धेयप्रत्ययः । ग्रहीष्यन्ति । यद्यतः यज्ञपुरुषो हरिः साक्षादपत्याय पुत्रार्थं वृतस्स्यात् अतस्तेन सह सर्वे देवा आगमिष्यन्तीत्यर्थः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
तांस्तान् कामान् हरिर्दद्याद्यान् यान् कामयते जनः।
आराधितो तथैवैष यथा पुंसां फलोदयः॥
मूलम्
तांस्तान् कामान् हरिर्दद्याद्यान् यान् कामयते 65जनः।
आराधितो यथैवैष यथा पुंसां फलोदयः॥ ३४ ॥
अनुवाद (हिन्दी)
भक्त जिस-जिस वस्तुकी इच्छा करता है, श्रीहरि उसे वही-वही पदार्थ देते हैं। उनकी जिस प्रकार आराधना की जाती है उसी प्रकार उपासकको फल भी मिलता है॥ ३४॥
वीरराघवः
नन्वतितुच्छान् कामान् हरिः कथं दद्यात् तन्ना66हुः - तांस्तानिति । जनो यान् 67यान् कामान् प्रार्थयते तांस्तान् हरिर्दद्यात् यथा येन प्रकारेण भगवानाराधितो जनैः तेषां तथा स्वस्वकामानुसारेण फलोदयः फलावाप्तिर्भवति ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
इति व्यवसिता विप्रास्तस्य राज्ञः प्रजातये।
पुरोडाशं निरवपन् शिपिविष्टाय विष्णवे॥
मूलम्
इति व्यवसिता विप्रास्तस्य राज्ञः प्रजातये।
पुरोडाशं निरवपन् शिपिविष्टाय विष्णवे॥ ३५ ॥
अनुवाद (हिन्दी)
इस प्रकार राजा अंगको पुत्रप्राप्ति करानेका निश्चय कर ऋत्विजोंने पशुमें यज्ञरूपसे रहनेवाले श्रीविष्णुभगवान्के पूजनके लिये पुरोडाश नामक चरु समर्पण किया॥ ३५॥
वीरराघवः
इत्थं व्यवसिता निश्चिन्वाना ऋत्विजः राज्ञोऽङ्गस्य प्रजातये प्रजोत्पत्यै शिपिविष्टाय शिपिविष्टत्वगुणविशिष्टाय विष्णवे पुरोडाशं निरवपन् । शिपिभिः रश्मिभिः 68विष्टः आविष्टः शिपिविष्टः तस्मै । तथा च मन्त्रः “किमित्ते विष्णोपरि चक्ष्यं भूत्प्रयद्वक्षे शिपिविष्टोऽस्मि” (ऋक्.सं. 7-100-6) इत्यादिः, अर्थवादश्च पशोर्भूमा या पृष्टिस्तद्विष्णुः शिपिविष्ट इत्यादिः । निरुक्तं च “यदुत प्रब्रूषे शिपिविष्टोऽस्मीति प्रतिपन्नरश्मिः शिपयोऽत्र रश्मय उच्यन्ते तैराविष्टो भवतीति ।” यद्वा शिपिषु पशुषु यज्ञरूपेण प्रविष्टाय । तथा च श्रुतिः - “यज्ञो वै विष्णुः पशवः शिपिर्यज्ञ एव पशुषु प्रतितिष्ठति” (शतपथ ब्रा.) इति ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
तस्मात्पुरुष उत्तस्थौ हेममाल्यमलाम्बरः।
हिरण्मयेन पात्रेण सिद्धमादाय पायसम्॥
मूलम्
तस्मात्पुरुष उत्तस्थौ हेममाल्यमलाम्बरः।
हिरण्मयेन पात्रेण सिद्धमादाय पायसम्॥ ३६ ॥
अनुवाद (हिन्दी)
अग्निमें आहुति डालते ही अग्निकुण्डसे सोनेके हार और शुभ्र वस्त्रोंसे विभूषित एक पुरुष प्रकट हुए; वे एक स्वर्णपात्रमें सिद्ध खीर लिये हुए थे॥ ३६॥
