[षष्ठोऽध्यायः]
भागसूचना
ब्रह्मादि देवताओंका कैलास जाकर श्रीमहादेवजीको मनाना
श्लोक-१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
अथ देवगणाः सर्वे
रुद्रानीकैः पराजिताः।
शूल-पट्टिश-निस्त्रिंश-
गदा-परिघ-मुद्गरैः॥
मूलम्
अथ देवगणास्सर्वे रुद्रानीकैः पराजिताः।
शूल1पट्टिशनिस्त्रिंशगदापरिघमुद्गरैः॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
संछिन्न-भिन्न-सर्वाङ्गाः
स-र्त्विक्-सभ्या भयाकुलाः।
स्वयम्-भुवे नमस्-कृत्य
कात्स्न्र्येनैतन् न्यवेदयन्॥
मूलम्
सञ्छिन्नभिन्नसर्वाङ्गाः सर्त्विक्सभ्या 2भयाकुलाः।
स्वयम्भुवे नमस्कृ3त्य कात्स्न्र्येनैतन्न्यवेदयन्॥ २ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—विदुरजी! इस प्रकार जब रुद्रके सेवकोंने समस्त देवताओंको हरा दिया और उनके सम्पूर्ण अंग-प्रत्यंग भूत-प्रेतोंके त्रिशूल, पट्टिश, खड्ग, गदा, परिघ और मुद्गर आदि आयुधोंसे छिन्न-भिन्न हो गये तब वे ऋत्विज् और सदस्योंके सहित बहुत ही डरकर ब्रह्माजीके पास पहुँचे और प्रणाम करके उन्हें सारा वृत्तान्त कह सुनाया॥ १-२॥
वीरराघवः
एवं दक्षाध्वरविनाश उक्तः । अथ पुनः तत्सन्धानप्रकारं विवक्षुस्तदुपोद्धातरूपं देवकृतरुद्रप्रसादनं वक्ष्यन् तावत् देवानां रुद्रपारिषदताडितानां स्वयम्भुवे विज्ञापनं वदन् तेन सह रुद्रसन्निधिं गता इत्याह मैत्रेयः - अथेति । अथ 4दक्षयज्ञविनाशानन्तरं सर्त्विक्सभ्या ऋत्विग्भिः सभ्यैश्च सहिताः सर्वे देवगणाः रुद्रानीकैः रुद्रसैन्यैः कर्तृभिः शूलादिभिः साधनैः 5सम्यक् छिन्नानि विदीर्णानि सर्वाणि अङ्गानि येषां ते । अत एव पराजिताः भयाकुलाः सन्तः स्वयम्भुवे चतुर्मुखाय नमस्कृत्य एतद्वृतं कार्त्स्न्येन न्यवेदयन् विज्ञापितवन्तः ॥ १, २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
उपलभ्य पुरैवैतद्
भगवान् अब्ज-सम्भवः।
नारायणश् च विश्वात्मा
न कस्याध्वरम् ईयतुः॥
मूलम्
उपलभ्य पुरैवैतद्भगवानब्जसम्भवः।
नारायणश्च विश्वात्मा न क6स्याध्वरमीयतुः॥ ३ ॥
अनुवाद (हिन्दी)
भगवान् ब्रह्माजी और सर्वान्तर्यामी श्रीनारायण पहलेसे ही इस भावी उत्पातको जानते थे, इसीसे वे दक्षके यज्ञमें नहीं गये थे॥ ३॥
वीरराघवः
किं स्वयम्भुवे विज्ञापितवन्त इत्युच्यते । ब्रह्मापि दक्षाध्वरे आगतः तद्वृत्तं जानात्येव तत्राह - उपलभ्येति । अब्जसम्भवो भगवान् ब्रह्मा सर्वान्तरात्मा नारायणश्च पुरैवैतद्भाविदक्षाध्वरविनाशनमुपलभ्य ज्ञात्वा, भगवान् विश्वात्मेपि विशेषणाभ्यां तयोः सर्वज्ञत्वं सूचितं, तस्य दक्षस्याध्वरं प्रति नेयतुः न गतवन्तौ ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
तद् आकर्ण्य विभुः प्राह
तेजीयसि कृतागसाम्।
क्षेमाय भूयसे भूयान्
न प्रायेण बुभूषताम्॥
अनुवाद (हिन्दी)
अब देवताओंके मुखसे वहाँकी सारी बात सुनकर उन्होंने कहा,
‘देवताओ! परम समर्थ तेजस्वी पुरुषसे
कोई दोष भी बन जाय
तो भी उसके बदलेमें
अपराध करनेवाले मनुष्योंका भला नहीं हो सकता॥ ४॥
वीरराघवः
विभुः ब्रह्मा तद्देवैर्विनिवेदितमाकर्ण्य श्रुत्वा आह उवाच, उक्तिमेवाह - तेजीयसीत्यादिना ।
तेजीयसि तेजिष्ठे रुद्रे
कृतमागः अपराधो यैस्
तेषां बुभूषतां भवितुम् इच्छतां श्रेयस्-कामानाम् इति यावत्
भूयसे क्षेमाय श्रेयसे प्रायेण प्रायशः न भूयात् ।
तेजीयान् इति विभक्तिविपरिणामेनानुषज्यते,
असत्-कृतः तेजीयान्
पश्चात् प्रसाद्यमानोऽपि क्षेमकृन् न स्याद्
इत्यर्थः ।
प्रायेणेति लोकोक्तिः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
अथापि यूयं कृत-किल्बिषा भवं
ये बर्हिषो भाग-भाजं परादुः+++(=बहिष्कृतवन्तः)+++।
प्रसादयध्वं परिशुद्ध-चेतसा
क्षिप्र-प्रसादं प्रगृहीताङ्घ्रि-पद्मम्॥
मूलम्
अथापि यूयं कृतकिल्बिषा 10भवं ये बर्हिषो भाग11भाजं परादुः।
प्रसादयध्वं परिशुद्धचेतसा क्षिप्रप्रसादं प्रगृहीताङ्घ्रि12पद्मम्॥ ५ ॥
अनुवाद (हिन्दी)
फिर तुमलोगोंने तो यज्ञमें भगवान् शंकरका प्राप्य भाग न देकर उनका बड़ा भारी अपराध किया है। परन्तु शंकरजी बहुत शीघ्र प्रसन्न होनेवाले हैं, इसलिये तुमलोग शुद्ध हृदयसे उनके पैर पकड़कर उन्हें प्रसन्न करो—उनसे क्षमा माँगो॥ ५॥
वीरराघवः
यद्यप्येवमथापि ये भवन्तो बर्हिषः यज्ञस्य भागभाजो भागं भजन्ति प्राप्नुवन्तीति तथा तान् परादुः बहिष्कृतवन्तः ते यूयं परिशुद्धचेतसा निष्कपटचित्तेन प्रगृहीताङ्घ्रित्पद्मं पादावुपसङ्गृह्येत्यर्थः । भवं रुद्रं प्रसादयध्वं, कथं पादोपसङ्ग्रहमात्रेण प्रसन्नो भवेत् तत्राह - क्षिप्रप्रासादं पादग्रहणस्याऽनतिक्रमणीयतामालोच्य आश्वनुग्रहकारिणमिति भावः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
आशासाना जीवितमध्वरस्य
लोकः सपालः कुपिते न यस्मिन्।
तमाशु देवं प्रियया विहीनं
क्षमापयध्वं हृदि विद्धं दुर्-उक्तैः॥
मूलम्
आशासाना जीवितमध्वरस्य लोकः सपालः कुपिते न यस्मिन्।
तमाशु देवं प्रियया विहीनं क्षमापयध्वं हृदि विद्धं दुरुक्तैः॥ ६ ॥
अनुवाद (हिन्दी)
दक्षके दुर्वचनरूपी बाणोंसे उनका हृदय तो पहलेसे ही बिंध रहा था, उसपर उनकी प्रिया सतीजीका वियोग हो गया। इसलिये यदि तुमलोग चाहते हो कि वह यज्ञ फिरसे आरम्भ होकर पूर्ण हो, तो पहले जल्दी जाकर उनसे अपने अपराधोंके लिये क्षमा माँगो। नहीं तो उनके कुपित होनेपर लोकपालोंके सहित इन समस्त लोकोंका भी बचना असम्भव है॥ ६॥
वीरराघवः
अध्वरस्य यज्ञस्य जीवितं पुनस्सन्धानं आशासानाः प्रार्थयमानाः यूयं यस्मिन् रुद्रे कुपिते सति सपालः दिक्पालसहितो लोको नास्ति नश्येदित्यर्थः, तं दुरुक्तैः दक्षादीनां दुर्वाक्यैः हृदि विद्धं ताडितम् अधुना प्रियया भार्यया च विहीनं देवं भवमाशु क्षमापयध्वं प्रसादयध्वम् ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
नाहं न यज्ञो न च यूयमन्ये
ये देहभाजो मुनयश्च तत्त्वम्।
विदुः प्रमाणं बलवीर्ययोर्वा
यस्यात्मतन्त्रस्य क उपायं विधित्सेत्॥
मूलम्
नाहं न यज्ञो न च यूयमन्ये ये देहभाजो मुनयश्च तत्त्वम्।
विदुः प्रमाणं बलवीर्ययोर्वा 13यस्या14त्मतन्त्रस्य क 15उपायं विधित्सेत्॥ ७ ॥
अनुवाद (हिन्दी)
भगवान् रुद्र परम स्वतन्त्र हैं, उनके तत्त्व और शक्ति-सामर्थ्यको न तो कोई ऋषि-मुनि, देवता और यज्ञ-स्वरूप देवराज इन्द्र ही जानते हैं और न स्वयं मैं ही जानता हूँ; फिर दूसरोंकी तो बात ही क्या हे। ऐसी अवस्थामें उन्हें शान्त करनेका उपाय कौन कर सकता है॥ ७॥
वीरराघवः
