०२ दक्षशापः

[द्वितीयोऽध्यायः]

भागसूचना

भगवान् शिव और दक्ष प्रजापतिका मनोमालिन्य

श्लोक-१

मूलम् (वचनम्)

विदुर उवाच

विश्वास-प्रस्तुतिः

भवे शीलवतां श्रेष्ठे दक्षो दुहितृवत्सलः।
विद्वेषमकरोत्कस्मादनादृत्यात्मजां सतीम्॥

मूलम्

भवे शीलवतां श्रेष्ठे दक्षो दुहितृवत्सलः।
विद्वेषमकरोत्कस्मात् अनादृत्याऽऽत्मजां सतीम्॥ १ ॥

अनुवाद (हिन्दी)

विदुरजीने पूछा—ब्रह्मन्! प्रजापति दक्ष तो अपनी लड़कियोंसे बहुत ही स्नेह रखते थे, फिर उन्होंने अपनी कन्या सतीका अनादर करके शीलवानोंमें सबसे श्रेष्ठ श्रीमहादेवजीसे द्वेष क्यों किया?॥ १॥

वीरराघवः

भवाय पितर्यप्रतिरूपे सति आत्मानं तत्याजेति सङ्ग्रहेणोक्तं देह1त्यागनिमित्तं त्यागं चाश्रुत्य तद्विस्तरबुभुत्सया पृच्छति भव इति त्रिभिः । शीलवतां निर्वैरत्वसमदर्शनत्वादिरूप स्वभाववतां 2मध्ये श्रेष्ठे भवे रुद्रे दुहितृषु 3वत्सलः दक्षः सतीनाम्नीमात्मजामनादृत्य कस्माद्धेतोः विद्वेषमकरोत् ? न च दुहितृजामातरौ विद्वे षार्हाविति भावः ॥ २ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम्।
आत्मारामं कथं द्वेष्टि जगतो दैवतं महत्॥

मूलम्

कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम्।
आत्मारामं कथं द्वेष्टि जगतो दैवतं महत्॥ २ ॥

अनुवाद (हिन्दी)

महादेवजी भी चराचरके गुरु, वैररहित, शान्तमूर्ति, आत्माराम और जगत‍्के परम आराध्य देव हैं। उनसे भला, कोई क्यों वैर करेगा?॥ २॥

वीरराघवः

इतश्च न भवो विद्वेषार्हः इत्याह - इति । को ब्रह्मा दक्षः चराचराणां गुरुं ज्ञानोपदेष्टारं अचराणामपि ज्ञानसम्पादन4समर्थं किमुतचराणामिति कैमु5त्यकन्यायद्योतनायाचरपदं प्रयुक्तम् । जगतः जिज्ञासोर्लौकस्य महद्दैवतं आराध्यं “रुद्रः तारकं ब्रह्म व्याचष्टे” (जाबालि. उ.) “शङ्करात् ज्ञानमन्विच्छेत्” (ब्रह्माण्ड. पु.) इति श्रुतिस्मृतिभ्यां ज्ञानार्थं जिज्ञासुभिः आराध्यमिति भावः । निर्वैरं 6तं भवं 7कथं द्वेष्टि अद्वेषीत् इत्यर्थः । निर्वैरत्वे हेतुः - शान्तविग्रहं शान्तिरेव विग्रहः यस्य शान्तिप्रचुरमित्यर्थः । आत्मनि सर्वभूतान्तरात्मनि परमपुरुषे आरामो रतिर्यस्य तं “सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत" (छान्दो. उ. 3-14-1) इति श्रुत्युक्तरीत्या शमदमादिभिः सर्वात्मकं ब्रह्मैवोपासीतेत्यर्थः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

एतदाख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च।
विद्वेषस्तु यतः प्राणांस्तत्यजे दुस्त्यजान्सती॥

मूलम्

एतदाख्याहि मे ब्रह्मन् जामातुश्श्वशुरस्य च।
विद्वेषस्तु यतः प्राणान् त8त्यजे दुस्त्यजान् सती॥ ३ ॥

अनुवाद (हिन्दी)

भगवन्! उन ससुर और दामादमें इतना विद्वेष कैसे हो गया, जिसके कारण सतीने अपने दुस्त्यज प्राणोंतककी बलि दे दी? यह आप मुझसे कहिये॥ ३॥

वीरराघवः

जामातुः भवस्य श्वशुरस्य दक्षस्य च यतो हेतोः विद्वेषोऽभवत् यतश्च विद्वेषात् दक्षस्य दुहिता सती प्राणान् तत्याज एतन्मह्यं हे ब्रह्मन् ! आख्याहि कथय ॥ ३ ॥

श्लोक-४

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

पुरा विश्वसृजां सत्रे समेताः परमर्षयः।
तथामरगणाः सर्वे सानुगा मुनयोऽग्नयः॥

मूलम्

पुरा विश्वसृजां सत्रे समेताः परमर्षयः।
9तथाऽमरगणस्सर्वे सानुगा मुनयोऽग्नयः॥ ४ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजीने कहा—विदुरजी! पहले एक बार प्रजापतियोंके यज्ञमें सब बड़े-बड़े ऋषि, देवता, मुनि और अग्नि आदि अपने-अपने अनुयायियोंके सहित एकत्र हुए थे॥ ४॥

वीरराघवः

एवमापृष्टो मैत्रेयः भवदक्षयोः 10मिथः विद्वेषनिमित्तं तन्निमित्तसतीदेहत्यागञ्च सप्रपञ्चमुपपादयिषुः औपोद्धातिकीं कथा प्रस्तौति पुरेति । विश्वसृजां मरीच्यादिप्रजापतीनां सत्रे, बहुयजमानकर्तृकः यागः सत्रं तस्मिन् परमर्षयः तथा सभृत्याः इन्द्रादयः सुरगणाः अग्नयः अन्यभिमानिन्यो देवताश्च समेताः सङ्घीभूता आसन् ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

तत्र प्रविष्टमृषयो दृष्ट्वार्कमिव रोचिषा।
भ्राजमानं वितिमिरं कुर्वन्तं तन्महत्सदः॥

मूलम्

तत्र प्रवि11ष्टमृषयः दृष्ट्वार्कमिव रोचिषा।
भ्राजमानं वितिमिरं कुर्वन्तं तन्महत्सदः॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

उदतिष्ठन् सदस्यास्ते स्वधिष्ण्येभ्यः सहाग्नयः।
ऋते विरिञ्चं शर्वं च तद‍्भासाऽऽक्षिप्तचेतसः॥

मूलम्

उदतिष्ठन् सदस्यास्ते स्वधिष्ण्येभ्यस्सहाग्नयः।
ऋते विरि12ञ्चं शर्वञ्च तद‍्भासाऽऽक्षिप्त चेतसः॥

अनुवाद (हिन्दी)

उसी समय प्रजापति दक्षने भी उस सभामें प्रवेश किया। वे अपने तेजसे सूर्यके समान प्रकाशमान थे और उस विशाल सभा-भवनका अन्धकार दूर किये देते थे। उन्हें आया देख ब्रह्माजी और महादेवजीके अतिरिक्त अग्निपर्यन्त सभी सभासद् उनके तेजसे प्रभावित होकर अपने-अपने आसनोंसे उठकर खड़े हो गये॥ ५-६॥

