[चतुर्थोऽध्यायः]
भागसूचना
सतीका अग्निप्रवेश
श्लोक-१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
एतावदुक्त्वा विरराम शंकरः
पत्न्यङ्गनाशं ह्युभयत्र चिन्तयन्।
सुहृद्दिदृक्षुः परिशङ्किता भवा-
न्निष्क्रामती निर्विशती द्विधाऽऽस सा॥
मूलम्
एतावदुक्त्वा विरराम शङ्करः पत्न्यङ्गनाशं ह्युभयत्र चिन्तयन्।
सुहृद्दिदृक्षुः परिशङ्किता भवान्निष्क्रामती निर्विशती 1द्विधाऽऽस सा॥ १ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—विदुरजी! इतना कहकर भगवान् शंकर मौन हो गये। उन्होंने देखा कि दक्षके यहाँ जाने देने अथवा जानेसे रोकने—दोनों ही अवस्थाओंमें सतीके प्राणत्यागकी सम्भावना है। इधर, सतीजी भी कभी बन्धुजनोंको देखने जानेकी इच्छासे बाहर आतीं और कभी ‘भगवान् शंकर रुष्ट न हो जायँ, इस शंकासे फिर लौट जातीं। इस प्रकार कोई एक बात निश्चित न कर सकनेके कारण वे दुविधामें पड़ गयीं—चंचल हो गयीं॥ १॥
वीरराघवः
भवो2क्तिमर्धेनोपसंहरन् भवान्याः स्वाभिप्रेतार्थलाभनिमित्तशोकं तन्निमितं भर्तरि क्रोधं भर्तारमनादृत्याध्वरे गमनं तत्र पितृकृतपराभवं तन्निमि3त्तं देहत्यागप्रकारं चाह - एतावदिति । शङ्करः एतावदभिधाय उभयत्र पत्न्यास्तत्र गमनेऽगमने च अनुज्ञादाने बलान्निवारणे 4वा तच्छरीरनाशं चिन्तयन् विरराम तूष्णीमास । ततः सा सती सुहृद्दिदृक्षुः मातापित्रादीन् द्रष्टुमिच्छ5न्ती निष्क्रामती गृहाद्वहिर्निर्गच्छन्ती पुनः भवात् शङ्करात् परिशङ्किता भर्त्तुर्वचोऽतिहाय गमने का वा हानिः स्यादिति परिशङ्किता च तदा द्विधा आस बभूव ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
सुहृद्दिदृक्षाप्रतिघातदुर्मनाः
स्नेहाद्रुदत्यश्रुकलातिविह्वला।
भवं भवान्यप्रतिपूरुषं रुषा
प्रधक्ष्यतीवैक्षत जातवेपथुः॥
मूलम्
सुहृद्दिदृक्षाप्रतिघातदुर्मनाः स्नेहाद्रुद6न्त्यश्रुकलातिविह्वला।
भवं भवान्यप्रतिपूरुषं रुषा प्रधक्ष्यतीवैक्षत जातवेपथुः॥ २ ॥
अनुवाद (हिन्दी)
बन्धुजनोंसे मिलनेकी इच्छामें बाधा पड़नेसे वे बड़ी अनमनी हो गयीं। स्वजनोंके स्नेहवश उनका हृदय भर आया और वे आँखोंमें आँसू भरकर अत्यन्त व्याकुल हो रोने लगीं। उनका शरीर थर-थर काँपने लगा और वे अप्रतिमपुरुष भगवान् शंकरकी ओर इस प्रकार रोषपूर्ण दृष्टिसे देखने लगीं मानो उन्हें भस्म कर देंगी॥ २॥
वीरराघवः
सुहृदां दिदृक्षायाः द्रष्टुमिच्छायाः 7यः प्रतिघातः निरोधस्तेन दुर्मनाः दुःखितचित्ता बन्धुषु स्नेहाद्रुदन्ती अश्रूणां कलाभिर्लेशैरतिविह्वला व्याकुला भवानी सती अप्रतिपूरुषं समदर्शित्वेन प्रतिपक्षरहितं भवं रुद्रं रुषा जातवेपथुः उत्पन्नशरीरकम्पा प्रधक्ष्यती भस्मी कुर्वतीव ऐक्षत अपश्यत् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
ततो विनिःश्वस्य सती विहाय तं
शोकेन रोषेण च दूयता हृदा।
पित्रोरगात्स्त्रैणविमूढधीर्गृहान्
प्रेम्णाऽऽत्मनो योऽर्धमदात्सतां प्रियः॥
मूलम्
ततो विनिःश्वस्य सती विहाय तं शोकेन रोषेण च दूयता हृदा।
पित्रोरगात्स्त्रैणविमूढधीर्गृहान् प्रेम्णाऽऽत्मनो योऽर्धम8दात्सतां प्रियः॥ ३ ॥
अनुवाद (हिन्दी)
शोक और क्रोधने उनके चित्तको बिलकुल बेचैन कर दिया तथा स्त्रीस्वभावके कारण उनकी बुद्धि मूढ़ हो गयी। जिन्होंने प्रीतिवश उन्हें अपना आधा अंगतक दे दिया था, उन सत्पुरुषोंके प्रिय भगवान् शंकरको भी छोड़कर वे लंबी-लंबी साँस लेती हुई अपने माता-पिताके घर चल दीं॥ ३॥
वीरराघवः
तदा ततः सती विनिश्वस्य दीर्घं निश्वासं विधाय सतां जिज्ञासूनां प्रियो यश्च प्रेम्णा आत्मनो देहस्यार्द्धमदात् दत्तवान् अनेन त्यागानर्हत्वमुक्तम् । तं रुद्रं विहाय स्त्रैणं 9स्त्रीभावः 10स्त्रीस्वभावः । तेन विमूढधीः नष्टमतिः शोकेन बन्धुदर्शनासम्भावनानिमित्तशोकेन रोषेण दिदृक्षाप्रतिघातनिमित्तक्रोधेन पुनर्दूयता भर्तुर्वचोऽतिक्रमनिमित्तानर्थसम्भावनापरितप्तेन 11हृदा 12हृदयेन च पित्रोर्गृहान्प्रत्यगात् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
तामन्वगच्छन् द्रुतविक्रमां सती-
मेकां त्रिनेत्रानुचराः सहस्रशः।
सपार्षदयक्षा मणिमन्मदादयः
पुरोवृषेन्द्रास्तरसा गतव्यथाः॥
मूलम्
तामन्वगच्छन् द्रुतविक्रमां सतीमेकां त्रिनेत्रानुचराः सहस्रशः।
13स पार्षद14यक्षा मणिमन्मदादयः पुरोवृषेन्द्रास्तरसा गतव्यथाः॥ ४ ॥
अनुवाद (हिन्दी)
सतीको बड़ी फुर्तीसे अकेली जाते देख श्रीमहादेवजीके मणिमान् एवं मद आदि हजारों सेवक भगवान्के वाहन वृषभराजको आगे कर तथा और भी अनेकों पार्षद और यक्षोंको साथ ले बड़ी तेजीसे निर्भयतापूर्वक उनके पीछे हो लिये॥ ४॥
वीरराघवः
द्रुतविक्रमां शीघ्रं पादविक्षेपान् कुर्वतीं एकामसहायां तां सतीं त्रिनेत्रानुचराः सहस्रशोऽनुययुः । एतदेव प्रपञ्चयति सार्धेन । पार्षदैर्यक्षैश्च सहिता मणिमान् मदश्चादिर्येषां ते । पुरः पुरतः वृषेन्द्रो येषां ते । तरसा बलेन गतव्यथा निर्भयाः । यद्वा, आगतव्यथाः इति छेदः । रुद्रगमनाभावाद् आगतव्यथाः सभयाः । तरसा बलात् ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
तां सारिकाकन्दुकदर्पणाम्बुज-
श्वेतातपत्रव्यजनस्रगादिभिः।
गीतायनैर्दुन्दुभिशङ्खवेणुभि-
र्वृषेन्द्रमारोप्य विटङ्किता ययुः॥
मूलम्
तां 15शारिका16कन्दुकदर्पणाम्बुज17 श्वेतातपत्रव्यजनस्रगादिभिः।
गीतायनैर्दुन्दुभिशङ्खवेणुभिर्वृषेन्द्रमारोप्य 18विटङ्किता ययुः॥ ५ ॥
अनुवाद (हिन्दी)
उन्होंने सतीको बैलपर सवार करा दिया तथा मैना पक्षी, गेंद, दर्पण और कमल आदि खेलकी सामग्री, श्वेत छत्र, चँवर और माला आदि राजचिह्न तथा दुन्दुभि, शंख और बाँसुरी आदि गाने-बजानेके सामानोंसे सुसज्जित हो वे उनके साथ चल दिये॥ ५॥
वीरराघवः
तां सतीं वृषेन्द्रमारोप्य नन्दीश्वरे उपवेश्य 19शारिकादिभिः क्रीडोपकरणैः 20शारिका पठननिपुणः पक्षिविशेषः । श्वेतातपत्रादिभिः राजचिह्नैश्च विटङ्किता अलङ्कृताः ययुः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
