[नवमोऽध्यायः]
भागसूचना
ध्रुवका वर पाकर घर लौटना
श्लोक-१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
त एवमुत्सन्नभया उरुक्रमे
कृतावनामाः प्रययुस्त्रिविष्टपम्।
सहस्रशीर्षापि ततो गरुत्मता
मधोर्वनं भृत्यदिदृक्षया गतः॥
मूलम्
त एवमुत्सन्नभया उरुक्रमे 1कृताप्रणामाः प्रययुस्त्रिविष्टपम्।
सहस्रशीर्षापि ततो गरुत्मता मधोर्वनं भृत्यदिदृक्षया गतः॥ १ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—विदुरजी! भगवान्के इस प्रकार आश्वासन देनेसे देवताओंका भय जाता रहा और वे उन्हें प्रणाम करके स्वर्गलोकको चले गये। तदनन्तर विराट्स्वरूप भगवान् गरुड़पर चढ़कर अपने भक्तको देखनेके लिये मधुवनमें आये॥ १॥
वीरराघवः
एवं भगवतोक्तेषु देवेषु स्वधामगतेषु भगवान् भक्तानुजिघृक्षया ध्रुवेण प्रत्यक्षितः तेन स्तुत स्तं समीहितेन संयोज्य स्वधामाऽगात् तथा ध्रुवोऽपि संसाधितसमीहितः स्वधाम जगामेत्याह नवमेन मुनिः । एवं भगवद्वाक्येन उत्सन्नभया गतभया देवा उरुक्रमे भगवति विषये कृतः प्रणामो यैस्ते त्रिविष्टपं सुरलोकं ययुः जग्मुः । 2ततः सहस्रशीर्षा भगवानपि भृत्यदिदृक्षया भृत्यदर्शनेच्छया मधोर्वनं गरुत्मता वाहनभूतेन सह गतः जगाम ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
स वै धिया योगविपाकतीव्रया
हृत्पद्मकोशे स्फुरितं तडित्प्रभम्।
तिरोहितं सहसैवोपलक्ष्य
बहिःस्थितं तदवस्थं ददर्श॥
मूलम्
स वै धिया योगविपाकतीव्रया हृत्पद्मकोशे स्फुरितं त3टित्प्रभम्।
तिरोहितं सहसैवोपलक्ष्य बहिस्स्थितं तदवस्थं ददर्श॥ २ ॥
अनुवाद (हिन्दी)
उस समय ध्रुवजी तीव्र योगाभ्याससे एकाग्र हुई बुद्धिके द्वारा भगवान्की बिजलीके समान देदीप्यमान जिस मूर्तिका अपने हृदयकमलमें ध्यान कर रहे थे, वह सहसा विलीन हो गयी। इससे घबराकर उन्होंने ज्यों ही नेत्र खोले कि भगवान्के उसी रूपको बाहर अपने सामने खड़ा देखा॥ २॥
वीरराघवः
स वै ध्रुवः योगविपाकतीव्रया योगस्य ध्यानयोगस्य विपाकः 4आपरोक्ष्य प्रीतिरूपत्वादिविशेषणविशिष्टत्वं तेन तीव्रया विजातीय प्रत्ययान्तराव्यवहितया धिया प्रथमं हृत्पद्मकोशे स्फुरितं साक्षात्कृतं ततः सहसैव 5आश्वेव तिरोहितं ततः पुनः बहिस्स्थितं तडित्प्रभं अन्तराविर्भूतस्य सहसा तिरोधानेन तडित्साम्यमभिप्रेत्य तडित्प्रभमित्युक्तं तदवस्थं यादृगन्तरस्फुरत्तादृशमुपलक्ष्य प्रत्यभिज्ञाय ददर्श साक्षात्कृतवान् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
तद्दर्शनेनागतसाध्वसः क्षिता-
ववन्दताङ्गं विनमय्य दण्डवत्।
दृग्भ्यां प्रपश्यन् प्रपिबन्निवार्भक-
श्चुम्बन्निवास्येन भुजैरिवाश्लिषन्॥
मूलम्
तद्दर्शनेनागतसाध्वसः क्षिताववन्दताङ्गं विनमय्य दण्डवत्।
दृग्भ्यां प्रपश्यन् प्रपिबन्निवार्भकश्चुम्बन्निवास्येन 6भुजैरिवाश्लिषन्॥ ३ ॥
अनुवाद (हिन्दी)
प्रभुका दर्शन पाकर बालक ध्रुवको बड़ा कुतूहल हुआ, वे प्रेममें अधीर हो गये। उन्होंने पृथ्वीपर दण्डके समान लोटकर उन्हें प्रणाम किया। फिर वे इस प्रकार प्रेमभरी दृष्टिसे उनकी ओर देखने लगे मानो नेत्रोंसे उन्हें पी जायँगे, मुखसे चूम लेंगे और भुजाओंमें कस लेंगे॥ ३॥
वीरराघवः
तस्य भगवतो दर्शनेन आगतसाध्वसः जातसम्भ्रमः अर्भकः ध्रुवः अङ्गं शरीरं क्षितौ भूमौ दण्डवद्विनमय्य नतं कृत्वा अवन्दत नमस्कृतवान् । सम्भ्रममेवाह - दृग्भ्यां प्रपश्य7न्निव पिबन्निव अवन्दत आस्येन चुम्बन्निव अवन्दत, भुजाभ्यामाश्लिषन्नालिङ्गन्निवाऽवन्दत । भुजैरिति बहुवचनमार्षम् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
स तं विवक्षन्तमतद्विदं हरि-
र्ज्ञात्वास्य सर्वस्य च हृद्यवस्थितः।
कृताञ्जलिं ब्रह्ममयेन कम्बुना
पस्पर्श बालं कृपया कपोले॥
मूलम्
स तं विवक्षन्तमतद्विदं हरिर्ज्ञात्वाऽस्य सर्वस्य च हृद्यवस्थितः।
कृताञ्जलिं ब्रह्ममयेन कम्बुना पस्पर्श बालं कृपया कपोले॥ ४ ॥
अनुवाद (हिन्दी)
वे हाथ जोड़े प्रभुके सामने खड़े थे और उनकी स्तुति करना चाहते थे, परन्तु किस प्रकार करें यह नहीं जानते थे। सर्वान्तर्यामी हरि उनके मनकी बात जान गये; उन्होंने कृपापूर्वक अपने वेदमय शंखको उनके गालसे छुआ दिया॥ ४॥
वीरराघवः
तं ध्रुवं विवक्षन्तं गुणान् वक्तुमिच्छन्तं तुष्टूषन्तमित्यर्थः । पुनरतद्विदं स्तोतुमजानन्तम् अस्य ध्रुवस्य सर्वस्य लोकस्य च हृदि हृदये अवस्थितः हेतुगर्भमिदं हृदि अवस्थितत्वात् ज्ञात्वा स हरिः ब्रह्ममयेन ब्रह्म प्रणवः वेदो वा तत्प्रचुरेण ध्वनेः प्रणवाद्यनुकारित्वात् ब्रह्ममयेनेत्युक्तम् । कम्बुना शङ्खेन कपोले गण्डे बालं ध्रुवं कृपया पस्पर्शममार्ज ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
स वै तदैव प्रतिपादितां गिरं
दैवीं परिज्ञातपरात्मनिर्णयः।
तं भक्तिभावोऽभ्यगृणादसत्वरं
परिश्रुतोरुश्रवसं ध्रुवक्षितिः॥
मूलम्
स वै तदैव प्रति8पद्य तां गिरं दैवीं परिज्ञातपरात्मनिर्णयः।
9तं भक्तिभावोऽभ्यगृणादसत्व10रः परि11श्रुतोरुश्रवसं ध्रुवक्षि12तिः॥ ५ ॥
अनुवाद (हिन्दी)
ध्रुवजी भविष्यमें अविचल पद प्राप्त करनेवाले थे। इस समय शंखका स्पर्श होते ही उन्हें वेदमयी दिव्यवाणी प्राप्त हो गयी और जीव तथा ब्रह्मके स्वरूपका भी निश्चय हो गया। वे अत्यन्त भक्तिभावसे धैर्यपूर्वक विश्वविख्यात कीर्तिमान् श्रीहरिकी स्तुति करने लगे॥ ५॥
वीरराघवः
स वै ध्रुवः देवीं देवस्य सम्बन्धिनीं देवेन भगवता आविर्भावितामित्यर्थः । तां वेदार्थप्रचुरां गिरं वाचं तदैव स्पर्शोत्तरकालमेव प्रतिपद्य लब्ध्वा परितः ज्ञातः कार्त्स्न्येन विदितः परात्मनोः परमात्मजीवात्मनोः निर्णयो याथात्म्यं येन अत एव भक्तिभावः भक्त्यात्मको भावोऽभिप्रायो यस्य ध्रुवा स्थिरा शाश्वती क्षितिः स्थानं यस्य अयं भाविनिर्देशः, असत्वरः त्वरारहितः परिश्रुतं सर्वतो विख्यातमुरु निरवधिकं श्रवः कीर्तिर्यस्य तं भगवन्तम् अभ्यगृणात् अ13स्तौषीत् ॥ ५ ॥
श्लोक-६
मूलम् (वचनम्)
ध्रुव उवाच
विश्वास-प्रस्तुतिः
योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां
संजीवयत्यखिलशक्तिधरः स्वधाम्ना।
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान्नमो भगवते पुरुषाय तुभ्यम्॥
मूलम्
योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्ताम् सञ्जीवयत्यखिलशक्तिधरः स्व14धाम्ना।
अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम्॥ ६ ॥
अनुवाद (हिन्दी)
ध्रुवजीने कहा—प्रभो! आप सर्वशक्तिसम्पन्न हैं; आप ही मेरे अन्तःकरणमें प्रवेशकर अपने तेजसे मेरी इस सोयी हुई वाणीको सजीव करते हैं तथा हाथ, पैर, कान और त्वचा आदि अन्यान्य इन्द्रियों एवं प्राणोंको भी चेतनता देते हैं। मैं आप अन्तर्यामी भगवान्को प्रणाम करता हूँ॥ ६॥
वीरराघवः
तत्र स्वकीय15वागादीन्द्रिय सञ्जीवयितृत्वेन स्वानुभवसिद्धेन ज्ञानप्रदं चिदचिच्छरीरं निखिलजगदेककारणं निरस्तनिखिलहेयगन्धं मुक्त्युपायत्व मुक्तिप्रदत्वाश्रित दुरितौघनिवर्तकत्व निरतिशय यशस्सम्पन्नत्व निरतिशयानन्दत्वाद्यपरिमितोदारगुणसागरत्वेन भगवन्तं पञ्चभिः प्रस्तुत्य तस्मिन् स्वमनःप्रावण्यमेकेन सम्प्रार्थ्य तत्पदारविन्दध्यानासक्तचित्तस्य देह तद्रनुबन्धिहेतुक सुखदुःखाननुभूतिमेकेनाभिधाय ततः साधुपरित्राणाय स्वेच्छोपात्ताप्राकृत दिव्यमङ्गलविग्रहं परत्वेन शङ्कितब्रह्मादिदेवतानामपि कारणभूतं स्वावतारेण साक्षाज्जगदवितारं त्रिभिः प्रस्तुत्यैकेन तं शरणमागत्य पुरुषार्थमूर्तेस्तस्य भजनादाशिषां सत्यतां वदन् निरतिशयवात्सल्यमेकेन स्तौति - य इति द्वादशभिः । तत्र तावद्वागादीन्द्रियसञ्जीवयितृत्वेन स्वस्मै निदर्शितेन ज्ञानप्रदत्वं निश्चिन्वन्नमस्करोति - य इति । यो भगवान् प्रसुप्तां स्वकार्याक्षमां इमां स्तोतुं प्रवृत्तां मे स्तोतुकामस्य मम वाचं वागिन्द्रियमन्तः प्रविश्य सङ्कल्परूपज्ञानेनात्रानुप्रवेश उच्यते, पूर्वमेव प्रविष्टत्वात् सञ्जीवयति तत्र हेतुः अखिलशक्तिधरः अघटित घटनादि सर्वशक्तेस्तवेदमुपपन्नमिति भावः । तथा स्वधाम्नः स्वधामभूतान् स्वशरीरभूतानिति यावत् । तृतीयान्त पाठे स्वधाम्ना स्वकीयसङ्कल्प16रूपज्ञानेनान्तः प्रविश्येत्यन्वयः । हस्त चरणश्रवणत्वगादीन् हस्तचरणग्रहणं पायूपस्थयोः कर्मेन्द्रिययो रुपलक्षणं, श्रवणत्वग्ग्रहणमवशिष्टज्ञानेन्द्रियाणां, आदिशब्देनान्तः करण चतुष्टयाधिष्ठातृदेवतासङ्ग्रहः अन्यान्प्राणान् इन्द्रियाणि सञ्जीवयति तस्मै भगवते पूर्णषाड्गुण्यमूर्तये पुरुषाय पुरुषान्तर्यामिणे अनेन जीवान्तर्यामित्व मुक्तम्; पूर्वमचिदन्तर्यामित्वकथनात् तुभ्यं नमः कृत्स्न चिदचिदन्तरात्मत्वेन सत्सञ्जीवयितृत्वेन ज्ञानप्रदत्वं त्वय्येवोपपन्नमिति भावः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
एकस्त्वमेव भगवन्निदमात्मशक्त्या
मायाख्ययोरुगुणया महदाद्यशेषम्।
सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु
नानेव दारुषु विभावसुवद्विभासि॥
मूलम्
एकस्त्वमेव भगवन्निदमात्मशक्त्या मायाख्ययोरुगुणया महदाद्यशेषम्।
सृष्ट्वानुविश्य पुरुष17स्तदसद्गुणेषु नानेव दारुषु विभावसुवद्विभासि॥ ७ ॥
अनुवाद (हिन्दी)
भगवन्! आप एक ही हैं, परन्तु अपनी अनन्त गुणमयी मायाशक्तिसे इस महदादि सम्पूर्ण प्रपंचको रचकर अन्तर्यामीरूपसे उसमें प्रवेश कर जाते हैं और फिर इसके इन्द्रियादि असत् गुणोंमें उनके अधिष्ठातृ-देवताओंके रूपमें स्थित होकर अनेकरूप भासते हैं—ठीक वैसे ही जैसे तरह-तरहकी लकड़ियोंमें प्रकट हुई आग अपनी उपाधियोंके अनुसार भिन्न-भिन्न रूपोंमें भासती है॥ ७॥
