[दशमोऽध्यायः]
भागसूचना
उत्तमका मारा जाना, ध्रुवका यक्षोंके साथ युद्ध
श्लोक-१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुवः।
उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ॥
मूलम्
प्रजापतेर्दुहितरं 1शिंशुमारस्य वै ध्रुवः।
उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ॥ १ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—विदुरजी! ध्रुवने प्रजापति शिशुमारकी पुत्री भ्रमिके साथ विवाह किया, उससे उनके कल्प और वत्सर नामके दो पुत्र हुए॥ १॥
वीरराघवः
अथ दशमेन ध्रुवः कृतोद्वाहः उत्पादितपुत्रो जितभ्रातृहन्तृपुण्यजन आसेत्याह मुनिः प्रजापतेरिति । 2शिंशुमाराख्यस्य प्रजापतेः दुहितरं भ्रमिमुपयेमे उदवोढ । तयोः ध्रुवभ्रम्योः सुतौ कल्पवत्सराख्यौ ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
इलायामपि भार्यायां वायोः पुत्र्यां महाबलः।
पुत्रमुत्कलनामानं योषिद्रत्नमजीजनत्॥
अनुवाद (हिन्दी)
महाबली ध्रुवकी दूसरी स्त्री वायुपुत्री इला थी। उससे उनके उत्कल नामके एक पुत्र और एक कन्यारत्नका जन्म हुआ॥ २॥
वीरराघवः
पुनरूढायां वायोर्दुहितरि इडाख्यायां भार्यायां महाबलो ध्रुवः उत्कलनामानं पुत्रं कथम्भूतम् ? योषितां रत्नमिवातिमनोहरं कन्यारत्नमिति वा 5पुर्याम् अजीजनत् उत्पादयामास ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
उत्तमस्त्वकृतोद्वाहो मृगयायां बलीयसा।
हतः पुण्यजनेनाद्रौ तन्मातास्य गतिं गता॥
अनुवाद (हिन्दी)
उत्तमका अभी विवाह नहीं हुआ था कि एक दिन शिकार खेलते समय उसे हिमालय पर्वतपर एक बलवान् यक्षने मार डाला। उसके साथ उसकी माता भी परलोक सिधार गयी॥ ३॥
वीरराघवः
उत्तमस्त्वकृतोद्वाह एव कदाचित् मृगयायां बलीय9सः पुण्य10जनात् 11यक्षात् अद्रौ हिमवति हतः । तस्योत्तमस्य माता सुरुचिः तस्य पुत्रस्य गतिं गता । मरणं प्राप्तेत्यर्थः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षशुचार्पितः।
जैत्रं स्यन्दनमास्थाय गतः पुण्यजनालयम्॥
मूलम्
ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षशुचार्पितः।
जैत्रं स्यन्दनमास्थाय गतः पुण्यजनालयम्॥ ४ ॥
अनुवाद (हिन्दी)
ध्रुवने जब भाईके मारे जानेका समाचार सुना तो वे क्रोध, शोक और उद्वेगसे भरकर एक विजयप्रद रथपर सवार हो यक्षोंके देशमें जा पहुँचे॥ ४॥
वीरराघवः
ध्रुवः भ्रातुरुत्तमस्य वधमाकर्ण्य कोपामर्षशुगिति समाहारद्वन्द्वः, तेन । अमर्षः अक्षमा अर्पितः व्याप्तः जैत्रं जयशीलं स्यन्दनं रथमास्थायाऽधिरुह्य पुण्यजनालयम् अलकां पुरीं गतः गतवान् ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम्।
ददर्श हिमवद्द्रोण्यां पुरीं गुह्यकसंकुलाम्॥
मूलम्
गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम्।
ददर्श हिमवद्द्रोण्यां पुरीं गुह्यकसङ्कुलाम्॥ ५ ॥
अनुवाद (हिन्दी)
उन्होंने उत्तर दिशामें जाकर हिमालयकी घाटीमें यक्षोंसे भरी हुई अलकापुरी देखी, उसमें अनेकों भूत-प्रेत-पिशाचादि रुद्रानुचर रहते थे॥ ५॥
वीरराघवः
रुद्रानुचरा भूतादयस्तैः सेवितां गुह्यकैर्यक्षैः सङ्कुलां व्याप्तां, पुरीमलकां, हिमवतो द्रोण्यां ददर्श ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
दध्मौ शङ्खं बृहद्बाहुः खं दिशश्चानुनादयन्।
येनोद्विग्नदृशः क्षत्तरुपदेव्योऽत्रसन्भृशम्॥
मूलम्
दध्मौ शङ्खं 12बृहद्बाहुः खं दिशश्चानुनादयन्।
येनोद्विग्नदृशः क्षत्तरुपदेव्योऽत्रसन्भृशम्॥ ६ ॥
अनुवाद (हिन्दी)
विदुरजी! वहाँ पहुँचकर महाबाहु ध्रुवने अपना शंख बजाया तथा सम्पूर्ण आकाश और दिशाओंको गुँजा दिया। उस शंखध्वनिसे यक्ष-पत्नियाँ बहुत ही डर गयीं, उनकी आँखें भयसे कातर हो उठीं॥ ६॥
वीरराघवः
बृहद्बाहुः 13ध्रुवः खमन्तरिक्षं दिशः दश दिशश्चानुनादयन् प्रतिध्वनयन् शङ्खं दध्मौ नादितवान् । येन शङ्खनिनादेन 14उद्विग्नाः चलिताः दृशः14 यासां ताः, उपदेव्यो यक्षस्त्रियः । हे क्षत्तः ! भृशं नितरामत्रसन् भीतवत्यः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
ततो निष्क्रम्य बलिन उपदेवमहाभटाः।
असहन्तस्तन्निनादमभिपेतुरुदायुधाः॥
मूलम्
ततो निष्क्रम्य बलिन उपदेवमहाभटाः।
असह15न्तस्तन्निनादमभिपेतुरुदायुधाः॥ ७ ॥
अनुवाद (हिन्दी)
वीरवर विदुरजी! महाबलवान् यक्षवीरोंको वह शंखनाद सहन न हुआ। इसलिये वे तरह-तरहके अस्त्र-शस्त्र लेकर नगरके बाहर निकल आये और ध्रुवपर टूट पड़े॥ ७॥
वीरराघवः
उपदेवाश्च ते महाभटास्ते 16बलिनः 17बलिष्ठाः ततः अलकाया निष्क्रम्य तस्य ध्रुवस्य शङ्खनिनादमसहन्तः उदायुधाः उद्यतास्त्रशस्त्राः अभितः पेतुः उपर्यागतवन्तः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
स तानापततो वीर उग्रधन्वा महारथः।
एकैकं युगपत्सर्वानहन् बाणैस्त्रिभिस्त्रिभिः॥
मूलम्
स तानापततो वीर उग्रधन्वा महारथः।
एकैकं युगपत्सर्वानहन् बाणैस्त्रिभिस्त्रिभिः॥ ८ ॥
अनुवाद (हिन्दी)
महारथी ध्रुव प्रचण्ड धनुर्धर थे। उन्होंने एक ही साथ उनमेंसे प्रत्येकको तीन-तीन बाण मारे॥ ८॥
वीरराघवः
उग्रं भीमं धनुर्यस्य सः, महारथो ध्रुवः आपततः सर्वान् वीरान् युगपदेव प्रत्येकं त्रिभिस्त्रिभिर्बाणैः अहन्, प्रत्येकं त्रिभिस्त्रिभिः बाणैः सर्वान् त्रयोदशायुतानि युगपत् निजघान ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
ते वै ललाटलग्नैस्तैरिषुभिः सर्व एव हि।
मत्वा निरस्तमात्मानमाशंसन् कर्म तस्य तत्॥
अनुवाद (हिन्दी)