वयं तत्र गन्तुं बिभीमः, त्वमेव कञ्चिदुपायं चिन्तयेत्यत्र रुद्रं प्रस्तौति - नाहमिति । यस्य रुद्रस्य तत्त्वं याथात्म्यं बलवीर्ययोः प्रमाणमियत्तां च अहं न विद्याम्, यज्ञः इन्द्रः न च, न विद्यात् यूयं न च न विद्यात । तथा मुनयो येऽन्ये च देहधारिणोऽतीन्द्रियार्थदर्शिनो न विदुः, ब्रह्मदृष्ट्येदमुक्तं तस्यात्मनः परमात्मावेशावतारभूतस्य उपायं क्षमोपायं को विधित्सेत् न कोऽपि विधातुमिष्यादित्यर्थः । भवद्भिः पादोपसङ्ग्रहणमन्तरेणान्यः कः कमुपायं विधित्सेदिति भावः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
स इत्थमादिश्य सुरानजस्तैः
समन्वितः पितृभिः सप्रजेशैः।
ययौ स्वधिष्ण्यान्निलयं पुरद्विषः
कैलासमद्रिप्रवरं प्रियं प्रभोः॥
मूलम्
स इत्थमादिश्य सुरान16जस्तैः समन्वितः पितृभिः सप्रजेशैः।
ययौ स्वधिष्ण्यान्निलयं पुरद्विषः कैलासमद्रिप्रवरं प्रियं प्रभोः॥ ८ ॥
अनुवाद (हिन्दी)
देवताओंसे इस प्रकार कहकर ब्रह्माजी उनको, प्रजापतियोंको और पितरोंको साथ ले अपने लोकसे पर्वतश्रेष्ठ कैलासको गये, जो भगवान् शंकरका प्रिय धाम है॥ ८॥
वीरराघवः
सोऽजः ब्रह्मासुरान् प्रत्येवमादिश्याऽऽज्ञाप्य तैर्देवैः सप्रजापतिभिः पितृभिश्च सह स्वधिष्ण्यात् स्वस्थानात् पुरारेः प्रभो रुद्रस्य प्रियं निलयं स्थानभूतम् अद्रिश्रेष्ठं कैलासं प्रति ययौ ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
जन्मौषधितपोमन्त्रयोगसिद्धैर्नरेतरैः।
जुष्टं किन्नरगन्धर्वैरप्सरोभिर्वृतं सदा॥
मूलम्
जन्मौष17धितपोमन्त्रयोगसिद्धैर्नरेतरैः।
जुष्टं किन्नरगन्धर्वैरप्सरोभिर्वृतं सदा॥ ९ ॥
अनुवाद (हिन्दी)
उस कैलासपर ओषधि, तप, मन्त्र तथा योग आदि उपायोंसे सिद्धिको प्राप्त हुए और जन्मसे ही सिद्ध देवता नित्य निवास करते हैं; किन्नर, गन्धर्व और अप्सरादि सदा वहाँ बने रहते हैं॥ ९॥
वीरराघवः
कैलासं वर्णयति - जन्मौषधीत्यादिभिश्चतुर्दशभिः । जन्मना ओषध्यादिभिश्च ये सिद्धाः तैः नरेतरैः देवयोनिभिः तत्र जन्मतः सिद्धा ओषध्याद्यनपेक्षमेव सृष्टिवेलायामेव देवत्वेन सृष्टाः । ओषध्यादिसिद्धास्तु देवत्वसम्पादकौषध्याद्युपायैः देवत्वेन सिद्धाः । योगः रुद्रोपासनारूपयोगः । मन्त्रः यावज्जीवं शिवपञ्चाक्षर्यादिमन्त्रावृत्तिः । जुष्टं सेवितं, तथा च गीतं भगवता - “देवान् देवयजो यान्ति पितॄन् यान्ति पितृव्रताः” (भगी. 7-23) इति । तथा अप्सरोभिः किन्नरादिभिश्च सदा वृत्तम् ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
नानामणिमयैः शृङ्गैर्नानाधातुविचित्रितैः।
नानाद्रुमलतागुल्मैर्नानामृगगणावृतैः॥
मूलम्
नानामणिमयैः शृङ्गैर्नानाधातुविचित्रितैः।
नानाद्रुमलतागुल्मैर्नानामृग18गणाऽऽवृतैः॥ १० ॥
अनुवाद (हिन्दी)
उसके मणिमय शिखर हैं, जो नाना प्रकारकी धातुओंसे रंग-बिरंगे प्रतीत होते हैं। उसपर अनेक प्रकारके वृक्ष, लता और गुल्मादि छाये हुए हैं, जिनमें झुंड-के-झुंड जंगली पशु विचरते रहते हैं॥ १०॥
वीरराघवः
शृङ्गैः शिखरैः रमणैः प्रियैस्सह विहरन्तीनां सिद्धानां या योषितः तासां रमणं रतिप्रदं, श्रृङ्गैः कथम्भूतैः ? नानाधातुभिर्गैरिकादिभिः विचित्रितैः नाना द्रुमाः लतागुल्मानि च येषु तैः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
नानामलप्रस्रवणैर्नानाकन्दरसानुभिः।
रमणं विहरन्तीनां रमणैः सिद्धयोषिताम्॥
मूलम्
नाना19ऽमलप्रस्रवणैर्नानाकन्दरसानुभिः।
रमणं विहरन्तीनां रमणैः सिद्धयोषिताम्॥ ११ ॥
अनुवाद (हिन्दी)
वहाँ निर्मल जलके अनेकों झरने बहते हैं और बहुत-सी गहरी कन्दरा और ऊँचे शिखरोंके कारण वह पर्वत अपने प्रियतमोंके साथ विहार करती हुई सिद्धपत्नियोंका क्रीडा-स्थल बना हुआ है॥ ११॥
वीरराघवः
नाना अमलानि स्वच्छानि प्रस्रवणानि स्रोतांसि येषु, नाना कन्दराः सानूनि च येषु तैः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
मयूरकेकाभिरुतं मदान्धालिविमूर्च्छितम्।
प्लावितै रक्तकण्ठानां कूजितैश्च पतत्त्रिणाम्॥
मूलम्
मयूरकेकाभिरुतं मदान्धालिविमूर्च्छितम्।
प्लावितै रक्तकण्ठानां कूजितैश्च पतत्त्रिणाम्॥ १२ ॥
अनुवाद (हिन्दी)
वह सब ओर मोरोंके शोर, मदान्ध भ्रमरोंके गुंजार, कोयलोंकी कुहू-कुहू ध्वनि तथा अन्यान्य पक्षियोंके कलरवसे गूँज रहा है॥ १२॥
वीरराघवः
तथा मयूराणां केकास्वनैः अभितः सर्वतः रुतं नादितम् । मदेन मकरन्दपानजनितमदेन अन्धैरलिभिः भृङ्गैः विमूर्च्छितं मूर्च्छनाख्यरागगीतिविशेषेण व्याप्तं रक्तकण्ठानां कोकिलानां प्लावितैः त्रिमात्रशब्दैः तथान्येषां पतत्रिणां 20पक्षिणां च कूजितैः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
आह्वयन्तमिवोद्धस्तैर्द्विजान् कामदुघैर्द्रुमैः।
व्रजन्तमिव मातङ्गैर्गृणन्तमिव निर्झरैः॥
मूलम्
आह्वयन्तमिवोद्धस्तैर्द्वि21जान् कामदुघैर्द्रुमैः।
व्रजन्तमिव मातङ्गैर्गृणन्तमिव निर्झरैः॥ १३ ॥
अनुवाद (हिन्दी)
उसके कल्पवृक्ष अपनी ऊँची-ऊँची डालियोंको हिला-हिलाकर मानो पक्षियोंको बुलाते रहते हैं। तथा हाथियोंके चलने-फिरनेके कारण वह कैलास स्वयं चलता हुआ-सा और झरनोंकी कल-कल-ध्वनिसे बातचीत करता हुआ-सा जान पड़ता है॥ १३॥
वीरराघवः
उद्धस्तैः उन्नतशाखैः, कामदुघैः द्रुमैश्च द्विजान् पक्षिण आह्वयन्तमिव स्थितम् । लोके हि हस्तमुत्क्षिप्य उच्चैस्स्वरेणाह्वानमर्थिनाम् । कामधुक् अद्रिश्च उत्क्षिप्तहस्ताकारैर्दुमैः पतत्त्रिणां स्वनैश्च तथा लक्ष्यत इत्यर्थः । व्रजद्भिर्मातङ्गैः गजैः व्रजन्तमिव । निर्झराणां ध्वनिभिः गृणन्तं भाषमाणमिव स्थितम् ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
मन्दारैः पारिजातैश्च सरलैश्चोपशोभितम्।
तमालैः शालतालैश्च कोविदारासनार्जुनैः॥
मूलम्
मन्दारैः पारिजातैश्च सरलैश्चोपशोभितम्।
तमालैः 22सालतालैश्च कोविदारासनार्जुनैः॥ १४ ॥
अनुवाद (हिन्दी)
मन्दार, पारिजात, सरल, तमाल, शाल, ताड़, कचनार, असन और अर्जुनके वृक्षोंसे वह पर्वत बड़ा ही सुहावना जान पड़ता है॥ १४॥
वीरराघवः
मन्दारादिभिर्वृक्षविशेषैः उपशोभितम् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
चूतैः कदम्बैर्नीपैश्च नागपुन्नागचम्पकैः।
पाटलाशोकबकुलैः कुन्दैः कुरबकैरपि॥
मूलम्
चूतैः कदम्बै23र्नीपैश्च नागपुन्नागचम्पकैः।
पाटलाशोकवकुलैः कुन्दैः कुरवकैरपि॥ १५ ॥
वीरराघवः
चूतैराम्रविशेषैः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
स्वर्णार्णशतपत्रैश्च वररेणुकजातिभिः।
कुब्जकैर्मल्लिकाभिश्च माधवीभिश्च मण्डितम्॥
अनुवाद (हिन्दी)
आम, कदम्ब, नीप, नाग, पुन्नाग, चम्पा, गुलाब, अशोक, मौलसिरी, कुन्द, कुरबक, सुनहरे शतपत्र कमल, इलायची और मालतीकी मनोहर लताएँ तथा कुब्जक, मोगरा और माधवीकी बेलें भी उसकी शोभा बढ़ाती हैं॥ १५-१६॥
वीरराघवः
