[सप्तमोऽध्यायः]
भागसूचना
दक्षयज्ञकी पूर्ति
श्लोक-१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
इत्यजेनानुनीतेन भवेन परितुष्यता।
अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति॥
मूलम्
इत्यजेनानुनीतेन भवेन परितुष्यता।
अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—महाबाहो विदुरजी! ब्रह्माजीके इस प्रकार प्रार्थना करनेपर भगवान् शंकरने प्रसन्नतापूर्वक हँसते हुए कहा—सुनिये॥ १॥
वीरराघवः
एवं ब्रह्मणा प्रसादितो 1भवो देवाननुगृह्णन् तद्विज्ञापित मङ्गीचकारेत्याह मैत्रेयः इतीति । अजेन ब्रह्मणा अनुनीतेन प्रार्थितेन अत एव परितुष्यता भवेन हे महाबाहो ! विदुर ! प्रहस्य श्रूयता मित्यामन्त्र्य अभ्यधायि अभ्यभाषि ॥ १ ॥
श्लोक-२
मूलम् (वचनम्)
श्री2महादेव उवाच
विश्वास-प्रस्तुतिः
नाघं प्रजेश बालानां वर्णये नानुचिन्तये।
देवमायाभिभूतानां दण्डस्तत्र धृतो मया॥
मूलम्
नाघं प्रजेश बालानां वर्णये नानुचिन्तये।
देवमायाभिभूतानां दण्डस्तत्र 3धृतो मया॥ २ ॥
अनुवाद (हिन्दी)
श्रीमहादेवजीने कहा—‘प्रजापते! भगवान्की मायासे मोहित हुए दक्ष-जैसे नासमझोंके अपराधकी न तो मैं चर्चा करता हूँ और न याद ही। मैंने तो केवल सावधान करनेके लिये ही उन्हें थोड़ा-सा दण्ड दे दिया॥ २॥
वीरराघवः
तदेवाह - नाघमिति । हे परेश ! परेषा मस्मदादीना मीश ! प्रभो ! भगवन्मायामोहितानां बालानां मूर्खाणाम् 4अघं अपराधं अधुना न वर्णये एवमेवमेवमपचरितमिति न कथयामीत्यर्थः । नानुचिन्तये न स्मरामि च, किन्तु अपराधाचरणदशायां मया दण्डः कृतः शिक्षामात्रं कृतमित्यर्थः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
प्रजापतेर्दग्धशीर्ष्णो भवत्वजमुखं शिरः।
मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः॥
मूलम्
प्रजापतेर्दग्धशीर्ष्णो भवत्वजमुखं शिरः।
मित्रस्य चक्षु5षीक्षेत भागं स्वं बर्हिषो भगः॥ ३ ॥
अनुवाद (हिन्दी)
दक्षप्रजापतिका सिर जल गया है, इसलिये उनके बकरेका सिर लगा दिया जाय; भगदेव मित्रदेवताके नेत्रोंसे अपना यज्ञभाग देखें॥ ३॥
वीरराघवः
तदनुग्रहप्रकारमेवाह - प्रजापतेरित्यादिभिस्त्रिभिः । दग्धशीर्ष्णः दक्षिणाग्नौ दग्धं शिरो यस्य तस्य प्रजापतेर्दक्षस्य अजमुखं कण्ठादुपरि एव अजस्य मुखं यस्मिन् तच्छिरो भवतु । मित्रस्य मित्र6नाम्नो देवस्य चक्षुषी ने7त्रे भवेतां, चक्षुषीक्षेतेत्यत्रार्षत्वात् “ईदूदेद् द्विवचनं” (अष्टा. 1-1-11) इति प्रगृह्यत्वाभावः । मित्रस्य चक्षुर्भङ्गः पूर्वं कृत इत्यर्थं सिद्धम् । चक्षुषेति तृतीयान्तश्च पठ्यते । तदा मित्रस्य चाजमुखं शिरो भवतु । अस्मिन् पक्षे मित्रस्य शिरोभङ्गः पूर्वमर्थसिद्धो वे8दितव्यः । भगो भगाख्यो देवः बर्हिषो यज्ञस्य स्वीयं भागं चक्षुषा ईक्षेत पश्यतु । भगस्य नेत्रे उत्पद्येयातामित्यर्थः अयमेवार्थः साधुः । “भगस्य नेत्रे भगवान् पातितस्य रुषा" (भाग 4 -5-20) इति पूर्वं भगस्यैव नेत्रभङ्गाभिधानात् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
पूषा तु यजमानस्य दद्भिर्जक्षतु पिष्टभुक्।
देवाः प्रकृतसर्वाङ्गा ये म उच्छेषणं ददुः॥
मूलम्
पूषा तु यजमानस्य दद्भिर्जक्षतु पिष्टभुक्।
देवाः प्रकृत9सर्वाङ्गा ये म उच्छेषणं ददुः॥ ४ ॥
अनुवाद (हिन्दी)
पूषा पिसा हुआ अन्न खानेवाले हैं, वे उसे यजमानके दाँतोंसे भक्षण करें तथा अन्य सब देवताओंके अंग-प्रत्यंग भी स्वस्थ हो जायँ; क्योंकि उन्होंने यज्ञसे बचे हुए पदार्थोंको मेरा भाग निश्चित किया है॥ ४॥
वीरराघवः
पूषा देवः यजमानसम्बन्धि पिष्टं भुङ्क्ते इति । तथा दद्भिः दन्तैः जक्षतु अद्यात् । पूष्णो दन्ता उत्पद्येरन्नित्यर्थः । ये देवा मे मह्यं उच्छेषणं यज्ञावशिष्टं ददुः दत्तवन्तः ते सर्वे प्रकर्षेण कृतानि सम्यक्कृतानि सर्वाण्यङ्गानि येषां ते भवेयुरित्यर्थः । नि10कृत्तसर्वाङ्गा इति 11पाठान्तरं तदा11 ये देवा 12प्रकृत्तसर्वाङ्गाः12 नितरां भिन्नसर्वावयवा ये च मह्यं उच्छेषणं ददुः दातुं मतिं कृतवन्त इत्यर्थः । अनुग्रहात्पूर्वं उच्छेषणदानाभावात् । ते सर्वे ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
बाहुभ्यामश्विनोः पूष्णो हस्ताभ्यां कृतबाहवः।
भवन्त्वध्वर्यवश्चान्ये बस्तश्मश्रुर्भृगुर्भवेत्॥
मूलम्
बाहुभ्यामश्विनोः पूष्णोः हस्ताभ्यां कृतबाहवः।
भवन्त्वध्वर्यवश्चान्ये बस्तश्मश्रुर्भृगुर्भवेत्॥ ५ ॥
अनुवाद (हिन्दी)
अध्वर्यु आदि याज्ञिकोंमेंसे जिनकी भुजाएँ टूट गयी हैं वे अश्विनीकुमारकी भुजाओंसे और जिनके हाथ नष्ट हो गये हैं वे पूषाके हाथोंसे काम करें तथा भृगुजीके बकरेकी-सी दाढ़ी-मूँछ हो जाय’॥ ५॥
वीरराघवः
अध्वर्यव ऋत्विजश्च अश्विनोः बाहुभ्यां कृतबाहवः उत्पादितबाहवः पूष्णो हस्ताभ्यां कृतहस्ताश्च भवन्त्वित्यन्वयः । भृगुः बस्तश्मश्रुः बस्तस्य मेषस्य श्मश्रूणीव श्मश्रूणि यस्य ॥ ५ ॥
श्लोक-६
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम्।
परितुष्टात्मभिस्तात साधु साध्वित्यथाब्रुवन्॥
मूलम्
तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम्।
परितुष्टात्मभिस्ता13त साधु साध्वित्यथाऽब्रुवन्॥ ६ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—वत्स विदुर! तब भगवान् शंकरके वचन सुनकर सब लोग प्रसन्न चित्तसे ‘धन्य! धन्य!’ कहने लगे॥ ६॥
वीरराघवः
एवं रुद्रेणानुगृहीता देवाः किमकुर्वतेत्यत्राह मैत्रेयः तदेति । मीढुष्टमोदितं मीढुष्टमः शिवतमो रुद्रः तेनोदितं गदितं श्रुत्वा सर्वाणि भूतानि परितुष्टात्मभिः परितुष्टचित्तैः हे तात! विदुर ! साधु साध्विति ऊचुः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
ततो मीढ्वांसमामन्त्र्य शुनासीराः सहर्षिभिः।
भूयस्तद्देवयजनं समीढ्वद्वेधसो ययुः॥
मूलम्
ततो मीढ्वांसमामन्त्र्य शुनासीराः 14सहर्षिभिः।
भूयस्तद्देवयजनं समीद्वेद्वेधसो ययुः॥ ७ ॥
अनुवाद (हिन्दी)
फिर सभी देवता और ऋषियोंने महादेवजीसे दक्षकी यज्ञशालामें पधारनेकी प्रार्थना की और तब वे उन्हें तथा ब्रह्माजीको साथ लेकर वहाँ गये॥ ७॥
वीरराघवः
ततः मीढ्वांसं रुद्रं त्वया आगत्य सर्वं कार्यमित्यामन्त्र्य सम्प्रार्थ्य 15शुनासीरा इन्द्रोपलक्षिता देवा ऋभुभिः भृगुणाऽऽहूयमानदक्षिणाग्निप्रभवैः ऋभ्वाख्यैर्देवैः सह समीढ्वद्वेधसः मीढुषा रुद्रेण वेधसा ब्रह्मणा च सहिताः भूयः पुनः तद्देवयजनं देवा इज्यन्तेऽस्मिन्निति देवयजनं यागदेशं ययुः जग्मुः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
विधाय कात्स्न्र्येन च तद्यदाह भगवान् भवः।
संदधुः कस्य कायेन सवनीयपशोः शिरः॥
मूलम्
विधाय कात्स्न्र्येन च तद्य16थाऽऽह भगवान् भवः।
सन्दधुः कस्य कायेन सवनीयपशोः शिरः॥ ८ ॥
अनुवाद (हिन्दी)
वहाँ जैसा-जैसा भगवान् शंकरने कहा था, उसी प्रकार सब कार्य करके उन्होंने दक्षकी धड़से यज्ञपशुका सिर जोड़ दिया॥ ८॥
वीरराघवः
भगवान् भवो रुद्रः यथाऽऽह “प्रजापतेर्दग्धशीर्ष्णो भवत्वजमुखं शिरः" ( भाग. 4-7-3) इत्यादिना तथा कार्त्स्न्येन विधाय हस्तबाह्वादिकं विधाय सवनीयपशो रजस्य सम्बन्धि शिरः कस्य दक्षस्य कायेन शरीरेण सन्दधुः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
संधीयमाने शिरसि दक्षो रुद्राभिवीक्षितः।
सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम्॥
मूलम्
सन्धीयमाने 17शिरसि दक्षो रुद्राभिवीक्षितः।
सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम्॥ ९ ॥
अनुवाद (हिन्दी)
सिर जुड़ जानेपर रुद्रदेवकी दृष्टि पड़ते ही दक्ष तत्काल सोकर जागनेके समान जी उठे और अपने सामने भगवान् शिवको देखा॥ ९॥
वीरराघवः
सवनीयपशोः शिरसि सन्धीयमाने सति रुद्रेणाभिवीक्षितो दक्षः सुप्त इवोत्तस्थौ उदतिष्ठत् । अग्रतः पुरतः अवस्थितं मृडं रुद्रं ददृशे च ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
तदा वृषध्वजद्वेषकलिलात्मा प्रजापतिः।
शिवावलोकादभवच्छरद्ध्रद इवामलः॥
मूलम्
तदा वृषध्वजद्वेष कलिलात्मा प्रजापतिः।
शिवावलोकादभवच्छरद्ध18द इवामलः॥ १० ॥
अनुवाद (हिन्दी)
दक्षका शंकरद्रोहकी कालिमासे कलुषित हृदय उनका दर्शन करनेसे शरत्कालीन सरोवरके समान स्वच्छ हो गया॥ १०॥
वीरराघवः
पूर्वं वृषध्वजे रुद्रे द्वेषेण कलिलः कलुषीकृतः आत्मा यस्य स प्रजापतिः दक्षः शिवावलोकात् शरत्कालीनह्रद इवामलोऽभवत् ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
भवस्तवाय कृतधीर्नाशक्नोदनुरागतः।
औत्कण्ठ्याद्बाष्पकलया सम्परेतां सुतां स्मरन्॥
मूलम्
भवस्तवाय कृतधीर्नाशक्नोदनुरागतः।
औ19त्कण्ठ्याद्बाष्पकलया सम्परेतां सुतां स्मरन्॥ ११ ॥
अनुवाद (हिन्दी)
उन्होंने महादेवजीकी स्तुति करनी चाही, किन्तु अपनी मरी हुई बेटी सतीका स्मरण हो आनेसे स्नेह और उत्कण्ठाके कारण उनके नेत्रोंमें आँसू भर आये। उनके मुखसे शब्द न निकल सका॥ ११॥
वीरराघवः
भवस्तवाय रुद्रस्तुतये कृतधीः कृतमनाः सम्परेतां परलोकं मतां 20सुतां सतीम् अनुरागतः स्मरन् तस्यामौत्कण्ठ्यात् बाष्पकला नेत्रजललेशः तेन नाऽशक्नोत्, स्तोतुं न समर्थोऽभूत् ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
कृच्छ्रात्संस्तभ्य च मनः प्रेमविह्वलितः सुधीः।
शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः॥
मूलम्
कृच्छ्रात्संस्तभ्य च मनः प्रेमविह्वलितः सुधीः।
शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः॥ १२ ॥
अनुवाद (हिन्दी)
प्रेमसे विह्वल, परम बुद्धिमान् प्रजापतिने जैसे-तैसे अपने हृदयके आवेगको रोककर विशुद्धभावसे भगवान् शिवकी स्तुति करनी आरम्भ की॥ १२॥
वीरराघवः
प्रेम्णा विह्वलितः विह्वलचित्तत्वात् कृच्छ्रात् प्रयासेन मनः संस्तभ्य स्ववशं कृत्वा सुधीः स्तुतिसमर्थबुद्धिमान् प्रजापतिः दक्षः ईशं रुद्रं निर्व्यलीकेन प्रीतियुक्तेन भावेन अभिप्रायविशेषेण शशंस तुष्टाव ॥ १२ ॥
श्लोक-१३
मूलम् (वचनम्)
दक्ष उवाच
विश्वास-प्रस्तुतिः
भूयाननुग्रह अहो भवता कृतो मे
दण्डस्त्वया मयि भृतो यदपि प्रलब्धः।
न ब्रह्मबन्धुषु च वां भगवन्नवज्ञा
तुभ्यं हरेश्च कुत एव धृतव्रतेषु॥
मूलम्
भूयाननुग्रह अहो भवता कृतो मे दण्डस्त्वया मयि भृतो यदपि 21प्रलब्धः।
न ब्रह्मबन्धुषु च वां भगवन्नवज्ञा तुभ्यं हरेश्च कुत एव धृतव्रतेषु॥ १३ ॥
अनुवाद (हिन्दी)
दक्षने कहा—भगवन्! मैंने आपका अपराध किया था, किन्तु आपने उसके बदलेमें मुझे दण्डके द्वारा शिक्षा देकर बड़ा ही अनुग्रह किया है। अहो! आप और श्रीहरि तो आचारहीन, नाममात्रके ब्राह्मणोंकी भी उपेक्षा नहीं करते—फिर हम-जैसे यज्ञ-यागादि करनेवालोंको क्यों भूलेंगे॥ १३॥
वीरराघवः
यदपि यद्यपि प्रलब्धो मया परिभूतो भवान् तथाऽपि त्वया दण्डो धृतः शिक्षा कृता न तु उपेक्षितोऽस्मि । युक्तमेवैतदित्याह - ब्रह्मबन्धुषु ब्राह्मणाभासेष्वपि तुभ्यं तव हरेर्विष्णोश्चेति वां युवयोः अवज्ञा उपेक्षा नास्ति, धृतव्रतेषु स्ववर्णाश्रमो22चितधर्मनिष्ठेषु ब्राह्मणेषु कुत एवाऽवज्ञा स्यात् । न कुतः स्यादित्यर्थः । हे भगवन् ! ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
विद्यातपोव्रतधरान् मुखतः स्म विप्रान्
ब्रह्माऽऽत्मतत्त्वमवितुं प्रथमं त्वमस्राक्।
तद्ब्राह्मणान् परम सर्वविपत्सु पासि
पालः पशूनिव विभो प्रगृहीतदण्डः॥
मूलम्
विद्यातपोव्रत23भृतो मुख24त स्तु विप्रान् ब्रह्माऽऽत्म25तत्त्वमवितुं प्रथमं त्वम26स्राक्।
तद्ब्राह्मणान् परम सर्वविपत्सु पासि पालः पशूनिव विभो प्रगृहीतदण्डः॥ १४ ॥
अनुवाद (हिन्दी)
विभो! आपने ब्रह्मा होकर सबसे पहले आत्मतत्त्वकी रक्षाके लिये अपने मुखसे विद्या, तप और व्रतादिके धारण करनेवाले ब्राह्मणोंको उत्पन्न किया था। जैसे चरवाहा लाठी लेकर गौओंकी रक्षा करता है, उसी प्रकार आप उन ब्राह्मणोंकी सब विपत्तियोंसे रक्षा करते हैं॥ १४॥
वीरराघवः
तत्र हेतुं वदन् “शास्त्रदृष्ट्या तूपदेशो वामदेववत्" (ब्र.सू. 1-1-30) इति न्यायेन परमात्मदृष्ट्या स्तौति - विद्येति । ब्रह्मा त्वं चतुर्मुखरूपी त्वं प्रथमं कल्पादौ आत्मतत्त्वं जीवपरयाथात्म्यं स्वानुभवोपदेशाभ्यामवितुं रक्षितुं विद्या शास्त्रजन्यं ज्ञानं, तपश्शमदमादिकृच्छ्रचान्द्रायणादि च व्रतं स्ववर्णाश्रमोचित धर्मः 27एतानि बिभ्रतीति तान् विप्रान् मुखतः अस्राक् सृष्टवानसि । तत् तस्मात् हे परम ! सर्वविपत्सु 28सर्वास्वापत्सु ब्राह्मणान् पशून् पालः पशुपालक इव प्रगृहीतदण्डः सापराधेषु कृतशिक्षः पासि रक्षसि ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
