१२ ध्रुवचरितम्

[द्वादशोऽध्यायः]

भागसूचना

ध्रुवजीको कुबेरका वरदान और विष्णुलोककी प्राप्ति

श्लोक-१

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

ध्रुवं निवृत्तं प्रतिबुद्‍ध्य वैशसा-
दपेतमन्युं भगवान् धनेश्वरः।
तत्रागतश्चारणयक्षकिन्नरैः
संस्तूयमानोऽभ्यवदत्कृताञ्जलिम्॥

मूलम्

ध्रुवं निवृत्तं प्रतिबुद्‍ध्य वैशसा दपेत1मन्युं भगवान् धनेश्वरः।
तत्राऽऽगतश्चारणयक्षकिन्नरैः संस्तूयमानोऽभ्यवदत्कृताञ्जलिम्॥ १ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! ध्रुवका क्रोध शान्त हो गया है और वे यक्षोंके वधसे निवृत्त हो गये हैं, यह जानकर भगवान् कुबेर वहाँ आये। उस समय यक्ष, चारण और किन्नरलोग उनकी स्तुति कर रहे थे। उन्हें देखते ही ध्रुवजी हाथ जोड़कर खड़े हो गये। तब कुबेरने कहा॥ १॥

वीरराघवः

एवं पितामहेन स्वायम्भुवेनानुशिष्टः 2औत्तानपादिः पुण्यजनवधान्निवृत्तः कुबेराल्लब्धवरः स्वधर्माराधितगोविन्दो गुप्ताखिलक्षितिमण्डलो लब्धध्रुवक्षिति3र्बभूवेत्याह मुनिः द्वाद4शे ध्रुवमिति5स्वायम्भुवो5पदेशेनापगतक्रोधम् अत एव वैशसात् 6पुण्यजनानां6 वधान्निवृत्तं ध्रुवं प्रतिबुद्धय ज्ञात्वा भगवान् धनेश्वरस्तत्र ध्रुवसन्निधौ आगतः चारणादिभिः संस्तूयमानः बद्धाञ्जलिं ध्रुवमभ्यवदत् उवाच ॥ १ ॥

श्लोक-२

मूलम् (वचनम्)

धनद उवाच

विश्वास-प्रस्तुतिः

भो भोः क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ।
यस्त्वं पितामहादेशाद्वैरं दुस्त्यजमत्यजः॥

मूलम्

भो 7भो क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ!
8यस्त्वं पितामहादेशाद्वैरं दुस्त्यजमत्यजः॥ २ ॥

अनुवाद (हिन्दी)

श्रीकुबेरजी बोले—शुद्धहृदय क्षत्रियकुमार! तुमने अपने दादाके उपदेशसे ऐसा दुस्त्यज वैर त्याग दिया; इससे मैं तुमपर बहुत प्रसन्न हूँ॥ २॥

वीरराघवः

9उक्ति मेवाऽऽह - भो भो इति षड्भिः । हे क्षत्रियदायाद ! क्षत्रियपुत्र ! 10ध्रुव ! क्रोधत्याग निमित्तहर्षातिशयात् द्विरुक्तिः, हे अनघ ! यक्षवधनिमित्तपापरहित ! ते तुभ्यं परितुष्टोऽस्मि । कुतः ? यद्यस्मात् पितामहस्य स्वायम्भुवस्यादेशादनुशासनात् दुस्त्यजमपि वैरमत्यजः त्यक्तवानसि ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

न भवानवधीद्यक्षान्न यक्षा भ्रातरं तव।
काल एव हि भूतानां प्रभुरप्ययभावयोः॥

मूलम्

न भवान्नवधीद्यक्षान्न यक्षा भ्रातरं तव।
काल एव हि भूतानां प्रभुरप्ययभावयोः॥ ३ ॥

अनुवाद (हिन्दी)

वास्तवमें न तुमने यक्षोंको मारा है और न यक्षोंने तुम्हारे भाईको। समस्त जीवोंकी उत्पत्ति और विनाशका कारण तो एकमात्र काल ही है॥ ३॥

वीरराघवः

ननु नाऽहमनघः पुण्यजनहननकर्तृत्वनिमित्तपापसम्बन्धात् तत्रऽऽह - नेति । भवान् यक्षान् न हतवान्, नाऽपि यक्षास्त्वद्भ्रातरं हतवन्तः । कुतः ? हि यस्मात् भूतानामप्ययभावयोः मरणोत्पत्त्योः कालः 10कालशरीरक ईश्वर एव प्रभुः समर्थः 11कारणमित्यर्थः11 ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

अहं त्वमित्यपार्था धीरज्ञानात्पुरुषस्य हि।
स्वाप्नीवाभात्यतद्‍ध्यानाद्यया बन्धविपर्ययौ॥

मूलम्

अहं त्वमित्यपार्था धीरज्ञानात्पुरुषस्य हि।
स्वाप्नी 12वा13भात्यतद्‍ध्यानाद्यया बन्धविपर्य14यौ॥ ४ ॥

अनुवाद (हिन्दी)

यह मैं-तू आदि मिथ्याबुद्धि तो जीवको अज्ञानवश स्वप्नके समान शरीरादिको ही आत्मा माननेसे उत्पन्न होती है। इसीसे मनुष्यको बन्धन एवं दुःखादि विपरीत अवस्थाओंकी प्राप्ति होती है॥ ४॥

वीरराघवः

ननु हन्तृत्वं तत्प्रयुक्तस्वेदश्रमादिकं च मया यक्षैश्चापरोक्ष मनुभूयमानमप15ह्नुत्य ईश्वर एवं कथं हन्ता इत्युच्यते तत्राह - अहं त्वमिति । पुरुषस्याज्ञानात् देहविलक्षणात्मयाथात्म्यज्ञानाभावात् अतत् देहः तस्य ध्यानात् । असद्ध्यानादिति पाठेऽप्ययमेवार्थः । अहं त्वमिति अत्र हन्तेत्यध्याह्रियते । सामर्थ्यात् देवादि देहेषु तत्संसृष्टेषु जीवेषु च अहं हन्ता त्वं हन्ता इत्येवंरूपा अत एवाऽपार्था अर्थशून्या । अहं त्वमिति प्रतीतौ योऽर्थो विषयः प्रत्यग्रूपः तद्रहिता हन्तेति प्रतीतौ योऽर्थो विषयः तद्रहिता च अन्यथाज्ञानविपरीतज्ञानरूपेति यावत्, “16धीः बुद्धिः स्वाप्नीव स्वाप्नधीरिव आभाति । धर्म्यन्तरे धर्मान्तरप्रतीतिरन्यथाज्ञानं, यथा पीतः शंख इति शुक्ले पीतिम्नः प्रतीतिः । धर्म्यन्तरस्य धर्म्यन्तरत्वेन प्रतीतिर्विपरीतज्ञानं - यथेदं रजतमिति । शुक्तित्वाश्रयस्य धर्मिणो रजतत्वाश्रयत्वेन प्रतीतिः । हन्ताऽहमितिज्ञानं तु उभयविधमपि अहमर्थस्य देहरूपधर्मिणोऽहमर्थात्मरूपधर्म्यन्तरत्वेन प्रतीतेः विपरीत ज्ञानरूपत्वम् । अहन्तरि आत्मनि देहे च हन्तृत्वादिरूप धर्मान्तरप्रतीतेः अन्यथाज्ञानरूपत्वं च आभाति प्रतीयत इत्यर्थः । प्रतीतिः प्रमित्यप्रमितिसाधारणं ज्ञानम् । आत्मनोऽहन्तृत्वादिकं भगवता गीतं य एनं वेति हन्तारं यश्चैनं मन्यते हतं, उभौ तौ न विजानीतो नाऽयं हन्ति न हन्यते ॥" (भ.गी. 2-19) इति यद्यपि अहन्तुरात्मनोऽज्ञानाद्धन्तृत्वा-दिप्रतीतिमात्रं तथाऽपि देहस्य तदस्त्येवेति चेत्, मैवं, देहस्याऽपि नित्यं जातमृतस्य तदभावात् । तथा चोक्तम् - “अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथाऽपि त्वं महाबाहो ! नैनं शोचितुमर्हसि ॥" (भ.गी. 2-26) नित्यं मृतमिति हेतुगर्भं नित्यं मृतत्वात् पुनरस्य मरणकर्तृत्व17कर्मत्व प्रयुक्तशोको न कार्य इत्यर्थः । एवं च हननकर्तृत्व कर्मत्वानाश्रययो देहात्मनोर्हन्तृत्वादिबुद्धिरन्यथाज्ञान विपरीतज्ञान जनकानाद्य विद्यात्मकाज्ञान कार्यत्वात् स्वाप्नबुद्धिरिव बाधितविषयेति भावः । अज्ञानस्यानात्मन्यात्मबुद्धिरूप विपरीतज्ञानजनकत्वमुक्तम् - “अनात्म्यन्यात्मबुद्धिर्या अस्वे स्वमिति या मतिः । अविद्यातरुसम्भूतं बीजमेत द्विधा स्थितम् ॥” (विष्णु.पु. 6-7-11) इति । अत्र स्वाप्नीवापार्था भातीत्यनेन दृष्टान्तेन धियो बाधितविषयत्वं विवक्षितम् । विषयस्याऽपि बाधो नाम तत्र प्रवृत्तिप्रतिबन्ध एव न त्वसत्यत्वं दृष्टान्त दार्ष्टन्तिकयोरुभयोरपि ज्ञानतद्विषययोः पारमार्थ्यात् तत्र यथा स्वाप्नानां गजतुरङ्गादीनां “न तत्र रथा न स्थयोगा न पन्थानो भवन्ति । अथ रथान् रथयोगान् पथः सृजते” (बृह. उ. 4-3-10) इति 18श्रुत्युक्तरीत्या ईश्वरसृष्टानां स्वप्नद्रष्ट्रेकानुभाव्यानां तत्कालमात्रावसायिनां परमार्थानामपि तेषु क्षणिकत्वेन गजतुरगाद्यार्थिनः प्रवृत्तिप्रतिबन्धरूपो बाधः । एवं देहे आत्मभ्रान्तिनिमित्तात्मोपादित्सया प्रवर्तितुमिच्छोः प्रवृत्तिप्रतिबन्धरूपो बाधः, आत्मनि देहे च हन्तृत्वादिनिमित्तशोकादौ प्रवृत्ति प्रतिबन्धरूपो बाध इत्युभयत्रानुगतोऽर्थः क्रोडीकर्तव्यः । देहात्मबुद्धिः स्वाप्नधीवन्न तात्त्विक सुखदुःखादिमात्रहेतुरपि तु उत्तरोत्तर जन्ममरणादिरूप संसृतिहेतुत्वेन महाऽनर्थकरी चेत्याह - यथेति । यथा अहं त्वमिति बुद्ध्या बन्धः जन्ममरणादिरूपः संसारः तत्प्रयुक्तो विपर्ययः स्वाभाविकापहतपाप्मत्वाद्याकार तद्विपरीतानपहतपाप्मत्वाद्याकारश्च भवति इत्यर्थः । अयं भावः - यद्यप्यपरोक्षं त्वया यक्षैश्चानुभूयते, हन्तृत्वादिकं तत्प्रयुक्तस्वेदश्रमादिकं च, तथाऽपि देहात्मनोरुभयोरपि “हन्ता चेन्मन्यते हन्तुम्” (कड. उ. 2-19) “य एनं वेत्ति हन्तारं” (भ.गी. 2-19) “अथ चैनं नित्य जातम्” (भ.गी. 2-26) इत्यादिप्रमाणैः हन्तृत्वादिबुद्धेरज्ञानमूलत्व प्रतिपादनात् । “अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा” (भगी. 7-6) इत्यादिभिरीश्वरस्यैव कालशरीरकस्य हन्तृत्वप्रतिपादनाच्च स्वेदश्रमादेश्च सद्वारकतयापीश्वर एव “काठिन्यवान् यो बिभर्ति तस्मै भूम्यात्मने नमः” (विष्णु.पु. 1-14-28) इत्युक्तभूमिद्वारक काठिन्यवदुपपत्तेः न कोऽपि प्रमाणबाध इति ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

