[पञ्चमोऽध्यायः]
भागसूचना
वीरभद्रकृत दक्षयज्ञविध्वंस और दक्षवध
श्लोक-१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
भवो भवान्या निधनं प्रजापतेर्
अ-सत्-कृताया अवगम्य नारदात्।
स्व-पार्षद-सैन्यं च तद्-अध्वर-र्भुभिर्
विद्रावितं क्रोधम् अपारम् आदधे॥
मूलम्
भवो भवान्या निधनं प्रजापतेरसत्कृताया 1अवगम्य नारदात्।
स्वपार्षदसैन्यं च तदध्व2रर्भुभिर्विद्रावितं क्रोधमपारमा3दधे॥ १ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—महादेवजीने जब देवर्षि नारदके मुखसे सुना कि अपने पिता दक्षसे अपमानित होनेके कारण देवी सतीने प्राण त्याग दिये हैं और उसकी यज्ञवेदीसे प्रकट हुए ऋभुओंने उनके पार्षदोंकी सेनाको मारकर भगा दिया है, तब उन्हें बड़ा ही क्रोध हुआ॥ १॥
वीरराघवः
एवं सत्याः प्राणत्यागनिमित्तं त्याग प्रकारश्च सप्रपञ्चमुक्तः4 ।
अथ तत्प्रसंगात् प्रसक्तं दक्षाध्वरविनाशं, पुनः तत्सन्धानं च सप्रपञ्चम् आह - त्रिभिरध्यायैः ।
तत्राऽऽद्येनाध्वर-विनाश-प्रकारमाह मैत्रेयः भव इति ।
प्रजापतेः दक्षस्य कर्तरि षष्ठी,
तेनासत्कृतायाः भवान्याः सत्याः निधनं
त5था दक्षस्याध्वरे ये ऋभवो देवाः
तैर् विद्रावितं पलायितं स्वपार्षदानां सैन्यं च
नारदात् मुनेः अवगम्य श्रुत्वा अपारं क्रोधम् आदधे कृतवानित्यर्थः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
क्रुद्धः सु-दष्टोष्ठ-पुटः स धूर्जटिर्
जटां तडिद्-वह्नि-सटोग्र-रोचिषम्।
उत्कृत्य रुद्रः सहसोत्थितो हसन्
गम्भीर-नादो विससर्ज तां भुवि॥
मूलम्
क्रुद्धः सुदष्टो6ष्ठपुटः स धूर्जटिर्जटां तडिद्वह्नि सटोग्र रोचिषम्।
उत्कृत्य 7रुद्रः सहसोत्थितो हसन् गम्भीरनादो विससर्ज तां भुवि॥ २ ॥
अनुवाद (हिन्दी)
उन्होंने उग्र रूप धारण कर क्रोधके मारे होठ चबाते हुए अपनी एक जटा उखाड़ ली—जो बिजली और आगकी लपटके समान दीप्त हो रही थी—और सहसा खड़े होकर बड़े गम्भीर अट्टहासके साथ उसे पृथ्वीपर पटक दिया॥ २॥
वीरराघवः
ततः स धूर्जटिः रुद्रः घोरस्सन् क्रुद्धस्सन् सुष्टु दष्टः ओष्ठपुटो येन सः । तडितां वह्नीनां च सटा ज्वालाः तद्वदुग्रं रोचिः यस्या स्तां जटां उत्कृत्य उत्पाट्य उत्थितः गम्भीरो नादो यस्य सः, हसन् तां जटां भुवि विससर्ज अपातयत् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
ततो ऽतिकायस् तनुवा स्पृशन् दिवं
सहस्र-बाहुर् घन-रुक्(=वर्णः) त्रि-सूर्य-दृक्(=नेत्रः)।
कराल-दंष्ट्रो ज्वलद्-अग्नि-मूर्ध-जः
कपाल-माली विविधोद्यतायुधः॥
मूलम्
ततोऽतिकायस्तनुवा स्पृश8न्दिवं सहस्रबाहुर्घन9रुक् त्रिसूर्यदृक्।
करालदंष्ट्रो ज्वलदग्निमूर्धजः कपालमाली विविधोद्यतायुधः॥ ३ ॥
अनुवाद (हिन्दी)
उससे तुरंत ही एक बड़ा भारी लंबा-चौड़ा पुरुष उत्पन्न हुआ। उसका शरीर इतना विशाल था कि वह स्वर्गको स्पर्श कर रहा था। उसके हजार भुजाएँ थीं। मेघके समान श्यामवर्ण था, सूर्यके समान जलते हुए तीन नेत्र थे, विकराल दाढ़ें थीं और अग्निकी ज्वालाओंके समान लाल-लाल जटाएँ थीं। उसके गलेमें नरमुण्डोंकी माला थी और हाथोंमें तरह-तरहके अस्त्र-शस्त्र थे॥ ३॥
वीरराघवः