योऽसौ मयाविदिततत्त्वदृशा सभायां
क्षिप्तो दुरुक्तिविशिखैरगणय्य तन्माम्।
अर्वाक् पतन्तमर्हत्तमनिन्दयापाद्
दृष्ट्याऽऽर्द्रया स भगवान् स्वकृतेन तुष्येत्॥
मूलम्
योऽसौ मयाऽविदिततत्त्वदृशा सभायां क्षिप्तो दुरुक्तिविशिखैरगणय्य तन्माम्।
अर्वाक् पतन्तमर्हत्तमनिन्द29याऽपात् दृष्ट्याऽऽर्द्रया स भगवान् स्वकृतेन तुष्येत्॥ १५ ॥
अनुवाद (हिन्दी)
मैं आपके तत्त्वको नहीं जानता था, इसीसे मैंने भरी सभामें आपको अपने वाग्बाणोंसे बेधा था। किन्तु आपने मेरे उस अपराधका कोई विचार नहीं किया। मैं तो आप-जैसे पूज्यतम महानुभावोंका अपराध करनेके कारण नरकादि नीच लोकोंमें गिरनेवाला था, परन्तु आपने अपनी करुणाभरी दृष्टिसे मुझे उबार लिया। अब भी आपको प्रसन्न करनेयोग्य मुझमें कोई गुण नहीं है; बस, आप अपने ही उदारतापूर्ण बर्तावसे मुझपर प्रसन्न हों॥ १५॥
वीरराघवः
स्वस्याऽऽकिञ्चन्यं निवेदयन् क्षमापयति - योऽसाविति । अविदिततत्त्वदृशा अप्राप्ततत्त्वज्ञानेन मया अगणय्य तृणीकृत्य सभायां दुरुक्तय एव विशिखाः बाणाः तैः क्षिप्तस्ताडितो योऽसौ भवान् अर्हत्तमस्य पूज्यस्य तव निन्दया अर्वाक्पतन्तम् अधोलोकान् गच्छन्तं मां दयार्द्रया दृष्ट्या अपात् अगणय्य विस्मृत्यमत्कृतापराधमपात् अरक्षदिति वाऽन्वयः, स भगवान् भवान् स्वकृतेनोपकारेण तुष्येत्, न मया तत्प्रतिकर्तुं शक्यमित्यर्थः । अनेन स्वस्याऽऽकिञ्चन्यं निवेदितम् ॥ १५ ॥
श्लोक-१६
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
क्षमाप्यैवं स मीढ्वांसं ब्रह्मणा चानुमन्त्रितः।
कर्म सन्तानयामास सोपाध्यायर्त्विगादिभिः॥
मूलम्
क्षमाप्यैवं स मीढ्वांसं ब्रह्मणा चानुमन्त्रितः।
30कर्मानुवर्तयामास सोपाध्यायर्त्वि31गादिभिः॥ १६ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—आशुतोष शंकरसे इस प्रकार अपना अपराध क्षमा कराकर दक्षने ब्रह्माजीके कहनेपर उपाध्याय, ऋत्विज् आदिकी सहायतासे यज्ञकार्य आरम्भ किया॥ १६॥
वीरराघवः
स दक्षः मीढ्वांसं रुद्रं एवं क्षमाप्य प्रसाद्य ब्रह्मणा चतुर्मुखेन चकारा द्रुद्रेण चानुमन्त्रितः अनुज्ञातः उपाध्याय सहितैः ऋत्विगादिभिः कर्म अध्वरमनुवर्तयामास 32प्रवर्तयामास । सन्तारयामासेति 33पाठे सन्तारयामास समापयामास ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
वैष्णवं यज्ञसन्तत्यै त्रिकपालं द्विजोत्तमाः।
पुरोडाशं निरवपन् वीरसंसर्गशुद्धये॥
मूलम्
वैष्णवं यज्ञसन्तत्यै त्रिकपालं द्विजोत्तमाः।
पुरोडाशं निरवपन् वीरसंसर्गशुद्धये॥ १७ ॥
अनुवाद (हिन्दी)
तब ब्राह्मणोंने यज्ञ सम्पन्न करनेके उद्देश्यसे रुद्रगण-सम्बन्धी भूत-पिशाचोंके संसर्गजनित दोषकी शान्तिके लिये तीन पात्रोंमें विष्णुभगवान्के लिये तैयार किये हुए पुरोडाश नामक चरुका हवन किया॥ १७॥
वीरराघवः
कथङ्कृत्वा सन्तारित इत्यत्राह - वैष्णवमिति । यज्ञसन्तत्यै यज्ञविच्छेदपरिहाराय वीरसंसर्ग शुद्धये च वीराणां प्रमथानां संसर्गकृत दोषशुद्धये वीरभद्रसंसर्गशुद्धये वा वैष्णवं विष्णुदेवताकं त्रिकपालं त्रिषु कपालेषु संस्कृतं पुरोडाशं द्विजोत्तमाः ऋत्विजः निरवपन् ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
अध्वर्युणाऽऽत्तहविषा यजमानो विशाम्पते।
धिया विशुद्धया दध्यौ तथा प्रादुरभूद्धरिः॥
अनुवाद (हिन्दी)
विदुरजी! उस हविको हाथमें लेकर खड़े हुए अध्वर्युके साथ यजमान दक्षने ज्यों ही विशुद्ध चित्तसे श्रीहरिका ध्यान किया, त्यों ही सहसा भगवान् वहाँ प्रकट हो गये॥ १८॥
वीरराघवः
हे विशाम्पते! विदुर! आत्तहविषा उपात्तहविषा अध्वर्युणा सह यजमानो दक्षः विशुद्धया निर्मलया बुद्ध्या दध्यौ ध्यातवान् तदा तदैव हरिः प्रादुरभूत् आविर्बभूव । तथेति पाठे यथा येन प्रकारेण दध्यौ तथा तं प्रकार मनतिक्रम्य 37प्रादुरभूदित्यर्थः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
तदा स्वप्रभया तेषांद्योतयन्त्या दिशो दश।
मुष्णंस्तेज उपानीतस्तार्क्ष्येण स्तोत्रवाजिना॥
मूलम्
तदा स्वप्रभया तेषां द्योतयन्त्या दिशो दश।
मुष्णंस्तेज उपानीतस्तार्क्ष्येण स्तोत्र38वाजिना॥ १९ ॥
अनुवाद (हिन्दी)
‘बृहत्’ एवं ‘रथन्तर’ नामक साम-स्तोत्र जिनके पंख हैं, उन गरुडजीके द्वारा समीप लाये हुए भगवान्ने दसों दिशाओंको प्रकाशित करती हुई अपनी अंगकान्तिसे सब देवताओंका तेज हर लिया—उनके सामने सबकी कान्ति फीकी पड़ गयी॥ १९॥
वीरराघवः
दश दिशः द्योतयन्त्या आत्मनः प्रभया तेषां सदस्यानां तेजः मुष्णन् तिरस्कुर्वन् हरिः स्तोत्रे बृहद्रथन्तरे वाजौ पक्षौ यस्य तेन । “बृहद्रथन्तरे पक्षी” (शत. ब्रा. 6 7-2-6) इति श्रुतेः । स्तोत्रदक्षेण वा तार्क्ष्येण गरुडेन उपानीतः समीपं प्रापितः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
श्यामो हिरण्यरशनोऽर्ककिरीटजुष्टो
नीलालकभ्रमरमण्डितकुण्डलास्यः।
कम् ब्वब्जचक्रशरचापगदासिचर्म-
व्यग्रैर्हिरण्मयभुजैरिव कर्णिकारः॥
मूलम्
श्यामो हिरण्यरशनोऽर्ककिरीटजुष्टो नीलालकभ्रमर 39मण्डित कुण्डलास्यः।
कम्ब्वब्जचक्र शरचाप गदासिचर्म व्यग्रैर्हिरण्मयभुजैरिव कर्णिकारः॥ २० ॥
अनुवाद (हिन्दी)
उनका श्याम वर्ण था, कमरमें सुवर्णकी करधनी तथा पीताम्बर सुशोभित थे। सिरपर सूर्यके समान देदीप्यमान मुकुट था, मुखकमल भौंरोंके समान नीली अलकावली और कान्तिमय कुण्डलोंसे शोभायमान था, उनके सुवर्णमय आभूषणोंसे विभूषित आठ भुजाएँ थीं, जो भक्तोंकी रक्षाके लिये सदा उद्यत रहती हैं। आठों भुजाओंमें वे शंख, पद्म, चक्र, बाण, धनुष, गदा, खड्ग और ढाल लिये हुए थे तथा इन सब आयुधोंके कारण वे फूले हुए कनेरके वृक्षके समान जान पड़ते थे॥ २०॥
वीरराघवः
आविर्भूतं भगवन्तं वर्णयति - श्याम इति द्वाभ्याम् । हिरण्यवद्रशना यस्येति वस्त्रं लक्ष्यते । अर्कतुल्येन किरीटेन जुष्टं नीलालका एव भ्रमरास्तैर्मण्डितकुण्डलमास्यं यस्य । कम्बुः शङ्खः अब्जं कमलं चापः शार्ङ्गम् असिः खड्गः चर्म खेटः कम्बुप्रभृतिभिरायुधैः भृत्यरक्षणार्थं व्यग्रैः सत्वरैः हिरण्मयैः भुजैः केयूरादिभूषितैः भुजानां हिरण्मयत्वं केयूरादिभिर्भूषितत्वात् अवगन्तव्यं, पुष्पितैः शाखाविशेषैः कर्णिकार इव शोभमानः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
वक्षस्यधिश्रितवधूर्वनमाल्युदार-
हासावलोककलया रमयंश्च विश्वम्।
पार्श्वभ्रमद्व्यजनचामरराजहंसः
श्वेतातपत्रशशिनोपरि रज्यमानः॥
मूलम्
वक्षस्यधिश्रितवधूर्वनमाल्युदारहासावलोककलया रमयंश्च विश्वम्।
पार्श्वभ्रमद्व्यजनचामरराजहंसः 40शुभ्रातपत्रशशिनोपरि र41ज्यमानः॥ २१ ॥
अनुवाद (हिन्दी)
प्रभुके हृदयमें श्रीवत्सका चिह्न था और सुन्दर वनमाला सुशोभित थी। वे अपने उदार हास और लीलामय कटाक्षसे सारे संसारको आनन्दमग्न कर रहे थे। पार्षदगण दोनों ओर राजहंसके समान सफेद पंखे और चँवर डुला रहे थे। भगवान्के मस्तकपर चन्द्रमाके समान शुभ्र छत्र शोभा दे रहा था॥ २१॥
वीरराघवः
वक्षस्यधिश्रिता वधूः 42लक्ष्मीः यस्य, वनमाला अस्यास्तीति वनमाली, उदारहासयुक्तो योऽवलोकः तस्य कलया अपाङ्गेन विश्वं रमयन् पार्श्वयोरुभयोः भ्रमती व्यजनचामरे एव राजहंसौ यस्य सः, शुभ्रातपत्रमेव शशी तेनोपरि रज्यमानः शोभातिशयं नीयमानः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
तमुपागतमालक्ष्य सर्वे सुरगणादयः।
प्रणेमुः सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः॥
मूलम्
तमुपागतमालक्ष्य सर्वे सुरगणादयः।
प्रणेमुः सहसोत्थाय ब्रह्मेन्द्रत्य्रक्षनायकाः॥ २२ ॥
अनुवाद (हिन्दी)
भगवान् पधारे हैं—यह देखकर इन्द्र, ब्रह्मा और महादेवजी आदि देवेश्वरोंसहित समस्त देवता, गन्धर्व और ऋषि आदिने सहसा खड़े होकर उन्हें प्रणाम किया॥ २२॥
वीरराघवः
उपागतं समीपे प्राप्तं तं भगवन्त मालक्ष्य दृष्ट्वा ब्रह्मेन्द्र त्र्यक्षनायका मुख्या येषां ते, सर्वे सुरगणादयः सहसा त्वरया उत्थाय प्रणेमुः नमश्चक्रुः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
तत्तेजसा हतरुचः सन्नजिह्वाः ससाध्वसाः।
मूर्ध्ना धृताञ्जलिपुटा उपतस्थुरधोक्षजम्॥
अनुवाद (हिन्दी)
उनके तेजसे सबकी कान्ति फीकी पड़ गयी, जिह्वा लड़खड़ाने लगी, वे सब-के-सब सकपका गये और मस्तकपर अंजलि बाँधकर भगवान्के सामने खड़े हो गये॥ २३॥
वीरराघवः
तस्य भगवतस्तेजसा हतरुचः तिरुस्कृतप्रभाः सन्नजिह्वाः गद्गदवाचः ससाध्वसाः तन्महिम्ना क्षोभितचित्ताः मूर्ध्ना धृतानि अञ्जलिपुटानि येषां ते मूर्धसु धृताञ्जलिपुटा इत्यर्थः । अधोक्षजमुपतस्थुः तुष्टुवुः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
अप्यर्वाग्वृत्तयो यस्य महि त्वात्मभुवादयः।
यथामति गृणन्ति स्म कृतानुग्रहविग्रहम्॥
मूलम्
अप्यर्वाग्वृत्तयो यस्य महि 45त्वात्मभुवादयः।
यथामति गृणन्ति स्म कृतानुग्रह विग्रहम्॥ २४ ॥
अनुवाद (हिन्दी)
यद्यपि भगवान्की महिमातक ब्रह्मा आदिकी मति भी नहीं पहुँच पाती, तो भी भक्तोंपर कृपा करनेके लिये दिव्यरूपमें प्रकट हुए श्रीहरिकी वे अपनी-अपनी बुद्धिके अनुसार स्तुति करने लगे॥ २४॥
वीरराघवः
यस्य भगवतो महिमानं प्रति अर्वाग्वृत्तयः अधस्ता देव वृत्तयो येषां ते कार्त्स्न्येन तन्महिमानम् अवगन्तुमनर्हमनोवृत्तयोऽपि भवादयः शर्वादयः कृतानुग्रहविग्रहं कृतः प्रकटीकृतः अनुग्रहार्थं विग्रहो येन तं, यद्वा कृतोऽनुग्रह एव विग्रहो येन तं भक्तानुग्रहैक प्रधानमूर्तिमित्यर्थः, यथामति गृणन्ति स्म । स्मेति विस्मये, वाङ्मनसागोचर महिमानं वाङ्मनसवृत्तिभिः तुष्टुवुरित्याश्चर्यम् ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
दक्षो गृहीतार्हणसादनोत्तमं
यज्ञेश्वरं विश्वसृजां परं गुरुम्।
सुनन्दनन्दाद्यनुगैर्वृतं मुदा
गृणन् प्रपेदे प्रयतः कृताञ्जलिः॥
मूलम्
दक्षो गृही46तार्हण 47साधनो48त्तमं यज्ञेश्वरं विश्वसृ49जां परं गुरुम्।
सुनन्दनन्दाद्यनुगैर्वृतं मुदा गृणन् प्रपेदे प्रयतः कृताञ्जलिः॥ २५ ॥
अनुवाद (हिन्दी)
सबसे पहले प्रजापति दक्ष एक उत्तम पात्रमें पूजाकी सामग्री ले नन्द-सुनन्दादि पार्षदोंसे घिरे हुए , प्रजापतियोंके परमगुरु भगवान् यज्ञेश्वरके पास गये और अति आनन्दित हो विनीतभावसे हाथ जोड़कर प्रार्थना करते प्रभुके शरणापन्न हुए॥ २५॥
वीरराघवः
तत्र तावत् दक्षस्तुतिप्रकारमाह - दक्ष इति । गृहीतार्हणसाधनोत्तमम् अर्ह्यते पूज्यतेऽनेनेति अर्हणम् अर्हणसाधनं गन्धपुष्पादिकं गृहीतमर्हणं येन स चाऽसौ साधनोत्तमस्तं साधनेषूत्तमः 50साधनोत्तमः तम्, पुरुषार्थप्रापकाणामध्ये उत्तममित्यर्थः । तथा च वक्ष्यति “धर्मार्थकाममोक्षाख्यं य इच्छेत्, (भाग. 4-8-41) इत्यादि । अनेन समीहितफलसाधनप्रक्रान्ताध्वरापेक्षया सुखेन पुरुषार्थप्रापकत्वा दुत्तमोपायभूतमित्युक्तं भवति । यद्वा प्रगृहीतं कर्तव्यत्वेनोपात्तं प्रक्रान्तमिति यावत् । अर्हणं भगवदाराधनभूत यागरूपं पूजनं तस्य यानि साधनानि निर्वर्तकानि प्रयाजादीनि तेभ्य उत्तमं यागनिर्वर्तकमित्यर्थः । “इष्टापूर्तं बहुधाजातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः" (म.ना.उ. 1-6) इत्यादि श्रुतेः । बिभर्ति पोषयति निर्वर्तयतीति यावत् । अत एव हि पूर्वं तदागमनाभावा द्यागानिर्वृत्तिः । न केवलं 51यागनिर्वर्तक एव, अपि तु तत्फलप्रदो भोक्ता चेत्याह - यज्ञेश्वरं यज्ञानां भोक्तारं तत्फलदं चेत्यर्थः तथा च गीतम् - “अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च” (भ.गी. 9-24) इति । अत्र ईश्वरत्वाक्षिप्तं भोक्तृत्वं रक्षकत्वं च ईश्वरो हि 52स्वयं भुङ्क्ते रक्षति च । न केवलं यज्ञस्यैव रक्षकः अपि तु यज्ञकर्तुर्यजमानस्य दक्षस्यापीत्याह - विश्वसृजां मरीच्यादीनां पतिं पालयितारं स्रष्टूत्वस्याऽप्युपलक्षणमिदं पतित्वमपि हितोपदेशेनत्याह - गुरुं हितोपदेष्टारं सुनन्द53नन्दप्रभृतिभिः भृत्यैरनुगैः सुरैर्वृतं परिवेष्टितम् । अनेन नित्य विभूत्यधिपतित्वमुक्तम् । एवम्भूतं भगवन्तं कृताञ्जलिः बद्धाञ्जलिः दक्षो गृणन् स्तुवन् प्रयतः समाहितचित्तः प्रपेदे शरणं गतः ॥ २५ ॥
