[द्वात्रिंशोऽध्यायः]
भागसूचना
धूममार्ग और अर्चिरादि मार्गसे जानेवालोंकी गतिका और भक्तियोगकी उत्कृष्टताका वर्णन
श्लोक-१
मूलम् (वचनम्)
कपिल उवाच
विश्वास-प्रस्तुतिः
अथ यो गृहमेधीयान्धर्मानेवावसन् गृहे।
काममर्थं च धर्मान् स्वान् दोग्धि भूयः पिपर्ति तान्॥
मूलम्
अथ यो गृहमेधीयान्धर्मानेवावसन् गृहे।
काममर्थं च धर्मान् स्वान् दोग्धि भूयः पिपर्ति तान्॥ १ ॥
वीरराघवः
एवम् अतीताध्याय-द्वयेन वैराग्य-सिद्ध्यर्थं गर्भ-जन्म-जरा-मरणादि-क्लेशाः अनिष्टादिकारिणां गतिश् चोपपादिताः । अथेष्टादिकारिणां परब्रह्मोपासकानां च गतिम् आह । तत्र तावद् इष्टादिकारिणां गतिम् आह । अथेति चतुर्भिः । अथ ननु यो गृहाश्रमी गृह एवावसन् गृह-मेधीयान् गृह-मेधो गृहाश्रमः तत्-प्रयुक्तान् धर्मान् एवानुतिष्ठन्न् इति शेषः, धर्मान् एव इत्य्-एव-कारेण निवृत्ति-धर्म-व्यावृत्तिः धर्मान् आवसन् कुर्वन्न् इति वा स्वकान् धर्मान् कामम् अर्थं दोग्धि प्रपूरयति धर्मान् अनुतिष्ठन् कामार्थौ लभत इत्य् अर्थः, स भूयस् तान् धर्मान् पिपर्त्ति पालयति ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
स चापि भगवद्धर्मात्काममूढः पराङ्मुखः।
यजते क्रतुभिर्देवान् पितृंश्च श्रद्धयान्वितः॥
मूलम्
स चापि भगवद्धर्मात्काममूढः पराङ्मुखः।
यजते क्रतुभिर्देवान् पितृंश्च श्रद्धयान्वितः॥ २ ॥
मूलम् - कर्णावती
स चापि भगवद्धर्मात्काममूढः पराङ्मुखः।
यजते क्रतुभिर्देवान् पितृृंश्च श्रद्धयान्वितः॥ २ ॥
अनुवाद (हिन्दी)
कपिलदेवजी कहते हैं—माताजी! जो पुरुष घरमें रहकर सकामभावसे गृहस्थके धर्मोंका पालन करता है और उनके फलस्वरूप अर्थ एवं कामका उपभोग करके फिर उन्हींका अनुष्ठान करता रहता है, वह तरह-तरहकी कामनाओंसे मोहित रहनेके कारण भगवद्धर्मोंसे विमुख हो जाता है और यज्ञोंद्वारा श्रद्धापूर्वक देवता तथा पितरोंकी ही आराधना करता रहता है॥ १-२॥
वीरराघवः
एवकार-सूचितम् अर्थम् आह । स इति । स चापि केवल-गृहमेधीय-धर्मी कामेन विषय-सङ्गेन मूढः अत एव भगवद्-धर्मात् पराङ्मुखः प्रतिनिवृत्तः श्रद्धया प्रतिनिवृत्ति-धर्म-त्वरया युक्तः क्रतुभिर् देवान् पितॄंश् च यजते ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
तच्छ्रद्धयाक्रान्तमतिः पितृदेवव्रतः पुमान्।
गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति॥
मूलम्
तच्छ्रद्धयाक्रान्तमतिः पितृदेवव्रतः पुमान्।
गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति॥ ३ ॥
अनुवाद (हिन्दी)
उसकी बुद्धि उसी प्रकारकी श्रद्धासे युक्त रहती है, देवता और पितर ही उसके उपास्य रहते हैं; अतः वह चन्द्रलोकमें जाकर उनके साथ सोमपान करता है और फिर पुण्य क्षीण होनेपर इसी लोकमें लौट आता है॥ ३॥
वीरराघवः
तत्-श्रद्धया पितृ-देव-यजन-श्रद्धया आक्रान्ता मतिर् यस्य पित्रर्थं देवार्थं च व्रतं नियमो यस्य सः सोमयाजी पुमान् चान्द्रमसं लोकं गत्वा धूम-रात्र्य्-अपर-पक्ष-दक्षिणायन-षण्मास-पितृ-लोकाकाश-चन्द्र-क्रमेणारुह्य पुनः चन्द्रमसः स्थानाद् आकाश-वायु-धूमाभ्र-क्रमेण एष्यत्य् अवरोहति ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
यदा चाहीन्द्रशय्यायां शेतेऽनन्तासनो हरिः।
तदा लोका लयं यान्ति त एते गृहमेधिनाम्॥
मूलम्
यदा चाहीन्द्रशय्यायां शेतेऽनन्तासनो हरिः।
तदा लोका लयं यान्ति त1 एते गृहमेधिनाम्॥ ४ ॥
अनुवाद (हिन्दी)
जिस समय प्रलयकालमें शेषशायी भगवान् शेषशय्यापर शयन करते हैं, उस समय सकाम गृहस्थाश्रमियोंको प्राप्त होनेवाले ये सब लोक भी लीन हो जाते हैं॥ ४॥
वीरराघवः
कल्पान्तर-स्थायि-चन्द्रादि-लोक-गतानां क्षयिष्णु-फलत्वम् उक्तम् अथ केवलेष्टादिकारि-प्राप्यानां लोकानां क्षयिष्णुत्वम् आह । यदेति । यदा कल्पान्ते ऽनन्तासनः शेषासनो भगवान् अहीन्द्रः शेषः स एव शय्या तस्यां शेते तदा ये केवल-गृह-मेधिनां प्राप्या लोकास् त ऐते लोका लयं नाशं यान्ति ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
ये स्वधर्मान्न दुह्यन्ति धीराः कामार्थहेतवे।
निःसङ्गा न्यस्तकर्माणः प्रशान्ताः शुद्धचेतसः॥
मूलम्
ये स्वध2र्मान्न दुह्यन्ति धीराः कामार्थहेतवे।
निःसङ्गा न्यस्तकर्माणः प्रशान्ताः शुद्धचेतसः॥ ५ ॥
वीरराघवः
अथ परब्रह्मोपासकानां गतिम् आह । य इति । ये धीराः जितेन्द्रियाः कामार्थयोर् निमित्तं स्व-धर्मान् वर्णाश्रमोचित-धर्मान् न दुह्यन्ति नानुतिष्ठन्ति किन्तु निःसङ्गाः असत्-सङ्ग-रहिताः न्यस्तानि भगवति समर्पितानि कर्माणि स्व-वर्णाश्रमोचित-कर्माणि यैस् ते प्रशान्ताः शम-दमादि-सम्पन्नाः शुद्ध-चेतसः स्व-धर्मानुष्ठानेन निर्मलान्तः-करणाः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
निवृत्तिधर्मनिरता निर्ममा निरहङ्कृताः।
स्वधर्माख्येन सत्त्वेन परिशुद्धेन चेतसा॥
मूलम्
निवृत्तिधर्मनिरता निर्ममा निरहङ्कृताः।
स्वधर्माख्येन सत्त्वेन परिशुद्धेन चेतसा॥ ६ ॥
अनुवाद (हिन्दी)
जो विवेकी पुरुष अपने धर्मोंका अर्थ और भोग-विलासके लिये उपयोग नहीं करते, बल्कि भगवान्की प्रसन्नताके लिये ही उनका पालन करते हैं—वे अनासक्त, प्रशान्त, शुद्धचित्त, निवृत्तिधर्मपरायण, ममतारहित और अहंकारशून्य पुरुष स्वधर्मपालनरूप सत्त्वगुणके द्वारा सर्वथा शुद्धचित्त हो जाते हैं॥ ५-६॥
