[त्रयस्त्रिंशोऽध्यायः]
भागसूचना
देवहूतिको तत्त्वज्ञान एवं मोक्षपदकी प्राप्ति
अनुवाद (हिन्दी)
श्लोक-१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
एवं निशम्य कपिलस्य वचो जनित्री
सा कर्दमस्य दयिता किल देवहूतिः।
विस्रस्तमोहपटला तमभिप्रणम्य
तुष्टाव तत्त्वविषयाङ्कितसिद्धिभूमिम्॥
मूलम्
एवं निशम्य कपिलस्य वचो जनित्री सा कर्दमस्य दयिता किल देवहूतिः।
विस्रस्तमोहपटला तमभिप्रणम्य तुष्टाव तत्त्वविषयाङ्कितसिद्धिभूमिम्॥ १ ॥
अनुवाद (हिन्दी)
मैत्रेयजी कहते हैं—विदुरजी! श्रीकपिल भगवान्के ये वचन सुनकर कर्दमजीकी प्रिय पत्नी माता देवहूतिके मोहका पर्दा फट गया और वे तत्त्वप्रतिपादक सांख्यशास्त्रके ज्ञानकी आधारभूमि भगवान् श्रीकपिलजीको प्रणाम करके उनकी स्तुति करने लगीं॥ १॥
वीरराघवः
एवं श्रुततत्त्वहितपुरुषार्था देवहूतिः किमकरोदित्यत्राह मैत्रेयः । एवमुक्तरीत्या कर्द्दमस्य दयिता भार्या कपिलस्य जनित्री माता सा देवहूतिः कपिलस्य वचो निशम्य श्रुत्वा विस्रस्तं ध्वस्तं मोहोऽज्ञानं स एव पटलमावरकं यस्याः सा सती तत्त्वविषयाङ्कितसिद्धभूमिं तत्त्वानि प्रकृतिपुरुषेश्वारूपाणि तानि विषयो यस्य तज्ज्ञानं तेनाङ्किताः प्रसिद्धाः सिद्धा योगिनः तेषां भूमिराश्रयस्तम् । विषयाङ्कितसिद्धीति पाठे तत्त्वविषयेणाङ्किता ज्ञापिता सिद्धिर्योगसिद्धिः येषां तेषामाश्रय इत्यर्थः । तं कपिलं प्रणम्य तुष्टाव स्तुतवती ॥ १ ॥
श्लोक-२
मूलम् (वचनम्)
देवहूतिरुवाच
विश्वास-प्रस्तुतिः
अथाप्यजोऽन्तःसलिले शयानं
भूतेन्द्रियार्थात्ममयं वपुस्ते।
गुणप्रवाहं सदशेषबीजं
दध्यौ स्वयं यज्जठराब्जजातः॥
मूलम्
अथाप्यजोऽन्तःसलिले शयानं भूतेन्द्रियार्थात्ममयं वपुस्ते।
गुणप्रवाहं सदशेषबीजं दध्यौ स्वयं यज्जठराब्जजातः॥ २ ॥
अनुवाद (हिन्दी)
देवहूतिजीने कहा—कपिलजी! ब्रह्माजी आपके ही नाभिकमलसे प्रकट हुए थे। उन्होंने प्रलयकालीन जलमें शयन करनेवाले आपके पंचभूत, इन्द्रिय, शब्दादि विषय और मनोमय विग्रहका, जो सत्त्वादि गुणोंके प्रवाहसे युक्त, सत्स्वरूप और कार्य एवं कारण दोनोंका बीज है, ध्यान ही किया था॥ २॥
वीरराघवः
स्तुतिमेवाह सप्तभिः । तत्र प्रथमं ब्रह्मणापि समाधिगम्य विग्रहो जगदुत्पत्तिस्थितिलयलीलः सर्वज्ञत्वाद्यनन्तकल्याणगुणनिधिस्त्वं मदुदराज्जातः अत एतदस्मद्भाग्यफलमित्याह । अथापीति । अथ हे भगवन् । यस्य तव जठराब्जान्नाभिकमलाज्जातोऽजो ब्रह्मापि ते तव वपुर्विग्रहं दध्यौ ध्यानेन साक्षात्कृतवान् । वपुः कथम्भूतमन्तः सलिले शयानं भूतानि पृथिव्यादीनि इन्द्रियाण्येकादशेन्द्रियाणि अर्थाः शब्दादयः आत्मानो जीवाः तन्मयं तत्प्रचुरं जठरगतचिदचित्समुदायमित्यर्थः । अत एवाशेषस्य कार्यजातस्य बीजं कारणं सद्गुणप्रवाहं स्वान्तर्भूतप्रकृतिगतसत्त्वादिगुणप्रवृत्तिहेतुत्वाद् गुणप्रवाहमित्यर्थः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
स एव विश्वस्य भवान् विधत्ते
गुणप्रवाहेण विभक्तवीर्यः।
सर्गाद्यनीहोऽवितथाभिसन्धि-
रात्मेश्वरोऽतर्क्यसहस्रशक्तिः॥
मूलम्
स एव विश्वस्य भवान् विधत्ते गुणप्रवाहेण विभक्तवीर्यः।
सर्गाद्यनीहोऽवितथाभिसन्धिरात्मेश्वरोऽतर्क्यसहस्रशक्तिः॥ ३ ॥
अनुवाद (हिन्दी)
आप निष्क्रिय, सत्यसंकल्प, सम्पूर्ण जीवोंके प्रभु तथा सहस्रों अचिन्त्य शक्तियोंसे सम्पन्न हैं। अपनी शक्तिको गुणप्रवाहरूपसे ब्रह्मादि अनन्त मूर्तियोंमें विभक्त करके उनके द्वारा आप स्वयं ही विश्वकी रचना आदि करते हैं॥ ३॥
वीरराघवः
स एव भगवान् गुणप्रवाहेण ब्रह्मादीनां रजआदिगुणोत्मेषेण विभक्तवीर्यः ब्रह्मादिगुणोन्मेषानुगुणं प्रविभक्तसर्गादिशक्तिः । ब्रह्मादिष्वनुप्रवेशेन तद्गुणानुगुणमाहिता जगत्सर्गादिशक्तिर्येनेति यावत् । स्वयमनीहो निर्व्यापारोऽप्यवितथाभिसन्धिः सत्यसङ्कल्पः सङ्कल्पमात्रकृतजगदुदयादिलील इत्यर्थः । आत्मेश्वरः स्वयमीश्वरान्तररहितः “पतिं विश्वस्यात्मेश्वरम्” इति श्रुतेः । कथं सङ्कल्पमात्रनिर्वर्त्तितजगदुदयादिलील इत्यत्राह । अप्रतर्क्या अचिन्त्या अनन्ताः शक्त्यो यस्य भगवानस्य विश्वस्य सर्गादिसृष्ट्यादीन् विधत्ते ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
