३१ जीवगतिः

[एकत्रिंशोऽध्यायः]

भागसूचना

मनुष्ययोनिको प्राप्त हुए जीवकी गतिका वर्णन

श्लोक-१

मूलम् (वचनम्)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये।
स्त्रियाः प्रविष्ट उदरं पुंसो रेतःकणाश्रयः॥

मूलम्

कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये।
स्त्रियाः प्रविष्ट उदरं पुंसो रेतःकणाश्रयः॥ १ ॥

अनुवाद (हिन्दी)

श्रीभगवान् कहते हैं—माताजी! जब जीवको मनुष्य-शरीरमें जन्म लेना होता है, तो वह भगवान‍्की प्रेरणासे अपने पूर्वकर्मानुसार देहप्राप्तिके लिये पुरुषके वीर्यकणके द्वारा स्त्रीके उदरमें प्रवेश करता है॥ १॥

वीरराघवः

एवं यौवन-जरा-मरणानन्तर-क्लेशाः कथिताः । अथ गर्भ-जन्मादि-क्लेशान् आह कपिलः । तत्र पुनर् अत्राव्रजेद् इत्य्-उक्तं तद् एव विशेषतो दर्शयति । कर्मणेति । दैवम् ईश्वरः स एव नेतृ प्रवर्त्तकं यस्य तेन पूर्व-कृतेन कर्मणा जन्तुर् जीवः देहोपपत्तये देह-प्राप्तये पुंसः कस्यचित् पुरुषस्य रेतः-कणाश्रयः इदम् इष्टादिकारिणो ऽप्य् उपलक्षणं सो ऽपि स्व-पुण्य-फल-भोगावसाने रेतो-द्वारा स्त्रिया उदरं प्रविष्टो भवति । रेतः-कणाश्रयः रेतः-कणः आश्रयो यस्य व्रीह्याद्य्-ओषधि-द्वारा रेत आश्रित्य रेतो-द्वारा स्त्रिया उदरं प्रविष्टो भवति । ननु भोगेन सर्व-कर्मणां विनष्टत्वात् कर्मणा दैव-नेत्रेणेति कथम् एतद् उच्यते श्रुतिर् अपि कृत्स्न-कर्म-फलोपभोगम् आह “यावत् सम्पातम् उषित्वा अथैतम् एवाध्वानं पुनर् निवर्तन्त” इति सम्पतन्त्य् अनेन स्वर्ग-नरकादिकम् इति सम्पातः कर्मोच्यते श्रुत्य्-अन्तरं च

प्राप्यान्तं कर्मणस् तस्य यत् किञ्चेह करोत्य् अयम् । तस्माल् लोकात् पुनर् एत्य् अस्मै लोकाय कर्मणे ॥

इति अत इदं विप्रतिषिद्धं कृत्स्न-कर्मोपभोगेन शुचित्वं पुनर् अत्र आगमनञ्चेति । मैवम् । अभुक्त-फलानाम् अकृत-प्रायश्चित्तानाञ् च कर्मणां कर्मान्तर-फलानुभवेन नाशासम्भवात् तेभ्यः पुनर् अत्रागमनोपपत्तेः । शुचित्वस्योपभुक्त-फल-कर्म-विषयत्वाञ् च तथाचाभुक्त-फलैः कर्मभिर् विशिष्टः पुनर् आयातीति श्रुतिः स्मृतिश् चाह । श्रुतिस् तावत् “य इह रमणीय-चरणा अभ्याशो ह यत् ते रमणीयां योनिम् आपद्येरन् ब्राह्मण-योनिं क्षत्रिय-योनिं वैश्य-योनिं वा अथ य इह कपूय-चरणा अभ्याशो ह यत् ते कपूयां योनिम् आपद्येरन् श्व-योनिं सूकर-योनिं चण्डाल-योनिं वा” इति अमुष्माल् लोकाद् ये अभ्याशः अभ्यागन्तारः तेषां मध्ये ये रमणीय-कर्माणः ते रमणीयां ब्राह्मणादि-योनिं कपूय-चरणाः कुत्सित-कर्माणः कुत्सितां श्व-सूकरादि-योनिं प्रतिपद्यन्ते इत्य् अर्थः । स्मृतिर् अपि “वर्णा आश्रमाश् च स्व-कर्म-निष्ठाः प्रेत्य कर्म-फलम् अनुभूय ततः शेषेण विशिष्ट-देश-जाति-कुल-रूपायुः-श्रुत-वृत्त-वित्त-सुख-मेधसो जन्म प्रतिपद्यन्ते विश्वञ्चो विपरीता नश्यन्ति तथा तत्-परिवृत्तौ कर्म-फल-शेषे जातिं रूपं वर्णम् । इत्य्-आदिका यावत् सम्पातम् इति फल-दान-प्रवृत्त-कर्म-विशेष-विषयम् “यत् किञ्चेह करोत्य् अयम्” इत्य् अपि तद्-विषयम् एव भवति ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

कललं त्वेकरात्रेण पञ्चरात्रेण बुद‍्बुदम्।
दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम्॥

मूलम्

कललं त्वेकरात्रेण पञ्चरात्रेण बुद‍्बुदम्।
दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम्॥ २ ॥

अनुवाद (हिन्दी)

वहाँ वह एक रात्रिमें स्त्रीके रजमें मिलकर एकरूप कलल बन जाता है, पाँच रात्रिमें बुद‍्बुदरूप हो जाता है, दस दिनमें बेरके समान कुछ कठिन हो जाता है और उसके बाद मांसपेशी अथवा अण्डज प्राणियोंमें अण्डेके रूपमें परिणत हो जाता है॥ २॥

वीरराघवः

तज् जीवेनाश्रितं रेतः स्त्रीया उदरं प्रविष्टं सद् एक-रात्रेण कललं शोणित-मिश्रं भवति पञ्च-रात्रेण बुद्बुदं वर्तुलं भवति दशाहानन्तरं कर्कन्धूः बदरी-फलाकारं किञ्चित् कठिनं पेशी मांस-पिण्डाकारम् अण्डं वा तिर्यग्-आदि-योन्य्-अन्तरापेक्षया इदम् उक्तम् ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्गविग्रहः।
नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद‍्भवस्त्रिभिः॥

मूलम्

मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्गविग्रहः।
नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद‍्भवस्त्रिभिः॥ ३ ॥

अनुवाद (हिन्दी)