वीरराघवः
निवृत्ति-धर्मा भगवद्-गुण-श्रवण-कीर्त्तनादयः तेषु निरताः सत्त्वेन ।
त्यागो हि पुरुष-व्याघ्र ! त्रि-विधः सम्प्रकीर्त्तितः, यस् तु कर्म-फल-त्यागः स त्यागः सात्त्विकः स्मृतः ॥
इत्य्-उक्त-सात्त्विक-त्याग-युक्तेन स्व-धर्माख्येन पञ्च-महा-यज्ञादिना । यद् वा स्व-धर्माख्येन सत्त्वेनेत्य् उपचाराद् उक्तं स्व-धर्म-जन्येनेत्य् अर्थः, परिशुद्धेन चेतसा भगवत्-प्रवणेन चेतसा अहङ्कार-ममकार-रहिताः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम्।
परावरेशं प्रकृतिमस्योत्पत्त्यन्तभावनम्॥
मूलम्
सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम्।
परावरेशं प्रकृतिमस्योत्पत्त्यन्तभावनम्॥ ७ ॥
अनुवाद (हिन्दी)
वे अन्तमें सूर्यमार्ग (अर्चिमार्ग या देवयान)-के द्वारा सर्वव्यापी पूर्णपुरुष श्रीहरिको ही प्राप्त होते हैं—जो कार्य-कारणरूप जगत्के नियन्ता, संसारके उपादान-कारण और उसकी उत्पत्ति, पालन एवं संहार करनेवाले हैं॥ ७॥
वीरराघवः
ते सूर्य-द्वारेण सूर्य-द्वारेणेत्य् अर्चिरादीनाम् उपलक्षणम् । अर्चिर् अहः सितपक्षोदगयनाब्द-मरुद्-अर्क-इन्दु-विद्युद्-वरुणेन्द्र-धातृ-क्रमेण पुरुषं परम-पुरुषं माम् उपयान्ति । पुनर् अनावर्त्तयितृत्व-सूचनाय पुरुषं विशिनष्टि । अस्य विश्वस्य प्रकृतिं बन्ध-मोक्ष-कारणं परम-पुरुष-सङ्कल्पाद् एव हि बन्धो मोक्षश् च अस्य विश्वस्योत्पत्ति-स्थिति-संहारान् भावयति करोतीति तथा विश्वतोमुखं सर्वज्ञं परे ब्रह्मादयो ऽवरे यस्मात् स चासाव् ईश्वरश् च अनेन विशेषण-जातेन स्व-सङ्कल्प-कृत-जगद्-उदय-विभव-लय-मोक्ष-लीलत्वान् निरतिशय-प्रीति-विषयान् स्व-भक्तान् स्व-पदं प्रापय्य पुनर् अनावर्त्तयितुं समर्थ इत्य् उक्तं भवति । प्रतिपादितं चैतत् पुरस्तात् अत्र सूर्य-द्वारेण इत्य् अनेन “सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्य् अव्ययात्मा” इति श्रुत्य्-अर्थ उक्तः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
द्विपरार्द्धावसाने यः प्रलयो ब्रह्मणस्तु ते।
तावदध्यासते लोकं परस्य परचिन्तकाः॥
मूलम्
द्विपरार्द्धावसाने3 यः प्रलयो ब्रह्मणस्तु ते।
तावदध्यासते लोकं परस्य परचिन्तकाः॥ ८ ॥
अनुवाद (हिन्दी)
जो लोग परमात्मदृष्टिसे हिरण्यगर्भकी उपासना करते हैं, वे दो परार्द्धमें होनेवाले ब्रह्माजीके प्रलयपर्यन्त उनके सत्यलोकमें ही रहते हैं॥ ८॥
वीरराघवः
एवं धूमादिर् अर्चिरादिश् चेति मार्ग-द्वयम् उक्तम् अथ योगि-यानेन चतुर्मुख-लोक-गतानाम् अपि ब्रह्मणा सह महा-प्रलय-दशायां मुक्तिर् उच्यते द्वि-परार्द्धेत्य् आदिना ।
उत्तरो देव-मार्गस् तु योगि-यानस् तु मध्यमः । दक्षिणः पितृ-यानस् तु तत्रान्त्या नाग-वीथिका ॥
इति ह्य् उच्यते द्वि-परार्द्धावसानः । द्वयोः परार्द्धयोः पूर्वोत्तरयोर् अवसानम् अन्तो यस्मिन् द्वि-परार्द्धावसान-रूपो वा यः ब्रह्मणश् चतुर्मुखस्य प्रलयः तावत् तद्-अवधि परस्य परमात्मनः परिचिन्तका योगिनः लोकं ब्रह्मणो लोकं लोके “अधिशीङ्स्थासां कर्म" इत्य् आधारस्यैव कर्म-संज्ञायां द्वितीया, अध्यासते इत्य् अनेन निष्काम-कर्मणाम् अपि पुष्कल-ज्ञानोत्पत्तेः प्राग् एव मरणे ब्रह्म-लोक-प्राप्त्या तत्र ज्ञानाभ्यास उक्तः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
क्ष्माम्भोऽनलानिलवियन्मनइन्द्रियार्थ-
भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः।
अव्याकृतं विशति यर्हि गुणत्रयात्मा
कालं पराख्यमनुभूय परः स्वयम्भूः॥
मूलम्
क्ष्माम्भोऽनलानिलवियन्मनइन्द्रियार्थभूतादिभिः परिवृतं प्रतिसञ्जि4हीर्षुः।
अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं पराख्यमनुभूय परः स्वयम्भूः॥ ९ ॥
वीरराघवः
क्ष्माम्भ इति । क्ष्मादीनि वियदन्तानि पञ्च महा-भूतानि मनश् चेन्द्रियाणि चार्थाश् च शब्दादयः भूतादिस् तामसाहङ्कारः एवम् आदिभिः परिवृतं युक्तं ब्रह्माण्डं सञ्जिघृक्षुः संहर्तुम् इच्छुः गुण-त्रयं सत्त्वादि-गुण-मयं जगद् यस्यात्मा शरीरं स्थूल-चिद्-अचिद्-विशिष्टम् इत्य् अर्थः, गुण-त्रयस्यात्मेति वा स भगवान् यर्हि यदा ऽव्याकृतं विशति नाम-रूप-विभागानर्ह-निरतिशय-सूक्ष्म-चिद्-अचिद्-विशिष्टत्वावस्थां प्रविशति प्राप्नोति तदा परः इन्द्रादिभ्य उत्कृष्टः स्वयम्भूर् ब्रह्मा द्वि-परार्द्धाख्यं कालम् अनुभूय पुराणं पुरुषं यातीति विभक्ति-विपरिणामेनोत्तरत्रान्वयः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
एवं परेत्य भगवन्तमनुप्रविष्टा
ये योगिनो जितमरुन्मनसो विरागाः।
तेनैव साकममृतं पुरुषं पुराणं
ब्रह्म प्रधानमुपयान्त्यगताभिमानाः॥
मूलम्
एवं परेत्य भगवन्तमनुप्रविष्टा ये योगिनो जितमरुन्मनसो विरागाः।
तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्य5गताभिमानाः॥ १० ॥
अनुवाद (हिन्दी)