वीरराघवः
तस्मात् अग्नेरित्यर्थः । अर्थसामर्थ्यात् हेममयानि माल्यानि 69अमलाम्बराणि च यस्य सः पुरुषः हिरण्मयपात्रेण सिद्धं सम्यक् पक्वं पायसान्नम् औदाय गृहीत्वा उत्तस्थौ उत्थितवान् ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम्।
अवघ्राय मुदा युक्तः प्रादात्पत्न्या उदारधीः॥
मूलम्
स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम्।
अवघ्राय मुदा युक्तः प्रादात्पत्न्या उदारधीः॥ ३७ ॥
अनुवाद (हिन्दी)
उदारबुद्धि राजा अंगने याजकोंकी अनुमतिसे अपनी अंजलिमें वह खीर ले ली और उसे स्वयं सूँघकर प्रसन्नतापूर्वक अपनी पत्नीको दे दिया॥ ३७॥
वीरराघवः
बुद्धिमान् स राजा अङ्गः विप्रानुमतः विप्रैरभ्यनुज्ञातः अञ्जलिना ओदनं पायसं गृहीत्वा स्वयमाघ्राय हर्षेण युक्तः पत्न्यै प्रादात् ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
सा तत्पुंसवनं राज्ञी प्राश्य वै पत्युरादधे।
गर्भं काल उपावृत्ते कुमारं सुषुवेऽप्रजा॥
अनुवाद (हिन्दी)
पुत्रहीना रानीने वह पुत्र प्रदायिनी खीर खाकर अपने पतिके सहवाससे गर्भ धारण किया। उससे यथासमय उसके एक पुत्र हुआ॥ ३८॥
वीरराघवः
सा राज्ञी राज्ञः स्त्री सुनीथा पुंसवनं पुमांसं सूते अनेनेति पुंसवनं तदोदनं प्राश्य भुक्त्वा पत्युः सकाशात् गर्भमादधे धृतवती । अप्रजाः सती गर्भकाले गर्भधारणकाले उपावृत्ते अतीते सति कुमारं सुषुवे ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
स बाल एव पुरुषो मातामहमनुव्रतः।
अधर्मांशोद्भवं मृत्युं तेनाभवदधार्मिकः॥
मूलम्
स बाल एव पुरुषो मातामहमनुव्रतः।
अधर्मांसोद्भवं मृत्युं तेनाभवदधार्मिकः॥ ३९ ॥
अनुवाद (हिन्दी)
वह बालक बाल्यावस्थासे ही अधर्मके वंशमें उत्पन्न हुए अपने नाना मृत्युका अनुगामी था (सुनीथा मृत्युकी ही पुत्री थी); इसलिये वह भी अधार्मिक ही हुआ॥ ३९॥
वीरराघवः
सः पुरुषः कुमारो बाल एव बाल्यात्प्रभृतीत्यर्थः, अधर्मांशोद्भवं मातामहं मृत्युं मृत्योर्हि पुत्री सुनीथा अनुव्रतः अनुसृतोऽभूत् । तेन मातामहानुसारेणाऽयमपि अधार्मिकोऽभवत् ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
स शरासनमुद्यम्य मृगयुर्वनगोचरः।
हन्त्यसाधुर्मृगान् दीनान् वेनोऽसावित्यरौज्जनः॥
मूलम्
स शरासनमुद्यम्य मृगयुर्वनगोचरः।
हन्त्यसाधुर्मृगान् दीनान् वेनोऽसावित्यरौज्जनः॥ ४० ॥
अनुवाद (हिन्दी)
वह दुष्ट वेन धनुष-बाण चढ़ाकर वनमें जाता और व्याधके समान बेचारे भोले-भाले हरिणोंकी हत्या करता। उसे देखते ही पुरवासीलोग ‘वेन आया! वेन आया!’ कहकर पुकार उठते॥ ४०॥
