११

[एकादशोऽध्यायः]

भागसूचना

स्वायम्भुव-मनुका ध्रुवजीको युद्ध बंद करनेके लिये समझाना

श्लोक-१

मूलम् (वचनम्)

मैत्रेय1 उवाच

विश्वास-प्रस्तुतिः

निशम्य गदतामेवमृषीणां धनुषि ध्रुवः।
संदधेऽस्त्रमुपस्पृश्य यन्नारायणनिर्मितम्॥

मूलम्

निशम्य गदतामेवमृषीणां धनुषि ध्रुवः।
संदधेऽस्त्रमुपस्पृश्य यन्नारायणनिर्मितम्॥ १ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! ऋषियोंका ऐसा कथन सुनकर महाराज ध्रुवने आचमन कर श्रीनारायणके बनाये हुए नारायणास्त्रको अपने धनुषपर चढ़ाया॥ १॥

वीरराघवः

एवं गदतां वचनमुपदेशमिव निशम्य उपस्पृश्याचम्य यन्नारायणनिर्मितं नारायणास्त्रं तत्संदधे ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

संधीयमान एतस्मिन्माया गुह्यकनिर्मिताः।
क्षिप्रं विनेशुर्विदुर क्लेशा ज्ञानोदये यथा॥

मूलम्

संधीयमान एतस्मिन्माया गुह्यकनिर्मिताः।
क्षिप्रं विनेशुर्विदुर क्लेशा ज्ञानोदये यथा॥ २ ॥

अनुवाद (हिन्दी)

उस बाणके चढ़ाते ही यक्षोंद्वारा रची हुई नाना प्रकारकी माया उसी क्षण नष्ट हो गयी, जिस प्रकार ज्ञानका उदय होनेपर अविद्यादि क्लेश नष्ट हो जाते हैं॥ २॥

वीरराघवः

क्लेशा अविद्यास्मितारागद्वेषाभिनिवेशा यथा ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

तस्यार्षास्त्रं धनुषि प्रयुञ्जतः
सुवर्णपुङ्खाः कलहंसवाससः।
विनिःसृता आविविशुर्द्विषद‍्बलं
यथा वनं भीमरवाः शिखण्डिनः॥

मूलम्

तस्यार्षास्त्र2 धनुषि प्रयुञ्जतः सुवर्णपुङ्खाः कलहंसवाससः।
विनिःसृता3 आविविशुर्द्विषद‍्बलं यथा वनं भीमरवाः शिखण्डिनः॥ ३ ॥

अनुवाद (हिन्दी)

ऋषिवर नारायणके द्वारा आविष्कृत उस अस्त्रको धनुषपर चढ़ाते ही उससे राजहंसके-से पक्ष और सोनेके फलवाले बड़े तीखे बाण निकले और जिस प्रकार मयूर केकारव करते वनमें घुस जाते हैं, उसी प्रकार भयानक साँय-साँय शब्द करते हुए वे शत्रुकी सेनामें घुस गये॥ ३॥

वीरराघवः

किं च ध्रुवस्यार्षास्त्रमृषेर्नारायणादुद्भूतमस्त्रं प्रयुंजतः संदधतः सतः सुवर्णमयाः पुंखा मूलप्रांता येषाम् । कलहंसानां वासांसि पक्षा येषां ते शरा विनिःसृता इति द्रष्टव्यम् । उपरिष्टाच्छिलीमुखग्रहणात् ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

तैस्तिग्मधारैः प्रधने शिलीमुखै-
रितस्ततः पुण्यजना उपद्रुताः।
तमभ्यधावन् कुपिता उदायुधाः
सुपर्णमुन्नद्धफणा इवाहयः॥

मूलम्

तैस्तिग्मधारैः प्रधने शिलीमुखैरितस्ततः पुण्यजना उपद्रुताः।
तमभ्यधावन् कुपिता उदायुधाः सुपर्णमुन्नद्धफणा इवाहयः॥ ४ ॥

अनुवाद (हिन्दी)

उन तीखी धारवाले बाणोंने शत्रुओंको बेचैन कर दिया। तब उस रणांगणमें अनेकों यक्षोंने अत्यन्त कुपित होकर अपने अस्त्र-शस्त्र सँभाले और जिस प्रकार गरुड़के छेड़नेसे बड़े-बड़े सर्प फन उठाकर उनकी ओर दौड़ते हैं, उसी प्रकार वे इधर-उधरसे ध्रुवजीपर टूट पड़े॥ ४॥

वीरराघवः

प्रधनै तैः तिग्मधारैः शिलीमुखैः उपद्रुताः पुण्यजनाः कुपिताः उदायुधाः उन्नद्धफणाः अहयः सुपर्णम् इव तम् इतस्ततः अभ्यधावन् ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

स तान् पृषत्कैरभिधावतो मृधे
निकृत्तबाहूरुशिरोधरोदरान्।
निनाय लोकं परमर्कमण्डलं
व्रजन्ति निर्भिद्य यमूर्ध्वरेतसः॥

मूलम्

स तान् पृषत्कैरभिधावतो मृधे निकृत्तबाहूरुशिरोधरोदरान्।
निनाय लोकं परमर्कमण्डलं व्रजन्ति निर्भिद्य यमूर्ध्वरेतसः॥ ५ ॥

अनुवाद (हिन्दी)

उन्हें सामने आते देख ध्रुवजीने अपने बाणोंद्वारा उनकी भुजाएँ, जाँघें, कंधे और उदर आदि अंग-प्रत्यंगोंको छिन्न-भिन्न कर उन्हें उस सर्वश्रेष्ठ लोक (सत्यलोक)-में भेज दिया, जिसमें ऊर्ध्वरेता मुनिगण सूर्यमण्डलका भेदन करके जाते हैं॥ ५॥

श्लोक-६

विश्वास-प्रस्तुतिः

तान् हन्यमानानभिवीक्ष्य गुह्यका-
ननागसश्चित्ररथेन भूरिशः।
औत्तानपादिं कृपया पितामहो
मनुर्जगादोपगतः सहर्षिभिः॥

मूलम्

तान् हन्यमानानभिवीक्ष्य गुह्यकाननागसश्चित्ररथेन भूरिशः4
औत्तानपादिं कृपया पितामहो मनुर्जगादोपगतः सहर्षिभिः॥ ६ ॥

अनुवाद (हिन्दी)

अब उनके पितामह स्वायम्भुव मनुने देखा कि विचित्र रथपर चढ़े हुए ध्रुव अनेकों निरपराध यक्षोंको मार रहे हैं, तो उन्हें उनपर बहुत दया आयी। वे बहुत-से ऋषियोंको साथ लेकर वहाँ आये और अपने पौत्र ध्रुवको समझाने लगे॥ ६॥

वीरराघवः

एवमनागसो निरपराधिनः चित्ररथेन ध्रुवेन बहुशः हन्यमानान् पीड्यमानान् गुह्यकान् यक्षान् वीक्ष्य ध्रुवस्य पितामहो मनुः स्वायम्भुवः कृपया महर्षिभिः सहोपगतः समीपं प्राप्तः औत्तानपादिं जगाद उवाच ॥ ६ ॥

श्लोक-७

मूलम् (वचनम्)

मनुरुवाच

विश्वास-प्रस्तुतिः

अलं वत्सातिरोषेण तमोद्वारेण पाप्मना।
येन पुण्यजनानेतानवधीस्त्वमनागसः॥

मूलम्

अलं वत्सातिरोषेण तमोद्वारेण पाप्मना।
येन पुण्यजनानेतानवधीस्त्वमनागसः॥ ७ ॥

अनुवाद (हिन्दी)

मनुजीने कहा—बेटा! बस, बस! अधिक क्रोध करना ठीक नहीं। यह पापी नरकका द्वार है। इसीके वशीभूत होकर तुमने इन निरपराध यक्षोंका वध किया है॥ ७॥

वीरराघवः

5उक्तिमेवाह - अलमित्यादिना । हे वत्स ! तमोद्वारेण सम्मो6हात्मकाज्ञानहेतुना “क्रोधाद्भवति सम्मोहः" (भ.गी. 2-63) इति स्मरणात् पाप्मना निरयहेतुना रोषेणालं येन रोषेणानागसः एतान् पुण्यजनान् त्वमवधीः हतवानसि ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