ततो जटायाः सकाशात् अतिकायः वीरभद्रः 10आविरभूत् इति शेषः । तं विशिनष्टि - 11तनुवा 12तन्वा देहेन दिवं स्पृशन् अत्युच्च इत्यर्थः । घनरुक् कृष्णवर्णः तिस्रः सूर्यस13दृशः दृशो यस्य । कराला उग्रा दंष्ट्राः यस्य, ज्वलन् अग्निरिव मूर्धजा यस्य । कपालानां माला अस्य सन्तीति तथा, विविधानि उद्यतानि आयुधानि यस्य सः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
तं “किं करोमी"ति गृणन्तमाह
बद्धाञ्जलिं भगवान् भूत-नाथः।
दक्षं स-यज्ञं जहि मद्-भटानां
त्वम् अग्र-णी रुद्र भटांशको मे॥
मूलम्
तं किं करोमीति गृणन्तमाह बद्धाञ्जलिं भगवान् भूतनाथः।
दक्षं सयज्ञं जहि मद्भटानां त्वमग्रणी रुद्र 14भटांशको मे॥ ४ ॥
अनुवाद (हिन्दी)
जब उसने हाथ जोड़कर पूछा, ‘भगवन्! मैं क्या करूँ?’ तो भगवान् भूतनाथने कहा—‘वीर रुद्र! तू मेरा अंश है, इसलिये मेरे पार्षदोंका अधिनायक बनकर तू तुरंत ही जा और दक्ष तथा उसके यज्ञको नष्ट कर दे’॥ ४॥
वीरराघवः
किं करोमि किं करवाणीति गृणन्तं भाषमाणं बद्धाञ्जलिं तं वीरभद्रं भूतनाथो भगवान् रुद्रः आह उवाच - हे रुद्र ! हे भट ! युद्धकुशल ! मद्भटानां त्वमग्रणीः नायकः मे अंशभूतः स यज्ञं दक्षं जहि विनाशय ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
आज्ञप्त एवं कुपितेन मन्युना
स देवदेवं परिचक्रमे विभुम्।
मेने तदाऽऽत्मानम् अ-सङ्ग-रंहसा
महीयसां, तात (विदुर), सहः-सहिष्णुम्॥
मूलम्
आज्ञप्त एवं कुपितेन मन्युना स देवदेवं परिचक्रमे प्र15भुम्।
मेने तदाऽऽत्मानमस16ह्यरंह17सा महीयसां तात सह18स्सहिष्णुम्॥ ५ ॥
अनुवाद (हिन्दी)
प्यारे विदुरजी! जब देवाधिदेव भगवान् शंकरने क्रोधमें भरकर ऐसी आज्ञा दी, तब वीरभद्र उनकी परिक्रमा करके चलनेको तैयार हो गये।
उस समय उन्हें ऐसा मालूम होने लगा कि
मेरे वेगका सामना करनेवाला संसारमें कोई नहीं है
और मैं बड़े-से-बड़े वीरका भी वेग सहन कर सकता हूँ॥ ५॥
वीरराघवः
कुपितेन मन्युना रुद्रेण एव माज्ञप्तो देवदेवं 19विभुं रुद्रं परिचक्रमे प्रदक्षिणी चकार । तदा असारंहसा प्रतिघातरहित वेगेन महीयसां बलीयसाम् अपि महः तेजो बलं तत्सहिष्णुं पारिषदैः सोढुं क्षमम् आत्मानं मेने अमन्यत ॥ 5 ॥
श्लोक-६
विश्वास-प्रस्तुतिः
अन्वीयमानः स तु रुद्र-पार्षदैर्
भृशं नदद्भिर् व्यनदत् सु-भैरवम्।
उद्यम्य शूलं जगद्-अन्तकान्तकं
स प्राद्रवद् (नूपुर-)घोषण-भूषणाङ्घ्रिः॥
मूलम्
अन्वीयमानः स तु रुद्रपार्षदैः भृशं नदद्भिर्व्यनदत्सुभैरवम्।
उद्यम्य शूलं जगदन्तकान्तकं 20स प्राद्रवद्घोषण भूषणाङ्घ्रिः॥ ६ ॥
अनुवाद (हिन्दी)
वे भयंकर सिंहनाद करते हुए एक अति कराल त्रिशूल हाथमें लेकर दक्षके यज्ञमण्डपकी ओर दौड़े। उनका त्रिशूल संसार-संहारक मृत्युका भी संहार करनेमें समर्थ था। भगवान् रुद्रके और भी बहुत-से सेवक गर्जना करते हुए उनके पीछे हो लिये। उस समय वीरभद्रके पैरोंके नूपुरादि आभूषण झनन-झनन बजते जाते थे॥ ६॥
वीरराघवः
स तु वीरभद्रः 21भृशं नदद्भिः 22ध्वनद्भिः रुद्रपारिषदैः अन्वीयमानः परिवेष्टितः सुभैरवम् अतिभयङ्करं यथा भवति तथा व्यनदत् ननाद । ततः स वीरभ्रदो जगदन्तको मृत्युः तस्याऽप्यन्तकोपमं शूलमुद्यम्य घोषणानि ध्वनन्ति भूषणानि नूपुरादीनि ययोः ता वङ्घ्री यस्य सः । प्राद्रवत् दक्षाध्वरं प्रत्यतात् ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