वीरराघवः

तत्र 13यज्ञिये देशे प्रविष्टं दक्षमिति शेषः, दृष्ट्वा चतुर्मुखं शिवञ्च विना सर्वे तस्य दक्षस्य भासा आक्षिप्तमभिभूतं तेजः येषां ते सहाग्नयः अग्न्यभिमानिदेवतासहिताः सदस्याः सदसि संस्थिताः स्वासनेभ्यः उदतिष्ठन् उत्थितवन्तः । दक्षं कथम्भूतम् ? शोचिषा देहकान्त्या आदित्यमिव भ्राजमानं महत्सदः महतीं सभां वितिमिरं यथा तथा कुर्वन्तम् ॥ ५,६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

सदसस्पतिभिर्दक्षो भगवान् साधु सत्कृतः।
अजं लोकगुरुं नत्वा निषसाद तदाज्ञया॥

मूलम्

सदसस्पतिभिर्दक्षो भगवान् साधु सत्कृतः।
14अजं लोकगुरुं नत्वा निषसाद तदाज्ञया॥ ७ ॥

अनुवाद (हिन्दी)

इस प्रकार समस्त सभासदोंसे भलीभाँति सम्मान प्राप्त करके तेजस्वी दक्ष जगत्पिता ब्रह्माजीको प्रणाम कर उनकी आज्ञासे अपने आसनपर बैठ गये॥ ७॥

वीरराघवः

ततः स भगवान् दक्षः सदसस्पतिभिः साधु यथा तथा सत्कृतः पूजितः लोकगुरुं अजं ब्रह्माणं प्रणम्य तस्याजस्याऽऽज्ञया निषसाद उपविष्टवान् ॥ ७॥

श्लोक-८

विश्वास-प्रस्तुतिः

प्राङ्निषण्णं मृडं दृष्ट्वा नामृष्यत्तदनादृतः।
उवाच वामं चक्षुर्भ्यामभिवीक्ष्य दहन्निव॥

मूलम्

प्राङ्निषण्णं मृडं दृष्ट्वा नामृष्यत्तदनादृतः।
उवाच वामं चक्षुर्भ्यां अभिवीक्ष्य दहन्निव॥ ८ ॥

अनुवाद (हिन्दी)

परन्तु महादेवजीको पहलेसे ही बैठा देख तथा उनसे अभ्युत्थानादिके रूपमें कुछ भी आदर न पाकर दक्ष उनका यह व्यवहार सहन न कर सके। उन्होंने उनकी ओर टेढ़ी नजरसे इस प्रकार देखा मानो उन्हें वे क्रोधाग्निसे जला डालेंगे। फिर कहने लगे—॥ ८॥

वीरराघवः

प्राक् स्वोपवेशात् पूर्वमेवाऽऽगत्य निषण्णमुपविष्टं मृडं शिवं दृष्ट्वा तेन मृडेन अनादृतः प्रत्युत्थानादिभिरसत्कृतः दक्षः नामृष्यत् न सेहे । वामं वक्रं यथा तथा दहन्निव चक्षुर्भ्यामभिवीक्ष्य उवाच ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

श्रूयतां ब्रह्मर्षयो मे सहदेवाः सहाग्नयः।
साधूनां ब्रुवतो वृत्तं नाज्ञानान्न च मत्सरात्॥

मूलम्

श्रूयतां ब्रह्मर्षयो मे सह15देवास्सहाग्नयः।
साधूनां ब्रुवतो वृत्तं नाज्ञानान्न च मत्सरात्॥ ९ ॥

अनुवाद (हिन्दी)

‘देवता और अग्नियोंके सहित समस्त ब्रह्मर्षिगण मेरी बात सुनें। मैं नासमझी या द्वेषवश नहीं कहता, बल्कि शिष्टाचारकी बात कहता हूँ॥ ९॥

वीरराघवः

उक्तिमेवाऽऽह - श्रूयतामित्यादिना यज्ञभागं न लभतामित्यन्तेन । हे सहाग्नयो ! महर्षयः ! साधूनां वृत्तमाचारं ब्रुवतः कथयतः मे 16मम 17वाक्यं वक्ष्यमाणं श्रूयतां युष्माभिरिति शेषः । इदं वक्ष्यमाणं वचः अज्ञानात् मत्सराच्च न कथ्यत इत्याह अज्ञानादिति । अज्ञानात् मत्सराच्च न कथयिष्यामीत्यर्थः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

अयं तु लोकपालानां यशोघ्नो निरपत्रपः।
सद‍्भिराचरितः पन्था येन स्तब्धेन दूषितः॥

मूलम्

अयं तु लोकपालानां यशोघ्नो निरपत्रपः।
सद‍्भिराचरितः पन्थाः येन स्तब्धेन दूषितः॥ १० ॥

अनुवाद (हिन्दी)

यह निर्लज्ज महादेव समस्त लोकपालोंकी पवित्र कीर्तिको धूलमें मिला रहा है। देखिये, इस घमण्डीने सत्पुरुषोंके आचरणको लांछित एवं मटियामेट कर दिया है॥ १०॥

वीरराघवः

अयं रुद्रः नाम्नापि निर्देष्टुम् असहमानोऽयमिति सर्वनाम्ना निर्दिष्टवान् । एवमुत्तरत्रापि लोकपालानां यशोनाशकः निरपत्रपः लज्जारहितः 18स्तब्धेन विहितधर्मपरित्यागिना मूर्खेण वा येन रुद्रेण सद्भिः आचरितः अनुष्ठितः पन्थाः वैदिकाचारः दूषितः दोषं प्रापितः । विनाशित इति यावत् ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

एष मे शिष्यतां प्राप्तो यन्मे दुहितुरग्रहीत्।
पाणिं विप्राग्निमुखतः सावित्र्या इव साधुवत्॥

मूलम्

एष मे शिष्यतां प्राप्तो यन्मे दुहितुरग्रहीत्।
पाणिं विप्राग्निमुखतः सावित्र्या इव साधुवत्॥ ११ ॥

वीरराघवः

स्तब्धतामेव प्रपञ्चयति - एष इति द्वाभ्याम् । एषः रुद्रः यत् यस्मात् मे मम शिष्यतां उपगतः मे दुहितुः सत्याः पाणिं विप्राग्निसाक्षिकं साधुवदग्रहीत्, साधुवदिति वतिप्रत्ययेन वस्तुतोऽसाधुरिति व्यञ्जितम् ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

गृहीत्वा मृगशावाक्ष्याः पाणिं मर्कटलोचनः।
प्रत्युत्थानाभिवादार्हे वाचाप्यकृत नोचितम्॥

मूलम्

गृहीत्वा मृगशाबाक्ष्याः पाणिं 19मर्कटलोचनः।
प्रत्युत्थानाभिवादार्हे वाचाप्यकृत नोचितम्॥ १२ ॥

