[अष्टमोऽध्यायः]
भागसूचना
ध्रुवका वन-गमन
श्लोक-१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यतिः।
नैते गृहान् ब्रह्मसुता ह्यावसन्नूर्ध्वरेतसः॥
मूलम्
सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यतिः।
नैते गृहान् ब्रह्मसुता ह्य1वसन्नूर्ध्वरेतसः॥ १ ॥
वीरराघवः
2एवं “प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः । तस्यां ससर्ज दुहितुः षोडशामललोचनाः ॥” (भाग. 4-1-47)
इत्यादिना प्रसूतिवंशमुपक्रम्य तत्प्रसक्तानुप्रसक्तमभिहितम् । एवं तावन्मनुकन्यान्वयो वर्णितः । अथ मनुपुत्रान्वयं विवक्षुरनुसर्गकथनेऽवशिष्टं किञ्चिदाह - सनकाद्या इति । यतिरिति प्रत्येकं सनकादिविशेषणम् । तन्त्रेणोपात्तं प्रत्येकाभिप्रायेणैकवचनान्तनिर्देशः, अरुणिविशेषणं वा प्रत्यासत्तेः । एते ब्रह्मपुत्राः गृहान् गृहाश्रमान् नाऽवसन् नाऽऽश्रिताः । तत्र हेतुः - ऊर्ध्वरेतसः नैष्ठिकाः अतस्तेषां वंशो नास्तीति ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
मृषाधर्मस्य भार्याऽऽसीद्दम्भं मायां च शत्रुहन्।
असूत मिथुनं तत्तु निर्ऋतिर्जगृहेऽप्रजः॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—शत्रुसूदन विदुरजी! सनकादि, नारद, ऋभु, हंस, अरुणि और यति—ब्रह्माजीके इन नैष्ठिक ब्रह्मचारी पुत्रोंने गृहस्थाश्रममें प्रवेश नहीं किया (अतः उनके कोई सन्तान नहीं हुई)। अधर्म भी ब्रह्माजीका ही पुत्र था, उसकी पत्नीका नाम था मृषा। उसके दम्भ नामक पुत्र और माया नामकी कन्या हुई। उन दोनोंको निर्ऋति ले गया, क्योंकि उसके कोई सन्तान न थी॥ १-२॥
वीरराघवः
अधर्मोऽपि ब्रह्मपुत्रः तस्य वंशमाह - मृषेति चतुर्भिः । अधर्मस्य भार्या मृषा, दम्भः परप्रतारणं माया तदुचिता चेष्टा एतदुभयात्मकं मिथुनम् असूत प्रसूतवती । हे शत्रुहन् ! सोदरयोरपि मायादम्भयोः दाम्पत्यमधर्मांशतया, एवमुपर्यपि द्रष्टव्यम् । तच्च दम्भमायात्मकं मिथुनं अप्रजोऽपुत्रो निर्ऋतिः जगृहे गृहीतवान् । दम्भे पुत्राभिमानं मायायां स्नुषाभिमानं च कृतवानित्यर्थः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
तयोः समभवल्लोभो निकृतिश्च महामते।
ताभ्यां क्रोधश्च हिंसा च यद्दुरुक्तिः स्वसा कलिः॥
अनुवाद (हिन्दी)
दम्भ और मायासे लोभ और निकृति (शठता)-का जन्म हुआ, उनसे क्रोध और हिंसा तथा उनसे कलि (कलह) और उसकी बहिन दुरुक्ति (गाली) उत्पन्न हुए॥ ३॥
वीरराघवः
हे महामते ! तयोः मायादम्भयोः लोभः निकृतिः शठता च स7मभवत् । ताभ्यां निकृतिलोभाभ्यां क्रोधोऽमर्षो हिंसा च समभवदित्यनुषङ्गः । यत् याभ्यां क्रोधहिंसाभ्यां कलिश्च तस्य स्वसा भगिनी दुरुक्तिश्च समभवत् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
दुरुक्तौ कलिराधत्त भयं मृत्युं च सत्तम।
तयोश्च मिथुनं जज्ञे यातना निरयस्तथा॥
मूलम्
दुरुक्तौ कलिराधत्त भयं मृत्युं च सत्तम!
तयोश्च मिथुनं जज्ञे यातना निरयस्तथा॥ ४ ॥
अनुवाद (हिन्दी)
साधुशिरोमणे! फिर दुरुक्तिसे कलिने भय और मृत्युको उत्पन्न किया तथा उन दोनोंके संयोगसे यातना और निरय (नरक)-का जोड़ा उत्पन्न हुआ॥ ४॥
वीरराघवः
दुरुक्तौ कलिः भयं भीतिं मृत्युं च आधत्त उत्पादयामास । हे सत्तम ! ताभ्यां भीतिमृत्युभ्यां यातना स्त्री निरयः पुमान् एतदुभयात्मकं मिथुनं जज्ञे ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
संग्रहेण मयाऽऽख्यातः प्रतिसर्गस्तवानघ।
त्रिःश्रुत्वैतत्पुमान् पुण्यं विधुनोत्यात्मनो मलम्॥
मूलम्
सङ्ग्रहेण मयाऽऽख्यातः प्र8तिसर्गस्तवानघ!
त्रिः श्रुत्वैतं9 पुमान् पुण्यं विधुनोत्यात्मनो मलम्॥ ५ ॥
अनुवाद (हिन्दी)
निष्पाप विदुरजी! इस प्रकार मैंने संक्षेपसे तुम्हें प्रलयका कारणरूप यह अधर्मका वंश सुनाया। यह अधर्मका त्याग कराकर पुण्य-सम्पादनमें हेतु बनता है; अतएव इसका वर्णन तीन बार सुनकर मनुष्य अपने मनकी मलिनता दूर कर देता है॥ ५॥
वीरराघवः
अथाऽधर्मवंश्यस्य प्रतिसर्गान्तर्भावं वदन् तमुपसंहरन् तच्छ्रवणफलमाह - सङ्गहेणेति । हे अनघ ! तव तुभ्यं मया प्रतिसर्गः सङ्ग्रहेणाख्यातः, प्रलयहेतुत्वात् अधर्मवंशस्य प्रतिसर्गत्वम् । एतं धर्मवंशं पुण्यं वर्जनद्वारा पुण्यहेतुत्वात् पुण्यं श्रुत्वा पुमानात्मनः स्वस्य मलं पापं विधुनोति ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
अथातः कीर्तये वंशं पुण्यकीर्तेः कुरूद्वह।
स्वायम्भुवस्यापि मनोर्हरेरंशांशजन्मनः॥
मूलम्
अथातः कीर्तये वंशं पुण्यकीर्तेः कुरूद्वह!
स्वायम्भुवस्यापि मनोर्हरेरंशांशजन्मनः॥ ६ ॥
अनुवाद (हिन्दी)
कुरुनन्दन! अब मैं श्रीहरिके अंश (ब्रह्माजी)-के अंशसे उत्पन्न हुए पवित्रकीर्ति महाराज स्वायम्भुव मनुके पुत्रोंके वंशका वर्णन करता हूँ॥ ६॥
वीरराघवः
एवं कन्यान्वयमभिधायाऽथ मनुपुत्रान्वयं वक्तुमुपक्रमते - अथात इति । हे कुरूद्वह ! अथ “मनोस्तु शतरूपायां तिस्रः कन्याः प्रजज्ञिरे” (भाग 4-1-1) इत्युपक्रान्तमनुकन्यान्वयकथनानन्तरम् अत उपक्रान्तस्य वृत्तत्त्वाद्धेतोः स्वायम्भुवस्य मनोर्वंशं पुत्रान्वयं कीर्तये कथयामीति सम्बन्धः । अत्र मनुकन्यामनुपुत्रवंशकथनयोः पौर्वापर्ये हेतुहेतुमद्भावे च समासव्यासत्वहेतुकस्वेच्छायत्तोपक्रान्तत्वोपक्रमिष्यमाणत्वमेव निबन्धनम् । काकदन्तश्रवणवदश्राव्यत्वशङ्कामपनुदन् मनुं विशिनष्टि । पुण्यकीर्तेः पुण्या शुश्रूषतां पुण्या10पादिका कीर्तिर्यस्य । तत्र हेतुः - हरेः अंशांशजन्मनः स्मरणमात्रेण आश्रितदुरितहारिणो भगवतः अंशो ब्रह्मा तस्य अंशाच्छरीराज्जन्म यस्य तस्य हर्यंशांशसम्भूतत्वात् हरिभक्तत्वाच्च हरिचरित्रवन्मनुपुत्रान्वयकथनश्रवणादिकमपि दुरितविनाशनद्वारा पुण्यसम्पादकमित्यर्थः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ।
वासुदेवस्य कलया रक्षायां जगतः स्थितौ॥
मूलम्
प्रियव्रतोत्तान11पादौ शतरूपापतेः सुतौ।
वासुदेवस्य कलया रक्षायां जगतः स्थितौ॥ ७ ॥
अनुवाद (हिन्दी)
महारानी शतरूपा और उनके पति स्वायम्भुव मनुसे प्रियव्रत और उत्तानपाद—ये दो पुत्र हुए। भगवान् वासुदेवकी कलासे उत्पन्न होनेके कारण ये दोनों संसारकी रक्षामें तत्पर रहते थे॥ ७॥
वीरराघवः
प्रतिज्ञातमनुवंशं वर्णयन्ति - प्रियव्रतोत्तानपादावित्यादिना आभूगोलवर्णनात् । प्रियव्रतश्च उत्तानपादश्च तौ, इमे अन्वर्थना12मनी । प्रियं भगवत्प्रीतिकरं व्रतं यस्य स प्रियव्रतः । 13उत्ताने उन्नते पदे13 यस्येति उत्तानपदः14 । शतरूपापतेर्मनोः सुतौ वासुदेवस्य कलया सर्वान्तरात्मभगवद्गुणविशेषाविर्भावेन जगतो रक्षायां स्थितौ ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः।
सुरुचिः प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुवः॥
मूलम्
जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः।
सुरुचिः प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुवः॥ ८ ॥
अनुवाद (हिन्दी)
उत्तानपादके सुनीति और सुरुचि नामकी दो पत्नियाँ थीं। उनमें सुरुचि राजाको अधिक प्रिय थी; सुनीति, जिसका पुत्र ध्रुव था, उन्हें वैसी प्रिय नहीं थी॥ ८॥
वीरराघवः
तयोर्मध्ये 15य उत्तानपादः तस्य सुनीतिः सुरुचिश्चेति जाये भार्ये । तयोः सुनीतिसुरुच्योः मध्ये सुरुचिः पत्युरुत्तानपादस्य प्रेयसी नितरां प्रीतिविषया । इतरा सुनीतिस्तु न प्रेयसी । यत्सुतः यस्याः अप्रेयस्याः सुनीतेः सुतः पुत्रः ध्रुवः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
एकदा सुरुचेः पुत्रमङ्कमारोप्य लालयन्।
उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत॥
मूलम्
एकदा सुरुचेः पुत्रमङ्कमारोप्य लालयन्।
उत्तमं नारुरुक्षन्तं ध्रुवं राजाऽभ्यनन्दत॥ ९ ॥
अनुवाद (हिन्दी)
एक दिन राजा उत्तानपाद सुरुचिके पुत्र उत्तमको गोदमें बिठाकर प्यार कर रहे थे। उसी समय ध्रुवने भी गोदमें बैठना चाहा, परन्तु राजाने उसका स्वागत नहीं किया॥ ९॥
श्लोक-१०
विश्वास-प्रस्तुतिः
तथा चिकीर्षमाणं तं सपत्न्यास्तनयं ध्रुवम्।
सुरुचिः शृण्वतो राज्ञः सेर्ष्यमाहातिगर्विता॥
मूलम्
तथा चिकीर्षमाणं तं सपत्न्यास्तनयं ध्रुवम्।
सुरुचिः शृण्वतो राज्ञः सेर्ष्यमाहातिगर्विता॥ १० ॥
अनुवाद (हिन्दी)
उस समय घमण्डसे भरी हुई सुरुचिने अपनी सौतके पुत्र ध्रुवको महाराजकी गोदमें आनेका यत्न करते देख उनके सामने ही उससे डाहभरे शब्दोंमें कहा॥ १०॥
वीरराघवः
तत्र सुनीत्या अप्रेयस्त्वमेव प्रपञ्चयन् तत्सुतध्रुवचरित्रमाह - एकदेत्यादिना पञ्चभिरध्यायैः । एकदा कदाचित् राजा उत्तानपादः सुरुचेः पुत्रमुत्तमसंज्ञमारुरुक्षन्तम् अङ्कमारोढुमिच्छन्तम् अङ्कमारोप्य उत्सङ्गे 16निपाद्य लालयन् तथा चिकीर्षमाणम् अङ्कारोहादिकर्तुमिच्छन्तं सपत्न्याः सुनीतेः तनयं तं ध्रुवं नाभ्यनन्द17त् । यद्वा उत्तममङ्कमारोप्य लालयन् अङ्कमारुरुक्षन्तं ध्रुवं नाभ्यनन्दतेति सम्बन्धः । सुरुचिः राज्ञोऽभिप्रायज्ञा तथा चिकीर्षमाणं तं ध्रुवं प्रति राज्ञः शृण्वतः सतः अतिगर्विता सती अत एव सेर्ष्यं क्षमारहितं यथा भवति तथा आह उवाच ॥ ९, १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
न वत्स नृपतेर्धिष्ण्यं भवानारोढुमर्हति।
न गृहीतो मया यत्त्वं कुक्षावपि नृपात्मजः॥
मूलम्
न वत्स नृपतेर्धिष्ण्यं भवानारोढुमर्हति।
न गृहीतो मया यत्त्वं कुक्षावपि नृपात्म18जः॥ ११ ॥
अनुवाद (हिन्दी)
‘बच्चे! तू राजसिंहासनपर बैठनेका अधिकारी नहीं है। तू भी राजाका ही बेटा है, इससे क्या हुआ; तुझको मैंने तो अपनी कोखमें नहीं धारण किया॥ ११॥
वीरराघवः
गर्वोक्तिमेवाह - न वत्सेति त्रिभिः । हे वत्स ! नृपतेर्धिष्ण्यमासनमारोढुं भवान्नार्हति । नृपात्मजोऽहमारोढुमर्ह एव, तत्राह - त्वं नृपात्मजोऽपि यद्यस्मात् मया कुक्षौ न गृहीतः न धृतः मद्गर्भज एव नृपासनार्ह इत्यभिप्रायः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