वीरराघवः
अधार्मिकत्वमेव प्रपञ्चयति - स इति । स आङ्गः शरासनं धनुरुद्यम्य धनुष्यारोपितशर इत्यर्थः । मृगयुर्लुब्धकस्सन् अत एव वनगोचरः असाधुः दीनान् मृगान् हन्ति अवधीत् तं दृष्ट्वाऽसौ वेन आगच्छतीति सर्वो जनः 72अरौत् चुक्रोश ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
आक्रीडे क्रीडतो बालान् वयस्यानतिदारुणः।
प्रसह्य निरनुक्रोशः पशुमारममारयत्॥
मूलम्
आक्रीडे क्रीडतो बालान् वयस्यान73तिदारुणः।
प्रसह्य निरनुक्रोशः पशुमारममारयत्॥ ४१ ॥
अनुवाद (हिन्दी)
वह ऐसा क्रूर और निर्दयी था कि मैदानमें खेलते हुए अपनी बराबरीके बालकोंको पशुओंकी भाँति बलात् मार डालता॥ ४१॥
वीरराघवः
आक्रीडे क्रीडास्थाने 74क्रीडतः बालान् वय75स्यान् यूनोऽपि दारुणः क्रूरः अत एव निरनुक्रोशः कृपारहितस्सन् पशुमारममारयत् पशूनिवामारयत् ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
तं विचक्ष्य खलं पुत्रं शासनैर्विविधैर्नृपः।
यदा न शासितुं कल्पो भृशमासीत्सुदुर्मनाः॥
मूलम्
76तं 77विचक्ष्य खलं पुत्रं शासनैर्विविधैर्नृपः।
78यदा न शासितुं 79कल्यो भृशमासीत्सुदुर्मनाः॥ ४२ ॥
अनुवाद (हिन्दी)
वेनकी ऐसी दुष्ट प्रकृति देखकर महाराज अंगने उसे तरह-तरहसे सुधारनेकी चेष्टा की; परन्तु वे उसे सुमार्गपर लानेमें समर्थ न हुए। इससे उन्हें बड़ा ही दुःख हुआ॥ ४२॥
वीरराघवः
स नृपः अङ्गः खलं दुरात्मानं पुत्रं नानाविधैः शासनैः सामाद्युपायैः विचक्ष्यानुशास्येत्यर्थः । यदा 80शासितुं न कल्यः न समर्थः तदा80 भृशं नितरां सुदुर्मनाः दुःखितमनाः आसीत् ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
प्रायेणाभ्यर्चितो देवो येऽप्रजा गृहमेधिनः।
कदपत्यभृतं दुःखं ये न विन्दन्ति दुर्भरम्॥
मूलम्
प्रायेणाभ्यर्चितो देवो येऽप्रजा गृहमेधिनः।
कदपत्य81कृतं दुःखं ये न विन्दन्ति दुर्भरम्॥ ४३ ॥
अनुवाद (हिन्दी)
(वे मन-ही-मन कहने लगे—) ‘जिन गृहस्थोंके पुत्र नहीं हैं, उन्होंने अवश्य ही पूर्वजन्ममें श्रीहरिकी आराधना की होगी; इसीसे उन्हें कुपूतकी करतूतोंसे होनेवाले असह्य क्लेश नहीं सहने पड़ते॥ ४३॥
वीरराघवः
तस्य कुपुत्रनिन्दावाक्यान्याह त्रिभिः । ये गृहमेधिनो गृहाश्रमिणः अप्रजा अपुत्रा ये च पुत्रिणोऽपि कुत्सितापत्यकृतं दुर्भरं धारयितुमशक्यं दुःखं न विन्दन्ति न लभन्ते । तैः भगवान् देवः प्रायेणाभ्यर्चितः ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