श्लोक-२६
मूलम् (वचनम्)
दक्ष उवाच
विश्वास-प्रस्तुतिः
शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं
चिन्मात्रमेकमभयं प्रतिषिध्य मायाम्।
तिष्ठंस्तयैव पुरुषत्वमुपेत्य तस्या-
मास्ते भवानपरिशुद्ध इवात्मतन्त्रः॥
मूलम्
शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं चिन्मात्रमेकमभयं प्रतिषिध्यमायाम्।
तिष्ठंस्तयैव पुरुषत्वमुपेत्य तस्यामास्ते भवानपरिशुद्ध 54इवाऽऽत्मतन्त्रः॥ २६ ॥
अनुवाद (हिन्दी)
दक्षने कहा—भगवन्! अपने स्वरूपमें आप बुद्धिकी जाग्रदादि सम्पूर्ण अवस्थाओंसे रहित, शुद्ध, चिन्मय, भेदरहित, अतएव निर्भय हैं। आप मायाका तिरस्कार करके स्वतन्त्ररूपसे विराजमान हैं; तथापि जब मायासे ही जीवभावको स्वीकारकर उसी मायामें स्थित हो जाते हैं, तब अज्ञानी-से दीखने लगते हैं॥ २६॥
वीरराघवः
तत्र प्रकृतिपुरुषविलक्षणं परमात्मस्वरूपं सर्वशक्तिमद्विशोध्य तमनुसन्दधानः प्रपद्यते दक्षः - शुद्धमिति । शुद्धमपापविद्धं कर्मरूपेणोपाधिरहितमकर्मवश्यमिति यावत् । अत एव स्वधाम्नि स्वस्वरूपे मायां प्रतिषिद्धय निरस्य स्वेन रूपेण अस्पृष्ट प्रकृति जन्य दोषमित्यर्थः । शुद्धत्वे हेतुः - उपरताखिलबुद्ध्यवस्थं उपरताः शश्वन्निवृत्ता अखिलाः सर्वा बुद्ध्यवस्था मनोवृत्तयो यस्य तत् नित्यनिवृत्तप्रकृतिपरिणामरूपान्तर्बाह्येन्द्रियसर्ववृत्तित्वादपापविद्धमिति भावः । यद्वा स्वधाम्नि उपरता प्रशान्ता अखिला बुद्ध्यवस्था मनोवृत्तयो यस्य तत् नित्यनिवृत्त प्रकृतिपरिणामरूपान्तर्बाह्येन्द्रिय सर्ववृत्तित्वादपापविद्धमिति भावः । यद्वा स्वधाम्नि उपरता प्रशान्ता अखिला बुद्ध्यवस्था यस्य तत् स्वस्वरूपानुभवेनैव नित्यनिवृत्त सर्वमनोवृत्तिरित्यर्थः । तत्कुतः ? एकं समाभ्यधिकरहितं स्वस्वरूपस्य निस्समाभ्यधिकानन्दरूपत्वात् तदेकानुभवेन नित्यनिवृत्तसर्वेन्द्रियवृत्तित्वाच्छुद्धमित्यर्थः । किमेवंविधस्वरूपं जडं, नेत्याह - चिन्मात्रं ज्ञानैकरसं क्वचिदप्यजडं न केवलं स्वयमेव शुद्धमपि तु अन्येषामपि शुद्धत्वापादकमित्याह । अभयं न विद्यते भयं यस्मात्तदभयम् । यदुपासनादशुद्धत्वापादकभयाख्यसंसारनिवृत्तिः तदभयमित्युच्यते । तथा च श्रुतिः “यदा ह्येवैष एतस्मिन्न दृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति” (तैति. उ. 2-7) इति । एवं रूपं स्वरूपं प्रति तिष्ठन् अजहदित्यर्थः । तथैव माययैव पुरुषत्वं पुरुषाकारतामुपेत्य मायां देवादिशरीररूपेण परिणमय्य तस्मिन् जीवान्तरात्मतया अवस्थायेत्यर्थः । स्वयमात्मतन्त्रः स्वतन्त्रो भवान् तस्यां मायायां अपरिशुद्धः कर्मवश्य इवास्ते । अहो महदिदं सर्वशक्तित्वमिति भावः ॥ २६ ॥
श्लोक-२७
मूलम् (वचनम्)
ऋत्विज ऊचुः
विश्वास-प्रस्तुतिः
तत्त्वं न ते वयमनञ्जन रुद्रशापात्
कर्मण्यवग्रहधियो भगवन्विदामः।
धर्मोपलक्षणमिदं त्रिवृदध्वराख्यं
ज्ञातं यदर्थमधिदैवमदोव्यवस्थाः॥
मूलम्
तत्त्वं न ते वयमनञ्जन रुद्रशापात् कर्मण्यवग्रहधियो भगवन्विदामः।
धर्मोपलक्षणमिदं त्रिवृदध्वराख्यं ज्ञातं यदर्थमधिदैवम55दोव्यवस्थाः॥ २७ ॥
अनुवाद (हिन्दी)
ऋत्विजोंने कहा—उपाधिरहित प्रभो! भगवान् रुद्रके प्रधान अनुचर नन्दीश्वरके शापके कारण हमारी बुद्धि केवल कर्मकाण्डमें ही फँसी हुई है, अतएव हम आपके तत्त्वको नहीं जानते। जिसके लिये ‘इस कर्मका यही देवता है’ ऐसी व्यवस्था की गयी है—उस धर्मप्रवृत्तिके प्रयोजक, वेदत्रयीसे प्रतिपादित यज्ञको ही हम आपका स्वरूप समझते हैं॥ २७॥
वीरराघवः
अथ ऋत्विजः परमात्मतत्त्वानभिज्ञतामात्मीया मावेदयन्तः तं सर्वयज्ञाराध्यत्वेन स्तुवन्ति - तत्त्वमिति । हे अनञ्जन! निरञ्जन! पुण्यापुण्यरूपमलरहितेत्यर्थः । वयं नन्दिकेश्वरस्य शापात् कर्मण्येव अवग्रहधियः दुराग्रहचित्तास्ते तव तत्त्वं याथात्म्यं न विदामः 56जानीमः । किन्तु हे भगवन्! पूर्णषाड्गुण्यमूर्ते! त्रिवृत् त्रयाणां सत्वादीनां गुणानां वृत् भावे क्विप् वर्तनं यस्मिन् तत् त्रिभिर्गुणैः वर्तत इति वा । “त्रैगुण्यविषया वेदाः” (भगी. 2-45) इत्युक्तरीत्या तत्तद्गुणानुसारेण ह्यध्वरादिकर्म विहितं धर्मोपलक्षणं धर्मस्य क्रियाजन्यस्य अपूर्वस्य देवताप्रसादस्यवा उपलक्षणम् । उपलक्ष्यतेऽनेनेति उपलक्षणं ज्ञापकम् उत्पादकमित्यर्थः । “तृप्त एव एनम् इन्द्रः प्रजया पशुभिः तर्पयति" इति देवताप्रसादादेः ज्ञापकत्वे हि चोदितम् । इदमध्वराख्यं कर्म ज्ञातम् । अस्माभिरिति शेषः । कीदृशं तत्कर्म ? तत्राह - यदर्थं यत्प्रयोजनाय यत्कर्मफलप्रदानाय यत्कर्माराध्यत्वाय चेत्यर्थः । अदः एतद्दैवम् इन्द्रादिदैवतम् अधिव्यवस्थाः विशेषेण अधिष्ठाय स्थितवानित्यर्थः । व्यवस्था इत्यत्राडागमाभावः आर्षः । अनेन इन्द्रादिरूपेण सर्वयज्ञाराध्यः तत्फलदश्च त्वमेवेत्युक्तं भवति ॥ २७ ॥
श्लोक-२८
मूलम् (वचनम्)
सदस्या ऊचुः
विश्वास-प्रस्तुतिः
उत्पत्त्यध्वन्यशरण उरुक्लेशदुर्गेऽन्तकोग्र-
व्यालान्विष्टे विषयमृगतृष्यात्मगेहोरुभारः।
द्वन्द्वश्वभ्रे खलमृगभये शोकदावेऽज्ञसार्थः
पादौकस्ते शरणद कदा याति कामोपसृष्टः॥
मूलम्
उत्पत्त्यध्वन्यशरण उरुक्लेशदुर्गे57ऽन्तकोग्रव्यालान्वि58ष्टे विषयमृग59तृष्णात्मगेहोरु 60भारे।
द्वन्द्वश्वभ्रे खलमृगभये शोकदावेऽज्ञसार्थः पादौक61स्ते शरणद कदा याति कामोपसृष्टः॥ २८ ॥
अनुवाद (हिन्दी)
सदस्योंने कहा—जीवोंको आश्रय देनेवाले प्रभो! जो अनेक प्रकारके क्लेशोंके कारण अत्यन्त दुर्गम है, जिसमें कालरूप भयंकर सर्प ताकमें बैठा हुआ है, द्वन्द्वरूप अनेकों गढ़े हैं, दुर्जनरूप जंगली जीवोंका भय है तथा शोकरूप दावानल धधक रहा है—ऐसे, विश्राम-स्थलसे रहित संसारमार्गमें जो अज्ञानी जीव कामनाओंसे पीड़ित होकर विषयरूप मृगतृष्णाजलके लिये ही देह-गेहका भारी बोझा सिरपर लिये जा रहे हैं, वे भला आपके चरणकमलोंकी शरणमें कब आने लगे॥ २८॥
वीरराघवः
अथ सदस्याः तापत्रयाभिद्यातार्ताः जननपदव्या हेयतामाविष्कुर्वन्तो भगवच्चरणारविन्दशरणागतिं प्रार्थयन्त आहुः - उत्पत्त्यध्वनीति । हे शरणद! उपायनिर्वर्तक शरणप्रद! शरण्येति यावत् । उत्पत्त्यध्वनि संसार मार्गे वर्तमानः अज्ञानां सार्थः समूहः कामेनोपसृष्टः पीडितः ते तव पादौकः पादावेव ओकः विश्रान्तिस्थानं कल्पतरुमूलवद्विश्रान्ति जनकस्थानमित्यर्थः । कदा याति शरणं गच्छति । कथम्भूते उत्पत्त्यध्वनि ? अशरणे विश्रामस्थानशून्ये उरुक्लेशा एव दुर्गमस्थानानि यस्मिन्, अन्तक एवोग्रो व्याधः तेनान्विष्टे लक्ष्यीकृते विषयमृगतृष्णात्मगेहोरुभारो विषयरूपा मृगतृष्णिका आत्माभिमानास्पदं च शरीरं गेहं ममता62स्पदं गृहं तान्येवोरुभारो यस्मिन् ! प्रथमान्तपाठे अज्ञसार्थस्य विशेषणं विषयमृगतृष्णादेव एव उरुभारो यस्य स इति । द्वन्द्वानि सुखदुःखादीनि एव श्वभ्राणि गर्ता यस्मिन्, खला दुर्जना एव मृगा व्याघ्रादयः तेभ्यो भयं यस्मिन् शोक एव दावाग्निः यस्मिन् ॥ २८ ॥
श्लोक-२९
मूलम् (वचनम्)
रुद्र उवाच
विश्वास-प्रस्तुतिः
तव वरद वराङ्घ्रावाशिषेहाखिलार्थे
ह्यपि मुनिभिरसक्तैरादरेणार्हणीये।
यदि रचितधियं माविद्यलोकोऽपविद्धं
जपति न गणये तत्त्वत्परानुग्रहेण॥
मूलम्
तव वरद वराङ्घावाशि63षेहाखि64लार्च्ये ह्यपि मुनिभिरसक्तैरादरेणार्हणीये।
यदि रचितधियं 65माविद्यलोकोऽपविद्धं ज66पति न गणये त67त्त्वत्परानुग्रहेण॥ २९ ॥
अनुवाद (हिन्दी)
रुद्रने कहा—वरदायक प्रभो! आपके उत्तम चरण इस संसारमें सकाम पुरुषोंको सम्पूर्ण पुरुषार्थोंकी प्राप्ति करानेवाले हैं; और जिन्हें किसी भी वस्तुकी कामना नहीं है, वे निष्काम मुनिजन भी उनका आदरपूर्वक पूजन करते हैं। उनमें चित्त लगा रहनेके कारण यदि अज्ञानी लोग मुझे आचार भ्रष्ट कहते हैं, तो कहें; आपके परम अनुग्रहसे मैं उनके कहने-सुननेका कोई विचार नहीं करता॥ २९॥
वीरराघवः
रुद्रस्तु मम निन्दा दुस्सहाऽऽसीत् पूर्वमिदानीं तु तां न गणायामी त्याह - तवेति । हे वरद! इहाऽस्मिन् लोके आशिषा कामेन अखिलैरर्च्ये आराधनीये तथाऽसक्तैर्मुमुक्षुभिश्च आदरेणार्हणीये तव वराङ्घ्रौ निरतिशय सुकुमारत्व सुगन्धत्वादियुक्ते चरणारविन्दे रचितधियं न्यस्त चित्तं माम् अविद्यलोकोऽज्ञलोकः यदि यद्यपि अपविद्धम् आचारहीनं जपति जल्पति तथापि तज्जल्पनं न गणये न गणयामि, निन्दकान्न निगृह्णामीत्यर्थः । कुतः ? त्वत्परानुग्रहेण तव यः परानुग्रहः परेषु अनुग्रहः तेन हेतुना तव परानुग्रहैकनिरतत्त्वात् त्वच्चरणारविन्दासक्तचित्तानामस्माकमपि परानुग्रह एवोचित इति भावः ॥ २९ ॥
श्लोक-३०
मूलम् (वचनम्)
भृगुरुवाच
विश्वास-प्रस्तुतिः
यन्मायया गहनयापहृतात्मबोधा
ब्रह्मादयस्तनुभृतस्तमसि स्वपन्तः।
नात्मन् श्रितं तव विदन्त्यधुनापि तत्त्वं
सोऽयं प्रसीदतु भवान् प्रणतात्मबन्धुः॥
मूलम्
यन्मायया गहनयाप68हतात्मबोधा ब्रह्मादयस्तनुभृतस्तमसि स्वपन्तः।
69नात्मन् 70श्रितं तव विदन्त्यधुनाऽपि तत्त्वं । सोऽयं प्रसीदतु भवान् प्रणतात्मबन्धुः॥ ३० ॥
अनुवाद (हिन्दी)
भृगुजीने कहा—आपकी गहन मायासे आत्मज्ञान लुप्त हो जानेके कारण जो अज्ञान-निद्रामें सोये हुए हैं, वे ब्रह्मादि देहधारी आत्मज्ञानमें उपयोगी आपके तत्त्वको अभीतक नहीं जान सके। ऐसे होनेपर भी आप अपने शरणागत भक्तोंके तो आत्मा और सुहृद् हैं; अतः आप मुझपर प्रसन्न होइये॥ ३०॥
वीरराघवः
भृगुस्त्वविद्यातिरोहितस्वरूपत्वेन देहपरवशत्वात् सर्वे ब्रह्मादयो जीवा अपराधैकपराः त्वं तु अपराधसहनैकशीलोऽसि, अतः प्रकृतोऽपराधः त्वया क्षन्तव्य इत्याह - यन्माययेति । ब्रह्मादयः सर्वे तनुभृतो देहिनः जीवा इति यावत्, गहनया दुरत्ययया यस्य तव मायया अपहृतः तिरोहितः आत्मनो बोधः धर्मभूतं ज्ञानं येषां ते, अत एव तमसि तमश्शब्दवाच्यसूक्ष्मप्रकृति परिणामरूपे शरीरे स्वपन्तः शयाना वर्तमानाः यद्वा, तमःकार्ये जन्मजरामरणादिरूपे संसारे शयानाः आत्मन् आत्मनि श्रितं आश्रितं जीवान्तरात्मतयाऽधिष्ठितं तव तत्त्वं स्वरूपयाथात्म्य मधुनाऽपिन विदन्ति न जानन्ति । सोऽयं प्रणतानां शरणगतानां आत्मबन्धुः आत्मवन्निरतिशय प्रीतिविषयः प्रीतिर्मांश्च बन्धुः, यद्वा प्रणतानामात्मनां बन्धुः प्रसीदतु अस्माननुगृह्णातु ॥ ३० ॥
श्लोक-३१
मूलम् (वचनम्)
71ब्रह्मोवाच
विश्वास-प्रस्तुतिः
नैतत्स्वरूपं भवतोऽसौ पदार्थ-
भेदग्रहैः पुरुषो यावदीक्षेत्।
ज्ञानस्य चार्थस्य गुणस्य चाश्रयो
मायामयाद् व्यतिरिक्तो यतस्त्वम्॥
मूलम्
नैतत्स्वरूपं भवतोऽसौ पदार्थभेदग्रहैः72 पुरुषो यावदीक्षेत्।
ज्ञानस्य चार्थस्य गुणस्य चाश्रयो73 मायामयाद्व्यतिरिक्तो74ऽसतस्त्वम्॥ ३१ ॥
अनुवाद (हिन्दी)
ब्रह्माजीने कहा—प्रभो! पृथक्-पृथक् पदार्थोंको जाननेवाली इन्द्रियोंके द्वारा पुरुष जो कुछ देखता है, वह आपका स्वरूप नहीं है; क्योंकि आप ज्ञान शब्दादि विषय और श्रोत्रादि इन्द्रियोंके अधिष्ठान हैं—ये सब आपमें अध्यस्त हैं। अतएव आप इस मायामय प्रपंचसे सर्वथा अलग हैं॥ ३१॥
वीरराघवः
अथ ब्रह्मा “नात्मन् श्रितं तव विदन्त्यधुनाऽपि तत्त्वम्” (भाग. 4-7-30) इति भगवत्तत्त्वस्यावेद्यत्वं यद्भृगुणोक्तं तदेव प्रपञ्चयन्नाह - नैतदिति । भवत एतद्वाङ्गमनसागोचर स्वरूपं पुरुषो जीवः पदार्थानां भेदं स्वासाधारणं धर्मं गृह्णन्तीति पदार्थभेदग्रहाः पदार्थभेदो गृह्यत एभिरिति वा पदार्थभेदग्रहाः रूपस्पर्शादिग्राहकैः चक्षुरादिभिरिन्द्रियैरित्यर्थः । नेक्षेत् न साक्षात्कुर्यात्, कुतः ? यावत् यावता यत इत्यर्थः । असौ पुरुषः ज्ञानस्य ज्ञायतेऽनेनेति ज्ञानं करणे ल्युट् तस्य इन्द्रियवर्गस्य अर्थस्य शब्दादेर्विषयस्य गुणस्य च ज्ञानार्थयोः कारणस्य सत्त्वादिगुणस्य च आश्रयः त्वन्तु मायामयात् मायापरिणामरूपात् असतो देहादेः तत्संसृष्टाच्च जीवात् व्यतिरिक्तोऽत्यन्तविलक्षणः प्राकृतं हि चक्षुरादी75न्द्रियं प्राकृतमेव गृह्णीयात् न त्वप्राकृतं त्वत्स्वरूपमिति भावः ॥ ३१ ॥
श्लोक-३२
मूलम् (वचनम्)
इन्द्र उवाच
विश्वास-प्रस्तुतिः
इदमप्यच्युत विश्वभावनं
वपुरानन्दकरं मनोदृशाम्।
सुरविद्विट्क्षपणैरुदायुधै-
र्भुजदण्डैरुपपन्नमष्टभिः॥
मूलम्
इदम76प्यच्युत विश्वभावनं वपुरानन्दकरं मनोदृशाम्।
सुरविद्विट्क्षपणैरुदायुधैर्भुजदण्डैरुपपन्नमष्टभिः॥ ३२ ॥
अनुवाद (हिन्दी)