नास्मत्कुलोचितं तात कर्मैतत्सद्विगर्हितम्।
वधो यदुपदेवानामारब्धस्तेऽकृतैनसाम्॥

मूलम्

नास्मत्कुलोचितं तात कर्मैतत्सद्विगर्हितम्।
7वधो यदुपदेवानामारब्धस्तेऽकृतैनसाम्॥ ८ ॥

अनुवाद (हिन्दी)

तात! तुम जो निर्दोष यक्षोंके संहारपर उतर रहे हो, यह हमारे कुलके योग्य कर्म नहीं है; साधु पुरुष इसकी बड़ी निन्दा करते हैं॥ ८॥

वीरराघवः

हे तात ! सद्भिर्विगर्हितमत एव एतत्कर्मास्मत्कुलोचितं न भवति अकृतागसां यक्षाणामयं वधः ते त्वया आरब्धः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

नन्वेकस्यापराधेन प्रसङ्गाद् बहवो हताः।
भ्रातुर्वधाभितप्तेन त्वयाङ्ग भ्रातृवत्सल॥

मूलम्

नन्वेकस्यापराधेन 8तत्सङ्गाद् बहवो हताः।
भ्रातुर्वधाभितप्तेन त्वयाङ्ग भ्रातृवत्सल॥ ९ ॥

अनुवाद (हिन्दी)

बेटा! तुम्हारा अपने भाईपर बड़ा अनुराग था, यह तो ठीक है; परन्तु देखो, उसके वधसे सन्तप्त होकर तुमने एक यक्षके अपराध करनेपर प्रसंगवश कितनोंकी हत्या कर डाली॥ ९॥

वीरराघवः

ननु मद्भातृहन्तार एते उपदेवाः कथमनागसस्तत्राह - नन्विति । अङ्ग ! हे भ्रातृवत्सल ! भ्रातुः उत्तमस्य यो वधः तेनाभितप्तेन त्वया एकस्य यक्षस्यापराधेन हेतुना तस्यापराधिनः सङ्गात् सम्बन्धात् बहवो हताः घातिताः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम्।
यदात्मानं पराग्गृह्य पशुवद‍्भूतवैशसम्॥

मूलम्

नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम्।
यदात्मान9मसङ्गृह्य पशुवत् भूतवैशसम्॥ १० ॥

अनुवाद (हिन्दी)

इस जड शरीरको ही आत्मा मानकर इसके लिये पशुओंकी भाँति प्राणियोंकी हिंसा करना यह भगवत्सेवी साधुजनोंका मार्ग नहीं है॥ १०॥

वीरराघवः

आत्मानं मनः असङ्गृह्य अनियम्य । परागृह्येति पाठे पराभवविषयं देहमात्मत्वेन गृहीत्वा पशवो यथा देहात्माभिमानेनान्योऽन्यं घ्नन्ति तथा भूतनां वैशसं हिंसेति यदयं भगवद्भक्तानां साधूनां मार्गो न भवति ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

सर्वभूतात्मभावेन भूतावासं हरिं भवान्।
आराध्याप दुराराध्यं विष्णोस्तत्परमं पदम्॥

मूलम्

सर्वभूतात्मभावेन भूतावासं हरिं भवान्।
आराध्याऽऽप दुराराध्यं विष्णोस्तत्परमं पदम्॥ ११ ॥

अनुवाद (हिन्दी)

प्रभुकी आराधना करना बड़ा कठिन है, परन्तु तुमने तो लड़कपनमें ही सम्पूर्ण भूतोंके आश्रय-स्थान श्रीहरिकी सर्वभूतात्मभावसे आराधना करके उनका परमपद प्राप्त कर लिया है॥ ११॥

वीरराघवः

सत्यं भगवद्भक्तानामयं मार्गो न भवतीति मम तु उचितमित्यत्राह - सर्वभूतात्मभावेनेति । आवसन्त्यस्मिन्नित्यावासः आवसतीति वा आवासः भूतानामावासं धारकमन्तरात्मानं इतरैरब्रह्मात्मकस्वतन्त्रवस्तुदर्शिभिः दुराराध्यं हरिं सर्वभूतात्मभावेन सर्वभूतान्तरात्मत्वेनाऽऽकारेणाराध्यं परमं सर्वोत्कृष्टं तत् प्रसिद्धं विष्णोः पदं लोकम् आप प्राप्तवानसि । इतः पूर्वमप्राप्तमपि भगवता दत्तत्वात्प्राप्तप्रायमिति मत्वा आपेत्युक्तम् ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

स त्वं हरेरनुध्यातस्तत्पुंसामपि सम्मतः।
कथं त्ववद्यं कृतवाननुशिक्षन् सतां व्रतम्॥

मूलम्

स त्वं हरेरनु10ध्यातस्तत्पुंसामपि सम्मतः।
कथं त्ववद्यं कृतवाननुशिक्षन् सतां व्रतम्॥ १२ ॥

अनुवाद (हिन्दी)

तुम्हें तो प्रभु भी अपना प्रिय भक्त समझते हैं तथा भक्तजन भी तुम्हारा आदर करते हैं। तुम साधुजनोंके पथप्रदर्शक हो; फिर भी तुमने ऐसा निन्दनीय कर्म कैसे किया?॥ १२॥

वीरराघवः

हरेरनुध्यानात् भजनात् सः हरिभक्तस्त्वं तत्पुंसां हरिभक्तानामपि सम्मतः भागवतोत्तमत्वेन सम्मतः सतां साधूनां व्रतम् 11अनुशिक्षन्11 अनुशिक्षयन् लोकस्येति शेषः । कथम् अवद्यं वक्तुमप्यनर्हं पापं कृतवान् भगवद्भक्तस्य नितरामेतदनुचितमित्यर्थः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

तितिक्षया करुणया मैत्र्या चाखिलजन्तुषु।
समत्वेन च सर्वात्मा भगवान् सम्प्रसीदति॥

मूलम्

तितिक्षया करुणया मैत्र्या चाखिलजन्तुषु।
समत्वेन च सर्वात्मा भगवान् सम्प्रसीदति॥ १३ ॥

अनुवाद (हिन्दी)

सर्वात्मा श्रीहरि तो अपनेसे बड़े पुरुषोंके प्रति सहनशीलता, छोटोंके प्रति दया, बराबरवालोंके साथ मित्रता और समस्त जीवोंके साथ समताका बर्ताव करनेसे ही प्रसन्न होते हैं॥ १३॥

वीरराघवः

भूतद्रोहेण भगवद्भक्तेः को विरोध इत्यत्राह - तितिक्षयेति । तितिक्षया अपराधिषु सहनेन करुणया परदुःखासहिष्णुत्वेन अखिलजन्तुषु तरतमभावेन व्यवस्थि12तजन्तुषु मैत्र्या स्वसाम्यबुद्धिकृतहिताचरणेन समत्वेन देहाकारान् प्रकृतिपरिणामत्वेन जीवान् ज्ञानैकाकारत्वेन, परमात्मानं तु सर्वान्तरात्मत्वेनेत्येवंरूपसमत्वेन वा सर्वात्मा भगवान् सम्प्रसीदति । सर्वात्मेति हेतुगर्भं, भगवतः सर्वात्मकत्वात् 13सर्वान्तरात्मतया देवमनुष्यादिरूपेणावस्थितत्वात् सर्वेषां शरीराणामीश्वरशरीरत्वेन शरीरकृतो द्रोहः शरीरिण्यात्मन्येव भगवति पर्यवस्यतीति भूत14द्रोहे भगवान् न प्रसीदतीत्यर्थः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

सम्प्रसन्ने भगवति पुरुषः प्राकृतैर्गुणैः।
विमुक्तो जीवनिर्मुक्तो ब्रह्म निर्वाणमृच्छति॥

मूलम्

15सम्प्रसन्ने भगवति पुरुषः प्राकृतैर्गुणैः।
विमुक्तो16 जीवनिर्मुक्तो ब्रह्म निर्वाणमृच्छति॥ १४ ॥