वीरराघवः
ननु “तत्सृष्ट्वा तदेवानुप्राविशत्, (तैत्ति. उ. 2-6) अनेन जीवेनाऽत्मनानुप्रविश्य नामरूपे व्याकरवाणि” (छान्दो. उ. 6-3-2) इति जगत्प्रष्टुरेवानुप्रवेशश्रवणात् नाऽहं चिदचिदन्तरात्मेत्यत्र जगत्स्रष्टाऽपि त्वमेवेत्याह - एक इति । हे भगवन् ! इदं परिदृश्यमानं महदादिसमष्टि व्यष्ट्यात्मकमशेषं सर्वं जगत् उरुगुणया विविधपरिणामक्षम सत्त्वादिगुणया आत्मशक्त्याऽऽत्मनः स्वस्य सम्बन्धिन्या शक्त्या कार्योपयोग्यपृथक्सिद्धविशेषणभूतया मायाख्यया प्रकृत्या सृष्ट्वा सदसद्गुणेषु कार्यकारणभूतेषु सत्त्वादिगुणमय पदार्थेषु पुरुषो जीवकारकः अनुप्रविश्य त्वमेक एव सन् दारुषु हस्वदीर्घ- ऋजुवक्रादिभेदभिन्नेषु दारुषु विभावसुवदग्निवन्नानेव बहुधेव विभासि । अत्र विभावसुदृष्टान्तेन स्वशरीरभूत चिदचिद्गतगुणास्पर्शो विवक्षितः । इवशब्देन वस्तुन एकत्वं देवमनुष्यादिशरीरसंसृष्ट जीवान्तरात्मकत्वकृतं बहुत्वमपि विवक्षितम् ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
त्वद्दत्तया वयुनयेदमचष्ट विश्वं
सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः।
तस्यापवर्ग्यशरणं तव पादमूलं
विस्मर्यते कृतविदा कथमार्तबन्धो॥
मूलम्
त्वद्दत्तया वयुनयेदमचष्ट विश्वं सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः।
18तस्याप19वर्ग्यशरणं तव पादमूलं विस्मर्यते कृत20विदा कथमार्तबन्धो॥ ८ ॥
अनुवाद (हिन्दी)
नाथ! सृष्टिके आरम्भमें ब्रह्माजीने भी आपकी शरण लेकर आपके दिये हुए ज्ञानके प्रभावसे ही इस जगत्को सोकर उठे हुए पुरुषके समान देखा था। दीनबन्धो! उन्हीं आपके चरणतलका मुक्त पुरुष भी आश्रय लेते हैं, कोई भी कृतज्ञ पुरुष उन्हें कैसे भूल सकता है?॥ ८॥
वीरराघवः
एवं निखिलजगदेककारणत्वेन कृत्स्वचिदचिदन्तरात्मत्वेन निरस्तनिखिलदोषत्वेन च वागादीन्द्रिय सञ्जीवयितृत्वात्तस्यैव ज्ञानप्रदत्वमुक्तम् । तदेव निदर्शयन् तस्यैव निरतिशयपुरुषार्थसाधनत्वेन भजनीयतामाह - त्वद्दत्तयेति । त्वदीयया “तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तम्” (भ.गी. 10–10) इति वदता त्वया दत्तया वयुनया ज्ञानेन स्त्रीत्वमार्षम् । हे नाथ ! भवन्तं प्रपन्नः शरणं गतो ब्रह्मा चतुर्मुखः सुप्तप्रबुद्ध इव पूर्वं सुप्तः पश्चात्प्रबुद्ध इव विश्वमचष्ट अपश्यत् । विश्वरचनोपयोगिज्ञानविधुर स्त्वत्प्रपत्त्या त्वद्दत्तज्ञानेना सृजदित्यर्थः । नाऽत्र भूतार्थविवक्षा पश्यतीत्यर्थः । हे आर्तबन्धो ! आर्तानां तापत्रयातुराणां बन्धो अपवर्गशरणं मुक्त्युपायं आपवर्ग्यमिति पाठे स्वार्थे ष्यञ् । अपवर्गे भवमापवर्म्यं सुखं तत्साधनमिति वा । तव पादमूलं कृतविदा सर्वेन्द्रियोपजीवनेन ज्ञानप्रदत्वाद्युपकारज्ञेन कथं विस्मर्यते । एवं महोपकारिणं त्वा मभजन्तः कृतघ्ना एवेत्यर्थः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
नूनं विमुष्टमतयस्तव मायया ते
ये त्वां भवाप्ययविमोक्षणमन्यहेतोः।
अर्चन्ति कल्पकतरुं कुणपोपभोग्य-
मिच्छन्ति यत्स्पर्शजं निरयेऽपि नॄणाम्॥
मूलम्
नूनं विमुष्टमतयस्तव मायया ते ये 21त्वां भवाप्ययविमोक्षणमन्यहेतोः।
अर्चन्ति कल्पकतरुं कुणपोपभोग्यमिच्छन्ति यत्स्पर्शजं 22नरकेऽपि नॄणाम्॥ ९ ॥
अनुवाद (हिन्दी)
प्रभो! इन शवतुल्य शरीरोंके द्वारा भोगा जानेवाला, इन्द्रिय और विषयोंके संसर्गसे उत्पन्न सुख तो मनुष्योंको नरकमें भी मिल सकता है। जो लोग इस विषयसुखके लिये लालायित रहते हैं और जो जन्म-मरणके बन्धनसे छुड़ा देनेवाले कल्पतरुस्वरूप आपकी उपासना भगवत्-प्राप्तिके सिवा किसी अन्य उद्देश्यसे करते हैं, उनकी बुद्धि अवश्य ही आपकी मायाके द्वारा ठगी गयी है॥ ९॥
वीरराघवः
तथा त्वां भजन्तोऽपि मादृशाः सकामा मन्दभाग्या एवेत्याह- नूनमिति । कल्पकतरुं कल्पकतरुतुल्यम् आश्रि23ताभीष्टार्थ प्रदत्वेन कल्पतरुतौल्यं विवक्षितम् । ततो निरतिशयगुणवत्तामाह। भवाप्ययविमोक्षणं भवो जन्म अप्ययो मरणं तयोर्मोक्षणं मोचनं यस्मात्तं, यद्वा भवाप्ययौ विमो24चयतीतिण्यन्तात्कर्तरिल्युट् बाहुल25कत्वात् । मुक्तिप्रदमित्यर्थः । एवम्भूतं त्वां ये मादृशा लोका अन्यहेतोः अन्यस्य त्रिवर्गस्य हेतोः कारणात् भजन्ति ते जना स्तव मायया “मम मया दुरत्यया” (भ.गी. 7-14) इत्युक्तविधया विमुष्टमतयः अपहृतज्ञानाः, नूनमिति निश्चये । कुतस्ते विमुष्टमतय इत्यत्राह । यद्यस्मात्स्पर्शजं विषयेन्द्रियसम्बन्धजम् अत एव “एते वै निरया स्तात ! स्थानस्य परमात्मनः" (भार. 12-191-6) 26इत्युक्तविधया नरकप्रायेऽपि संसारे नृणां कुणपोपभोग्यं कुणपेन शवतुल्येन शरीरेणोपभोग्यं सुखमिति शेषः, इच्छन्ति ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
या निर्वृतिस्तनुभृतां तव पादपद्म-
ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात्।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
किं त्वन्तकासिलुलितात्पततां विमानात्॥
मूलम्
या निर्वृतिस्तनुभृतां तव पादपद्म ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात्।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् 27किन्न्वन्तकासिलुलितात्पततां विमानात्॥ १० ॥
अनुवाद (हिन्दी)
नाथ! आपके चरणकमलोंका ध्यान करनेसे और आपके भक्तोंके पवित्र चरित्र सुननेसे प्राणियोंको जो आनन्द प्राप्त होता है, वह निजानन्दस्वरूप ब्रह्ममें भी नहीं मिल सकता। फिर जिन्हें कालकी तलवार काटे डालती है उन स्वर्गीय विमानोंसे गिरनेवाले पुरुषोंको तो वह सुख मिल ही कैसे सकता है॥ १०॥
वीरराघवः
ननु स्वर्गस्याऽपि सुखत्वप्रतिपत्तेः किं तदर्थं भजमानान् निन्दित्वा निष्कामान् प्रशंससीत्याकाङ्क्षायां स्पर्शजस्याल्पास्थिरत्वान्निन्दामीत्यभिप्रेत्य किं वक्तव्यं निष्कामभक्तिसाध्यस्यापवर्गिकसुखस्य निरवधिकत्वात् न तेन स्पर्शजस्य साम्यमिति यत स्त्वच्चरणध्यान त्वद्भक्तजनकथाश्रवणजन्यसुखेनाऽपि न कैवल्यमपि समानमिति कैमुत्यनयेनाह - येति । तनुभृतां देहिनां तव चरणकमलध्यानात् भवज्जना भागवतास्तेषां कथाश्रवणेन वा या निर्वृतिः सुखं स्यात् सा निर्वृतिः हे नाथ ! स्वमहिमन्यपि स्वाभाविकगुणाष्टकरूप महिम्नि ब्रह्मणि शुद्धात्मन्यनुभूयमानेऽपि मा भून्नास्तीत्यर्थः । अन्तकासिलुलितात् अन्तकाख्य शस्त्रक्षतात् विमानात् पततां स्वर्गिणां निर्वृतिः स्यात्किम् ? नास्त्येवेत्यर्थः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो
भूयादनन्त महताममलाशयानाम्।
येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं
नेष्ये भवद्गुणकथामृतपानमत्तः॥
मूलम्
भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो भूयादनन्त महताममलाशयानाम्।
येनाऽञ्जसोल्बणमुरुव्यसनं भवाब्धिं नेष्ये भवद्गुणकथामृतपानमत्तः॥ ११ ॥
अनुवाद (हिन्दी)
अनन्त परमात्मन्! मुझे तो आप उन विशुद्धहृदय महात्मा भक्तोंका संग दीजिये, जिनका आपमें अविच्छिन्न भक्तिभाव है; उनके संगमें मैं आपके गुणों और लीलाओंकी कथा-सुधाको पी-पीकर उन्मत्त हो जाऊँगा और सहज ही इस अनेक प्रकारके दुःखोंसे पूर्ण भयंकर संसारसागरके उस पार पहुँच जाऊँगा॥ ११॥
वीरराघवः
एवं नित्यनिरतिशयानन्द साधनभूतं त्वां क्षयिष्णु सातिशयाल्पसुखसाधनत्वेन भजन्तो मादृशा मन्दभाग्या एवेत्युक्ता स्वस्य सत्सङ्गति कथाश्रवणादि प्रणाड्या भक्तिमहैतुकीं प्रार्थय28ते - भक्तिमिति । हे अनन्त ! देशकालवस्तुपरिच्छेदरहित ! त्वयि निरस्तनिखिलदो29षे सार्वज्ञ्य निरतिशयानन्दत्वाद्यपरिमितोदारगुणसागरे त्वयि मुहुः पुनः पुनः निरन्तरमित्यर्थः । भक्तिं प्रवहतां कुर्वतां अत एवाऽमलः आशयोऽन्तःकरणं येषां, महतामक्रोधाद्यात्मगुणयुक्तानां प्रसङ्गः प्रकृष्टः सङ्गः महतामिति सम्बन्धमात्रे षष्ठी, महत्सम्ब30न्धी सङ्गमः महत्सु सङ्गम इत्यर्थः । मे स्यात् येन महत्सङ्गेन हेतुना प्रवृत्ता या 31भवतो गुणकथा सैव मधु तस्य पानेन मत्तः तृप्तः निरस्ततापत्रय इत्यर्थः । उरुव्यसनम् अधिकदुःखगर्भम् अत एव उल्बणं दुस्सहं भ32वाब्धिं नेष्ये तरामि ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं
ये चान्वदः सुतसुहृद्गृहवित्तदाराः।
ये त्वब्जनाभ भवदीयपदारविन्द-
सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः॥
मूलम्
ते न स्मरन्त्यतितरां प्रियमीश 33मर्त्यं 34ये चान्वदः सुतसुहृद्गृहवित्त35दाराः।
ये त्वब्जनाभ भवदीयपदारविन्दसौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः॥ १२ ॥
अनुवाद (हिन्दी)
कमलनाभ प्रभो! जिनका चित्त आपके चरणकमलकी सुगन्धमें लुभाया हुआ है, उन महानुभावोंका जो लोग संग करते हैं—वे अपने इस अत्यन्त प्रिय शरीर और इसके सम्बन्धी पुत्र, मित्र, गृह और स्त्री आदिकी सुधि भी नहीं करते॥ १२॥
वीरराघवः
न केवलं सत्सङ्गतेः कथाश्रवणादि प्रणाड्याऽऽपवर्गिकसुखसाधनत्वमेव किन्तु जीवद्दशायामपि देह तदनुबन्धि निमित्त सुखदुःखाद्यहेतुत्वमपीत्याह - त इति । हे ईश ! मर्त्यं मरणशीलमपि अतितरां 36नितरां प्रियं शरीरं ये च अनुमर्त्यमनुसृत्य गच्छन्ति वर्तन्ते इत्यनुगाः सुतादयः तां 37श्च ते जना न स्मरति नाऽभिमन्यन्ते इत्यर्थः । के त इत्यत्राह - हे अब्जनाभ ! ये जना भवदीय पदारविन्दयोः यत्सौगन्ध्यं तेन तस्मिन् वा लुब्धं हृदयं येषां तेषु भागवतेषु कृतः प्रसङ्गो यै स्ते इत्यर्थः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