अथ र्त्विजो यजमानः सदस्याः
ककुभ्य् उदीच्यां प्रसमीक्ष्य रेणुम्।
“तमः किम् एतत्, कुत एतद् रजोऽभूद्”
इति द्विजा द्विज-पत्न्यश् च दध्युः॥
मूलम्
अथर्त्विजो यजमानः सदस्याः ककुभ्युदीच्यां प्रसमीक्ष्य रेणुम्।
तमः किमेतत्कुत एतद्रजोऽभूदिति द्विजा द्विजपत्न्यश्च दघ्युः॥ ७ ॥
अनुवाद (हिन्दी)
इधर यज्ञशालामें बैठे हुए ऋत्विज्, यजमान, सदस्य तथा अन्य ब्राह्मण और ब्राह्मणियोंने जब उत्तर दिशाकी ओर धूल उड़ती देखी, तब वे सोचने लगे—‘अरे यह अँधेरा-सा कैसे होता आ रहा है? यह धूल कहाँसे छा गयी?॥ ७॥
वीरराघवः
अथ ततः ऋत्विजो दक्षाध्वरे ऋत्विजः, यजमानः दक्षः तथा सदस्याः सभ्याः द्विजाः तत्पल्यश्च उदीच्यां ककुभि दिशि रेणुं परागं समीक्ष्य तमो 23न भवति किन्तु रज इति ज्ञात्वा आहुः रज एतत्कुतोऽभूदिति दध्युः चिन्तयामासुः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
वाता न वान्ति, न हि सन्ति दस्यवः
(राजा) प्राचीन-बर्हिर् जीवति होग्र-दण्डः।
गावो न काल्यन्त(=प्रत्यायान्ति), इदं कुतो रजो
लोकोऽधुना किं प्रलयाय कल्पते॥
मूलम्
वाता न वान्ति नहि सन्ति दस्यवः प्राचीनबर्हिर्जीव24तीहोग्रदण्डः।
गावो न काल्यन्त इदं कुतो रजो लोकोऽधुना किं प्रलयाय कल्पते॥ ८ ॥
अनुवाद (हिन्दी)
इस समय न तो आँधी ही चल रही है
और न कहीं लुटेरे ही सुने जाते हैं;
क्योंकि अपराधियोंको कठोर दण्ड देनेवाला राजा प्राचीनबर्हि अभी जीवित है।
अभी गौओंके आनेका समय भी नहीं हुआ है। फिर यह धूल कहाँसे आयी? क्या इसी समय संसारका प्रलय तो नहीं होनेवाला है?’॥ ८॥
वीरराघवः
हेत्वन्तरासम्भवे नौत्पातिकं कल्पयन्त आहुः - वाता इति ।
वाताः चण्डवायवः न वान्ति न प्रसरन्ति, दस्यवः चोरादयः न
सन्ति ।
तत्र हेतुः - हि यस्मात् उग्रः दण्डः दमनं प्रशासनं यस्य सः, प्राचीनबर्हिः तदानीन्तनो राजा जीवति, तस्मिन् जीवति न दस्यवः
25सन्तीति भावः । हेत्याकस्मिकत्वद्योतकं, गावो न काल्यन्ते न शीघ्रं नीयन्ते अत इदं रजः कुत उत्थितम् अधुना लोकः प्रलयाय
नाशाय कल्प्यते सम्भाव्यत इत्यर्थः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
प्रसूति-मिश्राः स्त्रिय उद्विग्न-चित्ता
ऊचुर् “विपाको वृजिनस्यैष तस्य।
यत् पश्यन्तीनां दुहितॄणां प्रजेशः
सुतां सतीम् अवदध्याव्(=अवाजानात्) अनागाम्”॥
मूलम्
प्रसूतिमिश्राः स्त्रिय उद्विग्नचित्ता ऊचुर्विपाको वृजिनस्यै26व तस्य।
27पश्य28न्तीनां दुहितॄणां प्रजेशः सुतां सतीमवदध्यावना29गसम्॥ ९ ॥
अनुवाद (हिन्दी)
तब दक्षपत्नी प्रसूति एवं अन्य स्त्रियोंने व्याकुल होकर कहा—प्रजापति दक्षने अपनी सारी कन्याओंके सामने बेचारी निरपराधा सतीका तिरस्कार किया था; मालूम होता है यह उसी पापका फल है॥ ९॥
वीरराघवः