बालोऽसि बत नात्मानमन्यस्त्रीगर्भसम्भृतम्।
नूनं वेद भवान् यस्य दुर्लभेऽर्थे मनोरथः॥
मूलम्
बालो19ऽसि बत नात्मानमन्यस्त्रीगर्भसम्भृतम्।
नूनं वेद भवान् यस्य दुर्लभेऽर्थे मनोरथः॥ १२ ॥
अनुवाद (हिन्दी)
तू अभी नादान है, तुझे पता नहीं है कि तूने किसी दूसरी स्त्रीके गर्भसे जन्म लिया है; तभी तो ऐसे दुर्लभ विषयकी इच्छा कर रहा है॥ १२॥
वीरराघवः
त्वं मया कुक्षौ न गृहीत इत्यहमेव न वेद्मि अपि तु भवानपि वेदेत्याह - बालोऽपीति । भवान् बालोऽप्यात्मानमन्यस्त्रीगर्भसम्भृतं मत्सपत्नीगर्भधृतं न वेद बत न वेद किम् ? अपितु वेदैवेत्यर्थः । नूनमिति निश्चये । यद्वा बालो भवान्न जानाति अहं तु वेद्मीत्याह - बाल इति । अपिस्त्वर्थकः भवानित्यनेन सम्बध्यते बाल इति हेतुगर्भं, भवांस्तु बालत्वादात्मानमन्यस्त्रीगर्भसम्भृतं न वेद अहं तु वेद्मीत्यभिप्रायः । अतो यस्य तव दुर्लभे लब्धुमयोग्ये, अर्थेनृपासनारोहणरूपेप्यर्थे मनोरथ आसीदित्यर्थः । बतेत्याश्चर्ये ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
तपसाऽऽराध्य पुरुषं तस्यैवानुग्रहेण मे।
गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम्॥
मूलम्
तपसाऽऽराध्य पुरुषं तस्यैवानुग्रहेण मे।
गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम्॥ १३ ॥
अनुवाद (हिन्दी)
यदि तुझे राजसिंहासनकी इच्छा है तो तपस्या करके परम पुरुष श्रीनारायणकी आराधना कर और उनकी कृपासे मेरे गर्भमें आकर जन्म ले’॥ १३॥
वीरराघवः
यदि दुर्लभोऽर्थो मया साध्य इति तवाऽऽग्रहः तर्ह्येवं साधयेत्याह - तपसेति । यदि त्वं नृपासनमिच्छसि तर्हि तपसा पुरुषं परमपुरुषमाराध्य तस्याराधितस्य परमपुरुषस्यानुग्रहेणैव न तु उपायान्तरेणेत्यर्थः । मे मम गर्भे आत्मानं साधय आत्मनो मद्गर्भे उत्पत्तिं साधयेत्यर्थः ॥ १३ ॥
श्लोक-१४
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
मातुः सपत्न्याः स दुरुक्तिविद्धः
श्वसन् रुषा दण्डहतो यथाहिः।
हित्वा मिषन्तं पितरं सन्नवाचं
जगाम मातुः प्ररुदन् सकाशम्॥
मूलम्
मातुः सपत्न्याः 20स दुरुक्तिविद्धः श्वसन् रुषा दण्डहतो यथाऽहिः।
हित्वा मिषन्तं पितरं सन्नवाचं जगाम मातुः 21प्ररुदन् सकाशम्॥ १४ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—विदुरजी! जिस प्रकार डंडेकी चोट खाकर साँप फुँफकार मारने लगता है, उसी प्रकार अपनी सौतेली माँके कठोर वचनोंसे घायल होकर ध्रुव क्रोधके मारे लंबी-लंबी साँस लेने लगा। उसके पिता चुपचाप यह सब देखते रहे, मुँहसे एक शब्द भी नहीं बोले। तब पिताको छोड़कर ध्रुव रोता हुआ अपनी माताके पास आया॥ १४॥
वीरराघवः
एवमुक्तो ध्रुवः किमकरोदित्यत्राह मैत्रेयः - मातुरिति । सपत्न्या मातुः दुरुक्तेन दुर्वचसा भावे क्तः । विद्ध ताडितो ध्रुव दण्डेन हतः सर्पो यथा तथा रुषा श्वसन् श्वासं मुञ्चन् मिषन्तं पश्यन्तं सन्नवाचं कु22ण्ठितवाचं पितरं हित्वा प्ररुदन् नितरामश्रूणि विमुञ्चन् मातुर्जनन्याः सुनीतेः समी23पं जगाम ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
तं निःश्वसन्तं स्फुरिताधरोष्ठं
सुनीतिरुत्सङ्ग उदूह्य बालम्।
निशम्य तत्पौरमुखान्नितान्तं
सा विव्यथे यद्गदितं सपत्न्या॥
मूलम्
तं निःश्वसन्तं स्फुरिताधरोष्ठं सुनीतिरुत्सङ्ग 24उदूह्य बालम्।
निशम्य तत्पौरमुखान्नितान्तं सा विव्यथे यद्गदितं 25सपत्न्या॥ १५ ॥
अनुवाद (हिन्दी)
उसके दोनों होठ फड़क रहे थे और वह सिसक-सिसककर रो रहा था। सुनीतिने बेटेको गोदमें उठा लिया और जब महलके दूसरे लोगोंसे अपनी सौत सुरुचिकी कही हुई बातें सुनी, तब उसे भी बड़ा दुःख हुआ॥ १५॥
वीरराघवः
तं सकाशमागतं निश्वसन्तं स्फुरितः कम्पितः अधरोष्ठो येन तं बालं ध्रुवं सपत्न्या 26यत् गदितं सा सुनीतिः उत्स27ङ्गम् उदूह्य अ28ङ्कम् आरोप्य पौरमुखादन्तः पुरजनमुखात् निशम्य श्रुत्वा नितान्तं नितरां विव्यथे व्यथितवती ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
सोत्सृज्य धैर्यं विललाप शोक-
दावाग्निना दावलतेव बाला।
वाक्यं सपत्न्याः स्मरती सरोज-
श्रिया दृशा बाष्पकलामुवाह॥
मूलम्
सोत्सृज्य धैर्यं विललाप शोकदावाग्निना द29ग्धलतेव बा30ला।
वाक्यं सपत्न्याः स्मरती सरोजश्रिया दृशा बाष्पकलामुवाह॥ १६ ॥
अनुवाद (हिन्दी)
उसका धीरज टूट गया। वह दावानलसे जली हुई बेलके समान शोकसे सन्तप्त होकर मुरझा गयी तथा विलाप करने लगी। सौतकी बातें याद आनेसे उसके कमल-सरीखे नेत्रोंमें आँसू भर आये॥ १६॥
वीरराघवः
व्यथामेवाह - सेति । सा सुनीतिर्धैर्यमुत्सृज्य हित्वा विललाप । शोक एव दावाग्निस्तेन दावाग्निना दग्धा लतेव स्थिता सा बाला सुनीतिः सपत्न्याः वाक्यं स्मरन्ती सरोजश्रिया सरोजस्य श्रीरिव श्रीः शोभा यस्यास्तया दृशा बाष्पकलाम् अश्रुकणिकामुवाह दधार ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
दीर्घं श्वसन्ती वृजिनस्य पार-
मपश्यती बालकमाह बाला।
मामङ्गलं तात परेषु मंस्था
भुङ्क्ते जनो यत्परदुःखदस्तत्॥
मूलम्
दीर्घं श्वसन्ती वृजिनस्य पारमपश्यती बालकमाह बाला।
मामङ्गलं ता31त परेष्व32मंस्था भुङ्क्ते जनो यत्परदुःखदस्तत्॥ १७ ॥
अनुवाद (हिन्दी)
उस बेचारीको अपने दुःखपारावारका कहीं अन्त ही नहीं दिखायी देता था। उसने गहरी साँस लेकर ध्रुवसे कहा, ‘बेटा! तू दूसरोंके लिये किसी प्रकारके अमंगलकी कामना मत कर। जो मनुष्य दूसरोंको दुःख देता है, उसे स्वयं ही उसका फल भोगना पड़ता है॥ १७॥
वीरराघवः
सपत्नीगदितव्यथया दीर्घं यथा तथा श्वासं मुञ्चन्ती वृजिनस्य दुःखस्य पारमवधिमपश्यन्ती अपारदुःखाक्रान्तेत्यर्थः, बाला सुनीतिः बालकं ध्रुवमाह - हे तात! अमङ्गलमपराधं परेषु मा मंस्थाः मा स्मा33र्षीः यत् यस्मात् यो जनः परदुःखदः परेभ्यो दुःखं ददातीति परदुःखदः सः तद्दुःखमेव भुङ्क्ते अनुभवति ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
सत्यं सुरुच्याभिहितं भवान्मे
यद् दुर्भगाया उदरे गृहीतः।
स्तन्येन वृद्धश्च विलज्जते यां
भार्येति वा वोढुमिडस्पतिर्माम्॥
मूलम्
सत्यं सुरुच्याभिहितं भवान् मे यद्दुर्भगाया उदरे गृहीतः।
स्तन्येन वृद्धश्च विलज्जते यां भार्येति वा वोढुमिडस्पतिर्माम्॥ १८ ॥
अनुवाद (हिन्दी)
सुरुचिने जो कुछ कहा है, ठीक ही है; क्योंकि महाराजको मुझे ‘पत्नी’ तो क्या, ‘दासी’ स्वीकार करनेमें भी लज्जा आती है। तूने मुझ मन्दभागिनीके गर्भसे ही जन्म लिया है और मेरे ही दूधसे तू पला है॥ १८॥
वीरराघवः
सुरुच्याभिहितं सोपालम्भमनुवदन्त्यात्मजं तपसे चोदयति - सत्यमिति । सुरुच्या यदभिहितं तत्सत्यमिति सम्बन्धः । किमभिहितम् ? तत्राह - दुर्भगायाः भाग्यहीनायाः मे मया उदरे भवान् गृहीतः मदुदरे जात इत्यर्थः, न केवलं जात एव मद्गर्भे, अपि तु तस्या एव मम स्तन्येन स्तनयोर्भवं स्तन्यं तेन वृद्धश्च । दुर्भगत्वमेवाह - इडा भूमिः डलयोरभेदात् । पारस्करादित्वात् सुट्हृस्वौ । इडस्पतिः भूपतिः मां भार्येत्यावोढुं स्वीकर्तुं वाचा वक्तुं वा विलज्जते ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
आतिष्ठ तत्तात विमत्सरस्त्व-
मुक्तं समात्रापि यदव्यलीकम्।
आराधयाधोक्षजपादपद्मं
यदीच्छसेऽध्यासनमुत्तमो यथा॥
मूलम्
आतिष्ठ तत्तात विमत्सरस्त्वमुक्तं 34समात्राऽपि यदव्यलीकम्।
आराधयाऽधोक्षजपादपद्मं यदीच्छसेऽध्यासनमुत्तमो यथा॥ १९ ॥
अनुवाद (हिन्दी)
बेटा! सुरुचिने तेरी सौतेली माँ होनेपर भी बात बिलकुल ठीक कही है; अतः यदि राजकुमार उत्तमके समान राजसिंहासनपर बैठना चाहता है तो द्वेषभाव छोड़कर उसीका पालन कर। बस, श्रीअधोक्षजभगवान्के चरणकमलोंकी आराधनामें लग जा॥ १९॥
वीरराघवः
हे तात! तस्मात्त्वं विमत्सरः विगतमत्सरः समात्रा समाता मातुः सपत्नी तयापि यदुक्तं - “तपसाऽऽराध्य पुरुषम्” (भाग. 4-8-14) इत्यादि, तदव्यलीकं निर्दोषं यथा भवति तथा आतिष्ठ कुरु । समात्रा यदुक्तमिति सामान्येनोक्तं विशेषनिष्ठं करोति उत्तमो यथा तथा त्व35मपि अध्यासनं नृपासनमिच्छसि य36दि तर्हि अधोक्षजपादपद्ममाराधय ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
यस्याङ्घ्रिपद्मं परिचर्य विश्व-
विभावनायात्तगुणाभिपत्तेः।
अजोऽध्यतिष्ठत्खलु पारमेष्ठ्यं
पदं जितात्मश्वसनाभिवन्द्यम्॥
मूलम्
य37स्याङ्घ्रिपद्मं परिचर्य विश्व विभावनायात्तगुणाभिपत्तेः।
अजोऽध्यतिष्ठत्खलु पारमेष्ठ्यं पदं जितात्म38श्वसनाभिवन्द्यम्॥ २० ॥
अनुवाद (हिन्दी)
संसारका पालन करनेके लिये सत्त्वगुणको अंगीकार करनेवाले उन श्रीहरिके चरणोंकी आराधना करनेसे ही तेरे परदादा श्रीब्रह्माजीको वह सर्वश्रेष्ठ पद प्राप्त हुआ है, जो मन और प्राणोंको जीतनेवाले मुनियोंके द्वारा भी वन्दनीय है॥ २०॥
वीरराघवः
किं कश्चिददोक्षजपादपद्यमाराध्य अ39ध्यासनादिस्वाभिलषितमवापेत्यत्र ब्रह्माणं मनुं च निदर्शयति - यस्येति द्वाभ्याम् । विश्वविभावनाय विश्वस्य पालनाय आत्तगुणाभिपत्तेः आत्ता स्वीकृता गुणाभिपत्तिः कल्याणगुणाश्रयदिव्यमङ्गलमूर्तिर्येन तस्य, यस्याधोक्षजस्य जितः आत्मा मनः श्वसनः प्राणवायुर्यैस्तैरभिवन्द्यम् अङ्घ्रिपद्मं परिचर्य आराध्य अजो ब्रह्मा पारमेष्ठ्यं पदं चतुर्दशभुवनानां मध्ये उत्कृष्टं सर्वोपरि वर्तमानं सत्यलोकरूपं स्थानमध्यतिष्ठदधिष्ठितवान् खलु ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
तथा मनुर्वो भगवान् पितामहो
यमेकमत्या पुरुदक्षिणैर्मखैः।
इष्ट्वाभिपेदे दुरवापमन्यतो
भौमं सुखं दिव्यमथापवर्ग्यम्॥
मूलम्
तथा मनुर्वो भगवान् पितामहो यमेक40मत्या पुरुदक्षिणैर्मखैः।