जिस समय देवतादिसे श्रेष्ठ ब्रह्माजी अपने द्विपरार्द्धकालके अधिकारको भोगकर पृथ्वी, जल, अग्नि, वायु, आकाश, मन, इन्द्रिय, उनके विषय (शब्दादि) और अहंकारादिके सहित सम्पूर्ण विश्वका संहार करनेकी इच्छासे त्रिगुणात्मिका प्रकृतिके साथ एकरूप होकर निर्विशेष परमात्मामें लीन हो जाते हैं, उस समय प्राण और मनको जीते हुए वे विरक्त योगिगण भी देह त्यागकर उन भगवान् ब्रह्माजीमें ही प्रवेश करते हैं और फिर उन्हींके साथ परमानन्दस्वरूप पुराणपुरुष परब्रह्ममें लीन हो जाते हैं। इससे पहले वे भगवान्में लीन नहीं हुए; क्योंकि अबतक उनमें अहंकार शेष था॥ ९-१०॥
वीरराघवः
एवं तथा ये योगिनः भगवन्तं हिरण्य-गर्भम् अनुप्रविष्टाः प्राप्तास् ते ऽपि तत्र जित-मरुन्-मनसः जित-प्राणेन्द्रियाः विरागाः प्राप्य पर-ब्रह्म-व्यतिरिक्ताणिमाद्य्-अष्टैश्वर्य-वैतृष्ण्य-युक्ताः विगत-देहात्माभिमानास् स्वतन्त्रात्माभिमानास् तेनैव साकं ब्रह्मणा सह प्रधानं सर्वोत्कृष्टं ब्रह्म स्व-रूपतो गुणतश् च निरतिशय-बृहत्-पुराणं पुरातनं पुरुषं परम-पुरुषम् उपयान्ति अतः संन्यास-योगाद्य् अतयः शुद्ध-सत्त्वाः । ते ब्रह्म-लोके तु परान्त-काले परामृतात् परिमुच्यन्ति सर्वे । “ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । सर्वस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ।” इत्य्-आदि-श्रुति-स्मृत्य् अर्थ उक्तः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम्।
श्रुतानुभावं शरणं व्रज भावेन भामिनि॥
मूलम्
अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम्।
श्रुतानुभावं शरणं व्रज भावेन भामि6नि॥ ११ ॥
अनुवाद (हिन्दी)
इसलिये माताजी! अब तुम भी अत्यन्त भक्तिभावसे उन श्रीहरिकी ही चरण-शरणमें जाओ; समस्त प्राणियोंका हृदयकमल ही उनका मन्दिर है और तुमने भी मुझसे उनका प्रभाव सुन ही लिया है॥ ११॥
वीरराघवः
एवम् अत्रापरि-निष्पन्न-भगवद्-भक्ति-योगानां केषाञ्चिद् धिरण्य-गर्भ-लोक-प्राप्ति-पूर्वकं परिपूर्ण-भगवद्-भक्ति-निष्पादनेन भगवत्-प्राप्तिर् उक्ता । अथात्रैव पूर्ण-भक्ति-योगानाम् अविलम्बेनार्चिरादि-गत्या भगवत्-प्राप्तिर् अतस् त्वम् अपि पूर्ण-भक्ति-योगं निर्वर्तयेत्य् आह । अथेति । हे भामिनि ! अथ तस्मात् सर्व-भूत-हृत्-पद्मावासं श्रुत-प्रभावं मत्तस् त्वया श्रुत-प्रभावं तं भगवन्तं शरणं भावेन “माता पिता भ्राता निवासः शरणं सुहृत्” इत्य्-आद्य्-उक्त-भावेन भज व्रज । पूर्वं साङ्गः सपरिकरो भक्ति-योग उक्तः, अत्र तद्-अङ्ग-भूत-शरणागतिर् उक्ता । एवं चरम-श्लोकोक्त-रीत्या शरण्यो भगवान् भक्ति-योग-विरोधीनि पापानि निरस्य भक्ति-योगं निर्वर्त्तयतीति हृदयम् उपयान्ति गताभिमाना इति ब्रह्म-लोक-वासिनाम् अपि देहात्माभिमान-स्वतन्त्रात्माभिमान-रहितानाम् एव भगवत्-प्राप्तिर् उक्ता । अथ यदि केनचित् सुकृत-विशेषेण ब्रह्म-लोकं प्राप्ताः फलासङ्ग-रहित-कर्माणो ऽपि देहात्माभिमानादि-युक्ताश् चैते पुनः संसरेयुर् अन्ये पुनः साभिमानाः संसरन्तीति किम् उ वक्तव्यम् ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः।
योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः॥
मूलम्
आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः।
योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा।
कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम्॥
मूलम्
भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा।
कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम्॥ १३ ॥
वीरराघवः
ब्रह्मापि साभिमानश् चेत् सो ऽपि नरकादिभिः संसरेद् इत्य् आह । आद्य इति चतुर्भिः । स्थिर-चराणाम् आद्यः कारण-भूतः श्रेष्ठ इत्य् अर्थः स पुरुषः समष्टि-पुरुषः वेद-गर्भः ब्रह्मापि सनत्कुमार-प्रभृतिभिर् मरीच्यादिभिः ऋषिभिस् तथा योग-प्रवर्तकैर् अन्यैश् च सिद्धैः सह भेद-दृष्टि-ब्रह्मात्मक-स्वतन्त्र-वस्तुतयाभिमानः शरीरात्माभिमानस् तेन निःसङ्गेनापि कर्मणा स-गुणं साम्यावस्थापन्न-गुण-त्रय-विशिष्टं ब्रह्म सूक्ष्म-चिद्-अचिद्-विशिष्टं पुरुषं परमात्मानं व्रजेत् प्राप्नुयात् । सूक्ष्म-चिद्-अचिद्-विशिष्टे ब्रह्मणि लीनो भवेत् कुतः कर्तृत्वात् भेद-दृष्ट्य्-अभिमान-पूर्वकं निःसङ्ग-कर्म-कर्तृत्वात् ॥ १२, १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
स संसृत्य पुनः काले कालेनेश्वरमूर्तिना।
जाते गुणव्यतिकरे यथापूर्वं प्रजायते॥
मूलम्
स संसृत्य पुनः काले कालेनेश्वरमूर्तिना।
जाते गुणव्यतिकरे यथापूर्वं प्रजायते॥ १४ ॥
अनुवाद (हिन्दी)
वेदगर्भ ब्रह्माजी भी—जो समस्त स्थावर-जंगम प्राणियोंके आदि कारण हैं—मरीचि आदि ऋषियों, योगेश्वरों, सनकादिकों तथा योगप्रवर्तक सिद्धोंके सहित निष्काम कर्मके द्वारा आदिपुरुष पुरुषश्रेष्ठ सगुण ब्रह्मको प्राप्त होकर भी भेददृष्टि और कर्तृत्वाभिमानके कारण भगवदिच्छासे, जब सर्गकाल उपस्थित होता है तब कालरूप ईश्वरकी प्रेरणासे गुणोंमें क्षोभ होनेपर फिर पूर्ववत् प्रकट हो जाते हैं॥ १२—१४॥
वीरराघवः
संसृत्य सूक्ष्म-चिद्-अचिद्-विशिष्टे ब्रह्मणि संसर्गं प्राप्य पुनर् ईश्वर-मूर्तिना कालेन काले “तद् ऐक्षत बहु स्याम्" इति बहु-भवन-सङ्कल्प-दशायां गुण-व्यतिकरे गुण-वैषम्ये जाते सति पुनः सृष्टि-दशायाम् इत्य् अर्थः, यथा-पूर्वं पूर्ववत् प्रजायते ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम्।
निषेव्य पुनरायान्ति गुणव्यतिकरे सति॥
