०३

[तृतीयोऽध्यायः]

भागसूचना

सतीका पिताके यहाँ यज्ञोत्सवमें जानेके लिये आग्रह करना

श्लोक-१

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

सदा विद्विषतोरेवं कालो वै ध्रियमाणयोः।
जामातुः श्वशुरस्यापि सुमहानतिचक्रमे॥

मूलम्

सदा विद्विषतोरेवं कालो वै 1ध्रियमाणयोः।
जामातुः श्वशुरस्यापि सुमहानतिचक्रमे॥ १ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! इस प्रकार उन ससुर और दामादको आपसमें वैर-विरोध रखते हुए बहुत अधिक समय निकल गया॥ १॥

वीरराघवः

“दक्षो दुहितृवत्सलः, विद्वेषमकरोत् कस्मात्” (भाग. 4-2-1) इति पृष्टं विद्वेषनिमित्तं 2कथितम् । अथ “यतः प्राणान् तत्याज दुस्त्यजान् सती” इति पृष्टं प्राणत्यागनिमित्तं तत्प्रकारश्चोच्यते । तत्र प्राणत्यागनिमित्तं अरौद्रकयागारम्भः । स च गर्वात्, गर्वश्च प्राजापत्यात् अधिकारादिति वक्ष्यन् तावत् दक्षभवयोः विद्विषतोः सतोः महान् कालोऽतीतः इत्याह - सदेति । एवम् उक्तरित्या सदा विद्विषतोः मिथो द्वेषं कुर्वतोः जामातुः भवस्य 3श्वशुरस्य दक्षस्य च ध्रियमाणयोः अवतिष्ठमानयोः सतोः सुमहान् भूयान् कालः अतिचक्रमे व्यतीतः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

यदाभिषिक्तो दक्षस्तु ब्रह्मणा परमेष्ठिना।
प्रजापतीनां सर्वेषामाधिपत्ये स्मयोऽभवत्॥

मूलम्

यदाभिषिक्तो दक्षस्तु ब्रह्मणा परमेष्ठिना।
प्रजापतीनां सर्वेषामाधिपत्ये स्मयोऽभवत्॥ २ ॥

अनुवाद (हिन्दी)

इसी समय ब्रह्माजीने दक्षको समस्त प्रजापतियोंका अधिपति बना दिया। इससे उसका गर्व और भी बढ़ गया॥ २॥

वीरराघवः

गर्वनिमित्तमाह - यदेति । परमेष्ठिना चतुर्मुखेन ब्रह्मणा यदा सर्वेषां प्रजापतीनां आधिपत्ये दक्षोऽभिषिक्तः तदा तस्य स्मयः गर्वः अभवत् 3उत्पद्यते स्म ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

इष्ट्वा स वाजपेयेन ब्रह्मिष्ठानभिभूय च।
बृहस्पतिसवं नाम समारेभे क्रतूत्तमम्॥

मूलम्

इष्ट्वा स वाजपेयेन ब्रह्मि4ष्ठानभिभूय 5सः।
बृहस्पतिसवं नाम समारेभे क्रतूत्तमम्॥ ३ ॥

अनुवाद (हिन्दी)

उसने भगवान् शंकर आदि ब्रह्मनिष्ठोंको यज्ञभाग न देकर उनका तिरस्कार करते हुए पहले तो वाजपेय-यज्ञ किया और फिर बृहस्पतिसव नामका महायज्ञ आरम्भ किया॥ ३॥

वीरराघवः

“स्मयाच्चारौद्रकं यागमारेभे” इत्याह - स दक्षः ब्रह्मिष्ठान् ब्रह्मात्मकान् सर्वेषां ब्रह्मात्मकत्वेऽपि रुद्रोदेर्ब्रह्मणः आवेशावतारत्वात् अतिशयेन ब्रह्मत्वमिष्ठन् प्रत्ययेन विवक्षितं, रुद्रानुचरतदाराधकाभिप्रायेण बहुवचनम् । अभिभूय पराभाव्य तेभ्यो यज्ञभागं न दास्यामीत्येवं सङ्कल्प्येत्यर्थः । वाजपेयेनेष्ट्वा वाजपेयाख्यं यागं कृत्वा बृहस्पतिसवं नाम बृहस्पतिसवाऽऽख्यं क्रतूत्तममारेभे आरब्धवान् “वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत” इति श्रुतेः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

तस्मिन् ब्रह्मर्षयः सर्वे देवर्षिपितृदेवताः।
आसन् कृतस्वस्त्ययनास्तत्पत्न्यश्च सभर्तृकाः॥

मूलम्

तस्मिन् ब्रह्मर्षयस्सर्वे देवर्षिपितृदेवताः।
आसन् कृतस्वस्त्ययनाः तत्पत्न्यश्च सभर्तृकाः॥ ४ ॥

अनुवाद (हिन्दी)

उस यज्ञोत्सवमें सभी ब्रह्मर्षि, देवर्षि, पितर, देवता आदि अपनी-अपनी पत्नियोंके साथ पधारे, उन सबने मिलकर वहाँ मांगलिक कार्य सम्पन्न किये और दक्षके द्वारा उन सबका स्वागत-सत्कार किया गया॥ ४॥

वीरराघवः

तस्मिन् बृहस्पतिसवे समारब्धे सर्वे 6ब्रह्मर्षयः तथा देवर्षयः पितरो दे7वाश्च तथा तेषां पत्न्यश्च कृतस्वस्त्ययनाः कृतमङ्गलाः सर्वालङ्कारभूषिताः सभर्तृकाश्चासन् तत्राऽऽगत्य उपविविशुरित्यर्थः । सर्भृतका इत्यनेन भर्तृसान्निध्यात् आनन्दातिशयः सूच्यते ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