तद‍्गच्छ ध्रुव भद्रं ते भगवन्तमधोक्षजम्।
सर्वभूतात्मभावेन सर्वभूतात्मविग्रहम्॥

मूलम्

तद‍्गच्छ 19ध्रुव भद्रं ते भगवन्तमधोक्षजम्।
सर्वभूतात्मभावेन सर्वभूतात्मविग्रहम्॥ ५ ॥

वीरराघवः

तत्तस्मात्कालशरीरकस्य भगवत एवोत्पत्ति मरणादिहेतुत्वात् तमेव भगवन्तं सर्वाणि भूतानि पृथिव्यादीनि आत्माजीवश्च विग्रहः शरीरं यस्य तमधोक्षजम् । सर्वभूतात्मविग्रहमित्यनेन यक्षेष्वपि भगवदात्मकत्वबुद्धिः कार्येति विवक्षितम्, भजस्वेत्युत्तरत्रान्वयः । अभवाय मुक्तये हे ध्रुव ! ते तुभ्यं भद्रं मङ्गलमस्तु । गच्छ गृहान् प्रति इति शेषः । भजन प्रकारमाह सर्वभूतात्मभावेन । चिदचिच्छरीरकत्वेन प्रकारेण अधोक्षजम् अधः कृताः परावृत्ताः अक्षजाः इन्द्रिय वृत्तयो यस्मात् तमिन्द्रियागोचरमित्यर्थः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

भजस्व भजनीयाङ्घ्रिमभवाय भवच्छिदम्।
युक्तं विरहितं शक्त्या गुणमय्याऽऽत्ममायया॥

मूलम्

भजस्व भजनीयाङ्विमभवाय भवच्छिदम्।
युक्तं विरहितं शक्त्या गुणमय्याऽऽत्ममायया॥ ६ ॥

अनुवाद (हिन्दी)

ध्रुव! अब तुम जाओ, भगवान् तुम्हारा मंगल करें। तुम संसारपाशसे मुक्त होनेके लिये सब जीवोंमें समदृष्टि रखकर सर्वभूतात्मा भगवान् श्रीहरिका भजन करो। वे संसारपाशका छेदन करनेवाले हैं तथा संसारकी उत्पत्ति आदिके लिये अपनी त्रिगुणात्मिका मायाशक्तिसे युक्त होकर भी वास्तवमें उससे रहित हैं। उनके चरणकमल ही सबके लिये भजन करनेयोग्य हैं॥ ५-६॥

वीरराघवः

नन्वधोक्षजश्चेत्कथं भजनीयस्तत्राह । भजनीयौ अङ्घ्रि चरणौ यस्य तम् । अतीन्द्रियत्वेऽपि योगयुङ्मनसा ध्येयचरणमित्यर्थः । नन्वस्मदादिवत् तस्याऽपि संसारित्वात् कथ20मभवाय भजस्वेत्युच्यते तत्राह । भवच्छिदं भवं संसारं छिनत्तीति तं न केवलं स्वयमसंसार्येव अपि तु भजतामपि भवच्छिदित्यर्थः । ननु प्रकृतिसम्बन्ध तत्कार्यादिकमेव हि संसारः । एवं च जीववत् सर्वभूतात्मविग्रहमिति प्रकृतिसम्ब21न्धाभिधानात् कथं तस्य भवच्छित्त्वं तत्राह । सत्त्वादिगुणमय्या शक्त्या कार्योपयुक्तस्वापृथक्सिद्धविशेषणभूतया आत्मनः स्वस्य सम्बन्धिन्या मायया प्रकृत्या युक्तं नियन्तृत्वेन युक्तं तया विशेषेण रहितं 22तादधीन्येन तया विरहितमित्यर्थः । जीवस्तु मायापरवश इति संसारी, परमेश्वरस्तु तस्याः प्रभुरित्यसंसारीति भावः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

वृणीहि कामं नृप यन्मनोगतं
मत्तस्त्वमौत्तानपदेऽविशङ्कितः।
वरं वरार्होऽम्बुजनाभपादयो-
रनन्तरं त्वां वयमङ्ग शुश्रुम॥

मूलम्

वृणीहि कामं नृप यन्मनोगतं मत्तस्त्वमौत्तानपदेऽविशङ्कितः।
23वरं वरार्होऽम्बुजनाभपादयोः 24अनन्तरं त्वां वयमङ्ग शुश्रुम॥ ७ ॥

अनुवाद (हिन्दी)

प्रियवर! हमने सुना है, तुम सर्वदा भगवान् कमलनाभके चरणकमलोंके समीप रहनेवाले हो; इसलिये तुम अवश्य ही वर पानेयोग्य हो। ध्रुव! तुम्हें जिस वरकी इच्छा हो, मुझसे निःसंकोच एवं निःशंक होकर माँग लो॥ ७॥

वीरराघवः

एवं परमपुरुषार्थलक्षणमोक्षसाध25कत्वेन प्रकृतिपुरुष शरीरकस्य अमृतेश्वरस्य भगवतो भक्तिं विधेहीत्युपदिश्य तन्मनः परिशीलनाय त्रिवर्गे तं प्रलोभयति - वृणीहीति । हे ! औत्तानपादे ! नृप ! यन्मनोगतं मनीषितं तं कामं वरमविशङ्कितः असङ्कोचेन त्वं वृणीहि वरय, धर्मादीनां त्रयाणां मध्ये यत्तवेप्सितं तद्वृणीहीत्यर्थः । त्रिवर्गवरणं तवानुचितमिति व्यञ्जयन् विशिनष्टि । अङ्ग ! हे ध्रुव ! परं केवलं परैर्ब्रह्मादिभिरपि 26अर्ह्यते इत्यर्हः26 तस्य अम्बुजनाभस्य भगवतः पादौ तयोरनन्तरम् 27अव्यवहितं निरन्तरं भगवत्पादारविन्दसमाहितचित्तम्27 इत्यर्थः । त्वां शुश्रुम ॥ ७ ॥

श्लोक-८

मूलम् (वचनम्)

28मैत्रेय उवाच28

विश्वास-प्रस्तुतिः

स राजराजेन वराय चोदितो
ध्रुवो महाभागवतो महामतिः।
हरौ स वव्रेऽचलितां स्मृतिं यया
तरत्ययत्नेन दुरत्ययं तमः॥

मूलम्

स राजराजेन वराय चोदितो ध्रुवो महाभागवतो महामतिः।
हरौ स वव्रेऽचलितां स्मृतिं यया तरत्ययत्नेन दुरत्ययं तमः॥ ८ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! यक्षराज कुबेरने जब इस प्रकार वर माँगनेके लिये आग्रह किया, तब महाभागवत महामति ध्रुवजीने उनसे यही माँगा कि मुझे श्रीहरिकी अखण्ड स्मृति बनी रहे, जिससे मनुष्य सहज ही दुस्तर संसारसागरको पार कर जाता है॥ ८॥

वीरराघवः

एवं त्रिवर्गे प्रलोभितो महाभागवतो ध्रुवः त्रिवर्गमनादृत्य भगवच्चरणारविन्दभक्तिदार्ढ्यमेवाऽवृणोदित्याह मुनिः इति । राजराजेन कुबेरेण वरवरणाय चोदितः प्रवर्तितः स ध्रुवः महाभागवतः 29भागवतश्रेष्ठः29 महामतिः 30धर्मादिष्वल्पस्थिर मतिः30 हेतुगर्भमिदं विशेषणद्वयम् । भागवतानां त्रिवर्गस्य निरयप्रायत्वादिति भावः । हरौ भगवति अचलितां दृढां स्मृतिं वव्रे । स वशाय चोदित इत्यनुवादरूपं पृथग्वाक्यम्, अतः सवव्र इति तच्छब्दस्य न पौनरुक्त्यम् । दृढायाः स्मृतेः फलमाह। यतः अचलितायाः स्मृतेः दुरत्ययं दुरतिक्रमणीयमपि तमः तमः कार्यं संसारात्मकं बन्धं तरति व्यपोहति । “31स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः” (छान्दो . उ. 7-26-2) इति श्रुतेः31 ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

तस्य प्रीतेन मनसा तां दत्त्वैडविडस्ततः।
पश्यतोऽन्तर्दधे सोऽपि स्वपुरं प्रत्यपद्यत॥

मूलम्

तस्य प्रीतेन मनसा तां 32दत्त्वैडविडस्ततः।
पश्यतोऽन्तर्दधे सोऽपि स्वपुरं प्रत्यपद्यत॥ ९ ॥

अनुवाद (हिन्दी)

इडविडाके पुत्र कुबेरजीने बड़े प्रसन्न मनसे उन्हें भगवत्स्मृति प्रदान की। फिर उनके देखते-ही-देखते वे अन्तर्धान हो गये। इसके पश्चात् ध्रुवजी भी अपनी राजधानीको लौट आये॥ ९॥

वीरराघवः

ऐलबिलः कुबेरः प्रीतेन मनसा तुष्टेन मनसा तां भगवत्यचलितां स्मृतिं दत्वा तस्य ध्रुवस्य पश्यतस्सतः अन्तर्दधे अन्तर्हितवान् । सोऽपि ध्रुवोऽपि स्वपुरं प्रत्यपद्यत अगात् ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः।
द्रव्यक्रियादेवतानां कर्म कर्मफलप्रदम्॥

मूलम्

अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः।
द्रव्यक्रियादेवतानां 33कर्म कर्मफलप्रदम्॥ १० ॥

अनुवाद (हिन्दी)