अनुवाद (हिन्दी)

बन्दरके-से नेत्रवाले इसने सत्पुरुषोंके समान मेरी सावित्री-सरीखी मृगनयनी पवित्र कन्याका अग्नि और ब्राह्मणोंके सामने पाणिग्रहण किया था, इसलिये यह एक प्रकार मेरे पुत्रके समान हो गया है। उचित तो यह था कि यह उठकर मेरा स्वागत करता, मुझे प्रणाम करता; परंतु इसने वाणीसे भी मेरा सत्कार नहीं किया॥ ११-१२॥

वीरराघवः

मर्कटस्येव लोचने यस्य सोऽयं रुद्रः मृगशाबस्य हरिणबालकस्य अक्षिणीव अक्षिणी यस्यास्तस्याः सत्याः पाणिं गृहीत्वा ऊढ्वा प्रत्युत्थानाभिवादनादियोग्ये मयि वाङ्मात्रेणापि उचितं सत्कारं नाकृत न कृतवान् ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

लुप्तक्रियायाशुचये मानिने भिन्नसेतवे।
अनिच्छन्नप्यदां बालां शूद्रायेवोशतीं गिरम्॥

मूलम्

लुप्तक्रियायाशुचये मानिने भिन्नसेतवे।
अनिच्छन्नप्यदां बालां शूद्रायेवोशतीं गिरम्॥ १३ ॥

अनुवाद (हिन्दी)

हाय! जिस प्रकार शूद्रको कोई वेद पढ़ा दे, उसी प्रकार मैंने इच्छा न होते हुए भी भावीवश इसको अपनी सुकुमारी कन्या दे दी! इसने सत्कर्मका लोप कर दिया, यह सदा अपवित्र रहता है, बड़ा घमण्डी है और धर्मकी मर्यादाको तोड़ रहा है॥ १३॥

वीरराघवः

अनर्हाय कन्यां दत्तवानहं इत्यनुतप्यमान आह - लुप्तक्रियायेति सार्धैश्चतुर्भिः । लुप्तक्रियाय लुप्ता क्रिया सदाचारो येन अत एव अशुचये मानिने दुरहङ्कारिणे भिन्नसेतवे भिन्नः भ्रंशितः सेतुः धर्ममर्यादा येन तस्मै अनिच्छन्नपि दातुमिति शेषः, अहं बालां कन्यामदां दत्तवान्; यथा शूद्राय उशतीं निर्दुष्टां वेदलक्षणां गिरं तथेत्यर्थः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

प्रेतावासेषु घोरेषु प्रेतैर्भूतगणैर्वृतः।
अटत्युन्मत्तवन्नग्नो व्युप्तकेशो हसन् रुदन्॥

मूलम्

प्रेतावासेषु 20यो घोरैः 21प्रेतैर्भूतगणैर्वृतः।
अटत्युन्मत्तवन्नग्नो व्युप्तकेशो हसन् रुदन्॥ १४ ॥

अनुवाद (हिन्दी)

यह प्रेतोंके निवासस्थान भयंकर श्मशानोंमें भूत-प्रेतोंको साथ लिये घूमता रहता है। पूरे पागलकी तरह सिरके बाल बिखेरे नंग-धड़ंग भटकता है, कभी हँसता है, कभी रोता है॥ १४॥

वीरराघवः

प्रेतावासेषु श्मशानेषु घौरैः विकृतैः 22प्रेतैः भूतगणैश्च वृतः 23वेष्टितः नग्नः विवसनः, व्युप्तकेशः विकीर्णकेशः, उन्मत्त इव हसन् रुदंश्च अटति पर्यटति ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

चिताभस्मकृतस्नानः प्रेतस्रङ्न्रस्थिभूषणः।
शिवापदेशो ह्यशिवो मत्तो मत्तजनप्रियः।
पतिः प्रमथभूतानां तमोमात्रात्मकात्मनाम्॥

मूलम्

चिताभस्मकृतस्नानः 24प्रेतस्रङ्न्रस्थिभूषणः।
शिवापदेशो ह्यशिवो मत्तो मत्तजनप्रियः।
पतिः प्रमथभूतानां तमोमात्रात्मकात्मनाम्॥ १५ ॥

अनुवाद (हिन्दी)

यह सारे शरीरपर चिताकी अपवित्र भस्म लपेटे रहता है, गलेमें भूतोंके पहननेयोग्य नरमुण्डोंकी माला और सारे शरीरमें हड्डियोंके गहने पहने रहता है। यह बस, नामभरका ही शिव है, वास्तवमें है पूरा अशिव—अमंगलरूप। जैसे यह स्वयं मतवाला है, वैसे ही इसे मतवाले ही प्यारे लगते हैं। भूत-प्रेत-प्रमथ आदि निरे तमोगुणी स्वभाववाले जीवोंका यह नेता है॥ १५॥

वीरराघवः

चिताभस्मना श्मशानभस्मना कृतं स्नानं येन, प्रेतानां स्रजः माल्यानि यस्य सः, न्रस्थिभूषणः नृणामस्थीनि भूषणानि यस्य सः, स्वयमशिवः अमङ्गलोऽपि शिवापदेशः शिव इति व्यवहारमात्रं यस्य, स्वयं मत्तः मत्तानां जनानां प्रियश्च, तमोमात्राऽऽत्मकः केवलतमोरूपः आत्मा स्वभावो येषां तेषां प्रमथभूतानां प्रमथाख्यभूतविशेषाणां पतिः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

तस्मा उन्मादनाथाय नष्टशौचाय दुर्हृदे।
दत्ता बत मया साध्वी चोदिते परमेष्ठिना॥

मूलम्

तस्मा 25उन्मादनाथाय नष्टशौचाय दुर्हृदे।
दत्ता बत मया साध्वी 26चोदिते परमेष्ठि27ना॥ १६ ॥

अनुवाद (हिन्दी)

अरे! मैंने केवल ब्रह्माजीके बहकावेमें आकर ऐसे भूतोंके सरदार, आचारहीन और दुष्ट स्वभाववालेको अपनी भोली-भाली बेटी ब्याह दी’॥ १६॥