उन सभीने जब अपने-अपने मस्तकोंमें तीन-तीन बाण लगे देखे, तब उन्हें यह विश्वास हो गया कि हमारी हार अवश्य होगी। वे ध्रुवजीके इस अद्भुत पराक्रमकी प्रशंसा करने लगे॥ ९॥
वीरराघवः
ते वै उपदेवाः सर्वे ललाट20मग्नैस्तैस्त्रिभिः 21स्त्रिभिः इषुभिरात्मानं निरस्तं पराजितं मत्वा तस्य 22ध्रुवस्य तत्कर्म 23आशंसन् प्रशशंसुः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
तेऽपि चामुममृष्यन्तः पादस्पर्शमिवोरगाः।
शरैरविध्यन् युगपद् द्विगुणं प्रचिकीर्षवः॥
मूलम्
तेऽपि चामुममृष्यन्तः पादस्पर्शमिवोरगाः।
शरैरविध्यन् युगपद् द्विगुणं प्रचिकीर्षवः॥ १० ॥
अनुवाद (हिन्दी)
फिर जैसे सर्प किसीके पैरोंका आघात नहीं सहते, उसी प्रकार ध्रुवके इस पराक्रमको न सहकर उन्होंने भी उनके बाणोंके जवाबमें एक ही साथ उनसे दूने—छः-छः बाण छोड़े॥ १०॥
वीरराघवः
तेऽपि च यक्षा उरगा सर्पाः पादस्पर्शं पादासत्तिमिव अमुं ध्रुवममृष्यन्तः असहमानाः द्विगुणं यथा भवति तथा 24षड्भिः प्रतिकर्तुमिच्छन्तः शरैः युगपदे25व अविध्यन् निजघ्नुः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
ततः परिघनिस्त्रिंशैः प्रासशूलपरश्वधैः।
शक्त्यृष्टिभिर्भुशुण्डीभिश्चित्रवाजैः शरैरपि॥
मूलम्
ततः परिघनिस्त्रिंशैः प्रासशूलपरश्वधैः।
शक्त्यृष्टिभि26र्भुशुण्डीभिश्चित्रवाजैः शरैरपि॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
अभ्यवर्षन् प्रकुपिताः सरथं सहसारथिम्।
इच्छन्तस्तत्प्रतीकर्तुमयुतानि त्रयोदश॥
अनुवाद (हिन्दी)
यक्षोंकी संख्या तेरह अयुत (१,३०,०००) थी। उन्होंने ध्रुवजीका बदला लेनेके लिये अत्यन्त कुपित होकर रथ और सारथीके सहित उनपर परिघ, खड्ग, प्रास, त्रिशूल, फरसा, शक्ति, ऋष्टि, भुशुण्डी तथा चित्र-विचित्र पंखदार बाणोंकी वर्षा की॥ ११-१२॥
वीरराघवः
ततः परिघादिभिः शस्त्रविशेषैः अविध्यन् तथा चित्रवाजैश्चित्रपक्षैः शरैरपि नितरां कुपिताः अयुतानां त्रयोदश यक्षाः तत्प्रतीकर्तुं तत्प्रतिक्रियां कर्तुमिच्छन्तः सरथं ससारथिञ्चाभ्यवर्षन् ॥ ११, १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
औत्तानपादिः स तदा शस्त्रवर्षेण भूरिणा।
न उपादृश्यतच्छन्न आसारेण यथा गिरिः॥
अनुवाद (हिन्दी)
इस भीषण शस्त्रवर्षासे ध्रुवजी बिलकुल ढक गये। तब लोगोंको उनका दीखना वैसे ही बंद हो गया, जैसे भारी वर्षासे पर्वतका॥ १३॥
वीरराघवः
तथा स च औत्तानपादिः ध्रुवः भूरिणा शस्त्रवर्षेण छन्न आवृतः आसारेण धारावर्षेण यथा गिरिः पर्वत इव नोपादृश्यत 32नैवादृश्यत32 ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
हाहाकारस्तदैवासीत्सिद्धानां दिवि पश्यताम्।
हतोऽयं मानवः सूर्यो मग्नः पुण्यजनार्णवे॥
मूलम्
हाहाकारस्तदैवासीत्सिद्धानां दिवि पश्यताम्।
33हतोऽयं मानवः सूर्यो मग्नः पुण्यजनार्णवे॥ १४ ॥