तिर्यङ्नगद्विजसरीसृपदेवदैत्य-
मर्त्यादिभिः परिचितं सदसद्विशेषम्।
रूपं स्थविष्ठमज ते महदाद्यनेकं
नातः परं परम वेद्मि न यत्र वादः॥
मूलम्
तिर्य38ङ्नगद्विजसरीसृपदेवदैत्यमर्त्यादिभिः 39परिचितं सदसद्विशेषम्।
रूपं स्थविष्ठमज ते महदाद्य40नेकं नाऽतः परं परम वेद्मि न यत्र 41वादः॥ १३ ॥
अनुवाद (हिन्दी)
अजन्मा परमेश्वर! मैं तो पशु, वृक्ष, पर्वत, पक्षी, सरीसृप (सर्पादि रेंगनेवाले जन्तु), देवता, दैत्य और मनुष्य आदिसे परिपूर्ण तथा महदादि अनेकों कारणोंसे सम्पादित आपके इस सदसदात्मक स्थूल विश्वरूपको ही जानता हूँ; इससे परे जो आपका परम स्वरूप है, जिसमें वाणीकी गति नहीं है, उसका मुझे पता नहीं है॥ १३॥
वीरराघवः
अब्जनाभेत्यनेन निरतिशय 42सौन्दर्यवद्दिव्यमङ्गलविग्रह वैशिष्ट्य मुक्तं महदाद्यशेषं सृष्ट्वानुप्रविश्य पुरुष इत्यनेन प्रकृति प्राकृत पुरुषशरीरकत्वं च । एवं स्थूलसूक्ष्मशरीरद्वयमुक्तम् । अनन्तेत्यनेन सत्यज्ञा43नानन्तलक्षणं दिव्यात्मस्वरूपं च एत स्त्रितयमेव यथाव द्विवेचयन् शरणं व्रजतितिर्यगित्यादिभिश्चतुर्भिः । तत्राऽऽद्येन स्थूलरूपं प्रपञ्चयति तिर्यगिति । हे परम ! स्थूलसूक्ष्मरूपाभ्यां विलक्षण ! निस्समाभ्यधिक ! अत एव अज ! स्थूलरूपगतोत्पत्तिविनाशरहित ! नगाः स्थावराणि एतच्चराणामप्युपलक्षणम् । तिर्यञ्चः पशुमृगादयः द्विजा अण्डजाः एषां तिर्यक्त्वादेव संग्रहे सिद्धे गोबलीवर्दन्यायेन पृथग्ग्रहणम् । एवं सरीसृप ग्रहणं च । आदि शब्देन स्वेदजोद्भिज्यसङ्ग्रहः, तिर्यगादिभिः परिचितं परितो व्याप्तं सदसत् चिदचिदात्मकं विशेषं, विशेषः पृथिवी सोऽस्यास्तीति विशेषम् । अर्श आदेराकृतिगणत्वात् अच् विशेषपर्यन्तमित्यर्थः । महदादि महान् आदिर्यस्य तत् अनेकं विविधविचित्रसन्निवेशं स्थविष्ठं स्थूलं ब्रह्माण्डात्मकं ते तव रूपं वेद्मि त्वच्छरीरत्वेन वेद्मीत्यर्थः । अतः स्थूलरूपात्परं विलक्षणं यद्दिव्य मङ्गलविग्रहात्मकं सूक्ष्मं रूपं तदपि न वेद्यीति न, किन्तु त्वत्प्रसादाद्वेद्म्येवेत्यर्थः । परं रूपं विशिनष्टि । यत्र यद्विषये वादः प्राकृतत्वाप्राकृतत्ववादः प्रवर्तत इत्यर्थः । यद्वा अवेद्मीतिच्छेदः अवेद्मीत्यकारो निपातो नञ्पर्यायः । ततश्च अतः स्थविष्ठा द्रूपात्परं विलक्षणं “न भूतसंघसंख्यानो देहोऽस्य परमात्मनः" (भार. 12-206-60) इत्युक्ताप्राकृतदिव्य विग्रहात्मकं रूपं ततः परं दिव्यात्मस्वरूपं “सत्यं ज्ञानमनन्तम्” (तैत्ति. उ. 2-1-1) इत्युक्तविधं च अवेद्मीति न, 44न वेद्यीति न44, किन्तु त्वत्प्रसादात् जानाम्येवेत्यर्थः । रूपं स्वरूपं चोभयं विशिनष्टि यत्र वाद इति । यत्रस्वरूपे 45रूपे च 46विषये वादः देवतिर्यङ्मनुष्यादि जातीयवादः निर्विशेषत्ववादश्च 47न प्रवर्तत इत्यर्थः । यत्र वादः शब्दव्यापारो नाऽस्ति तद्ब्रह्मस्वरूपं च न वेद्मीति व्याख्यानं त्वयुक्तम् । “सर्वे वेदा यत्पदमामनन्ति” (कठ. उ. 1-2-15) “शास्त्रयोनित्वात्” (ब. सू. 1-1-3) “वचसां वाच्यमुत्तमम्” (जितन्ता) “नतास्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती” (वि.पु. 1-14-23) “वेदैश्च सर्वैरहमेव वेद्यः” (भागी. 15-15)इत्यादि श्रुति सूत्र स्मृतिभिः शास्त्रैकवेद्यत्वाभिधानात् ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
कल्पान्त एतदखिलं जठरेण गृह्णन्
शेते पुमान् स्वदृगनन्तसखस्तदङ्के।
यन्नाभिसिन्धुरुहकाञ्चनलोकपद्म-
गर्भे द्युमान् भगवते प्रणतोऽस्मि तस्मै॥
मूलम्
कल्पान्त एतदखिलं जठरेण गृह्णन् शेते पुमान् स्वदृगनन्तसखस्तदङ्के।
यन्नाभिसिन्धुरुहकाञ्चनलोकपद्मगर्भे द्युमान् भगवते प्रणतोऽस्मि तस्मै॥ १४ ॥
अनुवाद (हिन्दी)
भगवन्! कल्पका अन्त होनेपर योगनिद्रामें स्थित जो परमपुरुष इस सम्पूर्ण विश्वको अपने उदरमें लीन करके शेषजीके साथ उन्हींकी गोदमें शयन करते हैं तथा जिनके नाभि-समुद्रसे प्रकट हुए सर्वलोकमय सुवर्णवर्ण कमलसे परम तेजोमय ब्रह्माजी उत्पन्न हुए , वे भगवान् आप ही हैं, मैं आपको प्रणाम करता हूँ॥ १४॥
वीरराघवः
किञ्च यः पुमा नेतच्चिदचिदात्मकं जगत् कल्पान्ते प्रलये जठरेण गृह्णन् कुक्षौ निवेश्येत्यर्थः । स्वस्मिन् दृक् यस्य स्वानुभवैकशील इत्यर्थः । अनन्तसखः शेषसहायः तदन्ते अनन्तभोगे शेते योगनिद्रारूढो भवति । यस्य पुंसो नाभिरेव सिन्धुः तस्मिन् 48रुहं उद्भूतं काञ्चनमयं लोकात्मकं पद्मं तस्य गर्भे कर्णिकायांद्युमान् तेजस्वी ब्रह्मा भवति तस्मै भगवते तुभ्यं प्रणतोऽस्मि ॥१४॥
श्लोक-१५
विश्वास-प्रस्तुतिः
त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा
कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः।
यद्बुद्ध्यवस्थितिमखण्डितया स्वदृष्ट्या
द्रष्टा स्थितावधिमखो व्यतिरिक्त आस्से॥
मूलम्
त्वं नित्यमुक्तपरि49शुद्धविबुद्ध आत्मा कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः।
यद्बुद्ध्यवस्थि50तमखण्डितया स्व51दृष्ट्या 52द्रष्टा स्थितावधिम53खो व्यतिरिक्त आस्से॥ १५ ॥
अनुवाद (हिन्दी)
प्रभो! आप अपनी अखण्ड चिन्मयी दृष्टिसे बुद्धिकी सभी अवस्थाओंके साक्षी हैं तथा नित्यमुक्त शुद्धसत्त्वमय, सर्वज्ञ, परमात्मस्वरूप, निर्विकार, आदिपुरुष, षडैश्वर्य-सम्पन्न एवं तीनों गुणोंके अधीश्वर हैं। आप जीवसे सर्वथा भिन्न हैं तथा संसारकी स्थितिके लिये यज्ञाधिष्ठाता विष्णुरूपसे विराजमान हैं॥ १५॥
वीरराघवः
एवं रूपं विशिष्य पुनः स्वरूपं विशिनष्टि - त्वमिति द्वाभ्याम् । ननु जीववत् ममाऽपि स्थूलसूक्ष्मशरीरवत्त्वे ततः कोविशेष इत्यत्राह - त्वमिति । त्वमकर्मायत्त स्वच्छोपात्ताप्राकृतदिव्यमङ्गलगुणास्पदविशिष्टस्त्वं स्थितौ निमित्तभूतायां जगत्पालनार्थमित्यर्थः, अधिमखः यज्ञाराध्यो यज्ञ फलप्रदश्च व्यतिरिक्तः प्रकृतिपुरुषविलक्षणः आस्से तिष्ठसि । अत्र अधिमख इत्यनेन स्थितावित्यनेन च “परित्राणाय साधूनाम्” (भ.गी. 4-8) इत्युक्तरीत्या सर्वयज्ञाराध्यत्वाय साधुपरित्राणाय च त्वज्जन्म, न तु जीववत्कर्मायत्तमित्यवगम्यते । अव्यतिरिक्त इतिच्छेदे प्रकृतिपुरुषविलक्षण एवं ताभ्यामपृथक्त्वेनावस्थित इत्यर्थः । नन्वनन्त विचित्र स्थिरचरात्मकस्य जगतो धारणपोषण भोगाद्यात्मकं पालनं कथमेकेन मया युगपत्कर्तुं शक्यमित्यत्राह । बुद्ध्यवस्थितं बुद्धाववस्थितं विषयीभूतं सङ्कल्परूपज्ञानविषयमिति यावत्, अखण्डितया असङ्कुचितया स्वदृष्ट्या सङ्कल्परूपज्ञानेन द्रष्टा साक्षात्कर्तासि कृत्स्नस्य जगतः सर्वदेशकालावस्थास्वनिष्टनिरसनेष्टप्रापणात्मकपरिपालनोपयोग्यसङ्कुचित 54स्वकीय सङ्कल्परूपज्ञानाश्रयोऽसीत्यर्थः । स्थिता वधिमजो व्यतिरिक्त इत्यपि पाठः । तत्र अजः प्रकृतिपुरुषगतस्वरूपान्यथाभाव 55स्वभावान्यथाभावरूपोत्पत्त्यादिरहितः, अत एव व्यतिरिक्तः प्रकृतिपुरुषाभ्यां विलक्षणः, स्थितावधिं व्यवस्थितावधिमत् स्थावरपर्यन्तं वा यत्तत् जगत्सर्वमखण्डितज्ञानेन साक्षात्कुर्वन् आस्से इत्यर्थः । एवं त्वं नित्यमुक्तः व्याप्यवस्तुगतदोषास्पृष्टः अनेना चिद्वयावृत्तिः । अचिद्द्रव्यं हि अव्यक्तमहदादिकं स्वकार्येषु पृथिव्यादिषु व्याप्तं तद्गतदोषैः स्पृष्टम् । एवं जीवव्यावृत्तिश्च, जीवोऽपि देवादिशरीरेषु व्याप्तः परमार्थतस्तद्गतदोषैरस्पृष्टोऽपि अहम्ममाभिमानाभ्यां क्लिश्यतीति 56अनित्य मुक्तः । त्वं तु नित्यमुक्त इति भावः । तत्र हेतुः विशुद्धः अकर्मवश्यः, नित्यमुक्तशब्दात्परस्य सुपो लोप आर्षः कर्मधारयो वा, विशुद्धत्वेहेतुः परिबुद्धः असङ्कुचितज्ञानः, जीवो हि कर्मायत्तसङ्कोचविकास57रूपावस्थावज्ज्ञानाश्रयो न परिबुद्ध इति भावः । तत्र हेतुः कूटस्थः निर्विकारः स्वरूपतः स्वभावतोऽपि निर्विकारस्त्वं, जीवस्तु स्वभावतो विकारी । ननु नित्यमुक्तत्व परिबुद्धत्व विशुद्धत्वानि मुक्तेषु नित्यसिद्धेषु चातिव्याप्तानि तत्राह । आत्मा तेष्वन्तः प्रविश्य धारकः । न चात्मत्वमपि अतिप्रसक्तम् अत उक्तम् आदिपुरुषो भगवान् त्य्रधीश इति । आदिपुरुष इति कर्मधारयः । आदिशब्दस्य कारणवाची कारणं हि कार्यस्यादिः, जगत्कारणभूतः पुरुष इत्यर्थः । जगत्कारणत्वञ्च न मुक्तेषूपपन्नं, “जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च, भोगमात्रसाम्यलिङ्गाच्च (ब्र.सू. 4-4-17) इति मुक्तेषु जगद्व्यापाराभावस्य सूत्रितत्वात् । भगवच्छब्देन समग्रषाड्गुण्य परिपूर्णत्वमुच्यते, तदप्यनतिप्रसक्तमेव । त्य्रधीशः त्रयाणां सत्त्वरजस्तमसां तत्परिणामरूपाणां त्रयाणां लोकानां वा अधीशः, इदमप्यनतिप्रसक्तमेवेति त्रिविधचेतनव्यावृत्तिः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
यस्मिन् विरुद्धगतयो ह्यनिशं पतन्ति
विद्यादयो विविधशक्तय आनुपूर्व्यात्।
तद्ब्रह्म विश्वभवमेकमनन्तमाद्य-
मानन्दमात्रमविकारमहं प्रपद्ये॥
मूलम्
यस्मिन् 58विरुद्ध59गतयो60ऽप्यनिशं पतन्ति विद्यादयो विविधशक्तय आनुपू61र्व्यात्।
तद्ब्रह्म विश्वभवमेक62मनन्तमाद्यमानन्दमात्रमविकारमहं प्रपद्ये॥ १६ ॥
अनुवाद (हिन्दी)