वहाँ रहते हुए उन्होंने बड़ी-बड़ी दक्षिणावाले यज्ञोंसे भगवान् यज्ञपुरुषकी आराधना की; भगवान् ही द्रव्य, क्रिया और देवता-सम्बन्धी समस्त कर्म और उसके फल हैं तथा वे ही कर्मफलके दाता भी हैं॥ १०॥

वीरराघवः

अथानन्तरं भूरिदक्षिणैः 34समग्रदक्षिणैः34 द्रव्यं पुरोडाशादि क्रिया ऋत्विग्व्यापारः देवता इन्द्रादिः तेषां सम्बन्धमात्रे षष्ठी । द्रव्यादिसम्बन्धिभिः द्रव्यादिसमवायरूपैरिति यावत् । क्रतुभिः कर्मसाध्यम् आराध्यमिति यावत्, न केवलं कर्मैव अपि तु कर्मणां फलप्रदं यज्ञानामीशं प्रयोजयितारं चायजत इष्टवान् । काम कर्मफलप्रदमिति पाठे विहितप्रतिषिद्धयोः फलमित्यर्थः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

सर्वात्मन्यच्युतेऽसर्वे तीव्रौघां भक्तिमुद्वहन्।
ददर्शात्मनि भूतेषु तमेवावस्थितं विभुम्॥

मूलम्

सर्वात्मन्यच्यु35ते सर्वे तीव्रौघां भक्तिमुद्वहन्।
ददर्शाऽऽत्मनि भूतेषु तमेवाऽवस्थितं विभुम्॥ ११ ॥

अनुवाद (हिन्दी)

सर्वोपाधिशून्य सर्वात्मा श्रीअच्युतमें प्रबल वेगयुक्त भक्तिभाव रखते हुए ध्रुवजी अपनेमें और समस्त प्राणियोंमें सर्वव्यापक श्रीहरिको ही विराजमान देखने लगे॥ ११॥

वीरराघवः

न केवलं यज्ञैरेवायजत अपि तु पितामहा द्युपदेशानुसारेण सर्वात्मकत्वेन भगवन्त36मलभत चेत्याह - सर्वात्मनीति । सर्वेषामात्मनि अन्तः प्रविश्य प्रशासनेन धारके अत एव 37सर्वे सर्वशब्दवाच्ये । सत्व इति पाठे शुद्धसत्त्वमय दिव्यमङ्गल विग्रहविशिष्ट इत्यर्थः । असत्त्व इति छेदे तु सत्त्वादिगुणरहित इत्यर्थः । अच्युते आश्रितव्रातरक्षैकदीक्षे भगवति तीव्रौघामविच्छिन्नप्रसरां भक्ति मुद्वहन् 38कुर्वन् आत्मनि स्वस्मिन् सर्वेषु भूतेषु चाऽवस्थित मात्मत्वेनाऽवस्थितं भगवन्तं तमेवाच्युतं ददर्श साक्षात्कृतवान् ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

तमेवं शीलसम्पन्नं ब्रह्मण्यं दीनवत्सलम्।
गोप्तारं धर्मसेतूनां मेनिरे पितरं प्रजाः॥

मूलम्

तमे39वं शीलसम्पन्नं ब्रह्मण्यं दीनवत्सलम्।
गोप्तारं धर्मसेतूनां मेनिरे पितरं प्रजाः॥ १२ ॥

अनुवाद (हिन्दी)

ध्रुवजी बड़े ही शीलसम्पन्न, ब्राह्मणभक्त, दीनवत्सल और धर्ममर्यादाके रक्षक थे; उनकी प्रजा उन्हें साक्षात् पिताके समान मानती थी॥ १२॥

वीरराघवः

प्रजाः शीलसम्पन्नं सुस्वभावसद्वृत्तादियुक्तं ब्रह्मण्यं ब्राह्मणसेवापरायणं दीनेषु वत्सलं दोषानवेक्षया रक्षकं धर्म मर्यादानां पालकं तमेव ध्रुवमेव पितरं मेनिरे पितरमिवाऽमन्यन्तेत्यर्थः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

षट्त्रिंशद्वर्षसाहस्रं शशास क्षितिमण्डलम्।
भोगैः पुण्यक्षयं कुर्वन्नभोगैरशुभक्षयम्॥

मूलम्

40षड्विंशद्वर्षसाहस्रं शशास क्षितिमण्डलम्।
भोगैः पुण्यक्षयं कुर्व41न्नभोगैरशुभक्षयम्॥ १३ ॥

अनुवाद (हिन्दी)

इस प्रकार तरह-तरहके ऐश्वर्यभोगसे पुण्यका और भोगोंके त्यागपूर्वक यज्ञादि कर्मोंके अनुष्ठानसे पापका क्षय करते हुए उन्होंने छत्तीस हजार वर्षतक पृथ्वीका शासन किया॥ १३॥

वीरराघवः

भोगैः सुखानुभवैः पुण्यक्षयम् अभोगैर्दुःखानुभवैः अशुभक्षयं पापक्षयं च कुर्वन् पुण्यपापयोः 42उभयोरपि स्वफल जननद्वारा ब्रह्मप्राप्तिविरोधित्वेन अनुभवेनैव पुण्यपापे विधुन्वन्नित्यर्थः । 43षड्विंशद्वर्षसाहस्रं वर्षाणां सहस्राण्येव साहस्राणि ततः समाहारद्विगुः षडधिकविंशतिसहस्रसङ्ख्याकवर्षपर्यन्तमित्यर्थः । क्षितिमण्डलं शशस अनुशिष्टवान् ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

एवं बहुसवं कालं महात्माविचलेन्द्रियः।
त्रिवर्गौपयिकं नीत्वा पुत्रायादान्नृपासनम्॥

मूलम्

एवं बहु44सवं कालं महात्माऽवि45कलेन्द्रियः।
त्रिवर्गौपयिकं नीत्वा पुत्रायाऽदान्नृपासनम्॥ १४ ॥

अनुवाद (हिन्दी)

जितेन्द्रिय महात्मा ध्रुवने इसी तरह अर्थ, धर्म और कामके सम्पादनमें बहुत-से वर्ष बिताकर अपने पुत्र उत्कलको राजसिंहासन सौंप दिया॥ १४॥

वीरराघवः

बहुसवं बहवः सवाः 46यौगोपलक्षिताः46 संवत्सरा यस्मिन् 47तत् त्रिवर्गौपयिकं त्रिवर्गसाधनं कालमविकलेन्द्रियः अव्याहतेन्द्रियः तथाऽपि महात्मा जितेन्द्रियो नीत्वा पुत्राय नृपासनमदात् ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

मन्यमान इदं विश्वं मायारचितमात्मनि।
अविद्यारचितस्वप्नगन्धर्वनगरोपमम्॥

मूलम्

मन्यमान इदं विश्वं मायारचितमात्मनि।
अविद्यारचि48तं स्वप्नगन्धर्वनगरोपमम्॥ १५ ॥

वीरराघवः

तत इदं देवमनुष्याद्यात्मकं विश्वमात्मनि जीवे मायारचितं 49प्रकृतिसंसर्गकृतं तदपि अविद्यारचितं49, अविद्याशब्दः तदन्यव्युत्पत्त्या प्रकृतिवाची, प्रकृतिपरिणामरूपं स्वप्नगन्धर्वनगरोपमं स्वप्नगन्धर्वनगरमिव स्थितं मन्यमानः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

आत्मस्त्र्यपत्यसुहृदो बलमृद्धकोश-
मन्तःपुरं परिविहारभुवश्च रम्याः।
भूमण्डलं जलधिमेखलमाकलय्य
कालोपसृष्टमिति स प्रययौ विशालाम्॥

मूलम्

आत्मस्त्र्यपत्यसुहृदो बलमृद्धकोशमन्तःपुरं परिविहारभुवश्च रम्याः।
भूमण्डलं जलधिमेखलमाकलय्य कालोपसृष्टमिति स प्रययौ विशालाम्॥ १६ ॥

अनुवाद (हिन्दी)

इस सम्पूर्ण दृश्य-प्रपंचको अविद्यारचित स्वप्न और गन्धर्वनगरके समान मायासे अपनेमें ही कल्पित मानकर और यह समझकर कि शरीर, स्त्री, पुत्र, मित्र, सेना, भरापूरा खजाना, जनाने महल, सुरम्य विहारभूमि और समुद्रपर्यन्त भूमण्डलका राज्य—ये सभी कालके गालमें पड़े हुए हैं, वे बदरिकाश्रमको चले गये॥ १५-१६॥

वीरराघवः

तथा आत्मा देहः, स्त्रियो दाराः अपत्यानि पुत्रादयः सुहृदश्च तान् ऋद्धं समृद्धं पूर्वोत्तरान्वयि बलं चतुरङ्गबलयुक्तम् । सैन्यं कोशं धनं रमणीयाः परिविहारभुवः परितो विहारभुवः । प्रतिविहारभुव इत्यपि पाठेऽयमेवार्थः । जलधिर्मेखला यस्य तत् जम्बूद्वीपात्मकं भूमण्डलं च सर्वं कालोपसृष्टं कालेनोपद्रुतमस्थिरमिति यावत्, आकलय्य विचार्य सः ध्रुवः विशालां बदरिकाश्रमं ययौ ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

तस्यां विशुद्धकरणः शिववार्विगाह्य
बद्ध्वाऽऽसनं जितमरुन्मनसाऽऽहृताक्षः।
स्थूले दधार भगवत्प्रतिरूप एतद्
ध्यायंस्तदव्यवहितो व्यसृजत्समाधौ॥

मूलम्

50तस्यां विशुद्धकरणः शिववार्विगाह्य 51बद्ध्वाऽऽसनं जितमरुन्मनसाऽऽहृताक्षः।
स्थूले दधार भगवत्प्रतिरूप एतद्ध्यायंस्तदव्यवहितो 52व्यसृजत्समाधौ॥ १७ ॥

अनुवाद (हिन्दी)

वहाँ उन्होंने पवित्र जलमें स्नानकर इन्द्रियोंको विशुद्ध (शान्त) किया। फिर स्थिर आसनसे बैठकर प्राणायामद्वारा वायुको वशमें किया। तदनन्तर मनके द्वारा इन्द्रियोंको बाह्य विषयोंसे हटाकर मनको भगवान‍्के स्थूल विराट्स्वरूपमें स्थिर कर दिया। उसी विराट्-रूपका चिन्तन करते-करते वे अन्तमें ध्याता और ध्येयके भेदसे शून्य निर्विकल्प समाधिमें लीन हो गये और उस अवस्थामें विराट्‍रूपका भी परित्याग कर दिया॥ १७॥