अनुवाद (हिन्दी)
उस समय जो सिद्धगण आकाशमें स्थित होकर यह दृश्य देख रहे थे, वे सब हाय-हाय करके कहने लगे—‘आज यक्षसेनारूप समुद्रमें डूबकर यह मानव-सूर्य अस्त हो गया’॥ १४॥
वीरराघवः
तदैव दिवि पश्यतां सिद्धानां महान् हाहाकारं आसीत् । 34मानवः मनोर्गोत्रापत्यं पुमानयं ध्रुव एव सूर्यः, पुण्यजना एव अर्णवः 35समुद्रः तस्मिन् मग्नः, 36हन्त हा कष्टमित्येवंरू37पो हाहाकार आसीत् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
नदत्सु यातुधानेषु जयकाशिष्वथो मृधे।
उदतिष्ठद्रथस्तस्य नीहारादिव भास्करः॥
मूलम्
नदत्सु यातुधानेषु जयकाशिष्वथो मृधे।
उदतिष्ठद्र38थस्तस्य नीहारादिव भास्करः॥ १५ ॥
अनुवाद (हिन्दी)
यक्षलोग अपनी विजयकी घोषणा करते हुए युद्धक्षेत्रमें सिंहकी तरह गरजने लगे। इसी बीचमें ध्रुवजीका रथ एकाएक वैसे ही प्रकट हो गया, जैसे कुहरेमेंसे सूर्यभगवान् निकल आते हैं॥ १५॥
वीरराघवः
ततो मृधे युद्धे यातुधानेषु राक्षसेषु जयकाशिषु जितं जितं मयेति जयप्रकाशकेषु सत्सु जयशालिष्विति पाठे जयशीलेषु सत्सु नीहाराद्भास्करः सूर्यः इव तस्मात् शरवर्षात् रथात् ल्यब्लोपे पञ्चमी, रथे आस्थाय उदतिष्ठत् उत्थितः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
धनुर्विस्फूर्जयन्दिव्यं द्विषतां खेदमुद्वहन्।
अस्त्रौघं व्यधमद्बाणैर्घनानीकमिवानिलः॥
ध्रुवजीने अपने दिव्य धनुषकी टंकार करके शत्रुओंके दिल दहला दिये और फिर प्रचण्ड बाणोंकी वर्षा करके उनके अस्त्र-शस्त्रोंको इस प्रकार छिन्न-भिन्न कर दिया, जैसे आँधी बादलोंको तितर-बितर कर देती है॥ १६॥
मूलम्
धनुर्वि39स्फूर्जय40न्नुग्रं द्विषतां खेदमुद्वहन्।
अस्त्रौघं व्यधमद्बाणैर्घनानीकमिवानिलः॥ १६ ॥
अनुवाद (हिन्दी)
ध्रुवजीने अपने दिव्य धनुषकी टंकार करके शत्रुओंके दिल दहला दिये और फिर प्रचण्ड बाणोंकी वर्षा करके उनके अस्त्र-शस्त्रोंको इस प्रकार छिन्न-भिन्न कर दिया, जैसे आँधी बादलोंको तितर-बितर कर देती है॥ १६॥
वीरराघवः
तत उग्रं धनुः वि41ष्फूर्जयन् ज्या42घोषं कुर्वन् द्विषतां पुण्यजनानां खेदमुद्वहन् प्रापयन् बाणैः अस्त्रौघं द्विषत्प्रयुक्तमस्त्रसमूहम् अनिलो वायुरिव मेघपङ्क्तिं व्यधमत् चूर्णयामास ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम्।
कायानाविविशुस्तिग्मा गिरीनशनयो यथा॥
मूलम्
तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम्।
कायानाविविशुस्तिग्मा गिरीनशनयो यथा॥ १७ ॥
अनुवाद (हिन्दी)
उनके धनुषसे छूटे हुए तीखे तीर यक्ष-राक्षसोंके कवचोंको भेदकर इस प्रकार उनके शरीरोंमें घुस गये, जैसे इन्द्रके छोड़े हुए वज्र पर्वतोंमें प्रवेश कर गये थे॥ १७॥
वीरराघवः