प्रसूतिः दक्षस्य पत्नी तन्मिश्राः तत्सहिताः स्त्रियः उद्विग्नचित्ता उद्विग्नं भीतं चित्तं यासां ता ऊचुः तस्य दक्षस्य यद्वृजि30नं पापं तस्यैवायं विपाकः फलं, यत् यस्मात् प्रजेशो दक्षः दुहितॄणां पश्यन्तीनां सतीनाम्, अनेन तस्याः दुःखाधिक्यं सूचितम्, अनागसं निरपराधां सुतां सतीं भवानीम् अवदध्यौ अवज्ञातवान् ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
यस् त्व् अन्त-काले व्युप्त-जटा-कलापः
स्व-शूल-सूच्य्-अर्पित-दिग्-गजेन्द्रः।
वितत्य नृत्यत्य् उदितास्त्र-दोर्-ध्वजान्
उच्चाट्ट-हास-स्तनयित्नु-भिन्न-दिक्॥
मूलम्
यस्त्वन्तकाले व्युप्तजटाकलापः स्वशूलसूच्यर्पित दिग्गजेन्द्रः।
वितत्य नृत्यत्युदितास्त्रदोर्ध्वजा31नुच्चाट्टहासस्तनयित्नुभिन्न32दिक्॥ १० ॥
अनुवाद (हिन्दी)
(अथवा हो न हो यह संहारमूर्ति भगवान् रुद्रके अनादरका ही परिणाम है।) प्रलयकाल उपस्थित होनेपर जिस समय वे अपने जटाजूटको बिखेरकर तथा शस्त्रास्त्रोंसे सुसज्जित अपनी भुजाओंको ध्वजाओंके समान फैलाकर ताण्डव नृत्य करते हैं, उस समय उनके त्रिशूलके फलोंसे दिग्गज बिंध जाते हैं तथा उनके मेघगर्जनके समान भयंकर अट्टहाससे दिशाएँ विदीर्ण हो जाती हैं॥ १०॥
वीरराघवः
असह्यपराक्रमं रुद्रं कोपयतो दक्षस्य अमङ्गलमवश्यम्भावीत्याहुः - यस्त्विति द्वाभ्याम् । यो रुद्रोऽन्तकाले प्रलयकाले व्युप्तो विकीर्णः जटाकलापो यस्य स्वशूलस्य सूच्या अग्रेण अर्पिता प्रोताः दिग्गजेन्द्रा येन उदितानि उन्नमितानि अत्राणि यैस्ते । दोषः बाहव एव ध्वजाः तान् वितत्य प्रसार्य, उच्चोऽट्टहासः स एव स्तनयित्नुर्गर्जितं तेन, भिन्ना विदीर्णा दिशो येन सः । हर्षेण नृत्यति ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
अ-मर्षयित्वा तम् अ-सह्य-तेजसं
मन्यु-प्लुतं दुर्-विषहं भ्रु-कुट्या।
कराल-दंष्ट्राभिर् उदस्त-भा-गणं
स्यात् स्वस्ति किं कोपयतो विधातुः॥
मूलम्
अमर्षयित्वा तमसह्यतेजसं मन्युप्लुतं 33दुर्निरीक्ष्यं भ्रुकुट्या।
करालदंष्ट्राभि रुदस्तभागणं स्यात्स्वस्ति किं कोपयतो विधातुः॥ ११ ॥
अनुवाद (हिन्दी)
उस समय उनका तेज असह्य होता है, वे अपनी भौंहें टेढ़ी करनेके कारण बड़े दुर्धर्ष जान पड़ते हैं और उनकी विकराल दाढ़ोंसे तारागण अस्त-व्यस्त हो जाते हैं। उन क्रोधमें भरे हुए भगवान् शंकरको बार-बार कुपित करनेवाला पुरुष साक्षात् विधाता ही क्यों न हो—क्या कभी उसका कल्याण हो सकता है?॥ ११॥
वीरराघवः
तमेवम्भूतम् असह्यमप्रतिघातं तेजो यस्य तं रुद्रममर्षयित्वा असहनयुक्तं कृत्वा मन्युना क्रोधेन प्लुतं व्याप्तं अत एव दुर्निरीक्ष्यं द्रष्टुमशक्यं भ्रुकुट्या उग्रदंष्ट्राभिश्च उदस्तः उत्क्षिप्तः भागणो नक्षत्रसंघो येन तं कोपयतो विधातुरपि किं स्वस्ति स्यात् विधातुरप्येवम्, अन्यस्य का कथेत्यर्थः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
बह्व् एवम् उद्विग्न-दृशोच्यमाने
जनेन दक्षस्य मुहुर् महात्मनः।
उत्पेतुर् उत्पाततमाः सहस्रशो
भयावहा दिवि भूमौ च पर्यक्॥
मूलम्
बह्वेवमुद्विग्नदृशोच्यमाने जनेन दक्षस्य 34मुहुर्महात्मनः।
उत्पेतु रुत्पाततमाः सहस्रशो भयावहा दिवि भूमौ च पर्यक्॥ १२ ॥
अनुवाद (हिन्दी)
जो लोग महात्मा दक्षके यज्ञमें बैठे थे, वे भयके कारण एक-दूसरेकी ओर कातर दृष्टिसे निहारते हुए ऐसी ही तरह-तरहकी बातें कर रहे थे कि इतनेमें ही आकाश और पृथ्वीमें सब ओर सहस्रों भयंकर उत्पात होने लगे॥ १२॥