आपसे ही विद्या-अविद्या आदि विरुद्ध गतियोंवाली अनेकों शक्तियाँ धारावाहिक रूपसे निरन्तर प्रकट होती रहती हैं। आप जगत्के कारण, अखण्ड, अनादि, अनन्त, आनन्दमय निर्विकार ब्रह्मस्वरूप हैं। मैं आपकी शरण हूँ॥ १६॥
श्लोक-१७
विश्वास-प्रस्तुतिः
सत्याऽऽशिषो हि भगवंस्तव पादपद्म-
माशीस्तथानुभजतः पुरुषार्थमूर्तेः।
अप्येवमर्य भगवान् परिपाति दीनान्
वाश्रेव वत्सकमनुग्रहकातरोऽस्मान्॥
मूलम्
सत्याशिषो हि भगवंस्तव पादप63द्ममा64शीस्तथानुभजतः पुरुषार्थमूर्तेः।
अप्येवमार्य भगवान् परिपाति दीनान् 65वास्रेव वत्सकमनुग्रहकातरोऽस्मान्॥ १७ ॥
अनुवाद (हिन्दी)
भगवन्! आप परमानन्दमूर्ति हैं—जो लोग ऐसा समझकर निष्कामभावसे आपका निरन्तर भजन करते हैं, उनके लिये राज्यादि भोगोंकी अपेक्षा आपके चरणकमलोंकी प्राप्ति ही भजनका सच्चा फल है। स्वामिन्! यद्यपि बात ऐसी ही है, तो भी गौ जैसे अपने तुरंतके जन्में हुए बछड़ेको दूध पिलाती और व्याघ्रादिसे बचाती रहती है, उसी प्रकार आप भी भक्तोंपर कृपा करनेके लिये निरन्तर विकल रहनेके कारण हम-जैसे सकाम जीवोंकी भी कामना पूर्ण करके उनकी संसार-भयसे रक्षा करते रहते हैं॥ १७॥
वीरराघवः
एवं ब्रह्मस्वरूपगुणान् विशोध्य तं प्रपद्य एतद्भजनस्य फलाविना66भावमाविष्कुर्वन् वात्सल्यनिधेस्तस्याभिमतार्था दप्यति शयितपुरुषार्थप्रदत्वमाह - सत्याशिष इति । हे भगवन् सत्याशिषः आशिषः सत्याः क्रियन्ते येन स सत्याशीः तस्य पुरुषार्थमूर्तेः स्वयं पुरुषार्थभूतस्व67रूपस्य तव पादपद्मं यथा आशीः तथा इच्छानुरूपमित्यर्थः । अनुभजतोऽत एव दीनान् त्रिवर्गनिष्ठा न प्येवम्भूतान् अस्मात् अनुग्रहकातरः अनुग्रहैकविवशः भगवान् षाड्गुण्यपरिपूर्णः भवान् वत्सकं स्वार्थे कः वास्रेव नवप्रसूता धेनुरिव, हे आर्य! स्वामिन् परिपाति अभिमतप्रदानेन परिपाति । परीत्युपसर्गेण सर्वतः पाति संसारभयाच्च पातीत्ययमर्थो विवक्षितः ॥ १७ ॥
श्लोक-१८
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
अथाभिष्टुत एवं वै सत्संकल्पेन धीमता।
भृत्यानुरक्तो भगवान् प्रतिनन्द्येदमब्रवीत्॥
मूलम्
अथाऽभिष्टुत एवं वै सत्संकल्पेन धीमता।
भृत्यानुरक्तो भगवान् प्रतिनन्द्येदमब्रवीत्॥ १८ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—विदुरजी! जब शुभ संकल्पवाले मतिमान् ध्रुवजीने इस प्रकार स्तुति की तब भक्तवत्सल भगवान् उनकी प्रशंसा करते हुए कहने लगे॥ १८॥
वीरराघवः
स्तुतिमुपसंहरति - अथेति । सत्संकल्पेन दृढसङ्कल्पेन धीमता ध्रुवेणैवमभिष्टुतः स्तुतः अनन्तरं भक्तेष्वनुरक्तो निरतिशयप्रीतिमान् भगवान् प्रतिनन्द्य स्तुतिमिति शेषः इदं वक्ष्यमाणमब्रवीत् ॥ १८ ॥
श्लोक-१९
मूलम् (वचनम्)
68श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
वेदाहं ते व्यवसितं हृदि राजन्यबालक।
तत्प्रयच्छामि भद्रं ते दुरापमपि सुव्रत॥
मूलम्
वेदाऽहं ते व्यवसितं हृदि राजन्यबालक।
तत्प्रयच्छामि भद्रं ते दुरापमपि 69सुव्रत॥ १९ ॥
अनुवाद (हिन्दी)
श्रीभगवान्ने कहा—उत्तम व्रतका पालन करनेवाले राजकुमार! मैं तेरे हृदयका संकल्प जानता हूँ। यद्यपि उस पदका प्राप्त होना बहुत कठिन है, तो भी मैं तुझे वह देता हूँ। तेरा कल्याण हो॥ १९॥
वीरराघवः
70उक्तिमेवाह - वेदेति । हे राजन्यबालक ! ते त्वया हृदि व्यवसितम् अभिमतविषयत्वेन निश्चितम् अहं वेद जानामि, तत् त्वया व्यवसितमितरैर्दुरापं दुर्लभमपि हे सुव्रत ! ते तुभ्यं प्रयच्छामि ददामि ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
नान्यैरधिष्ठितं भद्र यद्भ्राजिष्णु ध्रुवक्षिति।
यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम्॥
मूलम्
नाऽन्यैरधिष्ठितं भद्र यद्भाजिष्णु ध्रुवक्षिति।
यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम्॥ २० ॥
वीरराघवः
व्यवसितमेव प्रपञ्चयति - नाऽन्यैरिति सार्धद्वयेन । हे भद्र ! ध्रुव ! 71ध्रुवा शाश्वती क्षितिर्वासो यस्मिन् भ्राजिष्णु दीप्तिमत् अन्यैः अनधिष्ठितं यत्र स्थाने ज्योतिषां ज्योतीरूपाणां ग्रहादीनां चक्र माहितमर्पितम् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
मेढ्यां गोचक्रवत्स्थास्नु परस्तात्कल्पवासिनाम्।
धर्मोऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः
चरन्ति दक्षिणीकृत्य भ्रमन्तो यत्सतारकाः॥
मूलम्
69मेध्यां गोचक्रवत्स्थास्नु 72परस्तात्कल्पवासिनाम्।
धर्मोऽग्निः कश्यपः श73क्रो मुनयो ये वनौकसः
चरन्ति दक्षिणीकृत्य भ्रमन्तो य74त्सतारकाः॥ २१ ॥
अनुवाद (हिन्दी)
भद्र! जिस तेजोमय अविनाशी लोकको आजतक किसीने प्राप्त नहीं किया, जिसके चारों ओर ग्रह, नक्षत्र और तारागणरूप ज्योतिश्चक्र उसी प्रकार चक्कर काटता रहता है जिस प्रकार मेढीके* चारों ओर दँवरीके बैल घूमते रहते हैं। अवान्तर कल्पपर्यन्त रहनेवाले अन्य लोकोंका नाश हो जानेपर भी जो स्थिर रहता है तथा तारागणके सहित धर्म, अग्नि, कश्यप और शुक्र आदि नक्षत्र एवं सप्तर्षिगण जिसकी प्रदक्षिणा किया करते हैं, वह ध्रुवलोक मैं तुझे देता हूँ॥ २०-२१॥
पादटिप्पनी
- कटी हुई फसल धान-गेहूँ आदिको कुचलनेके लिये घुमाये जानेवाले बैल जिस खंभेमें बँधे रहते हैं, उसका नाम मेढी है।
वीरराघवः
धान्याक्रमणाय भ्राम्यमाणानां पशूनां बन्धनस्तम्भो मेढिः । तस्यां गोचक्रवद्बलीवर्दसमूहवन्निहितमित्यर्थः । कल्पवासिनामवान्तरकल्पवासिनां परस्ता दपि स्थास्नु लोकत्रयनाशेऽप्यनश्वरं धर्माग्न्यादयो नक्षत्ररूपाः वनौकसो मुनयः सप्तर्षयः यत्प्रदक्षिणीकृत्य भ्रमन्तश्चरन्ति ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंश्रयः।
षट्त्रिंशद्वर्षसाहस्रं रक्षिताव्याहतेन्द्रियः॥
मूलम्
प्रस्थिते तु वनं पित्रा 75दत्त्वा गां धर्मसंश्रयः।
76षड्विंशद्वर्षसाहस्रं रक्षिताऽव्याहतेन्द्रियः॥ २२ ॥
अनुवाद (हिन्दी)
यहाँ भी जब तेरे पिता तुझे राजसिंहासन देकर वनको चले जायँगे; तब तू छत्तीस हजार वर्षतक धर्मपूर्वक पृथ्वीका पालन करेगा। तेरी इन्द्रियोंकी शक्ति ज्यों-की-त्यों बनी रहेगी॥ २२॥
वीरराघवः
तत्स्थानं राज्यादनन्तरं प्राप्स्यसीत्याह - प्रस्थित इति । तुभ्यं गां पृथिवीं दत्वा पित्रा उत्तानपादेन वनं प्रस्थिते इति भावे क्तः । वनं प्रति गमने सति धर्मसंश्रयः वर्णाश्रमधर्मपरिपालकः भवान् ष77ट्विंशद्वर्षसाहस्रं वर्षाणां सहस्राणि ततः समाहारे द्विगुः, अव्याहतेन्द्रियः अविहतेन्द्रियः रक्षिता रक्षिष्यति गामित्यनुषङ्गः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
त्वद्भ्रातर्युत्तमे नष्टे मृगयायां तु तन्मनाः।
अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति॥
मूलम्
त्वद्भ्रातर्युत्तमे नष्टे मृगयायां तु तन्मनाः।
अन्वे76षन्ती वनं माता 78दावाग्निं सा प्रवेक्ष्यति॥ २३ ॥
अनुवाद (हिन्दी)
आगे चलकर किसी समय तेरा भाई उत्तम शिकार खेलता हुआ मारा जायगा, तब उसकी माता सुरुचि पुत्र-प्रेममें पागल होकर उसे वनमें खोजती हुई दावानलमें प्रवेश कर जायगी॥ २३॥
त्वयाऽसङ्कल्पितमपि मद्भक्ते त्वयि द्रोहादेवं भविष्यतीत्याहैकेन त्वद्भातरीति । उत्तमाख्ये त्वद्भ्रातरि मृगयायां नष्टे सति, तस्मिन् उत्तमे मनो यस्याः सा माता सुरुचिः वनं 79प्रत्यन्वेषन्ती79 80दवाग्निं प्रवेक्ष्यति ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः।
भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि॥
मूलम्
इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः।
भुक्त्वा चेहाशिषः सत्या अन्ते मा81ऽनुस्मरिष्यसि॥ २४ ॥
अनुवाद (हिन्दी)
यज्ञ मेरी प्रिय मूर्ति है, तू अनेकों बड़ी-बड़ी दक्षिणाओंवाले यज्ञोंके द्वारा मेरा यजन करेगा तथा यहाँ उत्तम-उत्तम भोग भोगकर अन्तमें मेरा ही स्मरण करेगा॥ २४॥
वीरराघवः
किञ्च यज्ञहृदयं यज्ञस्य हृदयं तात्पर्यभूमिं यज्ञाराध्यमित्यर्थः । मां यज्ञानां प्रभुं पुष्कलदक्षिणैः 82समग्रदक्षिणैः यज्ञैः82 इह राज्ये सत्याः दृढसंकल्पजाः आशिषः इच्छाविषयान् भुक्त्वा अनुभूय अन्ते भोगानन्तरं 83मा 84माम् अनुस्मरिष्यसि ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम्।
उपरिष्टादृषिभ्यस्त्वं यतो नावर्तते गतः॥
मूलम्
ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम्।
उपरिष्टादृषिभ्यस्त्वं यतो नाऽवर्तते 85यतिः॥ २५ ॥
अनुवाद (हिन्दी)
इससे तू अन्तमें सम्पूर्ण लोकोंके वन्दनीय और सप्तर्षियोंसे भी ऊपर मेरे निज धामको जायगा, जहाँ पहुँच जानेपर फिर संसारमें लौटकर नहीं आना होता है॥ २५॥
वीरराघवः
ततः सर्वैर्लोकैः सप्तर्षिपर्यन्तैः नमस्कृतं 86मत्स्थानं मदनुग्रहाल्लब्धं 87स्थानं गन्तासि प्राप्स्यसि । स्थानं विशिनष्टि - 88सप्तर्षिभ्य उपरिष्टात् स्थितं यतिः मनः प्रयत्नशीलः गत्वा यतः स्थानात् पुनः नाऽवर्तते नाऽर्वागवरोहति, अपि तु ततो वैकुण्ठमेव यातीत्यर्थः ॥ २५ ॥
श्लोक-२६
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
इत्यर्चितः स भगवानतिदिश्यात्मनः पदम्।
बालस्य पश्यतो धाम स्वमगाद्गरुडध्वजः॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—बालक ध्रुवसे इस प्रकार पूजित हो और उसे अपना पद प्रदान कर भगवान् श्रीगरुडध्वज उसके देखते-देखते अपने लोकको चले गये॥ २६॥
वीरराघवः