एक महीनेमें उसके सिर निकल आता है, दो मासमें हाथ-पाँव आदि अंगोंका विभाग हो जाता है और तीन मासमें नख, रोम, अस्थि, चर्म, स्त्री-पुरुषके चिह्न तथा अन्य छिद्र उत्पन्न हो जाते हैं॥ ३॥

वीरराघवः

ततो मासेन शिरः द्वाभ्यां मासाभ्यां बाह्व्-आद्य् अङ्गानां विग्रहः विभागो भवति ततस् त्रिभिर् मासैर् नखादीनि लिङ्गं-छिद्राणि च तेषाम् उद्भवः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

चतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्तृडुद‍्भवः।
षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे॥

मूलम्

चतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्तृडुद‍्भवः।
षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे॥ ४ ॥

अनुवाद (हिन्दी)

चार मासमें उसमें मांसादि सातों धातुएँ पैदा हो जाती हैं, पाँचवें महीनेमें भूख-प्यास लगने लगती है और छठे मासमें झिल्लीसे लिपटकर वह दाहिनी कोखमें घूमने लगता है॥ ४॥

वीरराघवः

ततश् चतुर्भिर् मासैः सप्त धातवः ततः पञ्चभिः क्षुत्-तृट्-समुद्भवः ततः षड्भिर् मासैर् जरायुणा गर्भ-वेष्टनेन वीतः प्रावृतः कुक्षौ दक्षिण-पार्श्वे भ्राम्यति सर्वत्र पञ्च-रात्र-दश-रात्र-मासादि-सङ्ख्या उदर-प्रवेश-कालम् आरभ्यैव न तु पूर्व-पूर्व-कालम् आरभ्य षोडश-दिनाधिक-सप्त-विंशति-मास-गणनापत्तेर् इति बोध्यम् ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

मातुर्जग्धान्नपानाद्यैरेधद्धातुरसम्मते।
शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे॥

मूलम्

मातुर्जग्धान्नपानाद्यैरेधद्धातुरसम्मते।
शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे॥ ५ ॥

अनुवाद (हिन्दी)

उस समय माताके खाये हुए अन्न-जल आदिसे उसकी सब धातुएँ पुष्ट होने लगती हैं और वह कृमि आदि जन्तुओंके उत्पत्तिस्थान उस जघन्य मल-मूत्रके गढे़में पड़ा रहता है॥ ५॥

वीरराघवः

मातुर् जग्धेन भक्षितेनान्नेन पानाद्यैश् च एधन्तः वर्द्धमाना धातवो यस्य सः जन्तूनां सम्भवो यस्मिन् असम्मते विण्-मूत्रयोर् गर्ते गर्भे शेते ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम्।
मूर्च्छामाप्नोत्युरुक्लेशस्तत्रत्यैः क्षुधितैर्मुहुः॥

मूलम्

कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम्।
मूर्च्छामाप्नोत्युरुक्लेशस्तत्रत्यैः क्षुधितैर्मुहुः॥ ६ ॥

अनुवाद (हिन्दी)

वह सुकुमार तो होता ही है; इसलिये जब वहाँके भूखे कीड़े उसके अंग-प्रत्यंग नोचते हैं, तब अत्यन्त क्लेशके कारण वह क्षण-क्षणमें अचेत हो जाता है॥ ६॥

वीरराघवः

तत्रत्यैः क्षुधितैः पुनः पुनः कृमिभिः क्षतानि खाद्यमानानि सर्वाण्य् अङ्गानि यस्य सः सौकुमार्याद् उरुः अधिकः क्लेशो यस्य सः प्रतिक्षणं मूर्च्छाम् आप्नोति ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

कटुतीक्ष्णोष्णलवणरूक्षाम्लादिभिरुल्बणैः।
मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः॥

मूलम्

कटुतीक्ष्णोष्णलवणरूक्षाम्लादिभिरुल्बणैः।
मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः॥ ७ ॥

अनुवाद (हिन्दी)

माताके खाये हुए कड़वे, तीखे, गरम, नमकीन, रूखे और खट्टे आदि उग्र पदार्थोंका स्पर्श होनेसे उसके सारे शरीरमें पीड़ा होने लगती है॥ ७॥

वीरराघवः

उल्बणैः दुःसहै मातृ-भुक्तैः कट्व्-आदिभिर् उपस्पृष्टः अत एव सर्वेष्व् अङ्गेषूत्थिता वेदना यस्य सः आस्ते इत्य् उत्तरेणान्वयः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

उल्बेन संवृतस्तस्मिन्नन्त्रैश्च बहिरावृतः।
आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः॥

मूलम्

उल्बेन संवृतस्तस्मिन्नन्त्रैश्च बहिरावृतः।
आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः॥ ८ ॥

अनुवाद (हिन्दी)

वह जीव माताके गर्भाशयमें झिल्लीसे लिपटा और आँतोंसे घिरा रहता है। उसका सिर पेटकी ओर तथा पीठ और गर्दन कुण्डलाकार मुडे़ रहते हैं॥ ८॥

वीरराघवः

उल्बेन जरायुणा वीतः बहिर्-आन्त्रैर् आवृतः भुग्नं कुटिली-भूतं पृष्ठं शिरो-धरा च यस्य सः शिरः कुक्षौ निधाय स्वाङ्गानां चेष्टायां व्यापारे पञ्जरे निबद्धः शकुन्तः पक्षीव अकल्यः असमर्थः आस्ते शेते इत्य् अर्थः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे।
तत्र लब्धस्मृतिर्दैवात्कर्म जन्मशतोद‍्भवम्।
स्मरन्दीर्घमनुच्छ्वासं शर्म किं नाम विन्दते॥

मूलम्

अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे।
तत्र लब्धस्मृतिर्दैवात्कर्म जन्मशतोद‍्भवम्।
स्मरन्दीर्घमनुच्छ्वासं श1र्म किं नाम विन्दते॥ ९ ॥

अनुवाद (हिन्दी)

वह पिंजड़ेमें बंद पक्षीके समान पराधीन एवं अंगोंको हिलाने-डुलानेमें भी असमर्थ रहता है। इसी समय अदृष्टकी प्रेरणासे उसे स्मरणशक्ति प्राप्त होती है। तब अपने सैकड़ों जन्मोंके कर्म याद आ जाते हैं और वह बेचैन हो जाता है तथा उसका दम घुटने लगता है। ऐसी अवस्थामें उसे क्या शान्ति मिल सकती है?॥ ९॥