अनुवाद (हिन्दी)

और प्रभुके प्रसन्न हो जानेपर पुरुष प्राकृत गुण एवं उनके कार्यरूप लिंगशरीरसे छूटकर परमानन्दस्वरूप ब्रह्मपद प्राप्त कर लेता है॥ १४॥

वीरराघवः

भगवत्प्रसादफलमाह - सुप्रसन्न इति । पुरुषः सर्वात्मब्रह्मोपासनपरः पुमान् तितिक्षादिभिः भगवति प्रसन्ने सति प्राकृतैः 17कामक्रोधादिभिर्जीवद्दशायां विमुक्तः अन्ते अजीवात् प्रकृतेः नितरां मुक्तः निर्वाणं निरतिशयानन्दरूपं ब्रह्मऋच्छति प्राप्नोति ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

भूतैः पञ्चभिरारब्धैर्योषित्पुरुष एव हि।
तयोर्व्यवायात्सम्भूतिर्योषित्पुरुषयोरिह॥

मूलम्

भूतैः पञ्चभिरार18ब्धो योषित्पुरुष एव 19हि।
तयोर्व्यवायात्सम्भूतिर्योषित्पुरुषयोरिह॥ १५ ॥

अनुवाद (हिन्दी)

बेटा ध्रुव! देहादिके रूपमें परिणत हुए पंचभूतोंसे स्त्री-पुरुषका आविर्भाव होता है और फिर उनके पारस्परिक समागमसे दूसरे स्त्री-पुरुष उत्पन्न होते हैं॥ १५॥

वीरराघवः

एवं सर्वभूतसुहृत्त्वादीन् भगवत्प्रसादहेतून् प्रसादफलभूतां ब्रह्मप्राप्तिं चाभिधाय तत्त्वोपदेशमन्तरेण भ्रातृमरणदुःखितस्यास्य न मनः प्रशाम्यतीत्यभिप्रेत्य न भ्रातृहननकर्मत्वं नापि यक्षाणां कर्तृत्वं, किन्तु दैवमेव कारणमिति वक्तुं भ्रात्रादिशरीराणामुत्पत्तिमरणादिकं यथावद्विवेचयन् तदुपयुक्तमीश्वरस्यानन्तविविधशक्तिमत्त्वमाह - भूतैरिति । पञ्चभिर्भूतैः पृथिव्यादिभिः आरब्धः देवमनुष्यादिशररीररूपेण परिणतः योषित् पुरुषश्चेत्ययं द्विविधो जनः प्रसिद्धः । तयोः योषित्पुरुषयोरन्योऽन्यव्यवायान्मैथुनात् सम्भूतिरिह भवति तस्मादुद्भूतं प्राणिजातमित्यर्थः । पञ्चभूतपरिणामरूपस्त्री20पुंसात्मकशरीरद्वयसम्बन्धादुद्भूतमपि प्राणिजातं पञ्चभूतात्मकमेवेति भावः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

एवं प्रवर्तते सर्गः स्थितिः संयम एव च।
गुणव्यतिकराद्राजन् मायया परमात्मनः॥

मूलम्

एवं प्र21वर्तते सर्गः स्थितिः 22संयम एव च।
गुणव्यतिकराद्राजन् 23मायया परमात्म24नः॥ १६ ॥

अनुवाद (हिन्दी)

ध्रुव! इस प्रकार भगवान‍्की मायासे सत्त्वादि गुणोंमें न्यूनाधिकभाव होनेसे ही जैसे भूतोंद्वारा शरीरोंकी रचना होती है, वैसे ही उनकी स्थिति और प्रलय भी होते हैं॥ १६॥

वीरराघवः

एव व्यष्टिसर्ग उक्त । अथ सर्वशरीराणा पञ्चभूतारब्धत्वेऽपि कदा 25सर्वभूतात्मक25 भूतसृष्टि तै शरीरारम्भस्थितिकारण सहारकारण च कि, तच्च द्वय कदा ? कदा वा ईश्वरकृत्य च, कि त26द्रूपमित्यत्राह - एवमिति । एव यथा स्त्रीपुसात्मको जन तद्व्यवायसम्भव, एव परमात्मन मायाया परमात्माधिष्ठिताया तच्छरीरभूताया मायाया गुणाना सत्त्वादीना व्यतिकरात् तारतम्येन सम्बन्धात् हे राजन् ! ध्रुव ! सर्ग सृष्टि स्थिति सहारश्च प्रवर्तते । तत्र रजसो वृद्धावितरयोर्हृसे सर्ग, सत्त्वस्य वृद्धौ इतरयो ह्रासे स्थिति, तमसो वृद्धौ तु सयम, त्रयाणा साम्ये त्रितयाभाव ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

निमित्तमात्रं तत्रासीन्निर्गुणः पुरुषर्षभः।
व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत्॥

मूलम्

निमित्तमात्रं तत्राऽऽसी27त् निर्गुणः पुरुषर्षभः।
व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत्॥ १७ ॥

अनुवाद (हिन्दी)

पुरुषश्रेष्ठ! निर्गुण परमात्मा तो इनमें केवल निमित्तमात्र है; उसके आश्रयसे यह कार्यकारणात्मक जगत् उसी प्रकार भ्रमता रहता है, जैसे चुम्बकके आश्रयसे लोहा॥ १७॥

वीरराघवः

ननु स्त्रीपुसात्मकशरीराणा वैषम्येण सम्बद्धाना गुणाना वा जडत्वेन प्रवृत्तिशून्याना व्यष्टिसमष्ट्यात्मना कथ परिणाम सामर्थ्यम् ? सामर्थ्येऽपि कथ देवमनुष्यादिवैचित्र्य, सुखदुःखतारतम्य चेत्यत्राह - निमित्तमात्रमिति । निमित्तमेव निमित्तमात्र न त्वनिमित्तमित्यर्थ । तत्र गुणाना महदाद्याकारेण परिणाम, 28महदादीना देहाद्याकारेण परिणामे च28 देवादिवैचित्र्ये सुखदुःखयोश्च निर्गुण सत्त्वादिगुणरहित पुरुषर्षभ ईश्वर निमित्तमात्र गुणाना परिणामस्य तेषा तत्स्वाभाव्यनिबन्धनत्वाद् देवादिवैचित्र्यस्य सुखदुःखतारतम्यस्य च कर्मनिबन्धनत्वादीश्वर साधारणकारण कालाकाशादिवदित्यर्थ । निमित्तत्वमेव दृष्टान्तत्वेन विशदयति । यत्र परमात्ममि निमित्ते अयस्कान्तसन्निधौ लोहवत् इद व्यक्ताव्यक्तम् अव्यक्त प्रधान तत्कार्य महदादि व्यक्त कार्यकारणात्मक विश्व भ्रमति प्रवर्तते । अत्र लोके मृत्युकालयो विभिन्नयोरेव निमित्तत्वोपादनत्वदर्शनादुपादानस्य परमात्मनो जगत्सृष्ट्यादिनिमित्तत्वानुपपत्तिरितीमा 29शङ्का निराचिकीर्षुणा मात्रपद प्रयुक्त, न तु उपादाननिराचिकीर्षया परमात्मनो मायाया गुणव्यतिकरादित्युपादानत्वाभिधानात् सम्बन्धसामान्याभिधायिन्या अपि षष्ठ्या “यस्याव्यक्त शरीरम्” (सुबा. उ. 2-7) इत्यादिश्रुत्यनुसारेण शरीरात्मभाव रूपसम्बन्धविशेषे पर्यवसानात् शरीरस्य कार्योपयोग्यपृथक्सिद्धाकारत्वात् श्लक्ष्णतादिविशिष्टमृदादिकार्यभूतघटादीनामिव महदादिकार्याणा प्रकृत्यादिशरीरकपरमात्मकार्यत्वात् । अत्र निर्गुण इत्यनेन सत्त्वादिगुणवश्यत्वायत्तकर्तृत्वसुखदुःखादि30भागजीववैलक्षण्यमभिप्रेतम् ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

स खल्विदं भगवान् कालशक्त्या
गुणप्रवाहेण विभक्तवीर्यः।
करोत्यकर्तैव निहन्त्यहन्ता
चेष्टा विभूम्नः खलु दुर्विभाव्या॥