इष्ट्वाऽभिपेदे दुरवापमन्यतो भौमं सुखं दिव्यमथापवर्ग्यम्॥ २१ ॥
अनुवाद (हिन्दी)
इसी प्रकार तेरे दादा स्वायम्भुव मनुने भी बड़ी-बड़ी दक्षिणाओंवाले यज्ञोंके द्वारा अनन्यभावसे उन्हीं भगवान्की आराधना की थी; तभी उन्हें दूसरोंके लिये अति दुर्लभ लौकिक, अलौकिक तथा मोक्षसुखकी प्राप्ति हुई॥ २१॥
वीरराघवः
तथा वः युष्माकं पितामहः पितुः पिता भगवान् मनुरपि एकमत्या अव्यभिचरितभक्त्या पुरुदक्षिणैः बहुदक्षिणैः मखैः क्रतुभिः यं भगवन्तमिष्ट्वा आराध्य अन्यतः अन्यैः दु41रवापं दिव्यं दिवि भवं दिव्यं सुखं स्वर्गं भौमं सुखं सार्वभौमत्वम् आपवर्ग्यं मोक्षसुखं चाभिपेदे अनेनाधोक्षजस्य कुलदैवतत्वमुक्तम् । अन्यतः एकपतिव्यतिरिक्तोपायान्तरेण दुरवापं यमिति 42वा सम्बन्धः । अन्यतः अन्यस्माद्बह्मरुद्रादेः दुरवापं सुखत्रयमिति वा सम्बन्धः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
तमेव वत्साश्रय भृत्यवत्सलं
मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम्।
अनन्यभावे निजधर्मभाविते
मनस्यवस्थाप्य भजस्व पूरुषम्॥
मूलम्
तमेव वत्साश्रय भ43क्तवत्सलं मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम्।
अनन्यभावे निजधर्मभाविते मनस्यवस्थाप्य भजस्व पूरुषम्॥ २२ ॥
अनुवाद (हिन्दी)
‘बेटा! तू भी उन भक्तवत्सल श्रीभगवान्का ही आश्रय ले। जन्म-मृत्युके चक्रसे छूटनेकी इच्छा करनेवाले मुमुक्षुलोग निरन्तर उन्हींके चरणकमलोंके मार्गकी खोज किया करते हैं। तू स्वधर्मपालनसे पवित्र हुए अपने चित्तमें श्रीपुरुषोत्तमभगवान्को बैठा ले तथा अन्य सबका चिन्तन छोड़कर केवल उन्हींका भजन कर॥ २२॥
वीरराघवः
भजन्तमपि मां राजद्वेषाद्यसद्गुणदृष्ट्योपेक्षेत तत्राह - तमिति । हे वत्स ! भक्तवत्सलं भक्तेषु वत्सलस्तं, सत्स्वपि दोषेषु ताननादृत्य भोग्यताबुद्धिमत्त्वं वात्सल्यं तमेवाश्रय अनेनाश्रयणसौकर्यापादकगुणसम्पत्तिरुक्ता । आश्रितकार्यापादकगुणसम्पत्तिमाहमुमुक्षभिः संसार44बन्धनात् मोक्षमिच्छद्भिर्मृग्या अन्वेषणीया चिन्तनीयेति यावत् । पादाब्जयोः पद्धतिर्मार्गो यस्य तं मुक्तिप्रदमिति भावः । अनेन नित्यसंसारिणां नित्यसूरिपरिषत्संघटनोपयोगित्वरूपाघटितघटनासामर्थ्यरूपाश्रितकार्यापादकसम्पत्तिरुक्ता । कथमाश्रयाणीत्यत्र स्ववर्णाश्रमधर्मानुगृहीतभक्तियोगेनाश्रयेत्याह - अनन्यभावे न विद्यतेऽन्यस्मिन् भावो यस्मिन् । विजातीयप्रत्ययान्तराव्यवहित इत्यर्थः । 45निजधर्मभाविते45 निजधर्मैः स्ववर्णाश्रमोचितधर्मैः भाविते निष्पादिते मनसि तैलधारावदविच्छिन्नस्मृतिसन्तानरूपे मनोव्यापारे विजातीयप्रत्ययान्तराव्यवहिततैलधारावदविच्छिन्नस्मृतिसन्तानरूपाहि भक्तिः । अवस्थाप्य विषयीकृत्य पूरुषं पूस्संज्ञक46स्वशरीरान्तः स्थितदहरकुहरे वसन्तं परमपुरुषं भजस्व ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
नान्यं ततः पद्मपलाशलोचनाद्
दुःखच्छिदं ते मृगयामि कंचन।
यो मृग्यते हस्तगृहीतपद्मया
श्रियेतरैरङ्ग विमृग्यमाणया॥
मूलम्
नान्यं ततः पद्मपलाशलोचनाद्दुःखच्छिदं ते मृगयामि कञ्चन।
यो मृग्यते हस्तगृहीतपद्मया श्रियेतरैरङ्ग! विमृग्यमाणया॥ २३ ॥
अनुवाद (हिन्दी)
बेटा! उन कमल-दल-लोचन श्रीहरिको छोड़कर मुझे तो तेरे दुःखको दूर करनेवाला और कोई दिखायी नहीं देता। देख, जिन्हें प्रसन्न करनेके लिये ब्रह्मा आदि अन्य सब देवता ढूँढ़ते रहते हैं, वे श्रीलक्ष्मीजी भी दीपककी भाँति हाथमें कमल लिये निरन्तर उन्हीं श्रीहरिकी खोज किया करती हैं’॥ २३॥
वीरराघवः
तमेवेत्यनेन सूचितं सर्वोत्तमत्त्वं सुखत्रयप्रदत्वं च 47प्रतिपादयति - नान्यमिति । 48ततः तस्मात्48 पद्मपलाशलोचनात् पुण्डरीकाक्षादन्यं पुरुषं तव दुःखच्छिदं दुःखनि49रासकं न मृगयामि अन्विष्यापि न पश्यामीति भावः । अनेन तापत्रयनिरसनद्वारा सुखत्रयप्रदो भगवानेवेत्युक्तं भवति । सर्वोत्तमत्त्वमाह - यो भगवानितरैर्ब्रह्मादिभिः स्वाभिलषितसिद्धये विमृग्यमाणया मनः प्रणिधानेन चिन्त्यमानया, हस्तेन गृहीतं पद्मं यया तया श्रिया महालक्ष्म्या अङ्ग ! हे ध्रुव ! मृग्यते । अनेन लक्ष्मीपतित्वमुक्तं, तेन च सर्वेश्वरत्वं जगत्कारणत्वं च सामर्थ्यादुक्तं भवति ॥ २३ ॥
श्लोक-२४
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
एवं संजल्पितं मातुराकर्ण्यार्थागमं वचः।
संनियम्यात्मनाऽऽत्मानं निश्चक्राम पितुः पुरात्॥
मूलम्
एवं सञ्जल्पितं मातुराकर्ण्यार्थागमं वचः।
सन्नियम्यात्मनाऽऽत्मानं निश्चक्राम पितुः पुरात्॥ २४ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—माता सुनीतिने जो वचन कहे, वे अभीष्ट वस्तुकी प्राप्तिका मार्ग दिखलानेवाले थे। अतः उन्हें सुनकर ध्रुवने बुद्धिद्वारा अपने चित्तका समाधान किया। इसके बाद वे पिताके नगरसे निकल पड़े॥ २४॥
वीरराघवः
सुनीत्युक्तमुपसंहरन् ध्रुवस्य चेष्टामाह मुनिः - एवमिति । मातुः सञ्जल्पितं विलापनं ततः अर्थागमम् अर्थस्य स्वाभिलषितस्यार्थस्यागमो यस्मात्तथाभूतं वचश्च आकर्ण्य आत्मना स्वेनैवात्मानं मनः सन्नियम्य समाधाय पितुरुत्तानपादस्य पुरान्निश्चक्राम निर्गतः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
नारदस्तदुपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम्।
स्पृष्ट्वा मूर्धन्यघघ्नेन पाणिना प्राह विस्मितः॥
मूलम्
नारदस्तदुपाकर्ण्य ज्ञात्वा 50चास्य चिकीर्षितम्।
स्पृष्ट्वा मूर्धन्यघघ्नेन पाणिना प्राह विस्मितः॥ २५ ॥
अनुवाद (हिन्दी)
यह सब समाचार सुनकर और ध्रुव क्या करना चाहता है, इस बातको जानकर नारदजी वहाँ आये। उन्होंने ध्रुवके मस्तकपर अपना पापनाशक कर-कमल फेरते हुए मन-ही-मन विस्मित होकर कहा॥ २५॥
वीरराघवः
तन्निष्क्रमणमुपाकर्ण्य आश्रुत्य त्रैकाल्यज्ञो नारदः अस्य ध्रुवस्य चिकीर्षितं ज्ञात्वा चागत्येति शेषः । अघघ्नेन दुरितहारिणा पाणिना शिरसि संस्पृश्य विस्मितः प्राह ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
अहो तेजः क्षत्रियाणां मानभङ्गममृष्यताम्।
बालोऽप्ययं हृदा धत्ते यत्समातुरसद्वचः॥
मूलम्
अहो तेजः क्षत्रियाणां मानभङ्गममृष्यताम्।
बालोऽप्ययं हृदा धत्ते यत्समातुरसद्वचः॥ २६ ॥
अनुवाद (हिन्दी)
‘अहो! क्षत्रियोंका कैसा अद्भुत तेज है, वे थोड़ा-सा भी मान-भंग नहीं सह सकते। देखो, अभी तो यह नन्हा-सा बच्चा है; तो भी इसके हृदयमें सौतेली माताके कटु वचन घर कर गये हैं’॥ २६॥
वीरराघवः
विस्मित इत्युक्तं तदेवाह - अहो इति । मानभङ्गम् अभिमानविहतिम् अमृष्यताम् असहमानानां क्षत्रियाणां तेजः प्रभावः अहो विस्मयनीयः । यत् यस्मात् अयं ध्रुवः बालोऽपि समातुः मातुः सपत्न्या असद्वचः दुष्टवाक्यं यत् हृदा हृदयेन धत्ते मनसि स्थापयतीत्यर्थः ॥ २६ ॥
श्लोक-२७
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
नाधुनाप्यवमानं ते सम्मानं वापि पुत्रक।
लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु॥
अनुवाद (हिन्दी)
तत्पश्चात् नारदजीने ध्रुवसे कहा—बेटा! अभी तो तू बच्चा है, खेल-कूदमें ही मस्त रहता है; हम नहीं समझते कि इस उम्रमें किसी बातसे तेरा सम्मान या अपमान हो सकता है॥ २७॥
वीरराघवः
एवमुक्तो नारदः पुनराह - नाधुनाप्यवमानमिति । एतच्छ्लोकाभावे सर्वोऽपि ग्रन्थो नारदोक्तिपरत्वेन व्याख्येयः । हे पुत्रक ! कुमारस्य अत एव क्रीडनादिष्वासक्तस्य तव अधुना बाल्य दशायामपि अवमानं सन्मानं वा न पश्यामि । बालो हि मानावमानावनादृत्य परं क्रीडासक्तः अतस्तवापि मानावमानौ न स्त इति पश्यामीत्यभिप्रायः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
विकल्पे विद्यमानेऽपि न ह्यसंतोषहेतवः।
पुंसो मोहमृते भिन्ना यल्लोके निजकर्मभिः॥
अनुवाद (हिन्दी)
यदि तुझे मानापमानका विचार ही हो, तो बेटा! असलमें मनुष्यके असन्तोषका कारण मोहके सिवा और कुछ नहीं है। संसारमें मनुष्य अपने कर्मानुसार ही मान-अपमान या सुख-दुःख आदिको प्राप्त होता है॥ २८॥
वीरराघवः
यदि ब्रूयाः अहं वयसा बालो न बुध्येति तत्राह - विकल्प इति । विकल्पे मानावमानविवेके 57विद्यमानेऽपि सत्यपि मोहं विना भिन्ना व्यतिरिक्ताः असन्तोषहेतवो न सन्ति किन्तु मोह एवासन्तोषे हेतुरित्यर्थः । कुतः ? यत्सुखं दुःखं वा लोके तन्निजकर्मभिरेव भवति, यद्वा अहं बालोऽपि मानावमानबुद्धिमानिति ब्रूयात् तर्हीयम् असन्तोषमूला बुद्धिर्देहात्मभ्रममूला न तात्त्विकीत्याह - विकल्प इति । सर्वत्र ज्ञानैकाकारतया एकरूपे आत्मनि विकल्पे देवमनुष्यादिभेदे अविद्यमाने इति च्छेदः । असत्यपि देवमनुष्यादिभेदानामात्माकारत्वाभावेऽपीत्यर्थः । पुंसां जीवानां मोहमृते देवादिशरीरेष्वात्माभिमानं विना असन्तोषहेतवो न सन्ति, देहात्मभ्रम एवासन्तोषहेतुरित्यर्थः । विद्यमान इति वाच्छेदः । अपिशब्दः उक्तसमुच्चयार्थः विकल्प इत्यनेन सम्बध्यते । विकल्पे देवमनुष्यादिभेदे अपिशब्दात् तत्प्रयुक्तमानावमानादिके च सति मोहं देहात्माभिमानमृते असन्तोषहेतुरन्यो नास्तीत्यर्थः । असन्तोषस्य देहात्माभिमानाधीनत्वे हेतुमाह - भिन्ना यदिति । अत्र लोका इति प्रथमान्तपाठस्सुगमः । लोकाश्चेतनवर्गाः निजकर्मभिरेव भिन्नाः कर्मकृतदेवादिदेहभिन्ना इति यत् अतो देहे सति तत्रात्मभ्रम एवावमानद्वारा असन्तोषहेतुः । असन्तुष्टस्य चेतनस्य देहात्माभिमानित्वादित्यर्थः । यद्वा सप्तम्यन्तपाठः । भिन्नेति भावे, स्त्रीत्वमार्षं भिदेत्यर्थः । देवादिदेहभेदे को हेतुस्तत्राह । लोके ज्ञानैकाकारे चेतनवर्गे भिन्ना देवमनुष्यादिभिदा यत् यतः कर्मभिर्भवति अनेन कर्मकृतो देवादिदेहभेदस्तत्कृतो मानावमानमूलो देहात्मभ्रमस्ततोऽसन्तोषरूपं दुःखमित्यभिप्रेतम् ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