आब्रह्मघोषोर्जितयज्ञवैशसं
विप्रर्षिजुष्टं विबुधैश्च सर्वशः।
मृद्दार्वयःकाञ्चनदर्भचर्मभि-
र्निसृष्टभाण्डं यजनं समाविशत्॥
मूलम्
आब्रह्मघोषोर्जितयक्षवैशसं विप्रर्षिजुष्टं विबुधैश्च 21कृत्स्नशः।
मृद्दार्वयः काञ्चनदर्भचर्मभिः निसृष्टभाण्डं यजनं समाविशत्॥ ६ ॥
अनुवाद (हिन्दी)
तदनन्तर सती अपने समस्त सेवकोंके साथ दक्षकी यज्ञशालामें पहुँचीं। वहाँ वेदध्वनि करते हुए ब्राह्मणोंमें परस्पर होड़ लग रही थी कि सबसे ऊँचे स्वरमें कौन बोले; सब ओर ब्रह्मर्षि और देवता विराजमान थे तथा जहाँ-तहाँ मिट्टी, काठ, लोहे, सोने, डाभ और चर्मके पात्र रखे हुए थे॥ ६॥
वीरराघवः
आसमन्तात् ब्रह्मघोषेण 22वेदघोषेण ऊर्जितं व्याप्तं यज्ञसम्बन्धि वैशसं विशसनं यस्मिन् तत् । ब्रह्मघोर्षोर्जितं च तद्यज्ञवैशसं चेति कर्मधारयः । विप्रर्षिभिः ब्रह्मर्षिभिः जुष्टं सेवितं तथा विबुधैः देवैश्च सर्वतो जुष्टं मृदादिभिर्निसृष्टानि निर्मितानि भाण्डानि पात्राणि यस्मिन् तत् । यजनं यागस्थानं समाविशत् ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
तामागतां तत्र न कश्चनाद्रियद्
विमानितां यज्ञकृतो भयाज्जनः।
ऋते स्वसॄर्वै जननीं च सादराः
प्रेमाश्रुकण्ठ्यः परिषस्वजुर्मुदा॥
मूलम्
तामागतां तत्र न कश्चनाऽऽद्रियत् विमानितां यज्ञकृतो भयाज्जनः।
ऋते 23स्वसॄः स्वां जननीञ्च 24सोदराः 25प्रेम्णाऽश्रुकण्ठ्यः परिषस्वजुर्मुदा॥ ७ ॥
अनुवाद (हिन्दी)
वहाँ पहुँचनेपर पिताके द्वारा सतीकी अवहेलना हुई, यह देख यज्ञकर्ता दक्षके भयसे सतीकी माता और बहनोंके सिवा किसी भी मनुष्यने उनका कुछ भी आदर-सत्कार नहीं किया। अवश्य ही उनकी माता और बहिनें बहुत प्रसन्न हुईं और प्रेमसे गद्गद होकर उन्होंने सतीजीको आदरपूर्वक गले लगाया॥ ७॥
वीरराघवः
तत्राऽऽगतां तां सतीं जननीं स्वसृृश्च ऋते विना कश्चन कोऽपि नाद्रियत् नादृतवान् । कुतः ? यज्ञकृतो दक्षात् यद्भयं तस्मात् । तत्र हेतुः - तेन विमानिताम् अवमानितां तास्तु सोदराः प्रेमाश्रुभिः निरुद्धः कण्ठो यासां तथाभूतास्तां मुदा परिषस्वजुः आलिङ्गितवत्यः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
सौदर्यसम्प्रश्नसमर्थवार्तया
मात्रा च मातृष्वसृभिश्च सादरम्।
दत्तां सपर्यां वरमासनं च सा
नादत्त पित्राप्रतिनन्दिता सती॥
मूलम्
26सौदर्य सम्प्रश्च27समर्थवार्तया मात्रा च मातृष्वसृभिश्च सादरम्।
दत्तां सपर्यां 28वरमासनञ्च च सा नाऽऽदत्त पित्राऽप्रतिनन्दिता सती॥ ८ ॥
अनुवाद (हिन्दी)
किन्तु सतीजीने पितासे अपमानित होनेके कारण, बहिनोंके कुशल-प्रश्नसहित प्रेमपूर्ण वार्तालाप तथा माता और मौसियोंके सम्मानपूर्वक दिये हुए उपहार और सुन्दर आसनादिको स्वीकार नहीं किया॥ ८॥
वीरराघवः
मात्रा मातृष्वसृभिः मातृभागिनीभिश्च सौदर्यसम्प्रश्नसमस्तवार्तया सोदरीणां भगिनीनाञ्च सम्बन्धी यः कुशलप्रश्नादिस्तत्पूर्वया समस्तवार्तया सकलवृत्तान्तेन सह । समर्थवार्तयेति पाठे सौदर्येण सोदरत्वेन भगिनीनां यः सम्प्रश्नः तत्र समर्था योग्या या वार्ता तया सादरं आदरेण सहितं यथा तथा 29दत्तां सपर्यां पूजाम् उत्कृष्टमासनं च सती नाऽऽदत्त न स्वीकृतवती । तत्र हेतुः पित्रा दक्षेण अप्रतिनन्दिता अनादृता ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
अरुद्रभागं तमवेक्ष्य चाध्वरं
पित्रा च देवे कृतहेलनं विभौ।
अनादृता यज्ञसदस्यधीश्वरी
चुकोप लोकानिव धक्ष्यती रुषा॥
मूलम्
अरुद्रभागं तमवेक्ष्य चाध्वरं पित्रा च देवे कृतहेलनं विभौ।
अनादृता यज्ञसदस्यधीश्वरी चुकोप लोकानिव धक्ष्यती रुषा॥ ९ ॥
अनुवाद (हिन्दी)
सर्वलोकेश्वरी देवी सतीका यज्ञमण्डपमें तो अनादर हुआ ही था, उन्होंने यह भी देखा कि उस यज्ञमें भगवान् शंकरके लिये कोई भाग नहीं दिया गया है और पिता दक्ष उनका बड़ा अपमान कर रहा है। इससे उन्हें बहुत क्रोध हुआ; ऐसा जान पड़ता था मानो वे अपने रोषसे सम्पूर्ण लोकोंको भस्म कर देंगी॥ ९॥
वीरराघवः
अरुद्रभागं न विद्यते रुद्रस्य भागः यस्मिन् तमध्वरं यागं विभौ देवे रुद्रे पित्रा दक्षेण कृतं हेलनम् अपराधं चावेक्ष्य आह्वानाद्यकरणात् । तथा स्वयं यज्ञसदसि पित्रा अनादृता च रुषा लोकान् धक्ष्यती भस्मीकुर्वाणेव चुकोप क्रुद्धवती ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
जगर्ह सामर्षविपन्नया गिरा
शिवद्विषं धूमपथश्रमस्मयम्।
स्वतेजसा भूतगणान् समुत्थितान्
निगृह्य देवी जगतोऽभिशृण्वतः॥
मूलम्
जगर्ह सामर्षविपन्नया गिरा शिवद्विषं धूमपथश्रमस्मयम्।
स्वतेजसा भूतगणान् समुत्थितान् निगृह्य देवी जगतो30ऽभिशृण्वतः॥ १० ॥
अनुवाद (हिन्दी)
दक्षको कर्ममार्गके अभ्याससे बहुत घमण्ड हो गया था। उसे शिवजीसे द्वेष करते देख जब सतीके साथ आये हुए भूत उसे मारनेको तैयार हुए तो देवी सतीने उन्हें अपने तेजसे रोक दिया और सब लोगोंको सुनाकर पिताकी निन्दा करते हुए क्रोधसे लड़खड़ाती हुई वाणीमें कहा॥ १०॥
वीरराघवः
सा सती देवी अमर्षविपन्नया 31अमर्षेण 32कोपेन विपन्नया अव्यक्तया गिरा वाचा रुद्रावहेलनादिना समुत्थितान् दक्षं हन्तुमुद्यतान् भूतगणान् मणिमन्मदादीन् स्वतेजसा स्वबलेन निगृह्य निवार्य धूमपथश्रमस्मयं धूमपथेषु धूमादिमार्गप्रदकर्मसु परिश्रमोत्थगर्वं शिवं द्वेष्टीत शिवद्विट् तं दक्षं जगर्ह निन्दितवती निन्दावाक्यान्युक्तवतीत्यर्थः ॥ १० ॥
श्लोक-११
मूलम् (वचनम्)
श्रीदेव्युवाच
विश्वास-प्रस्तुतिः
न यस्य लोकेऽस्त्यतिशायनः प्रिय-
स्तथाप्रियो देहभृतां प्रियात्मनः।
तस्मिन् समस्तात्मनि मुक्तवैरके
ऋते भवन्तं कतमः प्रतीपयेत्॥
मूलम्
न यस्य लोकेऽस्त्यतिशायनः प्रियस्तथाऽप्रियो देहभृतां प्रियात्मनः।
तस्मिन् समस्तात्मनि मुक्तवैरके ऋते भवन्तं कतमः 33प्रतीपयेत्॥ ११ ॥
अनुवाद (हिन्दी)
देवी सतीने कहा—पिताजी! भगवान् शंकरसे बड़ा तो संसारमें कोई भी नहीं है। वे तो सभी देहधारियोंके प्रिय आत्मा हैं। उनका न कोई प्रिय है, न अप्रिय, अतएव उनका किसी भी प्राणीसे वैर नहीं है। वे तो सबके कारण एवं सर्वरूप हैं; आपके सिवा और ऐसा कौन है जो उनसे विरोध करेगा?॥ ११॥