इन्द्रने कहा—अच्युत! आपका यह जगत्को प्रकाशित करनेवाला रूप देवद्रोहियोंका संहार करनेवाली आठ भुजाओंसे सुशोभित है, जिनमें आप सदा ही नाना प्रकारके आयुध धारण किये रहते हैं। यह रूप हमारे मन और नेत्रोंको परम आनन्द देनेवाला है॥ ३२॥
वीरराघवः
इन्द्रस्तु भगवदवतारस्य धर्मसंस्थापनार्थत्वमनुसन्दधदाह - इदमिति । हे अच्युत ! इदं तव वपुः शरीरं विश्वभावनं विश्वं भावयति सुखि77नं करोतीति विश्वभावनम् । अत एव मनोदृशां मनसां दृशाञ्च आनन्दं करोतीत्यानन्दकरम् । अस्य रूपस्य धर्मसंस्थापनार्थत्वात् तस्य चाधर्मविरतिपूर्वकत्वा दधार्मिकविरत्युपयुक्तत्वं विग्रहस्या ह । सुरविद्विषः सुराणां विद्विषः असुराः तान् क्षपयन्तीति तैः उद्धृतान्यायुधानि यैस्तैरष्टभिर्भुजदण्डैः दण्डवद्दीर्घैः भुजैरुपपन्नं युक्तम् ॥ ३२ ॥
श्लोक-३३
मूलम् (वचनम्)
ऋ78त्विक्पत्न्य ऊचुः
विश्वास-प्रस्तुतिः
यज्ञोऽयं तव यजनाय केन सृष्टो
विध्वस्तः पशुपतिनाद्य दक्षकोपात्।
तं नस्त्वं शवशयनाभशान्तमेधं
यज्ञात्मन्नलिनरुचा दृशा पुनीहि॥
मूलम्
यज्ञोऽयं तव यजनाय केन सृष्टो विध्वस्तः पशुपतिनाऽद्य दक्षकोपात्।
तं नस्त्वं शवशयनाभशान्तमेधं यज्ञात्म79न्नलिनरुचा दृशा पुनीहि॥ ३३ ॥
अनुवाद (हिन्दी)
याज्ञिकोंकी पत्नियोंने कहा—भगवन्! ब्रह्माजीने आपके पूजनके लिये ही इस यज्ञकी रचना की थी; परन्तु दक्षपर कुपित होनेके कारण इसे भगवान् पशुपतिने अब नष्ट कर दिया है। यज्ञमूर्ते! श्मशानभूमिके समान उत्सवहीन हुए हमारे उस यज्ञको आप नील कमलकी-सी कान्तिवाले अपने नेत्रोंसे निहारकर पवित्र कीजिये॥ ३३॥
वीरराघवः
ऋत्विक्पत्न्यस्तु 80भवदाराधनत्वेनोपक्रान्तं विच्छिन्नमध्वरं कृपादृष्ट्या पवित्रीकुर्वित्याहुः - यज्ञ इति । अयं यज्ञः तव यजनाय आराधनाय केन ब्रह्मणा पूर्वं सृष्टः दक्षेण वा आरब्धः स चेदानीं पशुपतिना रुद्रेण दक्षे कोपात् विध्वस्तः, हे यज्ञात्मन् ! यज्ञः आत्मा मूर्तिर्यस्य तस्य सम्बुद्धिः । नोऽस्माकं यज्ञं नलिनकान्त्या दृशा नेत्रेण पुनीहि पवित्रं कुरु । कथम्भूतं यज्ञं ?शवाः शेरते यस्मिन्निति शवशयनं श्मशानं तद्वदाभा प्रतीतिर्यस्य सः, मेधशब्देन पशुहिंसाद्युत्सवो लक्ष्यते शान्तः मेधः यस्य सः उपरतोत्सवः शवशयनाभश्चाऽसौ शान्तमेधश्चेति कर्मधारयः ॥ ३३ ॥
श्लोक-३४
मूलम् (वचनम्)
ऋषय ऊचुः
विश्वास-प्रस्तुतिः
अनन्वितं ते भगवन् विचेष्टितं
यदात्मना चरसि हि कर्म नाज्यसे।
विभूतये यत उपसेदुरीश्वरीं
न मन्यते स्वयमनुवर्ततीं भवान्॥
मूलम्
अनन्वितं 81तव भगवन् विचेष्टितं यदात्मना चरसि हि कर्म नाऽऽज्यसे।
विभूत82ये यत उपसेदुरीश्व83रीं न मन्यते स्वयमनु84वर्तिनीं भवान्॥ ३४ ॥
अनुवाद (हिन्दी)
ऋषियोंने कहा—भगवन्! आपकी लीला बड़ी ही अनोखी है; क्योंकि आप कर्म करते हुए भी उनसे निर्लेप रहते हैं। दूसरे लोग वैभवकी भूखसे जिन लक्ष्मीजीकी उपासना करते हैं, वे स्वयं आपकी सेवामें लगी रहती हैं; तो भी आप उनका मान नहीं करते, उनसे निःस्पृह रहते हैं॥ ३४॥
वीरराघवः
ऋषयस्तु यत्परमात्मनोऽसाधारणमपहतपाप्मत्वं देवमनुष्यादिपुण्यापुण्य सजातीय चेष्टितत्वेऽपि तत्फलाननुभवितृत्वरूपं तदनुसन्दधानाः परिपूर्णत्वेन स्तुवन्ति - अनन्वितमिति । हे भगवन् ! ते तव चेष्टितमिदमनन्वितमघटमानं विस्मयनीयमित्यर्थः । किं तत्राह - आत्मना स्वयं कर्म पुण्यापुण्य सजातीयं कर्म चरसि अनुतिष्ठसि नाऽज्यसे 85तत्कृतेन 86तत्फलेन न लिप्यसे इत्यर्थः । इदमप्यन्यदनन्वितमित्या87ह - यत इति । चतुर्थ्यर्थे तसिः, तस्य सार्वविभक्तिकत्वात् यस्यै विभूतये यद्विभूत्यर्थम् ईश्वरीं लक्ष्मीम् उपसेदुः भेजुः ब्रह्मादय इति शेषः । द्वितीयार्थे वा तसिः, विभूतये सम्पदे यामीश्वरीं भेजुः तां स्वयमनुवर्तिनीं स्वयमेवानुवर्तमानां भवान्नमन्यते नाऽद्रियते उपेक्षत इत्यर्थः । अनेन परिपूर्णत्वमुक्तम् ॥ ३४ ॥
श्लोक-३५
मूलम् (वचनम्)
सिद्धा ऊचुः
विश्वास-प्रस्तुतिः
अयं त्वत्कथामृष्टपीयूषनद्यां
मनोवारणः क्लेशदावाग्निदग्धः।
तृषार्तोऽवगाढो न सस्मार दावं
न निष्क्रामति ब्रह्मसम्पन्नवन्नः॥
मूलम्
अयं ते88 कथामृष्टपीयूषनद्यां मनोवारणः क्लेशदावाग्निदग्धः।
तृषार्तोऽवगाढो न सस्मार दावं न निष्क्रामति ब्रह्मसम्पन्न89वन्नः॥ ३५ ॥
अनुवाद (हिन्दी)
सिद्धोंने कहा—प्रभो! यह हमारा मनरूप हाथी नाना प्रकारके क्लेशरूप दावानलसे दग्ध एवं अत्यन्त तृषित होकर आपकी कथारूप विशुद्ध अमृतमयी सरितामें घुसकर गोता लगाये बैठा है। वहाँ ब्रह्मानन्दमें लीन-सा हो जानेके कारण उसे न तो संसाररूप दावानलका ही स्मरण है और न वह उस नदीसे बाहर ही निकलता है॥ ३५॥
वीरराघवः
सिद्धास्तु तत्कथासुखमभिनन्दन्तः स्तुवन्ति - अयमिति । अयं नोऽस्माकं मनो वारणः मनोगजः क्लेशा आध्यात्मिकादयस्तापाः त एव दावाग्नयः तैर्दग्धः अत एव तृषा शब्दादिविषययाऽऽसक्त्या आर्तः पीडितः ते तव त्वत्कथैव मृष्टं शुद्धं पीयूषं तन्मयी या नदी तस्यामवगाढः प्रविष्टो दानं दावग्नितुल्यसांसारिकाध्यात्मिकादितापं न सस्मार न स्मरति । न च ततो निर्गच्छति । ब्रह्मसम्पन्नवत् मुक्तवत् सुखित एवाऽवतिष्ठत इत्यर्थः ॥ ३५ ॥
श्लोक-३६
मूलम् (वचनम्)
90यजमान्युवाच
विश्वास-प्रस्तुतिः
स्वागतं ते प्रसीदेश तुभ्यं नमः
श्रीनिवास श्रिया कान्तया त्राहि नः।
त्वामृतेऽधीश नाङ्गैर्मखः शोभते
शीर्षहीनः कबन्धो यथा पूरुषः॥
मूलम्
स्वागतं ते प्रसीदेश तुभ्यं नमः श्रीनिवा91स श्रिया कान्तया त्राहि नः।
त्वामृतेऽधीश नाङ्गैर्मखः शोभते शीर्षहीनः कबन्धो यथा पूरुषः॥ ३६ ॥
अनुवाद (हिन्दी)
यजमानपत्नीने कहा—सर्वसमर्थ परमेश्वर! आपका स्वागत है। मैं आपको नमस्कार करती हूँ। आप मुझपर प्रसन्न होइये। लक्ष्मीपते! अपनी प्रिया लक्ष्मीजीके सहित आप हमारी रक्षा कीजिये। यज्ञेश्वर! जिस प्रकार सिरके बिना मनुष्यका धड़ अच्छा नहीं लगता, उसी प्रकार अन्य अंगोंसे पूर्ण होनेपर भी आपके बिना यज्ञकी शोभा नहीं होती॥ ३६॥
वीरराघवः
दक्षपत्नी यजमानीस्तौति - स्वागतमिति । हे ईश! ते तव स्वागतं भद्रमागमनं जातं हे श्रीनिवास! प्रसीद! प्रसन्नो भव! अस्माकमिति शेषः । ते तुभ्यं नमः । हे अधीश! यथा शिरसा हीनः कबन्धमात्रः पुरुषः अङ्गैः करचरणाद्यवयवैः शोभनैरपि न शोभते तथा त्वां विना केवलं प्रयाजाद्यङ्गैर्मखो न शोभते । अतो नः श्रिया कान्तया सह त्रायस्व पालयेत्यर्थः ॥ ३६ ॥
श्लोक-३७
मूलम् (वचनम्)
लोकपाला ऊचुः
विश्वास-प्रस्तुतिः
दृष्टः किं नो दृग्भिरसद्ग्रहैस्त्वं
प्रत्यग्द्रष्टा दृश्यते येन दृश्यम्।
माया ह्येषा भवदीया हि भूमन्
यस्त्वं षष्ठः पञ्चभिर्भासि भूतैः॥
मूलम्
दृष्टः किं नो दृग्भिरसद्ग्रहैस्त्वं प्रत्य92ग्द्रष्टा दृश्यते येन 93दृश्यम्।
माया ह्येषा भवदीया हि भूमन् यस्त्वं षष्ठः पञ्चभिर्भासि भूतैः॥ ३७ ॥
अनुवाद (हिन्दी)
लोकपालोंने कहा—अनन्त परमात्मन्! आप समस्त अन्तःकरणोंके साक्षी हैं, यह सारा जगत् आपके ही द्वारा देखा जाता है। तो क्या मायिक पदार्थोंको ग्रहण करनेवाली हमारी इन नेत्र आदि इन्द्रियोंसे कभी आप प्रत्यक्ष हो सके हैं? वस्तुतः आप हैं तो पंचभूतोंसे पृथक्; फिर भी पांचभौतिक शरीरोंके साथ जो आपका सम्बन्ध प्रतीत होता है, यह आपकी माया ही है॥ ३७॥
वीरराघवः
लोकपालास्तु भगवतः सौलभ्यं तन्मायावैभवम् अनुसन्दधानाः स्तुवन्ति - दृष्ट इति । त्वं वाङ्गमनसा गोचरस्वरूपस्वभाव स्त्वं नः अस्माकं दृग्भिः मांसचक्षुर्भिः किं दृष्टः कथं दृष्ट इत्यर्थः । स्वयं वाङ्मनसाऽवेद्य स्वरूपस्वभावत्वे सति अखिलजननयनविषयतामतत्वरूपसौलभ्येनैव दृष्ट इत्यर्थः । नो इति निपातो वा नञ्पर्यायः दृग्भिः नो दृष्टः किं दृष्ट एवेत्यर्थः । सौलभ्यमेवाऽत्र कारणमिति भावः । यद्वा एष 94दृगविषयोऽपि दृग्विषयो जात इति एषा भवदीया माया भवदीयो विचित्रः सङ्कल्प इत्यर्थः । माया शब्दस्य विचित्रसर्गकारिशक्तिविशेषपरत्वे पूर्वोक्त एवान्वयः साधुः । इदमपि तव मायाकार्यमेवेत्याह असद्ग्रहैः । असति देहे तदनुबन्धिनि च ग्रहः आग्रहः अहम्ममताऽभिमानः येषां तै र्देहात्माभिमानिभिरित्यर्थः । दृश्यं शरीरं येन कारणेन प्रत्यग्दृष्ट्या दृश्यते प्रत्यक्त्वेन दृश्यते आत्मत्वे95नाऽभिमन्यत इत्यर्थः । एषा दृश्यस्य प्रत्यक्त्वेन दृष्टिः भवदीया माया विचित्रा शक्तिरित्यर्थः । तत्कारणभूता भवदीया मायेति भावः । हि शब्दः श्रौतीं स्मार्तीं च प्रसिद्धिं द्योतयति । “अस्मान् मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः । (श्वेता. उ. 4-9) नाऽसदासी न्नो सदासीत्तदानीन्तम आसीत्, तमसा गूढमग्रे प्रकेतम्”(ऋक्सं. 10-129-1) (तैत्ति. ब्रा. 2-8-9) “देवी ह्येषा गुणमयी मम माया दुरत्यया (भ.गी. 7-14) इत्यादि श्रुतिः स्मृतिश्चाऽत्रानुसन्धेया । एतेन देहात्मभ्रमो भगवन्मायामूल एवेत्युक्तं भवति । एवं जीवेशैक्यभ्रमोऽपि त्वन्मायामूल एवेत्याहुः । हे भूमन्! अनेन जीववैलक्षण्यं सूचितं जीवस्याणुस्वरूपत्वात् यस्त्वं प्रकृतिपुरुषविलक्षण स्त्वं पञ्चभि भूतैः पृथिव्यादिभिः सहित इति शेषः । अत्र पञ्चभिः भूतैरित्यनेन तत्परिणामरूपं शरीरं लक्ष्यते, तद्विशिष्टः षष्ठोऽचिद्विलक्षणो जीवः, पञ्चभूतप्रस्तावात् षष्ठ इत्युक्तिः । भासि जीवत्वेन प्रतीयसे, एषाऽपि प्रतीतिः त्वन्मायैव मायाकार्यभूतैवेत्यर्थः । हि शब्दः स्वतन्त्रात्मभ्रमवत् पुरुषेषु प्रसिद्धिद्योतकः ॥ ३७ ॥
श्लोक-३८
मूलम् (वचनम्)
योगेश्वरा ऊचुः
विश्वास-प्रस्तुतिः
प्रेयान्न तेऽन्योऽस्त्यमुतस्त्वयि प्रभो
विश्वात्मनीक्षेन्न पृथग्य आत्मनः।
अथापि भक्त्येशतयोपधावता-
मनन्यवृत्त्यानुगृहाण वत्सल॥
मूलम्
प्रेयान्न तेऽन्योऽस्त्यमु96तस्त्वयि प्रभो विश्वात्मनीक्षेन्न पृथग्य आत्मनः।
अ97थाऽपि 98भृत्येशतयोपधावतामनन्यवृत्त्याऽनुगृहाण वत्सल॥ ३८ ॥
अनुवाद (हिन्दी)
योगेश्वरोंने कहा—प्रभो! जो पुरुष सम्पूर्ण विश्वके आत्मा आपमें और अपनेमें कोई भेद नहीं देखता, उससे अधिक प्यारा आपको कोई नहीं है। तथापि भक्तवत्सल! जो लोग आपमें स्वामिभाव रखकर अनन्य भक्तिसे आपकी सेवा करते हैं, उनपर भी आप कृपा कीजिये॥ ३८॥
वीरराघवः
लोकपालैर्भगवतो रूपसौलभ्या99द्यनुसन्धानपूर्वकं मायावैभवरूप जीवेशैक्य प्रतीते भ्रमत्वे चोक्ते योगीश्वराः परमपुरुषात्स्वतन्त्रभेदं वारयन्तः तद्भेदस्य पारतन्त्र्यं तस्य च शरीरशरीरिभाव - शेषशेषिभावादिनिबन्धनत्वञ्च आविष्कुर्वन्तो वात्सल्यगुणविशिष्टत्वेन स्तुवन्ति - प्रेयानिति । हे प्रभो ! विश्वात्मनि विश्वस्य चिदचिदात्मक प्रपञ्चस्यान्तः प्रविश्य स्वयमपरित्यक्तस्वरूप स्वभावत्वेन प्रशासनेन धारके, अनेन विश्वस्य शरीरत्व मुक्तमिति जीवानां परतन्त्रभेदोऽभ्युपगत इति वेदितव्यम् । विश्वात्मनि त्वयि विश्वस्माद्विलक्षणे त्वयि यः पुमान् आत्मनः स्वस्य पृथक्त्वं पृथसिद्धत्वं स्वस्य अब्रह्मात्मकत्वमित्यर्थः । नेक्षेत् न पश्येत् स्वात्मानं परमात्मशरीरत्वे100न तदपृथसिद्धत्वेन ब्रह्मात्मकत्वेन अनुपश्येदित्यर्थः । अमुतः अमुष्पात् तत्त्वदर्शिनः अन्य स्ते तव प्रेयान् प्रीतिविषयो नाऽस्ति । तथैव हि भगवता “प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः” (भ.गी. 7-17) इति गीतमिति भावः । अत्र पृथक्त्वं नेक्षेदित्यनेन तादात्म्येन दर्शनं विहितमित्यर्थवर्णनं त्वयुक्तम् । विश्वात्मनि भृत्येशतयेति पूर्वोत्तरव्याघातात् । विश्वतादात्म्यं तु सर्वसमयविरुद्धं जडाजडयोरप्यैक्यप्रसङ्गात् । अतो विश्वात्मनीति व्यतिरेकनिर्देश एव । अत आत्मनः पृथक्सिद्धत्वेनैव दर्शनं प्रतिषिध्यते । अनेन परतन्त्र भेद उक्तः । शरीरात्मभाववचनेन तदन्तर्भूताः शेषशेषिभावादयोऽप्यर्थादुक्ताः । एवं शरीरत्वेन शेषत्वेन चात्मानमनुसन्दधानो मत्प्रिय इति त्वयैवोक्तमिति सः त्वयाऽनुगृह्यत इति सिद्धमेव । किन्तु, योऽसौ शास्त्रसिद्धशरीरात्मभावादिज्ञानशून्यः केवल स्वस्वामि101भावज्ञानवान् सोऽपि वात्सल्यवता त्वयाऽनुग्राह्य एवेत्याहुः - तथाऽपीति । यद्यप्यात्मनोऽपृथक्त्वं न पश्यति लोकसिद्धं स्वामिभृत्यभावमेव पश्यति तथाऽपि भृत्येशतया भृत्यस्वामिभावेन उपधावतां समीपगतिं प्रक्रान्तानामनिष्पन्न ज्ञानानामित्यर्थः । अनन्यवृत्त्या अनुग्रहैकदृष्ट्या अनुगृहाण प्रसीद । हे वत्सल! दोषेऽपि गुणबुद्धिर्वात्सल्यं यथा मातुः पुत्रे वत्सलस्य तव आज्ञाऽनुग्रह उचित इति भावः । यद्वा अनन्यवृत्त्या अव्यभिचारिण्या भक्त्या उपधावताम् अनुगृहाणेत्यन्वयः ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