वीरराघवः

तस्मै उन्मादानां भूतविशेषाणां नाथाय दुर्हृदे दृष्टचित्ताय नष्टशौचाय आचारहीनाय साध्वी सती कन्या मया दत्ता । परमेष्ठिना चोदितः आदिष्टोऽहं दत्तवानित्यध्याहारः, चोदित इत्यार्षत्वात् व्यत्ययेन तृतीयार्थे प्रथमा वा । बतेति खेदे । केचिदत्र लुप्तक्रियायाशुचये इत्यादिग्रन्थं रुद्रनिन्दापरं यथाश्रुतं व्याख्याय वास्तवस्त्वयमर्थः इत्युपक्रम्य लुप्ता क्रिया यस्मिन् परब्रह्मरूपत्वात् अत एव न शुचिः यस्मात् अमानिने अभिन्नसेतवे इति च च्छेदः । तस्य परमेश्वरस्य मदीया मानुषी कन्या कथं योग्या स्यादिति लज्जया दातुमनिच्छन्नपि तत्सम्बन्धलोभेन दत्तवान् । शूद्राय इति अनर्हत्वमात्रे दृष्टान्तः - न हीनत्वे; अ28न्यथा पूर्वापरस्वग्रन्थविरोधापत्तेः । एतदुक्तं भवति - यथा कश्चित् शूद्राय वेदमर्थलोभेन ददाति तद्वदिति । प्रेतावासेष्वित्यादिसर्वं विडम्बनमात्रमिति स्वयमेवाऽऽह - उन्मत्तवदिति । अन्यथा उन्मत्त इत्येवावक्ष्यत् । अशिवः नास्ति शिवो यस्मात् । अमत्तः, अमत्तजनप्रियः इति च च्छेदः, पतिः प्रमथभूतानामिति भक्तवात्सल्यमाह - तामसा29नामपि दोष30मशेषमपनीय पाति 31इति पतिः । नष्टानामपि शौचं शुद्धिः यस्मात् दुष्टेष्वपि एते मया अनुकम्प्या इति हृत् मनः यस्य स दुर्हृत् तस्मै । बत इति हर्षे" इति रुद्रस्य प्रशंसापरत्वेन व्याचक्षते । तत्रायं वास्तवोऽर्थः किं दक्षस्याभिप्रेतः ? उत एतत्पुराणकर्तुः ? उतान्यस्य त्वादृशस्य कस्यचित् ? नाद्यः - “साधूनां ब्रुवतो वृत्तं नाज्ञानात् न च मत्सरात्” (भाग 4-2-9) इति वास्तविकत्वमुपक्रम्य “लोकपालानां यशोघ्नो निरपत्रपः”, (भाग. 4.2.10) “येन स्तब्धेन दूषितः” (भाग. 4-2-10) “एष मे शिष्यतां प्राप्तः” (भाग 4-2-11) इत्यादिना निन्दयतोऽभिप्रेतत्वासम्भवात्, निन्दायामेव तस्य तात्पर्याति शयावगमात् । अत एव हि “दक्षो गिरित्राय विसृज्यशापं तस्माद्विनिष्क्रम्य विवृद्धमन्युः, जगाम” (भाग 4-2-19) इति निन्दापूर्वकशापकरणत्वविवृद्धक्रोधत्वविनिष्क्रमणादयः वक्ष्यमाणाः उपपन्नाः । न द्वितीयः- वेदान्तार्थोपबृंहणरूपत्वादस्य पुराणस्य । वेदान्तेषु च “अनपहतपाप्मा वा अहमस्मि”, “नारायणाद्रुद्रो जायते” (ना.रा.उ) इत्यादिषु कर्मवश्यत्व - कार्यत्वादिश्रवणात् तद्विरुद्धार्थानामत्र निबद्धमयुक्तत्वेन एतत्पुराणकर्त्रभिप्रेतत्वासम्भवात् । अत एव हि “सद्योऽजायततन्मन्युः कुमारो नीललोहितः । स वै रुरोद देवानां पूर्वजो भगवान् भवः । नामानि कुरु मे धातः । स्थानानि च जगद्गुरो !” (भाग 3-12-7,8) इति वेदान्तार्थानुसारेणैव कार्यत्वकर्मवश्यत्वचर्तुर्मुखकृतनामस्थानादिमत्वमुपबृंहितम् । क्वचिन्तिमूर्त्यैक्यादिकं प्रतीयमानं प्रतर्दन न्यायेनान्यथाप्युपपन्नमिति पूर्वमेव प्रतिपादितम् । न तृतीयः आग्रहमूलकत्वात् । निन्दापरग्रन्थस्य यथाकथञ्चिद्विपरीतार्थपर्यवसानकरणे सर्वत्राप्येवमेव स्यादिति स्तुतिनिन्दयोः व्यवस्थानुपपत्तेश्च । यदप्युक्तं - लुप्ताः क्रिया यस्मिन् परब्रह्म32रूपत्वादिति तदयुक्तं परब्रह्मत्वेपि रामकृष्णाद्यवतारेषु लुप्तक्रियात्वादर्शनेन हेतोः व्यभिचारात् । अमानिने अभिन्नसेतवे इति पदच्छेद इत्यप्ययुक्तम् - “सद्भिराचरितः पन्थाः येनस्तब्धेन दूषितः” (भाग 4-2-10) इति “यज्ञ भागं न लभतां देवैर्देवगणाधम !” (भाग 4-2-18) इति पूर्वोत्तरव्याघातात् । तस्य परमेश्वरस्य मदीया मानुषी कन्या इत्याद्यप्ययुक्तं, भवदक्षयोरुभयोरपि चतुर्मुखात् प्रसूतत्वेव दक्षकन्यायाः मानुषीत्वासम्भवात् । “मनोर्जातावञ्यतौ षुक् च” (अष्टा. 4-1-61) इति हि मानुषशब्दो व्युत्पादितः । तामसा33नामपि दोषमपनीय पातीत्याद्यपि मन्दम्- “तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभान् आसुरीष्वेव योनिषु । आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ! ततो यान्त्यधमां गतिम्” (भ.गी. 16-19,20) इति तामसानां निग्राह्यत्वगानात् । तस्मात् यथोक्तएवार्थः ॥ १६ ॥

श्लोक-१७

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

विनिन्द्यैवं स गिरिशमप्रतीपमवस्थितम्।
दक्षोऽथाप उपस्पृश्य क्रुद्धः शप्तुं प्रचक्रमे॥

मूलम्

विनिन्द्यैवं स गिरिशमप्रतीपमवस्थितम्।
34दक्षोऽथाप उपस्पृश्य क्रुद्धः शप्तुं प्रचक्रमे॥ १७ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! दक्षने इस प्रकार महादेवजीको बहुत कुछ बुरा-भला कहा; तथापि उन्होंने इसका कोई प्रतीकार नहीं किया, वे पूर्ववत् निश्चलभावसे बैठे रहे। इससे दक्षके क्रोधका पारा और भी ऊँचा चढ़ गया और वे जल हाथमें लेकर उन्हें शाप देनेको तैयार हो गये॥ १७॥

वीरराघवः

सः दक्षः अप्रतीपं अप्रतिक्रियं उदासीनमवस्थितं आसीनं गिरिशं एवं उक्तविधया विनिन्द्य अथ अप उपस्पृश्य आचम्य इत्यर्थः । क्रुद्धः शप्तुं प्रचक्रमे उपक्रान्तवान् ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

अयं तु देवयजन इन्द्रोपेन्द्रादिभिर्भवः।
सह भागं न लभतां देवैर्देवगणाधमः॥

मूलम्

अयं तु देवयजन इन्द्रोपेन्द्रादिभिर्भवः।
35सह भागं न लभतां देवैर्देवगणाधमः॥ १८ ॥

अनुवाद (हिन्दी)

दक्षने कहा, ‘यह महादेव देवताओंमें बड़ा ही अधम है। अबसे इसे इन्द्र-उपेन्द्र आदि देवताओंके साथ यज्ञका भाग न मिले’॥ १८॥