यतः पापीयसी कीर्तिरधर्मश्च महान्नृणाम्।
यतो विरोधः सर्वेषां यत आधिरनन्तकः॥
मूलम्
यतः पापीयसी कीर्तिरधर्मश्च महान्नृणाम्।
यतो विरोधः सर्वेषां यत आधिरनन्तकः॥ ४४ ॥
वीरराघवः
यतः कदपत्यात् पापीयसी कीर्तिः अपकीर्तिः महानधर्मश्च नृणां भवेत् यथा यतः कदपत्यात् सर्वेषां विरोधः अनन्तकोऽपारः आधिः मानसी व्यथा च जायते ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
कस्तं प्रजापदेशं वै मोहबन्धनमात्मनः।
पण्डितो बहु मन्येत यदर्थाः क्लेशदा गृहाः॥
मूलम्
कस्तं प्रजापदेशं वै 82मोहबन्धनमात्मनः।
पण्डितो बहु मन्येत यदर्थाः क्लेशदा गृहाः॥ ४५ ॥
अनुवाद (हिन्दी)
जिसकी करनीसे माता-पिताका सारा सुयश मिट्टीमें मिल जाय, उन्हें अधर्मका भागी होना पडे़, सबसे विरोध हो जाय, कभी न छूटनेवाली चिन्ता मोल लेनी पडे़ और घर भी दुःखदायी हो जाय—ऐसी नाममात्रकी सन्तानके लिये कौन समझदार पुरुष ललचावेगा? वह तो आत्माके लिये एक प्रकारका मोहमय बन्धन ही है॥ ४४-४५॥
वीरराघवः
तं प्रजापदेशं पुत्रनाममात्रमपि आत्मनो मोहेन बन्धनं कः पण्डितो बहु मन्येत, यदर्था यत्पुत्रापदेशनिमित्ताः क्लेशसम्पादका गृहाः भवन्ति पुत्रापदेशमात्रमपि क्ले83शाकरगृहादिहेतुत्वेनाऽऽत्मनो बन्धकत्वात् पण्डितो न बहु मन्येतेत्यर्थः ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात्।
निर्विद्येत गृहान्मर्त्यो यत्क्लेशनिवहा गृहाः॥
मूलम्
कदपत्यं वरं मन्ये सदपत्याच्छु84चां पदात्।
निर्विद्येत गृहान्मर्त्यो यत्क्लेशनिवहा गृहाः॥ ४६ ॥
अनुवाद (हिन्दी)
मैं तो सपूतकी अपेक्षा कुपूतको ही अच्छा समझता हूँ; क्योंकि सपूतको छोड़नेमें बड़ा क्लेश होता है। कुपूत घरको नरक बना देता है, इसलिये उससे सहज ही छुटकारा हो जाता है’॥ ४६॥
वीरराघवः
इदानीं निर्वेदहेतुत्वेन कुत्सितमेवापत्यमभिनन्दति - कदपत्यमिति । शुचां पदात् शोकानां स्थानात् उत्तरोत्तरं गृहास85क्तिजननद्वारा संसारदुःखहेतुत्वादिति भावः । सदपत्यात् कदपत्यं वरं श्रेष्ठं मन्ये । वरत्वे हेतुः मर्त्यो गृहान्निर्विद्येत निर्वेदं प्राप्नुयात् । 86तत्कुतः ? यत्86 यतः कदपत्यात् गृहाः 87क्लेशनिवहाः87 शोकावहाः भवन्ति । कदपत्यं परमिति पाठे तस्य परत्वं वैराग्यहेतुत्वात् ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
एवं स निर्विण्णमना नृपो गृहा-
न्निशीथ उत्थाय महोदयोदयात्।
अलब्धनिद्रोऽनुपलक्षितो नृभि-
र्हित्वा गतो वेनसुवं प्रसुप्ताम्॥
मूलम्
एवं स निर्विण्णमना नृपो गृहान्निशीथ उत्थाय महोदयोदयात्।