वीरराघवः

तत्र गर्भे दैवात् पूर्व-कर्म-वशाल् लब्धा स्मृतिर् येन सः जन्म-शतोद्भवं बहु-जन्म-सञ्चितं कर्म स्मरन् दीर्घं दूर-तरम् अनुच्छ्वासं यथा भवति तथा तत्र स्थितः सन् किं नाम शर्म सुखं विन्दते लभते न किञ्चिद् इत्य् अर्थः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

आरभ्य सप्तमान्मासाल्लब्धबोधोऽपि वेपितः।
नैकत्रास्ते सूतिवातैर्विष्ठाभूरिव सोदरः॥

मूलम्

आरभ्य सप्तमान्मासाल्लब्धबोधोऽपि2 वेपितः।
नैकत्रास्ते सूतिवातैर्विष्ठाभूरिव 3सोदरः॥ १० ॥

अनुवाद (हिन्दी)

सातवाँ महीना आरम्भ होनेपर उसमें ज्ञान-शक्तिका भी उन्मेष हो जाता है; परन्तु प्रसूतिवायुसे चलायमान रहनेके कारण वह उसी उदरमें उत्पन्न हुए विष्ठाके कीड़ोंके समान एक स्थानपर नहीं रह सकता॥ १०॥

वीरराघवः

सप्तमान् मासाद् आरभ्य लब्धो बोधः सुख-दुःखादि-ज्ञानं येन सः सूति-हेतुभिर् वातैर् अतिवेपितः अति-दुःखितः सोदरः समानोदर-जन्मा विष्ठा-भूः कृमिर् इव नैकत्रास्ते ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

नाथमान ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः।
स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः॥

मूलम्

नाथमान ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः।
स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः॥ ११ ॥

अनुवाद (हिन्दी)

तब सप्तधातुमय स्थूलशरीरसे बँधा हुआ वह देहात्मदर्शी जीव अत्यन्त भयभीत होकर दीन वाणीसे कृपा-याचना करता हुआ, हाथ जोड़कर उस प्रभुकी स्तुति करता है, जिसने उसे माताके गर्भमें डाला है॥ ११॥

वीरराघवः

नाथमान उपतप्यमानः याचमान इति वा ऋषिर्-जीवः सप्त-वधिर् गर्भ-वासे सप्त वध्रयो बन्धन-भूता धातवो यस्य सः भीतः उक्त-विध-गर्भ-वासादि-भयाद् भीतः विक्लवया व्याकुलया वाचा येन उदरे ऽर्पितः तं भगवन्तं कृताञ्जलिः सन् स्तौति ॥ ११ ॥

श्लोक-१२

मूलम् (वचनम्)

4न्तुरुवाच

विश्वास-प्रस्तुतिः

तस्योपसन्नमवितुं जगदिच्छयात्त-
नानातनोर्भुवि चलच्चरणारविन्दम्।
सोऽहं व्रजामि शरणं ह्यकुतोभयं मे
येनेदृशी गतिरदर्श्यसतोऽनुरूपा॥

मूलम्

तस्योपसन्नमवितुं जगदिच्छयात्तनानातनोर्भुवि चलच्चरणारविन्दम्।
सोऽहं व्रजामि शरणं ह्य5कुतोभयं मे येनेदृशी गतिरदर्श्यसतोऽनुरूपा॥ १२ ॥

अनुवाद (हिन्दी)

जीव कहता है—मैं बड़ा अधम हूँ; भगवान‍्ने मुझे जो इस प्रकारकी गति दिखायी है, वह मेरे योग्य ही है। वे अपनी शरणमें आये हुए इस नश्वर जगत‍्की रक्षाके लिये ही अनेक प्रकारके रूप धारण करते हैं; अतः मैं भी भूतलपर विचरण करनेवाले उन्हींके निर्भय चरणारविन्दोंकी शरण लेता हूँ॥ १२॥

वीरराघवः

स्तुतिम् एवाह । तस्येति । उपपन्नं स्वेनैव सृष्टम् इदं जगद् अवितुं रक्षितुं स्वेच्छयैव गृहीत-नाना-मूर्तेः तस्य भगवतो भुवि चल-चरणारविन्दम् अकुतो-भयं सो ऽहं शरणं व्रजामि असतो ममानुरूपा योग्या ईदृशी गतिर् येनादर्शिता तस्य चरणारविन्दं व्रजामीत्य् अन्वयः । नन्व् एवं शरणागतं कथं भगवान् परित्यजतीति शङ्क्यं सद्-आचार्यानुग्रहाभावात् पुरुष-कार-सांनिध्याभावाच् चेति द्रष्टव्यम् ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा
भूतेन्द्रियाशयमयीमवलम्ब्य मायाम्।
आस्ते विशुद्धमविकारमखण्डबोध-
मातप्यमानहृदयेऽवसितं नमामि॥

मूलम्

यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा भूतेन्द्रियाशय6मयीमवलम्ब्य मायाम्।
आस्ते विशुद्धमविकारमखण्डबोधमातप्यमानहृदयेऽवसितं नमामि॥ १३ ॥

अनुवाद (हिन्दी)

जो मैं (जीव) इस माताके उदरमें देह, इन्द्रिय और अन्तःकरणरूपा मायाका आश्रय कर पुण्य-पापरूप कर्मोंसे आच्छादित रहनेके कारण बद्धकी तरह हूँ, वही मैं यहीं अपने सन्तप्त हृदयमें प्रतीत होनेवाले उन विशुद्ध (उपाधिरहित), अविकारी और अखण्ड बोधस्वरूप परमात्माको नमस्कार करता हूँ॥ १३॥