स्वर्णशतपत्रैः सुवर्णवर्णैः कुशेशयैः कुन्दादिभिर्लताविशेषैश्च मण्डितम् । रेणुका एला, जातिर्मालती ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
पनसोदुम्बराश्वत्थप्लक्षन्यग्रोधहिङ्गुभिः।
भूर्जैरोषधिभिः पूगै राजपूगैश्च जम्बुभिः॥
मूलम्
पनसोदुम्बराश्वत्थप्लक्षन्यग्रोधहिङ्गुभिः।
भूर्जैरोषधिभिः पूगै राजपूगैश्च जम्बुभिः॥ १७ ॥
वीरराघवः
पनसादिभिर्दुमैः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
खर्जूराम्रातकाम्राद्यैः प्रियालमधुकेङ्गुदैः।
द्रुमजातिभिरन्यैश्च राजितं वेणुकीचकैः॥
मूलम्
खर्जूरा27म्लातकाम्राद्यैः प्रिया28लुमधुकेङ्गुदैः।
द्रुमजातिभि29रन्याभू राजितं वेणुकीचकैः॥ १८ ॥
अनुवाद (हिन्दी)
कटहल, गूलर, पीपल, पाकर, बड़, गूगल, भोजवृक्ष, ओषध जातिके पेड़ (केले आदि, जो फल आनेके बाद काट दिये जाते हैं), सुपारी, राजपूग, जामुन, खजूर, आमड़ा, आम, पियाल, महुआ और लिसौड़ा आदि विभिन्न प्रकारके वृक्षों तथा पोले और ठोस बाँसके झुरमुटोंसे वह पर्वत बड़ा ही मनोहर मालूम होता है॥ १७-१८॥
वीरराघवः
तथान्यैश्च द्रुमजातिभिः द्रमुसामान्यैः । वेणुकीचकैश्च राजितं मण्डितं, नीरन्ध्रसरन्ध्रत्वेन वेणुकीचकयोः भे30दः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
कुमुदोत्पलकह्लारशतपत्रवनर्द्धिभिः।
नलिनीषु कलं कूजत्खगवृन्दोपशोभितम्॥
मूलम्
कुमुदोत्पलकह्लारशतपत्र31समृद्धिभिः।
नलिनीषु कलं कूजत्खगवृन्दोपशोभितम्॥ १९ ॥
अनुवाद (हिन्दी)
उसके सरोवरोंमें कुमुद, उत्पल, कल्हार और शतपत्र आदि अनेक जातिके कमल खिले रहते हैं। उनकी शोभासे मुग्ध होकर कलरव करते हुए झुंड-के-झुंड पक्षियोंसे वह बड़ा ही भला लगता है॥ १९॥
वीरराघवः
कुमुदादिसमृद्धिभिः शतपत्राणां स्वर्णवर्णा32नां ऋद्धिभिः राजितं, नलिनीषु सरस्सु कलं मधुरं यथा भवति तथा कूजद्भिः खगबृन्दैः पक्षिसङ्घैरुपशोभितम् ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
मृगैः शाखामृगैः क्रोडैर्मृगेन्द्रैर्ऋक्षशल्यकैः।
गवयैः शरभैर्व्याघ्रै रुरुभिर्महिषादिभिः॥
मूलम्
मृगैः शाखामृगैः क्रोडैर्मृगेन्द्रैर्ऋक्षशल्यकैः।
गवयैः 33शरभैर्व्याधै रुरुभिर्महिषादिभिः॥
वीरराघवः
मृगादिभिर्निर्जुष्टं निषेवितम् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
कर्णान्त्रैकपदाश्वास्यैर्निर्जुष्टं वृकनाभिभिः।
कदलीखण्डसंरुद्धनलिनीपुलिनश्रियम्॥
वीरराघवः
कर्णौर्णैः गोकर्णाख्यैः ऊर्णामृगैः एकपदैः अश्वमुख्यैश्च, मृगनाभिभिः कस्तूरीमृगैश्च नितरां जुष्टं कदलीषण्डैः संरुद्धान्यावृतानि नलिनीनां कमलाकराणां पुलिनानि तैः श्रीः शोभा यस्मिन् तम् ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
पर्यस्तं नन्दया सत्याः स्नानपुण्यतरोदया।
विलोक्य भूतेशगिरिं विबुधा विस्मयं ययुः॥
मूलम्
पर्यस्तं नन्दया सत्याः स्नानपुण्य38तरोदया।
विलोक्य भूतेशगिरिं विबुधा विस्मयं ययुः॥ २२ ॥
अनुवाद (हिन्दी)
वहाँ जहाँ-तहाँ हरिन, वानर, सूअर, सिंह, रीछ, साही, नीलगाय, शरभ, बाघ, कृष्णमृग, भैंसे, कर्णान्त्र, एकपद, अश्वमुख, भेड़िये और कस्तूरी-मृग घूमते रहते हैं तथा वहाँके सरोवरोंके तट केलोंकी पंक्तियोंसे घिरे होनेके कारण बड़ी शोभा पाते हैं। उसके चारों ओर नन्दा नामकी नदी बहती है, जिसका पवित्र जल देवी सतीके स्नान करनेसे और भी पवित्र एवं सुगन्धित हो गया है। भगवान् भूतनाथके निवासस्थान उस कैलासपर्वतकी ऐसी रमणीयता देखकर देवताओंको बड़ा आश्चर्य हुआ॥ २०—२२॥
वीरराघवः
स्नानेन पुण्यकरं पुण्यसम्पाद39कम् उदकं यस्यां तया, सत्याः निर्मलया नन्दया गङ्ग40या परिवेष्टितम् । भूतेशस्य रुद्रस्य गिरिं कैलासं विलोक्य देवाः विस्मयं ययुः प्रापुः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
ददृशुस्तत्र ते रम्यामलकां नाम वै पुरीम्।
वनं सौगन्धिकं चापि यत्र तन्नाम पङ्कजम्॥
मूलम्
ददृशुस्तत्र ते रम्यामलकां नाम वै पुरीम्।
वनं सौगन्धिकं चापि 41यत्र तन्नाम पङ्कजम्॥ २३ ॥
अनुवाद (हिन्दी)
वहाँ उन्होंने अलका नामकी एक सुरम्य पुरी और सौगन्धिक वन देखा, जिसमें सर्वत्र सुगन्ध फैलानेवाले सौगन्धिक नामके कमल खिले हुए थे॥ २३॥
वीरराघवः
ते देवाः तत्र गिरौ तस्य रुद्रस्य अलकां नाम अलकेति प्रसिद्धां रमणीयां पुरीं सौगन्धिकाख्यं वनं चापि ददृशुः । सौगन्धिकनाम्नोऽन्वर्थतामाह - यत्र वने सौगन्धिकं नाम पङ्कजं भवति । जातावेकवचनम् ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
नन्दा चालकनन्दा च सरितौ बाह्यतः पुरः।
तीर्थपादपदाम्भोजरजसातीव पावने॥
मूलम्
नन्दा चालकनन्दा च सरितौ बाह्यतः पुरः।
तीर्थपादपदाम्भोजरजसातीव पावने॥ २४ ॥
अनुवाद (हिन्दी)
उस नगरके बाहरकी ओर नन्दा और अलकनन्दा नामकी दो नदियाँ हैं; वे तीर्थपाद श्रीहरिकी चरण-रजके संयोगसे अत्यन्त पवित्र हो गयी हैं॥ २४॥
वीरराघवः
पुरीं वर्णयति - नन्दा चेति चतुर्भिः । पुरः पुरात् 42बाह्यतः बाह्ये नन्दा अलकनन्दा चेति द्वे सरितौ भवतः । सरितौ विशिनष्टि सार्धद्वयेन । तीर्थपादस्य हरेः पदाम्भोजरजसा अतीवात्यन्तं पावने भगवत्पदाम्भोजरजोयुक्तत्वात् अत्यन्तपावित्र्यकरे इत्यर्थः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
ययोः सुरस्त्रियः क्षत्तरवरुह्य स्वधिष्ण्यतः।
क्रीडन्ति पुंसः सिञ्चन्त्यो विगाह्य रतिकर्शिताः॥
मूलम्
ययोः सुरस्त्रियः क्षत्तरवरुह्य स्वधिष्ण्यतः।
क्रीडन्ति 43पुम्भिस्सिञ्चन्त्यो विगाह्य रतिकर्शिताः॥ २५ ॥
अनुवाद (हिन्दी)
विदुरजी! उन नदियोंमें रतिविलाससे थकी हुई देवांगनाएँ अपने-अपने निवासस्थानसे आकर जलक्रीडा करती हैं और उसमें प्रवेशकर अपने प्रियतमोंपर जल उलीचती हैं॥ २५॥
वीरराघवः
हे क्षत्तः ! सुरस्त्रियः स्वधिष्ण्यतः स्वविमानेभ्यः अवरुह्य च रतिकर्शिताः विहारश्रान्ताः सत्यः ययोः सरितोर्विगाह्य स्वपुंसः स्वप्रियान् सिञ्चन्त्यः क्रीडन्ति जलक्रीडां कुर्वन्ति ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
ययोस्तत्स्नानविभ्रष्टनवकुङ्कुमपिञ्जरम्।
वितृषोऽपि पिबन्त्यम्भः पाययन्तो गजा गजीः।
मूलम्
ययोस्तत्स्नानविभ्रष्ट44नवकुङ्कुमपिञ्जरम्।
वितृषोऽपि पिबन्त्यम्भः पाययन्तो गजा गजीः॥ २६ ॥
अनुवाद (हिन्दी)
स्नानके समय उनका तुरंतका लगाया हुआ कुचकुंकुम धुल जानेसे जल पीला हो जाता है। उस कुंकुममिश्रित जलको हाथी प्यास न होनेपर भी गन्धके लोभसे स्वयं पीते और अपनी हथिनियोंको पिलाते हैं॥ २६॥
वीरराघवः
ययोः सरितोरम्भः वितृषोऽपि विगततृष्णा अपि गजाः गजीः करिणीः अम्भः पाययन्तः पानं कारयन्तः पिबन्ति । तत्र हेतुः - तासां सुरस्त्रीणां स्नानेन विश्रष्टं गलितं यन्नवं कुङ्कुमं तेन पिञ्जरं पीतवर्णम् ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