मूलम्
ऐश्वर्यं पारमेष्ठ्यं च7 तेऽपि धर्मविनिर्मितम्।
निषेव्य पुनरायान्ति गुणव्यतिकरे सति॥ १५ ॥
अनुवाद (हिन्दी)
इसी प्रकार पूर्वोक्त ऋषिगण भी अपने-अपने कर्मानुसार ब्रह्मलोकके ऐश्वर्यको भोगकर भगवदिच्छासे गुणोंमें क्षोभ होनेपर पुनः इस लोकमें आ जाते हैं॥ १५॥
वीरराघवः
पारमेष्ठ्यम् अप्य् ऐश्वर्यं धर्म-विनिर्मितं कर्मायत्तम् एवातस् तद् अपि निषेव्यानुभूय परमात्मनि लीनः पुनर् गुण-व्यतिकरे सत्य् आयान्तीत्य् अर्थः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः।
कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः॥
मूलम्
ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः।
कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः॥ १६ ॥
अनुवाद (हिन्दी)
जिनका चित्त इस लोकमें आसक्त है और जो कर्मोंमें श्रद्धा रखते हैं, वे वेदमें कहे हुए काम्य और नित्य कर्मोंका सांगोपांग अनुष्ठान करनेमें ही लगे रहते हैं॥ १६॥
वीरराघवः
एवं निष्काम-कर्मणाम् अपि साभिमानानां पुनः संसार उक्तः । साभिमानाः सकाम-कर्माणः संसरेयुर् इति किं वक्तव्यम् इति वक्ष्यंस् तान् निन्दति । ये त्व् इति चतुर्भिः । इह पारमेष्ठ्यैश्वर्यान्तेष्व् आसक्त-चित्तास् तत्-साधनेषु कर्मसु त्वरया युक्ता अप्रतिषिद्धानि काम्यानि नित्यान्य् अपि च कर्माणि स्वर्गाद्य्-अर्थतया कुर्वन्ति ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः।
पितॄन् यजन्त्यनुदिनं गृहेष्वभिरताशयाः॥
मूलम्
रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः।
पितॄन् यजन्त्यनुदिनं गृहेष्वभिरताशयाः॥ १७ ॥
अनुवाद (हिन्दी)
उनकी बुद्धि रजोगुणकी अधिकताके कारण कुण्ठित रहती है, हृदयमें कामनाओंका जाल फैला रहता है और इन्द्रियाँ उनके वशमें नहीं होतीं; बस, अपने घरोंमें ही आसक्त होकर वे नित्यप्रति पितरोंकी पूजामें लगे रहते हैं॥ १७॥
वीरराघवः
रजो-गुणेन विक्षिप्त-मनसः कामासक्त-चित्ताः अत एवाजितेन्द्रिया अत एव गृहेष्व् आसक्तान्तः-करणाः अनुदिनं पितॄन् यजन्ति ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः।
कथायां कथनीयोरुविक्रमस्य मधुद्विषः॥
मूलम्
त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः।
कथायां8 कथनीयोरुविक्रमस्य मधुद्विषः॥ १८ ॥
अनुवाद (हिन्दी)
ये लोग अर्थ, धर्म और कामके ही परायण होते हैं; इसलिये जिनके महान् पराक्रम अत्यन्त कीर्तनीय हैं, उन भवभयहारी श्रीमधुसूदन भगवान्की कथा-वार्ताओंसे तो ये विमुख ही रहते हैं॥ १८॥
वीरराघवः
कथनीय-निरतिशय-कीर्तेर् हरि-मेधसः संसृति-नाशकोषासनात्मक-ज्ञान-विषयस्य मधुद्-विषो भगवतः कथायां विमुखाः सन्तो ये त्रैवर्गिकाः धर्मार्थ-काम-परायणास् ते ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
नूनं दैवेन विहता ये चाच्युतकथासुधाम्।
हित्वा शृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजः॥
मूलम्
नूनं दैवेन विहता ये चाच्युतकथासुधाम्।
हित्वा शृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजः॥ १९ ॥
अनुवाद (हिन्दी)
हाय! विष्ठाभोजी कूकर-सूकर आदि जीवोंके विष्ठा चाहनेके समान जो मनुष्य भगवत्कथामृतको छोड़कर निन्दित विषय-वार्ताओंको सुनते हैं—वे तो अवश्य ही विधाताके मारे हुए हैं, उनका बड़ा ही मन्द भाग्य है॥ १९॥
वीरराघवः
ये चाच्युत-कथा-सुधां हित्वा विड्भुजः शूकरादयः पुरीषम् इवासतां गाथाः शृण्वन्ति ते च नूनं दैवेन विहिताः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
दक्षिणेन पथार्यम्णः पितृलोकं व्रजन्ति ते।
प्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृतः॥
अनुवाद (हिन्दी)
गर्भाधानसे लेकर अन्त्येष्टितक सब संस्कारोंको विधिपूर्वक करनेवाले ये सकामकर्मी सूर्यसे दक्षिण ओरके पितृयान या धूममार्गसे पित्रीश्वर अर्यमाके लोकमें जाते हैं और फिर अपनी ही सन्ततिके वंशमें उत्पन्न होते हैं॥ २०॥
वीरराघवः
तेषां का गतिर् इत्य् अत्राह । अर्यम्णो दक्षिणेन पथा धूमादि-मार्गेण पितृ-लोकं व्रजन्ति पितृ-लोकात् पुनः प्रजाम् अनु स्व-पुत्रादिषु जायन्ते ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति।
पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः॥
मूलम्
ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति।
पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः॥ २१ ॥
अनुवाद (हिन्दी)
माताजी! पितृलोकके भोग भोग लेनेपर जब उनके पुण्य क्षीण हो जाते हैं, तब देवतालोग उन्हें वहाँके ऐश्वर्यसे च्युत कर देते हैं और फिर उन्हें विवश होकर तुरन्त ही इस लोकमें गिरना पड़ता है॥ २१॥
वीरराघवः
ततो गर्भाधानादि-श्मशानान्त-संस्कारिणः पुनर् अमुं लोकं प्राप्य तत्र भोगेन क्षीण-सुकृताः तत्रत्यैर् देवैः सद्य एव विभ्रंशिताः उदया भोगोत्कर्षा येषां ते विवशाः कर्म-वश्याः पुनर् इमं लोकं प्रति पतन्ति ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
तस्मात्त्वं सर्वभावेन भजस्व परमेष्ठिनम्।
तद्गुणाश्रयया भक्त्या भजनीयपदाम्बुजम्॥
मूलम्
तस्मात्त्वं सर्वभावेन भजस्व परमेष्ठिनम्।
तद्गुणाश्रयया भक्त्या भजनीयपदाम्बुजम्॥ २२ ॥