भगवदुक्तिमुपसंहरन् भगवान् 91तिरोदधे - इत्याह 92मैत्रेयः । इति उक्तप्रकारेण अर्चितः आराधितो भगवान् आत्मनः पदं स्थानं अतिदिश्य दत्वा बालस्य ध्रुवस्य पश्यतः सतः गरुडध्वजो गरुडवाहनः तदङ्कितध्वजश्च भगवान् स्वं धाम वैकुण्ठस्थानमगात् 93प्रत्यपद्यत ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
सोऽपि संकल्पजं विष्णोः पादसेवोपसादितम्।
प्राप्य संकल्पनिर्वाणं नातिप्रीतोऽभ्यगात्पुरम्॥
मूलम्
सोऽपि सङ्कल्पजं विष्णोः पादसेवोप94सादितम्।
प्राप्य सङ्कल्पनिर्वाणं नाऽतिप्रीतोऽभ्यगात्पुरम्॥ २७ ॥
अनुवाद (हिन्दी)
प्रभुकी चरणसेवासे संकल्पित वस्तु प्राप्त हो जानेके कारण यद्यपि ध्रुवजीका संकल्प तो निवृत्त हो गया, किन्तु उनका चित्त विशेष प्रसन्न नहीं हुआ। फिर वे अपने नगरको लौट गये॥ २७॥
वीरराघवः
सोऽपि ध्रुवोऽपि विष्णोः पादसेवया उपसादितं प्रापितं सङ्कल्पजं तपश्चर्यारम्भे फल95सङ्कल्पाज्जातं सङ्कल्पनिर्वाणं सङ्कल्पस्य निर्वाणंसमाप्तिर्यस्मिन्। कृतकसुखंन तु स्वाभविकानन्दाविर्भाव96रूपमिति भावः । प्राप्याऽपि नाऽतिप्रीतः नितरा महृष्टचित्तः पुरमगात् ॥ २७॥
श्लोक-२८
मूलम् (वचनम्)
विदुर उवाच
विश्वास-प्रस्तुतिः
सुदुर्लभं यत्परमं पदं हरे-
र्मायाविनस्तच्चरणार्चनार्जितम्।
लब्ध्वाप्यसिद्धार्थमिवैकजन्मना
कथं स्वमात्मानममन्यतार्थवित्।
मूलम्
सुदुर्लभं यत्परमं पदं हरेर्मायाविनस्तच्चरणार्चनार्जितम्।
लब्ध्वाऽप्यसिद्धार्थमिवैकजन्मना कथं स्वमात्मानममन्य97ताऽऽत्मवित्। २८ ॥
अनुवाद (हिन्दी)
विदुरजीने पूछा—ब्रह्मन्! मायापति श्रीहरिका परमपद तो अत्यन्त दुर्लभ है और मिलता भी उनके चरणकमलोंकी उपासनासे ही है। ध्रुवजी भी सारासारका पूर्ण विवेक रखते थे; फिर एक ही जन्ममें उस परमपदको पा लेनेपर भी उन्होंने अपनेको अकृतार्थ क्यों समझा?॥ २८॥
वीरराघवः
अनतिप्रीतिकारणं पृच्छति विदुरः - सुदुर्लभमिति । 98मायाविनः मायाधिपतेः सम्बन्धि तेन दत्तमित्यर्थः । इतरैः सुदुर्लभम् अतिदुःखेनाप्यलभ्यं यत्पदं स्थानं 99तस्य भगवतः चरणार्चनेनाऽऽर्जितं सम्पादितं तत्स्थानम्, एकजन्मना लब्ध्वाऽपि द्वितीये शरीरे असत्येव लब्ध्वेत्यर्थः । 100आत्मवित् ध्रुवः100 स्व मात्मानमसिद्धार्थमिव अपरिपूर्णार्थमिव कथ ममन्यत ॥ २८ ॥
श्लोक-२९
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
मातुः सपत्न्या वाग्बाणैर्हृदि विद्धस्तु तान् स्मरन्।
नैच्छन्मुक्तिपतेर्मुक्तिं तस्मात्तापमुपेयिवान्॥
मूलम्
मातुस्सपत्न्या वाग्बाणैर्हृदि विद्धस्तु तान् स्मरन्।
नैच्छन्मुक्ति101पतेर्मुक्तिं 102पश्चात्तापमुपेयिवान्॥ २९ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजीने कहा—ध्रुवजीका हृदय अपनी सौतेली माताके वाग्बाणोंसे बिंध गया था तथा वर माँगनेके समय भी उन्हें उनका स्मरण बना हुआ था; इसीसे उन्होंने मुक्तिदाता श्रीहरिसे मुक्ति नहीं माँगी। अब जब भगवद्दर्शनसे वह मनोमालिन्य दूर हो गया तो उन्हें अपनी इस भूलके लिये पश्चात्ताप हुआ॥ २९॥
वीरराघवः
मुक्त्यर्थं भगवदाराधनमेवाप्रीतिकारणमिति वदन् तस्य परितापमाह ऋषिः मातुरिति । सपत्न्या मातुः सुरुचेर्वाच एव बाणाः ते र्हृदि विद्धः जातव्यथः तान् वाग्बाणान् स्मरन् मुक्तिप्रदान् भगवतः युक्तिं नैच्छत् । तत्प्रयुक्तं पश्चात्तापमुपेयिवान् प्राप्तः ॥ २९ ॥
श्लोक-३०
मूलम् (वचनम्)
ध्रुव उवाच
विश्वास-प्रस्तुतिः
समाधिना नैकभवेन यत्पदं
विदुः सनन्दादय ऊर्ध्वरेतसः।
मासैरहं षड्भिरमुष्य पादयो-
श्छायामुपेत्यापगतः पृथङ्मतिः॥
मूलम्
समाधिना103 नैकभवेन यत्पदं विदुः 104सनन्दादय ऊर्ध्वरेतसः।
मासैरहं षड्भिरमुष्य पादयोश्छायामुपेत्यापग105तः पृथङ्मतिः॥ ३० ॥
अनुवाद (हिन्दी)
ध्रुवजी मन-ही-मन कहने लगे—अहो! सनकादि ऊर्ध्वरेता (नैष्ठिक ब्रह्मचारी) सिद्ध भी जिन्हें समाधिद्वारा अनेकों जन्मोंमें प्राप्त कर पाते हैं, उन भगवच्चरणोंकी छायाको मैंने छः महीनेमें ही पा लिया, किन्तु चित्तमें दूसरी वासना रहनेके कारण मैं फिर उनसे दूर हो गया॥ ३०॥
वीरराघवः
पश्चात्तापविषयां ध्रुवोक्तिमाह - समाधिनेति साधैः षड्भिः । ऊर्ध्वरेतसो जितेन्द्रियाः सुनन्दादयः नैकभवेन नैके अनेके भवा यस्मिन् बहुजन्मना अभ्यस्तेनेत्यर्थः । समाधिना यस्य भगवतः पदं स्वरूपं विदुः साक्षात्कृतवन्तः अमुष्य भगवतः पादयोः छाया महं षड्भिरेव मासै रुपेत्याऽपि प्रणामस्तुत्यादिसमये गरुडारूढस्य हरेः पादच्छायायां स्थित्वाऽपीत्यर्थः । पृथङ्मतिः देहात्माभिमानस्वतन्त्राभिमानग्रस्तः अपगतः भगवत्पादच्छायायाः सकाशात् दूरीकृतः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत।
भवच्छिदः पादमूलं गत्वायाचे यदन्तवत्॥
अनुवाद (हिन्दी)
अहो! मुझ मन्दभाग्यकी मूर्खता तो देखो, मैंने संसार-पाशको काटनेवाले प्रभुके पादपद्मोंमें पहुँचकर भी उनसे नाशवान् वस्तुकी ही याचना की!॥ ३१॥
वीरराघवः
अनात्मा देहः तस्य कर्म अनात्म्यं दौर्जन्यमित्यर्थः । तत् पश्यत तच्छोच्यमिति । अहो बतेति आ कष्टमिति भावः । शोककारणं व्यनक्ति यत् यस्मात् भवच्छिदः गर्भजन्मजरामरणा109द्यात्मक संसार भयनिवर्तकस्य भगवतः पादमूलं गत्वा साक्षात्कृत्य अन्तवत् फलं याचे याचितवान्, न तु नित्य110निरतिशयानन्दापहतपाप्पत्वादि गुणाष्टकाविर्भाव पूर्वक ब्रह्मानुभवात्मकानन्दमिति भावः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
मतिर्विदूषिता देवैः पतद्भिरसहिष्णुभिः।
यो नारदवचस्तथ्यं नाग्राहिषमसत्तमः॥
मूलम्
मतिर्विदूषिता देवैः 111पतद्भिरसहिष्णुभिः।
यो नारदवचस्तथ्यं नाऽग्राहिषमसत्तमः॥ ३२ ॥
अनुवाद (हिन्दी)
देवताओंको स्वर्गभोगके पश्चात् फिर नीचे गिरना होता है, इसलिये वे मेरी भगवत्प्राप्तिरूप उच्च स्थितिको सहन नहीं कर सके; अतः उन्होंने ही मेरी बुद्धिको नष्ट कर दिया। तभी तो मुझ दुष्ट ने नारदजीकी यथार्थ बात भी स्वीकार नहीं की॥ ३२॥
वीरराघवः
स्वस्याऽल्पास्थिर सांसारिकभोगयाञ्चाकारणं निश्चिनोति - मतिरिति । पतद्भिः स्वस्य भोगान्ते स्वर्गात्पतद्भिः पतनशीलैः अत एवासहिष्णुभिः मदपेक्षयाऽधः पदप्राप्तत्वात् परसमृद्धिमसहिष्णुभिः देवैः मम मतिः बुद्धिः विदूषिता सांसारिकभोगलौल्यसम्पादनेन दोषं प्रापिता । स्वदौर्जन्यमेव व्यञ्जयन् परितपति योऽहमसत्तमः दुर्जनः अत एव नारदवचः “विकल्पे विद्यमानेऽपि न ह्यसन्तोषहेतवः” (भाग 4-8-28) इत्यादिनोक्तं वचः तथ्यं नाऽग्रहीषं न गृहीतवान् ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
दैवीं मायामुपाश्रित्य प्रसुप्त इव भिन्नदृक्।
तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा॥
मूलम्
112दैवीं मायामुपाश्रित्य प्रसुप्त इव भिन्नदृक्।
तप्ये द्वितीयेऽप्यसति भ्रातृ-भ्रातृव्यहृद्रुजा॥ ३३ ॥
अनुवाद (हिन्दी)
यद्यपि संसारमें आत्माके सिवा दूसरा कोई भी नहीं है; तथापि सोया हुआ मनुष्य जैसे स्वप्नमें अपने ही कल्पना किये हुए व्याघ्रादिसे डरता है, उसी प्रकार मैंने भी भगवान्की मायासे मोहित होकर भाईको ही शत्रु मान लिया और व्यर्थ ही द्वेषरूप हार्दिक रोगसे जलने लगा॥ ३३॥
वीरराघवः
प्रसुप्त 113इव अहमपि दैवीं गुणमयीं दुरत्ययां मायामुपश्रित्य114 अत एव भिन्नदृक् देहात्माभिमानस्वतन्त्रात्माभिमानी द्वितीये अब्रह्मात्मकस्वतन्त्रवस्तुन्यसत्यपि भ्रातैव भ्रातृव्यः शत्रुरिति या रुक् रोगः तया तप्ये तापमनुभवामि ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
मयैतत्प्रार्थितं व्यर्थं चिकित्सेव गतायुषि।
प्रसाद्य जगदात्मानं तपसा दुष्प्रसादनम्।
भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः॥
मूलम्
मयैतत्प्रार्थितं व्यर्थं चिकित्सेव गतायुषि।
प्रसाद्य जगदात्मानं तपसा दुष्प्रसादनम्।
भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः॥ ३४ ॥
अनुवाद (हिन्दी)
जिन्हें प्रसन्न करना अत्यन्त कठिन है; उन्हीं विश्वात्मा श्रीहरिको तपस्याद्वारा प्रसन्न करके मैंने जो कुछ माँगा है, वह सब व्यर्थ है; ठीक उसी तरह, जैसे गतायु पुरुषके लिये चिकित्सा व्यर्थ होती है। ओह! मैं बड़ा भाग्यहीन हूँ, संसार-बन्धनका नाश करनेवाले प्रभुसे मैंने संसार ही माँगा॥ ३४॥
वीरराघवः
किञ्च, मया यत्प्रार्थितं तद्व्यर्थमित्याह - मयेति । दुःखेनाऽपि प्रसादयितुमशक्यं भवच्छिदं जगदन्तरात्मानं तपसा प्रसाद्य भवं संसारमेव याचे याचितवानस्मि । हेति खेदे, यतोऽहं भाग्यविवर्जितः दुर्भगः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
स्वाराज्यं यच्छतो मौढ्यान्मानो मे भिक्षितो बत।
ईश्वरात्क्षीणपुण्येन फलीकारानिवाधनः॥
मूलम्
115स्वाराज्यं यच्छतो मौढ्या116न्मानो मे भिक्षितो117 बत।
ईश्वरात् क्षीणपुण्येन 118फलीकारानिवाधनः॥ ३५ ॥
अनुवाद (हिन्दी)
मैं बड़ा ही पुण्यहीन हूँ! जिस प्रकार कोई कँगला किसी चक्रवर्ती सम्राट्को प्रसन्न करके उससे तुषसहित चावलोंकी कनी माँगे, उसी प्रकार मैंने भी आत्मानन्द प्रदान करनेवाले श्रीहरिसे मूर्खतावश व्यर्थका अभिमान बढ़ानेवाले उच्चपदादि ही माँगे हैं॥ ३५॥
वीरराघवः
119दौर्भाग्यमेव सदृष्टान्तं व्यनक्ति । स्वाराज्यं स्वराट् अकर्मवश्यस्तस्य भावः स्वाराज्यं “स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवति” (छान्दो. उ. 7-25-2) इत्युक्तम् । मुक्तैश्वर्यं यच्छतो ददतो भगवतः सकाशात् केवलं मे मया मानः अभिमानः अभिभिक्षितः याचितः, निर्धनः क्षीणं च तत्पुण्यं तेन ईश्वरात् सार्वभौमात् फलीकारानिव सतुष तण्डुलकणानिवेति दृष्टान्तः ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