जगदुद्भवस्थितिलयेषु दैवतो
बहुभिद्यमानगुणयाऽऽत्ममायया।
रचितात्मभेदमतये स्वसंस्थया
विनिवर्तितभ्रमगुणात्मने नमः॥
मूलम्
जगदुद्भवस्थितिलयेषु 102दैवतो 103बहुभिद्यमानगुणयाऽऽत्ममायया।
रचितात्मभेदमतये स्वसंस्थया 104विनिवर्तित भ्रमगुणात्मने नमः॥ ३९ ॥
अनुवाद (हिन्दी)
जीवोंके अदृष्टवश जिसके सत्त्वादि गुणोंमें बड़ी विभिन्नता आ जाती है, उस अपनी मायाके द्वारा जगत्की उत्पत्ति, स्थिति और प्रलयके लिये ब्रह्मादि विभिन्न रूप धारण करके आप भेदबुद्धि पैदा कर देते हैं; किन्तु अपनी स्वरूप-स्थितिसे आप उस भेदज्ञान और उसके कारण सत्त्वादि गुणोंसे सर्वथा दूर हैं। ऐसे आपको हमारा नमस्कार है॥ ३९॥
वीरराघवः
ननु भगवतो विश्वात्मकत्वे विश्वगतदोषाणां परमात्मन्यापत्तिस्ततः सुखदुःखाद्यनुभवश्च जीववत् तत्राहुः - जगदिति । जगत उत्पत्तिस्थितिलयेषु निमित्तभूतेषु जगदुद्भवाद्यर्थमित्यर्थः, दैवतो दैवात् देवो भगवान् तत्सम्बन्धिसङ्कल्पो दैवः तस्मात् बहुभिद्यमानगुणया बहुधाभिद्यमानागुणाः ब्रह्मरुद्रादिदेहरूपेण परिणम्यमानाः सत्त्वदिगुणाः यस्याः तयाऽत्ममायया रचितात्मभेदमतये रचितः आत्मनि यो भेदः देवत्वमनुष्यादिरूपः तद्विषया मतिः बुद्धिः यस्य तस्मै देहात्माभिमानान्वित क्षेत्रज्ञ शरीरायेत्यर्थः । यद्वा बहुभिद्यमान गुणया बहुभिद्यमानाः देवमनुष्य पशुपादपादिरूपेण परिणम्यमानाः सत्त्वादिगुणा यस्याः तया आत्मनः परमात्मनो मायया तच्छरीरभूतया माययेत्यर्थः । “अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः जनयन्तीं सरूपाः” । (म.ना.उ. 8-4) “गुणैर्विचित्राः सृजतीं सरूपाः प्रकृति प्रजाः” इत्यादिक105मत्रानुसन्धेयम् । एवम्भूतया मायया दैवात् भगवत्सङ्कल्पात् जगदुद्भवस्थितिलयेषु सत्सु अत्र आत्ममाययेत्यनेन आत्मसम्बन्धित्वावगमात् सम्बन्धसामान्यस्य विशेषपर्यवसानजिज्ञासायां “यस्याऽक्षरं शरीरं यस्याऽव्यक्तं शरीरम्” (सुबा.उ. 7-1) इति श्रुति व्यवस्थापित शरीरशरीरिभावरूपसम्बन्धविशेषे पर्यवसानात् ब्रह्मात्मिकायाः मायायाः जगदुपादानत्वमवगन्तव्यम् । जगदुपादानभूतया मायया जगदुत्पत्त्यादिषु सत्सु स्वसंस्थया स्वस्य संस्था सम्यगवस्थितिः तया रचितात्मभेदमतये रचिता आत्मभेदाः आत्मगता देवत्वमनुष्यत्वादयो भेदास्तद्विषया मतिर्यस्य तस्मै । “तत्सृष्ट्वा तदेवाऽनुप्राविशत्त, तदनुप्रविश्य सच्चत्यच्चाऽभवत्” (तैत्ति. उ. 2-6) “अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि, नामरूपे व्याकरोत्” (छन्दो. उ. 6-3-2) इत्यादिश्रुत्युक्तरीत्या स्वस्य चिदचिदन्तरात्मतयाऽनुप्रवेशेन चिदचिद्गतनामरूपभेदस्य स्वपर्यन्तत्वव्याचिकीर्षवे इत्यर्थः । चिदचिद्गत नामरूपभेदस्य चिदचिद्द्वारा स्वपर्यन्तत्वानुद्रष्ट्रे इत्यर्थः । एवम्भूतायाऽपि विनिवर्तित भ्रमगुणात्मने विशेषेण निवर्तिता विनिवर्तिता नित्यनिवर्तितभ्रमः अन्यथाज्ञान विपरीतज्ञानादिरूपाः, गुणः तद्धेतवो रजस्तम आदिगुणाः आत्मनि येन तस्मै । स्वेनैव प्रकाशेन नित्यनिवर्तित हेयायेत्यर्थः । अनेन विश्वगतदोषापत्तिः परिहृता । एवम्भूताय ते नमः केवलं नमस्कुर्मो न तु त्वद्गुणान् वर्णयितुं शक्नुम इति भावः ॥ ३९ ॥
श्लोक-४०
मूलम् (वचनम्)
106शब्दब्रह्मोवाच
विश्वास-प्रस्तुतिः
नमस्ते श्रितसत्त्वाय धर्मादीनां च सूतये।
निर्गुणाय च यत्काष्ठां नाहं वेदापरेऽपि च॥
मूलम्
नमस्ते 106श्रितसत्त्वाय धर्मादीनां 107प्रसूतये।
निर्गुणाय च यत्काष्ठां नाऽहं 108वेदाऽपरे109ऽपि वा॥ ४० ॥
अनुवाद (हिन्दी)
ब्रह्मस्वरूप वेदने कहा—आप ही धर्मादिकी उत्पत्तिके लिये शुद्ध सत्त्वको स्वीकार करते हैं, साथ ही आप निर्गुण भी हैं। अतएव आपका तत्त्व न तो मैं जानता हूँ और न ब्रह्मादि कोई और ही जानते हैं; आपको नमस्कार है॥ ४०॥
वीरराघवः
योगीश्वरैः निरस्तनिखिलहेयत्वेन स्तुते भगवति स भगवान् किं निर्गुण इत्याशङ्कायां निरस्तनिखिलहेयः समस्तकल्याणगुणश्चेति स्तुवन् नमस्करोति शब्दब्रह्मा नम इति । अत्र शब्दब्रह्मशब्देन वेदा विवक्षिताः । निर्गुणाय निर्गताः सत्त्वरजस्तमआदयो हेयगुणा यस्मात् तस्मै निरस्तनिखिलदोषायेत्यर्थः । कल्याणगुणवत्त्वमाह - धर्मादीनां धर्मार्थादीनां प्रसूतये प्रकृष्टा सूतिर्यस्मात् स प्रसूतिः तस्मै प्रसवित इत्यर्थः । धर्मप्रसवितृत्वं धर्मादि प्रकाशकवेदोत्सर्जनद्वारा । तथा च श्रुतिः “तस्य ह वा एतस्य महतो भूतस्य निश्वसितमैतद्यदृग्वेदः” (सुबा. उ. 2-1) इति । “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै” (श्वेता. उ. 6-18) इति च । स्मृतिश्च “अनादिनिधना ह्येषा वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रसूतयः” (भार. शान्ति. मोक्ष. 231-56) इति । अनेन 110सर्वकारणत्व तदुपयुक्तसर्वज्ञत्व सर्वशक्तित्व सहितोपदेष्टृत्व वात्सल्यादिकल्याणगुणजातं विवक्षितं, तर्हि कति कल्याणगुणा इत्यत्र तेषामानन्त्यमाह तत्काष्ठां तेषां तत्स्वरूपगुणविभूतीनां काष्ठाम् अवधिमहं शब्दब्रह्म न वेद न जानामि । अपरे ब्रह्मादयो न विदुः । अहमेव न जानामि कुतोऽपरेमदायत्तसूक्ष्मदर्शिनो जानीयुरिति कैमुत्यनयोऽत्र विवक्षितः । अत्र ज्ञेयत्वनिषेधो न स्वरूपगुणादिविषयः । किन्तु तदियत्ताविषयः । तथा च श्रूयते “यस्याऽमतं तस्य मतं मतं यस्य न वेद सः” (केन. उ.2-3) “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्" । (तैत्ति. 3-2-4, 2-9) “अविज्ञातं विजानतां विज्ञातमविजानताम्” (केन. उ. 2-3) इति परिच्छिन्नत्वेन जानतोऽमतम् । अपरिच्छिन्नत्वेन जानतस्तु मतमित्यर्थः ॥ ४० ॥
श्लोक-४१
मूलम् (वचनम्)
अग्निरुवाच
विश्वास-प्रस्तुतिः
यत्तेजसाहं सुसमिद्धतेजा
हव्यं वहे स्वध्वर आज्यसिक्तम्।
तं यज्ञियं पञ्चविधं च पञ्चभिः
स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम्॥
मूलम्
यत्तेजसाहं सुसमिद्धतेजा हव्यं 111वहे स्वध्वर आज्यसिक्तम्।
तं यज्ञियं पञ्चविधं च पञ्चभिः स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम्॥ ४१ ॥
अनुवाद (हिन्दी)
अग्निदेवने कहा—भगवन्! आपके ही तेजसे प्रज्वलित होकर मैं श्रेष्ठ यज्ञोंमें देवताओंके पास घृतमिश्रित हवि पहुँचाता हूँ। आप साक्षात् यज्ञपुरुष एवं यज्ञकी रक्षा करनेवाले हैं। अग्निहोत्र, दर्श, पौर्णमास, चातुर्मास्य और पशु-सोम—ये पाँच प्रकारके यज्ञ आपके ही स्वरूप हैं तथा ‘आश्रावय’, ‘अस्तु श्रौषट्’, ‘यजे’, ‘ये यजामहे’ और ‘वषट्’—इन पाँच प्रकारके यजुर्मन्त्रोंसे आपका ही पूजन होता है। मैं आपको प्रणाम करता हूँ॥ ४१॥
वीरराघवः
एवं शब्दब्रह्मणि निरस्तनिखिलहेयत्वेन समस्तकल्याणगुणविशिष्टत्वेन च भगवन्तं स्तुतवति तदभिनन्द्याग्निः सर्वतेजसामाच्छादकत्वसर्वतेनः प्रकाशाऽऽपादकत्वादिकल्याणगुणान्तरविशिष्टत्वेन स्तुवन् नमस्करोति यत्तेजसेति । यस्य भगवतः तेजसा प्रकाशेन सुष्ठु समिद्धं प्रदीप्तं तेजो यस्य सोऽहम्, अनेन स्वस्य तत्प्रकाशेन सुसमिद्धतेजस्त्वकथनेन तत्तेजसा विना स्वस्यासुसमिद्धतेजस्त्वमुक्तम् । एतदेव हि सर्वतेजसामाच्छादकत्वं यत्स्वायत्तं सर्वतेजसां प्रकाशनमिति, अहमिति सूर्यादीनामुपलक्षणं, तथा च श्रूयते - “न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥” (कठ. उ. 5-15) इति त्वदाहितशक्तीनामेवास्माकं स्वस्वकार्यक्षमत्वमित्याह - यत्तेजसा सुसमिद्धतेजाः, अहमध्वरे आज्यसिक्तं हविर्वहामि उद्देश्यामिन्द्रादिदेवतां प्रति नयामीत्यर्थः, तं यज्ञियं हितं यज्ञोद्देश्येन्द्रादिदेवतामूर्तिमित्यर्थः ।
पञ्चविधं त्रेता सभ्यावसभ्यरूपेण पञ्चविधाग्नि-शरीरिणं पञ्चभिर् यजुर्भिः “आश्रवये"ति चतुरक्षरम्, “अस्तु श्रौषड्” इति चतुरक्षरं, “यजे"ति द्व्यक्षरं, “ये यजामह” इति पञ्चाक्षरम्, द्व्यक्षरो “वषट्कारः” -
इति श्रुत्य्-उक्तैः पञ्चभिर् यजुर्भिः स्विष्टं सुष्ठु पूजितं, तथा चोक्तं
“चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।
हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु” (शरभ. उ. 26)
इति नित्यं प्रणतोऽस्मि नमस्कृतवानस्मि ॥ ४१ ॥
श्लोक-४२
मूलम् (वचनम्)
देवा ऊचुः
विश्वास-प्रस्तुतिः
पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृतं
त्वमेवाद्यस्तस्मिन् सलिल उरगेन्द्राधिशयने।
पुमान् शेषे सिद्धैर्हृदि विमृशिताध्यात्मपदविः
स एवाद्याक्ष्णोर्यः पथि चरसि भृत्यानवसि नः॥
मूलम्
पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृतं त्वमेवाद्यस्तस्मिन् सलिल उरगेन्द्राधिशयने।
पुमान् शेषे सिद्धैर्हृदि विमृशिताध्यात्मपदविः स एवाद्याक्ष्णोर्यः112 पथि चरसि भृत्यानवसि 113नः॥ ४२ ॥
अनुवाद (हिन्दी)
देवताओंने कहा—देव! आप आदिपुरुष हैं। पूर्वकल्पका अन्त होनेपर अपने कार्यरूप इस प्रपंचको उदरमें लीनकर आपने ही प्रलयकालीन जलके भीतर शेषनागकी उत्तम शय्यापर शयन किया था। आपके आध्यात्मिक स्वरूपका जनलोकादिवासी सिद्धगण भी अपने हृदयमें चिन्तन करते हैं। अहो! वही आप आज हमारे नेत्रोंके विषय होकर अपने भक्तोंकी रक्षा कर रहे हैं॥ ४२॥
वीरराघवः
अग्नाविन्द्रादिदेवतात्मकत्वेन सर्वयज्ञमूर्तित्वेन च भगवन्तं स्तुतवति जगत्कारणस्य तवेदं सर्वमुपपन्नमिति मन्वाना देवाः सौलभ्यादिकल्याणगुणान्तरविशिष्टत्वेन स्तुवन्ति - पुरेति । आद्यः सर्वोपादानभूतः पुमान् पुराः अग्रे सृष्टेः प्रागित्यर्थः । कल्पापाये प्राक्तनकल्पान्ते स्वकृतं स्वसृष्टं विकृतं कार्यवर्गम् उदरीकृत्य उदरे निक्षिप्य संहृत्येति यावत् । उरगेन्द्रः शेषः स एवाधिशयनं शय्या यस्मिन् तस्मिन् सलिले शेषे शयितवानसि । सिद्धैर्जनो114लोकवासिभिः हृदि विमृशिता अध्यात्मपदवी स्वात्मतत्त्वज्ञानमार्गो यस्य स योगपरिशुद्धमनोग्राह्य इत्यर्थः, एवम्भूतोऽपि त्वमेव अद्य अधुना अक्ष्णोः पथि चरसि प्रत्यक्षोऽसि वाङ्गनसागोचरस्त्वं सौलभ्यातिरेकात् प्रत्यक्षोऽसीत्यर्थः । भृत्यान्नः अस्मान् अवसि पालयसि, अनेन भृत्यानुग्रह115कातरत्वमुक्तम् ॥ ४२ ॥
श्लोक-४३
मूलम् (वचनम्)
गन्धर्वा ऊचुः
विश्वास-प्रस्तुतिः
अंशांशास्ते देव मरीच्यादय एते
ब्रह्मेन्द्राद्या देवगणा रुद्रपुरोगाः।
क्रीडाभाण्डं विश्वमिदं यस्य विभूमन्
तस्मै नित्यं नाथ नमस्ते करवाम॥
मूलम्
116अंशांशास्ते देव मरीच्यादय एते ब्रह्मेन्द्राद्या देवगणा रुद्रपुरोगाः।
क्रीडाभाण्डं विश्वमिदं यस्य विभूम117न् तस्मै नित्यं नाथ नमस्ते करवा118म॥ ४३ ॥
अनुवाद (हिन्दी)
गन्धर्वोंने कहा—देव! मरीचि आदि ऋषि और ये ब्रह्मा, इन्द्र तथा रुद्रादि देवतागण आपके अंशके भी अंश हैं। महत्तम! यह सम्पूर्ण विश्व आपके खेलकी सामग्री है। नाथ! ऐसे आपको हम सर्वदा प्रणाम करते हैं॥ ४३॥
वीरराघवः
देवेषु सर्वकारणत्वसौलभ्यादिगुणविशिष्टत्वेन स्तुतवत्सु गन्धर्वाप्सरसः त्वत्कार्यभूतमिदं कृत्स्नं जगत् त्वल्लीलोपकरणमिति स्तुवन्तो नमस्कुर्वन्ति - अंशांशा इति । हे विभूमन् ! कृत्स्नं जगदन्तर्बहिश्च व्याप्य वर्तमान ! हे देव! द्योतमान ! मरीचिरादिर्मुख्यो येषां, तथा ब्रह्मेन्द्रौ आद्यौ मुख्यौ येषां, रुद्रः पुरोगो मुख्यो येषाम्, एते देवगणास्ते तव अंशांशाः । अत्र देवगणानां मरीचिब्रह्मेन्द्ररुद्रमुख्यत्वकथनं सृष्टिस्थित्याद्यधिकाराधिकृतदेवताबहुत्वाभिप्रायेण । तत्र व्यष्टिस्रष्टृृणां मध्ये चतुर्मुखस्य मरीच्यादीनां च प्रधानत्वात् ब्रह्मादयो मरीच्यादय इति चोक्तम् । तत्रापि प्राधान्याप्राधान्याभिप्रायेण ब्रह्मादयो मरीच्यादय इति च कोटिद्वयेनोक्तिः । इन्द्रपुरोगत्वकथनं पालनाधिकारिदिगीशान्तराभिप्रायेण, रुद्रपुरोगत्वकथनं तु संहाराधिकार्यभिप्रायेण, एवं सर्वेषां भगवदंशांशत्वं ज्ञानशक्तिबलादिभगवद्गुणलेशाऽभिव्यक्तिकृतमिति वेदितव्यम् । विशिष्टवस्त्वेकदेशरूपांशत्वं तु सर्वजीवसाधारणमिति तद्विशिष्य न वक्तव्यम् । क्रीडाभाण्डं क्रीडापरिकरः इदं विश्वं ब्रह्माण्डं यस्य तस्मै ते तुभ्यं नमः । हे नाथ! ते करवाम कैङ्कर्यमिति शेषः ॥ ४३ ॥
श्लोक-४४
मूलम् (वचनम्)
विद्याधरा ऊचुः
विश्वास-प्रस्तुतिः
त्वन्माययार्थमभिपद्य कलेवरेऽस्मिन्
कृत्वा ममाहमिति दुर्मतिरुत्पथैः स्वैः।