तस्य ध्रुवस्य चापात् धनुषो विनिर्मुक्ताः तिग्मास्तीक्ष्णाः बाणाः गिरीन् पर्वतान् अशनयो यथा 43अशनय इव43 रक्षसां वर्माणि कवचानि छित्वा कायान् देहान् आसमन्ताद्विविशुः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
भल्लैः संछिद्यमानानां शिरोभिश्चारुकुण्डलैः।
ऊरुभिर्हेमतालाभैर्दोर्भिर्वलयवल्गुभिः॥
मूलम्
भल्लैः सञ्छिद्यमानानां शिरोभिश्चारुकुण्डलैः।
ऊरुभिर्हेमतालाभैर्दोर्भिर्वलयवल्गुभिः॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
हारकेयूरमुकुटैरुष्णीषैश्च महाधनैः।
आस्तृतास्ता रणभुवो रेजुर्वीरमनोहराः॥
मूलम्
हारकेयूर44मुकुटैरुष्णीषैश्च महाधनैः।
आस्तृतास्ता रणभुवो रेजुर्वीरमनोहराः॥ १९ ॥
अनुवाद (हिन्दी)
विदुरजी! महाराज ध्रुवके बाणोंसे कटे हुए यक्षोंके सुन्दर कुण्डलमण्डित मस्तकोंसे, सुनहरी तालवृक्षके समान जाँघोंसे, वलयविभूषित बाहुओंसे, हार, भुजबन्ध, मुकुट और बहुमूल्य पगड़ियोंसे पटी हुई वह वीरोंके मनको लुभानेवाली समरभूमि बड़ी शोभा पा रही थी॥ १८-१९॥
वीरराघवः
भल्लैः बाणैः सञ्छिद्यमानानां रक्षसां चारूणि सुन्दराणि कुण्डलानि येषु तैः, शिरोभिः स्वर्णमयतालवृक्षसदृशैः ऊरुभिः वलयैः सुन्दरैर्बाहुभिः महाधनैः अनर्घैः हारादिभिश्चाऽऽस्तृताः छन्नाः ताः रणभूमयः वीराणां मनोहराः विरेजुः बभुः ॥ १८, १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
हतावशिष्टा इतरे रणाजिराद्
रक्षोगणाः क्षत्रियवर्यसायकैः।
प्रायो विवृक्णावयवा विदुद्रुवु-
र्मृगेन्द्रविक्रीडितयूथपा इव॥
मूलम्
हतावशिष्टा इतरे रणाजिराद् रक्षोगणाः क्षत्रियवर्यसायकैः।
प्रायो 45विवृक्णावयवा विदुद्रुवुर्मृगेन्द्रविक्रीडितयूथपा इव॥ २० ॥
अनुवाद (हिन्दी)
जो यक्ष किसी प्रकार जीवित बचे, वे क्षत्रियप्रवर ध्रुवजीके बाणोंसे प्रायः अंग-अंग छिन्न-भिन्न हो जानेके कारण युद्धक्रीडामें सिंहसे परास्त हुए गजराजके समान मैदान छोड़कर भाग गये॥ २०॥
वीरराघवः
हतेभ्योऽवशिष्टा इतरे रक्षोगणाः क्षत्रियवर्यस्य ध्रुवस्य सायकैः बाणैः प्रायः बाहुल्येन विवृक्णाः सञ्छिन्नाः अवयवा येषां ते, रणाजिरात् रणभूमेः सिंहेन विक्रीडितगजा इव विदुद्रुवुः पलायितवन्तः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
अपश्यमानः स तदाऽऽततायिनं
महामृधे कंचन मानवोत्तमः।
पुरीं दिदृक्षन्नपि नाविशद् द्विषां
न मायिनां वेद चिकीर्षितं जनः॥
मूलम्
अपश्यमानः स तदाऽऽततायिनं महामृधे कञ्चन मानवोत्तमः।
पुरीं दिदृक्षन्नपि नाविशद् द्विषां न मायिनां वेद चिकीर्षितं जनः॥ २१ ॥
वीरराघवः
तदा मानवश्रेष्ठः स ध्रुवः महामृधे महति युद्धे आततायिनं शस्त्रपाणिमपश्यमानः पुरीं दिदृक्षन्नपि द्रष्टुकामोऽपि मायिनां द्विषां पुण्यजनानां जनो न वेदेत्येवं बुद्ध्वा नाविशत् न प्रविष्टवान् ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