न वै मुकुन्दस्य पदारविन्दयो
रजोजुषस्तात भवादृशा जनाः।
वाञ्छन्ति तद्दास्यमृतेऽर्थमात्मनो
यदृच्छया लब्धमनः समृद्धयः॥
मूलम्
न वै मुकुन्दस्य पदारविन्दयो रजोजुषस्तात भवादृशा जनाः।
वाञ्छन्ति तद्दास्यमृतेऽर्थमात्मनो यदृच्छया लब्धमनस्समृद्धयः॥ ३६ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—तात! तुम्हारी तरह जो लोग श्रीमुकुन्दपादारविन्द-मकरन्दके ही मधुकर हैं—जो निरन्तर प्रभुकी चरण-रजका ही सेवन करते हैं और जिनका मन अपने-आप आयी हुई सभी परिस्थितियोंमें सन्तुष्ट रहता है, वे भगवान्से उनकी सेवाके सिवा अपने लिये और कोई भी पदार्थ नहीं माँगते॥ ३६॥
वीरराघवः
दुर्लभमर्थं प्राप्याऽपि कथमेवं त121प्यते इति त्वया न शङ्कयमित्याह मुनिः - न वा इति । मुकुन्दस्य मुक्तिप्रदस्य भगवतः पदारविन्दयोः यद्रजः परागः तज्जुषः सेवमानाः भवादृशा जनाः अस्य भगवतो दास्यं शेषत्व मृते विना अन्यमर्थ मात्मनः स्वस्य 122नैव वाञ्छन्ति 123नैवेच्छन्ति यतस्ते जनाः यदृच्छया दैवात् लब्धा मनसः समृद्धिर्येषां ते ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
आकर्ण्यात्मजमायान्तं सम्परेत्य यथाऽऽगतम्।
राजा न श्रद्दधे भद्रमभद्रस्य कुतो मम॥
मूलम्
आकर्ण्यात्मजमायान्तं सम्परेत्य124 यथाऽऽगतम्।
राजा न श्रद्दधे भद्रमभद्रस्य कुतो मम॥ ३७ ॥
अनुवाद (हिन्दी)
इधर जब राजा उत्तानपादने सुना कि उनका पुत्र ध्रुव घर लौट रहा है, तो उन्हें इस बातपर वैसे ही विश्वास नहीं हुआ जैसे कोई किसीके यमलोकसे लौटनेकी बातपर विश्वास न करे। उन्होंने यह सोचा कि ‘मुझ अभागेका ऐसा भाग्य कहाँ ’॥ ३७॥
वीरराघवः
प्रस्तुतमाह - आकर्ण्येति । राजा उत्तानपादः आत्मजं ध्रुवं आयान्तम् 125आगच्छन्तम् आकर्ण्याऽपि सम्परेत्य मृत्वा यथाऽऽगतं पुनरागतमिव न श्रद्दधे न विश्वस्तवान् । ‘सम्परेत्य यथाऽऽगतमित्या गमनदौर्लभ्यमुच्यते । तच्च भाग्यहीनत्वाभिप्रायेण 126तदेव व्यनक्ति । अभद्रस्य भाग्यहीनस्य मम भद्रं 127पुत्र प्रत्यागमनरूपं मङ्गलं कुतो हेतोः स्यादित्याभिप्रायेण न श्रद्दधे इत्यन्वयः ॥ ३७॥
श्लोक-३८
विश्वास-प्रस्तुतिः
श्रद्धाय वाक्यं देवर्षेर्हर्षवेगेन धर्षितः।
वार्ताहर्तुरतिप्रीतो हारं प्रादान्महाधनम्॥
मूलम्
श्रद्धाय वाक्यं देवर्षेर्हर्षवेगेन धर्षितः।
वार्ताहर्तुरतिप्रीतो128 हारं प्रादान्महाधनम्॥ ३८ ॥
अनुवाद (हिन्दी)
परन्तु फिर उन्हें देवर्षि नारदकी बात याद आ गयी। इससे उनका इस बातमें विश्वास हुआ और वे आनन्दके वेगसे अधीर हो उठे। उन्होंने अत्यन्त प्रसन्न होकर यह समाचार लानेवालेको एक बहुमूल्य हार दिया॥ ३८॥
वीरराघवः
ततो देवर्षेर्नारदस्य वाक्यं “एष्यत्यचिरतो राजन् ! यशो विपुलयंस्तव” (भाग 4-8-69) इति वाक्यं तात्कालिकं वा श्रद्धाय विश्वस्य हर्षयोगेन 129पुत्रागमननिमित्तसन्तोषयोगेन धर्षितः प्रगल्भतः उद्रिक्तानन्द इति यावत्, वार्ताह130र्तुः पुत्रागमनवा131र्ता कथयितुः महाधन मन132र्घं हारं मुक्तामणिमयं प्रीत्या 133प्रादात् ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
सदश्वं रथमारुह्य कार्तस्वरपरिष्कृतम्।
ब्राह्मणैः कुलवृद्धैश्च पर्यस्तोऽमात्यबन्धुभिः॥
मूलम्
सदश्वं रथमारुह्य कार्तस्वरपरिष्कृ134तम्।
ब्राह्मणैः कुलवृद्धैश्च पर्यस्तोऽमात्य135बन्धुभिः॥ ३९ ॥
वीरराघवः
अमात्यबान्धवैरिति द्वन्द्वः ब्राह्मणादिभिः पर्यस्तः परिवृतः ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वेणुभिः।
निश्चक्राम पुरात्तूर्णमात्मजाभीक्षणोत्सुकः॥
मूलम्
शङ्ख136दुन्दुभिनादेन ब्रह्मघोषेण वे137णुभिः।
निश्चक्राम 138पुरात्तूर्णमात्मजा139वेक्षणोत्सुकः॥ ४० ॥
अनुवाद (हिन्दी)
राजा उत्तानपादने पुत्रका मुख देखनेके लिये उत्सुक होकर बहुत-से ब्राह्मण, कुलके बड़े-बूढ़े, मन्त्री और बन्धुजनोंको साथ लिया तथा एक बढ़िया घोड़ोंवाले सुवर्णजटित रथपर सवार होकर वे झटपट नगरके बाहर आये। उनके आगे-आगे वेदध्वनि होती जाती थी तथा शंख, दुन्दुभि एवं वंशी आदि अनेकों मांगलिक बाजे बजते जाते थे॥ ३९-४०॥
वीरराघवः
ब्रह्मघोषेण स्वस्तिवाचनात्मकेन आत्म140जावेक्षणोत्सुकः निश्चक्राम निष्क्रान्तवान् ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
सुनीतिः सुरुचिश्चास्य महिष्यौ रुक्मभूषिते।
आरुह्य शिबिकां सार्धमुत्तमेनाभिजग्मतुः॥
मूलम्
सुनीतिः सुरुचिश्चाऽ141स्य महिष्यौ रुक्मभूषिते।
आरुह्य शिबि142कां सार्धमुत्तमेनाभिजग्मतुः॥ ४१ ॥
अनुवाद (हिन्दी)
उनकी दोनों रानियाँ सुनीति और सुरुचि भी सुवर्णमय आभूषणोंसे बिभूषित हो राजकुमार उत्तमके साथ पालकियोंपर चढ़कर चल रही थीं॥ ४१॥
वीरराघवः
अस्य राज्ञो महिष्यौ भार्ये सुनीति सुरुचिश्च उत्तमेन सार्ध शिबिका नरवाहनमारुह्याभिजग्मतु ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात्।
अवरुह्य नृपस्तूर्णमासाद्य प्रेमविह्वलः॥
मूलम्
तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात्।
अवरुह्य नृपस्तूर्णमासाद्य प्रेमविह्वलः॥ ४२ ॥
वीरराघवः
143उपवनस्य अभ्याशे समीपे143 आयान्तं तं ध्रुवं दृष्ट्वा तरसा आशु रथादवरुह्य तूर्णं पुत्रमासाद्य प्रेम्णा विह्वलः परवशः नृपः उत्तानपादः ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
परिरेभेऽङ्गजं दोर्भ्यां दीर्घोत्कण्ठमनाः श्वसन्।
विष्वक्सेनाङ्घ्रिसंस्पर्शहताशेषाघबन्धनम्॥
मूलम्
परिरेभेऽङ्गजं दोर्भ्यां 144दीर्घोत्कण्ठमनाः श्वसन्।
विष्वक्सेनाङ्घ्रिसंस्पर्शहताशेषाघबन्धनम्॥ ४३ ॥
अनुवाद (हिन्दी)
ध्रुवजी उपवनके पास आ पहुँचे, उन्हें देखते ही महाराज उत्तानपाद तुरंत रथसे उतर पड़े। पुत्रको देखनेके लिये वे बहुत दिनोंसे उत्कण्ठित हो रहे थे। उन्होंने झटपट आगे बढ़कर प्रेमातुर हो, लंबी-लंबी साँसें लेते हुए , ध्रुवको भुजाओंमें भर लिया। अब ये पहलेके ध्रुव नहीं थे, प्रभुके परमपुनीत पादपद्मोंका स्पर्श होनेसे इनके समस्त पाप-बन्धन कट गये थे॥ ४२-४३॥
वीरराघवः
145दीर्घोत्कण्ठ्यमनाः अत एव श्वसन् श्वासं मुञ्चन् दोर्भ्याम् 146अङ्गजं पुत्रं परिरेभे । अङ्गजं विशिनष्टि विष्वक्सेनस्य भगवतः अङ्घ्रिसंस्पर्शेन हतमशेष147मघात्मकं बन्धनं संसृतिकारणं यस्य तम् ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
अथाजिघ्रन्मुहुर्मूर्ध्नि शीतैर्नयनवारिभिः।
स्नापयामास तनयं जातोद्दाममनोरथः॥
मूलम्
148अथाऽजिघ्रन्मुहुर्मूर्ध्नि 149शान्तैर्नयनवारिभिः।
स्नापयामास तनयं 150जातोद्दाममनोर151थः॥ ४४ ॥
अनुवाद (हिन्दी)
राजा उत्तानपादकी एक बहुत बड़ी कामना पूर्ण हो गयी। उन्होंने बार-बार पुत्रका सिर सूँघा और आनन्द तथा प्रेमके कारण निकलनेवाले ठंडे-ठंडे* आँसुओंसे उन्हें नहला दिया॥ ४४॥
पादटिप्पनी
आनन्द या प्रेमके कारण जो आँसू आते हैं वे ठंडे हुआ करते हैं और शोकके आँसू गरम होते हैं।
वीरराघवः
जात उद्दामो महान्मनोरथो यस्य सः राजा । द्वितीयान्तपाठे तनयविशेषणं मूर्ध्नि आजिघ्रन् आघ्राणं कुर्वन् 152शान्तैः 153शीतलैः नयनवारिभिः 154अश्रुभिः स्नापयामास ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
अभिवन्द्य पितुः पादावाशीर्भिश्चाभिमन्त्रितः।
ननाम मातरौ शीर्ष्णा सत्कृतः सज्जनाग्रणीः॥
मूलम्
अभिवन्द्य पितुः पादावाशीर्भिश्चाभिमन्त्रितः।
ननाम मातरौ शीर्ष्णा सत्कृतः सज्जनाग्रणीः॥ ४५ ॥
अनुवाद (हिन्दी)
तदनन्तर सज्जनोंमें अग्रगण्य ध्रुवजीने पिताके चरणोंमें प्रणाम किया और उनसे आशीर्वाद पाकर, कुशल-प्रश्नादिसे सम्मानित हो दोनों माताओंको प्रणाम किया॥ ४५॥
वीरराघवः
पितुरुत्तानपादस्य पादावभिवन्द्य नमस्कृत्य पितुराशीर्भिः अभिमन्त्रितः कृतसम्भाषणः सत्कृतः सम्मानितः 155सज्जनाग्रणीः155 सज्जनश्रेष्ठः ध्रुवः शिरसा मातरौ सुरुचिसुनीती ननाम ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
सुरुचिस्तं समुत्थाप्य पादावनतमर्भकम्।
परिष्वज्याह जीवेति बाष्पगद्गदया गिरा॥
मूलम्
सुरुचिस्तं समुत्थाप्य पादावनतमर्भकम् ।
परिष्वज्याह जीवेति बाष्पगद्गदया गिरा॥ ४६ ॥
अनुवाद (हिन्दी)
छोटी माता सुरुचिने अपने चरणोंपर झुके हुए बालक ध्रुवको उठाकर हृदयसे लगा लिया और अश्रुगद्गद वाणीसे ‘चिरंजीवी रहो’ ऐसा आशीर्वाद दिया॥ ४६॥
वीरराघवः
सुरुचिः पादयो स्वनतमर्भकं 156तं ध्रुवमुत्थाप्य परिष्वज्यालिंग्य बाष्पैः गद्गदस्वरयुक्तया गिरा वाचा चिरंजीवेत्याह ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
यस्य प्रसन्नो भगवान् गुणैर्मैत्र्यादिभिर्हरिः।
तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम्॥
मूलम्
यस्य प्रसन्नो भगवान् गुणैर्मैत्र्यादिभिर्हरिः।
तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम्॥ ४७ ॥
अनुवाद (हिन्दी)
जिस प्रकार जल स्वयं ही नीचेकी ओर बहने लगता है—उसी प्रकार मैत्री आदि गुणोंके कारण जिसपर श्रीभगवान् प्रसन्न हो जाते हैं, उसके आगे सभी जीव झुक जाते हैं॥ ४७॥
वीरराघवः
सुरुच्याः प्रीतिः न सम्भाविते157त्यात्राह - यस्येति । मैर्त्र्यादिभिरात्मगुणैः यस्य हरिः प्रसन्नः 158तस्मै सर्वभूतानि नमन्ति प्रह्रीभवन्ति । आपो यथा स्वयमेव निम्नं देशं प्रति प्रवहन्ति ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