वीरराघवः
उद्विग्ना प्रचलिता दृक् यस्य तेन जनेन बहु यथा भवति एवमुच्यमाने सति सहस्रशः उत्पाततमा महोत्पाता महात्मानः स्थिरचित्तस्यापि दक्षस्य भयावहा दिवि भूमौ च पर्यक् परितः उत्थिताः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
तावत् स रुद्रानुचरैर् मखो महान्
नानायुधैर् वामनकैर् उदायुधैः।
पिङ्गैः पिशङ्गैर् मकरोदराननैः
पर्याद्रवद्भिर् विदुर+अन्वरुध्यत॥
मूलम्
तावत्स रुद्रानुचरैर्मखो महान् नाना35युधैर्वामनकै रुदायुधैः।
पिङ्गैः पिशङ्गैर्मकरोदराननैः पर्या36प्लवद्भिर्विदुरान्वरुध्यत॥ १३ ॥
अनुवाद (हिन्दी)
विदुरजी! इसी समय दौड़कर आये हुए रुद्रसेवकोंने उस महान् यज्ञमण्डपको सब ओरसे घेर लिया। वे सब तरह-तरहके अस्त्र-शस्त्र लिये हुए थे। उनमें कोई बौने, कोई भूरे रंगके, कोई पीले और कोई मगरके समान पेट और मुखवाले थे॥ १३॥
वीरराघवः
ताव37त्ततः आशु रुद्रानुचरैर्महान् मखो यागः हे विदुर ! अन्वरुध्यत प्रत्यबद्ध्यत विनाशित इति यावत् । रुद्रानुचरैः कथम्भूतैः ? नाना विचित्राणि आयुधानि येषां तैः वामनकैः ह्रस्वैः उद्यतायुधैः पिशङ्गैः पीतैः मकरस्येव उदर माननं च येषां तैः, परितो धावद्भिः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
केचिद् बभञ्जुः प्राग्-वंशं
पत्नी-शालां तथापरे।
सद आग्नीध्र-शालां च
तद्-विहारं महानसम्॥
मूलम्
केचिद्बभञ्जुः प्राग्वंशं पत्नी38शालां मथापरे।
सद आग्नीध्रशालां च तद्विहारं महानसम्॥ १४ ॥
अनुवाद (हिन्दी)
उनमेंसे किन्हींने प्राग्वंश (यज्ञशालाके पूर्व और पश्चिमके खंभोंके बीचमें आड़े रखे हुए डंडे) को तोड़ डाला, किन्हींने यज्ञशालाके पश्चिमकी ओर स्थित पत्नीशालाको नष्ट कर दिया, किन्हींने यज्ञशालाके सामनेका सभामण्डप और मण्डपके आगे उत्तरकी ओर स्थित आग्नीध्रशालाको तोड़ दिया, किन्हींने यजमानगृह और पाकशालाको तहस-नहस कर डाला॥ १४॥
वीरराघवः
मखानुरोधमेव प्रपञ्चयति - केचित् रुद्रपार्षदाः प्राचीन वंशं बभञ्जुः त्रुटितवन्तः, तथा केचिदपरे पत्नीशालां बभञ्जु रित्यनुषङ्गं । प्राची39न पूर्व पश्चिमस्तम्भार्पित पूर्वपश्चिमा40यात तिर्य काष्ठं प्राग्वंशः । तथैके सदः यज्ञशालायाः पूर्वतः स्थितं मण्डपं सदः सदसः पुरतो हविर्धानं तस्योत्तरत आग्नीध्रशालां तद्विहारं यजमानगृहं महानसं पाकभोजनशालाम् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
रुरुजुर्(=बभुञ्जुः) यज्ञ-पात्राणि
तथैके ऽग्नीन् अनाशयन्।
कुण्डेष्व् अमूत्रयन् केचिद्
बिभिदुर् वेदि-मेखलाः॥
अनुवाद (हिन्दी)
किन्हींने यज्ञके पात्र फोड़ दिये, किन्हींने अग्नियोंको बुझा दिया, किन्हींने यज्ञकुण्डोंमें पेशाब कर दिया और किन्हींने वेदीकी सीमाके सूत्रोंको तोड़ डाला॥ १५॥
वीरराघवः
रुरुजुः बभुञ्जुः । अमूत्रयन् मूत्रं कृतवन्तः । तथोत्तरवेद्याः मेखलाः सीमासूत्राणि बिभिदुः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
अबाधन्त मुनीन् अन्य
एके पत्नीर् अतर्जयन्।
अपरे जगृहुर् देवान्
प्रत्यासन्नान् पलायितान्॥
मूलम्