वीरराघवः
तान्येवाह - न यस्येति त्रयोदशभिः । प्रियात्मनः प्रियः निरतिशयप्रीतिविषयः आत्मा परमपुरुषः यस्य सः । “प्रियो हि ज्ञानिनोत्यर्थमहं स च मम प्रियः" (भ.गी. 7-17) इति गीतत्वात् । यस्य रुद्रस्य लोके भवने देहभृतां मध्ये अतिशायनः अतिशयितः प्रियः प्रीतिविषयः तथाऽप्रियो वा नास्ति । सर्वान्तरात्मानं परमात्मानमेव निरतिशयप्रीतिरूपापन्नया भक्त्या भजतः तस्य सर्वं ब्रह्मात्मकतयानुसन्दधतः प्रियाप्रियादिविभागो नास्तीत्यर्थः । तस्मिन् मुक्तवैरके सर्वभूतसुहृदि समस्तात्मनि स समस्तस्यात्मा आत्मवत्प्रियः तस्मिन् । यद्वा समस्ते आत्मा ब्रह्मा पूर्णमिति चित्तं यस्य तस्मिन् । “तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं, सूर्यश्च कक्षीवानृषिर्विप्रश्च" (बृह. उ. 1-4-10) इत्यादि श्रुत्युक्तविधया सर्वात्मकं ब्रह्म सर्वात्मकत्वेन स्वस्मिन् साक्षात्कुर्वतीति वार्थः । योऽहं शरीरकः परमात्मा स एव मन्वादिशरीरक इति श्रुत्यर्थः । यद्वा ब्रह्मण आवेशावतारत्वाद् रुद्रे ब्रह्म34दृष्ट्या वा इदमुक्तं - समस्तात्मनीति । अस्मिन् पक्षे षष्ठीतत्पुरुषः 35सङ्गतः । एवंविधे रुद्रे भवन्तं विना कतमः को वा प्रतीपयेत् प्रातिकूल्यमाचरेत् ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
दोषान् परेषां हि गुणेषु साधवो
गृह्णन्ति केचिन्न भवादृशा द्विज।
गुणांश्च फल्गून् बहुलीकरिष्णवो
महत्तमास्तेष्वविदद्भवानघम्॥
मूलम्
दोषान् परेषां हि गुणे36ष्वसाधवो गृह्णन्ति केचिन्न भवादृशा 37द्विज।
गुणांश्च फल्गून् बहुलीकरिष्णवो महत्तमास्तेष्वविदद्भवानघम्॥ १२ ॥
अनुवाद (हिन्दी)
द्विजवर! आप-जैसे लोग दूसरोंके गुणोंमें भी दोष ही देखते हैं, किन्तु कोई साधुपुरुष ऐसा नहीं करते। जो लोग—दोष देखनेकी बात तो अलग रही—दूसरोंके थोड़ेसे गुणको भी बड़े रूपमें देखना चाहते हैं, वे सबसे श्रेष्ठ हैं। खेद है कि आपने ऐसे महापुरुषोंपर भी दोषारोपण ही किया॥ १२॥
वीरराघवः
एवं ब्रह्मविदग्रेसरस्य रुद्रस्य प्रतीपाविषयत्वमुक्तम् अथैतस्मिन् साधौ ब्रह्मविदि कृताप38राधात् दुर्जनात् त्वत्तः उत्पन्नमिदं शरीरं त्यक्ष्यामीति वक्ष्यन्ती प्रथमं साध्वसाधुलोकौ विभजति - दोषानिति । हे द्विज ! पितृशब्देनाऽसम्बोधनं तदधिक्षेपाय भवादृशाः केचित् त्वादृशाः दुर्जनाः परेषां स्वापेक्षया अन्येषां गुणेषु सत्स्वपि दोषानेव गृह्णन्ति तानेवोद्घाटयन्ति न तु गुणान् तेऽसाधव इत्यर्थः । ये पुनः रुद्रादयः दोषान् न गृह्णन्ति किन्तु फल्गूनपि अल्पानपि गुणानेव बहुलीकरिष्णवः वितनोतुमिच्छवो भवन्ति, ते महत्तमाः । गुणेषु साधव इति पाठे ये साधवः फल्गूनपि गुणान् बहुलीकरिष्णवस्ते महत्तमा इत्यन्वयः । तेषु च महत्तमेषु च भवा39नघमपराधं अविदत् लब्धवान् कृतवानित्यर्थः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
नाश्चर्यमेतद्यदसत्सु सर्वदा
महद्विनिन्दा कुणपात्मवादिषु।
सेर्ष्यं महापूरुषपादपांसुभि-
र्निरस्ततेजःसु तदेव शोभनम्॥
मूलम्
नाश्चर्यमेतद्यदसत्सु सर्वदा महद्विनिन्दा कुणपात्मवादिषु।
40सेर्ष्यं महापूरुषपादपांसुभिर्निरस्ततेजस्सु तदेव शोभनम्॥ १३ ॥
अनुवाद (हिन्दी)
जो दुष्ट मनुष्य इस शवरूप जडशरीरको ही आत्मा मानते हैं, वे यदि ईर्ष्यावश सर्वदा ही महापुरुषोंकी निन्दा करें तो यह कोई आश्चर्यकी बात नहीं है। क्योंकि महापुरुष तो उनकी इस चेष्टापर कोई ध्यान नहीं देते, परन्तु उनके चरणोंकी धूलि उनके इस अपराधको न सहकर उनका तेज नष्ट कर देती है। अतः महापुरुषोंकी निन्दा-जैसा जघन्य कार्य उन दुष्ट पुरुषोंको ही शोभा देता है॥ १३॥
वीरराघवः
असतां त्वादृ41शानामिदं महत्स्वपचरणं युक्तमेवेत्याह- नाश्चर्यमिति । कुणपात्मवादिषु कुणपं शवप्रायं शरीरमेवात्मेति ये वदन्ति तेषु भवादृशेष्वसत्सु सर्वथा सेर्ष्यम् ईर्ष्या अक्षमा सेर्ष्यं यथा भवति तथा महद्विनिन्दा महत्तमविषयनिन्देति 42यदेतत् 43तदाश्चर्यं न भवति । प्रत्युत महापूरुषपादपांसुभिः महापूरुषाः महत्तमास्तेषाम् अङ्घ्रिरजोभिः निरस्तं तेजः प्रभावो येषां तेषु त्वादृशेषु तदेव महद्विनिन्दनमेव शोभनम् उचितम् । यद्यपि महान्तः स्वनिन्दां सहन्ते, तथापि तत्पादरेणवस्तदसहमानास्तेषां तेजो निरस्यन्ति । अतोऽसत्सु 44महद्विनिन्दनमेवोचितमित्यर्थः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
यद् द्व्यक्षरं नाम गिरेरितं नृणां
सकृत्प्रसङ्गादघमाशु हन्ति तत्।
पवित्रकीर्तिं तमलङ्घ्यशासनं
भवानहो द्वेष्टि शिवं शिवेतरः॥
मूलम्
यद् द्वयक्षरं नाम गिरेरितं नृणां सकृत्प्रसङ्गादघमाशु हन्ति तत्।
पवित्रकीर्तिं तमलङ्घ्यशासनं भवानहो द्वेष्टि शिवं शिवेतरः॥ १४ ॥
अनुवाद (हिन्दी)
जिनका ‘शिव’ यह दो अक्षरोंका नाम प्रसंगवश एक बार भी मुखसे निकल जानेपर मनुष्यके समस्त पापोंको तत्काल नष्ट कर देता है और जिनकी आज्ञाका कोई भी उल्लंघन नहीं कर सकता, अहो! उन्हीं पवित्रकीर्ति मंगलमय भगवान् शंकरसे आप द्वेष करते हैं! अवश्य ही आप अमंगलरूप हैं॥ १४॥
वीरराघवः
कोऽसावपचारो महत्सु मयाकृत इत्यत्राह - यदिति द्वाभ्याम् । यस्य रुद्रस्य द्वयक्षरं शिव इत्यक्षरद्वयात्मकं नाम नामधेयं प्रसङ्गादपि सकृद्गिरा वागिन्द्रियेणेरितमु45च्चारितं नृणामघं पापमाशु द्राक्हन्ति निवर्तयति । सतामपि नामोच्चारणादेः भगवन्नामवदधनिवर्तकत्वादिति भावः । अलङ्घ्यम् अनतिक्रमणीयं शासनमाज्ञा यस्य तं शिवम् अशिवोऽमङ्गलो भवान् द्वेष्टि । अहो कष्टम् । अमङ्गलो द्वेष्टीत्यनेन तद्द्वेषाद्भवतोऽमङ्गलमनन्तरभावीति भावः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
यत्पादपद्मं महतां मनोऽलिभि-
र्निषेवितं ब्रह्मरसासवार्थिभिः।
लोकस्य यद्वर्षति चाशिषोऽर्थिन-
स्तस्मै भवान् द्रुह्यति विश्वबन्धवे॥
मूलम्