क्षिप्तोऽप्यसद्विषयलालस आत्ममोहं
युष्मत्कथामृतनिषेवक उद् व्युदस्येत्॥
मूलम्
त्वन्माययार्थमभिपद्य कलेवरेऽस्मिन् कृत्वा ममाहमिति दुर्मति119रुत्पथैः 120स्वैः।
क्षिप्तोऽप्यसद्विषयलालस आत्ममोहं युष्मत्कथामृतनिषेवक उद्व्युदस्येत्॥ ४४ ॥
अनुवाद (हिन्दी)
विद्याधरोंने कहा—प्रभो! परम पुरुषार्थकी प्राप्तिके साधनरूप इस मानवदेहको पाकर भी जीव आपकी मायासे मोहित होकर इसमें मैं-मेरेपनका अभिमान कर लेता है। फिर वह दुर्बुद्धि अपने आत्मीयोंसे तिरस्कृत होनेपर भी असत् विषयोंकी ही लालसा करता रहता है। किन्तु ऐसी अवस्थामें भी जो आपके कथामृतका सेवन करता है, वह इस अन्तःकरणके मोहको सर्वथा त्याग देता है॥ ४४॥
वीरराघवः
एवं दक्षादिषु गन्धर्वाप्सरोऽन्तेषु तत्तत्कल्याणगुणविशिष्टं भगवन्तं स्तुतवत्सु तावदास्तां कल्याणगुणवर्णनमसङ्ख्येयत्वात्तेषाम् । इदन्त्वद्भुतमाहात्म्यं त्वत्कथामृतमित्याहुः विद्याधराः - त्वन्माययेति । त्वन्मायया त्वत्सङ्कल्पेन अर्थं सर्वपुरुषार्थसाधनं नृदेहमभिपद्य अस्मिन् कलेवरे तदनुबन्धिनि च ममाहमिति दुर्मतिं दुर्बुद्धिं कृत्वापि । दुर्मतिरिति प्रथमान्तपाठेऽहमिति शेषः । अहम्ममाभिमानं कृत्वेत्यर्थः । अत एव दुर्मतिः वैषयिकसुखलाभे दुःखितचित्तोऽपि उत्पथैः लोकवेदमर्यादोल्लङ्घिभिः स्वैः पुत्रादिभिः क्षिप्तोऽपि तिरस्कृतोऽपि असद्विषयेषु प्रकृतिपरिणामरूपशब्दादिविषयेष्वासक्तोऽपि यदि युष्मत्कथामृतनिषेवकः युष्मत्कथैवामृतं 121तन्नितरां सेवत इति युष्मत्कथामृतनिषेवकः । सेवनमत्र श्रवणश्रावणादिरूपं विवक्षितं, तर्हि आत्ममोहम् 122आत्मनो मोहम्122 अहङ्कारममकाररूपं मोहम् उद्व्युदस्येत् उच्चैर्व्युदस्येत् परित्यजेत् मुक्तो भवेदिति भावः । अहम्ममाभिमानग्रस्तस्य असद्विषयप्रवणस्याऽऽत्ममोहनिवर्तनद्वारा मुक्तिसाधनं त्वत्कथामृतमेव नान्य उपायोऽस्तीति इदं त्वत्कथामृतमाहात्म्यमत्यद्भुतमिति भावः ॥ ४४ ॥
श्लोक-४५
मूलम् (वचनम्)
ब्राह्मणा ऊचुः
विश्वास-प्रस्तुतिः
त्वं क्रतुस्त्वं हविस्त्वं हुताशः स्वयं
त्वं हि मन्त्रः समिद्दर्भपात्राणि च।
त्वं सदस्यर्त्विजो दम्पती देवता
अग्निहोत्रं स्वधा सोम आज्यं पशुः॥
मूलम्
त्वं क्रतुस्त्वं हविस्त्वं हुता123शः स्वयं त्वं हि म124न्त्रः समिद्दर्भपात्राणि 125वै।
त्वं सदस्यर्त्विजो दम्पती देवता ह्य126ग्निहोत्रं स्वधा सोम आज्यं पशुः॥ ४५ ॥
अनुवाद (हिन्दी)
ब्राह्मणोंने कहा—भगवन्! आप ही यज्ञ हैं, आप ही हवि हैं, आप ही अग्नि हैं, स्वयं आप ही मन्त्र हैं; आप ही समिधा, कुशा और यज्ञपात्र हैं तथा आप ही सदस्य, ऋत्विज्, यजमान एवं उसकी धर्मपत्नी, देवता, अग्निहोत्र, स्वधा, सोमरस, घृत और पशु हैं॥ ४५॥
वीरराघवः
ब्राह्मणास्तु तावदास्तां कथामृतमाहात्म्यम् इदं तु अद्भुततमं त्वन्नाममाहात्म्यमिति कथयिष्यन्तः प्रकृतयज्ञनिर्वृत्यभिकाङ्क्ष्या यज्ञयज्ञसाधनमूर्तित्वेन स्तुवन्तस्तत्प्रसादं प्रार्थयन्ते - त्वमिति त्रिभिः । त्वं क्रतुर्यज्ञः हविः पुरोडाशादिः सदस्याश्च ऋत्विजश्च ते त्वमेव हुताशस्त्रेतारूपः देवता इन्द्रादयः अ127ग्निहोत्रम् अग्निहोत्राख्यकर्मविशेषः । क्रतुरित्यनेन युगात्मकत्वमुक्तम् । अग्निहोत्रमिति होमात्मकत्वम्, देवतोद्देशेन द्रव्य त्यागात्मको यागः, स एव प्रक्षेपादिको होमः । सर्वत्र सामानाधिकरण्यं शरीरात्म भाव निबन्धनम् ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
त्वं पुरा गां रसाया महासूकरो
दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा।
स्तूयमानो नदँल्लीलया योगिभि-
र्व्युज्जहर्थ त्रयीगात्र यज्ञक्रतुः॥
मूलम्
त्वं पुरा गां रसाया म128हासूकरो दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा।
स्तूयमानो न129दँल्लीलया योगिभिर्व्युज्ज130हर्थ त्रयीगात्र यज्ञक्रतुः॥ ४६ ॥
अनुवाद (हिन्दी)
वेदमूर्ते! यज्ञ और उसका संकल्प दोनों आप ही हैं। पूर्वकालमें आप ही अति विशाल वराहरूप धारणकर रसातलमें डूबी हुई पृथ्वीको लीलासे ही अपनी दाढ़ोंपर उठाकर इस प्रकार निकाल लाये थे, जैसे कोई गजराज कमलिनीको उठा लाये। उस समय आप धीरे-धीरे गरज रहे थे और योगिगण आपका यह अलौकिक पुरुषार्थ देखकर आपकी स्तुति करते जाते थे॥ ४६॥
वीरराघवः
यज्ञानुष्ठानोपयुक्तपृथिव्युद्धर्ता यज्ञाऽवबोधिविध्यर्थवादादिरूपेणावस्थितवेदमूर्तिश्च त्वमेवेत्याहुः - त्वमिति । पुरा कल्पादौ महासूकरः श्वेत 131वराहरूपस्त्वं वारणेन्द्रो गजश्रेष्ठः पद्मिनीं यथा सरसीमिव, अभूतोपमेयं, न हि वारणेन्द्रेण पद्मिन्युद्धरणं क्वचिद्दृष्टं, रसाया रसातलात् गां पृथिवीं द्रष्ट्र्या नु132दन् उत्पाटयन् योगिभिः स्तूयमानः व्युज्जहर्थ विशेषेणोद्धृतवानसि । हे त्रयीमात्र ! वेदमूर्ते! अतस्त्वमेव यज्ञक्रतुः यज्ञो यागः क्रुतराराधनरू133पकर्म यस्य सः । यद्वा हे यज्ञ ! विष्णो ! “यज्ञो वै विष्णुः” (तैत्ति.ब्रा. 1-2-5) “यज्ञायाचरतः कर्म” (भगी. 4-23) इति श्रुतिस्मृतिभ्यां क्रतुः क्रतुमूर्तिरित्यर्थः ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
स प्रसीद त्वमस्माकमाकाङ्क्षतां
दर्शनं ते परिभ्रष्टसत्कर्मणाम्।
कीर्त्यमाने नृभिर्नाम्नि यज्ञेश ते
यज्ञविघ्नाः क्षयं यान्ति तस्मै नमः॥
मूलम्
134स प्रसीद त्वमस्माकमाकाङ्क्षतां दर्शनं ते परिभ्रष्टसत्कर्मणाम्।
कीर्त्यमाने135 नृभि136र्नाम्नि यज्ञेश ते यज्ञविघ्नाः क्षयं यान्ति तस्मै नमः॥ ४७ ॥
अनुवाद (हिन्दी)
यज्ञेश्वर! जब लोग आपके नामका कीर्तन करते हैं, तब यज्ञके सारे विघ्न नष्ट हो जाते हैं। हमारा यह यज्ञस्वरूप सत्कर्म नष्ट हो गया था, अतः हम आपके दर्शनोंकी इच्छा कर रहे थे। अब आप हमपर प्रसन्न होइये। आपको नमस्कार है॥ ४७॥
वीरराघवः
स एवम्भूतस्त्वं परिभ्रष्टं सत्कर्मवैदिकं त्वदाराधनरूपं यागाख्यं कर्म येषाम् । अत एव तद्भ्रंशपरिहाराय त[^v45]व दर्शनमाकाङ्क्षतां कामयमानानाम् अस्माकं प्रसीद प्रसन्नो भव । हे यज्ञेश ! यस्य ते तव नाम्नि नृभिः नरैः कीर्त्यमाने सति यज्ञस्य विघ्नाः क्षयं नाशं यान्ति तस्मै ते नमः ॥ ४७ ॥
श्लोक-४८
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
इति दक्षः कविर्यज्ञं भद्र रुद्रावमर्शितम्।
कीर्त्यमाने हृषीकेशे संनिन्ये यज्ञभावने॥
मूलम्
इति दक्षः कविर्यज्ञं भद्र रुद्रा137भिमर्शितम्।
कीर्त्यमाने हृषीकेशे स138न्निन्ये यज्ञभावने॥ ४८ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—भैया विदुर! जब इस प्रकार सब लोग यज्ञरक्षक भगवान् हृषीकेशकी स्तुति करने लगे, तब परम चतुर दक्षने रुद्रपार्षद वीरभद्रके ध्वंस किये हुए यज्ञको फिर आरम्भ कर दिया॥ ४८॥
वीरराघवः
दक्षादीनां स्तुतिमुपसंहरन् तैः स्तुतो भगवान् ताननुगृह्णन् आबभाष इत्याह मैत्रेयः - इतीति द्वाभ्याम् । हे भद्र ! विदुर ! इति अनेन प्रकारेण सर्वैर्विश्वभावने विश्वकारणे हृषीकेशे कीर्त्यमाने सति कविः कर्मसु कुशलो दक्षः रुद्राऽभिमर्शितं रुद्रेण विहतं यज्ञं सन्निन्ये प्रवर्तयामास । रुद्रेण संस्पृष्टमिति वा पूर्वं रौद्रभागाभावात् रुद्रानभिमर्शितमिदानीं तु तद्भागप्रदानात् तदभिमर्शितमित्यवगन्तव्यम् ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
भगवान् स्वेन भागेन सर्वात्मा सर्वभागभुक्।
दक्षं बभाष आभाष्य प्रीयमाण इवानघ॥
मूलम्
भगवान् स्वेन भागेन सर्वात्मा सर्वभागभुक्।
दक्षं बभाष आभाष्य प्रीयमाण इवानघ॥ ४९ ॥
अनुवाद (हिन्दी)
सर्वान्तर्यामी श्रीहरि यों तो सभीके भागोंके भोक्ता हैं; तथापि त्रिकपाल-पुरोडाशरूप अपने भागसे और भी प्रसन्न होकर उन्होंने दक्षको सम्बोधन करके कहा॥ ४९॥
वीरराघवः
सर्वात्मा सर्वस्यात्मा सर्वात्मतया सर्वभागभोक्ताऽपि भगवान् स्वेन भागेन त्रिकपालपुरोडाशेन प्रीयमाण एव दक्षमाभाष्याभिमुखीकृत्य बभाषे ॥ ४९ ॥
श्लोक-५०
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
अहं ब्रह्मा च शर्वश्च जगतः कारणं परम्।
आत्मेश्वर उपद्रष्टा स्वयंदृगविशेषणः॥
मूलम्
अहं ब्रह्मा च शर्वश्च जगतः कारणं परम्।
आत्मेश्वर उपद्रष्टा स्वयं दृगविशेषणः॥ ५० ॥
अनुवाद (हिन्दी)
श्रीभगवान्ने कहा—जगत्का परम कारण मैं ही ब्रह्मा और महादेव हूँ; मैं सबका आत्मा, ईश्वर और साक्षी हूँ तथा स्वयंप्रकाश और उपाधिशून्य हूँ॥ ५०॥
वीरराघवः
तत्र हितोपदेष्टा भगवान् कार्यकारणरूपेणावस्थितः प्रकृतिपुरुषशरीरकोऽहमेक एव मच्छरीरभूतब्रह्मरूद्राख्यजीवाऽनुप्रवेशेन जगत् 139सृजामि संहरामि स्वावताररूपेण पालयामि । अतो मत्तः मच्छरीरभूताच्च न व्यतिरिक्तं वस्त्वस्तीति अब्रह्मात्मकस्वतन्त्रवस्तुदृष्टिः देहात्मभ्रान्तिस्वतन्त्रात्मभ्रान्तिमूला न तु तात्त्विकी, सर्वस्य ब्रह्मात्मकत्वदृष्टिस्तु तात्त्विकी मुक्त्युपायभूतेत्याह - अहमिति पञ्चभिः । अहं निरस्तनिखिलहेयत्वेन समस्तकल्याणगुणात्मकत्वेन च भवद्भिः स्तुतः समाभ्यधिकरहितोऽहं ब्रह्मा च सर्वश्चमदनुप्रविष्टत्वेन मत्सृज्यत्वेन मदायत्तसृष्ट्याद्युपयुक्तज्ञानवत्त्वेन च प्रसिद्धौ मत्प्रयोज्यौ ब्रह्मरुद्रौ च जगतः परं कारणं स्थित्युद्भव 140लयकारणं “अनेन जीवेनात्मानुप्रविश्य नामरूपे व्याकरवाणि” (छान्दो. उ. 6-3-2), “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै” (श्वेता. उ. 6-18), “एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधसम्भवौ । मदादर्शितपन्थानौ सृष्टिसंहारकारकौ ।” (भार. 12-328-17), “सृष्टिं ततः करिष्यामि त्वामाविश्य प्रजापते” (वि.ध.पु. 68-52) इत्यादि श्रुतिस्मृत्यनुरोधादयमर्थो लभ्यते । ननु प्रतिनियतसृष्ट्याद्यधिकारभेदेन पृथक्त्रयाणां कारणत्वेऽभिहिते कथं कृत्स्नस्य जगतः ब्रह्मैककारणत्वमुच्यते । अत एव हि तत्र तत्र “ब्रह्मणो वै सर्वा देवता नकिरिन्द्रत्वदुत्तरः अग्निः सर्वा देवता एक एव रुद्रः सोमः पवते जनिता मतीनां जनिता पृथिव्या जनिताऽग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितेति विष्णोः आपो वा इदं सर्वम्” इत्यादिभिः ब्रह्मणाग्नीन्द्रादीनामपि समाभ्यधिकराहित्यप्रतीतेरर्थवत्वमव्याकुलम् । अत्रोच्यते, सर्वेषां पृथक्कारणत्वे समाभ्यधिकराहित्ये च प्रतीतेऽपि तद्व्याहतम् अन्यपरतया141धिगतं चेत्यनादरणीयम् । अत एव तत्त्वप्रधानेषु सृष्टिप्रलयप्रकरणेषु यदेव स्वरूपेण गुणैश्च निरतिशयबृहदुक्तं तदेकमेव ब्रह्म जन्मस्थितिप्रलयसमुदायरूपेण जिज्ञास्यलक्षणेन लक्षितं सूत्रकारेण “जन्माद्यस्य यतः” (ब्र.सू. 1-1-2) इति । तत्र हि कारणभूतवस्तुपरामर्शिना ‘यत’ इत्यनेन कारणवाक्येषु “छागो वा मन्त्रवर्णात्” इति सौत्रन्यायात् सद्बह्मादिशब्दानां सामान्यानां नारायणादिविशेषपर्यवसायित्वावश्यम्भावात् सर्वश्रुतीनां नारायण एव पर्यवसानभूमिरिति “यतो वा इमानि” (तैत्ति. उ. 3-1) इत्यादि श्रुतेः हृदयमिति सूत्राकाराभिप्रायो ज्ञायते । अतः सृष्ट्यादिभिर्लक्ष्यं कारणमेकमेव न तु नानाभूतम् । “अहं ब्रह्मा च शर्वश्च” इत्यादिभिः प्रतिनियतस्थित्यादिकारणत्वकीर्तनं तु प्रयोज्यप्रयोजकभावेन । नन्वेवमपि सृष्ट्यादीनां प्रत्येकं लक्षणत्वात् 142तल्लक्ष्यमपि कारणं वस्तु नानाभूतमिति चेन्न, समुदायस्यैव लक्षणत्वात् सृष्टिस्थितिप्रलयानां समुदायो हि लक्षणं न त्वेकैकम् । समुदायस्य लक्षणत्वं हि श्रुतिस्वारस्यादवसीयते “यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति” (तैत्ति. उ. 3-1) इत्यत्र न प्रतिवाक्यं तद्बह्मेत्युक्तम् अन्यथैकतरलक्षणवैयर्थ्यञ्च स्यात् । ननु समुदितं न लक्षणं व्यावर्त्याऽभावात्, न हि जगदुत्पत्तौ निमित्तोपादानभूतं स्थित्यादिकारणत्वव्यवच्छेद्यं किमपि वस्त्वस्तीति चेत् सत्यम् । व्यवच्छेद्यं नेष्यते, तथापि श्रुत्यनुरोधात् सूत्रकारेण जन्मादीत्येकवचनान्तेन समुदायवाचिना समुदायस्य लक्षणत्वमुक्तं, श्रुतिश्च “तद्विजिज्ञासस्व” (तैत्ति. उ. 3-1) इति विधित्सितोपासनोपयोगिनिरतिशयबृहत्त्वविपरीतबृहत्त्वशङ्काव्यवच्छेदार्थं समुदायमाह । शङ्कितव्यवच्छेदेनापि हि सप्रयोजनत्वं स्यात्, लक्ष्याकारविपरीताकारशङ्कानिराकरणेन विना लक्ष्याकारनिश्चयाऽयोगात् । न च जन्मादिष्वेकैककारणत्वं लक्ष्याकारविपरीतशङ्कानिराकरणक्षमं, तथा हि उत्पत्तिकारणत्वेऽभिहितेऽपि स्थित्यादिकारणत्वं न चेत् तदनुगुणज्ञानशक्तिविरहात् स्थितिप्रलयकारणभूतवस्त्वन्तरसद्भावाच्च जन्ममात्रकारणस्य निरतिशयबृहत्त्वं न स्यात् । मुक्तेर्लयान्तर्भावात् मोक्षप्रदतयोपास्यस्यैव प्राप्यत्वाच्च मोक्षप्रदत्वप्राप्यत्वानुगुणैश्च बृहत्त्वं न सिध्यति । अतो जन्मकारणत्वमात्रस्य समस्तवस्तुव्यवच्छेदक्षमत्वेऽपि जन्मादिसमुदायकारणत्वस्यैव निरतिशयबृहत्त्वौपयिकत्वात् सृष्टिस्थिति प्रलयसमुदायकारणत्वं लक्षणमिति ज्ञापितम् । अतः समुदायस्यैव लक्षणत्वादपि तल्लक्षणं वस्त्वेकमेव साक्षाद्ब्रह्मादीन् प्रति प्रयोजकत्वेन च कारणमिति सुस्थम् । नन्वेकस्यैव तव सद्वारकतयाऽद्वारकतया च कारणत्वेऽपि सृष्टेः प्राक्कथमवस्थितः कथं स्रक्ष्यसि कथन्तरां ब्रह्मरुद्रादीनां संज्ञानां त्वयि पर्यवसानमित्यत्राह सार्धेन आत्मेश्वर इति । आत्मनः स्वस्य ईश्वरः आत्मेश्वरः । “पतिं विश्वस्यात्मेश्वरम्” (म.