वीरराघवः

अयं भवः रुद्रः तुः हेतौ । यतः देवगणाधमः सर्वेभ्यः देवेभ्यः अधमः ततः इन्द्रादिभिर्देवैस्सह देवयजने देवोद्देश्यकयागे यज्ञभागं 36यज्ञीयभागं न लभतां न प्राप्नुयात् ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

निषिध्यमानः स सदस्यमुख्यै-
र्दक्षो गिरित्राय विसृज्य शापम्।
तस्माद्विनिष्क्रम्य विवृद्धमन्यु-
र्जगाम कौरव्य निजं निकेतनम्॥

मूलम्

निषिध्यमानस्स सदस्यमुख्यैः दक्षो 37गिरित्राय विसृज्य शापम्।
तस्माद्विनिष्क्रम्य विवृद्धमन्युः जगाम कौरव्य निजं निकेतनम्॥ १९ ॥

अनुवाद (हिन्दी)

उपस्थित मुख्य-मुख्य सभासदोंने उन्हें बहुत मना किया, परन्तु उन्होंने किसीकी न सुनी; महादेवजीको शाप दे ही दिया। फिर वे अत्यन्त क्रोधित हो उस सभासे निकलकर अपने घर चले गये॥ १९॥

वीरराघवः

हे कौरव्य ! विदुर ! सः दक्षः सदस्यमुख्यैः सभ्यश्रेष्ठैः निषिध्यमानः निवार्यमाणोऽपि विवृद्धः मन्यु क्रोधः यस्य सः, गिरित्राय रुद्राय शापं यज्ञभागानर्हतारूपं विसृज्य तस्मात् सत्रदेशात् बहिः 38विनिर्गत्य स्वीयं निकेतनं गृहं प्रति जगाम ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

विज्ञाय शापं गिरिशानुगाग्रणी-
र्नन्दीश्वरो रोषकषायदूषितः।
दक्षाय शापं विससर्ज दारुणं
ये चान्वमोदंस्तदवाच्यतां द्विजाः॥

मूलम्

विज्ञाय शापं गिरिशानुगाग्रणीः नन्दीश्वरो रोषकषाय39दूषितः।
दक्षाय शापं विससर्ज दारुणं ये चान्वमोदंस्तदवाच्यतां द्विजाः॥ २० ॥

अनुवाद (हिन्दी)

जब श्रीशंकरजीके अनुयायियोंमें अग्रगण्य नन्दीश्वरको मालूम हुआ कि दक्षने शाप दिया है, तो वे क्रोधसे तमतमा उठे और उन्होंने दक्ष तथा उन ब्राह्मणोंको, जिन्होंने दक्षके दुर्वचनोंका अनुमोदन किया था, बड़ा भयंकर शाप दिया॥ २०॥

वीरराघवः

गिरिशानुगानां रुद्रपार्षदानां अग्रणीर्मुख्यः नन्दीश्वरः दक्षविसृष्टं शापं ज्ञात्वा रोष एव कषायः तेन रूषितः आरक्तनेत्र इत्यर्थः । 40दक्षाय दारुणं शापं विससर्ज40 । तथा तस्य रुद्रस्य अवाच्यतां वचनानर्हतां विनिन्द्यतां ये च सदस्याः द्विजाः अन्वमोदन् अभ्यनन्दन् तेभ्यश्च शापं विससर्जेत्यर्थः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि।
द्रुह्यत्यज्ञः पृथग्दृष्टिस्तत्त्वतो विमुखो भवेत्॥

मूलम्

य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि।
द्रुह्यत्यज्ञः पृथग्दृष्टिस्तत्त्वतो विमुखो भवेत्॥ २१ ॥

अनुवाद (हिन्दी)

वे बोले—‘जो इस मरणधर्मा शरीरमें ही अभिमान करके किसीसे भी द्रोह न करनेवाले भगवान् शंकरसे द्वेष करता है, वह भेदबुद्धिवाला मूर्ख दक्ष, तत्त्वज्ञानसे विमुख ही रहे॥ २१॥

वीरराघवः

तत्र दक्षं शपति सार्धैस्त्रिभिः । यो दक्षः अज्ञः देहादिविलक्षणाऽऽत्मज्ञानरहितः अत एव पृथग्दृष्टिः अब्रह्मात्मक स्वतन्त्रवस्तुदर्शी अप्रतिहि प्रतिद्रोहमकुर्वति भगवति भगवदंशावताररूपे भवे मर्त्यमुद्दिश्य मरणादि धर्मभाजमुद्दिश्य केवलनिकृष्टं ज्ञात्वेत्यर्थः । द्रुह्यति अपकरोति । एतत् एतस्मात्कारणात् एतमिति पाठे एतं भवं मर्त्यत्वेन ज्ञात्वेत्यर्थः । स दक्षः तत्त्वतः प्रकृतिपुरुषेश्वरयाथा41र्थ्यात् विमुखः पराङ्मुखः भवेत् तत्त्वत्रयज्ञानरहितः भवेदित्यर्थः । अयं प्रथमः शापः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया।
कर्मतन्त्रं वितनुते वेदवादविपन्नधीः॥

मूलम्

गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया।
कर्मतन्त्रं वितनु42तां वेदवादविपन्नधीः॥ २२ ॥

वीरराघवः

एवं तत्त्ववैमुख्यरूपं शापं विसृज्य तत्कार्यरूपमतात्त्विकलोककर्माभिरुचिरूपं शापं विसृजति - गृहेष्विति । कूटधर्मेषु अविचाल्यानि कर्माणि येषु, प्राकृतगुण43सङ्गात् दुर्नि44वारकर्मसु इति यावत् गृहेषु ग्राम्यसुखेच्छया सांसारिकवैषयिकसुखेच्छया सक्तः अत एव वेदवादैः अल्पास्थिरफलसाधनानि कर्माणि अनन्तस्थिरफलसाधनत्वेन प्ररोचयद्भिः “अपाम सोमममृता अभूम” (अथ. शिखा उ. 3-2) “अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति” (आप.श्रौ.सू. 8-1-1) इत्यादिभिरर्थवादैः विपन्ना विनष्टा धीः 45बुद्धिर्यस्य सः, कर्मतन्त्रं कर्मकलापं वितनुतां अल्पास्थिरफलसाधनकर्माणि कुर्यादित्यर्थः । अयं द्वितीयश्शापः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगतिः पशुः।
स्त्रीकामः सोऽस्त्वतितरां दक्षो बस्तमुखोऽचिरात्॥

मूलम्

बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगतिः पशुः।
स्त्रीकामः सोऽस्त्व46तितरां दक्षो बस्तमुखोऽचिरात्॥ २३ ॥

अनुवाद (हिन्दी)