अबाधन्त मुनीनन्ये एके पत्नीरतर्जयन्।
अपरे जगृहुर्देवान् प्रत्यासन्नान् पलायितान्॥ १६ ॥
अनुवाद (हिन्दी)
कोई-कोई मुनियोंको तंग करने लगे, कोई स्त्रियोंको डराने-धमकाने लगे और किन्हींने अपने पास होकर भागते हुए देवताओंको पकड़ लिया॥ १६॥
वीरराघवः
अतर्जयन् अभर्त्सयन् । अपरे पलायितान् पुनरनुधावनेन प्रत्यासन्नान् देवान् जगृहुः गृहीतवन्तः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
भृगुं बबन्ध मणिमान्,
वीरभद्रः प्रजापतिम्।
चण्डीशः पूषणं देवं,
भगं नन्दीश्वरो ऽग्रहीत्॥
मूलम्
भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम्।
43चण्डीशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत्॥ १७ ॥
अनुवाद (हिन्दी)
मणिमान्ने भृगु ऋषिको बाँध लिया, वीरभद्रने प्रजापति दक्षको कैद कर लिया तथा चण्डीशने पूषाको और नन्दीश्वरने भग देवताको पकड़ लिया॥ १७॥
वीरराघवः
मणिमान् रुद्रानुचाराग्र्य भृगुं बबन्ध, वीरभद्रः प्रजापतिं दक्षं चण्डीशः 44पूषणं पूषणाख्यं देवं भगाख्यं नन्दीश्वरः अग्रहीत् ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
सर्व एव र्त्विजो दृष्ट्वा
सदस्याः स-दिवौकसः।
तैर् अर्द्यमानाः सु-भृशं
ग्रावभिर् नैकधा ऽद्रवन्॥
मूलम्
सर्व एवर्त्विजो दृष्ट्वा सदस्याः सदिवौकसः।
तैरर्द्यमानाः सुभृशं ग्रावभिर्नैकधाऽद्रवन्॥ १८ ॥
अनुवाद (हिन्दी)
भगवान् शंकरके पार्षदोंकी यह भयंकर लीला देखकर तथा उनके कंकड़-पत्थरोंकी मारसे बहुत तंग आकर वहाँ जितने ऋत्विज्, सदस्य और देवतालोग थे, सब-के-सब जहाँ-तहाँ भाग गये॥ १८॥
वीरराघवः
सर्वे दिवौकोभिः देवै स्सहिताः सदस्याः सभ्याः ऋत्विजः रुद्रानुचरैः वध्यमानान् भृग्वादीन् दृष्ट्वा भृशं ग्रावभिः शिलाभिरर्द्यमानाः ताड्यमानाः अनेकधा दुद्रुवुः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
जुह्वतः स्रुव-हस्तस्य
श्मश्रूणि भगवान् भवः।
भृगोर् लुलुञ्चे सदसि
यो ऽहसच् छ्मश्रु दर्शयन्॥
मूलम्
जुह्वतः स्रुवहस्तस्य श्मश्रूणि भगवान् भवः।
भृगोर्लुलु45ञ्चे सदसि 46योऽहसत् 47श्मश्रु दर्शयन्॥ १९ ॥
अनुवाद (हिन्दी)
भृगुजी हाथमें स्रुवा लिये हवन कर रहे थे। वीरभद्रने इनकी दाढ़ी-मूँछ नोच लीं; क्योंकि इन्होंने प्रजापतियोंकी सभामें मूँछें ऐंठते हुए महादेवजीका उपहास किया था॥ १९॥
वीरराघवः
स्रुवं होमसाधनं हस्ते यस्य तस्य जुह्वतः होमं कुर्वतो भृगोः श्मश्रूणि भगवान् भवो वीरभद्रः लुलु48ञ्चे उत्पाटितवान् । किं विशेषण श्मश्रूण्येव उत्पाटितवान् ? तत्राह - यो भृगुः श्मश्रु दर्शयन् अहसत् रुद्रं परिहसितवान् । अतः श्मश्रूण्येव लुलु49ञ्च इत्यर्थः । एव मुत्तरत्राऽपि ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
भगस्य नेत्रे भगवान् (वीरभद्रः)
पातितस्य रुषा भुवि।
उज्जहार सदःस्थोऽक्ष्णा
यः (भगः) शपन्तम् असूसुचत्॥
मूलम्
भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि।
उज्जहार सदस्योऽक्ष्णा यः शपन्त50मसूसुचत्॥ २० ॥
अनुवाद (हिन्दी)
उन्होंने क्रोधमें भरकर भगदेवताको पृथ्वीपर पटक दिया और उनकी आँखें निकाल लीं; क्योंकि जब दक्ष देवसभामें श्रीमहादेवजीको बुरा-भला कहते हुए शाप दे रहे थे,