तारहेममहारत्नविमानशतसंकुलाम्।
जुष्टां पुण्यजनस्त्रीभिर्यथा खं सतडिद्घनम्॥
मूलम्
तारहेममहारत्नविमानशतसङ्कुलाम्।
जुष्टां पुण्यजनस्त्रीभिर्यथा खं सत45टिद्धनम्॥ २७ ॥
अनुवाद (हिन्दी)
अलकापुरीपर चाँदी, सोने और बहुमूल्य मणियोंके सैकड़ों विमान छाये हुए थे, जिनमें अनेकों यक्षपत्नियाँ निवास करती थीं। इनके कारण वह विशाल नगरी बिजली और बादलोंसे छाये हुए आकाशके समान जान पड़ती थी॥ २७॥
वीरराघवः
पुनः पुरीं विशिनष्टि - तारेति । तारं रूप्यं तारादिमयविमानानां शतैः सङ्कुलां पुण्यजनैः यातुधानैः तेषां स्त्रीभिश्च जुष्टां, तत्र दृष्टान्त: - तडिद्भिः मेघैः सहितं खमाकाशं यथेति । तत्र विमानानि - खमिव, पुण्यजनाः मेघा इव, तत्स्त्रियः तडित इव ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च तत्।
द्रुमैः कामदुघैर्हृद्यं चित्रमाल्यफलच्छदैः॥
मूलम्
हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च तत्।
द्रुमैः कामदुघैर्हृद्यं चित्रमाल्यफलच्छदैः॥ २८ ॥
अनुवाद (हिन्दी)
यक्षराज कुबेरकी राजधानी उस अलकापुरीको पीछे छोड़कर देवगण सौगन्धिक वनमें आये। वह वन रंग-बिरंगे फल, फूल और पत्तोंवाले अनेकों कल्पवृक्षोंसे सुशोभित था॥ २८॥
वीरराघवः
एवम्भूतां यक्षेश्वरस्य कुबेरस्य पुरीमलकां हित्वा अतिक्रम्य तत्सौगन्धिकाख्यं वनं च दृष्ट्वा ते देवाः आरात् वटं ददृशुरिति चतुर्थेनान्वयः । कथम्भूतं वनम् ? चित्राणि माल्यानि मालायोग्यानि 46पुष्पाकिसलयादीनि 47परिच्छदानि क्रीडोपकरणानि येषु तैः, कामान् वर्षद्भिः द्रुमैः हृद्यं मनोहरम् ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
रक्तकण्ठखगानीकस्वरमण्डितषट्पदम्।
कलहंसकुलप्रेष्ठं खरदण्डजलाशयम्॥
मूलम्
रक्तकण्ठखगानीकस्वरमण्डितषट्पदम्।
कलहंसकुलप्रे48ष्ठं खरदण्डजलाशयम्॥ २९ ॥
अनुवाद (हिन्दी)
उसमें कोकिल आदि पक्षियोंका कलरव और भौंरोंका गुंजार हो रहा था तथा राजहंसोंके परमप्रिय कमलकुसुमोंसे सुशोभित अनेकों सरोवर थे॥ २९॥
वीरराघवः
रक्तकण्ठखगानां कोकिलपक्षिणाम् अनीकस्य समूहस्य स्वरैर्मण्डिताः षट्पदा यस्मिन्, कलहंसानां कुलस्य प्रेष्ठं खरदण्डानि पद्मानि तैर्युक्ताः जलाशया यस्मिन् ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
वनकुञ्जरसंघृष्टहरिचन्दनवायुना।
अधि पुण्यजनस्त्रीणां मुहुरुन्मथयन्मनः॥
अनुवाद (हिन्दी)
वह वन जंगली हाथियोंके शरीरकी रगड़ लगनेसे घिसे हुए हरिचन्दन वृक्षोंका स्पर्श करके चलनेवाली सुगन्धित वायुके द्वारा यक्षपत्नियोंके मनको विशेषरूपसे मथे डालता था॥ ३०॥
वीरराघवः
वनगजैः स51ङ्घृष्टा हरिचन्दनद्रुमाः तत्सम्बन्धिना वायुना पुण्यजनस्त्रीणां मनः अधि अधिकं मुहुरुन्मदयत् परवशीकुर्वत् ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
वैदूर्यकृतसोपाना वाप्य उत्पलमालिनीः।
प्राप्ताः किम्पुरुषैर्दृष्ट्वा त आराद्ददृशुर्वटम्॥
मूलम्
वै52दूर्यकृतसोपाना 53वापीरुत्पलमालिनीः।
54व्याप्ताः किम्पुरुषैर्दृष्ट्वा त आराद्ददृशुर्वटम्॥ ३१ ॥
अनुवाद (हिन्दी)
बावलियोंकी सीढ़ियाँ वैदूर्य-मणिकी बनी हुई थीं। उनमें बहुत-से कमल खिले रहते थे। वहाँ अनेकों किम्पुरुष जी बहलानेके लिये आये हुए थे। इस प्रकार उस वनकी शोभा निहारते जब देवगण कुछ आगे बढ़े, तब उन्हें पास ही एक वटवृक्ष दिखलायी दिया॥ ३१॥
वीरराघवः
वैद्यैर्मणिभिः कृतानि कल्पितानि सोपानानि यासु उत्पलानां माला पङ्क्तयो यासु ताः । आर्षत्वात् व्यत्ययेन द्वितीया । वाप्यः किम्पुरुषैर्व्याप्ताः यस्मिन् वने सन्ति तद्वनं दृष्ट्वा । यद्वा वाप्य इति व्यत्ययात्प्रथमा, वनं वापीश्च दृष्ट्वा आरात् समीपे वटं ते देवाः ददृशुः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
स योजनशतोत्सेधः पादोनविटपायतः।
पर्यक्कृताचलच्छायो निर्नीडस्तापवर्जितः॥
मूलम्
स योजनशतोत्सेधः पादोनविटपायतः।
55पर्यक्कृताचलच्छायो निर्नीडस्तापवर्जितः॥ ३२ ॥
अनुवाद (हिन्दी)
वह वृक्ष सौ योजन ऊँचा था तथा उसकी शाखाएँ पचहत्तर योजनतक फैली हुई थीं। उसके चारों ओर सर्वदा अविचल छाया बनी रहती थी, इसलिये घामका कष्ट कभी नहीं होता था; तथा उसमें कोई घोंसला भी न था॥ ३२॥
वीरराघवः
वटं विशिनष्टि - स इति । स वटः योजनशतमुत्सेधः 56उच्छ्रायो यस्य पादोनैः सर्वतः पञ्चसप्ततियोजनप्रमाणैर्विटपैः शाखाभिश्च आयतो विस्तृतः पर्यक् परितः कृता अचला निश्चला छाया येन । निर्गतं नीडं कुलायं यस्मात् तापेन सूर्याद्यातपेन रहितः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
तस्मिन्महायोगमये मुमुक्षुशरणे सुराः।
ददृशुः शिवमासीनं त्यक्तामर्षमिवान्तकम्॥
मूलम्
तस्मिन् महायोगमये मुमुक्षुशरणे सुराः।
ददृशु57र्देवमासीनं त्यक्तामर्षमिवान्तकम्॥ ३३ ॥
अनुवाद (हिन्दी)
उस महायोगमय और मुमुक्षुओंके आश्रयभूत वृक्षके नीचे देवताओंने भगवान् शंकरको विराजमान देखा। वे साक्षात् क्रोधहीन कालके समान जान पड़ते थे॥ ३३॥
वीरराघवः
महायोगमये महायोगो भगवदुपासनायोगः तत्प्रचुरे महायोगनि58ष्ठपुरुषप्राचुर्यात् तत्स्थानस्य महायोगमयत्वम् । मुमुक्षवः अज्ञानान्मोक्तुमिच्छवः, जिज्ञासव इति यावत् । तेषां शरणे आश्रये तस्मिन् वटमूले आसीनमुपविष्टं त्यक्तामर्षो योऽन्तकस्तत्तुल्यं शिवं सुराः ददृशुः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
सनन्दनाद्यैर्महासिद्धैः शान्तैः संशान्तविग्रहम्।
उपास्यमानं सख्या च भर्त्रा गुह्यकरक्षसाम्॥
मूलम्
59सनन्दनाद्यैर्महासिद्धैः शान्तैः संशान्तविग्रहम्।
उपास्यमानं सख्या च भर्त्रा गुह्यकरक्षसाम्॥ ३४ ॥
अनुवाद (हिन्दी)
भगवान् भूतनाथका श्रीअंग बड़ा ही शान्त था। सनन्दनादि शान्त सिद्धगण और सखा—यक्ष-राक्षसोंके स्वामी कुबेर उनकी सेवा कर रहे थे॥ ३४॥
वीरराघवः
शिवं विशिनष्टि - सनन्दाद्यैरिति पञ्चभिः । महासिद्धैः शान्तैः सनन्दाद्यैः गुह्यकरक्षसां भर्त्रा प्रभुणा सख्या वैश्रवणेन च उपास्यमानं सेव्यमानं संशान्तविग्रहं निर्वैरं कृतापराधेषु देवेष्वपि कृपालुमित्यर्थः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
विद्यातपोयोगपथमास्थितं तमधीश्वरम्।
चरन्तं विश्वसुहृदं वात्सल्याल्लोकमङ्गलम्॥
अनुवाद (हिन्दी)
जगत्पति महादेवजी सारे संसारके सुहृद् हैं, स्नेहवश सबका कल्याण करनेवाले हैं; वे लोकहितके लिये ही उपासना, चित्तकी एकाग्रता और समाधि आदि साधनोंका आचरण करते रहते हैं॥ ३५॥
वीरराघवः