तदुपश्रुत्य नभसि खेचराणां प्रजल्पताम्।
सती दाक्षायणी देवी पितुर्यज्ञमहोत्सवम्॥

मूलम्

तदुपश्रुत्य नभसि खेचराणां प्रजल्पताम्।
8सती दाक्षायणीदेवी पि9तुर्यज्ञमहोत्सवम्॥ ५ ॥

अनुवाद (हिन्दी)

उस समय आकाशमार्गसे जाते हुए देवता आपसमें उस यज्ञकी चर्चा करते जाते थे। उनके मुखसे दक्षकुमारी सतीने अपने पिताके घर होनेवाले यज्ञकी बात सुन ली॥ ५॥

श्लोक-६

विश्वास-प्रस्तुतिः

व्रजन्तीः सर्वतो दिग्भ्य उपदेववरस्त्रियः।
विमानयानाः सप्रेष्ठा निष्ककण्ठीः सुवाससः॥

मूलम्

10व्रजन्तीस्सर्वतो दिग्भ्यः उपदेववरस्त्रियः।
विमानयानास्सप्रेष्ठा निष्ककण्ठीस्सुवाससः॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

दृष्ट्वा स्वनिलयाभ्याशे लोलाक्षीर्मृष्टकुण्डलाः।
पतिं भूतपतिं देवमौत्सुक्यादभ्यभाषत॥

मूलम्

दृष्ट्वा स्वनिलयाभ्याशे लोलाक्षीर्मृष्टकुण्डलाः।
पतिं भूतपतिं देवमौत्सुक्यादभ्यभाषत॥ ७ ॥

अनुवाद (हिन्दी)

उन्होंने देखा कि हमारे निवासस्थान कैलासके पाससे होकर सब ओरसे चंचल नेत्रोंवाली गन्धर्व और यक्षोंकी स्त्रियाँ चमकीले कुण्डल और हार पहने खूब सज-धजकर अपने-अपने पतियोंके साथ विमानोंपर बैठी उस यज्ञोत्सवमें जा रही हैं। इससे उन्हें भी बड़ी उत्सुकता हुई और उन्होंने अपने पति भगवान् भूतनाथसे कहा॥ ६-७॥

वीरराघवः

तत् तथा नभसि खेचराणां प्रजल्पतां पितृयज्ञमहोत्सवं श्रुत्वा दाक्षायणी सती तत्र सर्वाभ्यः दिग्भ्यः व्रजन्तीः उपदेवानां गन्धर्वाणां वरस्त्रिय- वरस्त्रीः । “वाऽम्शसोः” (अष्टा. 6-4-80) इतीयङ् । स्वनिलयाभ्याशे स्वनिलयाभ्याशे स्वगृहसमीपे दृष्ट्वा, औत्सुक्यात् पतिमभ्यभाषतेति त्रयाणामन्वयः । कथम्भूताः स्त्रियाः दृष्ट्वा ? विमाननि यानानि गमनसाधनानि यासां, मृष्टानि उज्ज्वलानि कुण्डलानि यासां ताः ॥ ५-७ ॥

श्लोक-८

मूलम् (वचनम्)

सत्युवाच

विश्वास-प्रस्तुतिः

प्रजापतेस्ते श्वशुरस्य साम्प्रतं
निर्यापितो यज्ञमहोत्सवः किल।
वयं च तत्राभिसराम वाम ते
यद्यर्थितामी विबुधा व्रजन्ति हि॥

मूलम्

प्रजापतेस्ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञमहोत्सवः किल।
वयञ्च तत्राभिसराम वाम ते यद्यर्थिताऽमी विबुधा व्रजन्ति हि॥ ८ ॥

अनुवाद (हिन्दी)

सतीने कहा—वामदेव! सुना है, इस समय आपके ससुर दक्षप्रजापतिके यहाँ बड़ा भारी यज्ञोत्सव हो रहा है। देखिये, ये सब देवता वहीं जा रहे हैं; यदि आपकी इच्छा हो तो हम भी चलें॥ ८॥

वीरराघवः

हे वाम ! हे शम्भो ! ते तव श्वशुरस्य प्रजापतेः दक्षस्य कर्तरि षष्ठी । यज्ञरूपो महोत्सवः सम्प्रति निर्यापितः प्रवर्तितः । तत्र च विबुधाः व्रजन्ति हीत्यपारोक्ष्यं द्योत्यते । यद्यर्थिता अर्थिनोभावः अर्थिता य11दीच्छा वर्तते इत्यर्थः । तर्हितत्र वयमपि अभिसराम गच्छामः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

तस्मिन् भगिन्यो मम भर्तृभिः स्वकै-
र्ध्रुवं गमिष्यन्ति सुहृद्दिदृक्षवः।
अहं च तस्मिन् भवताभिकामये
सहोपनीतं परिबर्हमर्हितुम्॥

मूलम्

तस्मिन् भगिन्यो मम भर्तृभिस्स्वकैः ध्रुवं गमिष्यन्ति सुहृद्दिदृक्षवः।
अहञ्च तस्मिन् भवताभिकामये सहोपनीतं परिबर्हम12र्हितुम्॥ ९ ॥

अनुवाद (हिन्दी)

इस समय अपने आत्मीयोंसे मिलनेके लिये मेरी बहिनें भी अपने-अपने पतियोंके सहित वहाँ अवश्य आयेंगी। मैं भी चाहती हूँ कि आपके साथ वहाँ जाकर माता-पिताके दिये हुए गहने, कपड़े आदि उपहार स्वीकार करूँ॥ ९॥

वीरराघवः

स्वाभिप्रायं प्रकटयन्त्याह षड्भिः । तस्मिन् 13यज्ञे महोत्सवे मम भगिन्यः स्वस्वभर्तृभिः सह सुहृद्दिदृक्षवः भगिनी - मातापित्रादीन् द्रष्टुमिच्छवः आगमिष्यन्ति ध्रुवं निश्चयः, आयान्तु, किं तव, तत्र 14अहं अहमपि तस्मिन्नुत्सवे भवता साकं उपनीतं अस्मत्पित्रादिसमर्पितं परिबर्हं वस्त्राभरणाद्युपायनं 15अर्हितुं ग्रहीतुं कामये इच्छामि ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