अलब्धनिद्रोऽनुपलक्षितो नृभिः हित्वा गतो वेनसुवं प्रसुप्ताम्॥ ४७ ॥
अनुवाद (हिन्दी)
इस प्रकार सोचते-सोचते महाराज अंगको रातमें नींद नहीं आयी। उनका चित्त गृहस्थीसे विरक्त हो गया। वे आधी रातके समय बिछौनेसे उठे। इस समय वेनकी माता नींदमें बेसुध पड़ी थी। राजाने सबका मोह छोड़ दिया और उसी समय किसीको भी मालूम न हो, इस प्रकार चुपचाप उस महान् ऐश्वर्यसे भरे राजमहलसे निकलकर वनको चल दिये॥ ४७॥
वीरराघवः
एवमुक्तप्रका88रेण निर्विण्णमनाः सः नृपः अङ्गः महतामुदयानां विभूतीनामुदयः समृद्धिर्यस्मिन् तस्मात् गृहान्निशीथे उत्थाय अलब्धनिद्रः त्यक्तनिद्रः प्रसुप्तां वेनसुवं वेनस्य जननीं सुनीथां हित्वा नरै89रनुपलक्षितः अदृष्टः गतः, वनं प्रतीति शेषः ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
विज्ञाय निर्विद्य गतं पतिं प्रजाः
पुरोहितामात्यसुहृद्गणादयः।
विचिक्युरुर्व्यामतिशोककातरा
यथा निगूढं पुरुषं कुयोगिनः॥
मूलम्
विज्ञाय निर्विद्य गतं पतिं प्रजाः पुरोहितामात्यसुहृद्गणादयः।
विचिक्युरुर्व्यामतिशोककातरा यथा निगूढं पुरुषं कुयोगिनः॥ ४८ ॥
अनुवाद (हिन्दी)
महाराज विरक्त होकर घरसे निकल गये हैं, यह जानकर सभी प्रजाजन, पुरोहित, मन्त्री और सुहृद्गण आदि अत्यन्त शोकाकुल होकर पृथ्वीपर उनकी खोज करने लगे। ठीक वैसे ही जैसे योगका यथार्थ रहस्य न जाननेवाले पुरुष अपने हृदयमें छिपे हुए भगवान्को बाहर खोजते हैं॥ ४८॥
वीरराघवः
पुरोहितादयः सर्वाः प्रजाः पतिं राजानं निर्विद्य गतं निर्वेदं प्राप्य गतं विज्ञाय अत एव अत्यन्तशोकेन कातरास्सन्तः उर्व्यां 90पृथिव्यां विचिक्युः अन्वेषणं चक्रुः, तं तु तत्रैव सन्तमपि नापश्यन्निति दृष्टान्तेनाह - यथेति । निगूढं हृदये वसन्तमपि तिरोहितं पुरुषं परमपुरुषं यथा कुयोगिनोऽन्वेषयन्ति तथेति ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
अलक्षयन्तः पदवीं प्रजापते-
र्हतोद्यमाः प्रत्युपसृत्य ते पुरीम्।
ऋषीन् समेतानभिवन्द्य साश्रवो
न्यवेदयन् पौरव भर्तृविप्लवम्॥
मूलम्
अलक्षयन्तः पदवीं प्रजापतेः हतोद्यमाः प्रत्युपसृत्य ते पुरीम्।
ऋषीन् समेतानभिवन्द्य साश्रवो न्यवेदयन् पौरव भर्तृविप्लवम्॥ ४९ ॥
अनुवाद (हिन्दी)
जब उन्हें अपने स्वामीका कहीं पता न लगा, तब वे निराश होकर नगरमें लौट आये और वहाँ जो मुनिजन एकत्रित हुए थे, उन्हें यथावत् प्रणाम करके उन्होंने आँखोंमें आँसू भरकर महाराजके न मिलनेका वृत्तान्त सुनाया॥ ४९॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे त्रयोदशोऽध्यायः॥ १३॥