विद्या ज्ञानयोगः, तपः कर्मयोगः ताभ्यां युक्तो 62यो योगपथः भगवद्भक्तिमार्गः तमास्थितं ज्ञानकर्मानुगृहीतभगवद्भक्तियोगनिष्ठमित्यर्थः । अधीश्वरं जितेन्द्रियम् । विश्वसुहृदं “चराचराणि सर्वाणि भूतानि भगवद्वपुः” अतः तदानुकूल्यं मे स्यात् इत्युक्तरीत्या विश्वानुकूलम् । अत एव वात्सल्यात् लोकानां मङ्गलं क्षेममेव चरन्तं कुर्वन्तम् ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
लिङ्गं च तापसाभीष्टं भस्मदण्डजटाजिनम्।
अङ्गेन संध्याभ्ररुचा चन्द्रलेखां च बिभ्रतम्॥
मूलम्
लिङ्गञ्च तापसाभीष्टं भस्मदण्डजटाजिनम्।
अङ्गेन सन्ध्याभ्ररुचा चन्द्रले63खां च बिभ्रतम्॥ ३६ ॥
अनुवाद (हिन्दी)
सन्ध्याकालीन मेघकी-सी कान्तिवाले शरीरपर वे तपस्वियोंके अभीष्ट चिह्न—भस्म, दण्ड, जटा और मृगचर्म एवं मस्तकपर चन्द्रकला धारण किये हुए थे॥ ३६॥
वीरराघवः
सन्ध्याभ्ररुचा रक्तवर्णेन अङ्गेन 64तापसानामिष्टं भस्मादि लिङ्गं चन्द्ररेखां च बिभ्रतम् ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम्।
नारदाय प्रवोचन्तं पृच्छते शृण्वतां सताम्॥
मूलम्
उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम्।
नारदाय प्रवोचन्तं पृच्छते शृण्वतां सताम्॥ ३७ ॥
अनुवाद (हिन्दी)
वे एक कुशासनपर बैठे थे और अनेकों साधु श्रोताओंके बीचमें श्रीनारदजीके पूछनेसे सनातन ब्रह्मका उपदेश कर रहे थे॥ ३७॥
वीरराघवः
दर्भमय्यां बृस्यां ब्रुवन्तोऽस्यां सीदन्तीति बृसी, पृषोदरादित्वात् साधुः, आस्तरणविशेषः तस्यामुपविष्टं पृच्छते नारदाय सतामन्येषां सनन्दनादीनां शृण्वतां सतां सनातनं ब्रह्म परमात्मानं प्रणवं वा प्रवोचन्तम् ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
कृत्वोरौ दक्षिणे सव्यं पादपद्मं च जानुनि।
बाहुं प्रकोष्ठेऽक्षमालामासीनं तर्कमुद्रया॥
अनुवाद (हिन्दी)
उनका बायाँ चरण दायीं जाँघपर रखा था। वे बायाँ हाथ बायें घुटनेपर रखे, कलाईमें रुद्राक्षकी माला डाले तर्कमुद्रासे* विराजमान थे॥ ३८॥
पादटिप्पनी
- तर्जनीको अँगूठेसे जोड़कर अन्य अँगुलियोंको आपसमें मिलाकर फैला देनेसे जो बन्ध सिद्ध होता है, उसे ‘तर्कमुद्रा’ कहते हैं। इसका नाम ज्ञानमुद्रा भी है।
वीरराघवः
सव्यं पादं दक्षिणे ऊरौ कृत्वा विन्यस्य जानुनि सव्ये सव्यबाहुं कृत्वा दक्षिणे बाहुप्रकोष्ठे मणिबन्धस्थाने अक्षमालां कृत्वा दक्षिणहस्तकृतया तर्कमुद्रयोपलक्षितमासीनमित्यर्थः । तदुक्तं योगशास्त्रे - “एकं पादमथैकस्मिन् विन्यसेदूरुसंस्थितम् । इतरस्मिन् तथा बाहुं वीरासनमिदं स्मृतम् ॥” (रुद्रमामलम्) तर्कमुद्रा चोक्ता - “तर्जन्यङ्गुष्ठयोर्म67ध्यं मिथः 68संयोज्यचाङ्गुलीः । प्रसार्य बन्धनं प्राहुस्तर्कमुद्रेति मान्त्रिकाः ॥” इति ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
तं ब्रह्मनिर्वाणसमाधिमाश्रितं
व्युपाश्रितं गिरिशं योगकक्षाम्।
सलोकपाला मुनयो मनूना-
माद्यं मनुं प्राञ्जलयः प्रणेमुः॥
मूलम्
तं ब्रह्मनिर्वाणसमाधिमा69श्रितं 70व्युपाश्रितं गिरिशं योग71कक्ष्याम्।
सलोकपाला मुनयो 72मुनीनामाद्यं 73मुनिं प्राञ्जलयः प्रणेमुः॥ ३९ ॥
अनुवाद (हिन्दी)
वे योगपट्ट (काठकी बनी हुई टेकनी)-का सहारा लिये एकाग्रचित्तसे ब्रह्मानन्दका अनुभव कर रहे थे। लोकपालोंके सहित समस्त मुनियोंने मननशीलोंमें सर्वश्रेष्ठ भगवान् शंकरको हाथ जोड़कर प्रणाम किया॥ ३९॥
वीरराघवः
तं ब्रह्मनिर्वाणसमाधिम् आनन्दरूपब्रह्म विषयसमाधिमाश्रितं योगकक्ष्यां योगपथं व्युपाश्रितं विशेषेणोपाश्रितं मुनीनामाद्यं मुख्यं मुनिं गिरिशं लोकपालसहिता मुनयः बद्धाञ्जलयः प्रणेमुः नमस्कृतवन्तः ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
स तूपलभ्यागतमात्मयोनिं
सुरासुरेशैरभिवन्दिताङ्घ्रिः।
उत्थाय चक्रे शिरसाभिवन्दन-
मर्हत्तमः कस्य यथैव विष्णुः॥
मूलम्
स तूपलभ्यागतमात्मयोनिं सुरासुरेशैरभिवन्दिता74ङ्घ्रिम्।
उत्थाय चक्रे शिरसाभिव75न्दनं म76हत्तमः कस्य यथैव 77विष्णुः॥ ४० ॥
अनुवाद (हिन्दी)
यद्यपि समस्त देवता और दैत्योंके अधिपति भी श्रीमहादेवजीके चरणकमलोंकी वन्दना करते हैं, तथापि वे श्रीब्रह्माजीको अपने स्थानपर आया देख तुरंत खड़े हो गये और जैसे वामनावतारमें परमपूज्य विष्णुभगवान् कश्यपजीकी वन्दना करते हैं, उसी प्रकार सिर झुकाकर उन्हें प्रणाम किया॥ ४०॥
वीरराघवः
स तु गिरिशः सुरासुरेशैः अभिवन्दितौ अङ्घ्री यस्य तमागतमात्मयोनिं ब्रह्माणमुपलभ्य ज्ञात्वा तस्मै, ब्रह्मणे उत्थायेति पाठान्तरं, तदा आसनादुत्थाय शिरसा अभिवन्दनं प्रणामं चक्रे, महत्तमो विष्णुः वामनरूपः यथा । कस्य कश्यप78प्रजापतेः । यद्वा कस्य चतुर्मुखस्याभिवन्दनं चक्रे । कस्य रुद्राभिवन्द्यत्वं सदृष्टान्तमाह - महत्तम इति । विष्णुर्यथा रुद्रस्य महत्तमः पूज्यः तथा कोऽपीत्यर्थः ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
तथापरे सिद्धगणा महर्षिभि-
र्ये वै समन्तादनु नीललोहितम्।
नमस्कृतः प्राह शशाङ्कशेखरं
कृतप्रणामं प्रहसन्निवात्मभूः॥
मूलम्
तथापरे सिद्धगणा महर्षिभिर्ये वै समन्तादनु नीललोहितम्।
नमस्कृतः प्राह शशाङ्कशेखरं कृतप्रणामं प्रहसन्निवात्मभूः॥ ४१ ॥
अनुवाद (हिन्दी)
इसी प्रकार शंकरजीके चारों ओर जो महर्षियोंसहित अन्यान्य सिद्धगण बैठे थे, उन्होंने भी ब्रह्माजीको प्रणाम किया। सबके नमस्कार कर चुकनेपर ब्रह्माजीने चन्द्रमौलि भगवान् से, जो अबतक प्रणामकी मुद्रामें ही खड़े थे, हँसते हुए कहा॥ ४१॥
वीरराघवः
नीललोहितं रुद्रं येऽपरे सिद्धगणा अनुवर्तन्ते तैर्महर्षिभिः सह नमस्कृतः आत्मभूः ब्रह्मा कृतप्रणामं कृतः चतुर्मुखविषयः प्रणामो येन तं शशाङ्कशेखरम् । कृतप्रणाम इति प्रथमान्तपाठे रुद्रेण कृतप्रणामः प्राह ॥ ४१ ॥
श्लोक-४२
मूलम् (वचनम्)
ब्रह्मोवाच
विश्वास-प्रस्तुतिः
जाने त्वामीशं विश्वस्य जगतो योनिबीजयोः।
शक्तेः शिवस्य च परं यत्तद्ब्रह्म निरन्तरम्॥
मूलम्
जाने त्वामी79श विश्वस्य जगतो योनिबीजयोः।
शक्तेः शिवस्य च परं यत्तद्ब्रह्म निरन्तरम्॥ ४२ ॥
अनुवाद (हिन्दी)
श्रीब्रह्माजीने कहा—देव! मैं जानता हूँ, आप सम्पूर्ण जगत्के स्वामी हैं; क्योंकि विश्वकी योनि शक्ति (प्रकृति) और उसके बीज शिव (पुरुष)-से परे जो एकरस परब्रह्म है, वह आप ही हैं॥ ४२॥
वीरराघवः