तत्र स्वसॄर्मे ननु भर्तृसम्मिता
मातृष्वसॄः क्लिन्नधियं च मातरम्।
द्रक्ष्ये चिरोत्कण्ठमना महर्षिभि-
रुन्नीयमानं च मृडाध्वरध्वजम्॥

मूलम्

तत्र स्वसॄर्मे ननु भर्तृ16सम्मिता मातृष्वसॄः क्लिन्नधियञ्च मातरम्।
द्रक्ष्ये चिरोत्कण्ठमना महर्षिभिरुन्नीयमानञ्च मृडाध्वरध्वजम्॥ १० ॥

अनुवाद (हिन्दी)

वहाँ अपने पतियोंसे सम्मानित बहिनों, मौसियों और स्नेहार्द्रहृदया जननीको देखनेके लिये मेरा मन बहुत दिनोंसे उत्सुक है। कल्याणमय! इसके सिवा वहाँ महर्षियोंका रचा हुआ श्रेष्ठ यज्ञ भी देखनेको मिलेगा॥ १०॥

वीरराघवः

किञ्च हे मृड ! चिरौत्कण्ठ्यमनाः बहुकालमौत्सुक्याविष्टमनाः अहं मे मम, भर्तृभिः समानीताः स्वस्या भगिनीः, भर्तृसम्मता इत्यनेन स्वस्या अपि भर्त्रा अनुग्राह्यत्वं सूच्यते । तथा मातृष्वसृृः मातृभगिनीः क्लिन्नधियं मद्दर्शनालाभेन क्लिन्नधियं खिन्नचित्तां, मयि प्रेमार्द्रचिन्तां वा मातरं, महर्षिभिः उन्नीयमानमूर्ध्वं क्रियमाणं अध्वरध्वजं यूपञ्च द्रक्ष्ये ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

त्वय्येतदाश्चर्यमजात्ममायया
विनिर्मितं भाति गुणत्रयात्मकम्।
तथाप्यहं योषिदतत्त्वविच्च ते
दीना दिदृक्षे भव मे भवक्षितिम्॥

मूलम्

त्वय्येतदाश्चर्यमजात्ममायया विनिर्मितं भाति गुणत्रयात्मकम्।
तथाप्यहं योषिदतत्त्वविच्च ते दीना दिदृक्षे भव मे भवक्षितिम्॥ ११ ॥

अनुवाद (हिन्दी)

अजन्मा प्रभो! आप जगत‍्की उत्पत्तिके हेतु हैं। आपकी मायासे रचा हुआ यह परम आश्चर्यमय त्रिगुणात्मक जगत् आपहीमें भास रहा है। किंतु मैं तो स्त्री स्वभाव होनेके कारण आपके तत्त्वसे अनभिज्ञ और बहुत दीन हूँ। इसलिये इस समय अपनी जन्मभूमि देखनेको बहुत उत्सुक हो रही हूँ॥ ११॥

वीरराघवः

अहो किं तत्राध्वरे आश्चर्यं येन त्वं दिदृक्षसीत्यत्राऽऽह - त्वयीति | अजात्ममायया अजस्य कर्मायत्तजन्मादिरहितस्य आत्मनः परमात्मनः विष्णोर्मायया सङ्कल्पेन विनिर्मितं गुणत्रयात्मकं सत्त्वादिगुणत्रयात्मकप्रकृतिपरिणामात्मकं एतद्विविधविचित्रसन्निवेशं जगत् त्वयि आश्चर्यं भाति, विविधविचित्रसन्निवेशजगद्दर्शनमेव ज्ञानिनि त्वय्याश्चर्यबुद्धिजनकं न तत आश्चर्यकरं किञ्चित् तवास्तीत्यर्थः । ज्ञानिनो हि विचित्रं जगत् दृष्ट्वा आश्चर्यं प्राप्नुवन्तीति भावः । अत्र अजात्मनः तव मायया त्वय्येव विनिर्मितं जगदाश्चर्यं भाति इत्यन्वयोऽसङ्गतः, सद्ब्रह्मात्माकाशशिवेन्द्रादिशब्दानां छागपशुन्यायेन “एको ह वै नारायण आसीन्न ब्रह्मा नेशानः” (महा. उ. 1-1) इति नारायणरूपविशेषे पर्यवसानात् तस्यैव कारणत्वेन जगतः तन्मायया निर्मितत्वात् । युक्तञ्चैतत् “अपहतपाप्मा वा अहमस्मि” इति, “नारायणाद्रुद्रोऽजायत” (ना. रा. उ) इति कार्यत्वकर्मवश्यत्वादियुक्तस्य रुद्रस्य कारणत्वासम्भवात्, अन्यथा पूर्वापरविरोधात् । तथापि तवाश्चर्यकरस्यान्यस्याभावेप्यहं योषित् चाञ्चल्यस्वभावा अतत्त्ववित् परावरतत्त्वमजानती, अनेन विशेषणद्वयेन स्थिरचित्तानां तत्त्वविदाञ्च भगावद्विभूतित्वेन जगदवलोकनमेवाऽऽश्चर्यजनकमिति सूचितमिति यथोक्त एवार्थः साधीयान् । अतो दीना कृपणा सती हे भव ! मे भवक्षितिं जन्मभूमिं दिदृक्षे द्रष्टुमिच्छामि ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

पश्य प्रयान्तीरभवान्ययोषितो-
ऽप्यलंकृताः कान्तसखा वरूथशः।
यासां व्रजद‍्भिः शितिकण्ठ मण्डितं
नभो विमानैः कलहंसपाण्डुभिः॥