वीरराघवः

तत्र कृतमष्टाङ्गयोगमाह - तस्यामिति । तस्यां विशालायां शिवं निर्मलं पवित्रं च वाः वारि विगाह्य प्रविश्य । अनेन स्नानादिनियम उक्तः विशुद्धकरणः विशुद्धेन्द्रियः अनेन शमदमादयो यमा उक्ताः । बद्धानि आसनानि स्वस्तिकादीनि येन सः, जितो मरुत् प्राणो येन सः, मनसा आहृतानि प्रत्याहृतानि अक्षाणि श्रोत्रादीनि इन्द्रियाणि येन, एव मासनादीनि स्फुटमेवोक्तानि, स्थूले भगवत्प्रतिरूपे भगवद्विव्यविग्रहे दिव्यात्मस्वरूपा पेक्षया स्थौल्यमत्र विवक्षितं, दधार मनो निवेशितवान् । एवं धारणा उक्ता । एतद्भगवत्प्रतिरूपम् अव्यवहितः विजातीय प्रत्ययान्तररहितः ध्यायन् तद्दिव्यात्मस्वरूपम् “ओं तत्सदिति निर्देशो ब्रह्मण स्त्रिविधः स्मृतः” (भार. 6-39-23) इति स्मरणात् । समाधौ व्यसृजत् अनुसंहितवान् । यद्वा तद्भगवत्प्रतिरूपं व्यसृजत् विसृष्टवान्, दिव्यविग्रहं विसृज्य दिव्यात्मस्वरूप मनुसंहितवानित्यर्थः । शुभाश्रये मनसो निवेशमात्रं धारणा, शुभाश्रयगत53कान्ति सौकुमार्यादिगुणचिन्तनं ध्यानं, तज्जनितानन्दातिशयात्पारवश्यं समाधिरिति भेदः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

भक्तिं हरौ भगवति प्रवहन्नजस्र-
मानन्दबाष्पकलया मुहुरर्द्यमानः।
विक्लिद्यमानहृदयः पुलकाचिताङ्गो
नात्मानमस्मरदसाविति मुक्तलिङ्गः॥

मूलम्

भक्तिं हरौ भगवति प्रवहन्नजस्रमानन्दबाष्पकलया मुहुरर्द्यमानः।
विक्लिद्यमानहृदयः पुलका54चिताङ्गो नात्मानमस्मरदसाविति मुक्तलिङ्गः॥ १८ ॥

अनुवाद (हिन्दी)

इस प्रकार भगवान् श्रीहरिके प्रति निरन्तर भक्तिभावका प्रवाह चलते रहनेसे उनके नेत्रोंमें बार-बार आनन्दाश्रुओंकी बाढ़-सी आ जाती थी। इससे उनका हृदय द्रवीभूत हो गया और शरीरमें रोमांच हो आया। फिर देहाभिमान गलित हो जानेसे उन्हें ‘मैं ध्रुव हूँ’ इसकी स्मृति भी न रही॥ १८॥

वीरराघवः

एवमजस्रं नित्यं भगवति प्रकर्षेण भक्तिं वहन् कुर्वन् असौ ध्रुवः आत्मानं न सस्मार मनुष्यत्वादिबाह्याकार विशिष्टत्वेन न स्मृतवान् । यतो मुक्तलिङ्गः त्यक्तदेहात्माभिमानः । तत्र हेतवः - आनन्दबाष्पकलया 55आनन्दबाष्प55 बिन्दु प्रवाहेणाभिभूयमानः विक्लि56द्यमानं हृदयं यस्य सः, पुलकैर्व्याप्ताङ्गः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

स ददर्श विमानाग्र्यं नभसोऽवतरद् ध्रुवः।
विभ्राजयद्दश दिशो राकापतिमिवोदितम्॥

मूलम्

स ददर्श विमानाग्र्यं नभसोऽवतर57द्ध्रुवः।
विभ्राजय58द्दश दिशोराकापतिमिवो59दितम्॥ १९ ॥

अनुवाद (हिन्दी)

इसी समय ध्रुवजीने आकाशसे एक बड़ा ही सुन्दर विमान उतरते देखा। वह अपने प्रकाशसे दसों दिशाओंको आलोकित कर रहा था; मानो पूर्णिमाका चन्द्र ही उदय हुआ हो॥ १९॥

वीरराघवः

स ध्रुवः उद्यतमुदितं राकापतिमिव पूर्णिमा चन्द्रमिव दश दिशः विभ्राजयत् नभसः अवतरत् अवरोहत् विमानश्रेष्ठं ददर्श ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

तत्रानु देवप्रवरौ चतुर्भुजौ
श्यामौ किशोरावरुणाम्बुजेक्षणौ।
स्थिताववष्टभ्य गदां सुवाससौ
किरीटहाराङ्गदचारुकुण्डलौ॥

मूलम्

तत्रानुदेवप्रवरौ चतुर्भुजौ श्यामौ किशोरावरुणाम्बुजेक्षणौ।
स्थिताववष्टभ्य गदां सुवाससौ किरीटहाराङ्गदचारुकुण्डलौ॥ २० ॥

अनुवाद (हिन्दी)

उसमें दो श्रेष्ठ पार्षद गदाओंका सहारा लिये खड़े थे। उनके चार भुजाएँ थीं, सुन्दर श्याम शरीर था, किशोर अवस्था थी और अरुण कमलके समान नेत्र थे। वे सुन्दर वस्त्र, किरीट, हार, भुजबन्ध और अति मनोहर कुण्डल धारण किये हुए थे॥ २०॥

वीरराघवः

अनु अनन्तरं तत्र विमानाग्रे देवप्रवरौ ददर्शेत्यनुषङ्गः । तौ विशिनष्टि किशोरौ यौवनारम्भजुषौ गदामवष्टभ्य स्थितौ किरीटादिभिः सहिते चारुकुण्डले ययोः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

विज्ञाय तावुत्तमगायकिङ्करा-
वभ्युत्थितः साध्वसविस्मृतक्रमः।
ननाम नामानि गृणन्मधुद्विषः
पार्षत्प्रधानाविति संहताञ्जलिः॥

मूलम्

विज्ञाय तावुत्तम60गायकिङ्करावभ्युत्थितः साध्व61सविस्मृतक्रमः।
ननाम नामानि गृणन्मधुद्विषः पार्षत्प्रधानाविति संहताञ्जलिः॥ २१ ॥

अनुवाद (हिन्दी)

उन्हें पुण्यश्लोक श्रीहरिके सेवक जान ध्रुवजी हड़बड़ाहटमें पूजा आदिका क्रम भूलकर सहसा खड़े हो गये और ये भगवान‍्के पार्षदोंमें प्रधान हैं—ऐसा समझकर उन्होंने श्रीमधुसूदनके नामोंका कीर्तन करते हुए उन्हें हाथ जोड़कर प्रणाम किया॥ २१॥

वीरराघवः

उत्तमगायः पुण्यश्लोको भगवान्, तस्य किङ्करौ विज्ञाय मधुद्विषः परिषत्प्रधानाविति हेतोः साध्वसेन सम्भ्रमेण विस्मृतपूजाक्रमः केवलं तस्य नामानि गृणन् संहताञ्जलिः बद्धाञ्जलिः ननाम ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

तं कृष्णपादाभिनिविष्टचेतसं
बद्धाञ्जलिं प्रश्रयनम्रकन्धरम्।
सुनन्दनन्दावुपसृत्य सस्मितं
प्रत्यूचतुः पुष्करनाभसम्मतौ॥

मूलम्

तं कृष्णपादाभिनिविष्टचेतसं बद्धाञ्जलिं प्रश्रयनम्रकन्धरम्।
सुनन्दनन्दावुप62सृत्य सस्मितं 63प्रत्यूचतुः पुष्करनाभसम्मतौ॥ २२ ॥

अनुवाद (हिन्दी)

ध्रुवजीका मन भगवान‍्के चरणकमलोंमें तल्लीन हो गया और वे हाथ जोड़कर बड़ी नम्रतासे सिर नीचा किये खड़े रह गये। तब श्रीहरिके प्रिय पार्षद सुनन्द और नन्दने उनके पास जाकर मुसकराते हुए कहा॥ २२॥

वीरराघवः

कृष्णस्य पादयोः अभिनिविष्टा चेतना चित्तं यस्य, प्रश्रयेण विनयेन नम्रा प्रह्वीभूता कन्धरा यस्य तं ध्रुवमुपसृत्य समीपमागत्य पुष्करनाभस्य 64पद्मनाभस्य64 भगवतः सम्मतौ भृत्यौ सुनन्दनन्दौ 65सस्मितं स्मितेन सहितं यथा तथा, प्रीत्या प्रीतिपूर्वमूचतुः ॥ २२ ॥

श्लोक-२३

मूलम् (वचनम्)

66सुनन्दनन्दावूचतुः66

विश्वास-प्रस्तुतिः

भो भो राजन् सुभद्रं ते वाचं नोऽवहितः शृणु।
यः पञ्चवर्षस्तपसा भवान्देवमतीतृपत्॥

मूलम्

67भो भो 68राजन्! सुभद्रं ते 69वचो नोऽवहितः शृणु।
70यः पञ्चवर्षस्तपसा भवान् देवमतीतृपत्॥ २३ ॥

अनुवाद (हिन्दी)

सुनन्द और नन्द कहने लगे—राजन्! आपका कल्याण हो, आप सावधान होकर हमारी बात सुनिये। आपने पाँच वर्षकी अवस्थामें ही तपस्या करके सर्वेश्वर भगवान‍्को प्रसन्न कर लिया था॥ २३॥

वीरराघवः

हे राजन् ! 71ते तुभ्यं भद्रमस्तु । नोऽस्माकं वाचमवहितः सावधानचित्तस्त्वं श्रुणु । किं तत्राह । यो भवान् पञ्चवर्षः तपसा देवं भगवन्तम् अतीतृपत् तर्पितवान् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

तस्याखिलजगद्धातुरावां देवस्य शार्ङ्गिणः।
पार्षदाविह सम्प्राप्तौ नेतुं त्वां भगवत्पदम्॥

मूलम्

तस्याखिलजगद्धातुः 72आवां देवस्य शार्ङ्गिणः।
पार्षदाविह सम्प्राप्नौ नेतुं 73त्वं भगवत्पदम्॥ २४ ॥

अनुवाद (हिन्दी)

हम उन्हीं निखिलजगन्नियन्ता शार्ङ्गपाणि भगवान् विष्णुके सेवक हैं और आपको भगवान‍्के धाममें ले जानेके लिये यहाँ आये हैं॥ २४॥

वीरराघवः

तस्याखिलजगन्निर्माणचतुरस्य सर्वेश्वरेश्वरस्य शार्ङ्गिणो भगवतः पार्षदा वावां त्वां भगवत्पदं प्रति नेतुमिह सम्प्राप्तौ ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

सुदुर्जयं विष्णुपदं जितं त्वया
यत्सूरयोऽप्राप्य विचक्षते परम्।
आतिष्ठ तच्चन्द्रदिवाकरादयो
ग्रहर्क्षताराः परियन्ति दक्षिणम्॥