रुद्रस्य भगवदात्मकत्वात् तदावेशावतारत्वाच्च रुद्रं ब्रह्म80णा सामानाधिकरण्येन निर्दिशन् य81न्निष्कृष्टस्य ब्रह्मणोऽसाधारणं प्रकृतिपुरुषशरीरकत्वजगत्कारणत्वधर्ममर्यादास्थापकत्वानुग्रहीतृत्वनिग्रहीतृत्वादि तत्सर्वं रुद्रप्रशंसायै रुद्ररूपेणाऽवस्थितस्य ब्रह्मण आह - जाने त्वामित्यादिभिश्चतुर्भिः । हे ईश ! रुद्र ! विश्वस्य कृत्स्नस्य चिदचिदात्मकस्य जगतः यो82निबीजयोः योनिबीजभूतयोः क्षेत्रे बीजवत् प्रकृतौ पुरुषस्य मिलितत्त्वात् तयोः योनिबीजशब्दाभ्यां निर्देशः शक्तेर्ब्रह्मण अपृथक्सिद्धविशेषणभूतायाः त्रिगुणात्मिकायाः प्रकृतेः तथा शिवस्य “निर्वाणमय एवायमात्मा” इत्यादि श्रुत्या प्रत्यगात्मनः सुखरूपत्वाभिधानात् जीवस्य शिवशब्देन निर्देशः, तस्य च यत्परं विलक्षणं “तस्य परमाम्रेडितम्” (अष्टा. 8-1-2) इति निर्देशान्न परशब्देन योगे “अन्यारादितरर्त्तेदिक्शब्द-” (अष्टा. 2-3-29) इत्यादिना पञ्चमी । प्रकृतिपुरुषाभ्यां स्वरूपतः स्वभावतश्च विलक्षणमित्यर्थः । तद्यन्निरन्तरं निर्भेदं तत्प्रकृतिपुरुषान्तरात्मतयाऽवस्थितमपि निरस्तनिखिलहेयत्वेन समस्तकल्याणगुणात्मकत्वेन च एकरूपमित्यर्थः । यद्वा निरन्तरम् अन्तरं विच्छेदः तस्मान्निर्गतं सर्वानुस्यूतं सर्वान्तरात्मतयाऽवस्थितमिति यावत् । अथवा कार्त्स्न्येन ज्ञानस्वरूपं न तु प्रदेशभेदेन जडमित्यर्थः । तद्ब्रह्म त्वां जाने इदञ्च सामानाधिकरण्यं शरीरात्मभावनिबन्धनमावेशावतारत्व निबन्धनं च न तु तादात्म्यनिबन्धनम् । “एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधसम्भवौ । मया दर्शितपन्थानौ सृष्टिसंहारकारकौ” (भार. 12-328-17) “सृष्टिं ततः करिष्यामि त्वामाविश्य प्रजापते ।” (विध. पु. 68-52) “नारायणाद्रुद्रो जायते” (नारा.उ.) “अनपहतपाप्मा वा अहमस्मि” इत्यादिभिः कार्यत्वकर्मवश्यत्वाद्यभिधानेन रुद्रादेः जीवत्वनिश्चयात् तादात्म्यासम्भवात् । अत एव “भवांस्तु पुंसः परमस्य मायया दुरन्तयाऽस्पृष्टमतिः समस्तदृक्” (भाग. 4-6-49) इति व्यतिरेकेण निर्देक्ष्यति ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
त्वमेव भगवन्नेतच्छिवशक्त्योः सरूपयोः।
विश्वं सृजसि पास्यत्सि क्रीडन्नूर्णपटो यथा॥
अनुवाद (हिन्दी)
भगवन्! आप मकड़ीके समान ही अपने स्वरूपभूत शिव-शक्तिके रूपमें क्रीडा करते हुए लीलासे ही संसारकी रचना, पालन और संहार करते रहते हैं॥ ४३॥
वीरराघवः
एवं ब्रह्मसामानाधिकरण्येन रुद्रं निर्दिश्य ब्रह्मदृष्ट्या तस्य चिदचिच्छरीरकत्वं सृष्ट्यादिकर्तृत्वं चाह - त्वमिति । हे भगवन् ! स्वांशयोः स्वस्य तव अंशयोः शिवशक्त्योः प्रकृतिपुरुषयोः । अत्र विशिष्टवस्त्वेकदेशत्वरूपमंशत्वं विवक्षितं, न तु विशेष्यवस्त्वेकदेशत्वम् । प्रकृतिपुरुषयोः विकाररूपमेतज्जगत्त्वमेव “सर्वं खल्विदं ब्रह्म” (छान्दो. उ. 3-14-1) इतिवत् सामानाधिकरण्यमिदं शरीरात्मभावनिबन्धनमेव । कथम् ? रुद्राख्यजीवविशेषस्य कृत्स्नं प्रपञ्चं प्रति आत्मत्वं जगतश्च शरीरत्वं, कथञ्चित् शरीरात्मसम्भवेऽपि शरीरवाचिपदस्य शरीरिवाचकेन कथं सामानाधिकरण्यमिति चेदुच्यते । न ह्यत्र रुद्राख्यजीवविशेषस्यात्मत्वं जगतस्तच्छरीरत्वं चोच्यते, किन्तु ब्रह्मविदामहंत्वमादिशब्दा अहंत्वमादिबुद्धयश्च ब्रह्मपर्यन्ताः । “तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च (बृह. उ. 1-4-10) कक्षीवानृषिश्च विप्रश्चास्मि त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते तद्योऽहं योऽसौ सोऽहम् अहं हरिः सर्वमिदं जनार्दनः” इत्यादि श्रुतिस्मृतिभिः तथा प्रतीतेः । एवं चात्र प्रस्तोतुश्चतुर्मुखस्य ब्रह्मविदग्रेसरत्वेन तत्प्रयुक्ता अहंत्वमादिशब्दाः तद्बुद्धयश्च ब्रह्मपर्यन्ता इति रुद्रस्य भगवदात्मकत्वेन तत्पर्यन्तत्वमवगम्य ब्रह्मसामानाधिकरण्येन स निर्दिष्ट इति, विशेष्यभूतस्य ब्रह्मणः कृत्स्नचिदचिदन्तरात्मत्वं तयोः शरीरत्वं च युक्तमेव एवमपि कथमात्मवाचिना शरीरवाचिशब्दस्य सामानाधिकरण्यमिति चेत् गवादिशब्दानां जातिगुणादिमात्रपरतया व्युत्पन्नानां शुक्लो गौरित्यादिषु व्यक्तिगुण्यादिपर्यन्तत्वमन्तरेणाऽपर्यवसन्नानां यथा व्यक्त्यादिपर्यन्तत्वेन सामानाधिकरण्यम् । एवं जातिगुणादिवत् शरीरस्यापृथक्सिद्धविशेषणत्वात् तद्वाचिमात्रपरतया लोके व्युत्पन्नः सः शरीरिपर्यन्तमभिधत्ते “आत्मा देवो जातः” इतिवत् तस्यात्मवाचिना सामानाधिकरण्यमुपपन्नमेव । न च व्यक्तेराक्षेपाल्लक्षणया वा गौः शुक्लः इत्यादि प्रयोगोपपत्तिः अपृथक्सिद्धविशेषणवाचिशब्दत्वस्य लक्षणादिप्रतिबन्धकत्वाद्, अन्यथा जात्याकृतिगोत्वगुणादिशब्दानामपि लक्षणादिना गोत्वं शुक्लमित्यादि प्रयोगापत्तेः । नन्वेवं जात्यादिशब्दानामप्यपृथक्सिद्धविशेषणवाचिनां व्यक्त्यादिपर्यन्तपर्यवसानेन सामानाधिकरण्यापत्तिरिति चेत् मै86वम् । नियतिनिष्कर्षवाचिनां कदाचिदपि विशेषपर्यन्तत्वाभावस्य भाष्यादिषूक्तत्वात् । अत एव शरीरदेहादिशब्दानां कदाचिदपि नात्मवाचिना सामानाधिकरण्यमिति भाष्यादिषु विस्तरः । कृत्स्नचिदचिदात्मकप्रपञ्चशरीरकस्त्वं क्रीडन्नेव विश्वं सृजसि पासि रक्षसि अत्सि संहरसि, क्रीडन्नित्यनेन जगद्व्यापारो भगवतो लीलेत्युक्तम् । ऊर्णप87दः ऊर्णनाभिर्यथेति दृष्टान्तः । “यथोर्णनाभिः सृजते गृह्णते च” (मुण्ड.उ. 1-1-7) इति श्रुतिप्रसिद्धः ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
त्वमेव धर्मार्थदुघाभिपत्तये
दक्षेण सूत्रेण ससर्जिथाध्वरम्।
त्वयैव लोकेऽवसिताश्च सेतवो
यान्ब्राह्मणाः श्रद्दधते धृतव्रताः॥
मूलम्
त्वमेव धर्मार्थ88दुघाभिपत्तये दक्षेण सूत्रेण 89ससर्जिथाध्वरम्।
त्वयैव लोकेऽवसिताश्च सेतवो यान्ब्राह्मणाः श्रद्दधते धृतव्रताः॥ ४४ ॥
अनुवाद (हिन्दी)
आपने ही धर्म और अर्थकी प्राप्ति करानेवाले वेदकी रक्षाके लिये दक्षको निमित्त बनाकर यज्ञको प्रकट किया है। आपकी ही बाँधी हुई ये वर्णाश्रमकी मर्यादाएँ हैं, जिनका नियमनिष्ठ ब्राह्मण श्रद्धापूर्वक पालन करते हैं॥ ४४॥
वीरराघवः
एवं परब्रह्मदृष्ट्या चिदचिच्छरीरकत्वं सृष्ट्यादिकारणत्वमभिधाय पुनस्तद्दृष्ट्या प्रकृताध्वरसन्धित्सोत्पादनाय पुरुषार्थावबोधिशास्त्रप्रवर्तकत्वं धर्ममर्यादापालकत्वं चाह - त्वमेवेति । धर्मार्थधुक् धर्मार्थौ दोग्धीति धर्मार्थधुक् धर्मादिप्रपूरकस्त्वमेव अभिपत्तये पुरुषार्थाऽवाप्तये दक्षेण समर्थेन सूत्रेण सूचितेन शास्त्रेण अध्वरं ससर्जिथ सृष्टवानसि । पुरुषार्थसाधनभूतधर्मार्थसम्पादनोपायावबोधिशास्त्रप्रवर्तकस्त्वमेवेत्यर्थः । सेतवो वर्णाश्रमधर्ममर्यादाश्च त्वयैव अवसिता निबद्धाः । के ते सेतवः ? येऽवसिता इत्यत्राह - यान् सेतून् धृतव्रता व्रतनिष्ठाः सन्तो ब्राह्मणाः श्रद्दधते श्रद्धापूर्वकमनुतिष्ठन्ति ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
त्वं कर्मणां मङ्गल मङ्गलानां
कर्तुः स्म लोकं तनुषे स्वः परं वा।
अमङ्गलानां च तमिस्रमुल्बणं
विपर्ययः केन तदेव कस्यचित्॥
मूलम्
त्वं कर्मणां मङ्गल मङ्गलानां 90कर्तुः 91स्म लो92के तनुषे 93स्वः परं वा।
अमङ्गलानां च तमिस्रमुल्बणं विपर्ययः केन त94देव कस्यचित्॥ ४५ ॥
अनुवाद (हिन्दी)