यह ‘चातुर्मास्य यज्ञ करनेवालेको अक्षय पुण्य प्राप्त होता है’ आदि अर्थवादरूप वेदवाक्योंसे मोहित एवं विवेकभ्रष्ट होकर विषयसुखकी इच्छासे कपटधर्ममय गृहस्थाश्रममें आसक्त रहकर कर्मकाण्डमें ही लगा रहता है। इसकी बुद्धि देहादिमें आत्मभावका चिन्तन करनेवाली है; उसके द्वारा इसने आत्मस्वरूपको भुला दिया है; यह साक्षात् पशुके ही समान है, अतः अत्यन्त स्त्री-लम्पट हो और शीघ्र ही इसका मुँह बकरेका हो जाय॥ २२-२३॥

वीरराघवः

परो देहादिः तमेवात्मत्वेनाभिध्यातुं शीलमस्यास्तया बुद्ध्या विस्मृता आत्मगतिः जीवात्मपरमात्मयाथा47र्थ्यावगतिर्येन अत एव पशुः पशुतुल्यः अत एव अतितरां नितरां स्त्रीकामः सः दक्षः अचिरात् आशु बस्तमुखः बस्तस्य मेषस्य मुखमिव मुखं यस्य स अस्तु भवेत् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

विद्याबुद्धिरविद्यायां कर्ममय्यामसौ जडः।
संसरन्त्विह ये चामुमनु शर्वावमानिनम्॥

मूलम्

विद्याबुद्धिरविद्यायां कर्ममय्या48मसौ जडः।
संसरन्त्विह ये 49चेमुमनु शर्वावमानिनम्॥ २४ ॥

अनुवाद (हिन्दी)

यह मूर्ख कर्ममयी अविद्याको ही विद्या समझता है; इसलिये यह और जो लोग भगवान् शङ्करका अपमान करनेवाले इस दुष्टके पीछे-पीछे चलनेवाले हैं, वे सभी जन्म-मरणरूप संसारचक्रमें पड़े रहें॥ २४॥

वीरराघवः

तथा कर्ममय्यां कर्मात्मिकायां अविद्यायां इयमेव विद्येति तत्त्वविद्येति बुद्धिर्यस्य अत एवासौ दक्षः अजः अजतुल्यः पशुप्रायः अस्तु स्यादिति तृतीयश्शापः । अथ रुद्रावमानिनो दक्षानुकूलान् द्विजान् शपति संसरन्त्विति सार्धद्वयेन । शर्वं रुद्रं अवमन्यत इति शर्वावमानी तं, 50इमं दक्षमनुसृज्य ये च दक्षकृतशापाभिनन्दिनः इत्यर्थः । ते इहलोके संसरन्तु 51जन्मजरामरणादिभाजो भवन्तु । अयं प्रथमश्शापः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

गिरः श्रुतायाः पुष्पिण्या मधुगन्धेन भूरिणा।
मथ्ना चोन्मथितात्मानः सम्मुह्यन्तु हरद्विषः॥

मूलम्

52गिरश्श्रुतायाः पुष्पिण्या मधुगन्धेन भूरिणा।
मथ्ना चोन्मथितात्मानः सम्मुह्यन्तु हरद्विषः॥ २५ ॥

अनुवाद (हिन्दी)

वेदवाणीरूप लता फलश्रुतिरूप पुष्पोंसे सुशोभित है, उसके कर्मफलरूप मनमोहक गन्धसे इनके चित्त क्षुब्ध हो रहे हैं। इससे ये शंकरद्रोही कर्मोंके जालमें ही फँसे रहें॥ २५॥

वीरराघवः

ये हरद्विषः ते पुष्पिण्याः पुष्पमात्रफलायाः आपातरमणीयायाः इत्यर्थः । यद्वा पुष्पवत् मनः क्षोभकत्वात् अर्थवादाः पुष्पशब्देन विवक्षिताः पुष्पिण्याः तद्बहुलायाः इत्यर्थः । अथवा पुष्पगन्धवत् क्षणमात्रोपभोग्यस्वर्गादिसुखप्रकाशिकायाः श्रुतायाः वेदपूर्वभागरूपायाः 53गिरः इत्यर्थ: । “यामिमां पुष्पितां वाचम्” - (भ.गी. 2-42) इत्यादिवत् मथ्ना मनः क्षोभकेण भूरिणा मधुगन्धेन मधुगन्धतुल्येन स्वर्गादिसुखप्रकाशकेन उन्मथितः क्षोभितः आत्मा मनः येषां ते हरद्विषः सम्मुह्यन्तु मोहं प्राप्नुवन्तु । नित्यानित्य धर्माधर्मादिषु सर्वत्र विपरीतज्ञाना भवन्त्विति द्वितीयश्शापः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

सर्वभक्षा द्विजा वृत्त्यै धृतविद्यातपोव्रताः।
वित्तदेहेन्द्रियारामा याचका विचरन्त्विह॥

मूलम्

सर्वभक्षा द्विजा वृत्त्यै धृतविद्यातपोव्रताः।
वित्तदेहेन्द्रियारामा याचका विचरन्त्विह॥ २६ ॥

अनुवाद (हिन्दी)

ये ब्राह्मणलोग भक्ष्याभक्ष्यके विचारको छोड़कर केवल पेट पालनेके लिये ही विद्या, तप और व्रतादिका आश्रय लें तथा धन, शरीर और इन्द्रियोंके सुखको ही सुख मानकर—उन्हींके गुलाम बनकर दुनियामें भीख माँगते भटका करें’॥ २६॥

वीरराघवः

सर्वभक्षाः सर्वं अविहिताप्रतिषिद्धनिषिद्धं भक्षं भक्ष्यं येषां ते हरद्विषः द्विजा वृत्त्यै केवलशरीरापत्यकलत्रादिपोषणायैव धृतानि विद्यातपोव्रतानि यैस्ते वित्तदेहादिष्वेवऽऽरामः रतिः येषां ते याचकास्सन्तः विचरन्त्विति तृतीयश्शापः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

तस्यैवं ददतः शापं श्रुत्वा द्विजकुलाय वै।
भृगुः प्रत्यसृजच्छापं ब्रह्मदण्डं दुरत्ययम्॥

मूलम्

तस्यैवं 54वदतश्शापं श्रुत्वा 55ब्रह्मकुलाय वै।
भृगुः प्रत्यसृजच्छापं ब्रह्मदण्डं दुरत्ययम्॥ २७ ॥

अनुवाद (हिन्दी)

नन्दीश्वरके मुखसे इस प्रकार ब्राह्मणकुलके लिये शाप सुनकर उसके बदलेमें भृगुजीने यह दुस्तर शापरूप ब्रह्मदण्ड दिया॥ २७॥

वीरराघवः

एवं शपन्तं नन्दीश्वरमालो56क्य भृगुः प्रत्यशपदित्याह मैत्रेयः । तस्य नन्दीश्वरस्य ब्रह्मकुला57य एवमुक्तरीत्या शापं ब्रुक्तः सतः तं शापं श्रुत्वा भृगुर्दुरत्ययं दुरतिक्रमं ब्रह्मदण्डं ब्रह्मदण्डकल्पं शापं प्रत्यसृजत् प्रत्यदात् ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

भवव्रतधरा ये च ये च तान् समनुव्रताः।
पाखण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिनः॥