वीरराघवः

को ऽसौ यं शरणं व्रजसि कौ वा तस्य तव च विशेषः येन शरण्यत्व-शरण-गन्तृत्व-भाव इत्य्-आकाङ्क्षायाम् आह । य इति । अत्र मातुर् देहे भूतेन्द्रियाशयमयीं भूतादि-रूपेण परिणतां मायाम् अवलम्ब्य धृत्वा कर्मभिर् आवृतात्मा कर्म-रूपाविद्या-तिरोहित-स्व-रूपः बद्धो जीवः स इव यः स्वयम् अप्य् आस्ते तेन सह प्रकृतौ वसतीत्य् अर्थः । एवं जीवेन सह वसन्तम् अपि विशुद्धं प्रकृति-गत-दोषैर् अस्पृष्टम् अनेनापहत-पाप्मत्वम् उक्तम् अविकारं जन्म-जरा-मृत्यु-शोक-मोहाशनाया-पिपासा-विकार-रहितम् अनेन हेय-गुण-राहित्यम् उक्तं कल्याण-गुण-जातम् आह । अखण्ड-बोधं नित्यासङ्कुचित-ज्ञान-गुणक-ज्ञान-स्व-रूपम् आतप्यमाने । हृदये अवसितं प्रतीतं वा नमामि । कर्म-वश्यो जीव इव स्वयम् अशुचि-देहे वसन्न् अपि तद्-गत-दोषैर् अस्पृष्टो यस् तं नमामीत्य् अर्थः । ननु भगवतो ऽकर्म-वश्यत्वे सत्य् अपि नाना-विधाशुचि-देह-सम्बन्धो ऽपुरुषार्थम् एव, तन्-नियमनार्थं स्वेच्छया तत्-प्रवेशे ऽप्य् अपुरुषार्थ-सम्बन्धो ऽवर्जनीयः, पूय-शोणितादि-मज्जनं हि स्वेच्छा-कारितम् अप्य् अपुरुषार्थ एव । अतो यद्य् अपि जगद्-एक-कारणं सर्वज्ञतादि-कल्याण-गुणाकरं च ब्रह्म तथापि “यः पृथिव्यां तिष्ठन् य आत्मनि तिष्ठन् यो रेतसि तिष्ठन्” इत्य्-आदि-वचनात् तत्र तत्रावस्थितस्यापुरुषार्थाः सन्त्य् एव । मैवं निरस्त-निखिल-दोषत्वस्य समस्त-कल्याण-गुणाकरत्वस्य चात्रैवोक्त्वा पुरुषार्थ-प्रतिषेधात् जीवस्य तु तत्-स्व-रूपं कर्मणा तिरोहितम् इत्य् अपुरुषार्थ-सम्बन्धो ऽवर्जनीयः । जीवस्य कर्म-वश्यत्वात् तत्-कर्मानुगुण्येन तत्-तद्-वस्तु-सम्बन्ध एवापुरुषार्थः । परस्य तु ब्रह्मणः स्वाधीनस्य स एव सम्बन्धस् तद्-विचित्र-नियमन-रूप-लीला-सारयैव स्यात् । ननु स्वेच्छया नियमनं कुर्वतो ऽपि तत्-तद्-वस्तु-स्वभावायत्तो ऽपुरुषार्थ-सम्बन्धो ऽवर्जनीयः । मैवं न ह्य् अचिद्-वस्त्व् अपि स्वभावतो ऽपुरुषार्थ-स्व-रूपं कर्म-वश्यानां तु कर्म-स्वभावानुगुण्येन परम-पुरुष-सङ्कल्पाद् एकम् एव वस्तु-काल-भेदेन पुरुष-भेदेन च दुःखाय सुखाय च भवति । वस्तु-स्व-रूप-प्रयुक्ते तु ताद्रूप्ये सर्वं सर्वदा सर्वस्य सुखाय दुःखायैव वा स्यात् । न चैवं दृश्यते । तथाचोक्तम्

नरक-स्वर्ग-संज्ञे वै पाप-पुण्ये द्विजोत्तम । वस्त्व् एकम् एव दुःखाय सुखायेर्ष्यागमाय च ॥
कोपाय च यतस् तस्माद् वस्तु-वस्त्वात्मकं कुतः । तद् एव प्रीतये भूत्वा पुनर् दुःखाय जायते ॥
तदेव कोपाय यतः प्रसादाय च जायते । तस्माद् दुःखात्मकं नास्ति न च किञ्चित् सुखात्मकम् ॥

इति तस्मात् कर्म-वश्यत्वाकर्म-वश्यत्व-हेयार्हत्व-हेय-प्रतिभटत्व्-आदिभिः जीव-परयोर् वैलक्षण्यम् अविहतम् एव ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

यः पञ्चभूतरचिते रहितः शरीरे-
च्छन्नो यथेन्द्रियगुणार्थचिदात्मकोऽहम्।
तेनाविकुण्ठमहिमानमृषिं तमेनं
वन्दे परं प्रकृतिपूरुषयोः पुमांसम्॥

मूलम्

यः पञ्चभूतरचिते रहितः शरीरे च्छन्नो यथेन्द्रियगुणार्थचिदात्मकोऽहम्।
तेनाविकुण्ठमहिमानमृषिं तमेनं वन्दे परं प्रकृतिपूरुषयोः पुमांसम्॥ १४ ॥

अनुवाद (हिन्दी)

मैं वस्तुतः शरीरादिसे रहित (असंग) होनेपर भी देखनेमें पांचभौतिक शरीरसे सम्बद्ध हूँ और इसीलिये इन्द्रिय, गुण, शब्दादि विषय और चिदाभास (अहंकार)-रूप जान पड़ता हूँ। अतः इस शरीरादिके आवरणसे जिनकी महिमा कुण्ठित नहीं हुई है, उन प्रकृति और पुरुषके नियन्ता सर्वज्ञ (विद्याशक्तिसम्पन्न) परमपुरुषकी मैं वन्दना करता हूँ॥ १४॥

वीरराघवः

एतद् एव वैलक्षण्यं स्पष्टयन् नमस्करोति । य इति । पञ्च-भूत-रचिते पञ्चभिर् आकाशादि-भूतैर् आरब्धे शरीरे यथाहं छन्नः आवृतः शरीरेणावृतः यथा-च्छन्नो ऽपि यो भगवान् रहितः शरीर-सम्बन्धायत्त-दोषैर् अस्पृष्टः तत्र हेतुः इन्द्रिय-गुणार्थ-चिदात्मकः इन्द्रियाणि ज्ञान-कर्मोभयेन्द्रियाणि गुणार्थाः गुण-परिणाम-रूपाः शब्दादयः । यद् वा गुणाः सत्त्वादयः अर्थाः शब्दादयः चिज् जीवः, एते आत्मा शरीरं यस्य सः चिद्-अचितोर् नियन्तृत्वेनावस्थितः न त्व् अहम् इव कर्म-सङ्कुचित-स्व-भावः प्रकृति-पारवश्येन नियाम्यतयावस्थित इत्य् अर्थः । यद् वा इन्द्रिय-गुणार्थ चिद्-आत्मक इत्य् अहम् इत्यस्य विशेषणम् इन्द्रियाणां गुण-परिणाम-रूपेषु शब्दादिष्व् एव चिद्-भोग्यता-ज्ञानं यस्य विषयासक्त-चित्तो ऽहम् इत्य् अर्थः । तेन शरीरेणाविकुण्ठ-महिमानं नित्यासङ्कुचित-ज्ञानम् एवम् ऋषिं सर्वज्ञं प्रकृति-पुरुषयोः परं विलक्षणं तन्-नियन्तारं पुमांसं परम-पुरुषं वन्दे संसृति-निवृत्ति-कामः शरणं व्रजामीत्य् अर्थः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन्
सांसारिके पथि चरंस्तदभिश्रमेण।
नष्टस्मृतिः पुनरयं प्रवृणीत लोकं
युक्त्या कया महदनुग्रहमन्तरेण॥