मंगलमय महेश्वर! आप शुभ कर्म करनेवालोंको स्वर्गलोक अथवा मोक्षपद प्रदान करते हैं तथा पापकर्म करनेवालोंको घोर नरकोंमें डालते हैं। फिर भी किसी-किसी व्यक्तिके लिये इन कर्मोंका फल उलटा कैसे हो जाता है?॥ ४५॥
वीरराघवः
पुनर्ब्रह्मदृष्ट्यैव सर्वकर्मकारयिता तत्तत्फलप्रदश्च त्वमेवेत्याह- त्वमिति । हे मङ्गल ! शिव ! लोके मङ्गलानां कुशलानां कर्मणां कर्तुः कर्त्रे इत्यर्थः । स्वः स्वर्गं परं मोक्षं वा तनुषे प्रददासि, अभिसंहितफलकर्मणां कर्तुः स्वर्गम्, अनभिसंहितफलकर्मणां कर्तुस्तु मोक्षं तनुष इत्यर्थः । अमङ्गलानामकुशलानां कर्मणां कर्तुरुल्बणं तमिस्रं निरयं तनुषे । विपर्ययः अमङ्गलानां कर्मणां कर्तुः कस्यचिदपि स्वर्गमोक्षप्राप्तिरूपः विपर्ययः केन केन हेतुना भवेत् न केनापीत्यर्थः । अतस्तदेव तत्कृतं फलमेव भवति न तद्विपर्यय इत्यर्थः ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
न वै सतां त्वच्चरणार्पितात्मनां
भूतेषु सर्वेष्वभिपश्यतां तव।
भूतानि चात्मन्यपृथग्दिदृक्षतां
प्रायेण रोषोऽभिभवेद्यथा पशुम्॥
मूलम्
न वै सतां त्वच्चरणार्पितात्मनां भूतेषु सर्वेष्वभिपश्यतां तव।
भूतानि चात्मन्यपृथग्दिदृक्षतां प्रायेण रोषोऽभिभवेद्यथा 95पशुम्॥ ४६ ॥
अनुवाद (हिन्दी)
जो महानुभाव आपके चरणोंमें अपनेको समर्पित कर देते हैं, जो समस्त प्राणियोंमें आपकी ही झाँकी करते हैं और समस्त जीवोंको अभेददृष्टिसे आत्मामें ही देखते हैं, वे पशुओंके समान प्रायः क्रोधके अधीन नहीं होते॥ ४६॥
वीरराघवः
एवं ब्रह्मदृष्ट्या रुद्रं प्रस्तूय तस्य प्रसादोत्पिपादयिषया सतां रोषो न युक्त इति कैमुत्य96नयेनाह - न वा इति । त्वच्चरणे 97समर्पितः आत्मा चित्तं येषां सर्वेषु भूतेषु तव द्वितीयार्थे षष्ठी त्वामित्यर्थः । अत्र त्वां त्वमिति पदद्वयं ब्रह्मपर्यन्तं भगवच्चरणारविन्दसमर्पितचित्तानां सर्वाणि भूतानि भगवदात्मकतया पश्यतामित्यर्थः । भूतानि चात्मनि परमात्मनि अ98पृथक् अपृभक्सिद्धानि दिदृक्षतां द्रष्टुमिच्छतां पश्यतामित्यर्थः । सर्वभूतानां भगवच्छरीरतया तदपृथक्सिद्धत्वेन पश्यतामित्यर्थः । एवम्भूतानां सताम्, अत्रापि द्वितीयार्थे षष्ठी । सतः वै अनर्थकारित्वेन प्रसिद्धः, रोषः नाभिभवेत् अभिभूतान्न कुर्यात् यथा पशुं मूर्खमभिभवेत्, अतस्तव रोषो न युक्त इति किमु वक्तव्यमिति भावः ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
पृथग्धियः कर्मदृशो दुराशयाः
परोदयेनार्पितहृद्रुजोऽनिशम्।
परान् दुरुक्तैर्वितुदन्त्यरुन्तुदा-
स्तान्मा वधीद्दैववधान् भवद्विधः॥
जो लोग भेदबुद्धि होनेके कारण कर्मोंमें ही आसक्त हैं, जिनकी नीयत अच्छी नहीं है, दूसरोंकी उन्नति देखकर जिनका चित्त रात-दिन कुढ़ा करता है और जो मर्मभेदी अज्ञानी अपने दुर्वचनोंसे दूसरोंका चित्त दुखाया करते हैं, आप-जैसे महापुरुषोंके लिये उन्हें भी मारना उचित नहीं है; क्योंकि वे बेचारे तो विधाताके ही मारे हुए हैं॥ ४७॥
मूलम्
99पृथग्धियः कर्मदृशो दुराशयाः परोदयेनार्पितहृद्रुजोऽनिशम्।
परान् दुरुक्तैर्वितुदन्त्यरुन्तुदास्तान्मा वधी100द्दैववधान् भवद्विधः॥ ४७ ॥
अनुवाद (हिन्दी)
जो लोग भेदबुद्धि होनेके कारण कर्मोंमें ही आसक्त हैं, जिनकी नीयत अच्छी नहीं है, दूसरोंकी उन्नति देखकर जिनका चित्त रात-दिन कुढ़ा करता है और जो मर्मभेदी अज्ञानी अपने दुर्वचनोंसे दूसरोंका चित्त दुखाया करते हैं, आप-जैसे महापुरुषोंके लिये उन्हें भी मारना उचित नहीं है; क्योंकि वे बेचारे तो विधाताके ही मारे हुए हैं॥ ४७॥
वीरराघवः
कृतापराधेष्वपि महान्तः कृपावन्तो भवन्ति । अतः कृतापराधमपि दक्षम् अनुग्रहीतुमर्हसीत्याह त्रिभिः । पृथग्दृशः अब्रह्मात्मकस्वतन्त्रवस्तुदर्शिनः देवमनुष्यदेहात्माभिमानभिन्नधियो वा कर्मण्येव दृष्टिः येषां, दुष्ट आशयोऽन्तःकरणं येषाम्, अनिशं परेषामुदयेन सम्पदा अर्पिता हृदि रुक् व्यथा येषाम् । अरुन्तुदा मर्मच्छेत्तारः दुरुक्तैः परान् तुदन्ति व्यथयन्ति तान् एवम्भूतान् दैवेनैव वधो येषां तान्, भवद्विधो निरुपमकरुणः मा वधीत् मा हन्यात् ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
यस्मिन् यदा पुष्करनाभमायया
दुरन्तया स्पृष्टधियः पृथग्दृशः।
कुर्वन्ति तत्र ह्यनुकम्पया कृपां
न साधवो दैवबलात्कृते क्रमम्॥
मूलम्
यस्मिन् यदा पुष्करनाभमायया 101दुरन्तया 102मुष्टधियः पृथग्दृशः।
कुर्वन्ति तत्र ह्यनुकम्पया कृपां न साधवो दैवबलात्कृते103ऽक्रमम्॥ ४८ ॥
अनुवाद (हिन्दी)
देवदेव! भगवान् कमलनाभकी प्रबल मायासे मोहित हो जानेके कारण यदि किसी पुरुषकी कभी किसी स्थानमें भेदबुद्धि होती है, तो भी साधु पुरुष अपने परदुःखकातर स्वभावके कारण उसपर कृपा ही करते हैं; दैववश जो कुछ हो जाता है, वे उसे रोकनेका प्रयत्न नहीं करते॥ ४८॥
वीरराघवः
प्रत्युत साधूनां वृत्तमालोच्यानुग्रहमेव कर्तुमर्हसीत्याह - यस्मिन् देशे यदा काले दुर्लङ्घ्यया 104दुरत्ययया पुष्करनाभस्य पद्मनाभस्य भ105गवतः मायया मुष्टधियः मोहितचित्ताः पृथग्दृशो भवन्ति ज्ञानैकाकारतया एकरूपेप्यात्मनि देवमनुष्यादिभेददर्शिनः, तथाऽब्रह्मात्मकत्वदर्शिनश्च भवन्तीत्यर्थः । तत्रापराधिषु साधवो ह्यनुकम्पया अनन्तरमेव परदुःखासहिष्णुतया चित्तप्रकम्पेन कृपां कुर्वन्ति, न त्वक्रमम् अप्रियं कुतः ? दैवबलात् कृतेऽर्थे मम दैवम् एवम्भूतं कोऽत्रापराधः तेषामिति मत्वा कृपामेव कृर्वन्तीत्यर्थः ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
भवांस्तु पुंसः परमस्य मायया
दुरन्तयास्पृष्टमतिः समस्तदृक्।
तया हतात्मस्वनुकर्मचेतः
स्वनुग्रहं कर्तुमिहार्हसि प्रभो॥
मूलम्
106भवांस्तु पुंसः परमस्य मायया दुरन्तयाऽस्पृष्टमतिः समस्तदृक्।
तया हतात्मस्वनुकर्मचेतस्स्वनुग्रहं कर्तुमिहार्ह107सि प्रभो॥ ४९ ॥
अनुवाद (हिन्दी)
प्रभो! आप सर्वज्ञ हैं, परम पुरुष भगवान्की दुस्तर मायाने आपकी बुद्धिका स्पर्श भी नहीं किया है। अतः जिनका चित्त उसके वशीभूत होकर कर्ममार्गमें आसक्त हो रहा है, उनके द्वारा अपराध बन जाय, तो भी उनपर आपको कृपा ही करनी चाहिये॥ ४९॥
वीरराघवः
अतो भवान् परमस्य पुंसः परमपुरुषस्य दुरन्तया मायया अस्पृष्टमतिः भगवत्प्रपन्नत्वेन अमोहितबुद्धिः, अत एव समस्तदृक् सर्वार्थदर्शी तथा मायया हतात्मसु मोहितचित्तेषु अत एव अनुकर्मचेतस्सु कर्मानुगुणचित्तवृत्तिषु सापराधजनेषु अनुग्रहं कर्तुमर्हसि हे प्रभो ! समर्थ ! ॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
कुर्वध्वरस्योद्धरणं हतस्य भो-
स्त्वयासमाप्तस्य मनो प्रजापतेः।
न यत्र भागं तव भागिनो ददुः