स त्वं भृतो मे जठरेण नाथ
कथं नु यस्योदर एतदासीत्।
विश्वं युगान्ते वटपत्र एकः
शेते स्म मायाशिशुरङ्घ्रिपानः॥
मूलम्
स त्वं भृतो मे जठरेण नाथ कथं नु यस्योदर एतदासीत्।
विश्वं युगान्ते वटपत्र एकः शेते स्म मायाशिशुरङ्घ्रिपानः॥ ४ ॥
अनुवाद (हिन्दी)
नाथ! यह कैसी विचित्र बात है कि जिनके उदरमें प्रलयकाल आनेपर यह सारा प्रपंच लीन हो जाता है और जो कल्पान्तमें मायामय बालकका रूप धारण कर अपने चरणका अँगूठा चूसते हुए अकेले ही वटवृक्षके पत्तेपर शयन करते हैं, उन्हीं आपको मैंने गर्भमें धारण किया॥ ४॥
वीरराघवः
युगान्ते कल्पान्ते इदं विश्वमुदरे आसील्लीनमासीत् यश्च तथा भगवान् मायाशिशुः स्वसंकल्पेन शिशुभावं प्राप्तः अङ्घ्रिं पादाङ्गुष्ठं पिबति चुम्बतीत्यङ्घ्रिपानः । एक एव वटपत्रे शेते स्म, स त्वं ममोदरेण कथम्भृतः तत्र कारणं न विद्मः, अस्मद्भाग्यमेवेति भावः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
त्वं देहतन्त्रः प्रशमाय पाप्मनां
निदेशभाजां च विभो विभूतये।
यथावतारास्तव सूकरादय-
स्तथायमप्यात्मपथोपलब्धये॥
मूलम्
त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशभाजां च विभो विभूतये।
यथावतारास्तव सूकरादयस्तथायमप्यात्मपथोपलब्धये॥ ५ ॥
अनुवाद (हिन्दी)
विभो! आप पापियोंका दमन और अपने आज्ञाकारी भक्तोंका अभ्युदय एवं कल्याण करनेके लिये स्वेच्छासे देह धारण किया करते हैं। अतः जिस प्रकार आपके वराह आदि अवतार हुए हैं, उसी प्रकार यह कपिलावतार भी मुमुक्षुओंको ज्ञानमार्ग दिखानेके लिये हुआ है॥ ५॥
वीरराघवः
इदं तु प्रसिद्धं सर्वावतारसाधारणं कारणं जानीम इत्याह । त्वं देहतन्त्र इति । पाप्मनां दुष्कृतां विनाशाय निदेशभाजां भवदाज्ञानुवर्तिनां विभूतये परित्राणाय च त्वं देहतन्त्रः देहपरिकरः परिगृहीतदेहोऽसि यथान्ये तव सूकरादयोऽवतारास्तथायमप्यवतारः साधूनामात्ममार्गज्ञापनायाभूदिति विद्म इत्यर्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
यन्-नामधेय-श्रवणानुकीर्तनाद्
यत्-प्रह्वणाद् यत्-स्मरणाद् अपि क्वचित्।
श्वादोऽपि सद्यः सवनाय कल्पते
कुतः पुनस् ते भगवन् नु दर्शनात्॥
मूलम्
यन्नामधेयश्रवणानुकीर्तनाद् यत्प्रह्वणाद्य1त्स्मरणादपि क्वचित्।
श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस्ते भगवन्नु दर्शनात्॥ ६ ॥
अनुवाद (हिन्दी)
भगवन्! आपके नामोंका श्रवण या कीर्तन करनेसे तथा भूले-भटके कभी-कभी आपका वन्दन या स्मरण करनेसे ही कुत्तेका मांस खानेवाला चाण्डाल भी सोमयाजी ब्राह्मणके समान पूजनीय हो सकता है; फिर आपका दर्शन करनेसे मनुष्य कृतकृत्य हो जाय—इसमें तो कहना ही क्या है॥ ६॥
वीरराघवः
किम्वा भवत्ववतारप्रयोजनं नाम्नैव सर्ववृजिननिरसनेन निरतिशयपाप्मनः कृतार्थयतस्तव दर्शनाद्वयं कृतार्था अभूमेति कैमुत्यनयेनाह । यन्नामेति । क्वचिदपि यस्य तव नाम्नः श्रवणादनुकीर्तनात्प्रहृणात् प्रणामात् स्मरणाच्च श्वादः श्वपचोऽपि सद्यः सवनाय तत्परिग्रहावसराय कल्पते योग्यो भवति भवतानुगृहीतो भवति हे भगवन् ! तत्र दर्शनाद्वयं कृतार्था इति कुतः पुनः किं पुनर्वक्तव्यमित्यर्थः । एवम्विधानि नामस्मरणादिना पापिनामपि कृतार्थताप्रतिपादकानि वचनान्यन्तिमस्मरणविषयाणि द्रष्टव्यानि । तथा चोक्तं पुरस्तात् “यस्यावतारगुणकर्मविडम्बनानि नामानि येऽसुविगमे विवशा गृणन्ति” इति ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
अहो बत श्वपचोऽतो गरीयान्
यज्जिह्वाग्रे वर्तते नाम तुभ्यम्।
तेपुस्तपस्ते जुहुवुः सस्नुरार्या
ब्रह्मानूचुर्नाम गृणन्ति ये ते॥
मूलम्
अहो बत श्वपचोऽतो गरीयान् यज्जिह्वाग्रे वर्तते नाम तुभ्यम्।
तेपुस्तपस्ते जुहुवुः सस्नुरार्या ब्रह्मानूचुर्नाम गृणन्ति ये ते॥ ७ ॥
अनुवाद (हिन्दी)