मूलम्

भवव्रतधरा ये च 58ये च तान्समनुव्रताः।
पा59षण्डिनस्ते 60भवेयुः सच्छास्त्रपरिपन्थिनः॥ २८ ॥

अनुवाद (हिन्दी)

‘जो लोग शिवभक्त हैं तथा जो उन भक्तोंके अनुयायी हैं, वे सत्-शास्त्रोंके विरुद्ध आचरण करनेवाले और पाखण्डी हों॥ २८॥

वीरराघवः

तमेवाऽऽह - भवेति । भवस्य रुद्रस्य व्रतं पिशाचचर्यादिकं तद्ये धरन्ति ये च भवव्रतधराननुव्रताः अनुसरन्तः ते सर्वे पाषण्डिनः वेदविरुद्धकर्मनिष्ठाः सच्छास्त्राणां भगवच्छास्त्राणां पाञ्चरात्रादीनां परिपन्थिनः प्रतिकूलाः भवेयुः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

नष्टशौचा मूढधियो जटाभस्मास्थिधारिणः।
विशन्तु शिवदीक्षायां यत्र दैवं सुरासवम्॥

मूलम्

नष्टशौचा मूढधियः जटाभस्मास्थिधारिणः।
विशन्तु शिवदीक्षायां यत्र दैवं सुरासवम्॥ २९ ॥

अनुवाद (हिन्दी)

जो लोग शौचाचारविहीन, मन्दबुद्धि तथा जटा, राख और हड्डियोंको धारण करनेवाले हैं—वे ही शैव-सम्प्रदायमें दीक्षित हों, जिसमें सुरा और आसव ही देवताओंके समान आदरणीय हैं॥ २९॥

वीरराघवः

पाषण्डित्वमेव विशदयति - नष्टशौचा इति । नष्टशौचाः दुराचाराः मूढधियः परावरतत्त्वज्ञानरहिताः जटादिधारिणः शिवदीक्षायां “मुद्रिकाषट्कतत्त्वज्ञः परमुद्राविशारदः । भगासनस्थ61स्तन्मानं ध्यात्वा निर्वाणमृच्छति” इत्याद्युक्तविधशिवदीक्षायां प्रविशन्तु । यत्र दीक्षायां सुरा पैष्टी आसवं तालादिसम्भवं मद्यं द्वन्द्वैक्यात् क्लीबत्वं, तद्दैवं देवमिव पूज्यं सुराकुम्भस्थापनतत्स्थदेवपूजादेः शैवागमादिष्वभिधानादेवमुक्तम् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

ब्रह्म च ब्राह्मणांश्चैव यद्यूयं परिनिन्दथ।
सेतुं विधारणं पुंसामतः पाखण्डमाश्रिता॥

मूलम्

ब्रह्म च ब्राह्मणांश्चैव 62यद्यूयं परिनिन्दथ।
सेतुं 63विधारणं पुंसामतः पा64षण्डमाश्रिताः॥ ३० ॥

अनुवाद (हिन्दी)

अरे! तुमलोग जो धर्ममर्यादाके संस्थापक एवं वर्णाश्रमियोंके रक्षक वेद और ब्राह्मणोंकी निन्दा करते हो, इससे मालूम होता है तुमने पाखण्डका आश्रय ले रखा है॥ ३०॥

वीरराघवः

भवतामयं शापः अनुरूपः एवेति वदन् तमेव 65द्रढयति - ब्रह्म चेति । यतो यूयं पाषण्डं 66पाषण्डधर्ममाश्रिताः यत् यस्माच्च पुंसां वर्णाश्रमवतां सेतुं स्वर्गापवर्गसाधनयज्ञोपासनादिप्रकाशनेन पुरुषार्थप्रापकं मर्यादारूपं वा विधरणं मातापितृसहस्रवद्धितोपदेशादिना विशेषधारकं प्रवर्तकमिति यावत् ॥ एवम्भूतं ब्रह्म वेदं ब्राह्मणांश्च परिनिन्दथ परिनिन्दितवन्तः ततो विगर्ह्य पाषण्डंयात इत्युत्तरत्रान्वयः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

एष एव हि लोकानां शिवः पन्थाः सनातनः।
यं पूर्वे चानुसंतस्थुर्यत्प्रमाणं जनार्दनः॥

मूलम्

एष एव हि लोकानां शिवः पन्थास्सनातनः।
यं पूर्वे चानुसंतस्थुः यत्प्रमाणं जनार्दनः॥ ३१ ॥

अनुवाद (हिन्दी)

यह वेदमार्ग ही लोगोंके लिये कल्याणकारी और सनातन मार्ग है। पूर्वपुरुष इसीपर चलते आये हैं और इसके मूल साक्षात् श्रीविष्णुभगवान् हैं॥ ३१॥

वीरराघवः

वेदस्य सेतुत्वविधरणत्वे प्रपञ्चयति - एष इति । एष एव वेद एव लोकानां वर्णाश्रमवतां शिवः सुखकरः पन्थाः स्वप्रकाश्ययज्ञोपासनादिद्वारा स्वर्गापवर्गोपायः सनातनः अनादिनिधनः “अनादिनिधना ह्येषा वागुत्सृष्टा स्वयम्भुवा” (भार. शान्ति मोक्ष. २३१-५६) इत्युक्तत्वात् यं वेदं तदुक्तयज्ञोपासनादिरूपधर्ममित्यर्थः । पूर्वे च सात्त्विका ऋषयः चकारादपरे च अनुसन्तस्थुः अनुष्ठितवन्तः । अनेन शिष्टपरिग्रहकथनेन शैवागमानां तद्वैपरीत्यमावेदितम् । जनार्दनो भगवान् यदेव वेदाख्यं ब्रह्म प्रमाणं यस्य सः, आर्षत्वात् क्लीबत्वं ‘वेदाः प्रमाणम्’ इतिवद्विधेय प्रामाण्यापेक्षया 67वा । अनेन ब्रह्मणोऽपि शास्त्रयोनित्वकथनेन सर्वापि श्रेयस्सम्पत्तिः वेदाधीना इत्युक्तम् । यद्वा यस्मिन् वेदे जनार्दनः प्रमाणं मूलं कारणं इति यावत् “तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः” (सुबा. उ. 2-1) इति श्रुतेः । अनेनापौरुषेयत्वकथतेन पौरुषेयत्वप्रयुक्तभ्रमविप्रलम्भादिदोषराहित्यसिद्धिः । शैवागमानां पौरुषेयत्वं तत्प्रयुक्तदोषवत्वं च सूचितम् ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

तद‍्ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम्।
विगर्ह्य यात पाषण्डं दैवं वो यत्र भूतराट्॥

मूलम्

तद‍्ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम्।
विगर्ह्य यात पा68षण्डं69 दैवं वो 70यत्र भूतराट्॥ ३२ ॥

अनुवाद (हिन्दी)

तुमलोग सत्पुरुषोंके परम पवित्र और सनातन मार्गस्वरूप वेदकी निन्दा करते हो—इसलिये उस पाखण्डमार्गमें जाओ, जिसमें भूतोंके सरदार तुम्हारे इष्टदेव निवास करते हैं’॥ ३२॥