अनुवाद (हिन्दी)
इसलिये माताजी! जिनके चरणकमल सदा भजनेयोग्य हैं, उन भगवान्का तुम उन्हींके गुणोंका आश्रय लेनेवाली भक्तिके द्वारा सब प्रकारसे (मन, वाणी और शरीरसे) भजन करो॥ २२॥
वीरराघवः
एवं काम्य-कर्मणां गतिम् अभिधाय मातुः पूर्वोक्त-भगवद्-भक्ति-योग-श्रद्धा-वैकल्याय प्रोत्साहयति । तस्माद् इति । तस्मात् सकाम-कर्मणां गतेर् एवंविधत्वात् त्वं सर्व-भावेन “येषाम् अहं प्रिय आत्मा सुतश् च” इत्य्-आद्य्-उक्त-सर्व-भावेन परमेष्ठिनं परम-व्योमाधिपति भजनीयं सुराराध्यं पदाम्बुजं यस्य तं भगवन्तं स भगवान् गुणाश् च ज्ञान-शक्ति-बलादयस् त एवाश्रयो विषयो यस्यां तया स्व-रूप-गुण-विषययेत्य् अर्थः, भक्त्या प्रेम-पूर्वानुध्यानात्मिकया भक्त्या भजस्व ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
वासुदेवे भगवति भक्तियोगः प्रयोजितः।
जनयत्याशु वैराग्यं ज्ञानं यद्ब्रह्मदर्शनम्॥
मूलम्
वासुदेवे भगवति भक्तियोगः प्रयोजितः।
जनयत्याशु वैराग्यं ज्ञानं यद्ब्रह्मदर्शनम्॥ २३ ॥
अनुवाद (हिन्दी)
भगवान् वासुदेवके प्रति किया हुआ भक्तियोग तुरंत ही संसारसे वैराग्य और ब्रह्मसाक्षात्काररूप ज्ञानकी प्राप्ति करा देता है॥ २३॥
वीरराघवः
कथं भक्ति-योगारम्भाभ्यर्हितोपाय-वैराग्यम् अन्तरेण मम भक्ति-योगारम्भ इत्य् अत्राह । वासुदेव इति । भगवति वासुदेवे भक्ति-योगः प्रयोजितः यद् यस्माद् ब्रह्म दृश्यते ऽनेनेति ब्रह्म-दर्शनं साक्षात्कारोपाय-भूतं भक्ति-योगात्मक-ज्ञानम् उत्पद्यते तद्-वैराग्यम् आशु जनयति आरब्ध-भक्ति-योग एव वैराग्यम् अपि जनयतीत्य् अर्थः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः।
न विगृह्णाति वैषम्यं प्रियमप्रियमित्युत॥
मूलम्
यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः।
न विगृह्णाति वैषम्यं प्रियमप्रियमित्युत॥ २४ ॥
वीरराघवः
कदायम् आरब्ध-भक्ति-योगो ब्रह्म-साक्षात् कुर्याद् इत्य् अत्राह । यदेति । अस्योपासकस्य चित्तं यदा इन्द्रिय-वृत्तिभिर् अर्थेषु शब्दादिषु समम् अनुकूल-प्रतिकूल-शब्दादि-विषयान् प्राप्याविकृतं सद् अनुकूलादि-विषय-सम्बन्ध-कृतं प्रियाप्रिय-रूपं वैषम्यं न गृह्णाति ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
स तदैवात्मनाऽऽत्मानं निःसङ्गं समदर्शनम्।
हेयोपादेयरहितमारूढं पदमीक्षते॥
मूलम्
स तदैवात्मनाऽऽत्मानं निःसङ्गं12 समदर्शनम्।
हेयोपादेयरहितमारूढं पदमीक्षते॥ २५ ॥
अनुवाद (हिन्दी)
वस्तुतः सभी विषय भगवद्रूप होनेके कारण समान हैं। अतः जब इन्द्रियोंकी वृत्तियोंके द्वारा भी भगवद्भक्तका चित्त उनमें प्रिय-अप्रियरूप विषमताका अनुभव नहीं करता—सर्वत्र भगवान्का ही दर्शन करता है—उसी समय वह संगरहित, सबमें समानरूपसे स्थित, त्याग और ग्रहण करनेयोग्य, दोष और गुणोंसे रहित, अपनी महिमामें आरूढ़ अपने आत्माका ब्रह्मरूपसे साक्षात्कार करता है॥ २४-२५॥
वीरराघवः
यदा च चित्तं निःसङ्गं शब्दादि-विषयासङ्ग-रहितम् । अत एव हेयोपादेय-रहितं द्वेष्याद्वेष्य-विषय-रहितं सम-दर्शनं समं दर्शनं यस्य तत् सर्वस्य ब्रह्मात्मकत्वानुसन्धान-परं पदं शुभाश्रयं प्रत्यारूढं भवति स तदैवात्मना उक्त-विधेन चित्तेनात्मानम् ईश्वरम् ईक्षते साक्षात्करोतीत्य् अन्वयः । सम-दर्शनम् इत्य् अनेन सर्वस्य जगतो ब्रह्मात्मकत्वेनानुसन्धानम् उक्तम् ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान्।
दृश्यादिभिः पृथग्भावैर्भगवानेक ईयते॥
मूलम्
ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान्।
दृश्यादिभिः पृथग्भावैर्भगवानेक 13ईयते॥ २६ ॥
अनुवाद (हिन्दी)
वही ज्ञानस्वरूप है, वही परब्रह्म है, वही परमात्मा है, वही ईश्वर है, वही पुरुष है; वही एक भगवान् स्वयं जीव, शरीर, विषय, इन्द्रियों आदि अनेक रूपोंमें प्रतीत होता है॥ २६॥
वीरराघवः
कथं विश्वस्य ब्रह्मात्मकत्वम् इत्य् अत्राह । ज्ञान-मात्रम् इति । ज्ञान-मात्रं न क्वापि जडम् इत्य् अर्थः । पर-ब्रह्म-परमात्मादि-शब्द-वाच्यः ज्ञान-मात्र-स्व-रूपः परम-पुरुषो भगवान् एक एव दृश्यादिभिः पृथिव्यादिभिः पृथग्-भावैः परस्पर-विलक्षण-धर्मैर् ईयते प्रतीयते भगवान् एक एव पृथिव्यादि-पञ्च-भूत-सम्भूतात्मक-देवादि-रूप-भेदेन प्रतीयते । अतः सर्वं जगद्-भगवदात्मकम् इत्य् अर्थः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
एतावानेव योगेन समग्रेणेह योगिनः।
युज्यतेऽभिमतो ह्यर्थो यदसङ्गस्तु कृत्स्नशः॥
मूलम्
एतावानेव योगेन समग्रेणेह योगिनः।
युज्यतेऽभिमतो ह्यर्थो यदसङ्गस्तु कृत्स्न14शः॥ २७ ॥
अनुवाद (हिन्दी)
सम्पूर्ण संसारमें आसक्तिका अभाव हो जाना—बस, यही योगियोंके सब प्रकारके योगसाधनका एकमात्र अभीष्ट फल है॥ २७॥
वीरराघवः
अत्रान्तराचिन्ता-न्यायेन किम् अस्य भक्ति-योगस्य फलम् इत्य् अत्राह । एतावान् इति । योगिनां समग्रेण साङ्गेन भक्ति-योगेनाभिमतो ऽर्थः पुरुषार्थः युज्यते निरतिशय-सुख-रूपः परम-पुरुषार्थ-रूपापहत-पाप्मत्वादि-गुणाष्टक-विशिष्ट-स्व-रूपेण युक्तो भवति कृत्स्नशः कार्त्स्न्येनासङ्गः प्रकृति-सम्बन्ध-राहित्यं चेत्य् एतावान् एवानिष्ट-निवृत्तिर् इष्ट-प्राप्तिर् एव भक्ति-योग-फलम् इत्य् अर्थः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम्।
अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा॥
मूलम्
ज्ञानमेकं पराची15नैरिन्द्रियैर्ब्रह्म निर्गुणम्।
अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा॥ २८ ॥
अनुवाद (हिन्दी)
ब्रह्म एक है, ज्ञानस्वरूप और निर्गुण है, तो भी वह बाह्यवृत्तियोंवाली इन्द्रियोंके द्वारा भ्रान्तिवश शब्दादि धर्मोंवाले विभिन्न पदार्थोंके रूपमें भास रहा है॥ २८॥
वीरराघवः
दृश्यादिभिर् इति । परमात्मनः पृथिव्यादि-विशिष्टत्वम् उक्तं जीवस्य पृथिव्यादि-विशिष्टत्वे विशेषम् आह । ज्ञानम् इति । निर्गुणं सत्त्वादि-गुण-रहितम् एकं ज्ञान-स्व-रूपं ब्रह्म जीवः “ब्रह्मणो हि प्रतिष्ठाहम्” इति जीवे ऽपि क्वचिद् ब्रह्म-शब्द-प्रयोगात् पराचीनैः परस्मै प्रकाशकैर् इन्द्रियैः शब्दादि-धर्मिणार्थ-रूपेण शब्दादि-धर्मकाकाशादि-पञ्च-भूतारब्ध-देवादि-रूपेण भ्रान्त्यावभाति परस्य सर्व-विशिष्टस्यापि सर्वज्ञत्वान् न भ्रान्तिः । जीवस्य तु ज्ञान-स्व-रूपस्य सत्त्वादि-गुण-रहितस्य स्थूलाकारादि-देहाकारो भ्रान्तिर् इत्य् अर्थः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
यथा महानहंरूपस्त्रिवृत्पञ्चविधः स्वराट्।
एकादशविधस्तस्य वपुरण्डं जगद्यतः॥
मूलम्
यथा महानहंरूपस्त्रिवृत्पञ्चविधः स्वराट्।
एकादशविधस्तस्य वपुरण्डं जगद्यतः॥ २९ ॥
अनुवाद (हिन्दी)
जिस प्रकार एक ही परब्रह्म महत्तत्त्व, वैकारिक, राजस और तामस—तीन प्रकारका अहंकार, पंचमहाभूत एवं ग्यारह इन्द्रियरूप बन गया और फिर वही स्वयंप्रकाश इनके संयोगसे जीव कहलाया, उसी प्रकार उस जीवका शरीररूप यह ब्रह्माण्ड भी वस्तुतः ब्रह्म ही है, क्योंकि ब्रह्मसे ही इसकी उत्पत्ति हुई है॥ २९॥
वीरराघवः
परम प्रस्तुतं सर्वस्य ब्रह्मात्मकत्वम् उपपादयति । यथेति । महान् महत्तत्त्वम् अहं-रूपः अहङ्कारः स च त्रिवृद्-वैकारिकादि-भेदेन त्रिधा वर्तमानः पुनश् च भूत-रूपेण पञ्चविधः इन्द्रिय-रूपेणैकादश-विधः एतत्-तत्त्वात्मकं यद् अण्डं स्वराट् ब्रह्म च यत उत्पन्नं तस्यैवैतत् सर्वं जगद्-वपुः शरीरं यथा यथावत् परमार्थ इत्य् अर्थः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः।
समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति॥
मूलम्
एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः।
समाहितात्मा निःसङ्गो विरक्त्या16 परिपश्यति॥ ३० ॥
अनुवाद (हिन्दी)
किन्तु इसे ब्रह्मरूप वही देख सकता है, जो श्रद्धा, भक्ति और वैराग्य तथा निरन्तरके योगाभ्यासके द्वारा एकाग्रचित्त और असंगबुद्धि हो गया है॥ ३०॥
वीरराघवः
केनोपायेनायं सर्वात्मकत्वेन ब्रह्म साक्षात्कुर्याद् इत्य् अत्राह । एतद् इति । एतत् कृत्स्नस्य ब्रह्मात्मकत्वं श्रद्ध्या भक्त्या वैराग्येण च परिपश्यति श्रद्धा-भक्ति-वैराग्यादिभिः सर्वात्मकं ब्रह्म साक्षात्कुर्याद् इत्य् अर्थः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
इत्येतत्कथितं गुर्वि ज्ञानं तद्ब्रह्मदर्शनम्।
येनानुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च॥
मूलम्
इत्येतत्कथितं गुर्वि ज्ञानं तद्ब्रह्मदर्शनम्।
येनानुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च॥ ३१ ॥
मूलम् - कर्णावती
इत्येतत्कथितं गुर्वि ज्ञानं तद् ब्रह्मदर्शनम्।
येनानुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च॥ ३१ ॥
अनुवाद (हिन्दी)
पूजनीय माताजी! मैंने तुम्हें यह ब्रह्मसाक्षात्कारका साधनरूप ज्ञान सुनाया, इसके द्वारा प्रकृति और पुरुषके यथार्थस्वरूपका बोध हो जाता है॥ ३१॥
वीरराघवः
अथाष्टाध्याय्या प्रतिपादितम् अर्थम् उपसंहर्तुं सुख-प्रतिपत्तये संक्षेपेणानुवदति । इतीति । हे गुर्वि ! पूज्ये ! इत्य्-उक्त-रीत्या एतत् कथितम् । किं तद् इत्य् अत्राह । येन प्रकृतेर् अचेतनायाः भूम्यादि-रूपायाः “भूमिर् आपो ऽनलो वायुः” इत्य्-आद्य्-उक्तायाः तथा “अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम्” इत्य्-उक्ताया जीवात्मक-प्रकृतेश् च पुरुषस्य परम-पुरुषस्य च तत्त्वं याथात्म्यम् अवबुध्यते तद्-ब्रह्म-दर्शनं ब्रह्म-दर्शनोपाय-भूतं ज्ञानं कथितम् इत्य् अर्थः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः।
द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः॥
मूलम्
ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः।
द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः॥ ३२ ॥
अनुवाद (हिन्दी)
देवि! निर्गुणब्रह्म-विषयक ज्ञानयोग और मेरे प्रति किया हुआ भक्तियोग—इन दोनोंका फल एक ही है। उसे ही भगवान् कहते हैं॥ ३२॥
वीरराघवः
तथा ज्ञान-योगः प्रकृति-विलक्षण-ब्रह्मात्मक-प्रत्यगात्मोपासन-रूपो ज्ञान-योगो नैर्गुण्यः सत्त्वादि-गुण-त्रय-राहित्य-संपादको मन्-निष्ठो मद्-विषयः भक्ति-लक्षणः भक्ति-रूपो योगश् च कथितः । द्वयोर् ज्ञान-योग-भक्ति-योगयोर् उभयोर् अपि भगवच्-छब्दो लक्षणम् “तत्र पूज्य-पदार्थोक्ति-परिभाषा-समन्वितः” इत्य्-उक्त-रीत्यानुपचारेण बोधको यस्य स एव परम-पुरुषः एक एवार्थः प्रयोजनं फलम् इति “भक्ति-योगश् च योगश् च मया मानव्य् उदीरितः” इति कथितः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