उत्तमश्च ध्रुवश्चोभावन्योन्यं प्रेमविह्वलौ।
अङ्गसङ्गादुत्पुलकावस्रौघं मुहुरूहतुः॥
मूलम्
उत्तमश्च ध्रुवश्चोभावन्योन्यं प्रेमविह्वलौ।
अङ्गसङ्गादुत्पुलकावस्रौघं मुहुरूहतुः॥ ४८ ॥
अनुवाद (हिन्दी)
इधर उत्तम और ध्रुव दोनों ही प्रेमसे विह्वल होकर मिले। एक-दूसरेके अंगोंका स्पर्श पाकर उन दोनोंके ही शरीरमें रोमांच हो आया तथा नेत्रोंसे बार-बार आँसुओंकी धारा बहने लगी॥ ४८॥
वीरराघवः
उत्तमः ध्रुव श्चोभौ भ्रातरौ प्रेमविह्वली अंगसंगा दालिङ्गनादुत्पलको 159उदञ्चत्पुलको159 अस्रोधं आनन्दाश्रुकणसमूहं मुहुः पुनः पुनः ऊहतुः मुमुचतुः ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
सुनीतिरस्य जननी प्राणेभ्योऽपि प्रियं सुतम्।
उपगुह्य जहावाधिं तदङ्गस्पर्शनिर्वृता॥
मूलम्
सुनीति160रस्य जननी प्राणेभ्योऽपि प्रियं सुतम्।
उप161गुह्य जहावाधिं 162तदङ्गस्पर्शनिर्वृता॥ ४९ ॥
अनुवाद (हिन्दी)
ध्रुवकी माता सुनीति अपने प्राणोंसे भी प्यारे पुत्रको गले लगाकर सारा सन्ताप भूल गयी। उसके सुकुमार अंगोंके स्पर्शसे उसे बड़ा ही आनन्द प्राप्त हुआ॥ ४९॥
वीरराघवः
अस्य ध्रुवस्य जननी सुनीतिः उप163गुह्यालिङ्गय तस्य तनयस्याङ्गस्पर्शेन निर्वृता सुखिता आधिं मनः पीडां जहौतत्याज ॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
पयः स्तनाभ्यां सुस्राव नेत्रजैः सलिलैः शिवैः।
तदाभिषिच्यमानाभ्यां वीर वीरसुवो मुहुः॥
मूलम्
पयः स्तनाभ्यां सुस्राव नेत्रजैः सलिलैः शिवैः।
164तदाभिषिच्यमाना165भ्यां 166वीर वीरसुवो मुहुः॥ ५० ॥
अनुवाद (हिन्दी)
वीरवर विदुरजी! वीरमाता सुनीतिके स्तन उसके नेत्रोंसे झरते हुए मंगलमय आनन्दाश्रुओंसे भीग गये और उनसे बार-बार दूध बहने लगा॥ ५०॥
वीरराघवः
हे वीर ! वीर167सुवः ध्रुवस्य जनन्याः सुनीत्याः शिवैः शान्तैर्नेत्रजैः सलिलैः अभिषिच्यमानाभ्यां स्तनाभ्यां पयः सुस्राव ॥ ५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
तां शशंसुर्जना राज्ञीं दिष्ट्या ते पुत्र आर्तिहा।
प्रतिलब्धश्चिरं नष्टो रक्षिता मण्डलं भुवः॥
मूलम्
तां शशंसुर्जना 168राज्ञीं दिष्ट्या ते पुत्र आर्तिहा।
प्रतिलब्धश्चिरं नष्टो रक्षिता मण्डलं भुवः॥ ५१ ॥
अनुवाद (हिन्दी)
उस समय पुरवासी लोग उनकी प्रशंसा करते हुए कहने लगे, ‘महारानीजी! आपका लाल बहुत दिनोंसे खोया हुआ था; सौभाग्यवश अब वह लौट आया, यह हम सबका दुःख दूर करनेवाला है। बहुत दिनोंतक भूमण्डलकी रक्षा करेगा॥ ५१॥
वीरराघवः
उत्तानपादं 169जनाः प्रशशंसुः । प्रशंसामेवाह - हे राजन् ! आर्तिहा दुःखापहर्ता पुत्रः चिरं नष्टो दर्शनमप्राप्तः इदानीं दिष्ट्या भाग्येन 170ते त्वया प्रतिलब्धः प्राप्तः । अयं भुवो मण्डलं रक्षिता रक्षिष्यति ॥ ५१ ॥
श्लोक-५२
विश्वास-प्रस्तुतिः
अभ्यर्चितस्त्वया नूनं भगवान् प्रणतार्तिहा।
यदनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम्॥
मूलम्
अभ्यर्चितस्त्वया नूनं भगवान् प्रणतार्तिहा।
यदनुध्यायिनो 171धीरा मृत्युं जिग्युः सुदुर्जयम्॥ ५२ ॥
अनुवाद (हिन्दी)
आपने अवश्य ही शरणागत भयभंजन श्रीहरिकी उपासना की है। उनका निरन्तर ध्यान करनेवाले धीर पुरुष परम दुर्जय मृत्युको भी जीत लेते हैं’॥ ५२॥
वीरराघवः
प्रणतार्तिहा भक्तानां दुःखापहर्ता भगवान् त्वया नूनं जन्मान्तरेऽभ्यर्चितः, यस्य भगवतोऽनुध्यायिनो ध्यातारः सुदुर्जयं मृत्युं संसारं जिग्युः जितवन्तः ॥ ५२ ॥
श्लोक-५३
विश्वास-प्रस्तुतिः
लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृपः।
आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत्पुरम्॥
अनुवाद (हिन्दी)
विदुरजी! इस प्रकार जब सभी लोग ध्रुवके प्रति अपना लाड़-प्यार प्रकट कर रहे थे, उसी समय उन्हें भाई उत्तमके सहित हथिनीपर चढ़ाकर महाराज उत्तानपादने बड़े हर्षके साथ राजधानीमें प्रवेश किया। उस समय सभी लोग उनके भाग्यकी बड़ाई कर रहे थे॥ ५३॥
वीरराघवः
एवं जनैर्लाल्यमानो174 राजा सभ्रातरं सोत्तमं ध्रुवं हृष्टः करिणं हस्तिनमारोप्य जनैः स्तूयमानः पुरमविशत् ॥ ५३ ॥
श्लोक-५४
विश्वास-प्रस्तुतिः
तत्र तत्रोपसंक्लृप्तैर्लसन्मकरतोरणैः।
सवृन्दैः कदलीस्तम्भैः पूगपोतैश्च तद्विधैः॥
मूलम्
तत्र तत्रोपसंक्लृप्तैर्लसन्मकरतोरणैः।
175सवृन्तैः कदलीस्तम्भैः पूगपोतैश्च तद्विधैः॥ ५४ ॥
अनुवाद (हिन्दी)
नगरमें जहाँ-तहाँ मगरके आकारके सुन्दर दरवाजे बनाये गये थे तथा फल-फूलोंके गुच्छोंके सहित केलेके खम्भे और सुपारीके पौधे सजाये गये थे॥ ५४॥
वीरराघवः
176अतः पुरं वर्णयति - तत्र तत्रेति चतुर्भिः । उप समीपे सम्यक् कल्पितैः मकरतोरणैः सवृन्तैः177 फलमञ्जरीयुक्तैः कदलीस्तम्भैः तद्विधैः सवृन्तैः178 पूगानां पोतैर्बलिवृक्षैः ॥ ५४ ॥
श्लोक-५५
विश्वास-प्रस्तुतिः
चूतपल्लववासःस्रङ्मुक्तादामविलम्बिभिः।
उपस्कृतं प्रतिद्वारमपां कुम्भैः सदीपकैः॥
मूलम्
चूतपल्लववासः स्रङ्मुक्तादामविल179म्बिभिः।
उपस्कृतं प्रतिद्वारमपां कुम्भैः स दीपकैः॥ ५५ ॥
अनुवाद (हिन्दी)
द्वार-द्वारपर दीपकके सहित जलके कलश रखे हुए थे—जो आमके पत्तों, वस्त्रों, पुष्पमालाओं तथा मोतीकी लड़ियोंसे सुसज्जित थे॥ ५५॥
वीरराघवः
चूतपल्लवाश्च वासांसि च स्रजश्च मुक्तादामानि च तेषां विशिष्टं लम्बनमस्ति येषु कु180म्भेषु तैः सदीपकैः अपां कुम्भैः प्रतिद्वारमुपस्कृतम् अलङ्कृतम् ॥ ५५ ॥
श्लोक-५६
विश्वास-प्रस्तुतिः
प्राकारैर्गोपुरागारैः शातकुम्भपरिच्छदैः।
सर्वतोऽलंकृतं श्रीमद्विमानशिखरद्युभिः॥
मूलम्
प्राकारैर्गोपुरा181ट्टालैः शात182कुम्भपरिच्छदैः।
सर्वतोऽलंकृतं श्रीमद्विमानशिखरद्यु183भिः॥ ५६ ॥
अनुवाद (हिन्दी)
जिन अनेकों परकोटों, फाटकों और महलोंसे नगरी सुशोभित थी, उन सबको सुवर्णकी सामग्रियोंसे सजाया गया था तथा उनके कँगूरे विमानोंके शिखरोंके समान चमक रहे थे॥ ५६॥
वीरराघवः
गोपुरै रट्टालैश्च कथम्भूतैः ? शातकौम्भाः स्वर्णमयाः परिच्छदाः परिकरा येषु तैः सर्वतः परितः अलंकृतं श्रीमत् सर्वसमृद्धिमत् विमानानामिव शिखरैर्द्युतिः यस्मिन् ॥ ५६ ॥
श्लोक-५७
विश्वास-प्रस्तुतिः
मृष्टचत्वररथ्याट्टमार्गं चन्दनचर्चितम्।
लाजाक्षतैः पुष्पफलैस्तण्डुलैर्बलिभिर्युतम्॥
मूलम्
मृष्टचत्वररथ्या184ट्टमार्गं चन्दनचर्चितम्।
लाजाक्षतैः पुष्पफलैस्त185ण्डुलैर्बलिभिर्युतम्॥ ५७ ॥
अनुवाद (हिन्दी)
नगरके चौक, गलियों, अटारियों और सड़कोंको झाड़-बुहारकर उनपर चन्दनका छिड़काव किया गया था और जहाँ-तहाँ खील, चावल, पुष्प, फल, जौ एवं अन्य मांगलिक उपहार-सामग्रियाँ सजी रखी थीं॥ ५७॥
वीरराघवः
रथ्या राजमार्गः अट्टः उच्चस्य प्राकारस्योपरि निर्मिता भूमिका, मार्गोऽवान्तरः, मृष्टाः सम्मार्जिताश्चत्वरादयो यस्मिन् चन्दनचर्चितं चन्दनाम्बुभिः 186संसिक्तम् ॥ ५७ ॥
श्लोक-५८
विश्वास-प्रस्तुतिः
ध्रुवाय पथि दृष्टाय तत्र तत्र पुरस्त्रियः।
सिद्धार्थाक्षतदध्यम्बुदूर्वापुष्पफलानि च॥
मूलम्
ध्रुवाय पथि दृष्टाय तत्र तत्र पुरस्त्रियः।
सिद्धार्थाक्षत-दध्यम्बु-दूर्वापुष्पफलानि च॥ ५८ ॥
श्लोक-५९
विश्वास-प्रस्तुतिः
उपजह्रुः प्रयुञ्जाना वात्सल्यादाशिषः सतीः।
शृण्वंस्तद्वल्गुगीतानि प्राविशद्भवनं पितुः॥
मूलम्
उपजह्रुः प्रयुञ्जाना वात्सल्यादाशिषः सतीः।
शृण्वं 187स्तद्वल्गुगीतानि प्राविशद्भवनं पितुः॥ ५९ ॥
अनुवाद (हिन्दी)
ध्रुवजी राजमार्गसे जा रहे थे। उस समय जहाँ-तहाँ नगरकी शीलवती सुन्दरियाँ उन्हें देखनेको एकत्र हो रही थीं। उन्होंने वात्सल्यभावसे अनेकों शुभाशीर्वाद देते हुए उनपर सफेद सरसों, अक्षत, दही, जल, दूर्वा, पुष्प और फलोंकी वर्षा की। इस प्रकार उनके मनोहर गीत सुनते हुए ध्रुवजीने अपने पिताके महलमें प्रवेश किया॥ ५८-५९॥
वीरराघवः
सिद्धार्थाः श्वेतसर्षपाः उपजह्नुः व्यकिरन् । सतीः सत्यः विभक्तिव्यत्यय आर्षः । तासां सतीनां वल्गूनि श्राव्याणि गीतानि शृण्वन् पितुर्भवनं गृहं प्राविशत् ॥ ५८-५९ ॥
श्लोक-६०
विश्वास-प्रस्तुतिः
महामणिव्रातमये स तस्मिन् भवनोत्तमे।
लालितो नितरां पित्रा न्यवसद्दिवि देववत्॥
अनुवाद (हिन्दी)
वह श्रेष्ठ भवन महामूल्य मणियोंकी लड़ियोंसे सुसज्जित था। उसमें अपने पिताजीके लाड़-प्यारका सुख भोगते हुए वे उसी प्रकार आनन्दपूर्वक रहने लगे, जैसे स्वर्गमें देवतालोग रहते हैं॥ ६०॥
वीरराघवः
अनुर्घमणिसमूहमये भवनश्रेष्ठे पित्रा नितरां लालितः दिवि देववत् न्यवसत् ॥ ६० ॥
श्लोक-६१
विश्वास-प्रस्तुतिः
पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः।
आसनानि महार्हाणि यत्र रौक्मा उपस्कराः॥
मूलम्
पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः।
आसनानि महार्हाणि यत्र रौ190क्मा उपस्कराः॥ ६१ ॥
अनुवाद (हिन्दी)
वहाँ दूधके फेनके समान सफेद और कोमल शय्याएँ, हाथी-दाँतके पलंग, सुनहरी कामदार परदे, बहुमूल्य आसन और बहुत-सा सोनेका सामान था॥ ६१॥
वीरराघवः
भवनं वर्णयति । यत्र भवने शय्याः 191दान्ताः क्षीरफेन192वन्मृदुलाः शुभ्राश्च रुक्मपरिच्छदाः सुवर्णमयाः परिकराः अनर्घाणि आसनानि रौप्या राजता उपस्कराश्च सन्ति ॥ ६१ ॥
श्लोक-६२
विश्वास-प्रस्तुतिः
यत्र स्फटिककुड्येषु महामारकतेषु च।
मणिप्रदीपा आभान्ति ललनारत्नसंयुताः॥
मूलम्
यत्र स्फटिककुड्येषु महा193मारकतेषु च।