मूलम्

सुदुर्जयं विष्णुपदं जितं त्वया यत्सूरयोऽप्राप्य विचक्षते परम्।
आतिष्ठ 74तच्चन्द्रदिवाकरादयो ग्रहर्क्षताराः परियन्ति दक्षिणम्॥ २५ ॥

अनुवाद (हिन्दी)

आपने अपनी भक्तिके प्रभावसे विष्णुलोकका अधिकार प्राप्त किया है, जो औरोंके लिये बड़ा दुर्लभ है। परमज्ञानी सप्तर्षि भी वहाँतक नहीं पहुँच सके, वे नीचेसे केवल उसे देखते रहते हैं। सूर्य और चन्द्रमा आदि ग्रह, नक्षत्र एवं तारागण भी उसकी प्रदक्षिणा किया करते हैं। चलिये, आप उसी विष्णुधाममें निवास कीजिये॥ २५॥

वीरराघवः

सुदुर्जयं त्वदितरैर्दुःखेनाप्यसाध्यं विष्णुपदं त्वया जितं साधितम् । सुदुर्जयत्वमेवाह - सूरयः सर्वेषामुपरिष्टा दवस्थिताः सप्तर्षिप्रभृतयः यत्पदमप्राप्यैव परं केवलं विचक्षते पश्यन्ति, तथा यत्पदं चन्द्रादयः सोमप्रभृतिग्रहादयश्च प्रदक्षिणं यथा भवति एवं परियन्ति परितोभ्रमन्ति 75तदातिष्ठ75 ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

अनास्थितं ते पितृभिरन्यैरप्यङ्ग कर्हिचित्।
आतिष्ठ जगतां वन्द्यं तद्विष्णोः परमं पदम्॥

मूलम्

अनास्थितं ते पितृभिरन्यैरप्यङ्ग कर्हिचित्।
आतिष्ठ जगतां वन्द्यं तद्विष्णोः परमं पदम्॥ २६ ॥

अनुवाद (हिन्दी)

प्रियवर! आजतक आपके पूर्वज तथा और कोई भी उस पदपर कभी नहीं पहुँच सके। भगवान् विष्णुका वह परमधाम सारे संसारका वन्दनीय है, आप वहाँ चलकर विराजमान हों॥ २६॥

वीरराघवः

ते तव पितृभिर्मन्वादिभिः तथाऽन्यैरपि अङ्ग ! हे ध्रुव ! कदाचिदप्यनास्थितम् अनधिष्ठितमत एव जगतां वन्द्यं विष्णोः सम्बन्धि परमं सर्वोत्कृष्टं तत् त्वया जितं पदं स्थानम् आतिष्ठ अधितिष्ठ ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

एतद्विमानप्रवरमुत्तमश्लोकमौलिना।
उपस्थापितमायुष्मन्नधिरोढुं त्वमर्हसि॥

मूलम्

एतद्विमानप्रवरमुत्तमश्लोकमौलिना।
उपस्थापितमायुष्मन्नधिरोढुं त्वमर्हसि॥ २७ ॥

अनुवाद (हिन्दी)

आयुष्मन्! यह श्रेष्ठ विमान पुण्यश्लोकशिखामणि श्रीहरिने आपके लिये ही भेजा है, आप इसपर चढ़नेयोग्य हैं॥ २७॥

वीरराघवः

हे आयुष्मन् ! उत्तमश्लोकमौलिना उत्तमश्लो76कानां मौलिना मुख्येन भगवता एतद्विमानश्रेष्ठमुपस्थापितं प्रेषितमेतद्विमानाग्र्यं अधिरोढुं त्वमर्हसि । अत्र आयुष्मन्निति सम्बोधनं सशरीरयात्राभि प्रायकम् । अत्र वैकुण्ठ परमपद विष्णुपदादिशब्दा भगवत्स्थान साम्यात्परमव्योम्नीव विष्ण्वभिमानविषये ध्रुवलोके प्रयुज्यन्ते । तत्राऽपि हि भक्तानुजिघृक्षया भगवान् सर्वदा सन्निहितः । भक्तानुग्रहादेव पार्षदविमानादिप्रेषणमुपपन्नम् ॥ २७ ॥

श्लोक-२८

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

निशम्य वैकुण्ठनियोज्यमुख्ययो-
र्मधुच्युतं वाचमुरुक्रमप्रियः।
कृताभिषेकः कृतनित्यमङ्गलो
मुनीन् प्रणम्याशिषमभ्यवादयत्॥

मूलम्

निशम्य वैकुण्ठनियोज्यमुख्ययोर्मधुच्यु77तं वाचमुरुक्रमप्रियः।
कृताभिषेकः कृतनित्यमङ्गलो मुनीन् प्रणम्याशिषमभ्यवा78दयत्॥ २८ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—भगवान‍्के प्रमुख पार्षदोंके ये अमृतमय वचन सुनकर परम भागवत ध्रुवजीने स्नान किया, फिर सन्ध्या-वन्दनादि नित्य-कर्मसे निवृत्त हो मांगलिक अलंकारादि धारण किये। बदरिकाश्रममें रहनेवाले मुनियोंको प्रणाम करके उनका आशीर्वाद लिया॥ २८॥

वीरराघवः

वैकुण्ठनियोज्य मुख्ययोः भगवत्पार्षदप्रवरयोः मधुच्युता ममृतस्राविणीं वाचं निशम्य भगवत्प्रियो ध्रुवः कृतमङ्गलस्नानः कृतं नित्यं कर्म मङ्गलमलङ्करणं च येन सः, मुनीन् प्रणिपत्य आशिषमभ्यवादयत् वाचयामास ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदावभिवन्द्य च।
इयेष तदधिष्ठातुं बिभ्रद्रूपं हिरण्मयम्॥

मूलम्

परीत्याभ्यर्च्य धिष्ण्याग्र्यं, पार्षदावभिवन्द्य च।
इयेष तदधिष्ठातुं बिभ्रद्रूपं हिरण्मयम्॥ २९ ॥

अनुवाद (हिन्दी)

इसके बाद उस श्रेष्ठ विमानकी पूजा और प्रदक्षिणा की और पार्षदोंको प्रणाम कर सुवर्णके समान कान्तिमान् दिव्य रूप धारणकर उसपर चढ़नेको तैयार हुए॥ २९॥

वीरराघवः

विमानश्रेष्ठं परीत्य परिक्रम्य तदेव रूपं वपुः हिरण्मयं ज्योतिर्मयं बिभ्रत्सन् तद्विमानयमधिष्ठातुमियेष ऐच्छत् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

तदोत्तानपदः पुत्रो ददर्शान्तकमागतम्।
मृत्योर्मूर्ध्नि पदं दत्त्वा आरुरोहाद‍्भुतं गृहम्॥

मूलम्

79तदोत्तानपदः पुत्रो ददर्शान्तकमागतम्।
मृत्योर्मूर्ध्नि पदं दत्त्वा आरुरोहाद‍्भुतं गृहम्॥ ३० ॥

अनुवाद (हिन्दी)

इतनेमें ही ध्रुवजीने देखा कि काल मूर्तिमान् होकर उनके सामने खड़ा है। तब वे मृत्युके सिरपर पैर रखकर उस समय अद‍्भुत विमानपर चढ़ गये॥ ३०॥

श्लोक-३१

विश्वास-प्रस्तुतिः

तदा दुन्दुभयो नेदुर्मृदङ्गपणवादयः।
गन्धर्वमुख्याः प्रजगुः पेतुः कुसुमवृष्टयः॥

मूलम्

तदा दुन्दुभयो नेदुर्मृदङ्गपणवादयः।
गन्धर्वमुख्याः प्रजगुः पेतुः कुसुमवृष्टयः॥ ३१ ॥

अनुवाद (हिन्दी)

उस समय आकाशमें दुन्दुभि, मृदंग और ढोल आदि बाजे बजने लगे, श्रेष्ठ गन्धर्व गान करने लगे और फूलोंकी वर्षा होने लगी॥ ३१॥

वीरराघवः

पेतुः पतितवत्यः ॥ ३०-३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

स च स्वर्लोकमारोक्ष्यन् सुनीतिं जननीं ध्रुवः।
अन्वस्मरदगं हित्वा दीनां यास्ये त्रिविष्टपम्॥

मूलम्

स च स्वर्लोकमारोक्ष्यन् सुनीतिं जननीं ध्रुवः।
अन्वस्मरद80गं हित्वा 81दीनां यास्ये त्रिविष्टपम्॥ ३२ ॥

अनुवाद (हिन्दी)

विमानपर बैठकर ध्रुवजी ज्यों-ही भगवान‍्के धामको जानेके लिये तैयार हुए , त्यों-ही उन्हें अपनी माता सुनीतिका स्मरण हो आया। वे सोचने लगे, ‘क्या मैं बेचारी माताको छोड़कर अकेला ही दुर्लभ वैकुण्ठधामको जाऊँगा?’॥ ३२॥

वीरराघवः

स च ध्रुवः स्वर्लोकम् आरोक्ष्यन् दीनां मातरं हित्वा अगं दुर्गमं त्रिविष्टपं यास्ये इत्येवं जननीमन्वस्मरत् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ।
दर्शयामासतुर्देवीं पुरो यानेन गच्छतीम्॥

मूलम्

इति व्यवसितं तस्य व्यव82साय सुरोत्तमौ।
दर्शयामासतुर्देवीं 83देवयानेन 84गच्छतीम्॥ ३३ ॥

अनुवाद (हिन्दी)

नन्द और सुनन्दने ध्रुवके हृदयकी बात जानकर उन्हें दिखलाया कि देवी सुनीति आगे-आगे दूसरे विमानपर जा रही हैं॥ ३३॥

वीरराघवः

इत्येवम्भूतं तस्य ध्रुवस्य व्यवसितमभिप्रायं 85व्यवसाय ज्ञात्वा सुरोत्तमौ सुनन्दनन्दौ देवयानेन देवप्रवरोपस्थापितविमानेन गच्छन्तीं देवीं सुनीतिं दर्शयामासतुः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

तत्र तत्र प्रशंसद‍्भिः पथि वैमानिकैः सुरैः।
अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान्॥

मूलम्

तत्र तत्र प्रशंसद‍्भिः पथि वैमानिकैः सुरैः।
अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान्॥ ३४ ॥

अनुवाद (हिन्दी)

उन्होंने क्रमशः सूर्य आदि सभी ग्रह देखे। मार्गमें जहाँ-तहाँ विमानोंपर बैठे हुए देवता उनकी प्रशंसा करते हुए फूलोंकी वर्षा करते जाते थे॥ ३४॥

वीरराघवः

तत्र तत्र पथि विमानारूढैः देवैः प्रशंसद्भिः कुसुमवृष्टिभिरवकीर्यमाणो ग्रहान् आदित्यादिस्थानानि क्रमशो दृष्टवान् ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