परितुष्येत्ततस्तात तावन्मात्रेण पूरुषः।
दैवोपसादितं यावद्वीक्ष्येश्वरगतिं बुधः॥
मूलम्
परितुष्येत्ततस्तात तावन्मात्रेण पूरुषः।
दैवोपसादितं यावद्वीक्ष्येश्वरगतिं बुधः॥ २९ ॥
अनुवाद (हिन्दी)
तात! भगवान्की गति बड़ी विचित्र है! इसलिये उसपर विचार करके बुद्धिमान् पुरुषको चाहिये कि दैववश उसे जैसी भी परिस्थितिका सामना करना पड़े, उसीमें सन्तुष्ट रहे॥ २९॥
वीरराघवः
एतदेव उपशमोपदेशेन निवर्तयति - परितुष्येदिति षड्भिः । ततो देहात्मभ्रमस्यैवासन्तोषहेतुत्वाद् बुधः देहविलक्षणात्मज्ञानी पुरुषः ईश्वरगतिं वीक्ष्य ईश्वरानुकूल्यं विना नोद्यमाः फलहेतवः इति ज्ञात्वा यावत्सुखं दैवेनोपसा58धितं प्रापितं तावन्मात्रेण परितुष्येत् नाधिकं लिप्सेत् । अतोऽधिकसुखार्थं नोद्यमः कार्य इति भावः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि।
यत्प्रसादं स वै पुंसां दुराराध्यो मतो मम॥
अनुवाद (हिन्दी)
अब, माताके उपदेशसे तू योगसाधनद्वारा जिन भगवान्की कृपा प्राप्त करने चला है—मेरे विचारसे साधारण पुरुषोंके लिये उन्हें प्रसन्न करना बहुत ही कठिन है॥ ३०॥
वीरराघवः
दुष्करश्च तवायम् उद्यम इत्याह - अथेति द्वाभ्याम् । अथ ननु मात्रोपदिष्टेन भक्तियोगेन यस्य भगवतः प्रसादम् अवरोद्धुं प्राप्तुमिच्छसि स वै भगवान् पुंसां दुःखेनाप्याराधयितुमशक्य इति मे मया ज्ञातो मतः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
मुनयः पदवीं यस्य निःसङ्गेनोरुजन्मभिः।
न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना॥
मूलम्
मुनयः पदवीं यस्य निस्सङ्गेनोरुजन्मभिः।
न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना॥ ३१ ॥
अनुवाद (हिन्दी)
योगीलोग अनेकों जन्मोंतक अनासक्त रहकर समाधियोगके द्वारा बड़ी-बड़ी कठोर साधनाएँ करते रहते हैं, परन्तु भगवान्के मार्गका पता नहीं पाते॥ ३१॥
वीरराघवः
निस्सङ्गेन देहतदनुबन्धिसङ्गान्निर्गतेन तीव्रयोगः विघ्नानुपहतो ज्ञानयोगः कर्मयोगश्च तद्युक्तेन समाधिना यस्य भगवतः पदवीं मार्ग मृगयन्तोऽपि मुनयो बहुजन्मभिरपि न विदुः स देवो भगवान् दुराराध्यो मम मत इति पूर्वेण सम्बन्धः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
अतो निवर्ततामेष निर्बन्धस्तव निष्फलः।
यतिष्यति भवान् काले श्रेयसां समुपस्थिते॥
मूलम्
त62तो निवर्ततामेष निर्बन्धस्तव निष्फलः।
यतिष्यति भवान् काले श्रेयसां समुपस्थिते॥ ३२ ॥
अनुवाद (हिन्दी)
इसलिये तू यह व्यर्थका हठ छोड़ दे और घर लौट जा; बड़ा होनेपर जब परमार्थ-साधनका समय आवे, तब उसके लिये प्रयत्न कर लेना॥ ३२॥
वीरराघवः
अतो देवस्यापि दुराराध्यत्वाद्धेतोः निवर्ततां गृहान् प्रतियातु भवान् तवैष निर्बन्धः 63उद्यमरूपो निर्बन्धः63 निष्फलः अ64नर्थकः । अयतमानस्य मम कथं श्रेयः प्राप्तिरित्याशङ्कमानं प्रत्याह - यतिष्यतीति । दैवात् श्रेयसां काले समुपस्थिते भवान् यतिष्यति यत्नं करिष्यती65ति अधुना तु उद्यमो निष्फल इति भावः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
यस्य यद् दैवविहितं स तेन सुखदुःखयोः।
आत्मानं तोषयन्देही तमसः पारमृच्छति॥
मूलम्
यस्य यद् दैवविहितं स तेन सुखदुःखयोः।
आत्मानं तोषयन् देही तमसः पारमृच्छति॥ ३३ ॥
अनुवाद (हिन्दी)
विधाताके विधानके अनुसार सुख-दुःख जो कुछ भी प्राप्त हो, उसीमें चित्तको सन्तुष्ट रखना चाहिये। यों करनेवाला पुरुष मोहमय संसारसे पार हो जाता है॥ ३३॥
वीरराघवः
किञ्च यस्य पुंसः यत् सुखं दुःखं वा दैवेनेश्वरेण विहितं स पुमान् दैवविहितयोः सुखदुःखयोर्मध्ये तेन दैवविहितेन सुखेन दुःखेन वा आत्मानं तोषयन् सुखे सति पुण्यं क्षीयते असुखे त्वपुण्यम् । अतः पुण्यापुण्यक्षयेन संस्कृतेर्मोक्षः इत्यात्मानं तोषयन्नित्यर्थः । देही देहवान् तमसः पारं प्रकृतिमण्डलातीतं विष्णोः पदमृच्छति याति ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
गुणाधिकान्मुदं लिप्सेदनुक्रोशं गुणाधमात्।
मैत्रीं समानादन्विच्छेन्न तापैरभिभूयते॥
मूलम्
गुणाधिकान्मुदं लिप्सेदनुक्रोशं गुणाधमात्।
मैत्रीं समानादन्विच्छेन्न तापैरभिभूयते॥ ३४ ॥
अनुवाद (हिन्दी)
मनुष्यको चाहिये कि अपनेसे अधिक गुणवान् को देखकर प्रसन्न हो; जो कम गुणवाला हो, उसपर दया करे और जो अपने समान गुणवाला हो, उससे मित्रताका भाव रखे। यों करनेसे उसे दुःख कभी नहीं दबा सकते॥ ३४॥
वीरराघवः
अपि च यः पुमान् गुणैरधिकः स्वापेक्षयाधिकस्तस्मात् । इयं ल्यब्लोपे पञ्चमी, गुणाधिकं दृष्ट्वेत्यर्थः । मुदं लिप्सेत् लब्धुमिच्छेत् प्रीतिं कुर्यात् न त्वसूयामित्यर्थः । गुणाधमात् गुणाधमं वीक्ष्य अनुक्रोशं कृपां लिप्सेन्न तु तिरस्कारं, समान्मैत्रीं न तु स्पर्धां, तापैराध्यात्मिकादितापैः नाभिभूयते तापत्रयाभिहतो न भवतीत्यर्थः ॥ ३४ ॥
श्लोक-३५
मूलम् (वचनम्)
ध्रुव उवाच
विश्वास-प्रस्तुतिः
सोऽयं शमो भगवता सुखदुःखहतात्मनाम्।
दर्शितः कृपया पुंसां दुर्दर्शोऽस्मद्विधैस्तु यः॥
मूलम्
सोऽयं शमो भगवता सुखदुःखहतात्मनाम्।
दर्शितः कृपया पुंसां दुर्दशोऽस्मद्विधैस्तु यः॥ ३५ ॥
अनुवाद (हिन्दी)
ध्रुवने कहा—भगवन्! सुख-दुःखसे जिनका चित्त चंचल हो जाता है, उन लोगोंके लिये आपने कृपा करके शान्तिका यह बहुत अच्छा उपाय बतलाया। परन्तु मुझ-जैसे अज्ञानियोंकी दृष्टि यहाँतक नहीं पहुँच पाती॥ ३५॥
वीरराघवः
एवं नारदेनोपदिष्टक्रमो ध्रुवः स्वमनीषितेऽविचाल्यमतिः तद्दर्शनं तदुक्तिं चाभिनन्दन् 66तं प्रत्याह - सोऽयमिति चतुर्भिः । भगवता 67त्वया सुखदुःखाभ्यां हतः पराभूतः आत्मा मनो येषां तेषां पुंसामस्माकं सोऽयं शमः मनः प्रशान्त्युपायः कृपया दर्शितः ज्ञापितः यो भगवान् त्वमस्मद्विधैः मादृशैः दुर्दर्शः द्रष्टुमशक्यः, यद्वा यः शमः अस्मद्विधैर्दुर्दर्शः ज्ञातुमशक्य इति शमप्रशंसा68 ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
अथापि मेऽविनीतस्य क्षात्त्रं घोरमुपेयुषः।
सुरुच्या दुर्वचोबाणैर्न भिन्ने श्रयते हृदि॥
मूलम्
अथापि मेऽविनीतस्य क्षा69त्रधर्ममुपेयुषः।
सुरुच्या दुर्वचोबाणैर्न भिन्ने श्रयते हृदि॥ ३६ ॥
अनुवाद (हिन्दी)
इसके सिवा, मुझे घोर क्षत्रियस्वभाव प्राप्त हुआ है, अतएव मुझमें विनयका प्रायः अभाव है; सुरुचिने अपने कटुवचनरूपी बाणोंसे मेरे हृदयको विदीर्ण कर डाला है; इसलिये उसमें आपका यह उपदेश नहीं ठहर पाता॥ ३६॥
वीरराघवः
अथापि त्वयोपदिष्टशमस्यापि मम घोरं क्षात्रं स्वभावम् उपेयुषः प्राप्तवतोऽत एवाविनीतस्य सुरुच्याः दुर्वचांस्येव बाणास्तैर्भिन्ने हृदि न श्रयते शम इत्यनुषङ्गः, शमो न तिष्ठतीत्यर्थः ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे।
ब्रूह्यस्मत्पितृभिर्ब्रह्मन्नन्यैरप्यनधिष्ठितम्॥
मूलम्
पदं त्रिभुवनोत्कृष्टं जिगीषोस्साधु वर्त्म मे।
ब्रूह्यस्मत्पितृभिर्ब्रह्म70न्नन्यैरप्यनधिष्ठितम्॥ ३७ ॥
अनुवाद (हिन्दी)
ब्रह्मन्! मैं उस पदपर अधिकार करना चाहता हूँ, जो त्रिलोकीमें सबसे श्रेष्ठ है तथा जिसपर मेरे बाप-दादे और दूसरे कोई भी आरूढ़ नहीं हो सके हैं। आप मुझे उसीकी प्राप्तिका कोई अच्छा-सा मार्ग बतलाइये॥ ३७॥
वीरराघवः
अतो मन्मनीषानुसारेणैव मामनुगृह्य मनीषितोपायप्रकारं ब्रूहीत्याह - पदमिति । अस्मत्पितृभिस्तेभ्योऽन्यैरप्यनधिष्ठितं त्रिभुवनोत्कृष्टं पदं जेतुमिच्छोर्मे साधु वर्त्म मार्गं ब्रूहि ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
नूनं भवान् भगवतो योऽङ्गजः परमेष्ठिनः।
वितुदन्नटते वीणां हितार्थं जगतोऽर्कवत्॥
अनुवाद (हिन्दी)
आप भगवान् ब्रह्माजीके पुत्र हैं और संसारके कल्याणके लिये ही वीणा बजाते सूर्यकी भाँति त्रिलोकीमें विचरा करते हैं॥ ३८॥
वीरराघवः
स्वोपदेशोल्लङ्घनान्मां निगृह्यादित्याशङ्क्य तं प्रसादयति - नूनमिति । भवान् परमेष्ठिनो ब्रह्मणः जगद्धितकारिणोऽङ्गजः देहजः । अङ्कज इति पाठे उत्सङ्गाज्जातः, वीणां वितुदन् ध्वनयन् जगतो हिताय सूर्यवदटति चरति, अतो मन्मनीषापादनमेव जगद्धितकारिणस्तवोचितमिति भावः ॥ ३८ ॥
श्लोक-३९
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
इत्युदाहृतमाकर्ण्य भगवान्नारदस्तदा।
प्रीतः प्रत्याह तं बालं सद्वाक्यमनुकम्पया॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—ध्रुवकी बात सुनकर भगवान् नारदजी बड़े प्रसन्न हुए और उसपर कृपा करके इस प्रकार सदुपदेश देने लगे॥ ३९॥
वीरराघवः
एवं दृढसङ्कल्पस्य ध्रुवस्य वच आश्रुत्य तमनुगृह्णन् आह नारदः इत्याह मैत्रेयः । इति उक्तप्रकारेण उदीरितं गदितमाकर्ण्य भगवान्नारदः दृढसङ्कल्पदर्शनेन नितरां प्रीतः तं बालकं प्रति कृपया सद्वाक्यं हितवाक्यमाह ॥ ३९ ॥
श्लोक-४०
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते।
भगवान् वासुदेवस्तं भज तत्प्रवणात्मना॥
मूलम्
जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते।
भगवान् वासुदेव76स्तं भज तत्प्रवणात्मना॥ ४० ॥
अनुवाद (हिन्दी)
श्रीनारदजीने कहा—बेटा! तेरी माता सुनीतिने तुझे जो कुछ बताया है, वही तेरे लिये परम कल्याणका मार्ग है। भगवान् वासुदेव ही वह उपाय हैं, इसलिये तू चित्त लगाकर उन्हींका भजन कर॥ ४०॥
वीरराघवः
उक्तमेवाह - जनन्या इत्यादिना विरक्तश्चेदिन्द्रियरतावित्यन्तेन । तत्र तावद्भगवानेव भक्त्या प्रसन्नो धर्मादिपुरुषार्थचतुष्टयप्रदः ततः तद्भक्तिरेव कार्येति वदन्नुपासनोपयुक्तं देशमाचारं ध्ये77यस्य भगवतो ध्यानप्रकारं जप्यं मन्त्रं भगवत्सपर्याप्रकारमाहारनियमं च कथयन्नेवमाराधितो भगवानेव त्वत्समीहितमभिनिवर्तयतीत्याह । जनन्या सुनीत्या उक्तः यः पन्था उपायः स वै स एव ते तव निःश्रेयसाय निश्चितं श्रेयः निःश्रेयसं तस्मै भवति । जनन्य78भिहितोपाय एव त्वदभिप्रेतार्थसाधनमित्यर्थः । कोऽसौ जनन्याऽभिहितः पन्थाः तत्राह - भगवान् वासुदेव एव । अतस्तत्प्रवणात्मना भगवत्प्रवणचित्तेन तं भगवन्तं भज ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