ना.उ. 9-3) इति श्रुतेः । अनेन स्वस्य प्रयोजकान्तराप्रयोज्यत्वमुक्तम् । आत्मनां स्वस्मिन् लीनानां जीवानामीश्वरः अन्तः प्रविश्य नियन्तृत्वेनावस्थित इति वा उपद्रष्टा उपदृश्यदेवमनुष्यादिनामरूपाभावात् केवलं द्रष्टृत्वेनावस्थित इत्यर्थः । अनेन पदद्वयेन नामरूपविभागान143र्हातिसूक्ष्मप्रकृतिपुरुषशरीरकत्वं फलितम् । “यस्याक्षरं शरीरं यस्याव्यक्तं शरीरम्” । (सुबा.उ. 7-1) , “असद्वा इदमग्र आसीत् । तद्धेदन्तर्ह्यव्याकृतमासीत्” (तैत्ति. उ. 2-7) इति च श्रवणात् । एवञ्च नामरूपविभागानर्हसूक्ष्मचिदचिद्वैशिष्ट्येनैव कारणवस्तुस्थितिरित्युक्तं भवति । कारणत्वोपयुक्तकल्याणगुणत्वमाह - स्वयंदृगिति । नित्याविर्भूतासङ्कुचितज्ञान इत्यर्थः । स्वयम् आत्मना पश्यतीति स्वयंदृगिति व्युत्पत्तेः । अनेन निमित्तत्वोपयुक्तनिरुपाधिकसर्वज्ञत्वमुक्तम् । स्वयंदृगिति उपादानत्वोपयुक्तसर्वशक्तित्वादेरप्युपलक्षणम् । हेयगुणराहित्यमाह - अविशेषणः विशेषणानि प्रकृतिपुरुषगतजडत्वपरिणामित्वाऽसर्वज्ञत्वदुःखित्वादयो व्यावर्तकाकाराः तद्रहित इत्यर्थः । अविशेषेण इति न सर्वगुणनिषेधः, स्वयंदृगिति कल्याणगुणविधानात् कारणत्वोपयुक्तगुणकथनसापेक्षितत्वान्निषेधस्य विहितेतरविषयत्वाच्च ॥ ५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
आत्ममायां समाविश्य सोऽहं गुणमयीं द्विज।
सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञां क्रियोचिताम्॥
मूलम्
144आत्ममायां समाविश्य 145सोऽहं गुणमयीं द्विज।
सृजन् रक्षन् हरन् विश्वं दध्रे 146संज्ञां क्रियोचि147ताम्॥ ५१ ॥
अनुवाद (हिन्दी)
विप्रवर! अपनी त्रिगुणात्मिका मायाको स्वीकार करके मैं ही जगत्की रचना, पालन और संहार करता रहता हूँ और मैंने ही उन कर्मोंके अनुरूप ब्रह्मा, विष्णु और शंकर—ये नाम धारण किये हैं॥ ५१॥
वीरराघवः
सोऽहं सूक्ष्मप्रकृतिपुरुषशरीरको निरस्तनिखिलहेयः समस्तकल्याणगुणात्मकोऽहं हे द्विज ! दक्ष ! गुणमयीं त्रिगुणात्मिकाम् आत्ममायाम् आत्मीयां प्रकृतिं समाविश्य जीवद्वारा सङ्कल्परूपज्ञानेनानुप्रविश्य जगत् सृजन् ब्रह्मद्वारा सृजन् रक्षन् अद्वारा पालयन्, हरन् रुद्ररूपेण संहरन्, क्रियोचितां सद्वारकाद्वारकसर्गादिक्रियोचितां संज्ञां ब्रह्मविष्णुशिवात्मिकां संज्ञां दध्रे बिभर्मि । अतः कृत्स्नचिदचिदात्मकप्रपञ्चरूपकार्यरूपेण सू148क्ष्मावस्थप्रकृतिपुरुषशरीरकत्वेन कारणरूपेणावस्थितोऽहमेक एवेति न मद्व्यतिरिक्तं वस्त्वस्तीति भावः । तथा च श्रूयते “नामरूपे व्याकरवाणि” (छान्दो. उ. 6-3-2) “तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्चत्यच्चाभवत् ।” (तैत्ति. उ. 2-6) इति । नन्वनुप्रविश्य नामरूपे व्याकरवाणीत्यनुप्रवेशपूर्वकत्वं सृष्टेः प्रतीयते ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इत्यनुप्रवेशस्य सृष्टिपूर्वकत्वं प्रतीयते, कथमेतद्विप्रतिषिद्धमुपपद्यते ? उच्यते, अत्र ह्यनुप्रवेशसृष्ट्योः समानकर्तृत्वमात्रमेव विवक्षितं, न तु पौर्वापर्यमपीति ज्ञापनाय विप्रतिषिद्धनिर्देशः, अत एव हि “तस्य त्वष्टा विदधद्रूपमेति” (पु.सू. 2-7) इत्यनुप्रवेशसृष्ट्योः यौगपद्यमन्यत्र श्रु149तम् । “तत्सृष्ट्वा तदेवानुप्राविशत्” इति (तेत्ति. उ. 2-6) स्थित्यर्थानुप्रवेशो वा वेदितव्यः ॥ ५१ ॥
श्लोक-५२
विश्वास-प्रस्तुतिः
तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि।
ब्रह्मरुद्रौ च भूतानि भेदेनाज्ञोऽनुपश्यति॥
मूलम्
तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि।
150ब्रह्मरुद्रौ च भूतानि भेदेना151ज्ञोऽनुपश्यति॥ ५२ ॥
अनुवाद (हिन्दी)
ऐसा जो भेदरहित विशुद्ध परब्रह्मस्वरूप मैं हूँ, उसीमें अज्ञानी पुरुष ब्रह्मा, रुद्र तथा अन्य समस्त जीवोंको विभिन्न रूपसे देखता है॥ ५२॥
वीरराघवः
एवं हि सर्वस्य मदात्मकत्वात् मद्व्यतिरिक्तस्वतन्त्रवस्त्वभावात् अमदात्मकस्वतन्त्रवस्तुदृष्टिर्देहात्मभ्रान्तिमूलेत्याह - तस्मिन्निति । तस्मिन् कार्यावस्थकारणावस्थप्रकृतिपुरुषेश्वरे किं नियन्तृत्वं राजादिवन्नेत्याह परमात्मनि प्रकृतिपुरुषयोरन्तः प्रविश्य तद्गतैर्दोषैरस्पृष्टे प्रशासनेन भर्तरि । एवमेव हि परमात्मशब्दार्थो गीताचार्येणोक्तः - “उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः” (भगी. 15-17) इति । अत्र लोकत्रयमित्यनेन प्रकृतिपुरुषावुक्तौ तदात्मकत्वाल्लोकत्रयस्य । आविश्येत्यत्र “अन्तः प्रविष्टः शास्ता जनानाम्" (तैत्ति. आ. 3-11) इति 152श्रुत्यन्तरानुरोधेन अन्तः प्रविश्येत्यर्थः । अव्यय इत्यनेनाविकारित्ववाचिना प्रकृतिपुरुषगतदोषास्पर्शित्वमुक्तम् । ईश्वर इत्यनेन नियन्तृत्वमभिहितम् । बिभर्तीत्यनेन धारकत्वं फलितम् । किमेवम्भूतस्त्वदन्यः कश्चिदस्ति ? नेत्याह । अद्वितीये स्वसमानद्वितीयवस्त्वन्तररहित इत्यर्थः । “यथा चोलनृपः सम्राडद्वितीयोऽस्ति भूतले" इतिवत् । केवले स्वाधिकवस्त्वन्तररहिते । तथा च श्रूयते “न तत्समश्चाभ्यधिकश्च दृश्यते” (श्वेता. उ. 6-8) स्मर्यते च “न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः " (भगी. 11-43) इति । यदि ब्रूयादद्वितीय इति स्वसमानवस्तुनिषेधादेव तदधिकवस्तुनिषेधः कैमुत्यन्यायसिद्ध इति । तर्हि केवले निरस्तनिखिलहेये ब्रह्मणि स्वरूपेण गुणैश्च निरतिशयबृहति अनन्तकल्याणगुणात्मकस्वरूप इत्यर्थः । एवम्भूते मयि भूतानि मदन्तरात्मकतया मदायत्तसत्तास्थितीनि मच्छरीरतया मदपृथक्सिद्धत्वेन स्थितानि ब्रह्मरुद्रादिभूतानि भेदेन पृथ153क्स्थिर्त्यहत्वेन स्वतन्त्राणि अज्ञो ब्रह्मात्मकत्वज्ञानरहितः दे154हे एव आत्मबुद्धिश्च विपश्यति । अनेन देहात्मभ्रान्तिः स्वतन्त्रात्मभ्रान्तिश्च भेददर्शनमूलमित्युक्तम् ॥ ५२ ॥
श्लोक-५३
विश्वास-प्रस्तुतिः
यथा पुमान्न स्वाङ्गेषु शिरःपाण्यादिषु क्वचित्।
पारक्यबुद्धिं कुरुते एवं भूतेषु मत्परः॥
मूलम्
यथा पुमान्न स्वाङ्गेषु शिरःपाण्यादिषु क्वचित्।
पारक्यबुद्धिं कुरुते एवं भूतेषु मत्परः॥ ५३ ॥
अनुवाद (हिन्दी)
जिस प्रकार मनुष्य अपने सिर, हाथ आदि अंगोंमें ‘ये मुझसे भिन्न हैं’ ऐसी बुद्धि कभी नहीं करता, उसी प्रकार मेरा भक्त प्राणिमात्रको मुझसे भिन्न नहीं देखता॥ ५३॥
वीरराघवः
सर्वस्य मदात्मकत्वज्ञानिनस्तु न भूतानि भेदेन पश्यन्तीति सदृष्टान्तमाह - यथेति । पुमान् देहात्मभ्रान्तिमानपि पुरुषः स्वाङ्गेषु स्वपृथक्स्थित्यनर्हेषु शिरः पाण्याद्यवयवेषु मध्ये क्वचित् कस्मिंश्चिदप्यवयवे पारक्यबुद्धिं परस्येदं परकीयं तस्य भावः पारक्यं तेन पृथक्सिध्यनर्हत्वं लक्ष्यते, परकीयं ह्यङ्गं स्वस्मात् पृथक्स्थित्यर्हं तद्बुद्धिं न कुरुते, एवं मत्परः मदासक्तचित्तः सर्वस्य ब्रह्मात्मकत्वज्ञानसम्पन्न इत्यर्थः । भूतेषु मत्पृथक्स्थित्यनर्हत्वबुद्धिं कुरुत इत्यर्थः ॥ ५३ ॥
श्लोक-५४
विश्वास-प्रस्तुतिः
त्रयाणामेकभावानां यो न पश्यति वै भिदाम्।
सर्वभूतात्मनां ब्रह्मन् स शान्तिमधिगच्छति॥
मूलम्
त्रयाणामेकभावानां यो न पश्यति वै भिदाम्।
सर्वभूतात्म155नां ब्रह्मन् स शान्तिमधिगच्छति॥ ५४ ॥
अनुवाद (हिन्दी)
ब्रह्मन्! हम—ब्रह्मा, विष्णु और महेश्वर—तीनों स्वरूपतः एक ही हैं और हम ही सम्पूर्ण जीवरूप हैं; अतः जो हममें कुछ भी भेद नहीं देखता, वही शान्ति प्राप्त करता है॥ ५४॥
वीरराघवः
एवं कृत्स्नस्य जगतः स्वात्मकत्वेन स्वपृथक्स्थित्यनर्हविशेषण156त्वेन स्वप्रकारतामुपपाद्य पृथगीश्वरत्वेन शङ्कितयोर्ब्रह्मरुद्रयोरपि मदायत्तसत्तादिमत्वेन मत्प्रकारत्वज्ञानं मनः प्रशान्तिद्वारा मुक्तिसाधनमित्याह - त्रयाणामिति । हे ब्रह्मन् ! दक्ष ! एकभावानाम् एको भावः सत्ता येषां तेषां, भाव इति स्थित्यादीनामप्युपलक्षणम्, एकविधसत्तादिमतां मदायत्तसत्तादिमतामित्यर्थः । एकस्मिन् भावो येषामिति व्यधिकरणबहुव्रीहिर्वा, त्रयाणां ब्रह्मविष्णुरुद्राणां, तत्र ब्रह्मरुद्रयोः परमात्मायत्तसत्ता157दिमत्त्वकथनेन तयोः परमात्मानं प्रति अपृथक्सिद्धप्रकारतोक्ता । विष्णोस्तु विष्ण्वायत्तसत्तादिमत्वकथनेनानन्याधीनसत्तादिमत्त्वं फलितम् । तथा च श्रूयते “स्वे महिम्नि प्रतिष्ठितः” (छान्दो. उ. 7-24-1) “पतिं विश्वस्यात्मेश्वरम्” (म.ना.उ. 9-3) इति । एकशब्देन मूर्तित्रयातिरिक्तं परं वस्तूपलक्ष्य त्रयाणां तदायत्तभावादिमत्त्वकथनं त्वसङ्गतं, परत्वस्य जगत्कारणनिष्ठत्वात्, कारणत्वस्यात्मेश्वर उपद्रष्टेत्यादिना विष्णोरेव प्रतिपादितत्वात् तदतिरिक्तोत्कृष्टवस्त्वन्तराभावात् तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनीति विष्णोः परत्वस्यात्रैवोक्तत्वाच्च एकभावानाम् एकस्वरूपाणामिति त्रयाणां तादात्म्यवर्ण158नञ्चायुक्तम् । ब्रह्मरुद्रयोः कर्मवश्यत्वसृज्यत्वपाल्य-त्वनियाम्यत्वादेः “अनपहतपाप्मा वा अहमस्मि”, “नारायणाद्रुद्रो जायते” (नारा.उ.) इत्यादिषु श्रुतत्वाज्जीवत्वनिश्चयात् । यद्यपि “ब्रह्मा नारायणः शिवश्च नारायणः” (त्रिपाम. ना. उ. 2-8) “ब्रह्मा नारायणाख्योऽसौ कल्पादौ भगवान् यथा । प्रजाः ससर्ज भगवान् ब्रह्मा नारायणात्मकः” (वि.पु. 1-4-1,2) “ततः स भगवान् विष्णुः रुद्ररूपधरोऽव्ययः” (वि.पु. 6-3-16) “ततः कालाग्निरुद्रोऽसौ भूत्वा सर्वहरो हरिः” (वि.पु. 6-3-24) सर्गस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् ॥ ससंज्ञां याति भगवानेक एव जनार्दनः ।” (वि. पु. 1-2-66) इत्यादिप्रमाणात् त्रिमूर्त्यैक्यमङ्गीकार्यं, तथापि, “159नारायणाद्ब्रह्मा जायते159, नारायणाद्रुद्रो जायते नारायणात् द्वादशादित्या रुद्रा वसवः सर्वाणि छन्दांसि नारायणादेव समुत्पद्यन्ते, (नारा.उ. 1) एको ह वै नारायण आसीत्” (महा.उ. 1-1) “न ब्रह्मा नेशान एको ह वै नारायण आसीन्न ब्रह्मा न च शङ्करः स मुनिर्भूत्वा समचिन्तयत् तत एते व्यजायन्त विश्वे हिरण्यगर्भोऽग्निर्यमवरुणरुद्रेन्द्राः यन्नाभिपद्यादभवत् स महात्मा प्रजापतिः तत्र ब्रह्मा चतुर्मुखोऽजायत सोऽग्रे भूतानां मृत्युमत्यसृजत् त्र्यक्षं त्रिशिरस्कं त्रिपादं खण्डपरशुं ब्रह्मणः पुत्राय ज्येष्ठाय” (नारा. उ. 1) “ब्रह्मा दक्षादयः कालस्तथैवाखिलजन्तवः । विभूतयो हरेरेता जगतः सृष्टिहेतवः ।” (वि.पु. 1-22-31) “रुद्रः कालान्तकाद्याश्च समस्ताश्चैव जन्तवः” (वि.पु. 1-22-33) इत्यादिषु भगवतस्तयोश्च परस्परभेदावगमात् सामानाधिकरण्यस्य “सृष्टिं ततः करिष्यामि त्वामाविश्य प्रजापते । हरोहरति तद्वशः” (वि.ध.पु. 68-52) इत्याद्यानुगुण्येनान्तर्यामित्वेनाप्युपपत्तेः, भेदनिर्देशस्य स्वाभाविकभेदाभ्युपगमेन विना अनुपपत्तेश्च न त्रिमूर्तैक्यमुपपन्नम् तस्माद्यथोक्त एवार्थः । सर्वभूतात्मनां तत्र विष्णोः सर्वभूतात्मत्वम् “एष सर्वभूतान्तरात्मापहतपप्मा दिव्यो देव एको नारायणः” (सुबा.उ. 7) “अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा” (तैत्ति. आ. 3-11) “ममान्तरात्मा तव ये चान्ये देहिसंज्ञिताः” इत्यादिश्रुतिस्मृत्युक्तसर्वभूतान्तरात्म160त्वरूपमितरयोस्त्वणोश्चेतनस्य चेतनानन्तरव्याप्यत्वासम्भवेन सर्वभूतानां ब्रह्मरुद्राख्यजीवव्याप्यत्वासम्भवात् नान्तरात्मत्वरूपं सत्वभूतात्मत्वम्, अपितु “तद्वैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च (बृह. उ. 1-4-10) (अहं) “कक्षीवानृषि (रस्मि) र्विप्रः” (ऋक्सं. 4-26-1) “त्वं वाहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते तद्योहं योऽसौ सोऽहम्” (जाबा. उ.) “अहं हरिः सर्वमिदं जनार्दनः” “आत्मेति तूपगच्छन्ति ग्राहयन्ति च” (ब्र.सू. 4-1-3) इत्यादि श्रुतिस्मृतिसूत्रोक्तविधया सर्वभान्तरात्मत्वेन प्रत्यक्षितपरमात्म161त्वरूपं कथमेकस्य सकृदुपत्तस्य सर्वभूतात्मशब्दस्यार्थद्वयपरत्वम् ? उच्यते - एकस्यापि सर्वभूतात्मशब्दस्य कृतैकशेषस्य बहुवचनान्तस्य निर्देशात् भिन्नार्थकानामपि शब्दानां सरूपाणामेकशेषविधानात् यथोक्तार्थपरत्वोपपत्तिः । अनेन ब्रह्मरुद्रयोः सर्वभूतान्तरात्मत्वेन प्रत्यक्षितमत्स्वरूपत्वेन “प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः” (भगी. 7-17) “ज्ञानी त्वात्मैव मे मतम्” (भ.गी. 7-18) इति मदुक्तरीत्या निरतिशयमत्प्रीतिविषयत्वात् मच्छरीरत्वाच्च तद्विषये कृतोऽपराधोमय्येव पर्यवस्यतीत्यभिप्रेतम् । एवं च ब्रह्मरुद्रपरौ सर्वभूतात्मशब्दौ सर्वभूतेष्वात्मा परमात्मा ययोस्ताविति व्यधिकरणबहुव्रीही वेदितव्यौ । एवम्भूतानां त्रयाणां यः पुमान् भिदां न पश्यति ईश्वरास्त्रय इति न पश्यति अपि त्वेक एव ब्रह्मरुद्ररूपेण स्वावताररूपेण च स्थित इति पश्यतीत्यर्थः । पूर्वापरानुगुण्यात् प्रमाणान्तरानुरोधाच्च । हे ब्रह्मन् ! स सर्वात्मकब्रह्मदर्शी शान्तिं मनः प्रशान्तिम् अधिगच्छति । शान्त्यधिगमद्वारा मुक्तो भवेदित्यर्थः ॥ ५४ ॥