उस समय इन्होंने दक्षको सैन देकर उकसाया था॥ २०॥
वीरराघवः
भगवान् वीरभद्रः रुषा क्रोधेन भूमौ पातितस्य भगस्य नेत्रे उज्जहार उद्धृतवान्, यो भगः सदसि सभायां स्थित स्सन् शपन्तं शिवनिन्दां कुर्वन्तं दक्षम् अक्ष्णा नेत्रेणाऽसूसुचत् सूचितवान् प्रेरितवानित्यर्थः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
पूष्णश् चापातयद् दन्तान्
(अनिरुद्ध-विवाहे) कालिङ्गस्य (राज्ञो) यथा बलः (रामः)।
शप्यमाने गरिमणि
यो ऽहसद् दर्शयन् दतः॥
अनुवाद (हिन्दी)
इसके पश्चात् जैसे अनिरुद्धके विवाहके समय बलरामजीने कलिंगराजके दाँत उखाड़े थे, उसी प्रकार उन्होंने पूषाके दाँत तोड़ दिये; क्योंकि जब दक्षने महादेवजीको गालियाँ दी थीं, उस समय ये दाँत दिखाकर हँसे थे॥ २१॥
वीरराघवः
कालिङ्गस्य कलिङ्गदेशराजस्य बलः बलभद्रः यथा तथा पूष्णः दन्तान् अपातयत् पातितवान्, यः पूषा गरिमणि गुरुतरे रुद्रे शप्यमाने सति दतः दन्तान् दर्शयन् अहसत् । पूष्णोरिति द्विवचनपाठे तु “तदिन्द्रापौष्णश्चरुर्भवति” इत्यत्रान्वयसहितस्यापि पूष्णो दन्तपा53तन प्राप्त्यर्थम् ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
आक्रम्योरसि दक्षस्य
शित-धारेण हेतिना।
छिन्दन्न् अपि तद् उद्धर्तुं
नाशक्नोत् (वीरभद्रः→) त्र्य्-अम्बकस् तदा॥
मूलम्
आक्रम्योरसि दक्षस्य शितधारेण हेतिना।
छिन्दन्नपि तदुद्धर्तुं नाशक्नोत् त्र्यम्बकस्तदा॥ २२ ॥
अनुवाद (हिन्दी)
फिर वे दक्षकी छातीपर बैठकर एक तेज तलवारसे उसका सिर काटने लगे, परन्तु बहुत प्रयत्न करनेपर भी वे उस समय उसे धड़से अलग न कर सके॥ २२॥
वीरराघवः
त्र्यम्बको वीरभद्रः दक्षस्योरसि आक्रम्य पादं विन्यस्य
शितधारेण हेतिना खड्गेन छिन्दन्नपि तदा तच्छिर इत्यपकृष्यते, उद्धर्तुं तदा नाऽशक्नोत् असमर्थोऽभवत् ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
शस्त्रैर् अस्त्रान्वितैर् एवम्
अ-निर्भिन्न-त्वचं हरः।
विस्मयं परम् आपन्नो
दध्यौ पशु-पतिश् चिरम्॥
मूलम्
शस्त्रैरस्त्रान्वितै54रेनमनिर्भिन्नत्वचं हरः।
विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम्॥ २३ ॥
अनुवाद (हिन्दी)
जब किसी भी प्रकारके अस्त्र-शस्त्रोंसे दक्षकी त्वचा नहीं कटी, तब वीरभद्रको बड़ा आश्चर्य हुआ और वे बहुत देरतक विचार करते रहे॥ २३॥
वीरराघवः
अस्त्रान्वितैः मन्त्रसहितैः शस्त्रैः न निर्भिन्नात्वक् यस्य तथाभूत मेनं दक्षं दृष्ट्वेति शेषः । पशुपतिः हरो वीरभद्रः परं विस्मय मापन्नः प्राप्तः चिरं दध्यौ शिरस उद्धरणोपायं चिन्तितवान् ।
पशूनां पतिः स वीरभद्रः मखे अध्वरे संज्ञपनं ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
दृष्ट्वा संज्ञपनं योगं (=उपायं)
पशूनां स पतिर् मखे।
यजमान-पशोः कस्य
कायात् तेनाहरच् छिरः॥
अनुवाद (हिन्दी)
तब उन्होंने यज्ञमण्डपमें यज्ञपशुओंको जिस प्रकार मारा जाता था,
उसे देखकर
उसी प्रकार दक्षरूप उस यजमान पशुका सिर धड़से अलग कर दिया॥ २४॥
वीरराघवः
मारणं योगमुपायं दृष्ट्वा यागीय-पशुवदय् अं हन्तव्य इति दृष्ट्वा निश्चित्य तस्य यजमानो दक्षः स एव पशुः तस्य,