वीरराघवः
प्रजापतेः राज्ञः पदवीं मार्गमलक्षयन्तोऽजानन्तः अत एव हतप्रयत्नाः ते पुरोहितादयः पुरीं प्रत्युपसृत्य आगत्य हे पौरव ! विदुर ! साश्रवः शोकाश्रुसहिताः समेतान् सङ्घीभूतानृषीन् प्रणम्य भर्तुः विप्लवं नाशमदर्शनं न्यवेदयन् विज्ञापितवन्तः ॥ ४९ ॥
इति श्रीमद्भागवते चतुर्थस्कन्धे श्री वीरराघवविदुषा लिखितायां भागवत चन्द्रचन्द्रिकायां व्याख्यायां त्रयोदशोऽध्यायः ॥ १३ ॥
-
M,Ma,Ms श्रीशुक उवाच; Ma बादरायणिः ↩︎
-
A,B,T शुकः ↩︎
-
A,B,T प्रवृद्धः ↩︎
-
A,B,T omit विदुरः ↩︎
-
B,J,Ma,W ते ↩︎
-
A.B,T omit वंशे ↩︎
-
M,Ma,Ms पुरुषोत्तमः ↩︎
-
A,B,T ताः धर्माः ↩︎
-
A,B,T श्रावयति ↩︎
-
W भूतं ↩︎
-
W शान्तं ↩︎
-
W तं ↩︎
-
A,B,T omit दृश्यते ↩︎
-
W omits स्व ↩︎
-
M,Ma,Ms नान्यदस्मात्त; W नात्मनोऽन्यत्त ↩︎
-
A,B,G,I,J,M,Ma,Ms,T स्वर्वीथि ↩︎
-
V चन्द्र ↩︎
-
A,B,T स्वर्वीध्याख्या ↩︎
-
A,B,G,I,J,M,Ma,Ms,T ष्टः ↩︎
-
A,B,G,I,J,M,Ma,Ms,T ष्टः ↩︎
-
A,B,T ष्टः ↩︎
-
A,B,T आख्यं ↩︎
-
M,Ma,Ms वैराजा नड्वला ↩︎
-
M,Ma,Ms पुरुकुत्सं ↩︎
-
M,Ma,Ms व्रतमृतव्रतम् ↩︎
-
M,Ma,Ms सु ↩︎
-
A,B,T तेजा ↩︎
-
A,B,T तिनाम्न्यां ↩︎
-
M,Ma सुनासमाख्यातिं ↩︎
-
Ms,W स्वातिं ↩︎
-
M,Ma,Ms मा ↩︎
-
M,Ma पृथुः पृथुपराक्रमः ↩︎
-
A,B,T omit यत् ↩︎
-
A,B,G,I,J,Ms,T वांहो ↩︎
-
A,B,G,I,J,Ms,T,V वेन उ ↩︎
-
A,B,T omit वेने ↩︎
-
A,B,T omit प्रति ↩︎
-
A,B,T omit वेनस्य ↩︎
-
W omits मे ↩︎
-
A,B,T कथने ↩︎
-
W क्रतूत्तमम् ↩︎
-
A,B,T तुष्यतीति ↩︎
-
A,B,T add अत्र ↩︎
-
Ms,V त ऊचु ↩︎
-
A,B,G,I,J,T,V स्तत्र ↩︎
-
A,B,T add ते ↩︎
-
A,B,T उक्त ↩︎
-
W या साधि ↩︎
-
A,B,T याऽऽसादि ↩︎
-
A,T णां ↩︎
-
M,Ma नावद्यं हि मनाक्; Ms नावद्यं किञ्चनाऽऽस्थितम् ↩︎
-
A,B,T प्यवद्यं ↩︎
-
B,T omit अपि ↩︎
-
A omits अप्रजः ↩︎
-
A omits बभूविथ ↩︎
-
M,Ma सादय ↩︎
-
A,B,G,I,J,T,V सु ↩︎
-
W ह ↩︎
-
M,Ma,Ms यथा ↩︎
-
A,B,T omit तथा ↩︎
-
V नरः ↩︎
-
W ह ↩︎
-
A,B,T omit यान् ↩︎
-
W निविष्टः ↩︎
-
A,B,T omit आदाय ↩︎
-
M,Ma,Ms प्रश्यर्तौ ↩︎
-
M,Ma ततः काले; W गर्भकाले ↩︎
-
W व्यरौत् ↩︎
-
W पि ↩︎
-
A,B,T omit क्रीडतः ↩︎
-
T स्थान ↩︎
-
V स ↩︎
-
M,Ma,Ms विलक्ष्य ↩︎
-
W यन्नं शासयितुं ↩︎
-
A,B,G,I,J,M,Ma,T कल्पो ↩︎
-
A,B,G,I,J,M,Ma,Ms,T भृत ↩︎
-
M,Ma मोहं ↩︎
-
A,B,T क्लेश ↩︎
-
M,Ma चा ↩︎
-
W त्ति ↩︎
-
W रं ↩︎
-
W रनव ↩︎
-
W पृथ्व्यां ↩︎