अहो! वह चाण्डाल भी इसीसे सर्वश्रेष्ठ है कि उसकी जिह्वाके अग्रभागमें आपका नाम विराजमान है। जो श्रेष्ठ पुरुष आपका नाम उच्चारण करते हैं, उन्होंने तप, हवन, तीर्थस्नान, सदाचारका पालन और वेदाध्ययन—सब कुछ कर लिया॥ ७॥
वीरराघवः
एतदेव देहावसाने भगवन्नामस्मरणं सर्वेषां तपआदीनां बहुजन्मोपार्जितानां फलमित्याह । अहो इति । ते तुभ्यं तव नाम यस्य जिह्वाग्रे वर्तते स श्वपचोऽपि गरीयान् कुत इत्यत आह । ये ते तव नाम गृणन्त्यन्तकाले ते पूर्वमन्तिमस्मरणार्थमेवार्याः श्रेष्ठाः तपस्तेषुः चक्रुः जुहुवुर्होमं कृतवन्तः सस्नुस्तीर्थेषु स्नाताः ब्रह्म वेदमनूचुः कथितवन्तः प्रबलप्रतिबन्धवशाच्छ्वपचादिजन्मप्राप्तावपि पूर्वजन्मसु तपआदिभिर्भगवन्तमाराधितवन्त इत्यनुमन्यामह[[??]] इति भावः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
तं त्वामहं ब्रह्म परं पुमांसं
प्रत्यक्स्रोतस्यात्मनि संविभाव्यम्।
स्वतेजसा ध्वस्तगुणप्रवाहं
वन्दे विष्णुं कपिलं वेदगर्भम्॥
मूलम्
तं त्वामहं ब्रह्म परं पुमांसं प्रत्यक्स्रोतस्यात्मनि संविभाव्यम्।
स्वतेजसा ध्वस्तगुणप्रवाहं वन्दे विष्णुं कपिलं वेदगर्भम्॥ ८ ॥
अनुवाद (हिन्दी)
कपिलदेवजी! आप साक्षात् परब्रह्म हैं, आप ही परम पुरुष हैं, वृत्तियोंके प्रवाहको अन्तर्मुख करके अन्तःकरणमें आपका ही चिन्तन किया जाता है। आप अपने तेजसे मायाके कार्य गुण-प्रवाहको शान्त कर देते हैं तथा आपके ही उदरमें सम्पूर्ण वेदतत्त्व निहित है। ऐसे साक्षात् विष्णुस्वरूप आपको मैं प्रणाम करती हूँ॥ ८॥
वीरराघवः
स्तुतिमुपसंहरति । तमिति । प्रत्यक्स्रोतसि प्रत्यग्गतौ प्रत्यक्प्रकाशे स्वस्मै प्रकाशमाने इति यावत् । तस्मिन्नात्मनि जीवे अन्तरात्मतया भावितव्यं चिन्तनीयं ब्रह्म बृहत्त्ववृणत्वादिगुणयुक्तं स्वतेजसा स्वप्रकाशेन ध्वस्तः गुणानां सत्त्वादीनां प्रवाहः प्रवृत्तिः संसारो यस्य सः जीवान्तरात्मतया वसन्तमपि नित्यासंकुचितानन्तस्वप्रकाशेन हेयप्रतिभटमित्यर्थः । वेदाः गर्भे यस्य तं कपिलाख्यं विष्णुं परमपुरुषमुक्तविधं त्वा त्वां वन्दे नमस्करोमीति ॥ ८ ॥
श्लोक-९
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
ईडितो भगवानेवं कपिलाख्यः परः पुमान्।
वाचाविक्लवयेत्याह मातरं मातृवत्सलः॥
मूलम्
ईडितो भगवानेवं कपिलाख्यः परः पुमान्।
वाचाविक्लवयेत्याह मातरं मातृवत्सलः॥ ९ ॥
अनुवाद (हिन्दी)
मैत्रेयजी कहते हैं—माताके इस प्रकार स्तुति करनेपर मातृवत्सल परमपुरुष भगवान् कपिलदेवजीने उनसे गम्भीर वाणीमें कहा॥ ९॥
वीरराघवः
कपिलाख्यः परमपुरुषो भगवानवमीडितः स्तुतः पितृवत्सलः पित्रोर्वत्सलः अविक्लवया गम्भीरया वाचा मातरं प्रति इति वक्ष्यमाणप्रकारेणाह उवाच ॥ ९ ॥
श्लोक-१०
मूलम् (वचनम्)
कपिल उवाच
विश्वास-प्रस्तुतिः
मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे।
आस्थितेन परां काष्ठामचिरादवरोत्स्यसि॥
मूलम्
मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे।
आस्थितेन परां काष्ठामचिरादव2रोत्स्यसि॥ १० ॥
अनुवाद (हिन्दी)
कपिलदेवजीने कहा—माताजी! मैंने तुम्हें जो यह सुगम मार्ग बताया है, इसका अवलम्बन करनेसे तुम शीघ्र ही परमपद प्राप्त कर लोगी॥ १०॥
वीरराघवः
हे मातः ! मे मया उदितेन कथितेन सुसेव्येन सुखमनुष्ठेयेनानेन मार्गेण स्थितेन त्वयानुष्ठितेनाशु परां काष्ठां फलपर्यन्तदशां मुक्तिमिति यावदरोत्स्यसि प्राप्स्यसि ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
श्रद्धत्स्वैतन्मतं मह्यं जुष्टं यद्ब्रह्मवादिभिः।
येन मामभवं याया मृत्युमृच्छन्त्यतद्विदः॥
मूलम्
श्रद्धत्स्वैतन्मतं मह्यं जुष्टं यद्ब्रह्मवादिभिः।
येन मामभवं याया मृत्युमृच्छन्त्यतद्विदः॥ ११ ॥
अनुवाद (हिन्दी)
तुम मेरे इस मतमें विश्वास करो, ब्रह्मवादी लोगोंने इसका सेवन किया है; इसके द्वारा तुम मेरे जन्म-मरणरहित स्वरूपको प्राप्त कर लोगी। जो लोग मेरे इस मतको नहीं जानते, वे जन्म-मृत्युके चक्रमें पड़ते हैं॥ ११॥
वीरराघवः