धर्मार्थकाममोक्षाख्यं य इच्छेच्छ्रेय आत्मनः।
एकमेव हरेस्तत्र कारणं पादसेवनम्॥
मूलम्
धर्मार्थकाममोक्षाख्यं य इच्छेच्छ्रेय आत्मनः।
ए79कं ह्येव हरेस्तत्र कारणं पादसेवनम्॥ ४१ ॥
अनुवाद (हिन्दी)
जिस पुरुषको अपने लिये धर्म, अर्थ, काम और मोक्षरूप पुरुषार्थकी अभिलाषा हो, उसके लिये उनकी प्राप्तिका उपाय एकमात्र श्रीहरिके चरणोंका सेवन ही है॥ ४१॥
वीरराघवः
भगवान् वासुदेव एव इत्येतदेव प्रपञ्चयति - धर्मे80त्यादिना । यः पुमान् धर्माद्यन्यतमं श्रेयः आत्मनः स्वस्य इच्छेत् तत्र हरेः पादसेवनमेकमेव कारणमुपायः ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि।
पुण्यं मधुवनं यत्र सांनिध्यं नित्यदा हरेः॥
मूलम्
तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि।
पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः॥ ४२ ॥
अनुवाद (हिन्दी)
बेटा! तेरा कल्याण होगा, अब तू श्रीयमुनाजीके तटवर्ती परम पवित्र मधुवनको जा। वहाँ श्रीहरिका नित्य-निवास है॥ ४२॥
वीरराघवः
तत्तस्माद्भगवत्पादसेवनस्यैव धर्मादिसाधनत्वात् हे तात! यमुनायाः शुचि शुद्धं तटं तीरं गच्छ, ते तव भद्रं मङ्गलमस्तु । तटं विशिनष्टि - यत्र तटे पुण्यं पुण्यावहं मधुवनमस्ति । कथम्भूतं मधुवनम् ? सर्वदा हरेर्भगवतः सान्निध्यं सान्निध्यवत् । तटशब्दस्य तटस्थितमधुवने लक्षणा वा । तत्कथम्भूतं मधुवनम् ? यत्र मधुवने हरेः सान्निध्यमस्ति ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
स्नात्वानुसवनं तस्मिन् कालिन्द्याः सलिले शिवे।
कृत्वोचितानि निवसन्नात्मनः कल्पितासनः॥
मूलम्
स्नात्वानुसवनं तस्मिन् कालिन्द्याः सलिले शिवे।
कृत्वोचितानि 81निवसन्नात्मनः कल्पितास82नः॥ ४३ ॥
अनुवाद (हिन्दी)
वहाँ श्रीकालिन्दीके निर्मल जलमें तीनों समय स्नान करके नित्यकर्मसे निवृत्त हो यथाविधि आसन बिछाकर स्थिरभावसे बैठना॥ ४३॥
वीरराघवः
कालिन्द्याः यमुनायाः शिवे मङ्गले सलिले त्रिषवणं स्नात्वा तत्र वने आत्मनः स्वस्य उचितानि योग्यानि देवतानमस्कारादीनि कृत्वा कुशादिभिः स्वस्तिकादिभिश्च कल्पितमासनं यस्य सः 83निविशन् उपाविशन् ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम्।
शनैर्व्युदस्याभिध्यायेन्मनसा गुरुणा गुरुम्॥
मूलम्
प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम्।
शनैर्व्युदस्याभिध्यायेन्मनसा 84गुरुणा गुरुम्॥ ४४ ॥
अनुवाद (हिन्दी)
फिर रेचक, पूरक और कुम्भक—तीन प्रकारके प्राणायामसे धीरे-धीरे प्राण, मन और इन्द्रियके दोषोंको दूरकर धैर्ययुक्त मनसे परमगुरु श्रीभगवान्का इस प्रकार ध्यान करना॥ ४४॥
वीरराघवः
त्रिवृता त्रयाणां रेचकपूरककुम्भकानां वृत् वर्तनं यस्मिन् तेन प्राणायामेन, त्रिवृता प्रणवेन प्रणवानुसन्धानपूर्वकमिति वाऽर्थः । प्राणानामिन्द्रियाणां मनसश्च मलं चाञ्चल्यं शनैर्व्युदस्य अपोह्य गुरुणा श्रेष्ठेन प्राणायामैर्निर्मलेनेत्यर्थः, मनसा गुरुं भगवन्तं ध्यायेत् । अत्र उचितानि कृत्वेति यमनियमा उक्ताः । कल्पितासन इत्यासनम् । मलं व्युदस्येति प्राणायामप्रत्याहारौ ध्यायेत् 85गुरुम् इति ध्यानम् । धारणाप्यनेनैवोक्ता धारणापूर्वकत्वाद्ध्यानस्य, एवमष्टाङ्गयुक्तो योग उपदिष्टः ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
प्रसादाभिमुखं शश्वत्प्रसन्नवदनेक्षणम्।
सुनासं सुभ्रुवं चारुकपोलं सुरसुन्दरम्॥
मूलम्
प्रसादाभिमुखं शश्वत्प्रसन्नवदनेक्षणम्।
सुनासं सुभ्रुवं चारुकपोलं सु86रसुन्दरम्॥ ४५ ॥
अनुवाद (हिन्दी)
भगवान्के नेत्र और मुख निरन्तर प्रसन्न रहते हैं; उन्हें देखनेसे ऐसा मालूम होता है कि वे प्रसन्नतापूर्वक भक्तको वर देनेके लिये उद्यत हैं। उनकी नासिका, भौंहें और कपोल बड़े ही सुहावने हैं; वे सभी देवताओंमें परम सुन्दर हैं॥ ४५॥
वीरराघवः
ध्येयं गुरुं विशिनष्टि - प्रसादेति । शश्वत् सदा प्रसादे अनुग्रहे अभिमुखं प्रसन्नं वदनमीक्षणे च यस्य तं, शोभना नासिका यस्य, शोभने भ्रुवौ यस्य, चारू सुन्दरौ कपोलौ यस्य, सुरसुन्दरं देववत्सुन्दरं सुरेभ्योऽपि सुन्दरमिति वा ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
तरुणं रमणीयाङ्गमरुणोष्ठेक्षणाधरम्।
प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम्॥
अनुवाद (हिन्दी)
उनकी तरुण अवस्था है; सभी अंग बड़े सुडौल हैं; लाल-लाल होठ और रतनारे नेत्र हैं। वे प्रणतजनोंको आश्रय देनेवाले, अपार सुखदायक, शरणागतवत्सल और दयाके समुद्र हैं॥ ४६॥
वीरराघवः
तरुणं बालं रमणीयान्यङ्गानि यस्य तम् । अधरोष्ठेक्षणारुणम् अधरोष्ठौ ईक्षणे चारुणे यस्य तम् अरुणोष्ठेक्षणाधरमिति पाठान्तरम् । तदा अरुणमोष्ठमीक्षणे चाधारयतीति तं प्रणतैर्भक्तैराश्रयणमाश्रयणीयं नृम्णं सुखरूपं 89यद्वा नृम्णं89 धनं सर्वपुरुषार्थनिधिमित्यर्थः । शरण्यं समीहितोपायत्वेनाध्यवसनीयं करुणानिधिम् ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
श्रीवत्साङ्कं घनश्यामं पुरुषं वनमालिनम्।
शङ्खचक्रगदापद्मैरभिव्यक्तचतुर्भुजम्॥
मूलम्
श्रीवत्साङ्गं घनश्यामं पुरुषं वनमालिनम्।
शङ्खचक्रगदापद्मैरभिव्यक्तचतुर्भुजम्॥ ४७ ॥
अनुवाद (हिन्दी)
उनके वक्षःस्थलमें श्रीवत्सका चिह्न है; उनका शरीर सजल जलधरके समान श्यामवर्ण है; वे परम पुरुष श्यामसुन्दर गलेमें वनमाला धारण किये हुए हैं और उनकी चार भुजाओंमें शंख, चक्र, गदा एवं पद्म सुशोभित हैं॥ ४७॥
वीरराघवः
श्रीवत्समङ्कं चिह्नं यस्य, घनश्यामं नीलाम्बुदश्यामं पुरुषं पुरुषलक्षणयुक्तं, वनमालाऽस्याऽस्तीति वनमाली तं, शङ्कादिभिरभिव्यक्ताः शोभमानाश्चत्वारो भुजा यस्य तम् ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
किरीटिनं कुण्डलिनं केयूरवलयान्वितम्।
कौस्तुभाभरणग्रीवं पीतकौशेयवाससम्॥
मूलम्
किरीटिनं कुण्डलिनं केयूरवलयान्वितम्।
कौस्तुभाभरणग्रीवं पीतकौशेयवाससम्॥ ४८ ॥
अनुवाद (हिन्दी)
उनके अंग-प्रत्यंग किरीट, कुण्डल, केयूर और कंकणादि आभूषणोंसे विभूषित हैं; गला कौस्तुभमणिकी भी शोभा बढ़ा रहा है तथा शरीरमें रेशमी पीताम्बर है॥ ४८॥
वीरराघवः
किरीटमस्यास्तीति तं कुण्डले अस्य स्तः इति तं, केयूराभ्यां वलयाभ्यां च युक्तं कौस्तुभाख्यमाभरणं ग्रीवायां यस्य तं, पीतं कौशेयं वासो वस्त्रं यस्य तम् ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
काञ्चीकलापपर्यस्तं लसत्काञ्चननूपुरम्।
दर्शनीयतमं शान्तं मनोनयनवर्धनम्॥
मूलम्
काञ्चीकलापपर्यस्तं लसत्काञ्चननूपुरम्।
दर्शनीयतमं शान्तं मनोनयनवर्धनम्॥ ४९ ॥
अनुवाद (हिन्दी)
उनके कटिप्रदेशमें कांचनकी करधनी और चरणोंमें सुवर्णमय नूपुर (पैजनी) सुशोभित हैं। भगवान्का स्वरूप बड़ा ही दर्शनीय, शान्त तथा मन और नयनोंको आनन्दित करनेवाला है॥ ४९॥
वीरराघवः
काञ्चीकलापेन पर्यस्तं परिवेष्टितं लसत्काञ्चने नूपुरे यस्य तम् । अतिशयेन द्रष्टुं योग्यं शान्तम् अनुग्रं ध्यातॄणां मनसो नयनयोश्च वर्धनं हर्षकरम् ॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
पद्भ्यां नखमणिश्रेण्या विलसद्भ्यां समर्चताम्।
हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यवस्थितम्॥
मूलम्
पद्भ्यां नखमणिश्रेण्या विलसद्भ्यां सम90र्चताम्।
हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यवस्थितम्॥ ५० ॥
अनुवाद (हिन्दी)
जो लोग प्रभुका मानस-पूजन करते हैं, उनके अन्तःकरणमें वे हृदयकमलकी कर्णिकापर अपने नख-मणिमण्डित मनोहर पादारविन्दोंको स्थापित करके विराजते हैं॥ ५०॥
वीरराघवः
नखा एव मणयस्तेषां श्रेण्या पङ्क्त्या विलसद्भ्यां 91पद्भ्यां युक्तं समर्चतां हृत्पद्मकर्णिका92याः धिष्ण्यं मध्यस्थानं तदाक्रम्य अर्चताम् आत्मनि स्थितम् ॥ ५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
स्मयमानमभिध्यायेत्सानुरागावलोकनम्।
नियतेनैकभूतेन मनसा वरदर्षभम्॥
अनुवाद (हिन्दी)
इस प्रकार धारणा करते-करते जब चित्त स्थिर और एकाग्र हो जाय तब उन वरदायक प्रभुका मन-ही-मन इस प्रकार ध्यान करे कि वे मेरी ओर अनुरागभरी दृष्टिसे निहारते हुए मन्द-मन्द मुसकरा रहे हैं॥ ५१॥
वीरराघवः
स्मयमानमीषद्धसन्तम् अनुरागयुक्तोऽवलोको यस्य, पुरुषोत्तमं नियतेन विजातीयप्रत्ययरहितेन एकभूतेन एकाग्रेण मनसा 95अभिद्यायेत् अभितः पादादिशिरःप्रभृति 96ध्यायेत् ॥ ५१ ॥
श्लोक-५२
विश्वास-प्रस्तुतिः
एवं भगवतो रूपं सुभद्रं ध्यायतो मनः।
निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते॥
मूलम्
एवं भगवतो रूपं सुभद्रं ध्यायतो मनः।
निर्वृत्या परया तू97र्णं सम्पन्नं न निवर्तते॥ ५२ ॥
अनुवाद (हिन्दी)
भगवान्की मंगलमयी मूर्तिका इस प्रकार निरन्तर ध्यान करनेसे मन शीघ्र ही परमानन्दमें डूबकर तल्लीन हो जाता है और फिर वहाँसे लौटता नहीं॥ ५२॥
वीरराघवः
एवं ध्येयमाकारमभिधायेदृशशुभाश्रयध्यानसुखितं मनः ततः तूर्णं न निवर्तयेदित्याह - एवमिति । सुभद्रं निरतिशयमङ्गलगुणाकरं ध्यानविषयं भगवतो रूपमभिध्यायेदिति शेषः । परया निर्वृत्या निरतिशयेन सुखेन सम्पन्नं युक्तं मन इति शेषः, तूर्णं न निवर्तते । यद्वा परया निर्वृत्त्या सम्पन्नं मनस्तूर्णं यथा न निवर्तते तथा भगवतो रूपं ध्यायेदिति क्रियाविशेषणत्वानुषङ्गाभ्यां योजनीयम् ॥ ५२ ॥
श्लोक-५३
विश्वास-प्रस्तुतिः
जप्यश्च परमो गुह्यः श्रूयतां मे नृपात्मज।
यं सप्तरात्रं प्रपठन् पुमान् पश्यति खेचरान्॥
मूलम्
98जप्यश्च परमो गुह्यः श्रूयतां मे नृपात्मज!