इति ब्रुवंश्चित्ररथः स्वसारथिं
यत्तः परेषां प्रतियोगशङ्कितः।
शुश्राव शब्दं जलधेरिवेरितं
नभस्वतो दिक्षु रजोऽन्वदृश्यत॥
मूलम्
इति ब्रुवंश्चित्ररथः स्वासारथिं 46यत्तः परेषां प्रतियोग47शङ्कितः।
शुश्राव शब्दं जल48धेरिवेरितं नभस्व49तो दिक्षु रजोऽन्वदृश्यत॥ २२ ॥
अनुवाद (हिन्दी)
नरश्रेष्ठ ध्रुवजीने देखा कि उस विस्तृत रणभूमिमें अब एक भी शत्रु अस्त्र-शस्त्र लिये उनके सामने नहीं है, तो उनकी इच्छा अलकापुरी देखनेकी हुई; किन्तु वे पुरीके भीतर नहीं गये ‘ये मायावी क्या करना चाहते हैं इस बातका मनुष्यको पता नहीं लग सकता’ सारथिसे इस प्रकार कहकर वे उस विचित्र रथमें बैठे रहे तथा शत्रुके नवीन आक्रमणकी आशंकासे सावधान हो गये। इतनेमें ही उन्हें समुद्रकी गर्जनाके समान आँधीका भीषण शब्द सुनायी दिया तथा दिशाओंमें उठती हुई धूल भी दिखायी दी॥ २१-२२॥
वीरराघवः
स चित्ररथो ध्रुवः सारथिं प्रति इति “न मायिनां वेद चिकीर्षितं जनः” (भाग. 4-10-21) इत्येवं वदन् परेषां विद्विषां प्रतियोगं प्रतिक्रियां प्रति शङ्कितः शङ्कमानः अत एव यत्तः यत्नवान् । जलदैर्मेधैरिवेरितं शब्दितं गर्जितमिवेत्यर्थः । शब्दं शुश्राव ततः समनन्तरमेव नभस्वता वायुना सह दिक्षु रजः धूलिः अन्वदृश्यत दृष्टम् ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः।
विस्फुरत्तडिता दिक्षु त्रासयत्स्तनयित्नुना॥
मूलम्
क्षणे50नच्छुरितं व्योम 51घनानीकेन सर्वतः।
वि52स्फुरत्त53टिता दिक्षु त्रास54यत्स्तनयित्नुना॥ २३ ॥
अनुवाद (हिन्दी)
एक क्षणमें ही सारा आकाश मेघमालासे घिर गया। सब ओर भयंकर गड़गड़ाहटके साथ बिजली चमकने लगी॥ २३॥
वीरराघवः
व्योम अम्बरं विस्फुरन्त्यः तडितो यस्मिन् त्रासयन्तः स्तनयित्नवोऽशनयो यस्मिन् तेन मेघसमूहेन सर्वतः छुरितं व्याप्तम् ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
ववृषू रुधिरौघासृक्पूयविण्मूत्रमेदसः।
निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ॥
मूलम्
ववृषूरुधिरौघा55सृक्पूयविण्मूत्रमेदसः।
निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ॥ २४ ॥
अनुवाद (हिन्दी)
निष्पाप विदुरजी! उन बादलोंसे खून, कफ, पीब, विष्ठा, मूत्र एवं चर्बीकी वर्षा होने लगी और ध्रुवजीके आगे आकाशसे बहुत-से धड़ गिरने लगे॥ २४॥
वीरराघवः
रुधिरौघादयः ववृषुः निपेतुरित्यर्थः । न सृजति 56न त्यजति56 शरीरमिति असृगिह श्लेष्मादिः रुधिरस्य पृथगुपादानात् । मेदसः पुंस्त्वमार्षं मेदांसि । कबन्धानि शिरोहीनशरीराणि च गगनात् तस्य ध्रुवस्याग्रतः निपेतुः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
ततः खेऽदृश्यत गिरिर्निपेतुः सर्वतोदिशम्।