यद्वा, यजमानस्य यः पशुः देवतोद्देशेन यजमानेन त्यक्ष्यमाणः पशुः तस्य, संज्ञपनं मारणं योगम् उपायं निश्चित्य
तेनैव योगेन तस्य दक्षस्य कायात् शिर अहरत् उद्धृतवान् ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
साधु-वादस् तदा तेषां
कर्म तत् तस्य शंसताम्।
भूत-प्रेत-पिशाचानाम्
अन्येषां तद्-विपर्ययः॥
अनुवाद (हिन्दी)
यह देखकर भूत, प्रेत और पिशाचादि तो उनके इस कर्मकी प्रशंसा करते हुए ‘वाह-वाह’ करने लगे और दक्षके दलवालोंमें हाहाकार मच गया॥ २५॥
वीरराघवः
तच्छिरश्छेदनरूपं कर्म शंसतां स्तुवतां भूतादीनां साधुवादः अभवत् । अन्येषां ब्राह्मणादीनां तद्विपर्ययः असाधुवादः अभवदित्यर्थः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
जुहावैतच् छिरस् तस्मिन्
दक्षिणाग्नाव् अमर्षितः।
तद् देव-यजनं दग्ध्वा
प्रातिष्ठद् गुह्यकालयम्॥
मूलम्
जुहावैतच्छिरस्त59स्मिन् दक्षिणाग्नावमर्षितः।
तद्देवयजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम्॥ २६ ॥
अनुवाद (हिन्दी)
वीरभद्रने अत्यन्त कुपित होकर दक्षके सिरको यज्ञकी दक्षिणाग्निमें डाल दिया और उस यज्ञशालामें आग लगाकर यज्ञको विध्वंस करके वे कैलासपर्वतको लौट गये॥ २६॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दक्षयज्ञविध्वंसो नाम पञ्चमोऽध्यायः॥ ५॥
वीरराघवः
एतस्य दक्षस्य शिरः तस्मिन् तदध्वरसम्बन्धिनि दक्षिणाग्नौ अमर्पितः क्रुद्धः जुहाव तस्य दक्षस्य देवयजनमेवं दग्ध्वा नाशयित्वा
गुह्यकालय कैलासं प्रातिष्ठत् प्रययौ ॥ २६ ॥
इति श्रीमद्भागवते चतुर्थस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां पञ्चमोऽध्यायः ॥ ५ ॥
-
M,Ma,Ms ह्यव ↩︎
-
M,Ma,Ms रेशैर्वि ↩︎
-
Ms ददे ↩︎
-
W क्तम् । ↩︎
-
W adds तस्य ↩︎
-
B,I ष्टौ ↩︎
-
M,Ma,Ms रौद्रः ↩︎
-
M,Ma,Ms द्दिवं ↩︎
-
M,Ma,Ms रक्तसू ↩︎
-
A,B,J,T जातः ↩︎
-
A,B,J,T omit तनुवा ↩︎
-
W omits तन्वा ↩︎
-
A,B,J,T शाः ↩︎
-
M,Ma जटांशको; Ms जटान्तको ↩︎
-
A,B,G,I,J,M,Ma,Ms,T वि ↩︎
-
A,B,G,L,j,M,Ma,Ms ङ्ग ↩︎
-
M,Ma,Ms सं ↩︎
-
W म ↩︎
-
W omits विभुं ↩︎
-
J,M,Ma,v साम्प्रा ↩︎
-
W omits भृशुं ↩︎
-
W omits ध्वनद्भिः ↩︎
-
A,B,J नु ↩︎
-
A,B,G,I,J,M,Ma,Ms,T तिहो ↩︎
-
A,B,T omit सन्तीति भावः । ↩︎
-
A,B,G,J,T ष ↩︎
-
A,B,G,I,J,M,Ma,Ms,T यत्प ↩︎
-
M,Ma,Ms तीनां ↩︎
-
A,B,G,I,J,T,V गाम्; M,Ma गसाम् ↩︎
-
A,B,T add यत् ↩︎
-
M,Ma,Ms जो रूक्षादृ ↩︎
-
M,Ma,Ms दृक् ↩︎
-
A,B,G,I,J,M,Ma,Ms,T दुर्विषहं ↩︎
-
M,Ma,Ms मखे म ↩︎
-
M,MA,Ms वि ↩︎
-
A,B,G,I,J,T द्र; M,Ma,Ms प्लु ↩︎
-
A,B,T तु ↩︎
-
A,B,G,I,J,T शालां त ↩︎
-
A,B,T नं ↩︎
-
A,B,T तं ↩︎
-
A,B,G,I,J,M,Ma,Ms,T ननाशयन् ↩︎
-
M,Ma,Ms र्यज्ञ ↩︎
-
I चण्डेशः ↩︎
-
A,B,T omit पूषणं ↩︎
-
Ms,V,W ञ्छवे ↩︎
-
यो हसन् ↩︎
-
V श्मश्वदर्शयत् ↩︎
-
W ञ्छे ↩︎
-
W ञ्छे ↩︎
-
M,Ma,Ms मसूचयत् ↩︎
-
1 पूष्णो ह्यपा ↩︎
-
M,Ma,Ms,V क ↩︎
-
T ट ↩︎
-
A,B,G,J,I,T व ↩︎
-
M,Ma,Ms ने ↩︎
-
M,Ma,Ms शोस्तस्य ↩︎
-
V तत्तत्प्रशं ↩︎
-
I पश्यताम् ↩︎
-
M,Ma,Ms स्य ↩︎