मूलम्

स खल्विदं भगवान् 31कालशक्त्या गुणप्रवाहे32ण विभक्तवीर्यः।
करोत्यक33र्तैव निहन्त्यहन्ता चेष्टा विभूम्नः खलु दुर्विभाव्या॥ १८ ॥

अनुवाद (हिन्दी)

काल-शक्तिके द्वारा क्रमशः सत्त्वादि गुणोंमें क्षोभ होनेसे लीलामय भगवान‍्की शक्ति भी सृष्टि आदिके रूपमें विभक्त हो जाती है; अतः भगवान् अकर्ता होकर भी जगत‍्की रचना करते हैं और संहार करनेवाले न होकर भी इसका संहार करते हैं। सचमुच उन अनन्त प्रभुकी लीला सर्वथा अचिन्तनीय है॥ १८॥

वीरराघवः

तदेव विशदयति - स इति । भगवान् हेयप्रतिभटपूर्णषाड्गुण्य कालशक्त्या कालात्मिकया स्वापृथक्सिद्धकार्योपयोगिविशेषणभूतया शक्त्या गुणक्षोभहेतुभूतया यो गुणाना सत्त्वादीना प्रवाह 34सर्ग तेन विभक्तवीर्य विभक्त कर्मायत्तदेवमनुष्यादिवैचित्र्येण सुखदुःखतारतम्येन च व्यवस्थापित वीर्य शक्ति जगदिति यावत् । “एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मण शक्तिस्तथेदमखिल जगत् ॥” (विष्णु 1-22-56) इत्युक्तत्वात् । अत्र स्यामित्यध्याह्रियते, विभक्तवीर्य स्यामिति । इद करोति सृजतीत्यन्वय । गुणक्षोभनिमित्तकालप्रकृतिपुरुषशरीरकोऽह जगत्सृष्ट्वाऽनन्तविविधविचित्रस्थिरत्रासरूप स्यामिति सङ्कल्पेनेद जगत्सृजतीत्यर्थ । यद्वा गुणप्रवाहेणेति हेत्वर्थे तृतीया । हेतुश्चात्र फलम्, अध्ययनेन वसतीतिवत् । ततश्च गुणप्रवाहेण गुणप्रवाहार्थ, प्रवाहशब्देन गुणकार्यसृष्ट्यादित्रय विविक्षत, सृष्ट्याद्यर्थ विभक्तवीर्य सृष्ट्याद्युपयुक्तसामर्थ्य येन स ब्रह्म विष्णुरुद्ररूपो भूत्वेत्यर्थ । अकर्तैव देवादिवैचित्र्ये सुखदुःखादौ चाकर्तैव देवादिवैचित्र्यादे तत्तज्जीवादृष्टायत्तत्वात्, इद जगत् करोति उत्पादयति तथा अहन्तैव स्वयहननाद्यनाश्रय एव हन्ति, “चातुर्वर्ण्य मया सृष्ट गुणकर्मविभागश । तस्य कर्तारमपि मा विद्ध्यकर्तारमव्ययम्” (भगी 4-13) “प्रधानकारणीभूता यतो वै सृज्यशक्तय” (विष्णु. पु. 1-4-51) इति स्मृते, “हन्ता चेन्मन्यते हन्तु हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीत नाय हन्ति न हन्यते” (कठ. उ. 2-19) इति श्रुतेश्च । अत्र कर्तृत्व, हन्तृत्व च प्रयोजकत्वरूपेण, अकर्तृत्व तु प्रयोज्यत्वरूपेणेति विवेक । नन्विदमघटमान कर्तृत्वमकर्तृत्व चैकस्मिन् कथमुपपद्यते तत्राह । विभूम्न भगवत “भूमा त्वेव विजिज्ञासितव्य" (छान्दो. उ. 7-23-1) इति श्रुते । चेष्टा दुर्विभाव्या अप्रतर्क्या खलु ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः।
जनं जनेन जनयन्मारयन्मृत्युनान्तकम्॥

मूलम्

सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः।
जनं जनेन जनयन्मारयन्मृत्यु35नान्त36कम्॥ १९ ॥

अनुवाद (हिन्दी)

ध्रुव! वे कालस्वरूप अव्यय परमात्मा ही स्वयं अन्तरहित होकर भी जगत‍्का अन्त करनेवाले हैं तथा अनादि होकर भी सबके आदिकर्ता हैं। वे ही एक जीवसे दूसरे जीवको उत्पन्न कर संसारकी सृष्टि करते हैं तथा मृत्युके द्वारा मारनेवालेको भी मरवाकर उसका संहार करते हैं॥ १९॥

वीरराघवः

प्रयोजयितृत्वमेव विशदयति - स इति । स काल कालशरीरक परमात्मा जनेन पित्रादिना प्रयोज्यकर्त्रा जनमुत्पत्त्युन्मु3738पुत्रादि जनयन् आदिकृत् अन्त39ग विनाशोन्मुख मृत्युना प्रयोज्यकर्त्रा मारयन् स्वय त्वनादि उत्पत्तिरहित अव्यय नाशरहित अनन्त, अन्तकर । पित्रादिद्वारा जनक मृत्व्यादिद्वारा अन्तकर, न तु साक्षात् । अत साक्षादकर्तृत्व सद्वारक कर्तृत्व चैकस्मिन् विविधविचित्रानन्तशक्तिमतीश्वर उपपन्नमिति भाव ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

न वै स्वपक्षोऽस्य विपक्ष एव वा
परस्य मृत्योर्विशतः समं प्रजाः।
तं धावमानमनुधावन्त्यनीशा
यथा रजांस्यनिलं भूतसङ्घाः॥

मूलम्

40न वै स्वपक्षोऽस्य विपक्ष एव वा परस्य मृत्योर्विशतः समं प्रजाः।
तं धावमानमनुधावन्त्यनीशा यथा रजांस्यनिलं भूतसङ्घाः॥ २० ॥

अनुवाद (हिन्दी)

वे कालभगवान् सम्पूर्ण सृष्टिमें समानरूपसे अनुप्रविष्ट हैं। उनका न तो कोई मित्रपक्ष है और न शत्रुपक्ष। जैसे वायुके चलनेपर धूल उसके साथ-साथ उड़ती है, उसी प्रकार समस्त जीव अपने-अपने कर्मोंके अधीन होकर कालकी गतिका अनुसरण करते हैं—अपने-अपने कर्मानुसार सुख-दुःखादि फल भोगते हैं॥ २०॥

वीरराघवः

ननु प्रयोजयितृत्वमपि कथमीश्वरस्य उपपन्न वैषम्यनैर्घुण्यादिप्रसङ्गादित्यशङ्काया तत्कर्मानु41रूप प्रयोजयितु पक्षपाताभावादुपपन्नमेव प्रयोजयितृत्वमित्याह - न वा इति । मृत्यो ससारात् परस्यास्पृष्टससारस्येत्यर्थ । यद्वा मृत्युशरीरकस्य “यो मृत्युमन्तरे सञ्चरन् यस्य मृत्यु शरीरम्" (सु. ब. उ. 2-7) इति श्रुते परस्य परमात्मन सम यथा भवति तथा प्रजा कर्मभूता विशत तत्तत्कर्मानुरूपनियमनार्थमन्तरात्मतया प्रविशत न स्वपक्ष नापि विपक्षो वास्ति । पक्षपाताभाव दृष्टान्तेनोपपादयति - तमिति । यथा रजासि धावमानमनिलम् अनुसृत्य धावन्ति तथा अनीशा अनियन्तार कर्मानुरूपनियम्या इत्यर्थ । भूतसङ्घा तत्तत्कर्मानुसार धावमान नियन्तार परमात्मानमनुसृत्य धावन्ति प्रवर्तन्ते यथा हर्म्यतलश्वभ्रादिषु रजास्यनुनेतु 42न वायो वैषम्यमस्तु इत्येव परमात्मन्यपीत्यर्थ ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