मूलम्

यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन् सांसारिके पथि चरंस्तदभिश्रमेण।
नष्टस्मृतिः पुनरयं प्रवृणीत लोकं युक्त्या कया महदनुग्रहमन्तरेण॥ १५ ॥

अनुवाद (हिन्दी)

उन्हींकी मायासे अपने स्वरूपकी स्मृति नष्ट हो जानेके कारण यह जीव अनेक प्रकारके सत्त्वादि गुण और कर्मके बन्धनसे युक्त इस संसारमार्गमें तरह-तरहके कष्ट झेलता हुआ भटकता रहता है; अतः उन परमपुरुष परमात्माकी कृपाके बिना और किस युक्तिसे इसे अपने स्वरूपका ज्ञान हो सकता है॥ १५॥

वीरराघवः

कथं मच्-छरण-वरणेन संसृतिर् निवर्त्तिष्यते इत्य् अपेक्षायाम् “य एव बन्धकः स एव मोचक” इति न्यायेन त्वत्-सङ्कल्पायत्ताव् एव बन्ध-मोक्षाव् इत्य् आह । यन्-माययेति । अयं जीवः यन्-मायया यस्य भगवतः सङ्कल्प-रूप-ज्ञानेन उरूणि सत्त्वादि-गुण-निमित्तकानि कर्माणि बन्ध-साधनानि यस्मिन् सांसारिके संसार-सम्बन्धिनि पथि प्रवृत्ति-मार्गे चरन् तद्-अभिश्रमेण तत्र सञ्चार-क्रमेण नष्ट-स्मृतिः विनष्ट-जीव-पर-याथात्म्य-ज्ञानः पुनर् महद्-अनुग्रहम् अन्तरेण महतस् तस्य भगवतो ऽनुग्रहं विना कया मुक्त्या केनोपायेन पुनर् लोकं स्व-लोकम् आविर्भूत-गुणाष्टक-स्व-स्व-रूपं प्रवृणीत प्राप्नुयात् । यद् वा लोकं स्व-पर-याथात्म्य-ज्ञान-स्व-रूपं मुक्त्य्-उपायं प्राप्नुयाद् इत्य् अर्थः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

ज्ञानं यदेतददधात्कतमः स देव-
स्त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः।
तं जीवकर्मपदवीमनुवर्तमाना-
स्तापत्रयोपशमनाय वयं भजेम॥

मूलम्

ज्ञानं यदेतददधात्कतमः स देवस्त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः।
तं जीवकर्मपदवीमनुवर्तमानास्तापत्रयोपशमनाय वयं भजेम॥ १६ ॥

अनुवाद (हिन्दी)

मुझे जो यह त्रैकालिक ज्ञान हुआ है, यह भी उनके सिवा और किसने दिया है; क्योंकि स्थावर-जंगम समस्त प्राणियोंमें एकमात्र वे ही तो अन्तर्यामीरूप अंशसे विद्यमान हैं। अतः जीवरूप कर्मजनित पदवीका अनुवर्तन करनेवाले हम अपने त्रिविध तापोंकी शान्तिके लिये उन्हींका भजन करते हैं॥ १६॥

वीरराघवः

भगवान् एव ज्ञान-प्रदान-द्वारा संसृतेर् मोचकः न ब्रह्मादिष्व् अन्यतमो जीवः । न हि स्वयं निगडितो ऽन्यान् निगडितान् मोचयेद् इत्य् वदन्न् आह । ज्ञानम् इति । यद् एतत् त्रैकालिकं त्रिष्व् अपि कालेष्व् असङ्कुचितं जीव-पर-याथात्म्य-ज्ञानं महद्-अनुग्रहम् अन्तरेण कतमो जीवः व्यधाद् दध्याद् इत्य् अर्थः । किन्तु देव ईश्वर एव नन्व् अन्यस् त्वत्तः प्रकृष्टो जीवो विदधातु नेत्य् आह । वयं ब्रह्मादयो जीवानाम् आत्मनां यानि कर्माणि संसृति-कराणि तेषां पदवीं परम्पराम् अनुवर्त्तमानाः सर्वे वयं कर्म-रूपाविद्या-तिरोहित-ज्ञाना इत्य् अर्थः । अतस् त्वद्-व्यतिरेकेण को ऽपि न समर्थ इत्य् अर्थः । अन्यस्यासम्भवम् उक्त्वा तस्य सम्भवम् आह स्थिर-चरेषु स्थावर-जङ्गमेषु शरीरेष्व् अनुवर्तितः अन्तरात्मतयांश-भूतो जीवो येन सः जीवान्तरात्मतया वसन् नित्यासङ्कुचित-ज्ञान-स्व-रूप-ज्ञान-गुणकस् तं भजेम ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

देह्यन्यदेहविवरे जठराग्निनासृग्
विण्मूत्रकूपपतितो भृशतप्तदेहः।
इच्छन्नितो विवसितुं गणयन् स्वमासान्
निर्वास्यते कृपणधीर्भगवन् कदा नु॥

मूलम्

देह्यन्यदेहविवरे जठराग्निनासृग्विण्मूत्रकूपपतितो भृशतप्तदेहः।
इच्छन्नितो विवसितुं गणयन् स्वमासान् निर्वास्यते कृपणधीर्भगवन् कदा नु॥ १७ ॥

अनुवाद (हिन्दी)

भगवन्! यह देहधारी जीव दूसरी (माताके) देहके उदरके भीतर मल, मूत्र और रुधिरके कुएँमें गिरा हुआ है, उसकी जठराग्निसे इसका शरीर अत्यन्त सन्तप्त हो रहा है। उससे निकलनेकी इच्छा करता हुआ यह अपने महीने गिन रहा है। भगवन्! अब इस दीनको यहाँसे कब निकाला जायगा?॥ १७॥