कुयज्विनो येन मखो निनीयते॥
मूलम्
कुर्वध्वरस्योद्धरणं हतस्य 108भो त्वयाऽसमाप्तस्य 109मनो प्रजापतेः।
न यत्र भागं तव भागिनो ददुः 110कुयज्विनो येन 111मखो निनीयते॥ ५० ॥
अनुवाद (हिन्दी)
भगवन्! आप सबके मूल हैं। आप ही सम्पूर्ण यज्ञोंको पूर्ण करनेवाले हैं। यज्ञभाग पानेका भी आपको पूरा अधिकार है। फिर भी इस दक्षयज्ञके बुद्धिहीन याजकोंने आपको यज्ञभाग नहीं दिया। इसीसे यह आपके द्वारा विध्वस्त हुआ। अब आप इस अपूर्ण यज्ञका पुनरुद्धार करनेकी कृपा करें॥ ५०॥
वीरराघवः
एवं सामान्येनोक्त्वा प्रस्तुतमाह - कुर्विति त्रिभिः । हे मनो ! रुद्र ! त्वया हतस्य अत एव असमाप्तस्य प्रजापतेः दक्षस्य अध्वरस्योद्धरणं पुनरुद्धारं कुरु कु112र्याः कुयाज्ञिकस्य दक्षस्य यत्राध्वरे भागिनः भागार्हस्य तव भागं न ददुः, येन त्वया हेतुना मखो न नीयते न समाप्यते । निनीयते इति पाठान्तरम् । तदा किमर्थमध्वरोद्धरणाय मां प्रार्थयसे इत्यत्राह - मखो येन त्वया हेतुना निनीयते समाप्यते, यदपचारात् मखो विनष्टः पुनस्तस्यैव भवतोऽनुग्रहात् मखः समापनीय इति भावः ॥ ५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
जीवताद्यजमानोऽयं प्रपद्येताक्षिणी भगः।
भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत्॥
मूलम्
जीवताद्यजमानोऽयं प्रपद्येताक्षिणी भगः।
भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत्॥ ५१ ॥
अनुवाद (हिन्दी)
प्रभो! ऐसा कीजिये, जिससे यजमान दक्ष फिर जी उठे, भगदेवताको नेत्र मिल जायँ, भृगुजीके दाढ़ी-मूँछ आ जायँ और पूषाके पहलेके ही समान दाँत निकल आयें॥ ५१॥
वीरराघवः
अयं यजमानो दक्षः जीवतात् जीवतु, भगः अक्षिणी प्रपद्येत प्राप्नुयात् ॥ ५१ ॥
श्लोक-५२
विश्वास-प्रस्तुतिः
देवानां भग्नगात्राणामृत्विजां चायुधाश्मभिः।
भवतानुगृहीतानामाशु मन्योऽस्त्वनातुरम्॥
मूलम्
देवानां भग्नगात्राणामृत्विजां चायुधाश्मभिः।
भवतानुगृहीतानामाशु 113मन्योऽस्त्वनातुरम्॥ ५२ ॥
अनुवाद (हिन्दी)
रुद्रदेव! अस्त्र-शस्त्र और पत्थरोंकी बौछारसे जिन देवता और ऋत्विजोंके अंग-प्रत्यंग घायल हो गये हैं, आपकी कृपासे वे फिर ठीक हो जायँ॥ ५२॥
वीरराघवः
आयुधैः अश्मभिश्च भयग्रात्राणाम् ऋत्विजां देवानां च पुनर्भवता अनुगृहीतानां हे मन्यो ! अनातुरम् आरोग्यमाशु अस्तु ॥ ५२ ॥
श्लोक-५३
विश्वास-प्रस्तुतिः
एष ते रुद्र भागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै।
यज्ञस्ते रुद्र भागेन कल्पतामद्य यज्ञहन्॥
मूलम्
एष ते रुद्रभागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै।
यज्ञस्ते रुद्रभागेन 114कल्पतामद्य यज्ञहन्॥ ५३ ॥
अनुवाद (हिन्दी)
यज्ञ सम्पूर्ण होनेपर जो कुछ शेष रहे, वह सब आपका भाग होगा। यज्ञ विध्वंसक आज यह यज्ञ आपके ही भागसे पूर्ण हो॥ ५३॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे रुद्रसान्त्वनं नाम षष्ठोऽध्यायः॥ ६॥
वीरराघवः
भागश्च तवास्त्वित्याह - एष इति । हे रुद्र ! यावदित्यर्थे यदित्यव्ययम् । अध्वरस्य यदुच्छिष्टः यज्ञे कृते यावानवशिष्टो115ऽर्थः तावानेष तव भागोऽस्तु । हे रुद्र ! यज्ञहन् ! अद्य अधुना 116ते तव भागेन यज्ञः कल्प्यतां सङ्कल्प्यताम् ॥ ५३ ॥
इति श्रीमद्भागवते चतुर्थस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवत चन्द्रचन्द्रिकायां व्याख्यायां षष्ठोऽध्यायः ॥ ६ ॥
-
Ma,V,W पट्टस ↩︎
-
M,Ma,Ms स्समा ↩︎
-
V त्वा ↩︎
-
W दक्षाध्वरवि ↩︎
-
A,B,T सञ्छिन्नानि ↩︎
-
T त ↩︎
-
A,B,G,I,J,T,V सि ↩︎
-
V पुंसि क्षेमाय सा ↩︎
-
A,B,G,I,J,T तत्र सा ↩︎
-
M,Ma,Ms भवे ↩︎
-
V भुजं ↩︎
-
M,Ma,Ms पद्माः ↩︎
-
A,B,G,I,J,T य ↩︎
-
W नः क ↩︎
-
M,Ma,Ms उद्विधित्सेत् ↩︎
-
M,Ma,Ms जस्तुतैः ↩︎
-
M,Ma,Ms ध ↩︎
-
W गणाऽन्वितैः ↩︎
-
Ms चल ↩︎
-
A,B,T omit V पक्षिणां ↩︎
-
M,Ma,Ms जैः ↩︎
-
A,B,G,I,J,T शा ↩︎
-
M,Ma,Ms म्बनी ↩︎
-
M,MA सुवर्ण; Ms,V स्वर्णर्क ↩︎
-
M,Ma,Ms वीर ↩︎
-
A,B,G,I,J,M,Ma,MS,T कुब्जकै ↩︎
-
A,B,G,I,J,M,Ma,Ms,T म्रा ↩︎
-
A,B,G,I,J,M,Ma,Ms,T ल ↩︎
-
A,B,G,I,J,M,Ma,Ms,T रन्यैश्च ↩︎
-
A,B,T add द्रुमजातिभिरित्यत्र जातिरवान्तरभेदसामान्यम् । ↩︎
-
A,B,G,I,J,M,Ma,Ms,T वनर्द्धिभिः ↩︎
-
A,B,T add वनानां ↩︎
-
Ma नाभिभि ↩︎
-
A,B,G,I,J,T कर्णान्त्रैक ↩︎
-
V,W द्यै ↩︎
-
A,B,G,I,J,T वृक ↩︎
-
A,B,G,I,J,M,Ma,T खण्ड ↩︎
-
M,Ma तमो; W करो ↩︎
-
A नम् ↩︎
-
W adds परीतं ↩︎
-
M,Ma तत्र ↩︎
-
A,T omit बाह्यतः ↩︎
-
A,B,G,I,J,M,Ma,Ms,T पुंस ↩︎
-
M,Ma कुच ↩︎
-
A,B,G,I,J,M,Ma,T डि ↩︎
-
A,B,T पुष्पाणि ↩︎
-
फलच्छदानि इत्यस्य स्थाने परिच्छदानि इति वीरराघवसम्मतः पाठः ↩︎
-
V श्रेष्ठ; M,Ma,Ms प्रेष्ठ ↩︎
-
M,Ma,Ms,W ङ्घु ↩︎
-
A,B,G,I,J,M,Ma,Ms,T थ ↩︎
-
W ङ्यु ↩︎
-
Ms,T,V डू ↩︎
-
A,B,G,I,J,M,Ma,Ms,T वाप्य उ ↩︎
-
A,B,G,I,J,T प्राप्तं ; M,Ma,Ms,V व्याप्तं ↩︎
-
M,Ma,Ms पर्यग्गतामल ↩︎
-
A,B,T उच्छ्रयो ↩︎
-
A,B,G,I,J,M,Ma,Ms,T श्शिव ↩︎
-
A,B,T ष्ठा ↩︎
-
M,Ma,Ms सनन्दनादिभिस्सिद्धैः ↩︎
-
M,Ma,Ms,V द ↩︎
-
M,Ma,Ms ध्यायन्त ↩︎
-
A,B,T omit यो ↩︎
-
M,Ma,Ms,V,W रे ↩︎
-
A,B,T तापसाभीष्टं ↩︎
-
Ms,V,W बाहुप्र ↩︎
-
M,Ma,Ms माल ↩︎
-
W ध्ये ↩︎
-
A,B,T संयुज्य ↩︎
-
M,Ma,Ms मास्थितं ↩︎
-
M,Ma,Ms,V व्य ↩︎
-
A,B,G,I,J कक्षाम् ↩︎
-
A,B,G,I,J,M,Ma,Ms,T मनूना ↩︎
-
A,B,G,I,J,M,Ma,Ms,T मनुं ↩︎
-
A,B,G,I,J,M,Ma,Ms,T ङ्घ्रिः ↩︎
-
V वादनं ↩︎
-
A,B,G,I,J,T अर्हत्तमः कस्य; M,Ma,Ms महत्तमोऽर्कस्य ↩︎
-
M,Ma,Ms विष्णोः ↩︎
-
A,B,T फ्स्य प्र ↩︎
-
A,B,G,I,J,T श ↩︎
-
A,B,T णः ↩︎
-
A,B,T यन्निकृ ↩︎
-
A,B,T omit योनिबीजयोः ↩︎
-
M,Ma,Ms स्व ↩︎
-
M,Ma,Ms क्रीडयोर्ण ↩︎
-
A,B,G,I,I,T पटो ↩︎
-
A,B,T न। ↩︎
-
A,B,T पटः ↩︎
-
W धागाभि ↩︎
-
M,Ma,Ms विसर्जिताध्वरः ↩︎
-
M,Ma,Ms कर्ताऽसिलोके ↩︎
-
I स्व ↩︎
-
A,B,I,J,T,V,W लोकं ↩︎
-
M,Ma,Ms स्वयं फलम् । ↩︎
-
M,Ma,Ms चि ↩︎
-
M,Ma,Ms पशोः ↩︎
-
A,T न्या ↩︎
-
A,B,T अर्पितम् ↩︎
-
A,B,T omit अपृथक् ↩︎
-
M,Ma पृथग्दृशः ↩︎
-
M,Ma द्देव भवान् पृथग्विधान् ↩︎
-
M,Ma,Ms दुर्लङ्घ्यया ↩︎
-
A,B,G,I,J,M,Ma,Ms,T,V स्पृष्ट ↩︎
-
M,Ma,Ms ताः कथम्; V ते क्रमम् ↩︎
-
A,B,T omit दुरत्ययया ↩︎
-
A,B,T omit भगवतः ↩︎
-
M,Ma,Ms भवान्हि ↩︎
-
M,Ma,Ms ति ↩︎
-
A,B,G,I,J,T भोः ↩︎
-
A,M,Ma,Ms,T मनोः ↩︎
-
M,Ma,Ms कुस्पर्धिनो ↩︎
-
V मघो ↩︎
-
A,B,T add कस्य ↩︎
-
M,Ma,Ms मन्ये त्वं ↩︎
-
A,B,G,I,J,M,Ma कल्पता ↩︎
-
A,B,T ष्टार्थः ↩︎
-
A,B,T तनैव भा ↩︎