यत्पादपद्मं महतां मनोऽलिभिर्निषेवितं ब्रह्मरसासवार्थिभिः।
लोकस्य यद्वर्षति चाशिषोऽर्थिनस्तस्मै भवान् द्रुह्यति विश्वबन्धवे॥ १५ ॥
अनुवाद (हिन्दी)
अरे! महापुरुषोंके मन-मधुकर ब्रह्मानन्दमय रसका पान करनेकी इच्छासे जिनके चरणकमलोंका निरन्तर सेवन किया करते हैं और जिनके चरणारविन्द सकाम पुरुषोंको उनके अभीष्ट भोग भी देते हैं, उन विश्वबन्धु भगवान् शिवसे आप वैर करते हैं॥ १५॥
वीरराघवः
किञ्च ब्रह्मरसासवार्थिभिः ब्रह्मरसो ब्रह्मानन्दः स एवाऽऽसवो मकरन्दस्तदर्थिभिः ब्रह्मानन्दानुभवमधुलिप्सुभिः महतां मनांस्येवालयो भृङ्गास्तैः यस्य रुद्रस्य पादपद्मं निषेवितं “ईश्वराज्ज्ञानमन्विच्छेत्” (मात्स्य. पु. 67-41) इति ज्ञानप्रदत्वादिति भावः । कीदृशं तत्पादपद्मं यन्निषेवितं, तत्राह - यत्पादपद्यम् अर्थिनो लोकस्य याचमानस्य जनस्य आशिषो अभीष्टानि वर्षति ददाति तस्मै विश्वबन्धवे विश्वानुकूलाय भवान् द्रुह्यति अपकरोति । “कुधद्रुह” इति चतुर्थी ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये
ब्रह्मादयस्तमवकीर्य जटाः श्मशाने।
तन्माल्यभस्मनृकपाल्यवसत्पिशाचै-
र्ये मूर्धभिर्दधति तच्चरणावसृष्टम्॥
मूलम्
किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये ब्रह्मादयस्तमवकीर्य जटाः श्मशाने।
तन्माल्यभस्मनृकपाल्यवसत्पिशाचैर्ये मूर्धभिर्दधति तच्चरणावसृष्टम्॥ १६ ॥
अनुवाद (हिन्दी)
वे केवल नाममात्रके शिव हैं, उनका वेष अशिवरूप—अमंगलरूप है; इस बातको आपके सिवा दूसरे कोई देवता सम्भवतः नहीं जानते; क्योंकि जो भगवान् शिव श्मशानभूमिस्थ नरमुण्डोंकी माला, चिताकी भस्म और हड्डियाँ पहने, जटा बिखेरे, भूत-पिशाचोंके साथ श्मशानमें निवास करते हैं, उन्हींके चरणोंपरसे गिरे हुए निर्माल्यको ब्रह्मा आदि देवता अपने सिरपर धारण करते हैं॥ १६॥
वीरराघवः
नन्वमजलाचारत्वात् तन्नामैव न स्मर्तव्यं तत्राह - किं वेति । यो रुद्रः श्मशाने जटाः अवकीर्य विक्षिप्य तन्माल्यभस्मनृकपाली श्मशानमाल्यभस्मनरकपालवान् पिशाचैः सह अवसत् तमेवमशिवममङ्गलाचारं रुद्रं, तच्चरणावसृष्टं रज इत्यध्याहारः । ये ब्रह्मादयो मूर्धभिः शिरोभिर्दधति धारयन्ति ते त्वदन्ते 46त्वत्तोऽन्ये ब्रह्मादयः मरीच्यादिनवब्रह्मप्रभृतयः, यद्वा अतद्गुणसंविज्ञानो बहुव्रीहिः, अन्यथा “अजंलोकगुरुं नत्वा” (भाग 4-6-7) इत्यादिपूर्वापरविरोधात् । शिवाख्यं शिव इति आख्या नाम यस्य तथाभूतं न विदुः किम् ? विदुरेवेत्यर्थः । अमङ्गलाचारस्त्वनुकरणमात्रमिति भावः । ननु 47अस्य परस्य ब्रह्मणो विष्णोः सर्वोत्तमत्वजगत्कारणत्वोपास्यत्वमोक्षप्रदत्वादिप्रतिपादकवेदान्तार्थोऽपि बृंहणपरेऽस्मिन् पुराणे मध्ये तत्र तत्र रुद्रादिजीवविशेषस्य कार्यत्वकर्मवश्यत्वादीन् प्रतिपाद्य पुनः (तस्मिन्) “समस्तात्मनि मुक्तवैरके” (भाग 4-4-11) “ब्रह्मादयो ये मूर्द्धभिदधति तच्चरणावसृष्टं” (भाग. 4-4-16) “नाहं न यज्ञो न च यूयमन्ये । ये देहभाजो मुनयश्च तत्त्वम् । विदुः प्रमाणं बलवीर्ययोर्वा ।” (भाग 4-6-7) “त्वमेव भगवन्नेतच्छिवशक्त्योः स्वरूपयोः । विश्वं सृजसि पास्यत्सि क्रीडन्नूर्णपदो यथा । (भाग. 4-6-43) अहं ब्रह्मा च शर्वश्च जगतः कारणं परम्” । (भाग. 4-7-50) “त्रयाणामेकभावानां यो न पश्यति वै भिदाम् ॥ सर्वभूतात्मनां ब्रह्मन् ! स शान्तिमधिगच्छति ।” (भाग 4-7-54) इत्यादिषु भवानी ब्रह्म विष्ण्वादिवचनेषु सर्वोत्तमत्वजगत्कारणत्वोपास्यत्वादीन् विरुद्धान् प्रतिपादयन् भगवान् पाराशर्यः कथं विश्वसनीय इति चेन्न । अत्र पुराणे परस्परविरुद्धार्थकथनं न क्वाप्यस्ति । क्वचित् प्रतीयमानमपि देवतान्तरस्योत्तमत्वकारणत्वोपास्यत्वादिकं प्रतर्द्दनाधिकरणन्यायेन रुद्रादिशरीरकपरमात्माभिप्रायकं रुद्रादेः भगवदावेशावतारत्वाद्वा भगवद्दृष्ट्योपपन्नमेतत् । अथवा यथावस्थित भूतपूर्ववृत्तान्तस्य वा अस्मिन् पुराणे कथनात् तत्र तत्र कथासु भवानीप्रभृतिभिर्यानि वाक्यान्यभिहितानि तेषामेव अत्र निबद्धत्वात् तत्र भवान्यादिवाक्यानां पतिपारार्थ्यब्रह्मात्मकत्वप्रशंसात्मकत्वादितात्पर्यविशेषप्रवृत्तत्वान्नपाराशर्येण विरुद्धमभिहितम् । नन्वेवमपि ब्रह्मात्मकत्वेनापि रुद्राद्युपास48नं कर्तव्यमिति । “यद्द्व्यक्षरं नाम गिरेरितं नृणाम्। सकृत्प्रसङ्गादघमाशु हन्ति ।” (भाग 4-4-14) पवित्रकीर्तिं “ये मूर्द्धभिर्दधति तच्चरणावसृष्टम्” (भाग 4-4-16) इत्यादिवचनेभ्यः प्रतीयते क्वचित् क्वचित् । सात्त्विकतन्त्रे “नान्यं देवं नमस्कुर्यान्नान्यं देवं निरीक्षयेत् । नान्यं 49प्रासादमारोहेन्नान्यदायतनं विशेत्” इत्यादिभिः देवतान्तरवन्दनादिप्रतिषेधः तथा तद्भक्तैः सहदर्शनसमानासनसंस्पर्श50सहसम्भाषण दृष्टिभुक्त्यादयः प्रतिषिद्धाः, प्रत्युत देवतान्तर तद्भक्तादयस्तत्र तत्र निन्द्यन्ते । अतः सात्वतैतत्पुराणयोर्विरोधः, मैवम् । ब्रह्मोपासनं हि द्विविधं सद्वारकमद्वारकं चेति । तत्र सद्वारकोपासनं नाम रजस्तमभ्रप्रकृतिब्रह्मरुद्रादिजीवशरीरकपरमात्मोपासनम्, अद्वारकन्तु शुद्धसत्वमयस्वेच्छोपात्तदिव्यमङ्गलविग्रहविशिष्टस्य निरस्तनिखिलदोषस्यानन्तकल्याणगुणाकरस्य श्रियः पत्युर्नारायणस्योपासकरुच्यनुसारेण वासुदेवसङ्कर्षणरामकृष्णादि व्यूहविभवादिभेदेनोपासनम् । तत्राद्यमुपासनं तत्तत्फललिप्सुभिः कार्यम् । द्वितीयं तु मुमुक्षुभिः कामिभिश्च । एतच्च सर्वं भगवता गीताचार्येणैवाभिहितम् - यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति” (भगी. 7-21) इत्यादिना । “अनन्याश्चिन्तयन्तो माम्” (भगी. 9-22) इत्यादिना, “देवान् देवयजो यान्ति” (भगी. 7-23) इत्यादिना च । अत्राप्युपक्रमे प्रथमस्कन्धेऽभिहितं “रजस्तम्प्रकृतयः समशीलान् भजन्ति वै । पितृभूतप्रजेशादीन् श्रियैश्वर्य प्रजेप्सवः” । (भाग. 1-2-27) “श्रेयांसि तत्र खलु सत्वतनोर्नृणां स्युः” (भाग 1-2-23) इति । तथा द्वितीये “अकामः सर्वकामो वा मोक्षकाम उदारधीः । तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ।” (भाग. 2-3-10) इति । वक्ष्यते च “धर्मार्थकाममोक्षाणां (ख्यं) य इच्छेच्छ्रेय आत्मनः । एकमेव हरेस्तस्य कारणं पादसेवनम्” (भाग 4-8-41) इति । एवं स्थिते द्विविधयाप्युपासनया अव्यभिचारिण्यैव भवितव्यमिति मुमुक्षया भजतां स्वोपास्यात् देवतान्तरवैभवादिदर्शनेन नमस्कारादिकरणेन च स्वदेवताभक्तिर्व्यभिचरिता स्यादिति सर्वथा मुमुक्षूणां देवतान्तरभजनं निषिध्यते, सर्वदेवतानां ब्रह्मात्मकत्वेनानुसन्धानं त्वविरुद्धमेवेति, न सात्वतैतत्पुराणयोर्विरोधः, देवतान्तर तद्भाक्तादिनिन्दा तु “न हि निन्दा निन्द्यं निन्दितुं प्रवृत्ता, किन्तु निन्द्यादितरत्स्तोतुम्” इति न्यायेनोपपन्ने51त्यवगन्तव्यम् ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