वीरराघवः

एवं जीवान्तरात्मतयावस्थितस्य सर्वज्ञस्य भगवतो ज्ञान-प्रदान-द्वारा मोचकत्वात् तस्यैव भजनीयत्वं न त्व् अन्येषाम् इत्य् उक्तम् । अथ विज्ञापयन्न् आह । देहीति । हे भगवन् ! अन्य-देह-विवरे मातुर् उदर-कुहरे यः असृग्-विण्-मूत्र-रूपः कूपस् तस्मिन् पतितस् तत्र जठराग्निना भृशं तप्तो देहो यस्य सः अत एव कृपणा धीर् यस्य सः इतो विवराद् गर्भाद् विवसितुं निर्गन्तुम् इच्छन् स्व-मासान् गणयन्न् असौ देही जीवः कदा नु बहिर् निर्वास्यते निर्गमिष्यति ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

येनेदृशीं गतिमसौ दशमास्य ईश
संग्राहितः पुरुदयेन भवादृशेन।
स्वेनैव तुष्यतु कृतेन स दीननाथः
को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात्॥

मूलम्

येनेदृशीं गतिमसौ दशमास्य ईश संग्राहितः पुरुदयेन भवादृशेन।
स्वेनैव तुष्यतु कृतेन स दीननाथः को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात्॥ १८ ॥

अनुवाद (हिन्दी)

स्वामिन्! आप बड़े दयालु हैं, आप-जैसे उदार प्रभुने ही इस दस मासके जीवको ऐसा उत्कृष्ट ज्ञान दिया है। दीनबन्धो! इस अपने किये हुए उपकारसे ही आप प्रसन्न हों; क्योंकि आपको हाथ जोड़नेके सिवा आपके उस उपकारका बदला तो कोई दे भी क्या सकता है॥ १८॥

वीरराघवः

एवं स्व-दैन्यम् आवेद्य ज्ञान-प्रदान-रूपं भगवत्-कृतं महोपकारं स्मरंस् तस्याप्रत्युपकार्यताम् आह । येनेति । हे ईश ! भवादृशेन त्वत्-समेन निरूपमेनेत्य् अर्थः पुरु-दयेन निरतिशय-दयावता येन त्वया दश-मास्यः दश-मास-परिमितो ऽसौ जीवः ईदृशीं गतिं विवेकं सम्यग्-ग्राहितः स दीन-नाथो भगवान् स्वेनैव कृतेन स्व-कल्पितेनैवोपकारेण तुष्यतु स्वयम् एव तुष्यतु अञ्जलिं विना को नाम पुमान् तत्-प्रति कुर्यात् तत्-कृतोपकारं प्रत्य्-अपकारं कुर्याद् इत्य् अर्थः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

पश्यत्ययं धिषणया ननु सप्तवध्रिः
शारीरके दमशरीर्यपरः स्वदेहे।
यत्सृष्टयाऽऽसं तमहं पुरुषं पुराणं
पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम्॥

मूलम्

पश्यत्ययं धिषणया ननु सप्तवध्रिः शारीरके दमशरीर्यपरः स्वदेहे।
यत्सृष्टयाऽऽसं तमहं पुरुषं पुराणं पश्ये बहिर्हृदि च चैत्य7मिव प्रतीतम्॥ १९ ॥

अनुवाद (हिन्दी)

प्रभो! संसारके ये पशु-पक्षी आदि अन्य जीव तो अपनी मूढ़ बुद्धिके अनुसार अपने शरीरमें होनेवाले सुख-दुःखादिका ही अनुभव करते हैं; किन्तु मैं तो आपकी कृपासे शम-दमादि साधनसम्पन्न शरीरसे युक्त हुआ हूँ, अतः आपकी दी हुई विवेकवती बुद्धिसे आप पुराणपुरुषको अपने शरीरके बाहर और भीतर अहंकारके आश्रयभूत आत्माकी भाँति प्रत्यक्ष अनुभव करता हूँ॥ १९॥

वीरराघवः

एवं भगवत एव विवेकादि-सम्पत्तिस् तस्य महोपकर्तृत्वं चोक्तं इमाम् एव भगवतो विवेकादि-सम्पत्तिं विवेकि-जन-निदर्शनेन स्वस्मिन्न् अपि प्रार्थयते । पश्यतीति । शारीरके शारीरः परम-पुरुषः तत्-सम्बन्धिनि परम-पुरुषाधिष्ठिते ब्रह्म-पुरे इति यावत् तस्मिन् स्व-देहे स्वस्य जीवस्य देहे जीव-कर्मायत्त इत्य् अर्थः । अपरः शरीराद् भिन्नः सप्त-वधिः सप्त-त्वग्-वेष्टित-देह-धारी अयं दम-शरीरी शम-दमादि-युक्तो जीवः योगीति यावत् । यत्-सृष्ट्या यस्मिन् कृतया येनेश्वरेण दत्तया धिषणया उपासनात्मिकया बुद्ध्या यत ईश्वराद् धेतोः सृष्ट्या कल्पितयेति वा अनेन निरन्तरायम् उपासना-निर्वृतिर् अपि परम-पुरुष-प्रसादाद् एव इत्य् उक्तं यं पश्यति साक्षात्-करोति तं चैत्यं योग-परिशुद्ध-चित्त-ग्राह्यं पुराणं पुरुषं स इव दम-शरीरीव अहम् अपि बहिर् हृदि च प्रतीतं प्रतीति-विषयं यत्-सृष्ट्या धिषणया पश्यामि साक्षात्-करोमीत्य् अर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

सोऽहं वसन्नपि विभो बहुदुःखवासं
गर्भान्न निर्जिगमिषे बहिरन्धकूपे।
यत्रोपयातमुपसर्पति देवमाया
मिथ्यामतिर्यदनु संसृतिचक्रमेतत्॥

मूलम्

सोऽहं वसन्नपि विभो बहुदुःखवासं गर्भान्न निर्जिगमिषे बहिरन्धकूपे।
यत्रोपयातमुपसर्पति देवमाया मिथ्यामतिर्यदनु संसृतिचक्रमेतत्॥ २० ॥

अनुवाद (हिन्दी)

भगवन्! इस अत्यन्त दुःखसे भरे हुए गर्भाशयमें यद्यपि मैं बड़े कष्टसे रह रहा हूँ, तो भी इससे बाहर निकलकर संसारमय अन्धकूपमें गिरनेकी मुझे बिलकुल इच्छा नहीं है; क्योंकि उसमें जानेवाले जीवको आपकी माया घेर लेती है। जिसके कारण उसकी शरीरमें अहंबुद्धि हो जाती है और उसके परिणाममें उसे फिर इस संसारचक्रमें ही पड़ना होता है॥ २०॥