यं सप्तरात्रं प्रपठन् पुमान् पश्यति खेचरान्॥ ५३ ॥
अनुवाद (हिन्दी)
राजकुमार! इस ध्यानके साथ जिस परम गुह्य मन्त्रका जप करना चाहिये, वह भी बतलाता हूँ—सुन। इसका सात रात जप करनेसे मनुष्य आकाशमें विचरनेवाले सिद्धोंका दर्शन कर सकता है॥ ५३॥
वीरराघवः
एवमष्टाङ्गयुक्तं भक्तियोगमभिधाय तदनुग्राहिकां द्रव्यमयीं सपर्यामभिधास्यन्, तदुपयुक्तं जप्यं मन्त्रं सप्रभावमाह - जप्यश्चेति । हे नृपात्मज ! परमो निरतिशयः अत एव गुह्यो गोपनीयः मन्त्रः मे मत्तः श्रूयतां यं मन्त्रं पुमान् सप्तरात्रं प्रपठन् 99प्रजपन् खेचरान् पश्यति ॥ ५३ ॥
श्लोक-५४
विश्वास-प्रस्तुतिः
‘‘ॐ नमो भगवते वासुदेवाय’’।
मन्त्रेणानेन देवस्य कुर्याद् द्रव्यमयीं बुधः।
सपर्यां विविधैर्द्रव्यैर्देशकालविभागवित्॥
मूलम्
‘‘ॐ नमो भगवते वासुदेवाय’’।
मन्त्रेणानेन देवस्य कुर्यात् दण्डमयीं बुधः।
सपर्यां विविधैर्द्रव्यैः देशकालविभागवित्॥ ५४ ॥
अनुवाद (हिन्दी)
वह मन्त्र है—‘ॐ नमो भगवते वासुदेवाय’। किस देश और किस कालमें कौन वस्तु उपयोगी है—इसका विचार करके बुद्धिमान् पुरुषको इस मन्त्रके द्वारा तरह-तरहकी सामग्रियोंसे भगवान्की द्रव्यमयी पूजा करनी चाहिये॥ ५४॥
वीरराघवः
कोऽसौ मनुरित्य100त्र आह - ओमिति । अयं वासुदेवद्वादशाक्षरो मन्त्रः, अस्यार्थस्तु सम्प्रदायतोऽवमन्तव्यः । एतन्मन्त्रपूर्वकद्रव्यमयीमर्चामाह - मन्त्रेणेति । देवस्य अनेन मन्त्रेण नानाविधैर्द्रव्यैः द्रव्यमयीं द्रव्यप्रचुरां सपर्यां देशकालयोः सपर्योपयुक्तानुपयुक्तदेशकालयोः विभागं वेत्तीति देशकालविभागवित् कुर्यात् सपर्योपयुक्तो देशः चण्डालपतितयवनाद्यसेवितः, कालस्तु प्रातर्मध्यन्दिनसायाह्लादिरूपः, तदितरावनुपयुक्तौ देशकालौ ॥ ५४ ॥
श्लोक-५५
विश्वास-प्रस्तुतिः
सलिलैः शुचिभिर्माल्यैर्वन्यैर्मूलफलादिभिः।
शस्ताङ्कुरांशुकैश्चार्चेत्तुलस्या प्रियया प्रभुम्॥
मूलम्
सलिलैः शुचिभिर्माल्यैः वन्यैर्मूलफलादिभिः।
101शस्ताङ्कु102रांशुकै103श्चार्चेत् तुलस्या प्रियया प्रभुम्॥ ५५ ॥
अनुवाद (हिन्दी)
प्रभुका पूजन विशुद्ध जल, पुष्पमाला, जंगली मूल और फलादि, पूजामें विहित दूर्वादि अंकुर, वनमें ही प्राप्त होनेवाले वल्कल वस्त्र और उनकी प्रेयसी तुलसीसे करना चाहिये॥ ५५॥
वीरराघवः
द्रव्याण्याह - सलिलैरिति । शुचिभिरिति सलिलादिभिः सर्वैरन्वेति । वन्यैः वनेषु भवैः शस्ताङ्कुरांशकैः प्रशस्तैर्दूर्वाद्यङ्कुरैर्वन्यैरेवांशुकैः भूर्जत्वगादिभिश्च प्रियया भगवतः प्रीतिविषयया तुलस्या हरिमर्चयेत् आराधयेत् ॥ ५५ ॥
श्लोक-५६
विश्वास-प्रस्तुतिः
लब्ध्वा द्रव्यमयीमर्चां क्षित्यम्ब्वादिषु वार्चयेत्।
आभृतात्मा मुनिः शान्तो यतवाङ्मितवन्यभुक्॥
मूलम्
लब्ध्वा द्रव्यमयीमर्चां क्षित्यम्ब्वादिषु 104चार्चयेत्।
आ105हृतात्मा मुनिः शान्तो यतवाङ्मितवन्यभुक्॥ ५६ ॥
अनुवाद (हिन्दी)
यदि शिला आदिकी मूर्ति मिल सके तो उसमें, नहीं तो पृथ्वी या जल आदिमें ही भगवान्की पूजा करे। सर्वदा संयतचित्त, मननशील, शान्त और मौन रहे तथा जंगली फल-मूलादिका परिमित आहार करे॥ ५६॥
वीरराघवः
एवं द्रव्यमयीमर्चां लब्ध्वा सम्पाद्य क्षित्यम्ब्वादिषु चक्राब्जमण्डलादिभिरलङ्कृतायां क्षितौ गङ्गाजलादिषु आदिशब्दाद्विप्रादित्यमण्डलादिषु च अर्चयेत् । पूजासाद्गुण्यहेतूनाह सार्धाभ्याम् । 106आदृतात्मा आदृतचित्तः मुनिः ध्यानानुपयुक्तदशासु शुभाश्चर्यसंशीलनपरः शान्तः जितेन्द्रियः, यतवाक् मितभाषणः मितं यथा भवति तथा वन्यं भुङ्क्त इति तथा ॥ ५६ ॥
श्लोक-५७
विश्वास-प्रस्तुतिः
स्वेच्छावतारचरितैरचिन्त्यनिजमायया।
करिष्यत्युत्तमश्लोकस्तद्ध्यायेद्धृदयङ्गमम्॥
मूलम्
स्वेच्छावतार107चरितैः अचि108न्त्यं निजमायया।
करिष्यत्युत्तमश्लोकः 109तं ध्यायेद्धृदयङ्ग110मम्॥ ५७ ॥
अनुवाद (हिन्दी)
इसके सिवा पुण्यकीर्ति श्रीहरि अपनी अनिर्वचनीया मायाके द्वारा अपनी ही इच्छासे अवतार लेकर जो-जो मनोहर चरित्र करनेवाले हैं, उनका मन-ही-मन चिन्तन करता रहे॥ ५७॥
वीरराघवः
स्वेच्छावतारचरितैः स्वेच्छयैवोपात्ताः न तु कर्मणा ये 111अवताराः वराहादयः अवताराः तेषां चरितैः व्यापारैः निजमायया आत्मीयसङ्कल्पेन उत्तमश्लोको भगवान् यत् अचिन्त्यं कर्मवश्यदेवमनुष्यादिसजातीयत्वेन चिन्तयितुमशक्यं 112करोति साधुपरित्राणदुष्कृद्विनाशनादिकं करोति तं हृदयङ्गमं मनोहरं ध्यायेत् । तदानीमवतारप्राचुर्याभावात् करिष्यतीति भविष्यन्निर्देशः ॥ ५७ ॥
श्लोक-५८
विश्वास-प्रस्तुतिः
परिचर्या भगवतो यावत्यः पूर्वसेविताः।
ता मन्त्रहृदयेनैव प्रयुञ्ज्यान्मन्त्रमूर्तये॥
मूलम्
परिचर्या भगवतो याव113त्यः पूर्वसेविताः।
ता मन्त्रहृदयेनैव प्र114युञ्ज्यान्मन्त्रमूर्तये॥ ५८ ॥
अनुवाद (हिन्दी)
प्रभुकी पूजाके लिये जिन-जिन उपचारोंका विधान किया गया है, उन्हें मन्त्रमूर्ति श्रीहरिको द्वादशाक्षर मन्त्रके द्वारा ही अर्पण करे॥ ५८॥
वीरराघवः
यावत्यो भगवतः परिचर्याः पूर्वं सेविताः सेवनं कारिताः कार्यत्वेन विवक्षितास्ताः सर्वा मन्त्रहृदयेनैव द्वादशाक्षरमन्त्रानुसन्धानयुक्तमनसैव मन्त्रः मूर्तिर्विग्रहो यस्य तस्मै भगवते प्रयुञ्ज्यात् युक्ताः कुर्यात् ॥ ५८ ॥
श्लोक-५९
विश्वास-प्रस्तुतिः
एवं कायेन मनसा वचसा च मनोगतम्।
परिचर्यमाणो भगवान् भक्तिमत्परिचर्यया॥
मूलम्
एवं कायेन मनसा वचसा च मनो115गतम्।
परिचर्यमाणो भगवान् भक्तिमत्परिचर्यया॥ ५९ ॥
श्लोक-६०
विश्वास-प्रस्तुतिः
पुंसाममायिनां सम्यग्भजतां भाववर्धनः।
श्रेयो दिशत्यभिमतं यद्धर्मादिषु देहिनाम्॥
मूलम्
पुंसाममायिनां सम्यग्भजतां भाववर्धनः।
श्रेयो दिशत्यभिमतं यद्धर्मादिषु देहिनाम्॥ ६० ॥
अनुवाद (हिन्दी)
इस प्रकार जब हृदयस्थित हरिका मन, वाणी और शरीरसे भक्तिपूर्वक पूजन किया जाता है, तब वे निश्छलभावसे भलीभाँति भजन करनेवाले अपने भक्तोंके भावको बढ़ा देते हैं और उन्हें उनकी इच्छाके अनुसार धर्म, अर्थ, काम अथवा मोक्षरूप कल्याण प्रदान करते हैं॥ ५९-६०॥
वीरराघवः
एवमाराधितो भगवान् आराधकानां समीहितधर्मादिश्रेयो दिशतीत्याह - एवमिति द्वाभ्याम् । अमायिनामवञ्चकानाम् अत एव सम्यक् भजतां कर्मायत्तदेहभृतां पुंसां मानवर्धनः सम्मानकारी भगवान् भक्तिमती या परिचर्या तथा परिचर्यमाणः धर्मादिषु यदाराधकाभिमतं तच्छ्रेयो दिशतीत्युभयोरन्वयः ॥ ५९, ६० ॥
श्लोक-६१
विश्वास-प्रस्तुतिः
विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा।
तं निरन्तरभावेन भजेताद्धा विमुक्तये॥
मूलम्
विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा।
तं निरन्तरभावेन भजेताद्धा विमुक्तये॥ ६१ ॥
अनुवाद (हिन्दी)
यदि उपासकको इन्द्रियसम्बन्धी भोगोंसे वैराग्य हो गया हो तो वह मोक्षप्राप्तिके लिये अत्यन्त भक्तिपूर्वक अविच्छिन्नभावसे भगवान्का भजन करे॥ ६१॥
वीरराघवः
एवं धर्मादिसाधारण्येन तत्साधनभूता भक्तिरभिहिता । तत्र मुक्तिसाधनभूतायां भक्त्यां विशेषं वदन् उपसंहरति - विरक्त इति । इन्द्रियरतौ इन्द्रियसाध्यक्रीडायां विरक्तः निरन्तरभावेन विजातीयप्रत्ययान्तराव्यवहितप्रत्ययेन भूयसा बह्वङ्गोपकृतेनाऽऽप्रयाणादनुवर्तमानेन भक्तियोगेन प्रेमात्मकानुध्यानरूपेण “प्रीतिपूर्वमनुध्यानं भक्तिरित्यभिधीयते” इति हि स्मृतिः । अत्र 116हि विरक्त इति । विमोकोक्त्या साधनसप्तकं विवक्षितम् । भूयसेत्यनेन ज्ञानयोगशमदमबाल्यपाण्डित्यमौनादयो विवक्षिताः । एवम्भूतेन भक्तियोगेन विमुक्तये तं भगवन्तम् अद्धा साक्षात् भजेत् । अद्धेत्यनेन सद्वारकोपासनं व्यावर्तितम् ॥ ६१ ॥
श्लोक-६२
विश्वास-प्रस्तुतिः
इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भकः।
ययौ मधुवनं पुण्यं हरेश्चरणचर्चितम्॥
मूलम्
इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भकः।
ययौ मधुवनं पुण्यं हरेश्चरणचर्चितम्॥ ६२ ॥
अनुवाद (हिन्दी)
श्रीनारदजीसे इस प्रकार उपदेश पाकर राजकुमार ध्रुवने परिक्रमा करके उन्हें प्रणाम किया। तदनन्तर उन्होंने भगवान्के चरणचिह्नोंसे अंकित परम पवित्र मधुवनकी यात्रा की॥ ६२॥
वीरराघवः
एवमुपदिष्टभगवदाराधनप्रकारो ध्रुवो मधुवनं गतवानिति वदन् अन्तरा नारदोत्तानपादयोः संवादमाह - इतीत्यादिना । इत्युक्तरीत्या उक्तः नृपार्भको ध्रुवः तं नारदं परिक्रम्य प्रदक्षिणीकृत्य प्रणम्य च हरेः भगवतश्चरणाभ्यां चर्चितं सञ्चारितम् अत एव पुण्यं मधुवनं ययौ ॥ ६२ ॥
श्लोक-६३
विश्वास-प्रस्तुतिः
तपोवनं गते तस्मिन्प्रविष्टोऽन्तःपुरं मुनिः।
अर्हितार्हणको राज्ञा सुखासीन उवाच तम्॥
मूलम्
तपोवनं गते तस्मिन् प्रविष्टोऽन्तः पुरं मुनिः।
अ117भ्यर्हितार्हणको राज्ञा सुखासीन उवाच ह118॥ ६३ ॥
अनुवाद (हिन्दी)
ध्रुवके तपोवनकी ओर चले जानेपर नारदजी महाराज उत्तानपादके महलमें पहुँचे। राजाने उनकी यथायोग्य उपचारोंसे पूजा की; तब उन्होंने आरामसे आसनपर बैठकर राजासे पूछा॥ ६३॥
वीरराघवः
तस्मिन् ध्रुवे तपोवनं गते सति मुनिर्नारदः अन्तःपुरं प्रविष्टः राज्ञा उत्तानपादेन अभ्यर्हितं सत्कृत्य समर्पितमर्हणमर्घ्यादिकं यस्य सः । सुखासीनः सुखावहे आसने यथासुखमासीनो नारद उवाच ॥ ६३ ॥
श्लोक-६४
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता।
किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः॥
मूलम्
राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता।
किं वा न रिष्यते कामो धर्मो वाऽर्थेन संयुतः॥ ६४ ॥
अनुवाद (हिन्दी)
श्रीनारदजीने कहा—राजन्! तुम्हारा मुख सूखा हुआ है, तुम बड़ी देरसे किस सोच-विचारमें पड़े हो? तुम्हारे धर्म, अर्थ और काममेंसे किसीमें कोई कमी तो नहीं आ गयी?॥ ६४॥
वीरराघवः
हे राजन् ! परितः शुष्यता मुखेन दीर्घं किं ध्यायसे ? अर्थेन संयुतः सहितः कामो धर्मश्च । चशब्दो वाशब्दार्थः । धर्मो वा किं 119वा न रिष्य120ते ? न नश्यतीति सवितर्कः प्रश्नः ॥ ६४ ॥
श्लोक-६५
मूलम् (वचनम्)
121राजोवाच
विश्वास-प्रस्तुतिः
सुतो मे बालको ब्रह्मन् स्त्रैणेनाकरुणात्मना।
निर्वासितः पञ्चवर्षः सह मात्रा महान्कविः॥
मूलम्
सुतो मे बालको ब्रह्मन् स्त्रैणेनाकरुणात्मना।
निर्वासितः पञ्चवर्षः सह मात्रा महान् कविः॥ ६५ ॥
अनुवाद (हिन्दी)
राजाने कहा—ब्रह्मन्! मैं बड़ा ही स्त्रैण और निर्दय हूँ। हाय, मैंने अपने पाँच वर्षके नन्हेसे बच्चेको उसकी माताके साथ घरसे निकाल दिया। मुनिवर! वह बड़ा ही बुद्धिमान् था॥ ६५॥
वीरराघवः