आयुषोऽपचयं जन्तोस्तथैवोपचयं विभुः।
उभाभ्यां रहितः स्वस्थो दुःस्थस्य विदधात्यसौ॥

मूलम्

आयुषोऽपचयं जन्तोस्तथैवोपचयं विभुः।
उभाभ्यां रहितः स्वस्थो दुस्स्थस्य विदधात्यसौ॥ २१ ॥

अनुवाद (हिन्दी)

सर्वसमर्थ श्रीहरि कर्मबन्धनमें बँधे हुए जीवकी आयुकी वृद्धि और क्षयका विधान करते हैं, परन्तु वे स्वयं इन दोनोंसे रहित और अपने स्वरूपमें स्थित हैं॥ २१॥

वीरराघवः

कर्मानुरूपनियमनमेवोपपादयति - आयुष इति । विभुः सर्वान्तरोऽसौ भगवान् जन्तोः कर्मवश्यस्य 43अत एव दुस्स्थस्य43 कर्मायत्तसुखदुःखादिभाजः आयुषः अपचयं ह्रासं तथा उपचयं वृद्धिं च स्वयमुभाभ्यामुपचयापचयाभ्यां रहितः अत एव स्वस्थः स्वेनैव हेयप्रतिभटकल्याणैकतानत्वस्वभावेन स्थितः विदधाति करोति, एवमुत्पत्तिमरणयोर्देवा44दिवैचित्यं सुखदुःखयोश्चाद्वारकं कारणं तत्तत्कर्मैव । ईश्वरस्तु प्रयोजयितृ कारणमित्युक्तं भवति ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

केचित्कर्म वदन्त्येनं स्वभावमपरे नृप।
एके कालं परे दैवं पुंसः काममुतापरे॥

मूलम्

केचित्कर्म वदन्त्येनं स्वभावमपरे नृप।
एके कालं परे दैवं पुंसः काममुतापरे॥ २२ ॥

अनुवाद (हिन्दी)

राजन्! इन परमात्माको ही मीमांसकलोग कर्म, चार्वाक स्वभाव, वैशेषिकमतावलम्बी काल, ज्योतिषी दैव और कामशास्त्री काम कहते हैं॥ २२॥

वीरराघवः

एवं सर्वभूतान्तरात्मानं स्वसङ्कल्पकृतजगदुदयविभावलय45लीलं सर्वज्ञत्वसर्वशक्तित्वाद्यपरिमितोदारगुणसागरं तत्तत्कर्मानुरूपं जगन्नियन्तारं सर्वभूतसुहृदं परमात्मानमविज्ञाय एतमेव कालकर्मादिरूपेण विवदन्ते केचिदित्याह - केचिदिति । एवं सुखदुःखादिहेतुं केचित् कर्म पुण्यापुण्यरूपं कर्मेति वदन्ति । हे नृप ! अपरे स्वभावं प्रकृद्विपुरुषयोः स्वरूपान्यधाभावस्वभावान्यथाभावरूपपरिणामस्वभावं वदन्ति । एके कालं सत्त्वादिगुणक्षोभहेतुं कालं वदन्ति । परे पुनः दैवं विधिम् । अपरे उत अपरे पुनः पुंसः परमपुरुषस्य कामं सङ्कल्पं वदन्ति । अयमेव पक्षः श्रेयान् । पुण्यापुण्यरूपस्य कर्मणः तज्जन्यादृष्टस्यापि भगवन्निग्रहानुग्रहरूपत्वेन तत्सङ्कल्पानतिरिक्तत्वात्, कालस्वभावयोरपि तत्सङ्कल्पायत्तत्वात् । पुंसो जीवस्य काम इति व्याख्यानं त्वयुक्तं, दुःखविषयस्य कामानुपपत्तेः । अतो यथोक्तार्थ एव साधुः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

अव्यक्तस्याप्रमेयस्य नानाशक्त्युदयस्य च।
न वै चिकीर्षितं तात को वेदाथ स्वसम्भवम्॥

मूलम्

अव्यक्तस्याप्रमेयस्य नानाशक्त्युदयस्य च।
न वै चिकीर्षितं तात को वेदा46द्धा स्वसम्भवम्॥ २३ ॥

अनुवाद (हिन्दी)

वे किसी भी इन्द्रिय या प्रमाणके विषय नहीं हैं। महदादि अनेक शक्तियाँ भी उन्हींसे प्रकट हुई हैं। वे क्या करना चाहते हैं, इस बातको भी संसारमें कोई नहीं जानता; फिर अपने मूल कारण उन प्रभुको तो जान ही कौन सकता है॥ २३॥

वीरराघवः

पुंसः काममिति पक्षस्यैव साधुत्वं ज्ञापयन् कामस्य दुर्ज्ञेयत्वाह - अव्यक्तस्येति । हे तात ! अव्यक्तस्य व्यक्तैरिन्द्रियैर्न व्यज्यत इत्यव्यक्तः अत एवाप्रमेयस्य देशादिभिरपरिच्छिन्नस्य ऐन्द्रियकं हि सर्वं देशकालादिभिः परिच्छिद्य गृह्यते । अनेन विशेषणद्वयेन प्रकृतिपुरुषवैलक्षण्यसिद्धिः, प्रकृतेव्यक्तत्वात् पुरुषस्याणुत्वात् । उभयवैलक्षण्यापादकं विशेषणान्तरमाह नानाशक्तीनां विविधशक्तीनां “पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” (श्वेता. उ. 6-8) इति श्रुतेः । उदयः अभिव्यक्तिर्यस्मात् । तस्य भगवतः चिकीर्षितं कर्तुमिच्छाविषयं, कथम्भूतम् ? स्वसम्भवं स्वस्य लोकस्य सम्भवं जगदुत्पत्तिरूपं, सम्भवग्रहणं संहारादीनामप्युपक्षणम् । अद्धा तत्त्वतः को लोको वेद न कोऽपीत्यर्थः । प्रकृतिपुरुषविलक्षणस्यानन्तविविधशक्तेः परमपुरुषस्य कर्तव्यतासङ्कल्पविषयं जगदुत्पत्तिस्थितिसंहारादिरूपं व्यापारम्, एवं47विध इति तत्त्वतः कोऽपि न जानातीत्यर्थः । तथा च श्रूयते - “क इत्था वेद यत्र सः, क इह प्रवोचत् कुत आजाता कुत इयं विसृष्ठिः” (ऋक्. सं. 10-129-6) इत्यादिका । अत्र भगवत्स्वरूपस्यैवातीन्द्रियत्वात् तत्सङ्कल्पविषययोः सुतरां दुर्विर्ज्ञेयत्वज्ञापनायाव्यक्तस्येत्युक्तम् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

न चैते पुत्रक भ्रातुर्हन्तारो धनदानुगाः।
विसर्गादानयोस्तात पुंसो दैवं हि कारणम्॥

मूलम्

48न चैते पुत्रक भ्रा49तुर्हन्तारो धनदानुगाः।
विसर्गाऽऽदानयोस्तात पुंसो दैवं हि कारणम्॥ २४ ॥

अनुवाद (हिन्दी)

बेटा! ये कुबेरके अनुचर तुम्हारे भाईको मारनेवाले नहीं हैं, क्योंकि मनुष्यके जन्म-मरणका वास्तविक कारण तो ईश्वर है॥ २४॥

वीरराघवः

एवमुपपादितं भगवत एवोत्पत्तिमरणादिनिमित्तत्वं प्रकृते उपसंहरति - न चैत इति । हे पुत्रक ! एते धनदस्य कुबेरस्यानुगा भृत्याः त्वद्भातृहन्तारो न भवन्ति, किन्तु पुंसः कर्मवश्यस्य विसर्गाऽऽदानयोः उत्पत्तिमरणयोः दैवमीश्वर एव हि कारणम् ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

स एव विश्वं सृजति स एवावति हन्ति च।
अथापि ह्यनहंकारान्नाज्यते गुणकर्मभिः॥

मूलम्

स एव विश्वं सृजति स एवावति 50हन्ति च।
51तथापि 52ह्यनहंकारान्नाज्यते गुणकर्मभिः॥ २५ ॥

अनुवाद (हिन्दी)