वीरराघवः

किं विशेषेण मद्-उपासनातो मत्-साक्षात्कारं प्रार्थयसे यथा पूर्वं गर्भान् निर्गत्य प्रवृत्ति-धर्मं नेच्छसीत्य् अत्र गर्भान् निर्गतस्य स्वस्यानर्थं स्वाभिप्रेतं च निवेदयन्न् उपसंहरति । सो ऽहम् इति द्वाभ्याम् । हे विभो ! बहूनां दुःखानां वासो वसतिर् यस्मिन् बहु-दुःखास्पदं गर्भं प्रतिवसन्न् अपि सो ऽहं गर्भाद् बहिर् न निर्जिगमिषे निर्गन्तुं नेच्छामि । कुतः यत्र गर्भाद् बहिर् अन्ध-कूपे ऽन्ध-कूप-वत् स्व-पर-याथात्म्य-ज्ञान-तिरोधायके गार्ह्य-धर्मे उपयातम् उपगतं देवस्य भगवतः सम्बन्धिनी माया “देवी ह्य् एषा गुणमयी” इत्य् उक्त-विधा देहात्माभिमान-स्वतन्त्रात्माभिमान-कारिणी माया उपसर्पति । यद् अनु यस्या मायाया अनु पश्चात् मिथ्या-मतिः देहात्माभिमानादि-रूप-मिथ्यााभिमानस् तत्-प्रयुक्त-सुख-दुःखानुभवः पुनर् गर्भ-वासादिर् इत्य् एतद् एवं-भूतं संसृति-चक्रं चक्रवत्-परिवर्त्तमानं संसरणम् उपयाति ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

तस्मादहं विगतविक्लव उद्धरिष्य
आत्मानमाशु तमसः सुहृदाऽऽत्मनैव।
भूयो यथा व्यसनमेतदनेकरन्ध्रं
मा मे भविष्यदुपसादितविष्णुपादः॥

मूलम्

तस्मादहं विगतविक्लव उद्धरिष्य आत्मानमाशु तमसः सुहृदाऽऽत्मनैव।
भूयो यथा व्यसनमेतदनेकरन्ध्रं मा मे भविष्यदुपसादितविष्णुपादः॥ २१ ॥

अनुवाद (हिन्दी)

अतः मैं व्याकुलताको छोड़कर हृदयमें श्रीविष्णुभगवान‍्के चरणोंको स्थापित कर अपनी बुद्धिकी सहायतासे ही अपनेको बहुत शीघ्र इस संसाररूप समुद्रके पार लगा दूँगा, जिससे मुझे अनेक प्रकारके दोषोंसे युक्त यह संसार-दुःख फिर न प्राप्त हो॥ २१॥

वीरराघवः

तस्माद् विगत-विक्लवः विगतधार्ष्ट्य अहम् आत्मानं सुहृद्-आत्मनैव सर्व-भूत-सुहृद्-आत्मना त्वयैव हेतु-भूतेन तमसः संसृतेर् आशूद्धरिष्ये ऽनेक-रन्ध्रं नाना-गर्भ-वास-रूपम् एतद् व्यसनं दुःखं पुनः यथा मे मा भविष्यत् किम् अत्र साधनं तत्राह । उपसादितौ शरणं प्राप्तौ विष्णोः पादौ येन सो ऽहम् ॥ २१ ॥

श्लोक-२२

मूलम् (वचनम्)

कपिल उवाच

विश्वास-प्रस्तुतिः

एवं कृतमतिर्गर्भे दशमास्यः स्तुवन्नृषिः।
सद्यः क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुतः॥

मूलम्

एवं कृतमतिर्गर्भे दशमास्यः स्तुवन्नृषिः।
सद्यः क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुतः॥ २२ ॥

अनुवाद (हिन्दी)

कपिलदेवजी कहते हैं—माता! वह दस महीनेका जीव गर्भमें ही जब इस प्रकार विवेकसम्पन्न होकर भगवान‍्की स्तुति करता है, तब उस अधोमुख बालकको प्रसवकालकी वायु तत्काल बाहर आनेके लिये ढकेलती है॥ २२॥

वीरराघवः

एवं सप्तमान्-मासाद् आरभ्यादशमान्तं गर्भस्थ-जीव-निर्वेदम् अभिधायानन्तरावस्थाम् आह । एवम् इति । एवम् उक्त-रीत्या गर्भे कृत-निश्चयं सपदि तदा दश-मास्यं दश-मास-परिमितम् ऋषिं जीवं सद्यः तत्-क्षणम् एवावाचीनम् अवाङ्-मुखं तं प्रसूति-हेतुर् मारुतः प्रसूत्यै क्षिपति प्रेरयति बहिर् निःसारयितुं चालयतीत्य् अर्थः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

तेनावसृष्टः सहसा कृत्वावाक्शिर आतुरः।
विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हतस्मृतिः॥

मूलम्

तेनावसृष्टः सहसा कृत्वावाक्शिर आतुरः।
विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हतस्मृतिः॥ २३ ॥

अनुवाद (हिन्दी)

उसके सहसा ठेलनेपर वह बालक अत्यन्त व्याकुल हो नीचे सिर करके बड़े कष्टसे बाहर निकलता है। उस समय उसके श्वासकी गति रुक जाती है और पूर्वस्मृति नष्ट हो जाती है॥ २३॥

वीरराघवः

तेन सूति-वायुना ऽवसृष्टः स्व-स्थानाच् चालितः शिरः अवाग् अधः कृत्वा आतुरः दुःखितः उच्छ्वास-रहितः हत-स्मृतिः विनष्ट-गर्भ-स्थ-दशा-स्मृतिर् अतिकृच्छ्रेणातिसङ्कटेन निष्क्रामति ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

पतितो भुव्यसृङ्मूत्रे विष्ठाभूरिव चेष्टते।
रोरूयति गते ज्ञाने विपरीतां गतिं गतः॥

मूलम्

पतितो भुव्यसृङ्मूत्रे विष्ठाभूरिव चेष्टते।
रोरूय8ति गते ज्ञाने विपरीतां गतिं गतः॥ २४ ॥

अनुवाद (हिन्दी)

पृथ्वीपर माताके रुधिर और मूत्रमें पड़ा हुआ वह बालक विष्ठाके कीड़ेके समान छटपटाता है। उसका गर्भवासका सारा ज्ञान नष्ट हो जाता है और वह विपरीत गति (देहाभिमानरूप अज्ञान-दशा)-को प्राप्त होकर बार-बार जोर-जोरसे रोता है॥ २४॥