कर्णौ पिधाय निरयाद्यदकल्प ईशे
धर्मावितर्यसृणिभिर्नृभिरस्यमाने।
छिन्द्यात्प्रसह्य रुशतीमसतीं प्रभुश्चे-
ज्जिह्वामसूनपि ततो विसृजेत्स धर्मः॥
मूलम्
कर्णौ पिधाय 52निरियाद्यदकल्य53 ईशे धर्मावितर्य54सृणिभिर्नृभिरस्यमाने।
छिन्द्यात्प्रसह्य रुशतीमस55तां प्रभुश्चेज्जिह्वामसूनपि ततो विसृजेत्सधर्मः॥ १७ ॥
अनुवाद (हिन्दी)
यदि निरंकुशलोग धर्ममर्यादाकी रक्षा करनेवाले अपने पूजनीय स्वामीकी निन्दा करें तो अपनेमें उसे दण्ड देनेकी शक्ति न होनेपर कान बंद करके वहाँसे चला जाय और यदि शक्ति हो तो बलपूर्वक पकड़कर उस बकवाद करनेवाली अमंगलरूप दुष्ट जिह्वाको काट डाले। इस पापको रोकनेके लिये स्वयं अपने प्राणतक दे दे, यही धर्म है॥ १७॥
वीरराघवः
भवतु बहुधा भवः मयाऽभिभूतस्तथापि किं भवत्या भवितव्यमित्यत्राह - कर्णाविति द्वाभ्याम् । धर्मावितरि धर्मरक्षके ईशे ईश्वरांशभूते महत्तमे असृणिभिर्निरङ्कुशैः अनिवारितैर्नृभिर्दुर्जनैः अस्यमाने अधिक्षिप्यमाणे सति यद्यधिक्षेपं श्रृण्वन् सुजनः अक56ल्यः विनिन्दकदुर्जनशिक्षायामसमर्थस्तर्हि कर्णौ श्रोत्रे आच्छाद्य ततो 57निर्यात् निर्गच्छेत्, यदि प्रभुः समर्थश्चेत् रुशतीं दुष्टां जिह्वां प्रसह्य बलात् छिन्द्यात् ततः स्वयमप्यसून् 58प्राणान् विसृजेदिति यत् स धर्मः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
अतस्तवोत्पन्नमिदं कलेवरं
न धारयिष्ये शितिकण्ठगर्हिणः।
जग्धस्य मोहाद्धि विशुद्धिमन्धसो
जुगुप्सितस्योद्धरणं प्रचक्षते॥
मूलम्
अतस्तवोत्पन्नमिदं कलेवरं न धारयिष्ये शितिकण्ठगर्हिणः।
जग्धस्य मोहाद्धि विशुद्धिमन्धसो जुगुप्सितस्यो59द्गिरणं प्रचक्षते॥ १८ ॥
अनुवाद (हिन्दी)
आप भगवान् नीलकण्ठकी निन्दा करनेवाले हैं, इसलिये आपसे उत्पन्न हुए इस शरीरको अब मैं नहीं रख सकती; यदि भूलसे कोई निन्दित वस्तु खा ली जाय तो उसे वमन करके निकाल देनेसे ही मनुष्यकी शुद्धि बतायी जाती है॥ १८॥
वीरराघवः
अतः शितिकण्ठगर्हिणः शङ्करद्वेषिणस्तव - अपादानस्यैव शेषत्वविवक्षया षष्ठी - उत्पन्नं मम मदीयं कलेबरं न धारयिष्ये प्रमादादापन्नस्याऽपवित्रस्य त्यागं विना न शुद्धिरिति दृष्टान्तेनाह - मोहाज्जग्धस्य भक्षितस्य जुगुप्सितस्य दृष्टस्यान्धसोऽन्नस्य उद्गिरणं वमनमेव पुनः विशुद्धिं प्रचक्षते कथयन्ति ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
न वेदवादाननुवर्तते मतिः
स्व एव लोके रमतो महामुनेः।
यथा गतिर्देवमनुष्ययोः पृथक्
स्व एव धर्मे न परं क्षिपेत्स्थितः॥
मूलम्
न वेदवादाननुवर्तते मतिः स्व एव लोके रमतो महामुनेः।
यथा गतिर्देवमनुष्ययोः पृथक् स्व एव धर्मे न परं क्षिपेत् स्थितः॥ १९ ॥
अनुवाद (हिन्दी)
जो महामुनि निरन्तर अपने स्वरूपमें ही रमण करते हैं, उनकी बुद्धि सर्वथा वेदके विधिनिषेधमय वाक्योंका अनुसरण नहीं करती। जिस प्रकार देवता और मनुष्योंकी गतिमें भेद रहता है, उसी प्रकार ज्ञानी और अज्ञानीकी स्थिति भी एक-सी नहीं होती। इसलिये मनुष्यको चाहिये कि वह अपने ही धर्ममार्गमें स्थित रहते हुए भी दूसरोंके मार्गकी निन्दा न करे॥ १९॥
वीरराघवः
ननु वृधा किमेवमागृह्णासि ? यतोऽसावमङ्गलो रुद्रो वैदिकं पन्थानमुल्लङ्घ्य वर्तते, अतो मया वैदिकमार्गानुवर्तिना श्रेष्ठेणाक्षिप्त इत्यत्राह - स्वे स्वात्मनि लोके लोक्यते परिशुद्धमनसा दृश्यत इति लोकः ब्रह्म तस्मिन् रममाणस्य महामुने रुद्रस्य मतिर्वेदवादान् “अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति अपामसोमममृता अभूम” (आप.श्रौ.सू. 8-1-1) इत्यादीन् कर्मप्ररोक्कानर्थवादान्नानुवर्तते तेषु नासक्ता भवति । निवृत्तिमार्गनिष्ठस्य न प्रवृत्तिमार्गे रुचिरुत्पद्यत इति न तस्य वैदिकपथाऽननुवर्तनमिति भावः । अनयोः प्रवृत्तिनिवृत्तिधर्मनिष्ठयोराचारः पृथगेव दृश्यते, यथा देवमनुष्ययोः गतिः पृथगेव, देवानां गतिराकाश एव । मनुष्याणां गतिः पृथिव्यामेव तद्वत् । अथापि भवानेव श्रेष्ठस्तथाप्युत्कृष्टः स्वकीये धर्मे स्थितो वर्तमानः परं निकृष्टं न क्षिपेत्राधिक्षिपेदिति यत् स एव धर्मः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
कर्म प्रवृत्तं च निवृत्तमप्यृतं
वेदे विविच्योभयलिङ्गमाश्रितम्।
विरोधि तद्यौगपदैककर्तरि
द्वयं तथा ब्रह्मणि कर्म नर्च्छति॥
मूलम्
कर्मप्रवृत्तं च निवृत्तम60प्यृतं वेदे विविच्योभयलिङ्गमाश्रितम्।
विरोधि तद्यौगप61दैककर्तरि द्वयं तथा ब्रह्मणि कर्म नर्छति॥ २० ॥
अनुवाद (हिन्दी)
प्रवृत्ति (यज्ञ-यागादि) और निवृत्ति (शम-दमादि)-रूप दोनों ही प्रकारके कर्म ठीक हैं। वेदमें उनके अलग-अलग रागी और विरागी दो प्रकारके अधिकारी बताये गये हैं। परस्पर विरोधी होनेके कारण उक्त दोनों प्रकारके कर्मोंका एक साथ एक ही पुरुषके द्वारा आचरण नहीं किया जा सकता। भगवान् शंकर तो परब्रह्म परमात्मा हैं उन्हें इन दोनोंमेंसे किसी भी प्रकारका कर्म करनेकी आवश्यकता नहीं है॥ २०॥
वीरराघवः