एकमात्र वही संसारको रचता, पालता और नष्ट करता है, किन्तु अहंकारशून्य होनेके कारण इसके गुण और कर्मोंसे वह सदा निर्लेप रहता है॥ २५॥

वीरराघवः

नन्वीश्वरश्चेदुत्पत्त्यादिकारणं तर्हि जीववत्सोऽपि सत्त्वादिगुणविशिष्टत्वात् तत्प्रयुक्तजगद्व्यापाररूपक्रियाश्रयत्वाच्च गुणकर्मभिः बध्येत तत्राह - स इति । यद्यपि स एवेश्वर 53एव विश्वं सृजति अवति रक्षति हन्ति च, तथापि अनहङ्कारात् देहात्मनोस्तादात्म्याभिमानोऽहङ्कारः तदभावात् गुणकर्मभिः गुणानां सत्त्वादीनां कर्मभिः गुणकार्यभूतैः कर्मभिर्नाज्यते न बध्यते । यद्यपि जगदुत्पत्त्यादीन् गुणकार्यभूतान् व्यापारान् करोति ईश्वरः, तथापि स्वशरीरभूत प्रकृतिपुरुषात्मकेषु देवादिपदार्थेषु स्वसङ्कल्पकृतोत्पत्तिस्थितिलयेषु 54स्वतादात्म्याभिमानाभावात् स्वयमजहत्स्वभावत्वाच्च न कर्मभिर्बध्यते । जीवस्तु कर्मणा सङ्कुचितज्ञानत्वेन जहत्स्वाभाव्याद् देवादिशरीरेषु स्वतादात्म्याभिमानाच्च बध्यत इत्यर्थः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

एष भूतानि भूतात्मा भूतेशो भूतभावनः।
स्वशक्त्या मायया युक्तः सृजत्यत्ति च पाति च॥

मूलम्

एष भूतानि भूतात्मा भूतेशो भूतभावनः।
स्वशक्त्या मायया युक्तः सृजत्यत्ति च पाति च॥ २६ ॥

अनुवाद (हिन्दी)

वे सम्पूर्ण प्राणियोंके अन्तरात्मा, नियन्ता और रक्षा करनेवाले प्रभु ही अपनी मायाशक्तिसे युक्त होकर समस्त जीवोंका सृजन, पालन और संहार करते हैं॥ २६॥

वीरराघवः

एवं भ्रात्रादिशरीराणामुत्पत्तिमरणादिनिमित्तं निमित्तस्य च अनन्तविविधविचित्रशक्तियोगत्वम् अत एव नित्यमुक्तत्वं चाभिहितम् । अथ य एवम्भूतो भगवान् तमेव रागद्वेषादिभिर्विमुक्तस्त्वं सर्वात्मना भजस्वेत्याह - एष इत्यादिना । य एष भगवान् भूतात्मा भूतानां देवमनुष्यादीनामात्मा स किं जीवः ? नेत्याह । भूतेशः “ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति” (भ.गी. 18-61) इत्युक्तरीत्या चिदचिदात्मकभूतानामन्तः - प्रविश्य तत्तत्कर्मानुरूपं नियन्ता न केवलं भूतेश एव, अपि तु तत्कारणं चेत्याह भूतभावनः । भूतानि भावयति उत्पादयतीति भूतभावनः, यद्वा भूतानि भावयति सृष्ट्यादिभिः सत्तादिमन्ति करोतीति भूतभावनः तथा भूतानां सत्तास्थितिप्रवृत्तिहेतुरित्यर्थः । कारणत्वमपि न निष्कृष्टस्वरूपेण अपि तु विशिष्ट55वेषेणेत्याह । स्वशक्त्या कार्योपयोगिस्वापृथक्सिद्धविशेषणभूतया मायया युक्तः “माया वयुनं ज्ञानम्” (वेद. नि. 3-9) ज्ञानपर्यायोऽप्यत्र मायाशब्दो जीववाची । अनेन निर्विकारत्वश्रुतिविरोधोऽपि परिहृतः । विकाराणां 56प्रकृतिपुरुषगतत्वात् भूतानि सृजति अत्तिसंहरति पाति रक्षति च ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

तमेव मृत्युममृतं तात दैवं
सर्वात्मनोपेहि जगत्परायणम्।
यस्मै बलिं विश्वसृजो हरन्ति
गावो यथा वै नसि दामयन्त्रिताः॥

मूलम्

तमेव मृत्युममृतं तात दैवं सर्वात्मनो57पेहि जगत्परायणम्।
यस्मै बलिं विश्वसृजो हरन्ति गावो यथा वै नसि दामयन्त्रिताः॥ २७ ॥

अनुवाद (हिन्दी)

जिस प्रकार नाकमें नकेल पडे़ हुए बैल अपने मालिकका बोझा ढोते रहते हैं, उसी प्रकार जगत‍्की रचना करनेवाले ब्रह्मादि भी नामरूप डोरीसे बँधे हुए उन्हींकी आज्ञाका पालन करते हैं। वे अभक्तोंके लिये मृत्युरूप और भक्तोंके लिये अमृतरूप हैं तथा संसारके एकमात्र आश्रय हैं। तात! तुम सब प्रकार उन्हीं परमात्माकी शरण लो॥ २७॥

वीरराघवः

तमुक्तविधं मृत्युमभजतां बन्धकं भजतां तु अमृतं मोचकं दैवं स्वतेजसा दीप्यमानं जगतां परमयनं प्राप्यं प्रापकमाधारं च सर्वात्मना सर्वप्रकारेण मनोवाक्कायैरित्यर्थः । सर्वात्मकपरब्रह्मभावेनेति वा । यद्वा प्राप्यं प्रापकमाधारश्चेति बुद्ध्या एतदेव जगत्परायणमित्यनेनाभिप्रेतम् । उपेहि शरणं गच्छ । युक्तं चैतदित्याह । यस्मै भगवते विश्वस्रष्टारश्चतुर्मुखमरीच्यादयः बलिं पूजां हरन्ति कुर्वन्ति । विश्वसृजो हरन्ति इत्यनेन सर्वेश्वरेश्वरत्वमुक्तं, विश्वसृजो हि सर्वेषामीश्वरास्तेषामपि पूज्य इति तत्सिद्धिः । ननु विश्वसृजो हरन्तु बलिं, तस्यापि गोब्राह्मणादिवत् पूज्यत्वादित्याशङ्कां निराकर्तुं दृष्टान्तमाह । गावो बलीवर्दाः यथा नसि नासिकायां दाम्ना सूत्रेण यन्त्रिताः प्रोताः पुरुषस्य कर्म कुर्व58न्ति तथा तद्वशं गता बलिं हरन्ति । अनेन सर्ववशित्वं सिद्धं, यस्य वशे सर्वं वर्तते स वशीत्युच्यते । तथा च श्रूयते “सर्वस्य वशी सर्वस्येशानः एष भूताधिपतिः एष भूतपालः एष सेतुर्विधरणः एषां लोकानामसम्भेदाय” (बृह. उ. 4-4-22) “न तस्य कश्चित्पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गं स कारणं करणाधिपाधिपो, न चास्य कश्चिज्जनिता न चाधिपः” (श्वेता. उ. 6-9) इति । यो यदधीनस्तस्य तदनुवर्तनं युक्तमिति भावः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

यः पञ्चवर्षो जननीं त्वं विहाय
मातुः सपत्न्या वचसा भिन्नमर्मा।
वनं गतस्तपसा प्रत्यगक्ष-
माराध्य लेभे मूर्ध्नि पदं त्रिलोक्याः॥

मूलम्

यः पञ्चवर्षो जननीं त्वं विहाय मातुः सपत्न्या वचसा भिन्न59मर्मा।
वनं गतस्तपसा प्रत्यगक्षमाराध्य लेभे मूर्ध्नि पदं त्रिलोक्याः॥ २८ ॥