एतन्मह्यं मम मतं श्रद्धत्स्व एतस्मिन्मते श्रद्धां कुर्वित्यर्थः । मतं विशिनष्टि यन्मतं ब्रह्मवादिभिः ब्रह्मोपदेष्टृभिः जुष्टं पुनः पुनः संशीलितं येन मतेनाभयं मां यायाः प्राप्नुयाः । अतद्विदः मन्मतानभिज्ञाः मृत्युं संसारमृच्छन्ति ॥ ११ ॥
श्लोक-१२
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
इति प्रर्दश्य भगवान् सतीं तामात्मनो गतिम्।
स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययौ॥
मूलम्
इति प्रर्दश्य भगवान् सतीं तामात्मनो गतिम्।
स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययौ॥ १२ ॥
अनुवाद (हिन्दी)
मैत्रेयजी कहते हैं—इस प्रकार अपने श्रेष्ठ आत्मज्ञानका उपदेश कर श्रीकपिलदेवजी अपनी ब्रह्मवादिनी जननीकी अनुमति लेकर वहाँसे चले गये॥ १२॥
वीरराघवः
इति एवं भगवान् कपिलः उशतीं कमनीयामात्मनो गतिं ज्ञानमार्गं मात्रे प्रदर्श्य तथा ब्रह्मवादिन्या मात्रानुमत आज्ञापितः ययौ गतवान् ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
सा चापि तनयोक्तेन योगादेशेन योगयुक्।
तस्मिन्नाश्रम आपीडे सरस्वत्याः समाहिता॥
अनुवाद (हिन्दी)
तब देवहूतिजी भी सरस्वतीके मुकुटसदृश अपने आश्रममें अपने पुत्रके उपदेश किये हुए योगसाधनके द्वारा योगाभ्यास करती हुई समाधिमें स्थित हो गयीं॥ १३॥
वीरराघवः
सा चापि देवहूतिरपि पुत्रोपदिष्टेन योगानुशासनेन तस्मिन्नेव सरस्वत्या नद्या आपीडेऽलङ्कारभूते आश्रमे समाहितचित्ताभूत् ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
अभीक्ष्णावगाहकपिशान् जटिलान् कुटिलालकान्।
आत्मानं चोग्रतपसा बिभ्रती चीरिणं कृशम्॥
मूलम्
अ5भीक्ष्णावगाहकपिशान् जटिलान् कुटिलालकान्।
आत्मानं चोग्रतपसा बिभ्रती चीरिणं कृशम्॥ १४ ॥
अनुवाद (हिन्दी)
त्रिकाल स्नान करनेसे उनकी घुँघराली अलकें भूरी-भूरी जटाओंमें परिणत हो गयीं तथा चीर-वस्त्रोंसे ढका हुआ शरीर उग्र तपस्याके कारण दुर्बल हो गया॥ १४॥
वीरराघवः
कथम्भूता सती समाहिता साभीक्ष्णावगाहस्त्रिषवणस्नानं तेन कपिशान् पिशङ्गान् स्वत एव कुटिलानलकान् केशांस्तथा उग्रतपसा कृशं चीरिणं वल्कलधारिणं चात्मानं देहं बिभ्रती ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
प्रजापतेः कर्दमस्य तपोयोगविजृम्भितम्।
स्वगार्हस्थ्यमनौपम्यं प्रार्थ्यं वैमानिकैरपि॥
मूलम्
प्रजापतेः कर्दमस्य तपोयोगविजृम्भितम्।
स्वगार्हस्थ्यमनौपम्यं प्रार्थ्यं वैमानिकैरपि॥ १५ ॥
अनुवाद (हिन्दी)
उन्होंने प्रजापति कर्दमके तप और योगबलसे प्राप्त अनुपम गार्हस्थ्यसुखको, जिसके लिये देवता भी तरसते थे, त्याग दिया॥ १५॥
वीरराघवः
कथमस्य प्रजापतेस्तपोयोगाभ्यां विजृम्भितमतिशयितं वैमानिकैरपि प्रार्थ्यं स्वगार्हस्थ्यं गृहाश्रमसम्बन्धि गृहं हित्वा पुत्रविरहातुरा सती वदनं किञ्चिच्चकारेति षष्ठेनान्वयः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः।
आसनानि च हैमानि सुस्पर्शास्तरणानि च॥
मूलम्
पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः।
आसनानि च हैमानि सुस्पर्शास्तरणानि च॥ १६ ॥
वीरराघवः
गार्हस्थ्यं विशिनष्टि । यत्र गार्हस्थ्ये क्षीरफेनवन्मृदुला दान्ताः शुभ्राश्च स्वर्णमयाः परिच्छदाः परिकरा आसनानि पीठादीनि सुवर्णमयानि सुखस्पर्शान्यास्तरणानि ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
स्वच्छस्फटिककुड्येषु महामारकतेषु च।
रत्नप्रदीपा आभान्ति ललनारत्नसंयुताः॥
मूलम्
स्वच्छस्फटिककुड्येषु महामारकतेषु च।
रत्नप्रदीपा आभान्ति ललनारत्नसंयुताः॥ १७ ॥
वीरराघवः
महान्त्यनर्घाणि मरकतानीन्द्रनीलान्यलङ्कारार्थं संयुक्तानि येषु तेषु स्वच्छफटिकमयकुड्येषु ललना एव प्रतिबिम्बिता रत्नानि तैः संयुता रत्नानि पद्मरागादीन्येव दीपास्तेषामर्चिषा भान्ति ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमैः।
कूजद्विहङ्गमिथुनं गायन्मत्तमधुव्रतम्॥
मूलम्
गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमैः।
कूजद्विहङ्गमिथुनं गायन्मत्तमधुव्रतम्॥ १८ ॥
वीरराघवः