त्रिलोकीं देवयानेन सोऽतिव्रज्य मुनीनपि।
परस्ताद्यद् ध्रुवगतिर्विष्णोः पदमथाभ्यगात्॥

मूलम्

त्रिलोकीं देवयानेन सोऽतिव्रज्य मुनीनपि।
86परस्ताद्यत् ध्रुवग87तिः 88तद्विष्णोः पदमभ्यगात्88॥ ३५ ॥

अनुवाद (हिन्दी)

उस दिव्य विमानपर बैठकर ध्रुवजी त्रिलोकीको पारकर सप्तर्षिमण्डलसे भी ऊपर भगवान् विष्णुके नित्यधाममें पहुँचे। इस प्रकार उन्होंने अविचल गति प्राप्त की॥ ३५॥

वीरराघवः

देवयानेन सुनन्दनन्दनाख्य देवप्रवरोपस्थापितविमानेन त्रिलोकीं मुनीन् सप्तर्षीनप्यतिव्रज्य अतिक्रम्य ततः परस्तात् यद्विष्णोः पदं तत् ध्रुवा शाश्वती गतिर्यस्य सः ध्रुवगतिः आकल्पस्थायित्वाद्गते ध्रुवत्वम् अभ्यगात् प्राप्तवान् ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

यद् भ्राजमानं स्वरुचैव सर्वतो
लोकास्त्रयो ह्यनु विभ्राजन्त एते।
यन्नाव्रजञ्जन्तुषु येऽननुग्रहा
व्रजन्ति भद्राणि चरन्ति येऽनिशम्॥

मूलम्

यद्भ्राजमानं स्वरुचैव सर्वतो लोकास्त्रयो ह्यनु विभ्राजन्त एते।
89यन्नाव्रजञ्जन्तुषु येऽननुग्रहा89 व्रजन्ति भद्राणि चरन्ति येऽनिशम्॥ ३६ ॥

अनुवाद (हिन्दी)

यह दिव्य धाम अपने ही प्रकाशसे प्रकाशित है, इसीके प्रकाशसे तीनों लोक प्रकाशित हैं। इसमें जीवोंपर निर्दयता करनेवाले पुरुष नहीं जा सकते। यहाँ तो उन्हींकी पहुँच होती है, जो दिन-रात प्राणियोंके कल्याणके लिये शुभ कर्म ही करते रहते हैं॥ ३६॥

वीरराघवः

विष्णोः पदं विशिनष्टि - यदिति । स्वरुचैव यत् भ्राजमानमनुसृत्य तस्य रूचा एते त्रयो लोका भ्राजन्ते । यच्च जन्तुषु भूतेषु येऽननुग्रहा निरनुग्रहाः निष्कृपास्ते नाव्रजन् न गतवन्तः येच जन्तुषु भद्राणि सुहृत्त्वादीनि अनिशं चरन्ति कुर्वन्ति ते व्रजन्ति तत्पद मध्यगादिति पूर्वेण सम्बन्धः । ध्रुवस्थानं प्राप्तानामपि सत्यलोकगतानामिव प्रायेण पुनरावृत्त्यभावात् कल्पान्ते मोक्ष्यमाणत्वात् भूतसुहृत्त्वादीनामेव मुक्तिहेतुत्वाच्चैव मुक्तम् ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

शान्ताः समदृशः शुद्धाः सर्वभूतानुरञ्जनाः।
यान्त्यञ्जसाच्युतपदमच्युतप्रियबान्धवाः॥

मूलम्

शान्ताः समदृशः 90शुद्धाः सर्वभूतानुरञ्जनाः।
यान्त्यञ्जसाऽच्युतपदमच्युतप्रियबान्धवाः॥ ३७ ॥

अनुवाद (हिन्दी)

जो शान्त, समदर्शी, शुद्ध और सब प्राणियोंको प्रसन्न रखनेवाले हैं तथा भगवद‍्भक्तोंको ही अपना एकमात्र सच्चा सुहृद् मानते हैं—ऐसे लोग सुगमतासे ही इस भगवद्धामको प्राप्त कर लेते हैं॥ ३७॥

वीरराघवः

किञ्च यदच्युतपदम् अच्युतः प्रियो येषां भागवतानां ते बान्धवा येषां ते, शान्ताः शमदमादियुक्ताः समदृशः देहात्मेश्वराणां प्रकृतिपरिणामरूपत्व-ज्ञानैकाकारत्व-सर्वान्तरात्मत्वादिरूप समदर्शिनः अत एव सर्वभूतानि यथायोग्यं दानमानादिभिरनुरञ्जयन्ति 91प्रीणयन्तीति91 सर्वभूतानुरञ्जनाः 92सिद्धाः सिद्धप्राया न तु नितरां सिद्धाः, तेषामर्चिरादिगत्या ब्रह्मलो93कावाप्तेः, अञ्जसा सुखेन यान्ति तत्पदमध्यगादिति 94पूर्वेणैव सम्बन्धः94 । अयमर्थः - शमदमादिभिः सर्वभूतसुहृत्त्वादिभिश्च परब्रह्मोपासननिष्ठा अपि केचित्प्रारब्धवशात् बुभुक्षावशाद्वाऽन्तराय विहताः सत्यलोकवत् ध्रुवलोकं गताः तत्रत्यभोगोत्तरं परिपूर्णयोगा मुच्यन्त इति ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

इत्युत्तानपदः पुत्रो ध्रुवः कृष्णपरायणः।
अभूत्त्रयाणां लोकानां चूडामणिरिवामलः॥

मूलम्

इत्युत्तानपदः पुत्रो ध्रुवः कृष्णपरायणः।
अभूत्त्रयाणां लोकानां चूडामणिरिवामलः॥ ३८ ॥

अनुवाद (हिन्दी)

इस प्रकार उत्तानपादके पुत्र भगवत्परायण श्रीध्रुवजी तीनों लोकोंके ऊपर उसकी निर्मल चूडामणिके समान विराजमान हुए॥ ३८॥

वीरराघवः

इति उक्तप्रकारेण कृष्णो भगवान् परमयनं प्राप्यं प्रापकमाधारश्च यस्य स ध्रुवः त्रयाणां लोकानां अमलः चूडामणिः शिखामणिरिवाऽभूत् । अमल इति दृष्टान्त दार्ष्टान्तिकयोरुभयोरपि विशेषणम् ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

गम्भीरवेगोऽनिमिषं ज्योतिषां चक्रमाहितम्।
यस्मिन् भ्रमति कौरव्य मेढ्यामिव गवां गणः॥

मूलम्

गम्भीर95वेगोऽनिमिषं ज्योतिषां चक्र96मर्पितम्।
यस्मिन् भ्रमति कौरव्य! 97मेध्यामिव गवां गणः॥ ३९ ॥

अनुवाद (हिन्दी)

कुरुनन्दन! जिस प्रकार दायँ चलानेके समय खम्भेके चारों ओर बैल घूमते हैं, उसी प्रकार यह गम्भीर वेगवाला ज्योतिश्चक्र उस अविनाशी लोकके आश्रय ही निरन्तर घूमता रहता है॥ ३९॥

वीरराघवः

हे कौरव्य ! विदुर ! 98मेध्यां धान्याक्रमणाय बलीवर्दबन्धनस्तम्भविशेषे गम्भीरवेगो गवां गणः बलीवर्दसमूह इव ज्योतिषां 99सूर्यचन्द्रादि ज्योतिषां99 चक्रं यस्मिन् ध्रुव आहितं सत् अनिशं भ्रमति ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

महिमानं विलोक्यास्य नारदो भगवानृषिः।
आतोद्यं वितुदञ्श्लोकान् सत्रेऽगायत्प्रचेतसाम्॥

मूलम्

महिमानं विलोक्याऽस्य नारदो भगवान् ऋषिः।
आतोद्यं वितुदन् श्लोकान् सत्रेऽगायत् प्रचेतसाम्॥ ४० ॥

अनुवाद (हिन्दी)

उसकी महिमा देखकर देवर्षि नारदने प्रचेताओंकी यज्ञशालामें वीणा बजाकर ये तीन श्लोक गाये थे॥ ४०॥

वीरराघवः

अस्य ध्रुवस्य महिमानं विलोक्य भगवान् नारदऋषिः आतोद्यं वीणां वितुदन् नादयन् प्रचेतसां सत्रे 100ब्रह्मसूत्रे भगवन्माहात्म्य प्रसङ्गेन श्लोकान् 101ध्रवुमहिमप्रतिपादनपरान् त्रीन् श्लोकानगायत् ॥ ४० ॥

श्लोक-४१

मूलम् (वचनम्)

102नारद उवाच102

विश्वास-प्रस्तुतिः

नूनं सुनीतेः पतिदेवताया-
स्तपःप्रभावस्य सुतस्य तां गतिम्।
दृष्ट्वाभ्युपायानपि वेदवादिनो
नैवाधिगन्तुं प्रभवन्ति किं नृपाः॥

मूलम्

नूनं सुनीतेः पतिदेवतायाः तपःप्रभावस्य सुतस्य तां गतिम्।
दृष्ट्वाभ्युपायानपि वेदवादिनो नैवाधिगन्तुं प्रभवन्ति किं नृपाः॥ ४१ ॥

अनुवाद (हिन्दी)

नारदजीने कहा था—इसमें सन्देह नहीं, पतिपरायणा सुनीतिके पुत्र ध्रुवने तपस्याद्वारा अद‍्भुत शक्ति संचित करके जो गति पायी है, उसे भागवतधर्मोंकी आलोचना करके वेदवादी मुनिगण भी नहीं पा सकते; फिर राजाओंकी तो बात ही क्या है॥ ४१॥

वीरराघवः

श्लोकानेवाह - नूनमिति । पतिदेवतायाः सुनीतेः सुतस्य ध्रुवस्य यस्तपः प्रभावः तस्य फलभूतां 103तां गतिं अभ्युपायान् गतिसाधनभूतान् भगवदाराधनरूपान् उपायानपि दृष्ट्वा वेदवादिनोऽपि ऋषयोऽपि अधिगन्तुं प्राप्तुं नैव प्रभवन्ति न समर्था भवन्ति किं पुनर्नृपाः नृपा न प्रभवन्तीति किमु वक्तव्यमित्यर्थः ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

यः पञ्चवर्षो गुरुदारवाक्शरै-
र्भिन्नेन यातो हृदयेन दूयता।
वनं मदादेशकरोऽजितं प्रभुं
जिगाय तद‍्भक्तगुणैः पराजितम्॥

मूलम्

यः पञ्चवर्षो गुरुदारवाक्शरैः भिन्नेनयातो हृदयेन दूयता।
वनं 104मदादेशकरोऽजितं 105प्रभुं जिगाय 106तद‍्भक्त107गुणैः पराजितम्॥ ४२ ॥

अनुवाद (हिन्दी)