मूलम्

पश्य प्रयान्तीर17भवान्ययोषितो18ऽप्यलंकृताः कान्तसखा वरूथशः।
यासां व्रजद‍्भिश्शितिकण्ठ! मण्डितं नभो विमानैः कलहंसपाण्डुभिः॥ १२ ॥

अनुवाद (हिन्दी)

जन्मरहित नीलकण्ठ! देखिये—इनमें कितनी ही स्त्रियाँ तो ऐसी हैं, जिनका दक्षसे कोई सम्बन्ध भी नहीं है। फिर भी वे अपने-अपने पतियोंके सहित खूब सज-धजकर झुंड-की-झुंड वहाँ जा रही हैं। वहाँ जानेवाली इन देवांगनाओंके राजहंसके समान श्वेत विमानोंसे आकाशमण्डल कैसा सुशोभित हो रहा है॥ १२॥

वीरराघवः

दिदृक्षामेव कैमुत्यन्यायेन व्यनक्ति- पश्येति द्वाभ्याम् । हे अभव ! अन्या अपि मत्पितृसम्बन्धरहिता अपि योषितः वरूथशः सङ्घशः प्रयान्ति ताः पश्य, कथम्भूताः स्त्रियः ? कान्तः प्रियः स एव सखा यासां ताः । हे शितिकण्ठ! यासां योषितां व्रजद्भिः कलहंसवत्पाण्डुरैः शुभैः विमानैः नभस्स्थलं मण्डितं भूषितम् ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

कथं सुतायाः पितृगेहकौतुकं
निशम्य देहः सुरवर्य नेङ्गते।
अनाहुता अप्यभियन्ति सौहृदं
भर्तुर्गुरोर्देहकृतश्च केतनम्॥

मूलम्

कथं सुतायाः पितृगेहकौतुकं निशम्य देहस्सुरवर्य! नेङ्गते।
अनाहुता अप्यभि19यन्ति सौहृ20दं भर्तुर्गुरोर्देहकृतश्च केतनम्॥ १३ ॥

अनुवाद (हिन्दी)

सुरश्रेष्ठ! ऐसी अवस्थामें अपने पिताके यहाँ उत्सवका समाचार पाकर उसकी बेटीका शरीर उसमें सम्मिलित होनेके लिये क्यों न छटपटायेगा। पति, गुरु और माता-पिता आदि सुहृदोंके यहाँ तो बिना बुलाये भी जा सकते हैं॥ १३॥

वीरराघवः

हे सुरवर्य ! सुरश्रेष्ठ ! पितृगेहे कौतुकमुत्सवं निशम्य सुताया देहः कथं नेङ्गते द्रष्टुं न 21प्रचलति ? अथाप्यनाहूतास्सन्तः कथं वा गमिष्यामः, तत्राऽऽह - सौहृदं सुहृदो निकेतनं, तथा भर्त्रादीनां गृहान् अनाहूता अपि अभियन्ति गच्छन्ति सन्तः । अनाहुता इत्यत्र ह्रस्वत्वमार्षम् ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

तन्मे प्रसीदेदममर्त्य वाञ्छितं
कर्तुं भवान्कारुणिको बतार्हति।
त्वयाऽऽत्मनोऽर्धेऽहमदभ्रचक्षुषा
निरूपिता मानुगृहाण याचितः॥

मूलम्

तन्मे प्रसीदेदममर्त्यवाञ्छितं कर्तुं भवान् कारुणिको बर्ताहति।
22त्वयाऽऽत्मनोऽर्धेऽहमदभ्रचक्षुषा निरूपि23ता मानुगृहाण याचितः॥ १४ ॥

अनुवाद (हिन्दी)

अतः देव! आप मुझपर प्रसन्न हों; आपको मेरी यह इच्छा अवश्य पूर्ण करनी चाहिये; आप बड़े करुणामय हैं, तभी तो परम ज्ञानी होकर भी आपने मुझे अपने आधे अंगमें स्थान दिया है। अब मेरी इस याचनापर ध्यान देकर मुझे अनुगृहीत कीजिये॥ १४॥

वीरराघवः

उपसंहरति- तदिति । हे अमर्त्य ! देव ! तत् तस्मात् प्रसीद् । इदं मे वाञ्छितं कारुणिको भवान् कर्तुमर्हति । कारुणिकत्वमेवाऽऽह - अदभ्रचक्षुषा अनल्पदयादृष्ट्या त्वया आत्मनो देहस्यार्धे समेंऽशे अहं निरूपिता धृता । यतः अर्धनारीश्वर इति प्रख्यातोऽसि । अतो मया याचितस्त्वं मामनुगृहाण ॥ १४ ॥

श्लोक-१५

मूलम् (वचनम्)

24ऋषिरुवाच

विश्वास-प्रस्तुतिः

एवं गिरित्रः प्रिययाभिभाषितः
प्रत्यभ्यधत्त प्रहसन् सुहृत्प्रियः।
संस्मारितो मर्मभिदः कुवागिषून्
यानाह को विश्वसृजां समक्षतः॥

मूलम्

एवं गिरित्रः प्रिययाभिभाषितः प्रत्यभ्यधत्त प्रहसन् 25सुहृत्प्रियः।
संस्मारितो मर्मभिदः कुवागिषून् यानाह को विश्वसृजां समक्षतः॥ १५ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—प्रिया सतीजीके इस प्रकार प्रार्थना करनेपर अपने आत्मीयोंका प्रिय करनेवाले भगवान् शंकरको दक्षप्रजापतिके उन मर्मभेदी दुर्वचनरूप बाणोंका स्मरण हो आया, जो उन्होंने समस्त प्रजापतियोंके सामने कहे थे; तब वे हँसकर बोले॥ १५॥