बहुभिरमरद्रुमैः पारिजातादिभिः कुसुमितैः रम्यं गृहोद्यानं हित्वेत्युत्तरत्रान्वयः । गृहोद्यानं विशिनष्टि । कूजन्ति विहङ्गानां मिथुनानि यस्मिन् गायन्तो मधुपानमत्ता भ्रमरा यस्मिन् ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
यत्र प्रविष्टमात्मानं विबुधानुचरा जगुः।
वाप्यामुत्पलगन्धिन्यां कर्दमेनोपलालितम्॥
मूलम्
यत्र प्रविष्टमात्मानं विबुधानुचरा जगुः।
वाप्यामुत्पलगन्धिन्यां कर्दमेनोपलालितम्॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
हित्वा तदीप्सिततममप्याखण्डलयोषिताम्।
किञ्चिच्चकार वदनं पुत्रविश्लेषणातुरा॥
मूलम्
हित्वा तदीप्सिततममप्याखण्डलयोषिताम्।
किञ्चिच्चकार वदनं पुत्रविश्लेषणातुरा॥ २० ॥
अनुवाद (हिन्दी)
जिसमें दुग्धफेनके समान स्वच्छ और सुकोमल शय्यासे युक्त हाथी-दाँतके पलंग, सुवर्णके पात्र, सोनेके सिंहासन और उनपर कोमल-कोमल गद्दे बिछे हुए थे तथा जिसकी स्वच्छ स्फटिकमणि और महामरकतमणिकी भीतोंमें रत्नोंकी बनी हुई रमणी-मूर्तियोंके सहित मणिमय दीपक जगमगा रहे थे, जो फूलोंसे लदे हुए अनेकों दिव्य वृक्षोंसे सुशोभित था, जिसमें अनेक प्रकारके पक्षियोंका कलरव और मतवाले भौंरोंका गुंजार होता रहता था, जहाँकी कमलगन्धसे सुवासित बावलियोंमें कर्दमजीके साथ उनका लाड़-प्यार पाकर क्रीडाके लिये प्रवेश करनेपर उसका (देवहूतिका) गन्धर्वगण गुणगान किया करते थे और जिसे पानेके लिये इन्द्राणियाँ भी लालायित रहती थीं—उस गृहोद्यानकी भी ममता उन्होंने त्याग दी। किन्तु पुत्रवियोगसे व्याकुल होनेके कारण अवश्य उनका मुख कुछ उदास हो गया॥ १६—२०॥
वीरराघवः
यत्र यस्मिन् गृहोद्याने प्रविष्टमात्मानं देहं विबुधानुचराः किन्नरादयः जगुः उत्पलगन्धिन्यां वाप्यां कर्द्दमेनोपलालितमात्मानं च हित्वा आखण्डलस्येन्द्रस्य योषितामपीपिसिततममभीष्टतमं त्यक्त्वा तत्राहंममतामकृत्वापि पुत्रस्य विश्लेषणेनातुरा दुःखिता सती वदनं किञ्चित्सङ्कुचितं चकार ॥ १९-२० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
वनं प्रव्रजिते पत्यावपत्यविरहातुरा।
ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला॥
मूलम्
वनं प्रव्रजिते पत्यावपत्यविरहातुरा।
ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला॥ २१ ॥
अनुवाद (हिन्दी)
पतिके वनगमनके अनन्तर पुत्रका भी वियोग हो जानेसे वे आत्मज्ञानसम्पन्न होकर भी ऐसी व्याकुल हो गयीं, जैसे बछड़ेके बिछुड़ जानेसे उसे प्यार करनेवाली गौ॥ २१॥
वीरराघवः
सुहृद्भ्यां पतिपुत्राभ्यां वियोगस्य दुःसहतामाह । वनमिति । पत्यौ कर्दमे वनं प्रति प्रव्रजिते संन्यस्य गते सति नितरां पुत्रविश्लेषेण खिन्ना सती ज्ञात्तं तत्त्वं चिदचिदीश्वरयाथात्यं यया सापि वत्से नष्टे सति वत्सला गौरिवाभूदित्यर्थः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
तमेव ध्यायती देवमपत्यं कपिलं हरिम्।
बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे॥
मूलम्
तमेव ध्यायती देवमपत्यं कपिलं हरिम्।
बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे॥ २२ ॥
अनुवाद (हिन्दी)
वत्स विदुर! अपने पुत्र कपिलदेवरूप भगवान् हरिका ही चिन्तन करते-करते वे कुछ ही दिनोंमें ऐसे ऐश्वर्यसम्पन्न घरसे भी उपरत हो गयीं॥ २२॥
वीरराघवः
तमेवापत्यं कपिलाख्यं हरिं देवं हे वत्स ! विदुर ! अचिरतः बहुकालपर्यन्तं ध्यायन्ती तादृशे उक्तविधे गृहे निःस्पृहा विगतस्पृहाभूदित्यर्थः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
ध्यायती भगवद्रूपं यदाह ध्यानगोचरम्।
सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया॥
मूलम्
ध्यायती भगवद्रूपं यदाह ध्यानगोचरम्।
सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया॥ २३ ॥
अनुवाद (हिन्दी)
फिर वे, कपिलदेवजीने भगवान्के जिस ध्यान करनेयोग्य प्रसन्नवदनारविन्दयुक्त स्वरूपका वर्णन किया था, उसके एक-एक अवयवका तथा उस समग्र रूपका भी चिन्तन करती हुई ध्यानमें तत्पर हो गयीं॥ २३॥