यथेन्द्रियैः पृथग्द्वारैरर्थो बहुगुणाश्रयः।
एको नानेयते तद्वद्भगवान् शास्त्रवर्त्मभिः॥
मूलम्
यथेन्द्रियैः पृथग्द्वारैरर्थो बहुगुणाश्रयः।
एको नानेयते तद्वद्भगवान् शास्त्रवर्त्मभिः॥ ३३ ॥
अनुवाद (हिन्दी)
जिस प्रकार रूप, रस एवं गन्ध आदि अनेक गुणोंका आश्रयभूत एक ही पदार्थ भिन्न-भिन्न इन्द्रियोंद्वारा विभिन्नरूपसे अनुभूत होता है, वैसे ही शास्त्रके विभिन्न मार्गोंद्वारा एक ही भगवान्की अनेक प्रकारसे अनुभूति होती है॥ ३३॥
वीरराघवः
कथं ज्ञान-योग-भक्ति-योगाभ्यां भगवान् एव प्राप्य इत्य् अत्राह । यथेति । पृथग्-द्वारैः पृथग् भिन्नानि द्वाराणि रूप-रसादि-ग्रहणानि येषां तैर् इन्द्रियैर् बहूनां गुणानां रूप-रसादीनाम् आश्रयो ऽर्थः क्षीरादि-रूपोर्थः एक एव नाना ईयते प्रतीयते, रूप-ग्राहकेण चक्षुषा शुक्लादि-गुण-विशिष्टत्वेन रसनेन्द्रियेण मधुरादि-गुण-विशिष्टतया, त्वग्-इन्द्रियेण शीतोष्णादि-स्पर्श-विशिष्टतया च यथा गृह्यत इत्य् अर्थः, तथा भगवान् एक एव शास्त्रोक्त-तत्-तन्-मार्ग-विशेषैर् आराध्यत्वाकारेण प्राप्यत्वाकारेण च बुध्यत इत्य् अर्थः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
क्रियया क्रतुभिर्दानैस्तपःस्वाध्यायमर्शनैः।
आत्मेन्द्रियजयेनापि संन्यासेन च कर्मणाम्॥
मूलम्
क्रियया क्रतुभिर्दानैस्तपःस्वाध्यायम17र्शनैः।
आत्मेन्द्रियजयेनापि संन्यासेन च कर्मणाम्॥ ३४ ॥
वीरराघवः
शास्त्रीय-मार्ग-विशेषान् प्रपञ्चयति । त्रिभिः । क्रियया पञ्च-रात्रोदित-पूजा-कलापेन ऋतुभिर् वेद-पूर्व-भागोदित-यज्ञैः दान-तपसी स्मृति-चोदिते । तत्र तपः कृच्छ्र-चान्द्रायणादि, स्वाध्यायः वेदाध्ययनं, मर्शनं वेदार्थावमर्शनम् । आत्म-जयः शमः, इन्द्रिय-जयो दमः, कर्मणां संन्यासः फलासङ्ग-राहित्येनानुष्ठानम् ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
योगेन विविधाङ्गेन भक्तियोगेन चैव हि।
धर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान्॥
मूलम्
योगेन विविधाङ्गेन भक्तियोगेन चैव हि।
धर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान्॥ ३५ ॥
वीरराघवः
विविधाङ्गेन बह्व्-अङ्गोपकृतेन भक्ति-योगेन भगवद्-भक्ति-योगेन तथाविधेन योगेन प्रकृति-विविक्तात्म-याथात्म्य-ज्ञान-योगेन उभय-चिह्नेन सकाम-निष्काम-लक्षणेन धर्मेण तम् एवाह । य इति । स-काम-धर्म-प्राप्यं स्वर्गाद्य्-अपि भगवत एवेत्य् अर्थः । अत्र ‘इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः, तद् एवाग्निस् तद् वायुस् तत् सूर्यस् तद् उ चन्द्रमाः ।’
अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च । यो यो यां यां तनुं भक्तः श्रद्ध्यार्चितुम् इच्छति ॥ तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् । स तया श्रद्ध्या युक्तस् तस्याराधनम् ईहते ॥ लभते च ततः कामान् मयैव विहितान् हि तान् । अन्तवत् तु फलं तेषां तद् भवत्य् अल्प-मेधसाम् ॥
‘फलम् अत उपपत्तेः । ३ । ३ । ३९’ इत्य्-आदि-श्रुति-स्मृति-सूत्रार्थो ऽभिप्रेतः ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
आत्मतत्त्वावबोधेन वैराग्येण दृढेन च।
ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक्॥
मूलम्
आत्मतत्त्वावबोधेन वैराग्येण दृढेन च।
ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक्॥ ३६ ॥
अनुवाद (हिन्दी)
नाना प्रकारके कर्मकलाप, यज्ञ, दान, तप, वेदाध्ययन, वेदविचार (मीमांसा), मन और इन्द्रियोंके संयम, कर्मोंके त्याग, विविध अंगोंवाले योग, भक्तियोग, निवृत्ति और प्रवृत्तिरूप सकाम और निष्काम दोनों प्रकारके धर्म, आत्मतत्त्वके ज्ञान और दृढ़ वैराग्य—इन सभी साधनोंसे सगुण-निर्गुणरूप स्वयंप्रकाश भगवान्को ही प्राप्त किया जाता है॥ ३४—३६॥
वीरराघवः
तस्माद् आत्म-तत्त्वावबोधेनात्म-याथात्म्य-ज्ञान-योगेन दृढेन वैराग्येण च एभिः क्रियाभिश् च स-गुणः मङ्गल-गुणकः निर्गुणः हेय-गुण-रहितः स्व-दृक् स्व-प्रकाशः भगवान् एक एवेयते प्राप्यते तत्र ऋत्व्-आदिभिर् इन्द्रादि-रूपेणाराध्यमानो ऽन्तवत्-फल-प्रदः साक्षाज्-ज्ञान-योग-भक्ति-योगादिभिर् आराधितस् तु निरतिशय-मोक्षाख्य-फल-प्रद इति भावः ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम्।
कालस्य चाव्यक्तगतेर्योऽन्तर्धावति जन्तुषु॥
मूलम्
प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम्।
कालस्य चाव्यक्तगतेर्योऽन्तर्धावति जन्तुषु॥ ३७ ॥
अनुवाद (हिन्दी)
माताजी! सात्त्विक, राजस, तामस और निर्गुण-भेदसे चार प्रकारके भक्तियोगका और जो प्राणियोंके जन्मादि विकारोंका हेतु है तथा जिसकी गति जानी नहीं जाती, उस कालका स्वरूप मैं तुमसे कह ही चुका हूँ॥ ३७॥
वीरराघवः
अन्यद् अपि पूर्वोक्तम् अनुवदति । प्रावोचम् इति द्वाभ्याम् । तथा भक्ति-योगस्य चतुर्विधं तामस-राजस-सात्त्विकादि-भेदेन सात्त्विकावान्तर-नैर्गुण्य-रूपेण चतुर्विधं स्व-रूपं नैर्गुण्य-भक्ति-योगस्य सात्त्विक-भक्त्य्-अन्तर्भूतत्वे ऽपि तस्य सर्वोत्कृष्टत्वात् तद्-अभिप्रायेण चतुर्विधम् इत्य् उक्तं जन्तुष्व् अन्तर् यो धावति परिच्छिनत्ति तस्याव्यक्त-गतेः व्यक्तैर् इन्द्रियैर् न व्यज्यते इत्य् अव्यक्ता गतिर् यस्य तस्य कालस्य स्व-रूपम् ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