वीरराघवः

एवमाभाषितो भवः प्रत्यभाषतेत्याह मैत्रेयः - एवमिति । गिरित्रः गिरिं कैलासं त्रायत इति गिरित्रो भवः । एवम् उक्तरीत्या प्रियया सत्या अभिभाषितः तस्याः प्रियः सुहृदपि मर्मच्छिदः दक्ष26स्य कुवागिषून् कुत्सिता निन्दापरा वाच एव इषवः तान् प्रति संस्मारितः स्मरणं प्रापितः । निवृत्तप्रेरणात् स्मरतेर्वाणिजन्तात् कर्तरिक्तः । संस्मरन्नित्यर्थः । बहिः प्रहसन्निव प्रत्यभ्यधत्त प्रत्यभाषत । के ते कुवागिषवः यान् स्मरन् प्रत्यभ्यधत्त इत्यत्राऽऽह - कः दक्षः विश्वसृजां प्रजापतीनां समक्षतः अपरोक्षं यानाह “अयं हि लोकपालानां यशोघ्नो निरपत्रपः” (भाग 4-2-10) इत्यादिना उक्तवान् तान् 27संस्मरन्नित्यर्थः ॥ १५ ॥

श्लोक-१६

मूलम् (वचनम्)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

त्वयोदितं शोभनमेव शोभने
अनाहुता अप्यभियन्ति बन्धुषु।
ते यद्यनुत्पादितदोषदृष्टयो
बलीयसानात्म्यमदेन मन्युना॥

मूलम्

त्वयोदितं शोभनमेव शोभने! अनाहुता अप्यभि28यन्ति बन्धुषु।
ते यद्यनुत्पादितदोषदृष्टयः बलीयसाऽना29त्म्यमदेन मन्युना॥ १६ ॥

अनुवाद (हिन्दी)

भगवान् शंकरने कहा—सुन्दरि! तुमने जो कहा कि अपने बन्धुजनके यहाँ बिना बुलाये भी जा सकते हैं, सो तो ठीक ही है; किंतु ऐसा तभी करना चाहिये, जब उनकी दृष्टि अतिशय प्रबल देहाभिमानसे उत्पन्न हुए मद और क्रोधके कारण द्वेष-दोषसे युक्त न हो गयी हो॥ १६॥

वीरराघवः

प्रिययोक्तमनूद्य प्रत्युत्तरयति भवः त्वयोदितम् इति यावदध्यायसमाप्ति । हे शोभने ! यत्त्वत्योदितमुक्तं अनाहुता अपि बन्धुषु अभियन्तीति तच्छोभनमेव सत्यमेव । किन्तु बलीयसा अनात्म्यं देहाभिमानः तत्कृतो यो मदः तेन मन्युना क्रोधेन च ते बन्धवः यदि अनुत्पादितदोषदृष्टयः - न उत्पादिता गुणेषु सत्स्वपि दोषेष्वेव दृष्टिः दर्शनं यैस्ते भवन्ति तर्हि अनाहूता अप्यभियन्तीतिशोभनमित्यर्थः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

विद्यातपोवित्तवपुर्वयःकुलैः
सतां गुणैः षड‍‍्भिरसत्तमेतरैः।
स्मृतौ हतायां भृतमानदुर्दृशः
स्तब्धा न पश्यन्ति हि धाम भूयसाम्॥

मूलम्

विद्यातपोवित्तवपुर्वयः कुलैः सतां गुणैष्षड‍‍्भिरसत्त30मेतरैः।
स्मृतौ हताया31म्भृतमानदुर्दृशः 32तथा न पश्यन्ति हि धाम भूयसाम्॥ १७ ॥

अनुवाद (हिन्दी)

विद्या, तप, धन, सुदृढ़ शरीर, युवावस्था और उच्च कुल—ये छः सत्पुरुषोंके तो गुण हैं, परन्तु नीच पुरुषोंमें ये ही अवगुण हो जाते हैं; क्योंकि इनसे उनका अभिमान बढ़ जाता है और दृष्टि दोषयुक्त हो जाती है एवं विवेक-शक्ति नष्ट हो जाती है। इसी कारण वे महापुरुषोंका प्रभाव नहीं देख पाते॥ १७॥

वीरराघवः

ननु विद्या33तप आदिसम्पन्नो दक्षः तादृशे त्वयि कथमुत्पादितदोषदृष्टिः स्यात् 34तत्राऽऽह - विद्येति । सतां साधूनां गुणैः विद्यातप आदिभिः षड्भिः असत्तमेषु इतरैर्दोषरूपतां प्राप्तैः विद्यादयः एव आश्रयभेदेन गुणादोषाश्च स्युरिति भावः । स्मृतौ हतायां विवेकज्ञाने नष्टे सति भृतमानदुर्दृशः भृतः पुष्टः मानः ‘अहं विद्वान् अहं तापसः’ इत्यादिगर्वः तेन दुष्टा 35दृक् दृष्टिर्येषां ते, भूयसां महत्तमानां तेजः तथा यथा36वस्थितं न पश्यन्ति । हीति असत्स्वेतत्प्रसिद्धिं द्योतयति ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

नैतादृशानां स्वजनव्यपेक्षया
गृहान् प्रतीयादनवस्थितात्मनाम्।
येऽभ्यागतान् वक्रधियाभिचक्षते
आरोपितभ्रूभिरमर्षणाक्षिभिः॥

मूलम्

नैतादृशानां स्वजनव्यपेक्षया गृहान् प्रतीयादनवस्थितात्मनाम्।
येऽभ्यागतान् वक्र37धियाऽभिचक्षते 38आरोपितभ्रूभिरमर्षणाक्षिभिः॥ १८ ॥

अनुवाद (हिन्दी)

इसीसे जो अपने यहाँ आये हुए पुरुषोंको कुटिल बुद्धिसे भौं चढ़ाकर रोषभरी दृष्टिसे देखते हैं, उन अव्यवस्थितचित्त लोगोंके यहाँ ‘ये हमारे बान्धव हैं’ ऐसा समझकर कभी नहीं जाना चाहिये॥ १८॥