वीरराघवः
तत्सुतः कपिलो भगवान् ध्यानयोग्यं यद्भगवतो रूपं प्रसन्नवदनाम्भोजम् इत्यादिना आह । तदेव प्रसन्नवदनादियुक्तं भगवद्रूपं कार्त्स्न्येनावयवशश्च चिन्तया ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
भक्तिप्रवाहयोगेन वैराग्येण बलीयसा।
युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना॥
मूलम्
भक्तिप्रवाहयोगेन वैराग्येण बलीयसा।
युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना॥ २४ ॥
वीरराघवः
भक्तेर्यः प्रवाहः प्रवृत्तिः स एव योगस्तेन बलीयसा वैराग्येण तथायुक्तानुष्ठानं स्वोचितपूजादिरूपकर्मानुष्ठानं तेन जातेन ज्ञानेनात्मयाथात्म्यज्ञानेन ब्रह्महेतुना ब्रह्मप्राप्तिहेतुना । ज्ञानयोगकर्मयोगवैराग्यादिभिरनुगृहीतेन मुक्त्युपायभूतेन भक्तियोगेनेत्यर्थः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
विशुद्धेन तदाऽऽत्मानमात्मना विश्वतोमुखम्।
स्वानुभूत्या तिरोभूतमायागुणविशेषणम्॥
मूलम्
विशुद्धेन तदाऽऽत्मानमात्मना विश्वतोमुखम्।
स्वानुभूत्या तिरोभूतमायागुणविशेषणम्॥ २५ ॥
अनुवाद (हिन्दी)
भगवद्भक्तिके प्रवाह, प्रबल वैराग्य और यथोचित कर्मानुष्ठानसे उत्पन्न हुए ब्रह्म साक्षात्कार करानेवाले ज्ञानद्वारा चित्त शुद्ध हो जानेपर वे उस सर्वव्यापक आत्माके ध्यानमें मग्न हो गयीं, जो अपने स्वरूपके प्रकाशसे मायाजनित आवरणको दूर कर देता है॥ २४-२५॥
वीरराघवः
विशुद्धेनात्मना मनसा आत्मानं विश्वतोमुखं सर्वज्ञं स्वानुभूत्या स्वप्रकाशेन विरहिता मायागुणाः सत्त्वादयः तेषां विशेषणानि विशेषाः शोकमोहादीनि यस्य तमशनायाद्यूर्मिषट्करहितमात्मानं परमपुरुषं ध्यायन्ती ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
ब्रह्मण्यवस्थितमतिर्भगवत्यात्मसंश्रये।
निवृत्तजीवापत्तित्वात्क्षीणक्लेशाऽऽप्तनिर्वृतिः॥
मूलम्
ब्रह्मण्यवस्थितमतिर्भगवत्यात्मसंश्रये।
निवृत्तजीवापत्तित्वात्क्षीणक्लेशाऽऽप्तनिर्वृतिः6॥
अनुवाद (हिन्दी)
इस प्रकार जीवके अधिष्ठानभूत परब्रह्म श्रीभगवान्में ही बुद्धिकी स्थिति हो जानेसे उनका जीवभाव निवृत्त हो गया और वे समस्त क्लेशोंसे मुक्त होकर परमानन्दमें निमग्न हो गयीं॥ २६॥
वीरराघवः
आत्मनां जीवानां संश्रये आश्रये भगवति ब्रह्मण्यवस्थिता मतिर्यस्याः सा निवृत्तजीवापत्तिः जीवस्यापत्तिः क्लेशाद्यापत्तिर्यतः सा प्रकृतिः । यद्वा आपत्तिरापत्क्लेशादिरूपा यतः सा प्रकृतिः । निवृत्ता निवृत्तप्राया जीवापत्तिर्यस्याः सा तस्याः भावस्तत्त्वं तस्मान्निवृत्तप्रायप्रकृतिसम्बन्धत्वादित्यर्थः । वीतक्लेशा विगतशीतोष्णादिक्लेशा आप्ता परमात्मानुभवरूपा निर्वृतिरानन्दो यया सा ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
नित्यारूढसमाधित्वात्परावृत्तगुणभ्रमा।
न सस्मार तदाऽऽत्मानं स्वप्ने दृष्टमिवोत्थितः॥
मूलम्
नित्यारूढसमाधित्वात्परावृत्तगुणभ्रमा।
न सस्मार तदाऽऽत्मानं स्वप्ने दृष्टमिवोत्थितः॥ २७ ॥
अनुवाद (हिन्दी)
अब निरन्तर समाधिस्थ रहनेके कारण उनकी विषयोंके सत्यत्वकी भ्रान्ति मिट गयी और उन्हें अपने शरीरकी भी सुधि न रही—जैसे जागे हुए पुरुषको अपने स्वप्नमें देखे हुए शरीरकी नहीं रहती॥ २७॥
वीरराघवः
नित्यमारूढः समाधिर्यया सा तस्याः भावस्तत्त्वं तस्मान्नित्यं प्रकृतिविलक्षणप्रत्यगात्मशरीरकपरमात्मनि समाहितचित्तत्वात् परावृत्तः निवृत्तः तमआदिप्रकृतिगुणकार्यदेहात्माभिमानादिविपरीतभ्रमो यस्याः सा सती आत्मानं शरीरं न सस्मार । स्वप्नादुत्थितः पुरुषः स्वप्ने दृष्टं वस्तुजातमिव यथा स्वप्नादुत्थितः पुरुषः स्वाप्नं वस्त्वनित्यमिति निश्चित्य स्वाप्नवस्त्वायत्तसुखदुःखादिभिरनाकुल एवं देहानुबन्धि सर्वं कर्मायत्तमस्थिरमिति मत्वा तत्पोषणापोषणादिनिमित्तसुखदुःखैरनभिभूता सती देहः पुष्टः कर्शित इति वा न सस्मारेत्यर्थः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
तद्देहः परतःपोषोऽप्यकृशश्चाध्यसम्भवात्।
बभौ मलैरवच्छन्नः सधूम इव पावकः॥