जीवस्य संसृतीर्बह्वीरविद्याकर्मनिर्मिताः।
यास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मनः॥
देवि! अविद्याजनित कर्मके कारण जीवकी अनेकों गतियाँ होती हैं; उनमें जानेपर वह अपने स्वरूपको नहीं पहचान सकता॥ ३८॥
मूलम्
जीवस्य संसृतीर्बह्वीरविद्याकर्मनिर्मिताः।
यास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मनः॥
अनुवाद (हिन्दी)
देवि! अविद्याजनित कर्मके कारण जीवकी अनेकों गतियाँ होती हैं; उनमें जानेपर वह अपने स्वरूपको नहीं पहचान सकता॥ ३८॥
वीरराघवः
तथा हे अम्ब! आत्मा जीवः यासु प्रविशन्न् आत्मनो गतिः प्रकारः याथात्म्यम् इत्य् अर्थः । तां न वेद ता अविद्याख्य-कर्म-निर्मिता जीवस्य संसृतीश् च प्रावोचम् उक्तवान् अहम् ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
नैतत्खलायोपदिशेन्नाविनीताय कर्हिचित्।
न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च॥
मूलम्
नैतत्खलायोपदिशेन्नाविनीताय कर्हिचित्।
न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च॥ ३९ ॥
अनुवाद (हिन्दी)
मैंने तुम्हें जो ज्ञानोपदेश दिया है—उसे दुष्ट, दुर्विनीत, घमंडी, दुराचारी और धर्मध्वजी (दम्भी) पुरुषोंको नहीं सुनाना चाहिये॥ ३९॥
श्लोक-४०
विश्वास-प्रस्तुतिः
न लोलुपायोपदिशेन्न गृहारूढचेतसे।
नाभक्ताय च मे जातु न मद्भक्तद्विषामपि॥
मूलम्
न लोलुपायोपदिशेन्न गृहारूढचेतसे।
नाभक्ताय च मे 18जातु न मद्भक्तद्विषामपि॥ ४० ॥
अनुवाद (हिन्दी)
जो विषयलोलुप हो, गृहासक्त हो, मेरा भक्त न हो अथवा मेरे भक्तोंसे द्वेष करनेवाला हो, उसे भी इसका उपदेश कभी न करे॥ ४०॥
वीरराघवः
मयोक्तम् इदं सर्व-वेदान्तार्थ-रूपम् अति-गोप्यम् अनधिकारिणे नोपदेष्टव्यम् अधिकारिणे एवोपदेष्टव्यम् इति वदन्न् एतच् छ्रवण-कीर्त्तनादि-फलं च दर्शयन्न् उपसंहरति । नैतद् इति । खलाय परोद्वेजकाय स्तब्धाय मूर्खाय भिन्नाय दुराचाराय धर्म-ध्वजाय दाम्भिकाय ॥ ३९-४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
श्रद्दधानाय भक्ताय विनीतायानसूयवे।
भूतेषु कृतमैत्राय शुश्रूषाभिरताय च॥
मूलम्
श्रद्दधानाय भक्ताय विनीतायानसूयवे।
भूतेषु कृतमैत्राय शुश्रूषाभिरताय च॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
बहिर्जातविरागाय शान्तचित्ताय दीयताम्।
निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः॥
मूलम्
बहिर्जातविरागाय शान्तचित्ताय दीयताम्19।
निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः॥ ४२ ॥
अनुवाद (हिन्दी)
जो अत्यन्त श्रद्धालु, भक्त, विनयी, दूसरोंके प्रति दोषदृष्टि न रखनेवाला, सब प्राणियोंसे मित्रता रखनेवाला, गुरुसेवामें तत्पर, बाह्य विषयोंमें अनासक्त, शान्तचित्त, मत्सरशून्य और पवित्रचित्त हो तथा मुझे परम प्रियतम माननेवाला हो, उसे इसका अवश्य उपदेश करे॥ ४१-४२॥
वीरराघवः
अधिकारिणम् आह । श्रद्दधानाय शुश्रूषा-त्वरान्विताय बहिर्-जात-विरागायेति दम उक्तः । शान्त-चित्तायेति शम उक्तः । इदं च शम-दमादि-गुण-जातं श्रवणोपयुक्तं न त्व् आत्यन्तिकम् उच्यते तस्य श्रवणान्तर-भाविनस् ततः पूर्वतनत्वासम्भवात् प्रशान्त-चित्ताय शमान्वितायेत्य्-आदि-वच् छुचये सदाचार-निष्ठाय यस्य प्रेयसां प्रीति-विषयाणां वस्तूनां मध्ये अहं प्रियः निरतिशय-प्रीति-विषयस् तस्मै ॥ ४१-४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
य इदं शृणुयादम्ब श्रद्धया पुरुषः सकृत्।
यो वाभिधत्ते मच्चित्तः स ह्येति पदवीं च मे॥
मूलम्
य इदं शृणुयादम्ब श्रद्धया पुरुषः सकृत्।
यो वाभिधत्ते मच्चित्तः स ह्येति पदवीं च20 मे॥ ४३ ॥
अनुवाद (हिन्दी)
मा! जो पुरुष मुझमें चित्त लगाकर इसका श्रद्धापूर्वक एक बार भी श्रवण या कथन करेगा, वह मेरे परमपदको प्राप्त होगा॥ ४३॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपा21ख्याने द्वात्रिंशोऽध्यायः॥ ३२ ॥
वीरराघवः
य इति । हे अम्ब ! इत्थं मद्-उक्तम् अष्टाध्यायात्मकं यः पुरुषः श्रद्धया सकृद् अपि शृणुयाद् यश् चाभिधत्ते सो ऽपि मच्-चित्तः जात-वैराग्यो मद्-उपासन-निष्ठो भूत्वा मे पदवीं मार्गं मुक्तिम् एति प्राप्नोति ॥ ४३ ॥
इति श्रीमद्-भागवते महा-पुराणे तृतीय-स्कंधे श्रीमद्-वीर-राघवाचार्य-कृत-भागवत-चंद्र-चंद्रिकायां द्वात्रिंशो ऽध्यायः ॥ ३२ ॥
-
प्रा. पा. - तदैते । ↩︎
-
प्रा. पा. - स्वधर्मे न । ↩︎
-
प्रा. पा. - सानो यः । ↩︎
-
प्रा. पा. - जिवृक्षुः । ↩︎
-
प्रा. पा. - यान्ति गता । ↩︎
-
प्रा. पा. - भाविनि । ↩︎
-
प्रा. पा. - तु तेऽपि । ↩︎
-
प्रा. पा. - थायाः । ↩︎
-
प्रा. पा. - पथा ते तु । ↩︎
-
प्रा. पा. - वै । ↩︎
-
प्रा. पा. - न्तकृतक्रियाः । ↩︎
-
प्रा. पा. - निःसङ्गः समदर्शनः । ↩︎
-
प्रा. पा. - ईक्षते । ↩︎
-
प्रा. पा. - कृत्स्नशः । ↩︎
-
प्रा. पा. - राधीनै । ↩︎
-
प्रा. पा. - विरक्तः । ↩︎
-
प्रा. पा. - दर्शनैः । ↩︎
-
प्रा. पा. - ज्ञानं । ↩︎
-
प्रा. पा. - दीयते । ↩︎
-
प्रा. पा. - मम । ↩︎
-
प्रा. पा. - कापिलीये । ↩︎