वीरराघवः

तस्मादेतादृशानां अनवस्थितचित्तानां गृहान् स्वजनव्यपेक्षया स्वजन इति बुद्ध्या न प्रतीयात् न गच्छेत् । अनवस्थितात्मत्वमेवाऽऽह - ये, वक्रा कुटिला तया दृष्ट्या । वक्रधियेति पाठे कुटिलबुद्ध्येत्यर्थः, आरोपिता उत्तम्भिता भ्रूर्येषां, तैः अमर्षणैः साक्रोशैरक्षिभिः गृहान् प्रति अभ्यागतान् पश्यन्ति ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

तथारिभिर्न व्यथते शिलीमुखैः
शेतेऽर्दिताङ्गो हृदयेन दूयता।
स्वानां यथा वक्रधियां दुरुक्तिभि-
र्दिवानिशं तप्यति मर्मताडितः॥

मूलम्

तथारिभिर्न 39व्यथते शिलीमुखैः शे40तेऽर्दिताङ्गो हृदयेन दूयता।
स्वानां यथा वक्रधियां दुरुक्तिभिः दिवानिशं तप्यति मर्मताडितः॥ १९ ॥

अनुवाद (हिन्दी)

देवि! शत्रुओंके बाणोंसे बिंध जानेपर भी ऐसी व्यथा नहीं होती, जैसी अपने कुटिलबुद्धि स्वजनोंके कुटिल वचनोंसे होती है। क्योंकि बाणोंसे शरीर छिन्न-भिन्न हो जानेपर तो जैसे-तैसे निद्रा आ जाती है, किन्तु कुवाक्योंसे मर्मस्थान विद्ध हो जानेपर तो मनुष्य हृदयकी पीड़ासे दिन-रात बेचैन रहता है॥ १९॥

वीरराघवः

पश्यन्त्वेवमथापि सोढ़वा गन्तव्यमेव बन्धुभिस्तत्राऽऽह - तथेति । अरिभिः शत्रुभिः शिलीमुखैः बाणैः अर्दिताङ्गः भिन्नगात्रोऽपि तथा न व्यथते यतः शेते स्वपिति; यथा स्वानां वक्रधियां दुरुक्तिभिः मर्मसु ताडितः दूयता व्यथमानेन हृदयेन दिवानिशं तप्यति । दुरुक्तीनां सोढुमशक्यत्वात् न तद्गृहान् प्रति गन्तव्यमित्यर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

व्यक्तं त्वमुत्कृष्टगतेः प्रजापतेः
प्रियाऽऽत्मजानामसि सुभ्रु सम्मता।
अथापि मानं न पितुः प्रपत्स्यसे
मदाश्रयात्कः परितप्यते यतः॥

मूलम्

व्यक्तं त्वमुत्कृष्टगतेः प्रजापतेः प्रियाऽऽत्मजानामसि सुभ्रु 41मे मता।
अथापि मानं न पितुः प्रपत्स्यसे मदाश्रयात्कः परितप्यते यतः॥ २० ॥

अनुवाद (हिन्दी)

सुन्दरि! अवश्य ही मैं यह जानता हूँ कि तुम परमोन्नतिको प्राप्त हुए दक्षप्रजापतिको अपनी कन्याओंमें सबसे अधिक प्रिय हो। तथापि मेरी आश्रिता होनेके कारण तुम्हें अपने पितासे मान नहीं मिलेगा; क्योंकि वे मुझसे बहुत जलते हैं॥ २०॥

वीरराघवः

मास्तु 42त्वद्गमनमहमेका व्रजिष्यामीति चेत् मामनादृत्य गतायाः तवापि पितृकृतः पराभवः प्राणविपत्तये स्यादित्याह - व्यक्तमिति यावत्समाप्ति । हे सुभ्रु ! यद्यपि त्वमुत्कृष्टगतेः उत्कृष्टा गतिः प्राजापत्याधिकाररूपा गतिर्यस्य तस्य प्रजापतेः दक्षस्य आत्मजानां दुहितृृणां मध्ये प्रिया प्रीतिविषयासीति मे मता ज्ञाता व्यक्तं स्फुटं, तथापि मदाश्रयात् मदाश्रयणात् मत्सम्बन्धाद्धेतोः त्वं पितुः सकाशात् मानं सम्मानं न लत्स्यसे, यतः मत्सम्बन्धात् को दक्षः परितप्यते क्लिश्यति ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

पापच्यमानेन हृदाऽऽतुरेन्द्रियः
समृद्धिभिः पूरुषबुद्धिसाक्षिणाम्।
अकल्प एषामधिरोढुमञ्जसा
पदं परं द्वेष्टि यथासुरा हरिम्॥

मूलम्

43पापच्यमानेन हृदाऽऽतुरेन्द्रियः समृद्धिभिः पूरुषबुद्धिसाक्षिणाम्।
44अकल्प एषामधिरोढुमञ्जसा पदं परं द्वेष्टि यथासुरा हरिम्॥ २१ ॥

अनुवाद (हिन्दी)

जीवकी चित्तवृत्तिके साक्षी अहंकारशून्य महापुरुषोंकी समृद्धिको देखकर जिसके हृदयमें सन्ताप और इन्द्रियोंमें व्यथा होती है, वह पुरुष उनके पदको तो सुगमतासे प्राप्त कर नहीं सकता; बस, दैत्यगण जैसे श्रीहरिसे द्वेष मानते हैं, वैसे ही उनसे कुढ़ता रहता है॥ २१॥