प्रवृत्तिधर्ममपि वैदिकत्वाविशेषात् किमिति नानुवर्तते भव इत्यत्राह - कर्मेति । प्रवृत्तं स्वर्गादिफलोद्देशेन प्रवृत्तं कर्म, तथा निवृत्तं फलकामनातो निवृत्तं च कर्म । उभय62 लिङ्गं फलाभिसन्धि63सहितत्वासहितत्वाभ्यां चिह्नाभ्यां युक्तं यथा भवति तथा वेदे विविच्य आश्रितं “स्वर्गकामो यजेत” “शान्तो दान्त उपरतः” (सुबा.उ.9-14) “तमेतं वेदानुवचनेन ब्रह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” (बृह. उ. 4-4-22), “धर्मेण पापमपनुदति” इत्यादि वेदे असाङ्कर्येण यद्यपि विहितं तथापि तद्द्वयं प्रवृत्तिनिवृत्तिभेदेन द्विविधं कर्मयौगपद्येनैककर्तर्येकस्मिन्नधिकारिणि विरोधि परस्परविरुद्धम् । अतो ब्रह्मणि ब्रह्मज्ञाने कर्म प्रवृत्तं निवृत्तं चोभयं कर्म नर्च्छति न प्राप्नोति साधनतामिति शेषः । केवलं निवृत्तं कर्मैव ज्ञान64योगानुगुणं न तु उभयमित्यर्थः । निवृत्तं कर्म शिवेनापि क्रियत इति भावः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
मा वः पदव्यः पितरस्मदास्थिता
या यज्ञशालासु न धूमवर्त्मभिः।
तदन्नतृप्तैरसुभृद्भिरीडिता
अव्यक्तलिङ्गा अवधूतसेविताः॥
मूलम्
मा वः पदव्यः पितरस्मदास्थिता या यज्ञ65शालास्वनुधूमवर्त्मभिः।
66कदन्नतृप्तैरसुभृ67द्भिरीडिता अव्यक्तलिङ्गा अवधूतसेविताः॥ २१ ॥
अनुवाद (हिन्दी)
पिताजी! हमारा ऐश्वर्य अव्यक्त है, आत्मज्ञानी महापुरुष ही उसका सेवन कर सकते हैं। आपके पास वह ऐश्वर्य नहीं है और यज्ञशालाओंमें यज्ञान्नसे तृप्त होकर प्राणपोषण करनेवाले कर्मठलोग उसकी प्रशंसा भी नहीं करते॥ २१॥
वीरराघवः
यत एवोभयविधं कर्माधिकारिभेदेन व्यवस्थितम् अत एव अस्मदनुष्ठितनिवृत्तिधर्मसाध्या अणिमादयः सिद्धयः प्रवृत्तिधर्मपरायणानां भवतां न सन्तीत्याह - हे पितः ! अस्मदास्थिता अस्माभिरा68श्रिताः परिगृहीताः इत्यर्थः । पदव्यः अणिमादयः सिद्धयः वः युष्माकं मा न सन्तीत्यर्थः । तर्हि अस्माकं सिद्धयो रुद्रस्य न सन्तीति चेत्तत्राह - या भवदीयाः स्वर्गादिपदव्यः ताः अनुधूमवर्त्मभिः धूमादिमार्गप्रदयज्ञादिकर्मानुयायिभिः कदन्नतृप्तैः यज्ञियेन कुत्सितेनान्नेन तृप्तैरसुभृद्भिः प्राणिभिः यज्ञशालास्वेवेडिताः स्तुताः, अस्मदास्थितास्तु पदव्यः अव्यक्तलिङ्गा दुरवगमचिह्ना दुर्विभाव्याः अवधूतैः निरस्तनिखिलजरामरणादिसांसारिकधर्मैः सेविताः परिगृहीताः, अतः फलतोऽनुष्ठानतश्च महदेव वैलक्ष्यण्यं प्रवृत्तिनिवृत्तिधर्मयोरिति न महत्तमानां प्रवृत्तिधर्मे रुचिरुत्पद्यत इति भावः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
नैतेन देहेन हरे कृतागसो
देहोद्भवेनालमलं कुजन्मना।
व्रीडा ममाभूत्कुजनप्रसङ्गत-
स्तज्जन्म धिग् यो महतामवद्यकृत्॥
मूलम्
69नैतेन देहेन हरे कृतागसो देहोद्भवेनालमलं कुजन्मना।
व्रीडा ममाभूत्कुजनप्रसङ्गतस्तज्जन्म धिग् 70यो महताम71हृद्यकृत्॥ २२ ॥
अनुवाद (हिन्दी)
आप भगवान् शंकरका अपराध करनेवाले हैं। अतः आपके शरीरसे उत्पन्न इस निन्दनीय देहको रखकर मुझे क्या करना है। आप-जैसे दुर्जनसे सम्बन्ध होनेके कारण मुझे लज्जा आती है। जो महापुरुषोंका अपराध करता है, उससे होनेवाले जन्मको भी धिक्कार है॥ २२॥
वीरराघवः
किं बहुनोक्तेन, 72सर्वथा स्वदेहं 73त्यक्ष्याम्येवेत्याह - नेति द्वाभ्याम् । हरे रुद्रे कृतागसः कृतापराधस्य तव देहोद्भवेन देहादुत्पन्नेन आर्षत्वात् सापेक्षस्यापि समासः नित्यसापेक्षत्वाद्वा । एतेन कुजन्मना मदीयेन कुत्सितेन देहेन न न प्रयोजनं किन्तु अलम् अलम् । ननु श्लाघ्यमिमं देहं कथं त्यक्ष्यसि तत्राह - कुजनस्य तव प्रसङ्गात् सम्बन्धात् मम व्रीडा लज्जा अभूत् । अतो महतामहृद्यकृत् विप्रियकर्ता देहः तस्माद्यज्जन्म तद्धिक् निन्दितम् । त्वत्सम्बन्धात् अश्लाघ्यमित्यर्थः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
गोत्रं त्वदीयं भगवान् वृषध्वजो
दाक्षायणीत्याह यदा सुदुर्मनाः।
व्यपेतनर्मस्मितमाशु तद्ध्यहं
व्युत्स्रक्ष्य एतत्कुणपं त्वदङ्गजम्॥
मूलम्
गोत्रं त्वदीयं भगवान् वृषध्वजो दाक्षायणीत्याह यदा सुदुर्मनाः।
व्यपेतनर्म74स्मितमाशु 75तद्ध्यहं 76व्युत्स्रक्ष्य एतत्कुणपं त्वदङ्गजम्॥ २३ ॥
अनुवाद (हिन्दी)
जिस समय भगवान् शिव आपके साथ मेरा सम्बन्ध दिखलाते हुए मुझे हँसीमें ‘दाक्षायणी’ (दक्षकुमारी)-के नामसे पुकारेंगे, उस समय हँसीको भूलकर मुझे बड़ी ही लज्जा और खेद होगा। इसलिये उसके पहले ही मैं आपके अंगसे उत्पन्न इस शवतुल्य शरीरको त्याग दूँगी॥ २३॥
वीरराघवः
किञ्च बृषभध्वजो रुद्रः परिहासादिषु नर्मोक्तिषु मां दाक्षायणीति सम्बोधयन् त्वत्सम्बन्धबोधकं गोत्रं नाम यदा आह गृह्णाति तदाहं व्यपेतनर्मस्मितं व्यपेतम् अपगतं नर्म परिहासः स्मितं च यथा भवत्येवं सुदुर्मना अतिदुःखितचित्ता भवामि तत्तस्मात् हि निश्चितम् । एतत्कुणपप्रायं त्वदङ्गाज्जातमिदं कलेवरं व्युत्स्रक्ष्ये त्यक्ष्यामि ॥ २३ ॥
श्लोक-२४
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
इत्यध्वरे दक्षमनूद्य शत्रुहन्
क्षितावुदीचीं निषसाद शान्तवाक्।
स्पृष्ट्वा जलं पीतदुकूलसंवृता
निमील्य दृग्योगपथं समाविशत्॥
मूलम्
इत्यध्वरे दक्षमनूद्य शत्रुहन् क्षितावुदीचीं निषसाद शान्तवाक्।
स्पृष्ट्वा जलं पीतदुकूलसंवृता निमील्य दृग्योगपथं समाविशत्॥ २४ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—कामादि शत्रुओंको जीतनेवाले विदुरजी! उस यज्ञमण्डपमें दक्षसे इस प्रकार कह देवी सती मौन होकर उत्तर दिशामें भूमिपर बैठ गयीं। उन्होंने आचमन करके पीला वस्त्र ओढ़ लिया तथा आँखें मूँदकर शरीर छोड़नेके लिये वे योगमार्गमें स्थित हो गयीं॥ २४॥
वीरराघवः
हे शत्रुहन् ! विदुर ! इति उक्तप्रकारेण अध्वरे यज्ञे दक्षमनूद्य प्रत्युच्य उदीचीमुत्तरदिशं प्रविश्येति शेषः । शान्तवाक् गृहीतमौना निषसाद उपविष्टवती । तत्र जलं स्पृष्ट्वा आचम्येत्यर्थः । पीतदुकूलवस्त्रेण संवृता 77प्रावृता दृक् दृशम् । आर्षत्वात् द्वितीयाया लुक् । निमील्य योगपथं योगिनां देहत्यागप्रकारं समाविशत् आश्रितवतीत्यर्थः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