अहो! वे पाँच वर्षकी अवस्थामें ही सौतेली माताके वाग्बाणोंसे मर्माहत होकर दुःखी हृदयसे वनमें चले गये और मेरे उपदेशके अनुसार आचरण करके ही उन अजेय प्रभुको जीत लिया, जो केवल अपने भक्तोंके गुणोंसे ही वशमें होते हैं॥ ४२॥

गुरुदाराः पितृपत्नी सुरुचिः तस्या वाच 108एव बाणाः तैः भिन्नेनात एव दूयता तप्तेन हृदयेन यो ध्रुवः पञ्चवर्ष एव वनं प्रति गतः तत्राऽपि मदाज्ञावशवर्ती अजितमपि विभुं भगवन्तं 109तद्भक्तगुणैः भगवद्भक्तानां गुणैर्भूतमैत्य्रादिभिः पराजितं वशंगतम् “अहं भक्तपराधीनो ह्यस्वतन्त्रः” (भाग 9-4-63) इति भगवदुक्तेः भक्तपराधीनमित्यर्थः । जिगाय वशीकृतवान् ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

यः क्षत्रबन्धुर्भुवि तस्याधिरूढ-
मन्वारुरुक्षेदपि वर्षपूगैः।
षट्पञ्चवर्षो यदहोभिरल्पैः
प्रसाद्य वैकुण्ठमवाप तत्पदम्॥

मूलम्

यः क्षत्रबन्धुर्भुवि तस्याधिरूढमन्वारुरुक्षेदपि वर्षपूगैः।
110यः पञ्चवर्षो यदहोभिरल्पैः 111प्रसाद्य वैकुण्ठमवाप तत्पदम्॥ ४३ ॥

अनुवाद (हिन्दी)

ध्रुवजीने तो पाँच-छः वर्षकी अवस्थामें कुछ दिनोंकी तपस्यासे ही भगवान‍्को प्रसन्न करके उनका परमपद प्राप्त कर लिया; किन्तु उनके अधिकृत किये हुए इस पदको भूमण्डलमें कोई दूसरा क्षत्रिय क्या वर्षोंतक तपस्या करके भी पा सकता है?॥ ४३॥

तस्य ध्रुवस्य अधिरूढं प्राप्तं 112तेन पदमित्यर्थः । पदं स्थानं यो भुवि क्षत्रबन्धुः क्षत्रियाभासः वर्षसमूहैरपि अधिरोढुमिच्छेदपि किम् ? तत्सङ्कल्पोऽप्यशक्यः, दूरत आरोहणमित्यर्थः । कथम्भूतं पदं ? 113षट्पञ्च 114वा वर्षाणि यस्य सः । अल्पैरेव अहोभिर्दिनैः वैकुण्ठं 115प्रसाद्य 116प्रसन्नं कारयित्वा यत्तस्य पदमवाप ॥ ४३ ॥

श्लोक-४४

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

एतत्तेऽभिहितं सर्वं यत्पृष्टोऽहमिह त्वया।
ध्रुवस्योद्दामयशसश्चरितं सम्मतं सताम्॥

मूलम्

एतत्तेऽभिहितं सर्वं यत्पृष्टोऽहमिह त्वया।
ध्रुवस्योद्दाम यशसश्चरि117तं सम्मतं सताम्॥ ४४ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! तुमने मुझसे उदारकीर्ति ध्रुवजीके चरित्रके विषयमें पूछा था, सो मैंने तुम्हें वह पूरा-का-पूरा सुना दिया। साधुजन इस चरित्रकी बड़ी प्रशंसा करते हैं॥ ४४॥

वीरराघवः

तद्ध्रुवचरितं निगमयन् 118तच्छ्रवण- श्रावणादि118 फलमाह मुनिः एतदिति । त्वया 119यत्प्रति पृष्टोऽहं तत्सर्वं तुभ्यं कथितं किं तत्राऽह । उद्दामयशसः उत्कृष्टकीर्तेः ध्रुवस्य चरितं सतां हरिभक्तानां सम्मतम् ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

धन्यं यशस्यमायुष्यं पुण्यं स्वस्त्ययनं महत्।
स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम्॥

मूलम्

धन्यं यशस्यमायुष्यं पुण्यं स्वस्त्ययनं महत्।
स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम्॥ ४५ ॥

अनुवाद (हिन्दी)

यह धन, यश और आयुकी वृद्धि करनेवाला, परम पवित्र और अत्यन्त मंगलमय है। इससे स्वर्ग और अविनाशी पद भी प्राप्त हो सकता है। यह देवत्वकी प्राप्ति करानेवाला, बड़ा ही प्रशंसनीय और समस्त पापोंका नाश करनेवाला है॥ ४५॥

वीरराघवः

धन्यं धनेच्छया शृण्वतां श्रावयतां च धनसम्पादकं तथा यशस्यं यशस्करम् आयुष्करं स्वस्त्ययनं, मङ्गलकरं स्वर्गसम्पादकं, ध्रौव्यं ध्रुवस्थानप्रापकं सौमनस्यं मनः पीडाविनाशकं प्रशस्यं प्राशस्त्यसम्पादकम् अघमर्षणं पापनिरासकम् ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

श्रुत्वैतच्छ्रद्धयाभीक्ष्णमच्युतप्रियचेष्टितम्।
भवेद‍्भक्तिर्भगवति यया स्यात्क्लेशसंक्षयः॥

मूलम्

श्रुत्वैतच्छ्रद्धयाऽभीक्ष्णमच्युत प्रियचेष्टितम्।
भवेद‍्भक्तिर्भगवति यया स्यात्क्लेशसंक्षयः॥ ४६ ॥

अनुवाद (हिन्दी)

भगवद‍्भक्त ध्रुवके इस पवित्र चरित्रको जो श्रद्धापूर्वक बार-बार सुनते हैं, उन्हें भगवान‍्की भक्ति प्राप्त होती है, जिससे उनके सभी दुःखोंका नाश हो जाता है॥ ४६॥

वीरराघवः

एतदच्युतप्रियस्य ध्रुवस्य चेष्टितमभीक्ष्णं पौनः पुन्येन श्रद्धया श्रुत्वा यो वर्तते तस्य भगवति भक्तिर्भवति । भक्तिफलमाह- यया भक्त्या क्लेशाना माध्यात्मिकादीनां संक्षयो भवति ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

महत्त्वमिच्छतां तीर्थं श्रोतुः शीलादयो गुणाः।
यत्र तेजस्तदिच्छूनां मानो यत्र मनस्विनाम्॥

मूलम्

महत्त्वमिच्छतां तीर्थं श्रोतुः शीलादयो गुणाः।
यत्र तेजस्तदिच्छूनां 120मनो यत्र मनस्विनाम्॥ ४७ ॥

अनुवाद (हिन्दी)

इसे श्रवण करनेवालेको शीलादि गुणोंकी प्राप्ति होती है, जो महत्त्व चाहते हैं, उन्हें महत्त्वकी प्राप्ति करानेवाला स्थान मिलता है, जो तेज चाहते हैं, उन्हें तेज प्राप्त होता है और मनस्वियोंका मान बढ़ता है॥ ४७॥

वीरराघवः

महत्त्वं सर्वोत्कृष्टत्वमिच्छतां कामयमानानां तीर्थं 121महत्त्व प्राप्त्युपायो121 भवे दित्यनुषङ्गः । तथा श्रोतुः शीलादयो गुणाः भवेयुरित्यनुषक्तस्य वचनविपरिणामे122नाऽन्वयः । यत्र यस्मिन् ध्रुवचरिते श्रूयमाण इति शेषः । तदिच्छूनां तेज इच्छतां तेजो भवेत् । तेजसो विधेयत्वेन बुद्धिस्थत्वात् सन्निहितत्वात् प्रकृतत्वात् तच्छब्देन परामर्शा दुद्देश्यविशेषणत्वोपपत्तिः, तथा यत्र यस्मिन् चरिते मनस्विनां प्रशंसायां नित्ययोगे वा मत्वर्थीयः “अस्मायामेधाम्रजो विनिः” (अष्ट. 5-2-121) इति विनि प्रत्ययः । मनः प्राशस्त्यं, भगवति मनसो नित्ययोगं वा इच्छतां मनः प्रशस्तं नित्ययुक्तं वा मनो भवेदित्यर्थः ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

प्रयतः कीर्तयेत्प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥

मूलम्

प्रयतः कीर्तयेत्प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥ ४८ ॥

अनुवाद (हिन्दी)

पवित्रकीर्ति ध्रुवजीके इस महान् चरित्रका प्रातः और सायंकाल ब्राह्मणादि द्विजातियोंके समाजमें एकाग्र चित्तसे कीर्तन करना चाहिये॥ ४८॥

वीरराघवः

अर्थसामर्थ्यात्प्रातः सायं च सायङ्काले च प्रयतः मनः प्रणिधानयुक्तः द्विजन्मनां ब्राह्मणानां समवाये सभायां पुण्यश्लोकस्य ध्रुवस्य महत् समीहितसाधनं चरितं कीर्तयेत् ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥

मूलम्

पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽ123थवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥ ४९ ॥

वीरराघवः

पौर्णमास्यां सिनीवाल्यां दृष्टेन्दुकलाया ममावास्यायां श्रवण नक्षत्रयुक्ते दिने अर्कदिने सप्तमीभानुवासरादौ च कीर्तयेदिति सम्बन्धः ॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनाऽऽत्मानं सन्तुष्ट इति सिध्यति॥

मूलम्

श्रावयेच्छ्रद्धधानानां तीर्थपादपदाश्रयः।
नेच्छेस्तत्रात्मनाऽऽत्मानं सन्तुष्ट इति सिध्यति॥ ५० ॥

अनुवाद (हिन्दी)

भगवान‍्के परम पवित्र चरणोंकी शरणमें रहनेवाला जो पुरुष इसे निष्कामभावसे पूर्णिमा, अमावास्या, द्वादशी, श्रवण नक्षत्र, तिथिक्षय, व्यतीपात, संक्रान्ति अथवा रविवारके दिन श्रद्धालु पुरुषोंको सुनाता है, वह स्वयं अपने आत्मामें ही सन्तुष्ट रहने लगता है और सिद्ध हो जाता है॥ ४९-५०॥

वीरराघवः

नेच्छन्निष्कामः तीर्थं पादेयस्य सः तीर्थपादो भगवान् तस्य पदाश्रयः भागवतः श्रद्धधानानां श्रद्धायुक्तान् प्रति इदं चरितं श्रावयेत् भागवतस्य नितरामेतच्चरितश्रावणं युक्तमिति भावः । तत्र निष्काम124नया श्रावणे आत्मना स्वयमेवात्मानं श्रावयित्राद्यात्मानं प्रति सन्तुष्ट इति सन्तुष्टो भगवान् भवेदिति हेतोः सिद्धयति । निष्काम125नया यः श्रावयति 126तस्मै भगवान् स्वयमेव सन्तुष्ट इति सोऽपि सिद्धयत्वेव मुक्तिं प्राप्नोत्येवेत्यर्थः ॥ ५० ॥