श्लोक-५५
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
एवं भगवताऽऽदिष्टः प्रजापतिपतिर्हरिम्।
अर्चित्वा क्रतुना स्वेन देवानुभयतोऽयजत्॥
मूलम्
एवं भगवताऽऽदिष्टः प्रजापतिपतिर्हरिम्।
अर्चित्वा क्रतुना स्वेन दे162वानुभयतोऽयजत्॥ ५५ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—भगवान्के इस प्रकार आज्ञा देनेपर प्रजापतियोंके नायक दक्षने उनका त्रिकपाल-यज्ञके द्वारा पूजन करके फिर अंगभूत और प्रधान दोनों प्रकारके यज्ञोंसे अन्य सब देवताओंका अर्चन किया॥ ५५॥
वीरराघवः
दक्षाध्वरप्रसङ्गमुपसंहरति मैत्रेयः - एवमिति । भगवतैवमादिष्टः प्रजापतीनां पतिः, प्रजापतिः ब्रह्मा पतिर्यस्य इति वा दक्षः । स्वेन स्वकर्तृकेन क्रतुना हरि163मर्चयित्वा स्वेन त्रिकपालवैष्णवयागेन हरिमर्चित्वेति वा उभयतो देवान् दिविष्ठान् भूमिष्ठाश्च अयजत् । स्वस्वभागादिभिर्यथायोग्यमाराधितवानित्यर्थः ॥ ५५ ॥
श्लोक-५६
विश्वास-प्रस्तुतिः
रुद्रं च स्वेन भागेन ह्युपाधावत्समाहितः।
कर्मणोदवसानेन सोमपानितरानपि।
उदवस्य सहर्त्विग्भिः सस्नाववभृथं ततः॥
मूलम्
रुद्रं च स्वेन भागेन ह्युपाधावत्समाहितः।
कर्मणोदवसानेन सोमपानितरानपि।
उदवस्य सहर्त्विग्भिः सस्नाववभृथं ततः॥ ५६ ॥
अनुवाद (हिन्दी)
फिर एकाग्रचित्त हो भगवान् शंकरका यज्ञशेषरूप उनके भागसे यजन किया तथा समाप्तिमें किये जानेवाले उदवसान नामक कर्मसे अन्य सोमपायी एवं दूसरे देवताओंका यजन कर यज्ञका उपसंहार किया और अन्तमें ऋत्विजोंके सहित अवभृथ-स्नान किया॥ ५६॥
वीरराघवः
तथा समाहितचित्तः रुद्रं च स्वेन भागेन उच्छेषणरूपेण भागेन उपाधावत् अन्ववर्तन अयजदित्यर्थः । उदवस्यते समाप्यते अनेनेत्युदवसानं तेन 164समाप्तिकर्मणा सोमपान् इतरानसोमपांश्च देवान् उपाधावदित्यनुषङ्गः ॥ ५६ ॥
श्लोक-५७
विश्वास-प्रस्तुतिः
तस्मा अप्यनुभावेन स्वेनैवावाप्तराधसे।
धर्म एव मतिं दत्त्वा त्रिदशास्ते दिवं ययुः॥
मूलम्
तस्मा अप्यनुभावेन स्वेनैवावाप्तराधसे।
धर्म एव मतिं दत्त्वा त्रिदशा165स्त्रिदिवं ययुः॥ ५७ ॥
अनुवाद (हिन्दी)
फिर जिन्हें अपने पुरुषार्थसे ही सब प्रकारकी सिद्धियाँ प्राप्त थीं, उन दक्षप्रजापतिको ‘तुम्हारी सदा धर्ममें बुद्धि रहे’ ऐसा आशीर्वाद देकर सब देवता स्वर्गलोकको चले गये॥ ५७॥
वीरराघवः
ऋत्विग्भिः सहोदवस्य कर्मसमाप्य अवभृथरूपं यथा भवति तथा सस्नौ स्नातवान् स्वेनैवानुभावेन 166प्रभावेन अवाप्तराधसे प्राप्तसिद्धये तस्मै दक्षायापि धर्मविषये एव बुद्धिं दत्त्वा अस्य मतिर्धर्मासक्ता स्यादित्यनृगृह्येत्यर्थः । ते त्रिदशा देवा दिवं ययुः ॥ ५७॥
श्लोक-५८
विश्वास-प्रस्तुतिः
एवं दाक्षायणी हित्वा सती पूर्वकलेवरम्।
जज्ञे हिमवतः क्षेत्रे मेनायामिति शुश्रुम॥
मूलम्
एवं दाक्षायणी दे167वी त्यक्त्वा पूर्वकलेवरम्।
जज्ञे हिमवतः क्षेत्रेमेनायामिति शुश्रुम॥ ५८ ॥
अनुवाद (हिन्दी)
विदुरजी! सुना है कि दक्षसुता सतीजीने इस प्रकार अपना पूर्वशरीर त्यागकर फिर हिमालयकी पत्नी मेनाके गर्भसे जन्म लिया था॥ ५८॥
वीरराघवः
प्रकृतं परमप्रकृतेन सङ्गमयति - एवमिति । एवमुक्तरीत्या दाक्षायणी सती पूर्वशरीरं हित्वा हिमवतः क्षेत्रभूतायां मेनायां जज्ञे उद्बभूवेति शुश्रुम पराशरादिभ्य इति शेषः । अनेन स्वोक्तेः प्रामाण्यं सूचितम् ॥ ५८ ॥
श्लोक-५९
विश्वास-प्रस्तुतिः
तमेव दयितं भूय आवृङ्क्ते पतिमम्बिका।
अनन्यभावैकगतिं शक्तिः सुप्तेव पूरुषम्॥
अनुवाद (हिन्दी)
जिस प्रकार प्रलयकालमें लीन हुई शक्ति सृष्टिके आरम्भमें फिर ईश्वरका ही आश्रय लेती है, उसी प्रकार अनन्यपरायणा श्रीअम्बिकाजीने उस जन्ममें भी अपने एकमात्र आश्रय और प्रियतमभगवान् शंकरको ही वरण किया॥ ५९॥
वीरराघवः
भूयो द्वितीये जन्मनि अम्बिका पार्वती अनन्यभावा पतिपारार्थ्यज्ञानवती एकगतिम् एका अम्बिकैव गतिः प्रवृत्युपायो यस्य तं तामेव चिन्तयन्तमत एव दयितं प्रीतिविषयं तमेव रु170द्रं पतिमावृङ्क्ते भजति स्म । यथा प्रलयकाले पूरुषं 171परमपुरुष 172सुप्ता लीना शक्तिः 173चिदचिदात्मिका शक्तिः173 174चिदचिच्छक्ती प्रलये लीने पुनः सृष्टिदशायां तत्प्रकारैकस्वभावे तदधीने तथा आवृङ्क्ते स्फेति भावः ॥ ५९ ॥
श्लोक-६०
विश्वास-प्रस्तुतिः
एतद्भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः।
श्रुतं भागवताच्छिष्यादुद्धवान्मे बृहस्पतेः॥
मूलम्
एतद्भगवतः शम्भोः कर्म दक्षाध्व175रद्रुहः।
श्रुतं भागवताच्छिष्यादुद्धवान्मे बृहस्पतेः॥ ६० ॥
अनुवाद (हिन्दी)
विदुरजी! दक्ष-यज्ञका विध्वंस करनेवाले भगवान् शिवका यह चरित्र मैंने बृहस्पतिजीके शिष्य परम भागवत उद्धवजीके मुखसे सुना था॥ ६०॥
वीरराघवः
उक्तायाः कथायाः साम्प्रदायिकतामाह - एतदिति । दक्षाध्वरद्रुहः दक्षाध्वरविनाशिनः भगवतः शम्भोरेतच्चरितं बृहस्पतेः शिष्यात् भागवतात् उद्धवात् मे मया श्रुतम् ॥ ६० ॥
श्लोक-६१
विश्वास-प्रस्तुतिः
इदं पवित्रं परमीशचेष्टितं
यशस्यमायुष्यमघौघमर्षणम्।
यो नित्यदाऽऽकर्ण्य नरोऽनुकीर्तयेद्
धुनोत्यघं कौरव भक्तिभावतः॥
मूलम्
इदं पवित्रं पर176मीशचेष्टितं यशस्यमायुष्यमघौघमर्षणम्।
यो नित्यदाऽऽकर्ण्य न177रोऽनुकीर्तयेत् धुनोत्यघं कौरव भक्ति178भावतः॥ ६१ ॥
अनुवाद (हिन्दी)
कुरुनन्दन! श्रीमहादेवजीका यह पावन चरित्र यश और आयुको बढ़ानेवाला तथा पापपुंजको नष्ट करनेवाला है। जो पुरुष भक्तिभावसे इसका नित्यप्रति श्रवण और कीर्तन करता है, वह अपनी पापराशिका नाश कर देता है॥ ६१॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दक्षयज्ञसंधानं नाम सप्तमोऽध्यायः॥ ७॥
वीरराघवः
उक्तायाः कथायाः श्रवण179श्रावणादिफलमाह - इदमिति । परमेशचेष्टितं परो मा न यस्मात् स परमो भगवान् से एवेशो यस्य तस्य रुद्रस्य चेष्टितं परमेशयोश्चेष्टितमिति वा । यशस्यं यशस्करमायुष्यम् आ180युष्करं पवित्रमत एव अघौघमर्षणं पापनिचयनिवर्तकं यः पुमानाकर्ण्य तथा यथाश्रुतमनुकीर्तयेत् श्रावयेत् सर्वदा भक्तिभावनः भक्तिं भावयतीति भक्तिभावनः भगवद्भक्तिनिष्ठः । द्वितीयान्तपाठे चेष्टितविशेषणम् । हे कौरव! अघं धुनोति क्षिपति नाशयतीत्यर्थः ॥ ६१ ॥
इति श्रीमद्भागवते चतुर्थस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां सप्तमोऽध्यायः ॥ ७ ॥
-
W रुद्रो ↩︎
-
M,Ma,Ms रुद्र; V,W भव ↩︎
-
W कृतो ↩︎
-
T omits अद्यम् ↩︎
-
A,B,G,I,J,M,Ma,Ms,V षे ↩︎
-
A,B,J तन्नाम्नो ↩︎
-
T omits नेत्रे ↩︎
-
A,B,T ज्ञेयः ↩︎
-
V क्लृप्त ↩︎
-
W प्र ↩︎
-
M,Ma,Ms स्तत्र; V,W स्तं तु ↩︎
-
Ma सहर्भुभिः ↩︎
-
T सु ↩︎
-
A,B,G,I,J,M,Ma,Ms,T दा ↩︎
-
M,Ma,Ms शीर्षणि ↩︎
-
M,Ma दभ्र; Ms च्चन्द्र ↩︎
-
M,Ma औत्कण्ठ्य बा ↩︎
-
A,B,T omit सुतां ↩︎
-
M,Ma,Ms प्रसह्य ↩︎
-
A,B,T मधर्मविशिष्टेषु ↩︎
-
A,B,G,I,J,M,Ma,Ms,T घरान् ↩︎
-
A,B,G,I,J,M,Ma,T तः स्म, Ms तश्च ↩︎
-
M,Ma,Ms तां प्रथयितुं ↩︎
-
M,Ma,Ms स्राः ↩︎
-
A,B,I एतान् ↩︎
-
A,B,T सर्वापत्सु ↩︎
-
M,Ma,Ms यैक्षत् ↩︎
-
A,B,G,I,J,M,Ma,Ms,I कर्म सन्तानया ↩︎
-
B,M,Ma,Ms गग्निभिः ↩︎
-
A,B,T सम्प्र ↩︎
-
W पाठान्तरम् ↩︎
-
M,Ma,Ms हूयमाने यजुष्पतौ ↩︎
-
M,Ma,Ms यथा ↩︎
-
A,B,G,I,J,M,Ma,Ms,T तथा ↩︎
-
A,B,T र्बभूर्वत्यर्थः ↩︎
-
M,Ma,Ms निर्जितः ↩︎
-
M,Ma,Ms कुण्डलमण्डितास्यः ↩︎
-
A,B,G,I,J,M,Ma,T श्वेतात ↩︎
-
M,Ma,Ms लक्ष्यमाणः ↩︎
-
W omits लक्ष्मीः ↩︎
-
M,Ma मूर्ध्नि ↩︎
-
B,M,Ma कृ ↩︎
-
M,Ma,Ms त्वे स्वभु ↩︎
-
B,V त्वा ↩︎
-
A,B,G,I,J सादनो; Ms सादरो ↩︎
-
M,Ma न्नमन् ↩︎
-
M,Ma जं ↩︎
-
A,T omit साधनोत्तमः ↩︎
-
A,B,T यागादि ↩︎
-
A,B,V स्वं ↩︎
-
A,B,T omit नन्द ↩︎
-
M,Ma,Mss मिवामनन्ति ↩︎
-
M,Ma,Ms दस्त्वमास्थाः ↩︎
-
A,B,T विजा ↩︎
-
M,Ma,Mss र्गान्त ↩︎
-
M,M,Ms ऽऽकृष्टे ↩︎
-
J,Va तृष्यात्म ↩︎
-
A,B,G,I,J,M,Ma,Ms,T भारः ↩︎
-
M,Ma,Ms शस्तौ ↩︎
-
W त्वा ↩︎
-
M,Ma,Ms षा चानभिद्ये ↩︎
-
A,B,G,I,J,T लार्थे ↩︎
-
M,Ma,Ms मां विद्धि लोकाप ↩︎
-
M,Ma,Ms ग ↩︎
-
M,Ma यं त्व; Ms ऽन्यं त्व ↩︎
-
A,B,G,I,J,M,Ma,Ms,T हृ ↩︎
-
M,Ma,Ms नात्माश्रितं ↩︎
-
V सृतं ↩︎
-
M,Ma,Ms omit ब्रह्मोवाच ↩︎
-
M,Ma,Ms हः ↩︎
-
M,Ma,Ms यात् ↩︎
-
A,B,G,J,M,Ma,Ms,T यत; I मत ↩︎
-
A,I यादेर्विषयस्यं प्रां ↩︎
-
M,Ma,Ms मच्युत ↩︎
-
W तं ↩︎
-
A,B,G,I,J,T,V,W omit ऋत्विक्; M,Ma,Ms यज्ञ ↩︎
-
M,Ma न्नखिल ↩︎
-
T भगवं ↩︎
-
A,B,G,I,J,M,Ma,T ते ↩︎
-
M,Ma,Ms यो ↩︎
-
M,Ma,Ms रान् ↩︎
-
A,B,G,I,J,T वर्तनीं ↩︎
-
W omits तत्कृतेन ↩︎
-
A,B,J omits तत् ↩︎
-
A,B,J हुः ↩︎
-
A,B,G,I,J,T त्वत् ↩︎
-
M,Ma,Ms वान्नः ↩︎
-
Ms प्रसूतिः ↩︎
-
M,Ma सः ↩︎
-
A,B,G,I,T द्रष्टा ↩︎
-
M,Ma,Ms विश्वम् ↩︎
-
A,B,T अदृग्वि ↩︎
-
A,B,T तत्त्वत्वेन ↩︎
-
M,Ma,Ms मृतप्रिय प्र ↩︎
-
W त ↩︎
-
A,B,G,I,J,I,V भक्त्ये ↩︎
-
A,B,T भ्यानु ↩︎
-
A,B,T नाऽपृ ↩︎
-
T भावादिज्ञा ↩︎
-
M,Ma,Ms लीलया ↩︎
-
M,Ma,Ms प्रविभज्य ↩︎
-
M,Ma,Ms ह्यति ↩︎
-
T मनु ↩︎
-
A,B,G,I,J,I,M,Ma,Ms च ↩︎
-
V वेदपरे ↩︎
-
A,B,G,I,J,T ऽपि च, कुतः ↩︎
-
A,B,T add मन्त्रेण ↩︎
-
M,Ma,Ms वहाम्यध्वर ↩︎
-
M,Ma,Ms र्नः ↩︎
-
M,Ma,Ms च ↩︎
-
A,B,T न ↩︎
-
T कारकत्वं ↩︎
-
M,Ma,Ms आशासानाः ↩︎
-
M,Ma,Ms म्नः ↩︎
-
M,Ma,Ms मः ↩︎
-
W मु ↩︎
-
Ms खै ↩︎
-
W omits नितरां ↩︎
-
Ms शो यजुः ↩︎
-
M,Ma,Ms मन्त्राः ↩︎
-
A,B,G,I,J,M,Ma,Ms च ↩︎
-
A,B,G,I,J,Ma,Ms,T अ ↩︎
-
A,B,T omit अग्निहोत्रम् ↩︎
-
M,Ma,Ms महान्सू ↩︎
-
W नु ↩︎
-
V हाथ ↩︎
-
A,B,T वा ↩︎
-
A,B,T omit नुदन् ↩︎
-
A,B,T रूपं ↩︎
-
M,Ma,Ms,V सम्प्रं ↩︎
-
M,Ma ना ↩︎
-
M,Ma स्सामगीरीश ↩︎
-
A,B,G,I,J,Ms,T व ↩︎
-
M,Ma,Ms उ ↩︎
-
W स्रक्ष्यामि ↩︎
-
W प्रलय ↩︎
-
W व ↩︎
-
T omits तत् ↩︎
-
A‚B‚T र्हसू ↩︎
-
M,Ma,Ms से आत्ममायामाविश्य ↩︎
-
M,Ma,Ms योऽहं ↩︎
-
M,Ma,Ms संज्ञाः ↩︎
-
M,Ma,Ms ताः ↩︎
-
A,B,T स्फुटम् ↩︎
-
A,B,T श्रुत्यनुरोधात् ↩︎
-
M,Ma,Ms देहात्मबुद्धिर्भूतानि ↩︎
-
W ज्ञो विप ↩︎
-
A,B,T विसद्ध्यर्ह ↩︎
-
A,B,T देहात्मबु ↩︎
-
A,B,T णस्व ↩︎
-
M,Ms ना ↩︎
-
A,B,T दिक ↩︎
-
A,B,T स्यैवो ↩︎
-
A,B,T नन्त्वयु ↩︎
-
A,T स्व ↩︎
-
A,B,T स्व ↩︎
-
M,Ma देवान्भगवतो ↩︎
-
A,B,T मर्चित्वा ↩︎
-
A,T omit समाप्ति ↩︎
-
A,B,G,I,J,M,Ma,Ms,T स्ते ↩︎
-
A,B,T omit प्रभावेन ↩︎
-
A,B,G,I,J,M,Ma,Ms,T हित्वा सती ↩︎
-
M,Ma,Ms स्त्ववाप ↩︎
-
M,Ma,Ms ति ↩︎
-
A,B,T ommit रुद्रं ↩︎
-
A,B,T omit परमपुरुषं ↩︎
-
W omit सुम्ना ↩︎
-
A,B,T चिच्छक्तिः ↩︎
-
M,Ma,Ms रहस्यं ↩︎
-
M,Ma,Ms मे ↩︎
-
M,Ma,Ms तु कीर्तयेद्बुधो ↩︎
-
M,Ma,Ms भावितः W भावनः ↩︎
-
A,B,T omit श्रावण ↩︎
-
A,B,T omit आयुष्करं ↩︎