कृत्वा समानावनिलौ जितासना
सोदानमुत्थाप्य च नाभिचक्रतः।
शनैर्हृदि स्थाप्य धियोरसि स्थितं
कण्ठाद् भ्रुवोर्मध्यमनिन्दितानयत्॥
मूलम्
कृत्वा समानावनिलौ जितासना सोदानमुत्थाप्य च नाभिचक्रतः।
शनैर्हृदि स्थाप्य धियोरसि स्थितं कण्ठाद् भ्रुवोर्मध्यमनिन्दितानयत्॥ २५ ॥
अनुवाद (हिन्दी)
उन्होंने आसनको स्थिरकर प्राणायामद्वारा प्राण और अपानको एकरूप करके नाभिचक्रमें स्थित किया; फिर उदानवायुको नाभिचक्रसे ऊपर उठाकर धीरे-धीरे बुद्धिके साथ हृदयमें स्थापित किया। इसके पश्चात् अनिन्दिता सती उस हृदयस्थित वायुको कण्ठमार्गसे भ्रुकुटियोंके बीचमें ले गयीं॥ २५॥
वीरराघवः
योगपथाश्रयणमेवाह - कृत्वेति । जितमासनं यथा सा क्लमरहिता अनिन्दिता निर्दुष्टा सती अनिलौ प्राणापानौ ऊर्ध्वाधोवृत्तिनिरोधेन समानौ समानवृत्ती नाभिचक्रे कृत्वा तत उदानवायुमुत्थाप्य धिया सह शनैर्हृदि स्थास्य स्थापयित्वा उरसि स्थितं तमुदानवायुं कण्ठात् कण्ठमार्गेण भ्रुवोर्मध्यमनयत् ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
एवं स्वदेहं महतां महीयसा
मुहुः समारोपितमङ्कमादरात्।
जिहासती दक्षरुषा मनस्विनी
दधार गात्रेष्वनिलाग्निधारणाम्॥
मूलम्
एवं स्वदेहं महतां महीयसा मुहुः समारोपितमङ्कमादरात्।
78जिहासती दक्षरुषा मनस्विनी दधार गात्रेष्वनिलाग्निधार79णाम्॥ २६ ॥
अनुवाद (हिन्दी)
इस प्रकार, जिस शरीरको महापुरुषोंके भी पूजनीय भगवान् शंकरने कई बार बड़े आदरसे अपनी गोदमें बैठाया था, दक्षपर कुपित होकर उसे त्यागनेकी इच्छासे महामनस्विनी सतीने अपने सम्पूर्ण अंगोंमें वायु और अग्निकी धारणा की॥ २६॥
वीरराघवः
महतामपि मध्ये महीयसा महत्तमेन रुद्रेण 80आदरात् मुहुः पुनः पुनः अङ्कमुत्सङ्गं प्रत्यारोपितं स्वदेहमेवं दक्षक्रोधेन जिहासती त्यक्तुमिच्छन्ती मनस्विनी स्वतन्त्रा स्वच्छन्दमरणेत्यर्थः । सती भवानी गात्रेषु अङ्गेषु अनिलामिधारणां दधार अनिलाग्निधारणाभ्या धारणां चकारेत्यर्थः । तया हि धारणया अनिलाग्न्योरुत्पत्तिः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
ततः स्वभर्तुश्चरणाम्बुजासवं
जगद्गुरोश्चिन्तयती न चापरम्।
ददर्श देहो हतकल्मषः सती
सद्यः प्रजज्वाल समाधिजाग्निना॥
मूलम्
ततः स्वभर्तुश्चरणाम्बुजासवं जगद्गुरोश्चिन्तयती न चापरम्।
ददर्श 81देहे हतकल्म82षा सती सद्यः प्रजज्वाल समाधि83नाग्निना॥ २७ ॥
अनुवाद (हिन्दी)
अपने पति जगद्गुरु भगवान् शंकरके चरण-कमल-मकरन्दका चिन्तन करते-करते सतीने और सब ध्यान भुला दिये; उन्हें उन चरणोंके अतिरिक्त कुछ भी दिखायी न दिया। इससे वे सर्वथा निर्दोष, अर्थात् मैं दक्षकन्या हूँ—ऐसे अभिमानसे भी मुक्त हो गयीं और उनका शरीर तुरंत ही योगाग्निसे जल उठा॥ २७॥
वीरराघवः
ततः जगद्गुरोः जगतां जिज्ञासूनां गुरोः स्वभर्तुः रुद्रस्य चरणाम्बुजासवं चरणाम्बुजे आसवमानन्दं चिन्तयन्ती अनुभवन्ती अत एव ह84तकल्मषा पापरहिता भर्त्तुरपरंसा न ददर्श न चिन्तितवती । देहश्च सद्यस्समाधिना योऽग्निस्तेन प्र85जज्वाल प्रज्वलितोऽभूत् ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
तत्पश्यतां खे भुवि चाद्भुतं महद्
हाहेति वादः सुमहानजायत।
हन्त प्रिया दैवतमस्य देवी
जहावसून् केन सती प्रकोपिता॥
मूलम्
तत्पश्यतां खे भुवि चाद्भुतं महद् हाहेतिवादः सुमहानजायत।
हन्त प्रिया 86दैवतमस्य देवी जहावसून् केन सती प्रकोपिता॥ २८ ॥
अनुवाद (हिन्दी)
उस समय वहाँ आये हुए देवता आदिने जब सतीका देहत्यागरूप यह महान् आश्चर्यमय चरित्र देखा, तब वे सभी हाहाकार करने लगे और वह भयंकर कोलाहल आकाशमें एवं पृथ्वीतलपर सभी जगह फैल गया। सब ओर यही सुनायी देता था—‘हाय! दक्षके दुर्व्यवहारसे कुपित होकर देवाधिदेव महादेवकी प्रिया सतीने प्राण त्याग दिये॥ २८॥
वीरराघवः
तदद्भुतमाश्चर्यं पश्यतां भुवि खे आकाशे च सुमहान् उच्चैः हाहेति वादः घोषः अभूत् । तदेवाह - देवतमस्य देवश्रेष्ठस्य रुद्रस्य देवी प्रिया सती केन दक्षेण प्रकोपिता प्रकोपं प्रापिता असून् प्राणान् जहौ अत्यजत् ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
अहो अनात्म्यं महदस्य पश्यत
प्रजापतेर्यस्य चराचरं प्रजाः।
जहावसून् यद्विमताऽऽत्मजा सती
मनस्विनी मानमभीक्ष्णमर्हति॥
मूलम्
अहो अ87नात्म्यं महदस्य पश्यत प्रजापतेर्यस्य चरा88चरं प्रजाः।
जहावसून् यद्विमताऽऽत्मजा सती मनस्विनी मानम89भीक्ष्णमर्हति॥ २९ ॥
अनुवाद (हिन्दी)
देखो, सारे चराचर जीव इस दक्षप्रजापतिकी ही सन्तान हैं; फिर भी इसने कैसी भारी दुष्टता की है! इसकी पुत्री शुद्धहृदया सती सदा ही मान पानेके योग्य थी, किन्तु इसने उसका ऐसा निरादर किया कि उसने प्राण त्याग दिये॥ २९॥
वीरराघवः
अहो प्रजापतेः दक्षस्य महदनात्म्यं दौर्जन्यमद्य पश्यत । चराचरं विश्वं यस्य रुद्रस्य 90प्रजाः प्रजावत् प्रीतिविषयं विश्वसुहृद इत्यर्थः । तस्य रुद्रस्य सती भार्या यद्वा यस्य दक्षस्य चराचरं प्रजाः प्रजावत् स्नेहविषयं सर्वत्र स्नेह एवास्य न्याय्य इति भावः । तेन दक्षेण विमता विमानिता असून् जहौ । न त्वियं विमानयोग्येत्याहुः, आत्मजा तत्रापि मनस्विनी प्रशस्तमनस्का गुणवतीत्यर्थः । अत एवाभीक्ष्णं पुनः पुनः मानं सम्मानं प्रत्यर्हति ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
सोऽयं दुर्मर्षहृदयो ब्रह्मध्रुक् च
लोकेऽपकीर्तिं महतीमवाप्स्यति।
यदङ्गजां स्वां पुरुषद्विडुद्यतां
न प्रत्यषेधन्मृतयेऽपराधतः॥
मूलम्
सोऽयं दुर्मर्षहृदयो ब्रह्म91बन्धुः लोकेऽपकीर्तिं महतीमवाप्स्यति।
यदङ्गजां स्वां पुरुषद्विडुद्यतां न प्रत्यषेधन्मृतयेऽपराधतः॥ ३० ॥
अनुवाद (हिन्दी)
वास्तवमें यह बड़ा ही असहिष्णु और ब्राह्मणद्रोही है। अब इसकी संसारमें बड़ी अपकीर्ति होगी। जब इसकी पुत्री सती इसीके अपराधसे प्राणत्याग करनेको तैयार हुई, तब भी इस शंकरद्रोहीने उसे रोकातक नहीं!’॥ ३०॥
वीरराघवः