मणिप्रदीपा आभान्ति ललनारत्नसंयुताः॥ ६२ ॥
अनुवाद (हिन्दी)
उसकी स्फटिक और महामरकतमणि (पन्ने)-की दीवारोंमें रत्नोंकी बनी हुई स्त्री मूर्तियोंपर रखे हुए मणिमय दीपक जगमगा रहे थे॥ ६२॥
वीरराघवः
यत्र भवने स्फटिकमयकुड्येषु इन्द्रनीलमणिखचितेषु प्रतिफलिता ललनाः स्त्रियः 194एव रत्नानि तैः संयुताः । मणिप्रदीपाः उपमितसमासः, 195आभान्ति ॥ ६२ ॥
श्लोक-६३
विश्वास-प्रस्तुतिः
उद्यानानि च रम्याणि विचित्रैरमरद्रुमैः।
कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः॥
मूलम्
उद्यानानि च रम्याणि विचित्रैरमरद्रुमैः।
कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः॥ ६३ ॥
अनुवाद (हिन्दी)
उस महलके चारों ओर अनेक जातिके दिव्य वृक्षोंसे सुशोभित उद्यान थे, जिनमें नर और मादा पक्षियोंका कलरव तथा मतवाले भौंरोंका गुंजार होता रहता था॥ ६३॥
वीरराघवः
196रम्याण्युद्यानानि च यत्र सन्तीत्यनुषङ्गः । तानि विशिनष्टि विचित्रैरमरद्रुमैः सन्तानपारिजातादिभिः द्रुमैः, कथम्भूतैः ? कूजति विहङ्गानां मिथुनानि येषु गायन्तो मत्ताः मधुपान197मत्ता मधुव्रता भृङ्गा येषु तैर्द्रुमैः युक्तानीति शेषः ॥ ६३ ॥
श्लोक-६४
विश्वास-प्रस्तुतिः
वाप्यो वैदूर्यसोपानाः पद्मोत्पलकुमुद्वतीः।
हंसकारण्डवकुलैर्जुष्टाश्चक्राह्वसारसैः॥
अनुवाद (हिन्दी)
उन बगीचोंमें वैदूर्यमणि (पुखराज)-की सीढ़ियोंसे सुशोभित बावलियाँ थीं—जिनमें लाल, नीले और सफेद रंगके कमल खिले रहते थे तथा हंस, कारण्डव, चकवा एवं सारस आदि पक्षी क्रीडा करते रहते थे॥ ६४॥
श्लोक-६५
विश्वास-प्रस्तुतिः
उत्तानपादो राजर्षिः प्रभावं तनयस्य तम्।
श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम्॥
मूलम्
200उत्तानपादो राजर्षिः प्रभावं तनयस्य तम्।
श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम्॥ ६५ ॥
अनुवाद (हिन्दी)
राजर्षि उत्तानपादने अपने पुत्रके अति अद्भुत प्रभावकी बात देवर्षि नारदसे पहले ही सुन रखी थी; अब उसे प्रत्यक्ष वैसा ही देखकर उन्हें बड़ा आश्चर्य हुआ॥ ६५॥
वीरराघवः
वाप्यश्च यत्र सन्तीत्यन्वयः । वापीं विशिनष्टि । वै201दूर्य मणिमयानि सोपानानि यासु । पद्मानि उत्पलानि कुमुदानि च आसु सन्ति ताः विभक्तिव्यत्यय आर्षः, हंसानां कारण्डवानां च कुलैः सङ्घैः चक्रवाकैः सारसैश्च घुष्टाः शब्दिता 202विस्मयमाश्चर्यं प्रपेदे ॥ ६४-६५ ॥
श्लोक-६६
विश्वास-प्रस्तुतिः
वीक्ष्योढवयसं तं च प्रकृतीनां च सम्मतम्।
अनुरक्तप्रजं राजा ध्रुवं चक्रे भुवः पतिम्॥
मूलम्
वीक्ष्योडवयसं 203पुत्रं प्रकृतीनां च सम्मतम्।
अनुरक्तप्रजं राजा ध्रुवं चक्रे भुवः पतिम्॥ ६६ ॥
अनुवाद (हिन्दी)
फिर यह देखकर कि अब ध्रुव तरुण अवस्थाको प्राप्त हो गये हैं, अमात्यवर्ग उन्हें आदरकी दृष्टिसे देखते हैं तथा प्रजाका भी उनपर अनुराग है, उन्होंने उन्हें निखिल भूमण्डलके राज्यपर अभिषिक्त कर दिया॥ ६६॥
वीरराघवः
अथ कतिपयवर्षानन्तर मूढवयसं प्राप्तयौवनं प्रकृतीनां मन्त्रिणां सम्मतमनुरक्ताः अनुरागयुक्ताः प्रजा यस्मिन् तं पुत्रं ध्रुवं वीक्ष्य भुवः पतिं चक्रे राज्याभिषिक्तमकरोत् ॥ ६६ ॥
श्लोक-६७
विश्वास-प्रस्तुतिः
आत्मानं च प्रवयसमाकलय्य विशाम्पतिः।
वनं विरक्तः प्रातिष्ठद्विमृशन्नात्मनो गतिम्॥
मूलम्
आत्मानं च प्रवयसमाकलय्य विशाम्पतिः।
वनं विरक्तः प्रातिष्ठद्विमृशन्नात्मनो गतिम्॥ ६७ ॥
अनुवाद (हिन्दी)
और आप वृद्धावस्था आयी जानकर आत्मस्वरूपका चिन्तन करते हुए संसारसे विरक्त होकर वनको चल दिये॥ ६७॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे ध्रुवराज्याभिषेकवर्णनं नाम नवमोऽध्यायः॥ ९॥
वीरराघवः
तत आत्मानं प्रवयसं वृद्धमाकलय्य आलोच्य विशाम्पतिः राजा आत्मनः स्वस्व गतिं मुक्त्युपायं विमृशन् अत एव विरक्तः वनं प्रतिष्ठत् प्रविशत् ॥ ६७ ॥
इति श्रीमद्भागवते चतुर्थस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां नवमोऽध्यायः ॥ ९ ॥
-
A,B,G,I,J,T,V कृतावनामाः ↩︎
-
A,B,J omit ततः ↩︎
-
A,B,G,I,J,T डि ↩︎
-
W अपरोक्षप्री ↩︎
-
W omits आश्वेव ↩︎
-
M,Ma,Ms भुजेन चा ↩︎
-
W omits इव ↩︎
-
A,B,G,I,J,T,V पादितां ↩︎
-
M,Ma,Ms ताद्भ ↩︎
-
A,B,G,I,J,M,Ma,Ms,T त्वरं ↩︎
-
M,Ma,Ms श्रि ↩︎
-
M,Ma,Ms क्षितिम् ॥ ↩︎
-
W अस्तावीत् ↩︎
-
W धाम्नः ↩︎
-
A,B,J वागिन्द्रि ↩︎
-
A,B,J रूपेण ↩︎
-
W स्सदस ↩︎
-
Ms ब्रह्माप ↩︎
-
W वर्ग ↩︎
-
M,Ma,Ms धिया ↩︎
-
V,W त्वा ↩︎
-
A,B,G,I,J,M,Ma,Ms,T निरये ↩︎
-
W तार्था ↩︎
-
A,B,T क्ष ↩︎
-
A,B,T कात् ↩︎
-
W इति ↩︎
-
A,B,G,I,J,T किन्त्व; M,Ma,Ms किम्व ↩︎
-
A,B,T ति ↩︎
-
A,B,T पसा ↩︎
-
A,B,T न्धिस ↩︎
-
W भगवतो ↩︎
-
A,B,T omit भवाब्धिं ↩︎
-
M,Ma,Ms माद्य ↩︎
-
M,Ma,Ms स्वान् सम्पदः; W ये चानुगः ↩︎
-
M,Ma,Ms दारान् ↩︎
-
A,B,T omit नितरां ↩︎
-
A,B,T स्तु ↩︎
-
A,B,G,I,J,M,Ma,T नग; Ms मृग ↩︎
-
M,Ma,Ms विरचितं ↩︎
-
M,Ma,Ms शेषं ↩︎
-
M,Ma,Ms वाचः ↩︎
-
A,B,T सौगन्ध्य ↩︎
-
A,B,T नाऽऽनन्द ↩︎
-
A,B,T omit रूपे ↩︎
-
A,B,T omit विषये ↩︎
-
A,B,T omit न ↩︎
-
A,B,T omit रुहं ↩︎
-
W बुद्धविशुद्ध ↩︎
-
A,B,G,I,J,T,V ति ↩︎
-
M,Ma,Ms बुद्ध्या ↩︎
-
M,Ma,Ms दृष्ट्वा ↩︎
-
M,Ma,Ms तो ↩︎
-
B स्वस ↩︎
-
A,T omit ↩︎
-
A,B,T न निं ↩︎
-
A,B,T भाक् भावरूपज्ञा ↩︎
-
J नि ↩︎
-
W म ↩︎
-
A,B,G,I,J,T ह्य ↩︎
-
M,Ma,Ms र्व्या ↩︎
-
M,Ma मविश्व ↩︎
-
M,Ma,Ms मूल ↩︎
-
M,Ma,Ms मशिष्टयोऽनु ↩︎
-
A,G,I,J,T वाश्रेव; V उस्रेव ↩︎
-
A,B,T भूतत्व ↩︎
-
W omits स्व ↩︎
-
Ms श्री वैकुण्ठः ↩︎
-
A,B,T उक्त ↩︎
-
W omits ध्रुवा ↩︎
-
M,Ma पु ↩︎
-
A,B,G,I,J,T शु ↩︎
-
M वत्स ↩︎
-
M,Ma दत्तां ↩︎
-
A,B,T षट्त्रिंश ↩︎
-
W द ↩︎
-
A,B,T दा ↩︎
-
A,B,G,I,J,T मां सं ↩︎
-
W omits मा ↩︎
-
A,B,T omit माम् ↩︎
-
A,B,G,I,J,V गतः; T ततः ↩︎
-
A,T omit मत्स्थानं ↩︎
-
W omits स्थानं ↩︎
-
W omits सप्त ↩︎
-
M,Ma,Ms सृज्याऽऽ ↩︎
-
M,Ma जगाम ग, V स्वमयाद्र ↩︎
-
A,T तिरोऽदधात् ↩︎
-
A,B,T मुनिः ↩︎
-
A,B,T प्रापद्यत ↩︎
-
Ms पा ↩︎
-
A,B,T omit सङ्कल्पा ज्जातं ↩︎
-
A,B,T वं प्रा ↩︎
-
A,B,G,I,J,M, Ma,Ms,T,V ताऽर्थवित् ↩︎
-
A,B,T omit मायाविनः ↩︎
-
A,B,T omit तस्य ↩︎
-
W प्रदान्मु ↩︎
-
A,B,G,I,J,M,Ma,I,V तस्मात्ता ↩︎
-
M,Ma,Ms नाऽनेक ↩︎
-
J,W सु ↩︎
-
M,Ma,Ms हतः ↩︎
-
W Reads - तत्पश्यत ममानात्म्य महो शोच्यं वतेति यत् ।
गत्वा भवच्छिदः पादमूलं याचेऽन्तवत्फलम् ॥ ३१ ॥ ↩︎ -
J नत्वा ↩︎
-
M,Ma त ↩︎
-
A,T णात्मक ↩︎
-
A,B,T omit नित्य ↩︎
-
M,Ma,Ms य ↩︎
-
दैवीं गुणमयीं मायामुपाश्रित्य दुरत्ययाम् । असत्यपि द्वितीयेऽत्र प्रसुप्त इव भिन्नदृक् । भ्रातृ भ्रातृव्येऽतिरुजा तप्येऽहमपि हृद्रुजा ॥ मया प्रसाद्य तपसा दुष्प्रसादं भवच्छिदम् । याचेऽहं जगदात्मानं भावं भाग्यविवर्जितः ॥ स्वराज्यं यच्छतो मानः केवलं मेऽभिभिक्षितः । निर्धन क्षीणपुण्येन पुलीकारा निवेश्वरात् ॥ ↩︎
-
A,B,T वत् ↩︎
-
A,B,T add तथा ↩︎
-
M,Ma,Ms तादात्म्यं ↩︎
-
M,Ma,Ms मनो ↩︎
-
M,Ma,Ms तं ↩︎
-
M,Ma,Ms पुलकानिव चा धनः ↩︎
-
A,T दु ↩︎
-
A,B,T तपति ↩︎
-
A,T न वा ↩︎
-
A,T omit नैवेच्छन्ति; B नेच्छ ↩︎
-
W तमिवाऽऽ ↩︎
-
A,B,T omit आगच्छन्तं ↩︎
-
A,B,T तमेवो ↩︎
-
W पुत्राग ↩︎
-
V त्या ↩︎
-
A,B,T प्रत्याग ↩︎
-
A,B,T add पुत्रागमनवार्ताहर्तुः ↩︎
-
A,B,T र्तां ↩︎
-
A,B अनर्घ्यं ↩︎
-
A,B,T अदात् ↩︎
-
W च्छदम् ↩︎
-
W बान्धवैः ↩︎
-
Ms तूर्यनि ↩︎
-
W भूयसा ↩︎
-
W पुरस्तू ↩︎
-
A,B,G,I,J,M,Ma भी ↩︎
-
W जाभीक्ष ↩︎
-
A,T थ ↩︎
-
M,Ma के ↩︎
-
W दीर्घोत्कण्ठय ↩︎
-
A,T दीर्घोत्कण्ठ ↩︎
-
W omits अङ्गजं पुत्रं ↩︎
-
A,B,T माध्यात्मिकं ↩︎
-
V अवजि ↩︎
-
A,B,G,I,J,T शीतै ↩︎
-
M,Ma,Ms आप्तो ↩︎
-
M,Ma,Ms थम् ↩︎
-
A,B,T शीतैः ↩︎
-
A,B,T omit शीतलैः ↩︎
-
W omits अशुभिः ↩︎
-
A,B,T omit तं ↩︎
-
A,B,T त्याह ↩︎
-
A,B,T तस्मिन् ↩︎
-
V र्य ↩︎
-
A,B,G,I,J,M,Ma,T,V गू ↩︎
-
M,Ma य ↩︎
-
W गूह्या ↩︎
-
V तथा ↩︎
-
M,Ma,Ms याः ↩︎
-
M, Ma, Ms वीरे ↩︎
-
A,B,T add वीरस्य ↩︎
-
W राजन् ↩︎
-
T प्रजाः ↩︎
-
A,B,T omit ते ↩︎
-
W वीराः ↩︎
-
W नो ↩︎
-
T,V णं ↩︎
-
A,B,T नं ↩︎
-
A,B,G,I,J,T सवृन्दैः; M,Ma,Ms,V संवृत्तैः ↩︎
-
W omits अतः ↩︎
-
A,B,T न्दैः ↩︎
-
A,B,T न्दैः ↩︎
-
W म्बनैः ↩︎
-
A,B,T omit कुम्भेषु ↩︎
-
A,B,G,I,J,T,V गारै: ↩︎
-
W कौ ↩︎
-
W ति ↩︎
-
M,Ma,Ms दि ↩︎
-
M,Ma न्दु ↩︎
-
W omits सं ↩︎
-
M,Ma स्तु वल्गु ↩︎
-
M,Ma,Ms कशिपूत्तमे ↩︎
-
V तोऽति ↩︎
-
T,W प्या ↩︎
-
W adds धौताः ↩︎
-
A,B,T वन्निर्मलाः ↩︎
-
Ms,T,V,W म ↩︎
-
A,B,T omit एव ↩︎
-
A,B,T omit आभान्ति ॥ ६३ ॥ ↩︎
-
A,B,T add अथ अति ↩︎
-
A,B,T omit मत्ता: ↩︎
-
J,Ms,V,W डूर्य ↩︎
-
W र्घुष्टा ↩︎
-
This verse is not found in W and the same was not commented either by Sridhara or Veeraraghava. ↩︎
-
A,B,T डू ↩︎
-
विस्मयम् आश्चर्य प्रपेदे This line is not found in W end. The verse to be the above lines pertained to sloka उत्तानपादो etc is also not found in W. ↩︎
-
A,B,G,I,J,T तं च ↩︎