वीरराघवः

60तव तु विशिष्य तद्भजनमेव युक्तमाबाल्यं तत्रैवाभ्यस्तत्वादित्याह - य इति । यो भवान् पञ्चवर्षाणि अस्य, पञ्चवर्षस्सन् सपत्न्या मातुर्वचसा भिन्नं मर्म हृदयं यस्य सः, जननीं सुनीतिं विहाय वनं प्रविष्टः तत्र प्रत्यगक्षं प्रत्याञ्चि अक्षाणीन्द्रियाणि यस्मिन् कर्मणि यथा तथा अव्या61पृतेन्द्रियमित्यर्थः । क्रियाविशेषणमिदं यं भगवन्तमाराध्य विलोक्य मूर्ध्नि उपरिष्टात् पदं स्थानं लेभे लब्धवान् ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

तमेनमङ्गात्मनि मुक्तविग्रहे
व्यपाश्रितं निर्गुणमेकमक्षरम्।
आत्मानमन्विच्छ विमुक्तमात्मदृग्
यस्मिन्निदं भेदमसत् प्रतीयते॥

मूलम्

तमे62वमङ्गात्मनि मुक्तविग्र63हे व्यपाश्रितं निर्गुणमेकमक्षरम्।
आत्मानमन्वि64च्छ विमु65क्तमात्म66दृग् यस्मिन्नि67दम्भेदमसत्प्रतीयते॥ २९ ॥

अनुवाद (हिन्दी)

तुम पाँच वर्षकी ही अवस्थामें अपनी सौतेली माताके वाग्बाणोंसे मर्माहत होकर माँकी गोद छोड़कर वनको चले गये थे। वहाँ तपस्याद्वारा जिन हृषीकेश भगवान‍्की आराधना करके तुमने त्रिलोकीसे ऊपर ध्रुवपद प्राप्त किया है और जो तुम्हारे वैरभावहीन सरल हृदयमें वात्सल्यवश विशेषरूपसे विराजमान हुए थे, उन निर्गुण अद्वितीय अविनाशी और नित्यमुक्त परमात्माको अध्यात्मदृष्टिसे अपने अन्तःकरणमें ढूँढ़ो। उनमें यह भेदभावमय प्रपंच न होनेपर भी प्रतीत हो रहा है॥ २८-२९॥

वीरराघवः

तमेवाऽऽत्मानं परमात्मानम् आत्मदृक् तच्छरीरभूतजीवात्मदर्शी अन्विच्छ अनुवर्तस्वेत्यन्वयः । अन्वेषणप्रकारमेवाह - अङ्ग ! हे ध्रुव ! यस्मिन् जीवात्मनि इदमसत् देवमनुष्यादिरूपं सततपरिणामि वस्त्वसच्छब्दावाच्यं सततपरिणामिनो वस्तुनः उत्तरोत्तरावस्थाप्राप्तौ पूर्वपूर्वावस्थात्यागात् सर्वदा असदिति व्यपदेष्टुमनर्हत्वात् । तदुक्तं श्रीवैष्णवे पुराणे “मही घटत्वं घटतः कपालः कपालिका चूर्णरजस्ततोऽणुः । जनैः स्वकर्मस्तिमितात्मनिश्चयैरालक्ष्यते ब्रूहि किमत्र वस्तु ॥ यद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् । (विष्णु.पु. 2-12-42 & 45) “अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते ॥ तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम् ॥” (विष्णु.पु. 2-14-24) इति । विश्वं प्रतीयते अस्मदित्यस्य विशेषणत्वे तु अस्मिन् जीवे इदं विश्वमसत् प्रतीयते अविद्यमानमेव प्रतीयते, स्वतो जीवे देवमनुष्याद्यात्मकं विश्वमविद्यमानमपि पुण्यापुण्यरूपकर्मणा प्रतीयते न तु मिथ्या प्रतीयते इत्यर्थः । तस्मिन् मुक्तविग्रहे निरवयवे आत्मनि जीवे व्यपाश्रितं व्यवस्थितं निर्गुणं निरस्तहेयगुणमेकं निस्समाभ्यधिकमक्षरः निर्विकारं विमुक्तं नित्यमुक्तं तमात्मानं एवमुक्तवक्ष्यमाणप्रकारेण अन्विच्छेत्यर्थः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

त्वं प्रत्यगात्मनि तदा भगवत्यनन्त
आनन्दमात्र उपपन्नसमस्तशक्तौ।
भक्तिं विधाय परमां शनकैरविद्या-
ग्रन्थिं विभेत्स्यसि ममाहमिति प्ररूढम्॥

मूलम्

त्वं प्रत्यगात्मनि तदा भगवत्यनन्त आनन्दमात्र उपपन्नसमस्तशक्तौ।
भक्तिं विधाय परमां शनकैरविद्या ग्रन्थिं विभेत्स्यसि ममाहमिति प्ररू67ढम्॥ ३० ॥

अनुवाद (हिन्दी)

ऐसा करनेसे सर्वशक्तिसम्पन्न परमानन्दस्वरूप सर्वान्तर्यामी भगवान् अनन्तमें तुम्हारी सुदृढ़ भक्ति होगी और उसके प्रभावसे तुम मैं-मेरेपनके रूपमें दृढ़ हुई अविद्याकी गाँठको काट डालोगे॥ ३०॥

वीरराघवः

ननु उपासित एव मया भगवान् किमधुना भजस्वेत्युच्यते इत्याशङ्कायाम् 68अनिरस्ताहम्ममा68 भिमानेन त्रिवर्गलिप्सुना त्वयोपासितो भगवान् अत एव प्राकृतं स्थानमगाः । इदानीं निर्हेतुकभक्तिं विधाय मोक्ष्यसीत्याह - त्वमिति । प्रत्यक् जीवः तस्यात्मनि जीवान्तरात्मनि प्रत्यक् आत्मा शरीरं यस्येति वा । पूर्णषाङ्गुण्ये 69अनन्ते त्रिविधपरिच्छेदरहिते आनन्दमात्रे आनन्दैकरसे न तु क्वापि जड इत्यर्थः । उपपन्नसमस्तशक्तौ उपगताशेषज्ञानबलक्रियादिशक्तौ परमपुरुषे त्वं परमाम् अहैतुकीम् अव्यवहितेत्युक्तविधां भक्तिं शनकैः समाहितचित्तः विधाय तदा ममाहमभिमानाभ्यां रूढमूलमविद्यात्मकं ग्रन्थिं विशेषेण निर्मूलं विभेत्स्यसि ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम्।
श्रुतेन भूयसा राजन्नगदेन यथाऽऽमयम्॥

मूलम्

संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम्।
श्रुतेन भूयसा राजन्नगदेन यथाऽऽमयम्॥ ३१ ॥

अनुवाद (हिन्दी)

राजन्! जिस प्रकार ओषधिसे रोग शान्त किया जाता है—उसी प्रकार मैंने तुम्हें जो कुछ उपदेश दिया है, उसपर विचार करके अपने क्रोधको शान्त करो। क्रोध कल्याणमार्गका बड़ा ही विरोधी है। भगवान् तुम्हारा मंगल करें॥ ३१॥

वीरराघवः

यदर्थं तत्त्वोपदेशः तमाह - संयच्छेति । श्रेयसां पुरुषार्थानां परं केवलं प्रतीतं प्रतिकूलं रोषं भूयसा श्रुतेन तत्त्वश्रवणेन अगदेन औषधेन आमयं रोगं यथा तथा उपसंहरेत्यर्थः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

येनोपसृष्टात्पुरुषाल्लोक उद्विजते भृशम्।
न बुधस्तद्वशं गच्छेदिच्छन्नभयमात्मनः॥

मूलम्

येनोपसृष्टात्पुरुषाल्लोक उद्विजते भृशम्।
न बुधस्तद्वशं गच्छेदिच्छन्नभयमात्मनः॥ ३२ ॥

अनुवाद (हिन्दी)

क्रोधके वशीभूत हुए पुरुषसे सभी लोगोंको बड़ा भय होता है; इसलिये जो बुद्धिमान् पुरुष ऐसा चाहता है कि मुझसे किसी भी प्राणीको भय न हो और मुझे भी किसीसे भय न हो, उसे क्रोधके वशमें कभी न होना चाहिये॥ ३२॥