वीरराघवः

ननु कुतस्त्वया दक्षः तिरस्कृतः ? यतोऽसौ त्वां द्वेष्टि, तत्राऽऽह - पापच्यमानेनेति । पूरुषबुद्धिसाक्षिणां पूरुषो जीवः बुद्धि महान् ते साक्षात् पश्यन्तीति तथा तेषां ब्रह्मात्मकत्वेन प्रकृतिपुरुषयाथात्म्यविदां ब्रह्मविदामिति यावत्, तेषां समृद्धिभिः पुण्यकीर्त्यादिभिः तेषां पुरुषबुद्धिसाक्षिणां पदं स्थानं ऐश्वर्यं अधिकारं वा अधिरोढुं प्राप्तुमसमर्थः । अत एव पापच्यमानेन भृशं तप्यमानेन हृदयेन आतुरेन्द्रियः दुःखितेन्द्रियः तान् परं केवलं द्वेष्टि, स्वयं मूर्खः अज्ञः दुर्भगश्च महद्भिः साम्यमलभमानः तान् केवलं द्वेष्टि यथा असुरा हरिं द्विषन्ति ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

प्रत्युद‍्गमप्रश्रयणाभिवादनं
विधीयते साधु मिथः सुमध्यमे।
प्राज्ञैः परस्मै पुरुषाय चेतसा
गुहाशयायैव न देहमानिने॥

मूलम्

प्रत्युद‍्गमप्रश्रयणाभिवादनं विधीयते साधुमिथस्सुमध्यमे!
प्राज्ञैः परस्मै पुरुषाय चेतसा गुहाशयायैव न देहमानिने॥ २२ ॥

अनुवाद (हिन्दी)

सुमध्यमे! तुम कह सकती हो कि आपने प्रजापतियोंकी सभामें उनका आदर क्यों नहीं किया। सो ये सम्मुख जाना, नम्रता दिखाना, प्रणाम करना आदि क्रियाएँ जो लोकव्यवहारमें परस्पर की जाती हैं, तत्त्वज्ञानियोंके द्वारा बहुत अच्छे ढंगसे की जाती हैं। वे अन्तर्यामीरूपसे सबके अन्तःकरणोंमें स्थित परमपुरुष वासुदेवको ही प्रणामादि करते हैं; देहाभिमानी पुरुषको नहीं करते॥ २२॥

वीरराघवः

ननु गुरुभूतो दक्षः त्वया प्रणामादिभिः असत्कृतः त्वां द्वेष्टि तत्राऽऽह - प्रत्युद्गमेति । हे सुमध्यमे ! प्राज्ञैः अदेहमानिभिः मिथः परस्परं प्रत्युद्गमप्रश्रयणाभिवादनं प्रत्युत्थानप्रणामाभिवादनं विधीयते, मनोवाक्कायैरिति शेषः । प्राज्ञाज्ञसन्निपाते तु प्राज्ञैः गुहाशयाय अन्तर्यामिणे परस्मै पुरुषायैव चेतसैव विधीयते न तु देहाभिमानिने करणत्रयेणेत्यर्थः । “प्राज्ञैः परस्परं मनसैव विधीयते परिपूर्णे तस्मिन् कायिकव्यापारायोगात् " इत्यर्थवर्णनन्तु अशोभनम् । प्राज्ञेष्वपि मिथस्तस्य करणत्रयेण “वैष्णवो वैष्णवं दृष्ट्वा दण्डवत्प्रणमेद्भुवि” (पाद्ये) इत्यादिभिः विहितत्वात् । अन्तर्याम्युद्देशेन मानसिकं प्रत्युद्गमनादिकमस्मै देहाभिमानिने दक्षाय विहितमेव मयेति भावः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

सत्त्वं विशुद्धं वसुदेवशब्दितं
यदीयते तत्र पुमानपावृतः।
सत्त्वे च तस्मिन् भगवान् वासुदेवो
ह्यधोक्षजो मे नमसा विधीयते॥

मूलम्

सत्त्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमानपावृतः।
45सत्त्वे च तस्मिन् भगवान् वासुदेवो ह्यधोक्षजो मे 46नमसा विधीयते॥ २३ ॥

अनुवाद (हिन्दी)

विशुद्ध अन्तःकरणका नाम ही ‘वसुदेव’ है, क्योंकि उसीमें भगवान् वासुदेवका अपरोक्ष अनुभव होता है। उस शुद्ध चित्तमें स्थित इन्द्रियातीत भगवान् वासुदेवको ही मैं नमस्कार किया करता हूँ॥ २३॥

वीरराघवः

ननु किं विशेषेण चेतसैव प्रणतिः विधीयते इत्युच्यते । न तु मनोवाक्कायानामन्यतमेनेत्यत्र कारणमाह - सत्त्वमिति । विशुद्धं रजस्तमोभ्यामनभिभूतं सत्त्वं सत्त्वप्रधानं चित्तं वसुदेवशब्दितं वसुदेवशब्देनोच्यते इत्यर्थः । 47तत्र विशुद्धे सत्त्वे वसुदेवशब्दप्रवृ48त्तिनिमित्तमाह - यदिति । यत् यस्मात् तत्र सत्त्वे पुमान् वासुदेवः अपावृतः अपगतमात्मावरणं यस्मात्सः, ईयते प्रतीयते प्रकाश्यते इति यावत् । “तत्र सत्त्वं निर्मलत्वात् प्रकाशकम्” (भ.गी. 14-6) इत्युक्तरीत्या वासुदेव49स्वरूप रूपादिप्रकाशकसत्त्वप्रधानत्वात् चित्तस्य द्योतमानत्वात् देवत्वं, भगवतः वासभूतत्वाच्च वसुत्वमिति वसुदेवशब्दितं सत्त्वमित्यर्थः । तस्मिंश्च सत्त्वाख्ये चित्ते अधोक्षजः अधः कृतेषु अक्षेषु इन्द्रियेषु जायते आविर्भवतीत्यधोक्षजः इन्द्रियान्तरागोचरः केवलपरिशुद्धचेतसैव ग्राह्यः भगवान् वासुदेवः, मे मया नमसा विधीयते नमस्क्रियत इत्यर्थः । अतश्चेतसैव भगवान् प्रणम्यत इति भावः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