एवमुक्तो राजाऽऽह - सुत इति । हे ब्रह्मन् ! स्त्रैणेन स्त्रीषु भवः स्त्रैणः स्त्रीणामयमिति वा, स्त्र्यधीनेन स्त्री122भिर्जितेनेति यावत्, अत एव अकरुणात्मना करुणारहितचित्तेन मया मे मम सुतः, 123सुतः इत्यनेन अपरित्याज्यता गम्यते, पञ्चवर्ष इत्यनेन नितरां, मात्रा सह निर्वासितः । तस्या अप्यनादृतत्वेन निर्वासितप्रायत्वात् मात्रा सह इत्युक्तिः । तथा च भार्यापुत्रयोरपरित्याज्यता स्मृता “वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्यामनुरब्रवीत्" (मनु.स्मृ. अधिक पाठ. 11-1) इति । ननु “त्यजेदेकं कुलस्यार्थे” (चाणक्यनीतिः 2-10) इत्युक्तरीत्या उत्पथश्चेत् सुतोऽपि त्याज्य एव । तत्राह महान्कविः । महान् विनयादिगुणसम्पन्नः कविर्बुद्धिमान् ॥ ६५ ॥
श्लोक-६६
विश्वास-प्रस्तुतिः
अप्यनाथं वने ब्रह्मन् मास्मादन्त्यर्भकं वृकाः।
श्रान्तं शयानं क्षुधितं परिम्लानमुखाम्बुजम्॥
मूलम्
अप्यनाथं वने ब्रह्मन्मा124स्मादन्त्यर्भकं वृकाः।
125श्रान्तं शयानं क्षुधितं परिम्लानमुखाम्बुजम्॥ ६६ ॥
अनुवाद (हिन्दी)
उसका कमल-सा मुख भूखसे कुम्हला गया होगा, वह थककर कहीं रास्तेमें पड़ गया होगा। ब्रह्मन्! उस असहाय बच्चेको वनमें कहीं भेड़िये न खा जायँ॥ ६६॥
वीरराघवः
हे ब्रह्मन् ! वने क्षुधितं श्रान्तम् अत 126एव परितः परिम्लानं मुखाम्बुजं यस्य अत एव शयानमर्भकमनाथं रक्षकहीनं 127वृकाः मा स्मादन्त्यपि मा स्म खादन्ति किंस्विदित्यर्थः ॥ ६६ ॥
श्लोक-६७
विश्वास-प्रस्तुतिः
अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय।
योऽङ्कं प्रेम्णाऽऽरुरुक्षन्तं नाभ्यनन्दमसत्तमः॥
मूलम्
अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय।
योऽङ्कं प्रेम्णाऽऽरुरुक्षन्तं नाभ्यनन्दमसत्तमः॥ ६७ ॥
अनुवाद (हिन्दी)
अहो! मैं कैसा स्त्रीका गुलाम हूँ! मेरी कुटिलता तो देखिये—वह बालक प्रेमवश मेरी गोदमें चढ़ना चाहता था, किन्तु मुझ दुष्टने उसका तनिक भी आदर नहीं किया॥ ६७॥
वीरराघवः
आत्मानं निन्दति - अहो इति । स्त्रिया जितस्य मे मम दौरात्म्यम् 128अवधारय निश्चिनु । अहो बतेति खेदे । दौरात्म्यं दर्शयति -योऽहमसत्तमः अङ्कमारुरुक्षन्तम् आरोढुमिच्छन्तं सुतं प्रेम्णा नाभ्यनन्दं नाभिनन्दितवानस्मि ॥ ६७ ॥
श्लोक-६८
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
मा मा शुचः स्वतनयं देवगुप्तं विशाम्पते।
तत्प्रभावमविज्ञाय प्रावृङ्क्ते यद्यशो जगत्॥
मूलम्
मा मा 129शुचस्व तनयं देवगुप्तं विशाम्पते।
तत्प्रभावमविज्ञाय प्रावृङ्क्ते यद्यशो जगत्॥ ६८ ॥
अनुवाद (हिन्दी)
श्रीनारदजीने कहा—राजन्! तुम अपने बालककी चिन्ता मत करो। उसके रक्षक भगवान् हैं। तुम्हें उसके प्रभावका पता नहीं है, उसका यश सारे जगत्में फैल रहा है॥ ६८॥
वीरराघवः
एवमुक्तो नारदः तमाश्वासयन्नाह - मेति । हे विशाम्पते ! मनुजपते ! दैवगुप्तमिति हेतुगर्भम् । दैवेन ईश्वरेण गुप्तत्वात् रक्षितत्वात् तनयं प्रति तस्य तनयस्य प्रभावमविज्ञाय अज्ञात्वा, अविज्ञायेत्यत्र क्त्वान्तस्य वीत्युपसर्गेण समासे क्त्वो ल्यबादेशे च पश्चात् नञा समासः अतः “अनञ्पूर्वे” इति न ल्यब्निषेधः । मा मा 130शुचस्व मा शुचस्व130 इत्यर्थः वीप्सातात्पर्येण माङो द्विरुक्तस्य प्रयोगः । प्रभावमेव विवृणोति । प्रावृङ्क्ते इति सपादेन श्लोकेन 131यत् यस्य तव पुत्रस्य यशः जगत् प्रावृङ्क्ते व्याप्नोति ॥ ६८ ॥
श्लोक-६९
विश्वास-प्रस्तुतिः
सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः।
ऐष्यत्यचिरतो राजन् यशो विपुलयंस्तव॥
मूलम्
सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः।
132एष्यत्यचिरतो राजन् यशो विपुलयंस्तव॥ ६९ ॥
अनुवाद (हिन्दी)
वह बालक बड़ा समर्थ है। जिस कामको बड़े-बड़े लोकपाल भी नहीं कर सके, उसे पूरा करके वह शीघ्र ही तुम्हारे पास लौट आयेगा। उसके कारण तुम्हारा यश भी बहुत बढ़ेगा॥ ६९॥
वीरराघवः
प्रभुर्जितेन्द्रियो ध्रुवः लोकपालैः इन्द्रादिभिरपि सुदुष्करं कर्तुमशक्यं कर्म तपसा भगवत्तोषणपूर्वकसर्वोत्कृष्टपदसम्पादनरूपं कर्म कृत्वा अत एव च यशो विपुलयन् विस्तारयन् हे राजन् ! अचिरतः आशु एष्यति आगमिष्यति ॥ ६९ ॥
श्लोक-७०
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
इति देवर्षिणा प्रोक्तं विश्रुत्य जगतीपतिः।
राजलक्ष्मीमनादृत्य पुत्रमेवान्वचिन्तयत्॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—देवर्षि नारदजीकी बात सुनकर महाराज उत्तानपाद राजपाटकी ओरसे उदासीन होकर निरन्तर पुत्रकी ही चिन्तामें रहने लगे॥ ७०॥
वीरराघवः
एवं नारदेनाऽऽभाषितो राजा पुत्रमेवानुचिन्तयन्नासीदित्याह मैत्रेयः - इतीति । इति एवं देवर्षिणा नारदेन प्रोक्तं विमृश्य सविमर्शमाश्रुत्य जगतीपतिरुत्तानपादः राज्यलक्ष्मीमनादृत्य ध्रुवमेवान्वचिन्तयत् ॥ ७० ॥
श्लोक-७१
विश्वास-प्रस्तुतिः
तत्राभिषिक्तः प्रयतस्तामुपोष्य विभावरीम्।
समाहितः पर्यचरदृष्यादेशेन पूरुषम्॥
मूलम्
तत्राभिषिक्तः प्रयतस्तामुपोष्य विभावरीम्।
समाहितः पर्यचर135द्दिष्टादेशेन पूरुषम्॥ ७१ ॥
अनुवाद (हिन्दी)
इधर ध्रुवजीने मधुवनमें पहुँचकर यमुनाजीमें स्नान किया और उस रात पवित्रतापूर्वक उपवास करके श्रीनारदजीके उपदेशानुसार एकाग्रचित्तसे परमपुरुष श्रीनारायणकी उपासना आरम्भ कर दी॥ ७१॥
वीरराघवः
ध्रुवो मधुवने किमकरोदि136त्याह - तत्रेत्यादिना । अभिषिकः स्नातः यमुनायामिति शेषः । यस्यां प्रयतः तपसे प्रयतितवान् तां प्रथमां रात्रिं तत्र मधुवने उपोष्य विभावरीमित्यत्यन्तसंयोगे द्वितीया । उपव137सतेरभुक्त्यर्थस्य आधारस्तु वनमिति । तत्रेति सप्तमी बोध्या । समाहितचित्तः दिष्टादेशेन उपदिष्टमार्गेण पूरुषं परम138पुरुषं पर्यचरत् परिपूजितवान् ॥ ७१ ॥
श्लोक-७२
विश्वास-प्रस्तुतिः
त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशनः।
आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन्हरिम्॥
मूलम्
त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशनः।
आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन्हरिम्॥ ७२ ॥
अनुवाद (हिन्दी)
उन्होंने तीन-तीन रात्रिके अन्तरसे शरीरनिर्वाहके लिये केवल कैथ और बेरके फल खाकर श्रीहरिकी उपासना करते हुए एक मास व्यतीत किया॥ ७२॥
वीरराघवः
त्रिसृणां रात्रीणां समाहारः त्रिरात्रं तस्यान्ते कपित्थानि बदराणि च फलानि अशनं यस्य सः । आत्मनो देहस्य वृत्तिः स्थितिः तदनुसारेण देहधारणमात्रोपयुक्ताहारेणेत्यर्थः । हरिमर्चयन् मासं निन्ये अतिचक्रमे ॥ ७२ ॥
श्लोक-७३
विश्वास-प्रस्तुतिः
द्वितीयं च तथा मासं षष्ठे षष्ठेऽर्भको दिने।
तृणपर्णादिभिः शीर्णैः कृतान्नोऽभ्यर्चयद्विभुम्॥
मूलम्
द्वितीयं च तथा मासं षष्ठे षष्ठेऽर्भको दिने।
तृणपर्णादिभिः 139जीर्णैः कृता140न्नोऽभ्यर्चय141द्विभुम्॥ ७३ ॥
अनुवाद (हिन्दी)
दूसरे महीनेमें उन्होंने छः-छः दिनके पीछे सूखे घास और पत्ते खाकर भगवान्का भजन किया॥ ७३॥
वीरराघवः
अर्भको ध्रुवः षष्ठे षष्ठे दिने जीर्णैः तृणादिभिः कृतमन्नं यस्य जीर्णतृणाद्यशनः विभुमभ्यर्चयन् द्वितीयं मासं निन्य इत्यनुषङ्गः ॥ ७३ ॥
श्लोक-७४
विश्वास-प्रस्तुतिः
तृतीयं चानयन्मासं नवमे नवमेऽहनि।
अब्भक्ष उत्तमश्लोकमुपाधावत्समाधिना॥
अनुवाद (हिन्दी)
तीसरा महीना नौ-नौ दिनपर केवल जल पीकर समाधियोगके द्वारा श्रीहरिकी आराधना करते हुए बिताया॥ ७४॥
वीरराघवः
नवमे नवमेऽहनि अब्भक्षः अप एव भक्षयन् तृतीयं च मासं नयन् उत्तमश्लोकं भगवन्तं समाधिना उपाधावत् आराधित-वान् ॥ ७४ ॥
श्लोक-७५
विश्वास-प्रस्तुतिः
चतुर्थमपि वै मासं द्वादशे द्वादशेऽहनि।
वायुभक्षो जितश्वासो ध्यायन्देवमधारयत्॥
मूलम्
चतुर्थमपि वै मासं द्वादशे द्वादशेऽहनि।
वायुभक्षो जितश्वासो ध्यायन्देवम144धारयत्॥ ७५ ॥
अनुवाद (हिन्दी)
चौथे महीनेमें उन्होंने श्वासको जीतकर बारह-बारह दिनके बाद केवल वायु पीकर ध्यानयोगद्वारा भगवान्की आराधना की॥ ७५॥
वीरराघवः
वायुभक्षः वायुमेव भक्षयन् चतुर्थमपि मासं नयन् जितश्वासः जितप्राणः देवं भगवन्तं ध्यायन् अधारयत् धारणं कृतवान् । प्रतिमासमाहारसङ्कोचं तपोतिरेकं च कृतवानित्यर्थः ॥ ७५ ॥
श्लोक-७६
विश्वास-प्रस्तुतिः
पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपात्मजः।
ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुरिवाचलः॥
मूलम्
पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपात्मजः।
ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुरिवाचलः॥ ७६ ॥
अनुवाद (हिन्दी)
पाँचवाँ मास लगनेपर राजकुमार ध्रुव श्वासको जीतकर परब्रह्मका चिन्तन करते हुए एक पैरसे खंभेके समान निश्चल भावसे खड़े हो गये॥ ७६॥
वीरराघवः
पञ्चमे मासि त्वनुप्राप्ते जितप्राणो राजसुतः ब्रह्म भगवन्तं ध्यायन् एकेन पदा चरणेन स्थाणुरिव निश्चलो भूत्वा तस्थौ स्थितवान् ॥ ७९ ॥
श्लोक-७७
विश्वास-प्रस्तुतिः
सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम्।
ध्यायन्भगवतो रूपं नाद्राक्षीत्किंचनापरम्॥
मूलम्
सर्वतो मन आकृष्य हृदि भूतेन्द्रिया145शयम्।
ध्यायन् भगवतो रूपं नाद्राक्षीत्किञ्चनापरम्॥ ७७ ॥
अनुवाद (हिन्दी)
उस समय उन्होंने शब्दादि विषय और इन्द्रियोंके नियामक अपने मनको सब ओरसे खींच लिया तथा हृदयस्थित हरिके स्वरूपका चिन्तन करते हुए चित्तको किसी दूसरी ओर न जाने दिया॥ ७७॥
वीरराघवः
भूतेन्द्रियाशयं भूतानि भूतसूक्ष्माणि शब्दादीनि तद्द्वाहकाणीन्द्रियाणि श्रोत्रादीनि शब्दादिविषयप्रवणानीन्द्रियाणीत्यर्थः, तानि आशेरते यस्मिन् । शयनमत्र निर्व्यापारः, अव्यापा146रिश्रोत्रादीन्द्रियवन्मनः सर्वतः सङ्कल्पविकल्पादेः आकृष्य निवर्त्य हृदि हृदयपुण्डरीके भगवतो रूपं दिव्यविग्रहं ध्यायन् भगवतो रूपात् अपरमन्यं नाद्राक्षीत् नापश्यत् । अन्यं नाद्राक्षीदित्यनेन ध्यानस्य विजातीयप्रत्ययान्तराव्यवहितत्वकथनेन ध्यानस्य परिनिष्पत्तिः फलिता, साधनस्य निष्पत्तिर्नाम फलाव्यवहित-पूर्वदशोक्ता ॥ ७७ ॥
श्लोक-७८
विश्वास-प्रस्तुतिः
आधारं महदादीनां प्रधानपुरुषेश्वरम्।
ब्रह्म धारयमाणस्य त्रयो लोकाश्चकम्पिरे॥
मूलम्
आधारं महदादीनां प्रधानपुरुषेश्वरम्।
ब्रह्म धारयमा147णस्य त्रयो लोकाश्चकम्पिरे॥ ७८ ॥
अनुवाद (हिन्दी)
जिस समय उन्होंने महदादि सम्पूर्ण तत्त्वोंके आधार तथा प्रकृति और पुरुषके भी अधीश्वर परब्रह्मकी धारणा की, उस समय (उनके तेजको न सह सकनेके कारण) तीनों लोक काँप उठे॥ ७८॥