श्लोक-५१

विश्वास-प्रस्तुतिः

ज्ञानमज्ञाततत्त्वाय यो दद्यात्सत्पथेऽमृतम्।
कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णते॥

मूलम्

ज्ञानमज्ञाततत्त्वाय यो दद्या127त्सत्पथेऽमृतम्।
कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णते॥ ५१ ॥

अनुवाद (हिन्दी)

यह साक्षात् भगवद्विषयक अमृतमय ज्ञान है; जो लोग भगवन् मार्गके मर्मसे अनभिज्ञ हैं—उन्हें जो कोई इसे प्रदान करता है, उस दीनवत्सल कृपालु पुरुषपर देवता अनुग्रह करते हैं॥ ५१॥

वीरराघवः

न केवलं निष्काम128नया श्रावयितारं भगवानेवाऽनु129गृह्णीते, अपि तु सर्व एव देवा अनुगृह्णते इत्याह - ज्ञानमिति । अज्ञातं तत्त्वं तत्त्वत्रययाथात्म्यं येन तस्मै सत्पथे सतां मार्गे भगवन्मार्गे इत्यर्थः, अमृतरूपं ज्ञानं यो दद्यात् तस्य कृपालोरत एव दीननाथस्य देवा अनुगृह्णते अनुग्रहं कुर्वन्ति ॥ ५१ ॥

श्लोक-५२

विश्वास-प्रस्तुतिः

इदं मया तेऽभिहितं कुरूद्वह
ध्रुवस्य विख्यातविशुद्धकर्मणः।
हित्वार्भकः क्रीडनकानि मातु-
र्गृहं च विष्णुं शरणं यो जगाम॥

मूलम्

इदं मयातेऽभिहितं कुरूद्वह ! ध्रुवस्य विख्यातविशुद्धकर्मणः।
हित्वार्भकः क्रीडनकानि मातुर्गृहं च विष्णुं शरणं130 यो जगाम॥ ५२ ॥

अनुवाद (हिन्दी)

ध्रुवजीके कर्म सर्वत्र प्रसिद्ध और परम पवित्र हैं; वे अपनी बाल्यावस्थामें ही माताके घर और खिलौनोंका मोह छोड़कर श्रीविष्णुभगवान‍्की शरणमें चले गये थे। कुरुनन्दन! उनका यह पवित्र चरित्र मैंने तुम्हें सुना दिया॥ ५२॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे ध्रुवचरितं नाम द्वादशोऽध्यायः॥ १२॥

वीरराघवः

हे कुरूद्वह ! विख्यातं प्रसिद्धं विशुद्धं131 श्रुण्वता मप्यघ132शोध133कं कर्म चेष्टितं यस्य तस्य ध्रुवस्येदं चरितं तुभ्यं मयाऽभिहितं कथितम् । यो ध्रुवः अर्भक एव सन् मातृगृहं क्रीडनकानि 134बाल क्रीडासाधनानि च त्यक्त्वा विष्णुं शरणं जगामेति पुनः पुनः 135विस्मयते ॥ ५२ ॥


  1. M,Ma,Ms मन्युः ↩︎

  2. A,B,T ध्रुवः ↩︎

  3. A मनुः ↩︎

  4. A,B,T शेन ↩︎

  5. A,B,T मनूप ↩︎ ↩︎

  6. A,B,T यक्षाणां ↩︎ ↩︎

  7. A,B,G,I,J,T भोः ↩︎

  8. W यत्त्वं ↩︎

  9. A,B,T उक्त ↩︎

  10. W omits ध्रुव ! ↩︎ ↩︎

  11. W omits ↩︎ ↩︎

  12. M,Ma व ↩︎

  13. M,Ma,Ms भात्यनुध्या ↩︎

  14. M,Ma,Ms यः ↩︎

  15. A,B,T हृत्य ↩︎

  16. A,B,T omit धीः ↩︎

  17. A,B,T omit कर्मत्व ↩︎

  18. A,B,T श्रुतेः ↩︎

  19. W नृप ↩︎

  20. A,B,T ममुमेव ↩︎

  21. A,B,T न्धविधा ↩︎

  22. A,J तदाधी ↩︎

  23. M,Ma वरार्हणोस्यम्बुज; W परं परार्होऽम्बुज ↩︎

  24. M,Ma,Ms निरन्तरं ↩︎

  25. A,B,T न ↩︎

  26. A,B,T अह्यैते पूज्येते इत्यर्हौ ↩︎ ↩︎

  27. A,B,T अव्यवहित चित्तम् ↩︎ ↩︎

  28. B omits ↩︎ ↩︎

  29. W omits ↩︎ ↩︎

  30. W omits ↩︎ ↩︎

  31. A,B,T omit ↩︎ ↩︎

  32. A,B,G,I,J,T दत्वैडबिङ, M,Ma दत्वै लिबिल ↩︎

  33. M,Ma,Ms कर्माऽकर्म; V कर्मसाध्यं फ ↩︎

  34. A,T,W omit ↩︎ ↩︎

  35. A,G,I,J तेऽसर्वे ↩︎

  36. A,B,T मभजत ↩︎

  37. W omits सर्वे ↩︎

  38. W omits कुर्वन् ↩︎

  39. T,W व ↩︎

  40. A,B,G,I,J,M,Ma,T षट्त्रिंशं ↩︎

  41. B न्नशुभै ↩︎

  42. A,B,T omit उभयोः ↩︎

  43. A,B,J षट्त्रिंश ↩︎

  44. Ms तिथ ↩︎

  45. A,B,G,I,J च ↩︎

  46. A,B,T omit ↩︎ ↩︎

  47. A,B,T तं ↩︎

  48. A,B,G,I,J,M,Ma,Ms,T,V त ↩︎

  49. A,B,T omit ↩︎ ↩︎

  50. M,Ma,Ms तस्या ↩︎

  51. W बद्धासनौ ↩︎

  52. M,Ma व्यसृजन्समाधौ, व्यसृजत् इत्यस्य स्थाने व्यसृजन् इति मूलश्लोकपाठो लभ्यते । परन्तु विजयध्वनीयव्याख्यानुसारेण विसृजन्, इति भाव्यम् । ↩︎

  53. W omits कान्ति ↩︎

  54. V ञ्चि ↩︎

  55. A,B,T omit ↩︎ ↩︎

  56. Ma नन्वीदृगीश्व ↩︎

  57. M,Ma द्भुवः; V द्भुवम् ↩︎

  58. W दिश सर्वाः ↩︎

  59. W द्यतम् ↩︎

  60. M,Ma,Ms भाव ↩︎

  61. M,Ma,Ms सन्नवि ↩︎

  62. M,Ma,Ms लभ्य ↩︎

  63. M,Ma,Ms,V प्रीत्यो ↩︎

  64. A,T omit ↩︎ ↩︎

  65. A,B,T omit ↩︎

  66. W omits ↩︎ ↩︎

  67. W भोराजन्नस्तु भद्रं ↩︎

  68. M,Ma,Ms भद्र ! ↩︎

  69. A,B,G,I,J,T,W वाचं; Ms वाचो ↩︎

  70. Ms यं ↩︎

  71. W omits ते ↩︎

  72. M,Ma विद्धि ↩︎

  73. A,T त्वा ↩︎

  74. W य ↩︎

  75. A,B,T omit ↩︎ ↩︎

  76. A,B,T कमु ↩︎

  77. B,M,Ma,Ms,V,W तां ↩︎

  78. V च ↩︎

  79. An additional verse is found in A,B,G,I,J,T Editions only. The commentary of the same is found in A,B,J,Va only. This appears in its proper place. ↩︎

  80. M,Ma,Ms हं ↩︎

  81. M,Ma,Ms नैनां ↩︎

  82. M,Ma सायं; T,V,W सीय ↩︎

  83. A,B,G,I,J,T पुरो ↩︎

  84. M,Ma,Ms चाग्रगाम् ↩︎

  85. A,B,T omit ↩︎

  86. M,Ma,Ms पु ↩︎

  87. M,Ma ति ↩︎

  88. A,B,G,I,J,M,Ma,Ms,T,V विष्णो पद मथाऽभ्यगात् ↩︎ ↩︎

  89. M,Ma,Ms न ते खला जन्तुषु ये त्वनुग्रहात् ↩︎ ↩︎

  90. W सिद्धा ↩︎

  91. A,B,T प्रीतिं कुर्वन्तीति ↩︎ ↩︎

  92. A,B,T omit सिद्धाः ↩︎

  93. A,B,T कप्राप्तेः ↩︎

  94. A,B,T णान्वयः ↩︎ ↩︎

  95. M,Ma,Ms वेगाऽनिमिषा, W वेगो ह्यनिश ↩︎

  96. A,B,G,I,J,T,V माहितम् ↩︎

  97. A,B,G,I,J,M,Ma,Ms,T मेढ्या ↩︎

  98. A,B,T मेढ्यां ↩︎

  99. A,B,T omit ↩︎ ↩︎

  100. A,B,T omit ब्रह्मसत्रे ↩︎

  101. A,B,T ध्रुवस्य म ↩︎

  102. W omits ↩︎ ↩︎

  103. A,B,T omit तां ↩︎

  104. M,Ma ममाऽऽ ↩︎

  105. Ms,V विभुं ↩︎

  106. M,Ma तद्भक्ति ↩︎

  107. Ms जनै ↩︎

  108. A,B,T omit एव ↩︎

  109. A,B,T omit तद्भक्त ↩︎

  110. A,B,G,I,J,T,V षट् ↩︎

  111. W आसाद्य ↩︎

  112. A,B,T omit तेन ↩︎

  113. A,B,T omit षट् ↩︎

  114. A,B,T omit वा ↩︎

  115. A,B,T आसाद्य ↩︎

  116. A,B,T आसन्नं ↩︎

  117. W त्रं ↩︎

  118. A,B,T तच्छ्रवणादि ↩︎ ↩︎

  119. T यत्परि ↩︎

  120. A,B,G,I,J,M,Ma,T,W मानो ↩︎

  121. A,B,T महत्वं प्राप्तुमुपायो ↩︎ ↩︎

  122. W न सम्बन्धः । ↩︎

  123. W तथा ↩︎

  124. A,B,T तया ↩︎

  125. A,B,T तया ↩︎

  126. A,B,T तस्मिन् ↩︎

  127. M,Ma,Ms त्परमार्थवित् ↩︎

  128. A,B,T तथा ↩︎

  129. A,B,T गृह्णाति ↩︎

  130. A,B,G,I,J,M,Ma,T,V add यो ↩︎

  131. A,B,T add कर्म यस्य सः ↩︎

  132. A,B,T add कर्मणां ↩︎

  133. A,B,T नं ↩︎

  134. A,B,T omit बाल ↩︎

  135. W विस्मीयते ↩︎