मूलम्
तद्देहः परतः पोषोऽप्यकृशश्चाध्यसम्भवात्।
बभौ मलैरवच्छन्नः सधूम इव पावकः॥ २८ ॥
वीरराघवः
अत एव तस्याः देहः परतः परैः पोष्योऽपि परायत्तपोषणोऽप्यकृशः कुत आध्यसम्भवात्पोषणाभावप्रयुक्तमनः पीडाया अभावान्मलैरवच्छन्नः अभ्यङ्गोद्वर्त्तनाभावान्मलैर्युक्तोऽपि सधूमः पावक इव बभौ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम्।
दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः॥
मूलम्
स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम्।
दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः॥ २९ ॥
अनुवाद (हिन्दी)
उनके शरीरका पोषण भी दूसरोंके द्वारा ही होता था, किन्तु किसी प्रकारका मानसिक क्लेश न होनेके कारण वह दुर्बल नहीं हुआ। उसका तेज और भी निखर गया और वह मैलके कारण धूमयुक्त अग्निके समान सुशोभित होने लगा। उनके बाल बिथुर गये थे और वस्त्र भी गिर गया था; तथापि निरन्तर श्रीभगवान्में ही चित्त लगा रहनेके कारण उन्हें अपने तपोयोगमय शरीरकी कुछ भी सुधि नहीं थी, केवल प्रारब्ध ही उसकी रक्षा करता था॥ २८-२९॥
वीरराघवः
तपोयोगप्रचुरं मुक्तकेशं विकीर्णशिरोजं विगतवस्त्रमपि स्वाङ्गं देहं दैवगुप्तं दैवेन रक्षितं न बुबुधे न बुद्धवती तत्र । हेतुः वासुदेवे भगवति प्रविष्टा धीर्यस्याः सा भगवदनुभवजनितानन्दसंप्लवे मग्नत्वान्न बुबुधे इत्यर्थः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
एवं सा कपिलोक्तेन मार्गेणाचिरतः परम्।
आत्मानं ब्रह्म निर्वाणं भगवन्तमवाप ह॥
मूलम्
एवं सा कपिलोक्तेन मार्गेणाचिरतः परम्।
आत्मानं ब्रह्म निर्वाणं भगवन्तमवाप ह॥ ३० ॥
अनुवाद (हिन्दी)
विदुरजी! इस प्रकार देवहूतिजीने कपिलदेवजीके बताये हुए मार्गद्वारा थोड़े ही समयमें नित्यमुक्त परमात्मस्वरूप श्रीभगवान्को प्राप्त कर लिया॥ ३०॥
वीरराघवः
एवं कपिलोपदिष्टेन ज्ञानमार्गेणाशु सा देवहूतिः परब्रह्म निरतिशयमानन्दरूपं भगवन्तमवाप हेति विस्मये ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
तद्वीरासीत्पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम्।
नाम्ना सिद्धपदं यत्र सा संसिद्धिमुपेयुषी॥
मूलम्
तद्वीरासीत्पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम्।
नाम्ना सिद्धपदं यत्र सा संसिद्धिमुपेयुषी॥ ३१ ॥
अनुवाद (हिन्दी)
वीरवर! जिस स्थानपर उन्हें सिद्धि प्राप्त हुई थी, वह परम पवित्र क्षेत्र त्रिलोकीमें ‘सिद्धपद’ नामसे विख्यात हुआ॥ ३१॥
वीरराघवः
हे वीर ! विदुर ! यत्र सा मुक्तिमवाप तत्पुण्यतमं क्षेत्रं नाम्ना त्रैलोक्ये विश्रुतं प्रसिद्धमासीत् किं नाम तत्राह । यत्र क्षेत्रे सिद्धपदं सिद्धशब्दः प्रवर्त्तते सिद्धाश्रम इत्युच्यत इत्यर्थः । सिद्धपदप्रवृत्तौ निमित्तमाह । यत्र क्षेत्रे सा देवहूतिः संसिद्धिं मुक्तिमुपेयुषी प्राप्तवती अतस्तत्सिद्धक्षेत्रमिति प्रसिद्धमित्यर्थः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
तस्यास्तद्योगविधुतमार्त्यं मर्त्यमभूत्सरित्।
स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्धसेविता॥
मूलम्
तस्यास्तद्योगविधुतमार्त्यं मर्त्यमभूत्सरित्।
स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्धसेविता7॥
अनुवाद (हिन्दी)
साधुस्वभाव विदुरजी! योगसाधनके द्वारा उनके शरीरके सारे दैहिक मल दूर हो गये थे। वह एक नदीके रूपमें परिणत हो गया, जो सिद्धगणसे सेवित और सब प्रकारकी सिद्धि देनेवाली है॥ ३२॥
वीरराघवः
तस्या इति । हे सौम्य ! तस्या देवहूत्याः मर्त्यं शरीरं तद्योगविधुतमार्त्यं तस्या देवहूत्याः योगेन विधुताः निरस्ता मार्त्याः बलिपलितादयो देहधर्मा यस्मिंस्तत्तथाभूतं सत्तया त्यक्तं शरीरं स्रोतसां नदीनां मध्ये प्रवरा सिद्धादिभिः सेविता सरिदभूत् सरिद्रूपेण प्रावहदित्यर्थः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
कपिलोऽपि महायोगी भगवान् पितुराश्रमात्।
मातरं समनुज्ञाप्य प्रागुदीचीं दिशं ययौ॥