तत्ते निरीक्ष्यो न पितापि देहकृद्
दक्षो मम द्विट् तदनुव्रताश्च ये।
यो विश्वसृग्यज्ञगतं वरोरु मा-
मनागसं दुर्वचसाकरोत्तिरः॥

मूलम्

50तत्ते निरीक्ष्यो न पितापि देहकृत् दक्षो मम द्विट् तदनुव्रताश्च ये।
यो विश्व51सृड्यज्ञगतं वरोरु मा मनागसं दुर्वचसाऽकरोत्तिरः॥ २४ ॥

अनुवाद (हिन्दी)

इसीलिये प्रिये! जिसने प्रजापतियोंके यज्ञमें, मेरेद्वारा कोई अपराध न होनेपर भी, मेरा कटुवाक्योंसे तिरस्कार किया था, वह दक्ष यद्यपि तुम्हारे शरीरको उत्पन्न करनेवाला पिता है, तो भी मेरा शत्रु होनेके कारण तुम्हें उसे अथवा उसके अनुयायियोंको देखनेका विचार भी नहीं करना चाहिये॥ २४॥

वीरराघवः

तस्मात् त्वया पितापि देहकृदपि पालकपितृत्वादिव्यावृत्त्यर्थं देहकृदित्युक्तं, मम द्विट् मद्वेषी दक्षः न निरीक्ष्यः निरीक्षितुमयोग्यः तथा तं दक्षं येऽनुव्रताः तेऽपि न निरीक्ष्याः । हे वरोरु ! यो दक्षः विश्वसृड्यज्ञगतं विश्वसृजां सत्रे गतं अनागसं निरपराधिनं मां दुर्वचसा दुरुक्त्या तिरोऽकरोत् तिरस्कृतवान् ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

यदि व्रजिष्यस्यतिहाय मद्वचो
भद्रं भवत्या न ततो भविष्यति।
सम्भावितस्य स्वजनात्पराभवो
यदा स सद्यो मरणाय कल्पते॥

मूलम्

यदि व्रजिष्यस्यतिहाय मद्वचो भद्रं भवत्या न ततो भविष्यति।
सम्भावितस्य स्वजनात्पराभवो 52यदा स सद्यो मरणाय कल्पते॥ २५ ॥

अनुवाद (हिन्दी)

यदि तुम मेरी बात न मानकर वहाँ जाओगी, तो तुम्हारे लिये अच्छा न होगा; क्योंकि जब किसी प्रतिष्ठित व्यक्तिका अपने आत्मीयजनोंके द्वारा अपमान होता है, तब वह तत्काल उनकी मृत्युका कारण हो जाता है॥ २५॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे उमारुद्रसंवादे तृतीयोऽध्यायः॥ ३ ॥

वीरराघवः

यदि मद्वचः अतिहाय अतिक्रम्य व्रजिष्यसि तर्हि भवत्याः तव भद्रं सम्मानं 53न भवति न भविष्यति प्रत्युत पराभव एव स्यात् इति भावः । बन्धुकृतः पराभवः न दुःखाय भवेदिति चेत् तत्राऽऽह - सम्भावितस्य सर्व सम्मानितस्य स्वजनात् यः पराभवः सः सद्यः मरणाय कल्पते भवति ॥ २५ ॥

इति श्रीमद्भागवते चतुर्थस्कन्धे श्री वीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां तृतीयोऽध्यायः ॥ ३ ॥


  1. M विवदमानयोः ↩︎

  2. A उक्तम् ↩︎

  3. A Omits श्वशुरस्य ↩︎ ↩︎

  4. M ष्ठो भूय एव ↩︎

  5. A,G,J च ↩︎

  6. A महर्षयः ↩︎

  7. A Omits देवाश्च ↩︎

  8. Af दाक्षायणी महादेवी पितृयज्ञमहोत्सवे ↩︎

  9. W पितृयज्ञ ↩︎

  10. M व्रजतीः ↩︎

  11. W omits इच्छा ↩︎

  12. Af मर्पितुम् ↩︎

  13. W यज्ञ ↩︎

  14. A आह ↩︎

  15. A omits अर्हितुं ↩︎

  16. W सम्मताः ↩︎

  17. M श्च ↩︎

  18. M तस्स्व ↩︎

  19. M यान्ति ↩︎

  20. M दात् ↩︎

  21. W omits प्र ↩︎

  22. Af त्वया सहार्धेहम; M त्वयाऽपि पूर्णोऽयम ↩︎

  23. M तोऽनु ↩︎

  24. V,W मैत्रेय उवाच ↩︎

  25. M सुरप्रियः ↩︎

  26. A adds मनसि ↩︎

  27. W omits सं ↩︎

  28. M यान्ति ↩︎

  29. M त्म ↩︎

  30. M मा मदैः ↩︎

  31. M अभि ↩︎

  32. A,G,J स्तब्धा; M तप्ता ↩︎

  33. A omits तप आदि ↩︎

  34. W अत आह ↩︎

  35. W omits दृक् ↩︎

  36. W omits व ↩︎

  37. W तया ↩︎

  38. W ह्या ↩︎

  39. M प्रधने ↩︎

  40. Af शेते क्षतानो ↩︎

  41. A,G,J,M सम्मता ↩︎

  42. W त्वदागमन ↩︎

  43. M तातप्य ↩︎

  44. A,G,J,M अकल्प ↩︎

  45. M सत्त्वं च यस्मिन् ↩︎

  46. M मनसा ↩︎

  47. W omits तत्र ↩︎

  48. A त्तौ ↩︎

  49. A omits रूप ↩︎

  50. M अत्वया ↩︎

  51. A,G,J,M सृग्यज्ञ ↩︎

  52. V यदाऽऽस ↩︎

  53. A omits न भवति ↩︎