गदापरिघनिस्त्रिंशमुसलाः साश्मवर्षिणः॥
अनुवाद (हिन्दी)
फिर आकाशमें एक पर्वत दिखायी दिया और सभी दिशाओंमें पत्थरोंकी वर्षाके साथ गदा, परिघ, तलवार और मूसल गिरने लगे॥ २५॥
वीरराघवः
ततः खे आकाशे गिरिरदृश्यत सर्वतो दिशं सर्वासु दिक्षु साश्मवर्षिणः अश्मसहितं यद्वर्षं तद्वन्तः गदादयः निपेतुः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
अहयोऽशनिनिःश्वासा वमन्तोऽग्निं रुषाक्षिभिः।
अभ्यधावन् गजा मत्ताः सिंहव्याघ्राश्च यूथशः॥
मूलम्
अहयोऽशनिनिश्श्वासा वमन्तोऽग्निं रुषाक्षिभिः।
अभ्यधावन् गजा मत्ताः सिं61हा व्याघ्राश्च यूथशः॥ २६ ॥
अनुवाद (हिन्दी)
उन्होंने देखा कि बहुत-से सर्प वज्रकी तरह फुफकार मारते रोषपूर्ण नेत्रोंसे आगकी चिनगारियाँ उगलते आ रहे हैं; झुंड-के-झुंड मतवाले हाथी, सिंह और बाघ भी दौड़े चले आ रहे हैं॥ २६॥
वीरराघवः
अशनिवन्निश्वासो येषां ते अहयः सर्पाः अक्षिभिरग्निं वमन्तः उद्गिरन्तः क्रुद्वा गजाः सिंहा व्याघ्राश्च यूथशः संघशः अभ्यधावन् अभिमुखं तूर्णमागवन्तः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
समुद्र ऊर्मिभिर्भीमः प्लावयन् सर्वतो भुवम्।
आससाद महाह्रादः कल्पान्त इव भीषणः॥
मूलम्
समुद्र ऊर्मिभिर्भीमः प्लावयन् सर्वतो भुवम्।
आससाद महाह्रादः कल्पान्त इव भीषणः॥ २७ ॥
अनुवाद (हिन्दी)
प्रलयकालके समान भयंकर समुद्र अपनी उत्ताल तरंगोंसे पृथ्वीको सब ओरसे डुबाता हुआ बड़ी भीषण गर्जनाके साथ उनकी ओर बढ़ रहा है॥ २७॥
वीरराघवः
ऊर्मिभिस्तरङ्गैर्भीमो भयङ्करः समुद्रः समन्तात् ध्रुवं प्लावयन् प्रलय इव महान् ध्वनिर्यस्मात्तं एवातिभीषणः आसमाद प्राप्तः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
एवंविधान्यनेकानि त्रासनान्यमनस्विनाम्।
ससृजुस्तिग्मगतय आसुर्या माययासुराः॥
मूलम्
एवंविधान्यनेकानि त्रासनान्यमनस्विनाम्।
ससृजुस्तिग्मगतय आसुर्या माययाऽसुराः॥ २८ ॥
अनुवाद (हिन्दी)
क्रूरस्वभाव असुरोंने अपनी आसुरी मायासे ऐसे ही बहुत-से कौतुक दिखलाये, जिनसे कायरोंके मन काँप सकते थे॥ २८॥
श्लोक-२९
विश्वास-प्रस्तुतिः
ध्रुवे प्रयुक्तामसुरैस्तां मायामतिदुस्तराम्।
निशाम्य तस्य मुनयः शमाशंसन् समागताः॥
अनुवाद (हिन्दी)
ध्रुवजीपर असुरोंने अपनी दुस्तर माया फैलायी है, यह सुनकर वहाँ कुछ मुनियोंने आकर उनके लिये मंगल कामना की॥ २९॥
वीरराघवः
उक्तविधान्यन्यापि च अमनस्विनामज्ञानां त्रासकानि भयंकराणि । तिग्मा क्रूरा गतिः प्रवृत्तिर्येषां तेऽसुरा मायया ससृजुः । असुरैर्घ्रुवे प्रयुक्तामतिदुस्तरां तां मायां निशम्य दृष्ट्वा आगताः सर्वे मुनयः तेऽस्य ध्रुवस्य शं सुखं मङ्गलमाशंसन् प्रार्थितवन्तः ॥ २९ ॥
श्लोक-३०
मूलम् (वचनम्)