मूलम्
कपिलोऽपि महायोगी भगवान् पितुराश्रमात्।
मातरं समनुज्ञाप्य प्रागुदीचीं दिशं ययौ॥ ३३ ॥
अनुवाद (हिन्दी)
महायोगी भगवान् कपिलजी भी माताकी आज्ञा ले पिताके आश्रमसे ईशानकोणकी ओर चले गये॥ ३३॥
वीरराघवः
कपिलोऽनुमतो ययावित्युक्तं क्व ययौ इत्यत्राह । हे विदुर ! महायोगी भगवान् कपिलोऽपि मातरं देवहूतिं समनुज्ञाप्य मात्रानुज्ञातः प्रागुदीचीमीशानदिशं प्रति ययौ ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
सिद्धचारणगन्धर्वैर्मुनिभिश्चाप्सरोगणैः।
स्तूयमानः समुद्रेण दत्तार्हणनिकेतनः॥
मूलम्
सिद्धचारणगन्धर्वैर्मुनिभिश्चाप्सरोगणैः।
स्तूयमानः समुद्रेण दत्तार्हणनिकेतनः॥ ३४ ॥
वीरराघवः
तत्र सिद्धचारणादिभिः स्तूयमानः समुद्रेण दत्तमर्हणं निकेतनं निवासस्थानं च यस्य स ययौ ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
आस्ते योगं समास्थाय सांख्याचार्यैरभिष्टुतः।
त्रयाणामपि लोकानामुपशान्त्यै समाहितः॥
मूलम्
आस्ते योगं समास्थाय सांख्याचार्यैरभिष्टुतः।
त्रयाणामपि लोकानामुपशान्त्यै8 समाहितः॥ ३५ ॥
अनुवाद (हिन्दी)
वहाँ स्वयं समुद्रने उनका पूजन करके उन्हें स्थान दिया। वे तीनों लोकोंको शान्ति प्रदान करनेके लिये योगमार्गका अवलम्बन कर समाधिमें स्थित हो गये हैं। सिद्ध, चारण, गन्धर्व, मुनि और अप्सरागण उनकी स्तुति करते हैं तथा सांख्याचार्यगण भी उनका सब प्रकार स्तवन करते रहते हैं॥ ३४-३५॥
वीरराघवः
आस्ते इति । साङ्ख्याचार्यैः कपिलोक्तसाङ्ख्यप्रवर्तकयोगिभिरभिष्टुतः लोकानामुपशान्त्यै क्षेमाय समाहितमनाः स्वयमपि योगमास्थायाध्यास्त इत्यर्थः ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
एतन्निगदितं तात यत्पृष्टोऽहं तवानघ।
कपिलस्य च संवादो देवहूत्याश्च पावनः॥
मूलम्
एतन्निगदितं तात यत्पृष्टोऽहं तवानघ।
कपिलस्य च संवादो देवहूत्याश्च पावनः॥ ३६ ॥
अनुवाद (हिन्दी)
निष्पाप विदुरजी! तुम्हारे पूछनेसे मैंने तुम्हें यह भगवान् कपिल और देवहूतिका परम पवित्र संवाद सुनाया॥ ३६॥
वीरराघवः
स्वायम्भुवस्य च मनोर्वंश इत्यादिना कृतस्य प्रश्नस्य यदुत्तरमुक्तं तदुपसंहरति । एतदिति । हे अनघ विदुर ! अहं यत्पृष्टः यत्प्रति त्वया पृष्टस्तदेतत्तव तुभ्यं निगदितं मया तत्प्रसङ्गात् कपिलस्य देवहूतेश्च लोकपावनः शुश्रूषणकथनपराणां च लोकानां पावनः सम्वादोऽपि निगदितः ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
य इदमनुशृणोति योऽभिधत्ते
कपिलमुनेर्मतमात्मयोगगुह्यम्।
भगवति कृतधीः सुपर्णकेता-
वुपलभते भगवत्पदारविन्दम्॥
मूलम्
य इदमनुशृणोति योऽभिधत्ते कपिलमुनेर्मतमात्मयोगगुह्यम्।
भगवति कृतधीः सुपर्णकेतावुपलभते भगवत्पदारविन्दम्॥ ३७ ॥
अनुवाद (हिन्दी)
यह कपिलदेवजीका मत अध्यात्मयोगका गूढ़ रहस्य है। जो पुरुष इसका श्रवण या वर्णन करता है, वह भगवान् गरुडध्वजकी भक्तिसे युक्त होकर शीघ्र ही श्रीहरिके चरणारविन्दोंको प्राप्त करता है॥ ३७॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने त्रयस्त्रिंशोऽध्यायः॥ ३३॥
॥ इति तृतीयः स्कन्धः समाप्तः॥
॥ हरिः ॐ तत्सत्॥
Misc Detail
॥ ॐ नमो भगवते वासुदेवाय ॥
वीरराघवः
कपिलदेवहूतिसम्वादश्रवणादिफलमाह । य इति । कपिलेन पूर्वं फलमुक्तमत्र तु मैत्रेयेणेति वक्तृभेदान्न पौनरुक्त्यम् । इदमात्मनो योगरूपं गुह्यतमं कपिलमुनेर्मतं यः शृणोति वक्तरि सति यो वाभिधत्ते श्रोतृषु सत्सु श्रावयति स पुमान् सुर्पणकेतौ गरुडध्वजे भगवति कृतधीः निष्पन्नभक्तियोगो भूत्वा भगवत्पदारविन्दं लभते प्राप्नोति ॥ ३७ ॥
इति श्रीवत्सान्वयपयःपारावारराकासुधाकरस्य सर्वविद्यानिधेः श्रीशैलगुरोः सुतेन तच्चरणकमलपरिचर्याप्रसन्नतत्सूक्तिसमधिगतश्रीमद्भागवतार्थहृदयेन श्रीवैष्णवदासेन श्रीवीरराघवविदुषा कृतायां श्रीमद्भागवतचन्द्रचन्द्रिकाख्यायां श्रीभागवतव्याख्यायां तृतीयस्कन्धे त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥ श्रीमते रामानुजाय नमः श्रीमते निगमान्तमहादेशिकाय नमः ।