वीरराघवः
तामेव प्रपञ्चयिष्यन् तावत् तत्प्रभावमाह - आधारमिति त्रिभिः । महदादीनां 148महदादिपृथिव्यन्ताना148 भूतानां तत्संसृष्टानां चेतनानां च आधार धारकम् अनेन स्थूलचिदचिच्छरीरकत्वमुक्तम् । सूक्ष्मचिदचिच्छरीरकत्वमाह प्रधानपुरुषेश्वरं प्रधानं सूक्ष्ममचिन्त्यत्वं पुरुषाः तत्संसृ149ष्टाश्चेतनाः तेषामीश्वरं अन्तःप्रविश्य नियन्तारं “अन्तः प्रविष्टः शास्ता” (तैत्ति. 3-11) इति श्रुतेः । अनेन यन्महदादीनां धारकत्वमुक्तं तदप्यन्तः प्रविश्य नियमनेनैवेति विशेषनिष्ठं बोध्यम् । एवम्भूतं भगवन्तं ब्रह्म धारयमाणस्य सतः तस्य तेजः सोढुमशक्नुवन्तः त्रयो लोकाः चकम्पिरे कम्पिताः ॥ ७८ ॥
श्लोक-७९
विश्वास-प्रस्तुतिः
यदैकपादेन स पार्थिवार्भक-
स्तस्थौ तदङ्गुष्ठनिपीडिता मही।
ननाम तत्रार्धमिभेन्द्रधिष्ठिता
तरीव सव्येतरतः पदे पदे॥
मूलम्
यदैकपादेन स पार्थिवार्भकस्तस्थौ तदङ्गुष्ठनिपीडिता मही।
ननाम तत्रार्धमिभेन्द्रधिष्ठिता तरीव सव्येतरतः पदे पदे॥ ७९ ॥
अनुवाद (हिन्दी)
जब राजकुमार ध्रुव एक पैरसे खड़े हुए , तब उनके अँगूठेसे दबकर आधी पृथ्वी इस प्रकार झुक गयी, जैसे किसी गजराजके चढ़ जानेपर नाव पद-पदपर दायीं-बायीं ओर डगमगाने लगती है॥ ७९॥
वीरराघवः
सः पार्थिवार्भको ध्रुवः एकेन पादेन यदा तस्थौ तत्र 150तदा तस्याङ्गुष्ठेन निपीडिता नितरां पीडिता 151आक्रान्ता सती मही भूमिः अर्धं ननाम प्रह्वीबभूव । अर्धशब्दस्यात्र समांशवाचित्वाऽभावेऽपि विधेयनमनक्रियाविशेषणत्वाभिप्रायेण क्लीबत्वनिर्देशः । इभेन्द्रेण गजश्रेष्ठेन धिष्ठिता अधिष्ठिता त152रीव नौर्यथा पदे पदे प्रतिपदं सव्येतरतः सव्यतो वामतः 153दक्षिणतश्च नमति तद्वत् ॥ ७९ ॥
श्लोक-८०
विश्वास-प्रस्तुतिः
तस्मिन्नभिध्यायति विश्वमात्मनो
द्वारं निरुध्यासुमनन्यया धिया।
लोका निरुच्छ्वासनिपीडिता भृशं
सलोकपालाः शरणं ययुर्हरिम्॥
मूलम्
तस्मिन्नभिध्यायति विश्वमात्मनो द्वारं निरुध्यासुमनन्यया धिया।
लोका निरुच्छ्वासनिपीडिता भृशं सलोकपालाः शरणं ययुर्हरिम्॥ ८० ॥
अनुवाद (हिन्दी)
ध्रुवजी अपने इन्द्रियद्वार तथा प्राणोंको रोककर अनन्यबुद्धिसे विश्वात्मा श्रीहरिका ध्यान करने लगे। इस प्रकार उनकी समष्टि प्राणसे अभिन्नता हो जानेके कारण सभी जीवोंका श्वास-प्रश्वास रुक गया। इससे समस्त लोक और लोकपालोंको बड़ी पीड़ा हुई और वे सब घबराकर श्रीहरिकी शरणमें गये॥ ८०॥
वीरराघवः
किञ्च तस्मिन् ध्रुवे आत्मनः स्वस्य विश्वं द्वारं सर्वाणीन्द्रियाणि द्वारशब्दः श्रोत्रादीन्द्रियपरः असुं प्राणं च निरुध्य अनन्यया विषयान्तररहितया धिया ध्यायति सति भगवन्तमिति शेषः । यद्वा विश्वशब्दो भगवत्परः । विष्णोर्नामसहस्रमित्युपक्रम्य “विश्वं विष्णुः” (विष्णु सहस्र. 1) इत्युक्तत्वात् विश्वात्मकत्वात् 154वा “विश्वो विष्णुः" लोकाः इन्द्रादिभिस्सहिताः भृशं नितरां निरुच्छ्वासेन उच्छ्वाश्वासाभावेन निपीडिताः हरि शरणं ययुः प्रापुः ॥ ८० ॥
श्लोक-८१
मूलम् (वचनम्)
155देवा ऊचुः
विश्वास-प्रस्तुतिः
नैवं विदामो भगवन् प्राणरोधं
चराचरस्याखिलसत्त्वधाम्नः।
विधेहि तन्नो वृजिनाद्विमोक्षं
प्राप्ता वयं त्वां शरणं शरण्यम्॥
मूलम्
नैवं विदामो भगवन् प्राणरोधं चराचरस्याखिलसत्त्वधाम्नः।
विधेहि तन्नो वृजिनाद्विमो156क्षं प्राप्ता वयं त्वां शरणं शरण्यम्॥ ८१ ॥
अनुवाद (हिन्दी)
देवताओंने कहा—भगवन्! समस्त स्थावर-जंगम जीवोंके शरीरोंका प्राण एक साथ ही रुक गया है ऐसा तो हमने पहले कभी अनुभव नहीं किया। आप शरणागतोंकी रक्षा करनेवाले हैं, अपनी शरणमें आये हुए हमलोगोंको इस दुःखसे छुड़ाइये॥ ८१॥
वीरराघवः
शरणप्राप्तमेव प्रपञ्चयति - नैवमिति । हे भगवन् ! चराचरस्य एवंविधं प्राणनिरोधं न विदामः कदाचिदपि न जानीमः । अचरग्रहणं दृष्टान्तार्थम् । तेषामुच्छ्वासनिःश्वासयोरभावात् यथा अचरस्य उच्छ्वासादिर्नास्ति तथा चरस्यापि प्राप्त इति । तत्तस्मात् अखिलसत्वधाम्नः 157कृत्स्नचिदचिच्छरीरकस्य तव नः सम्बन्धिनामस्माकं वृजिनात् प्राणनिरोधरूपात् दुःखात् विमोक्षं विधेहि कुरु । वयं शरण्यं समीहितसाधनत्वेनाध्यवसनीयं त्वां शरणमुपायं प्राप्ताः । उपायत्वेनाध्यवस्यामः इत्यर्थः ॥ ८१ ॥
श्लोक-८२
मूलम् (वचनम्)
158श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
मा भैष्ट बालं तपसो दुरत्यया-
न्निवर्तयिष्ये प्रतियात स्वधाम।
यतो हि वः प्राणनिरोध आसी-
दौत्तानपादिर्मयि संगतात्मा॥
मूलम्
मा भैष्ट बालं 159तपसो दुरत्य160यात् 161निवर्तयिष्ये प्रतियात स्वधाम।
यतो हि वः प्राणनिरोध आसीदौत्तानपादिर्मयि सङ्गतात्मा॥ ८२ ॥
अनुवाद (हिन्दी)
श्रीभगवान्ने कहा—देवताओ! तुम डरो मत। उत्तानपादके पुत्र ध्रुवने अपने चित्तको मुझ विश्वात्मामें लीन कर दिया है, इस समय मेरे साथ उसकी अभेदधारणा सिद्ध हो गयी है, इसीसे उसके प्राणनिरोधसे तुम सबका प्राण भी रुक गया है। अब तुम अपने-अपने लोकोंको जाओ, मैं उस बालकको इस दुष्कर तपसे निवृत्त कर दूँगा॥ ८२॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे ध्रुवचरितेऽष्टमोऽध्यायः॥ ८॥
वीरराघवः
एवं शरणं गतानाह शरण्यो भगवान् - मा भैष्टेति । मा भैष्ट भयं मा कुरुत । तपसा दुरत्ययम् अनुल्लङ्घ्यं बालं निर्वर्तयिष्ये निष्पादयिष्यामि समीहितेन संयोजयामीत्यर्थः । अतो यूयं स्वधाम स्वस्थानं प्रति यात गच्छत । कोऽसौ बालः ? कथञ्चैकस्य प्राणनिरोधात् विश्वस्य प्राणनिरोध इत्यत आह - यतो यदीयप्राणनिरोधाद्धेतोः वः युष्माकं प्राणनिरोधः आसीत् स औत्तानपादिः उत्तानपादस्य पुत्रो बालो ध्रुवो मयि विश्वप्राणिप्राणनहेतुभूते मयि “को ह्येवान्यात्कः प्राण्यात् (सत्) एष आकाश आनन्दो न स्यात्” (तैत्ति. आ. 2-7) यस्य क्षादपरीक्षाद्ब्रह्मा य आत्मा सर्वान्तरः । तन्मे व्याचक्ष्वेति यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः योऽपानेन अपानति स त आत्मा सर्वान्तरः" (बृह. उ. 3-4-1) इति श्रुतेः । सङ्गतः आत्मा अन्तःकरणं यस्य सोऽभूत् स्वप्राणनिरोधेन उच्छ्वासनिःश्वासयोरप्यक्षममाणेन विश्वप्राणि प्राणनहेतुभूतस्य मम तेन निरुद्धत्वात् सर्वप्राणिप्राणनिरोधोऽभूदिति भावः ॥ ८२ ॥
इति श्रीमद्भागवते चतुर्थस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां अष्टमोऽध्यायः ॥ ८ ॥
-
A,B,G,I,J ह्या ↩︎
-
A,T omit एवं ↩︎
-
A,B,G,I,J,M,Ma,Ms,T तत्तु ↩︎
-
Ms जाः ↩︎
-
M,Ma दुरुक्तिश्च तयोः; Ms या दुरुक्तिः स्वसा ↩︎
-
A,G,I,M,Ma,Ms कलि ↩︎
-
A,B,T omit समभवत् ↩︎
-
M,Ma, अनु ↩︎
-
A,B,G,I,J,M,Ma,Ms,T,V तत्पु ↩︎
-
A,B,T पवित्रा ↩︎
-
उत्तानपदौ इति वीरराघवव्याख्यानपाठः । ↩︎
-
A,B,T नामानौ ↩︎
-
A,B,T पादः। ↩︎
-
A,B,T add अग्रजः ↩︎
-
A,B,T निधाय ↩︎
-
A,T त ↩︎
-
M,Ma,Ms ज! ↩︎
-
A,B,G,I,J,M,Ma,Ms,T ऽसि ↩︎
-
B,I,M,Ma सु ↩︎
-
M,Ma स; Ms सु ↩︎
-
A,B,T सङ्कुचितवाचं ↩︎
-
A,B,T पे ↩︎
-
J,Ma उदुह्य ↩︎
-
J सपत्न्याः ↩︎
-
A,B,T omit यत् ↩︎
-
A,B,T ङ्गे ↩︎
-
A,B,T ङ्गे ↩︎
-
A,B,G,I,J,M,Ma,Ms,T दाव ↩︎
-
M,Ma दग्धा ↩︎
-
T बाल ! ↩︎
-
A,G,I,M,Ma,Ms,T षु मं ↩︎
-
A,B,T का ↩︎
-
M,Ma सु; Ms,V स्व ↩︎
-
W omits अपि ↩︎
-
A,B,T omit यदि ↩︎
-
M,Ma,Ms यत्पाद ↩︎
-
M,Ma,Ms त्मा ↩︎
-
A,B,T नृपास ↩︎
-
M,Ma,Ms भक्त्या ↩︎
-
A,B,T दुरापं ↩︎
-
W omits वा ↩︎
-
A,B,G,I,J,M,Ma,Ms,T भृत्य ↩︎
-
W बन्धात् ↩︎
-
A,B,T omit स्व ↩︎
-
A,B,T कथयति ↩︎
-
A,B,T निवारकं ↩︎
-
A,B,G,I,J,T तस्य ↩︎
-
M,Ma,V,W सन्मानं ↩︎
-
M,Ma चापि ↩︎
-
A,B,G,I,J,M,Ma,Ms,T मः ↩︎
-
V स्य रक्तस्य; W स्याऽऽसक्तस्य ↩︎
-
A,B,G,I,J,M,Ma,Ms,T पुंसो ↩︎
-
M,Ma,Ms का ↩︎
-
A,B,T omit ↩︎
-
A,B,T दितं ↩︎
-
Ms यं प्र ↩︎
-
M,Ma,Ms दात् ↩︎
-
W हि मे ↩︎
-
A,B,G,L,J,M,Ma,Ms,T अतो ↩︎
-
A,B,T अनर्थः ↩︎
-
W omits इति ↩︎
-
A,B,T omit तं ↩︎
-
A,B,T omit त्वया ↩︎
-
W adds वा ↩︎
-
A,B,G,I,J,M,Ma,Ms,T क्षात्रं घोरं ↩︎
-
M,Ma न्नान्यै ↩︎
-
M,Ma,Ms नु ↩︎
-
A,B,G,J,M,Ma,T र्थं ↩︎
-
This verse is not found in Editor V. ↩︎
-
A,B,G,I,J,M,Ma,Ms,T दाहृत ↩︎
-
M,Ma,Ms त ↩︎
-
Ms स्त्वं ↩︎
-
W तस्य ↩︎
-
A,B,T न्याऽभि ↩︎
-
A,B,G,I,J,M,Ma,Ms,T एकमेव ↩︎
-
W त्यादि ↩︎
-
A,B,G,I,J,M,Ma,Ms,T,V निवस ↩︎
-
M,Ma ने ↩︎
-
A,B,T निवसन् ↩︎
-
M,Ma,Ms गुरूणां ↩︎
-
A,B,T omit गुरुम् ↩︎
-
M,Ma,Ms सुन्दरं हरिम् ↩︎
-
M,Ma,Ms णाब्जेक्ष ↩︎
-
M,Ma,Ms कृष्णं ↩︎
-
Ms र्चितम् ↩︎
-
A,B,T omit पद्म्यां ↩︎
-
A,B,T काधि ↩︎
-
M,Ma मे ↩︎
-
W पुरुषोत्तमम् ↩︎
-
W adds वा ↩︎
-
A,T omit प्रजपन् ↩︎
-
M,Ma,Ms पू ↩︎
-
I जपश्च; M,Ma जप्यस्तु ↩︎
-
A,B,T त ↩︎
-
A,B तेन ↩︎
-
V शस्तैर्दूर्वाङ्कुरैश्चान्यैः ↩︎
-
M,Ma,Ms रैः कुशैः ↩︎
-
W श्चान्यैः ↩︎
-
A,B,G,I,J,T वा ↩︎
-
A,B,G,I,J,T भृ ↩︎
-
आहृतात्मा इत्यस्य स्थाने अदृतात्मेति वीरराघवादृतः पाठः । ↩︎
-
M,Ma,Ms चरितं ↩︎
-
T न्त्यगुण ↩︎
-
A,B,G,I,J,T तद्; M,Ma,Ms तान् ↩︎
-
M,Ma,Ms मान् ↩︎
-
A,B,T omit अवताराः ↩︎
-
A,B,T omit करोति ↩︎
-
M,Ma,Ms तीः ↩︎
-
M,Ma,Ms युज्या ↩︎
-
M,Ma गतः ↩︎
-
W omits हि ↩︎
-
A,B,G,I,J,T अर्हितार्हणको; M,Ma,Ms अर्हितोऽर्हणया ↩︎
-
A,B,G,I,J,M,Ma,Ms,T तम् ↩︎
-
A,B,T omit वा ↩︎
-
A,B,T प ति ↩︎
-
Ms उत्तानपादः ↩︎
-
A,B,T नि ↩︎
-
A,B,T omit सुतः ↩︎
-
M,Ma,Ms खादन्त्व ↩︎
-
V,W शान्तं ↩︎
-
A,B,T omit एव ↩︎
-
W omits वृकाः ↩︎
-
उपधारय इत्यस्य स्थाने अवधारय इति वीरराघवस्वीकृतः पाठः इति ज्ञायते । ↩︎
-
A,B,G,I,J,M,Ma,Ms,T शुचः स्वतनयं ↩︎
-
W omits यत् ↩︎
-
G,I ऐ; M.Ma एव एष्यत्यचिरतो य ↩︎
-
A,B,G,I,J,T विश्रुत्य; W विमृश्य ↩︎
-
A,B,G,I,J,Ms,T राज ↩︎
-
A,B,G,I,J,Ms,T दृष्या; M,Ma दृष्ट्या ↩︎
-
W त्यपेक्षायामाह ↩︎
-
T सेर ↩︎
-
A,B पू ↩︎
-
A,B,G,I,J,M,Ma,Ms,T शीर्णैः ↩︎
-
V ऽऽशो ↩︎
-
V द्धरिम्; I,W न्विभूम् ↩︎
-
A,B,G,I,J,T,V चान ↩︎
-
M,Ma ये ↩︎
-
M,Ma पा ↩︎
- ↩︎
-
A,B,T रित ↩︎
-
M,Ma,Ms णे तु ↩︎
-
A,B,T ष्टचेतनाः ↩︎
-
W omits तदा ↩︎
-
A,B,T omit आक्रान्ता ↩︎
-
W omits इव ↩︎
-
A,B,T omit दक्षिणतः ↩︎
-
A,B,T omit वा ↩︎
-
Ms लोकपालाः ↩︎
-
Ms क्षणं ↩︎
-
A,B,T omit कृत्स्न ↩︎
-
वैकुण्ठः ↩︎
-
W तपसा ↩︎
-
W यं ↩︎
-
W निर्वर्तं ↩︎