मुनय ऊचुः
विश्वास-प्रस्तुतिः
औत्तानपादे भगवांस्तव शार्ङ्गधन्वा
देवः क्षिणोत्ववनतार्तिहरो विपक्षान्।
यन्नामधेयमभिधाय निशम्य चाद्धा
लोकोऽञ्जसा तरति दुस्तरमङ्ग मृत्युम्॥
मूलम्
औत्तानपादे भगवांस्तव शार्ङ्गधन्वा देवः क्षिणोत्ववनतार्तिहरो विपक्षान्।
यन्नामधेयमभिधाय निशम्य चाद्धा लोकोऽञ्जसा तरति दुस्तरमङ्ग मृत्युम्॥
अनुवाद (हिन्दी)
मुनियोंने कहा—उत्तानपादनन्दन ध्रुव! शरणागत-भयभंजन शार्ङ्गपाणि भगवान् नारायण तुम्हारे शत्रुओंका संहार करें। भगवान्का तो नाम ही ऐसा है, जिसके सुनने और कीर्तन करनेमात्रसे मनुष्य दुस्तर मृत्युके मुखसे अनायास ही बच जाता है॥ ३०॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दशमोऽध्यायः॥ १०॥
आशंसामेव विवृणोति । औत्तानपाद इति । अङ्ग हे औत्तानपादे ! ध्रुव ! अवनतार्तिहरः भृत्यदुःखापहर्त्ता शार्ङ्गधन्वा भगवान् देवः तव विपक्षान् शत्रून् क्षिणोतु नाशयतु भगवन्तं विशिनष्टि यस्य भगवतो नामधेयं निशम्य श्रुत्वा अभिधाय उक्त्वा लोकः अद्वा साक्षात् अञ्जसा सुखेनैव दुस्तरं तरति ॥ ३० ॥ इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्धे श्रीमद्वीरराघवाचार्य्यकृतभागवतचन्द्रिकायां दशमोऽध्यायः॥ १०॥
-
A,B,G,I,J,T शिशु ↩︎
-
A,B,T शिशु ↩︎
-
W इडा ↩︎
-
M,Ma,Ms योगेश्वर ↩︎
-
A,B,T पुत्रम् ↩︎
-
W स: ↩︎
-
W जनादद्रौ ↩︎
-
M,Ma,Ms ता तद्गतिं ↩︎
-
A,B,T सा ↩︎
-
A,B,T जनेन ↩︎
-
A,B,T यक्षेण ↩︎
-
M,Ma महाबाहुः; Ms महारावं ↩︎
-
A,B,T omit ध्रुवः ↩︎
-
W न्तो निनादं त ↩︎
-
W omits बलिनः ↩︎
-
A,B,T omit बलिष्ठाः ↩︎
-
W म ↩︎
-
Ms नं शशंसुः; W नमशंसन् ↩︎
-
A,B,T ल ↩︎
-
A,B,T omit त्रिभिः ↩︎
-
A,B,T omit ध्रुवस्य ↩︎
-
A,B,T आ ↩︎
-
A,B,T omit षड्भिः ↩︎
-
W omits एव ↩︎
-
M र्भृशृण्डी; Ms,v र्मुसुण्ठी; T र्भर्शुण्डी; W र्भसुण्ठी ↩︎
-
V सहयं ↩︎
-
A,B,G,J,T नि ↩︎
-
Ms शर ↩︎
-
M,Ma भूयसा ↩︎
-
I न एवादृश्यताच्छन्न; A,B,G,J,T न उपादृश्यत च्छन्न; M,Ms नोपादृश्यत सञ्छन्न; V न चैवादृश्यत च्छन्न ↩︎
-
Ms,W हन्ताऽयं ↩︎
-
A,B,T omit मानवः ↩︎
-
A,T omit समुद्रः ↩︎
-
A हतः ↩︎
-
B,W पहा ↩︎
-
M,Ma,Ms थस्तस्मात्; W थात्तस्मात् ↩︎
-
W ष्फू ↩︎
-
A,G,I,J,T न्दिव्यं ↩︎
-
A,B,T स्फू ↩︎
-
A,B,T घातं ↩︎
-
Ms,V,W म ↩︎
-
M,Ma निकृत्ता ↩︎
-
M,Ma यतः ↩︎
-
W शङ्कया ↩︎
-
W दे ↩︎
-
M,Ma,Ms ता ↩︎
-
A,B,G,I,J,M,Ma,T नाच्छादितं; Ms न च्छादितं ↩︎
-
W मेघा ↩︎
-
W ष्फु ↩︎
-
A,B,G,I,J,M,Ma,T डि ↩︎
-
M,Ma,V यं स्त ↩︎
-
M,Ma,Ms स्थिपू ↩︎
-
M,Ma गिरेः ↩︎
-
V भुवम् ↩︎
-
M,Ma श ↩︎
-
M,Ma,Ms अश्म ↩︎
-
A,B,G,I,J,M,Ma,Ms,T हव्या ↩︎
-
B,M,Ma,Ms,W शा ↩︎
-
M,Ma,Ms म ↩︎