वीरराघवः

तत् तस्मात् परमं निरतिशयश्रेयस्साधनप्रकाशकत्वेन सर्वोत्कृष्टं, शुद्धं अपौरुषेयं सनातनं सतां वर्त्म, ब्रह्म वेदं, विगर्ह्य विगर्हणाद्धेतोः इत्यर्थः । पाषण्डं पाषण्डधर्मं यात प्राप्नुत पाषण्डधर्म एव निष्ठावन्तो भवतेत्यर्थः । यत्र यस्मिन् पाषण्डे वः युष्माकं भूतानां तामसानां पतिः रुद्रो दैवम् ॥ ३२ ॥

श्लोक-३३

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

तस्यैवं वदतः शापं भृगोः स भगवान् भवः।
निश्चक्राम ततः किञ्चिद्विमना इव सानुगः॥

मूलम्

तस्यैवं वदतश्शापं भृगोस्स भगवान्भवः।
निश्चक्राम ततः किञ्चिद्विमना इव सानुगः॥ ३३ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! भृगु ऋषिके इस प्रकार शाप देनेपर भगवान् शंकर कुछ खिन्न-से हो वहाँसे अपने अनुयायियोंसहित चल दिये॥ ३३॥

वीरराघवः

अथ शापप्रतिशापौ निगमयन् अनन्तरकथां प्रस्तौति मैत्रेयः - हे साधो ! तस्य भृगोः एवं वदतः सतः भगवान् भवो रुद्रः सानुगः सभृत्यः किञ्चिद्विमना इव इवशब्देन वस्तुतः समदर्शित्वात् वैमनस्याभावः सूच्यतेततः यज्ञभूमेः निश्चक्राम निष्क्रान्तवान् ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

तेऽपि विश्वसृजः सत्रं सहस्रपरिवत्सरान्।
संविधाय महेष्वास यत्रेज्य ऋषभो हरिः॥

मूलम्

तेऽपि विश्वसृजस्सत्रं सहस्रपरिवत्स71रम्।
संविधाय 72महेष्वास! यत्रेज्य ऋषभो हरिः॥ ३४ ॥

वीरराघवः

हे महेष्वास ! विदुर ! यत्र यस्मिन् सत्रे ऋषभः पुरुषोत्तमः हरिः इज्यः आराधनीयः तद्विश्वसृजः सत्रं सहस्रपरिवत्सरपर्यन्तं अनुष्ठेयं संविधाय अनुष्ठाय तेऽपि भृग्वादयः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

आप्लुत्यावभृथं यत्र गङ्गा यमुनयान्विता।
विरजेनात्मना सर्वे स्वं स्वं धाम ययुस्ततः॥

मूलम्

आप्लुत्यावभृथं यत्र गङ्गा यमुनयान्विता।
विरजेनाऽऽत्मना सर्वे स्वं स्वं धाम ययुस्ततः॥ ३५ ॥

अनुवाद (हिन्दी)

वहाँ प्रजापतिलोग जो यज्ञ कर रहे थे, उसमें पुरुषोत्तम श्रीहरि ही उपास्यदेव थे और वह यज्ञ एक हजार वर्षमें समाप्त होनेवाला था। उसे समाप्त कर उन प्रजापतियोंने श्रीगंगा-यमुनाके संगममें यज्ञान्त स्नान किया और फिर प्रसन्न मनसे वे अपने-अपने स्थानोंको चले गये॥ ३४-३५॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दक्षशापो नाम द्वितीयोऽध्यायः॥ २॥

वीरराघवः

यत्र प्रदेशे गङ्गायमुनया सह अन्विता युक्ता तत्रावभृथं स्नानम् आप्लुत्य कृत्वा ततः स्वं स्वं धाम स्थानं ययुः प्रापुः ॥ ३५ ॥

इति श्रीमद्भागवते चतुर्थस्कन्धे श्री वीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां द्वितीयोऽध्यायः ॥ २ ॥


  1. A omits त्यागनिमित्तं ↩︎

  2. A omits मध्ये ↩︎

  3. A च सती ↩︎

  4. W समर्थः ↩︎

  5. A त्य ↩︎

  6. A omits तं ↩︎

  7. A omits कथं ↩︎

  8. M अत्यजद्दु ↩︎

  9. V,W तदा ↩︎

  10. W omis मिथः ↩︎

  11. M ष्टं मुनयः ↩︎

  12. M,V ञ्चि ↩︎

  13. W यज्ञीये ↩︎

  14. A अथ ↩︎

  15. M सभ्याः ↩︎

  16. W omits मम ↩︎

  17. W adds वचः ↩︎

  18. W स्तब्धशब्देनश्र ↩︎

  19. Af अर्केन्दु ↩︎

  20. A,G,J,M घोरेषु प्रे ↩︎

  21. M घोरैः ↩︎

  22. A omits प्रेतैः ↩︎

  23. A omits वेष्टितः ↩︎

  24. M प्रेतास्थिग्रन्थि ↩︎

  25. V दुन्माद ↩︎

  26. V चोदनात्; W चोदितः ↩︎

  27. V नः ↩︎

  28. A omits अन्यथा ↩︎

  29. A नपि ↩︎

  30. W omits अशेष ↩︎

  31. A omits इति पतिः । ↩︎

  32. W omits रूप ↩︎

  33. W नपि ↩︎

  34. M दक्षोह्यपः ↩︎

  35. M यज्ञभागं; Af यज्ञे भागं ↩︎

  36. A omits यज्ञीयभागं ↩︎

  37. V,W गिरीशाय ↩︎

  38. A निर्गत्य ↩︎

  39. V,W रूषितः ↩︎

  40. W omits ↩︎ ↩︎

  41. A त्म्यात् ↩︎

  42. A,G,J ते; M,V तात् ↩︎

  43. A संसर्गात् ↩︎

  44. A वार्य ↩︎

  45. W omit बुद्धिः ↩︎

  46. M स्तु नितरां ↩︎

  47. A त्मया ↩︎

  48. M,W मसावजः ↩︎

  49. A,G,J,M चामुमनु ↩︎

  50. A अमुं ↩︎

  51. A omits जरा ↩︎

  52. M गिरेस्सुतायाः ↩︎

  53. A omits गिरः ↩︎

  54. A,G,J द ↩︎

  55. A,G,J,M द्विज ↩︎

  56. A लक्ष्य ↩︎

  57. W यैव शापं ↩︎

  58. M य एतान् ↩︎

  59. A,G,I,M ख ↩︎

  60. A,G,J,M भवन्तु ↩︎

  61. W मात्मानं ↩︎

  62. M ये यूयं ↩︎

  63. A,G,J,M विधारणं; ↩︎

  64. A,G,J,M ख ↩︎

  65. A प्रथयति ↩︎

  66. A omits पाषण्ड ↩︎

  67. A omits वा ↩︎

  68. G,M ख ↩︎

  69. V,W ण्डा ↩︎

  70. M भूतराट् सदाः ↩︎

  71. A,G,J,M रान् ↩︎

  72. M महोत्साहात् ↩︎