दुर्मर्षमत्यन्तासहमानं हृदयं यस्य सोऽयं ब्रह्मबन्धुः ब्राह्मणापदेशो दक्षः लो92के असतीं कीर्तिञ्च अवाप्स्यति । चकारात् नरकं च । यद्यतः स्वीयामङ्गजामपराधतः स्वाऽवज्ञया मृतये मरणाय उद्यतामुद्युक्तां पुरुषद्विट् शिवद्वेषी दक्षः “तत्पुरुषाय विद्महे महादेवाय” (मना.उ. 1-5) इति प्रयोगात्, यद्वा रुद्रस्य भगवदात्मकत्वात् रुद्रं द्विषन्नपि भगवन्तं द्वेष्टीत्यर्थः । न प्रत्यषेधत् न न्यवारयत् ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
वदत्येवं जने सत्या दृष्ट्वासुत्यागमद्भुतम्।
दक्षं तत्पार्षदा हन्तुमुदतिष्ठन्नुदायुधाः॥
मूलम्
वदत्येव93ञ्जने सत्या दृष्ट्वाऽसुत्यागमद्भुतम्।
94तं दक्षं तत्पार्षदा हन्तुमुदतिष्ठन्नुदायुधाः॥ ३१ ॥
अनुवाद (हिन्दी)
जिस समय सब लोग ऐसा कह रहे थे, उसी समय शिवजीके पार्षद सतीका यह अद्भुत प्राणत्याग देख, अस्त्र-शस्त्र लेकर दक्षको मारनेके लिये उठ खड़े हुए॥ ३१॥
वीरराघवः
सत्या दाक्षायण्याः अद्भुत मसुत्यागं प्राणत्यागं दृष्ट्वा जने एवं वदति सति रुद्रपरिषदा दक्षं हन्तुमुद्यतान्यायुधानि यैस्ते, उदतिष्ठन् उत्थितवन्तः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
तेषामापततां वेगं निशाम्य भगवान् भृगुः।
यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहाव ह॥
मूलम्
तेषामापततां वेगं निशाम्य भगवान् भृगुः।
यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहाव ह॥ ३२ ॥
अनुवाद (हिन्दी)
उनके आक्रमणका वेग देखकर भगवान् भृगुने यज्ञमें विघ्न डालनेवालोंका नाश करनेके लिये ‘अपहतं रक्ष…..’ इत्यादि मन्त्रका उच्चारण करते हुए दक्षिणाग्निमें आहुति दी॥ ३२॥
वीरराघवः
तेषामापतताम् आसमन्तादागच्छतां पारिषदानां वेगं निशाम्य दृष्ट्वा भगवान् भृगुः यज्ञघ्नान् हन्तीति यज्ञघ्नघ्नं तेन यजुषा “अपहता असुरा रक्षांसि पिशाचाः” इति मन्त्रेण दक्षिणाग्नौ जुहाव | हेति विस्मये ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
अध्वर्युणा हूयमाने देवा उत्पेतुरोजसा।
ऋभवो नाम तपसा सोमं प्राप्ताः सहस्रशः॥
मूलम्
अध्वर्युणा हूयमाने देवा उत्पेतुरोजसा।
ऋभवो नाम तपसा सोमं प्राप्ताः सहस्रशः॥ ३३ ॥
अनुवाद (हिन्दी)
अध्वर्यु भृगुने ज्यों ही आहुति छोड़ी कि यज्ञकुण्डसे ‘ऋभु’ नामके हजारों तेजस्वी देवता प्रकट हो गये। इन्होंने अपनी तपस्याके प्रभावसे चन्द्रलोक प्राप्त किया था॥ ३३॥
वीरराघवः
अध्वर्युणा भृगुणा हूयमाने सति ये तपसा सोमं प्राप्तास्ते ऋभवो नाम देवाः सहस्रशः उत्पेतुः उत्थिताः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
तैरलातायुधैः सर्वे प्रमथाः सहगुह्यकाः।
हन्यमाना दिशो भेजुरुशद्भिर्ब्रह्मतेजसा॥
मूलम्
तैरलातायुधैः सर्वे प्रमथाः सहृगुह्यकाः।
95दह्यमाना दिशो भेजुरुशद्भिर्ब्रह्मतेजसा॥ ३४ ॥
अनुवाद (हिन्दी)
उन ब्रह्मतेज सम्पन्न देवताओंने जलती हुई लकड़ियोंसे आक्रमण किया, तो समस्त गुह्यक और प्रमथगण इधर-उधर भाग गये॥ ३४॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे सतीदेहोत्सर्गो नाम चतुर्थोऽध्यायः॥ ४॥
वीरराघवः
ब्रह्मतेजसा उशद्भिः दीप्यमानैः अलातान्येव आयुधानि येषां तैः, ऋभुभिः दह्यमानाः प्रमथाः रुद्रपारिषदाः दिशो भेजुः पलायितवन्त इत्यर्थः ॥ ३४ ॥
इति श्रीमद्भागवते चतुर्थस्कन्धे श्रीवीरराघवविदुषा लिखितायां श्रीभागवतचन्द्रचन्द्रिकायां चतुर्थस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥
-
M,Ma,Ms द्विधा च ↩︎
-
A,B,T क्त ↩︎
-
B,W तदे ↩︎
-
A,B,T च ↩︎
-
A ती ↩︎
-
A,G,J,N,V,Va त्यश्रु ↩︎
-
A,B,T omit यः ↩︎
-
M मरासत ↩︎
-
A,B,T omit स्त्रीभावः ↩︎
-
W omits स्त्रीस्वभावः ↩︎
-
W omits हृदा ↩︎
-
A,B,T omit हृदयेन च ↩︎
-
Af,Gf स्वपार्षदा ये ↩︎
-
मुख्याः ↩︎
-
A,G,J,M,Ma,N,T,Va सा ↩︎
-
M,Ma मण्डुक, Ms मड्डुक ↩︎
-
M,Ma,Ms,V,W जैः ↩︎
-
M,Ma विलेम्बिता ↩︎
-
A,T सा ↩︎
-
A,T सा ↩︎
-
A,B,G,I,J,M,Ma,Ms,T सर्वशः ↩︎
-
A,B,T omit वेदघोषेण ↩︎
-
M,Ma,Ms स्वसारो; A,B,G,I,J,T स्वसृृर्वै ↩︎
-
A,B,G,L,J,M,Ma,Ms,V सादराः ↩︎
-
A,B,G,I,J,M,Ma,Ms,T प्रेमाऽ ↩︎
-
M,Ma,Ms,V सौन्दर्य ↩︎
-
W समस्त ↩︎
-
W परं ↩︎
-
A,B,T omit दत्तां ↩︎
-
Ms ऽनु ↩︎
-
A,T omit अमर्षेण कोपेन विपन्नया ↩︎
-
B क्रोधेन ↩︎
-
M,Ma,Ms प्रतीपकः ↩︎
-
A,B,T दृष्टैवे ↩︎
-
A,B,T सम्मतः ↩︎
-
A,B,G,I,J,T षु ↩︎
-
M,Ma,Ms द्विजाः ↩︎
-
A,B,T राधिनो ↩︎
-
A,T नेव ↩︎
-
M,Ma,Ms सेर्ष्या ↩︎
-
A,B शामिदं ↩︎
-
W omits एतत् ↩︎
-
A,B,T तवा ↩︎
-
A,B,T omit महत् ↩︎
-
A,B,T च्च ↩︎
-
A,B,T omit त्वत्तोऽन्ये ↩︎
-
W omits अस्य ↩︎
-
A,B,T add अपि ↩︎
-
A,B,T प्र ↩︎
-
A,B,T omit सह ↩︎
-
A,B,T त्येवाव ↩︎
-
A,B,C,I,J,I,V निरया ↩︎
-
A,B,G,I,J,M,Ma,T ल्प ↩︎
-
M,Ma,Ms घृ ↩︎
-
A,B,C,I,J,T ती ↩︎
-
A,B,T ल्पः ↩︎
-
A,B,T निरयात् ↩︎
-
W omits प्राणान् ↩︎
-
A,B,G,I,J,T द्ध ↩︎
-
M,Ma,Ms प्युत ↩︎
-
M,Ma,Ms दे ↩︎
-
A,B,T योर्लिङ्गं ↩︎
-
A,T रहितत्वसहि ↩︎
-
W मार्गा ↩︎
-
A,B,G,I,J,T शालासु न धूमवर्त्मभिः ; M,Ma,Ms शालाऽऽसनधूमवर्त्मनाम् ↩︎
-
A,B,O,I,J,t,V, त ↩︎
-
M,Ma,Ms हृ ↩︎
-
T स्थि ↩︎
-
M,Ma,Ms ए ↩︎
-
M,Ma,Ms यन्म ↩︎
-
A,B,G,I,J,M,Ma,T व ↩︎
-
W omits सर्वथा ↩︎
-
B,T त्यक्ष्यत्ये ↩︎
-
M,Ma,Ms स्थि ↩︎
-
I तदाहं; ↩︎
-
M,Ma,Ms तावत्; Ma,Ms उत्त्स्रक्ष्य ↩︎
-
A,T omit प्रावृता ↩︎
-
V,W जहौ सती ↩︎
-
M,Ma,Ms णम् ↩︎
-
W omits आदरात् ↩︎
-
A,B,G,I,J,T,W देहो ↩︎
-
G षः ↩︎
-
A,B,G,I,M,Ma,Ms,T जा ↩︎
-
W अकल्मषा ↩︎
-
T omits प्रजज्वाल ↩︎
-
Ms,W दे ↩︎
-
M,Ma त्व ↩︎
-
M,Ma,Ms राः ↩︎
-
V मजस्र ↩︎
-
A,T omit प्रजाः ↩︎
-
A,B,G,I,J,T ध्रुक् च ↩︎
-
W adds अपकीर्तिं ↩︎
-
M,Ma,Ma मजे ↩︎
-
A,B,G,I,J,T दक्षं तत्पार्षदाः ; M,Ma दक्षं सुपार्षदाः ; Ma दक्षं तु पार्षदाः ↩︎
-
A,B,g,J,J,M,Ma,Ms,T हन्यमाना ↩︎