वीरराघवः

रोषस्य श्रेयः प्रतीपत्वमेव प्रपञ्चयति - येनेति । येन रोषेण उपसृष्टात् व्याप्तात् पुरुषाल्लोकः भृशं नितरामुद्विजते बिभेति । लोकोद्वेजनात् अधर्मात् पुरुषार्थनाश इति भावः । आत्मनः स्वस्याभयं निश्श्रेयसमिच्छन् बुधो विद्वान् तद्वशं 70रोषवशं न गच्छेत् न प्राप्नुयात् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

हेलनं गिरिशभ्रातुर्धनदस्य त्वया कृतम्।
यज्जघ्निवान् पुण्यजनान् भ्रातृघ्नानित्यमर्षितः॥

मूलम्

हेलनं गिरिशभ्रातुर्धनदस्य त्वया कृतम्।
यज्जघ्निवान् पुण्यजनान् भ्रातृघ्नानित्यमर्षितः॥ ३३ ॥

अनुवाद (हिन्दी)

तुमने जो यह समझकर कि ये मेरे भाईके मारनेवाले हैं, इतने यक्षोंका संहार किया है, इससे तुम्हारे द्वारा भगवान् शंकरके सखा कुबेरजीका बड़ा अपराध हुआ है॥ ३३॥

वीरराघवः

किञ्च गिरिशस्य रुद्रस्य यो भ्राता 71तस्य कुबेरस्य71 हेलनमवमानं त्वया कृतं यत् यतः पुण्यजनान् यक्षान् भ्रातृघ्नानिति बुद्ध्या अमर्षितः क्रुद्धः जघ्निवान् घातितवान् । भ्रातृघ्नानित्यस्येतिशब्दान्वये प्रथमान्तत्वं यद्यपि न्याय्यं भ्रातृघ्ना इति बुद्ध्या जघ्निवान् इति क्रोडीकारात्, तथापि पुण्यजनविशेषणत्वदृष्ट्या द्वितीया प्रयुक्ता ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभिः।
न यावन्महतां तेजः कुलं नोऽभिभविष्यति॥

मूलम्

तं प्रसादय वत्साशु सन्नत्या प्र72श्रयोक्तिभिः।
न यावन्महतां तेजः कुलं नोऽभिभविष्यति॥ ३४ ॥

अनुवाद (हिन्दी)

इसलिये बेटा! जबतक कि महापुरुषोंका तेज हमारे कुलको आक्रान्त नहीं कर लेता; इसके पहले ही विनम्र भाषण और विनयके द्वारा शीघ्र उन्हें प्रसन्न कर लो॥ ३४॥

वीरराघवः

तं धनदं सन्नत्या 73प्रणामेन 74प्रश्रयोक्तिभिः विनयवाग्भिश्च हे वत्स ! आशु प्रसादय प्रसन्नं कारय । महतां धनदादीनां तेजः अस्माकं कुलं यावन्नाभिभविष्यति न 75नाशयति ततः पूर्वमेवाशु प्रसादयेत्यर्थः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

एवं स्वायम्भुवः पौत्रमनुशास्य मनुर्ध्रुवम्।
तेनाभिवन्दितः साकमृषिभिः स्वपुरं ययौ॥

मूलम्

एवं स्वायम्भुवः पौत्रमनुशास्य मनुर्ध्रुवम्।
तेनाभिवन्दितः साकमृषिभिः स्वपुरं ययौ॥ ३५ ॥

अनुवाद (हिन्दी)

इस प्रकार स्वायम्भुव मनुने अपने पौत्र ध्रुवको शिक्षा दी। तब ध्रुवजीने उन्हें प्रणाम किया। इसके पश्चात् वे महर्षियोंके सहित अपने लोकको चले गये॥ ३५॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे एकादशोऽध्यायः॥ ११ ॥

अनुवाद (हिन्दी)
वीरराघवः

मनूक्तिमुपसंहरति 76मुनिः - एवमिति । स्वायम्भुवो मनुः पौत्रं ध्रुक्मेवमुक्तप्रकारेणानुशास्य आदिश्य तेन ध्रुवेणाभि77वन्दितः78 ऋषिभिस्सह स्वपुरं ययौ ॥ ३५ ॥

इति श्रीमद्भागवते चतुर्थस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवत चन्द्रचन्द्रिकायां व्याख्यायां एकादशोऽध्यायः ॥ ११ ॥


  1. प्रा. पा. सूत उवाच ↩︎

  2. प्रा. पा. तस्याप्यथास्त्रं ↩︎

  3. प्रा. पा. सृताश्चाविवि ↩︎

  4. W भूयसा ↩︎

  5. A,B,T उक्तं ↩︎

  6. A,B,T हना ↩︎

  7. M,Ma,Ms वदोऽयस् ↩︎

  8. A,B,G,I,J,T प्रस ↩︎

  9. A,B,G,I,J,T न पराग्गृह्य ↩︎

  10. M,Ma,Ms ध्याता; W ध्यानात् ↩︎

  11. W omits ↩︎ ↩︎

  12. A,B,T तेषु ↩︎

  13. A,B,T add एतत् ↩︎

  14. A,B,T द्रुहे ↩︎

  15. W सुप्र ↩︎

  16. W क्तोऽजीव ↩︎

  17. A,B,T omit काम ↩︎

  18. A,B,G,L,J,T ब्ध्यैः ↩︎

  19. V च ↩︎

  20. A,B,T पुरुषात्मक ↩︎

  21. W वर्तितस्सर्गः ↩︎

  22. M,Ma,Ms प्रलय ↩︎

  23. W मायायाः ↩︎

  24. A,T ना ↩︎

  25. A,B,T omit ↩︎ ↩︎

  26. A,B,T omıt तत् ↩︎

  27. M,Ma,Ms त्मा ↩︎

  28. A,B,T omit ↩︎ ↩︎

  29. A,B,T आशङ्का ↩︎

  30. A,T भोगजीव ↩︎

  31. M,Ma,Ms योग ↩︎

  32. M,Ma,Ms षु ↩︎

  33. M,MS,T,V र्तेव ↩︎

  34. A,B,T omit सर्ग ↩︎

  35. M,Ma,Ms नात्मनः ↩︎

  36. W गम् ↩︎

  37. A,B,T खान् ↩︎

  38. A,B,T दीन् ↩︎

  39. A,B,T क ↩︎

  40. W नैव ↩︎

  41. T गुण ↩︎

  42. W omits न ↩︎

  43. A,B,T omit ↩︎ ↩︎

  44. A,B,T हा ↩︎

  45. A,B,T omit लीलं ↩︎

  46. A,B,G,I,J,T थ स्व; M,Ma,Ms द्धाऽस्य ↩︎

  47. A,B,T omit स्व ↩︎

  48. M,Ma,Ms नैवेते ↩︎

  49. V गृह ↩︎

  50. W हन्त्यजः ↩︎

  51. A,G,I,J,M,Ma,Ms,T अ ↩︎

  52. W निरह ↩︎

  53. A,B,T omit एव ↩︎

  54. A,B,T omit स्व ↩︎

  55. A,B,T विशेषेणे ↩︎

  56. A,B,T omit प्रकृति ↩︎

  57. M,Ma,Ms पैहि ↩︎

  58. A,B न्तः ↩︎

  59. M,Ma व ↩︎

  60. A,T भवतु ↩︎

  61. A,B,T ह ↩︎

  62. A,B,G,I,J,T न ↩︎

  63. M,Ma,Ms हैः ↩︎

  64. M,Ma,Ms ष्यः ↩︎

  65. V क्त आत्यदृक् ↩︎

  66. W न्यस्मि ↩︎

  67. M,Ma,Ms दं भिन्न ↩︎ ↩︎

  68. A,B,T मुनिराह ममा ↩︎ ↩︎

  69. A,B,T omit अनन्ते ↩︎

  70. A,B,T omit रोषवशं ↩︎

  71. A,B,T कुबेरः तस्य ↩︎ ↩︎

  72. B ण ↩︎

  73. A,B,T प्रणयेन ↩︎

  74. A,B,T प्रियोक्तिभिः ↩︎

  75. A,B,T नङ्क्ष्यति ↩︎

  76. A,B,T omit मुनिः ↩︎

  77. A,B,T नन्दितः ↩︎

  78. A.B,T add अभिमतः ↩︎