वीरराघवः

असृजा लोहितेन दिग्धो लिप्तः भुवि पतितः विष्ठा-भूः कृमिर् इव चेष्टते ज्ञाने गर्भ-वास-कालिके ज्ञाने गते सति तद्-विपरीतां मतिं प्राप्तः रोरूयते भृशं रोदिति ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

परच्छन्दं न विदुषा पुष्यमाणो जनेन सः।
अनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः॥

मूलम्

परच्छन्दं न विदुषा पुष्यमाणो जनेन सः।
अनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः॥ २५ ॥

अनुवाद (हिन्दी)

फिर जो लोग उसका अभिप्राय नहीं समझ सकते, उनके द्वारा उसका पालन-पोषण होता है। ऐसी अवस्थामें उसे जो प्रतिकूलता प्राप्त होती है, उसका निषेध करनेकी शक्ति भी उसमें नहीं होती॥ २५॥

वीरराघवः

परस्य शिशोः छन्दम् अभिप्रायम् अविदुषा जनेन सः शिशुः पुष्यमाणः अनभिप्रेतं स्तन्यार्थं रोदने उदर-व्यथां परिकल्प्य पाययिष्यमाणं निम्ब-रसादिकम् उदर-व्यथया रोदने दीयमानं स्तन्यादिकं चापनः प्राप्तः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

शायितोऽशुचिपर्यङ्के जन्तुः स्वेदजदूषिते।
नेशः कण्डूयनेऽङ्गानामासनोत्थानचेष्टने॥

मूलम्

शायितोऽशुचिपर्यङ्के जन्तुः स्वेदजदूषिते।
नेशः कण्डूयनेऽङ्गानामासनोत्थानचेष्टने॥ २६ ॥

अनुवाद (हिन्दी)

जब उस जीवको शिशु-अवस्थामें मैली-कुचैली खाटपर सुला दिया जाता है, जिसमें खटमल आदि स्वेदज जीव चिपटे रहते हैं, तब उसमें शरीरको खुजलाने, उठाने अथवा करवट बदलनेकी भी सामर्थ्य न होनेके कारण वह बड़ा कष्ट पाता है॥ २६॥

वीरराघवः

जन्तवः दंश-मशक-मक्षिकादयः स्वेदजाश् च तैर् दूषिते ऽशुचि-पर्यङ्के शायितः शयनं कारितः अङ्गानां कण्डूयने आसनादौ च नेशः असमर्थः रोरूयतीत्य् अनुषङ्गः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः।
रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा॥

मूलम्

तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः।
रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा॥ २७ ॥

अनुवाद (हिन्दी)

उसकी त्वचा बड़ी कोमल होती है; उसे डाँस, मच्छर और खटमल आदि उसी प्रकार काटते रहते हैं, जैसे बड़े कीड़ेको छोटे कीड़े। इस समय उसका गर्भावस्थाका सारा ज्ञान जाता रहता है, सिवा रोनेके वह कुछ नहीं कर सकता॥ २७॥

वीरराघवः

आमा कोमला त्वग् यस्य तं दंशाः दंशन-स्व-भावाः मत्कुणादयः विगतं गर्भ-ज्ञानं यस्य तं तुदन्ति व्यथयन्ति यथा कृमिम् ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

इत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव च।
अलब्धाभीप्सितोऽज्ञानादिद्धमन्युः शुचार्पितः॥

मूलम्

इत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव च।
अलब्धाभीप्सितोऽज्ञानादिद्धमन्युः शुचार्पितः॥ २८ ॥

अनुवाद (हिन्दी)

इसी प्रकार बाल्य (कौमार) और पौगण्ड—अवस्थाओंके दुःख भोगकर वह बालक युवावस्थामें पहुँचता है। इस समय उसे यदि कोई इच्छित भोग नहीं प्राप्त होता, तो अज्ञानवश उसका क्रोध उद्दीप्त हो उठता है और वह शोकाकुल हो जाता है॥ २८॥

वीरराघवः

शैशवं पञ्च-वर्ष-परिमित-वयः शिशुत्वं तद्-दुःखं ततः पौगण्डं यौवनात् प्राग् अवस्था तद्-दुःखं च भुक्त्वा विग्रहं करोतीत्य् उत्तरत्रान्वयः । पौगण्ड-दुःखम् आह अलब्धम् अभीप्सितं येन इत्थम् अज्ञानाद् इद्धः प्रवृद्धः मन्युः क्रोधः यस्य सः शुचार्पितः व्याप्तः शोकं प्राप्तः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

सह देहेन मानेन वर्धमानेन मन्युना।
करोति विग्रहं कामी कामिष्वन्ताय चात्मनः॥

मूलम्

सह देहेन मानेन वर्धमानेन मन्युना।
करोति विग्रहं कामी कामिष्वन्ताय चात्मनः॥ २९ ॥

अनुवाद (हिन्दी)

देहके साथ-ही-साथ अभिमान और क्रोध बढ़ जानेके कारण वह कामपरवशजीव अपना ही नाश करनेके लिये दूसरे कामी पुरुषोंके साथ वैर ठानता है॥ २९॥

वीरराघवः

यौवन-दुःखम् आह । सहेति । देहेन सहैव वर्द्धमानेनाभिमानेन मन्युना चात्मनो ऽन्ताय नाशाय कामिषु विग्रहं विरोधं करोति । स्वयं कामी स्व-काम-विरोधिषु विग्रहं करोतीत्य् अर्थः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

भूतैः पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत्।
अहंममेत्यसद‍्ग्राहः करोति कुमतिर्मतिम्॥

मूलम्

भूतैः पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत्।
अहंममेत्यसद‍्ग्राहः करोति कुमतिर्मतिम्॥ ३० ॥

अनुवाद (हिन्दी)

खोटी बुद्धिवाला वह अज्ञानी जीव पंचभूतोंसे रचे हुए इस देहमें मिथ्याभिनिवेशके कारण निरन्तर मैं-मेरेपनका अभिमान करने लगता है॥ ३०॥

वीरराघवः

यौवनावस्थाम् एव प्रपञ्चयति । भूतैर् इति । पञ्चभिर् भूतैर् आरब्धे देहे असदग्रहः अहंममेति कुमतिं करोति ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

तदर्थं कुरुते कर्म यद‍्बद्धो याति संसृतिम्।
योऽनुयाति ददत्क्लेशमविद्याकर्मबन्धनः॥

मूलम्

तदर्थं कुरुते कर्म यद‍्बद्धो याति संसृतिम्।
योऽनुयाति ददत्क्लेशमविद्याकर्मबन्धनः॥ ३१ ॥

अनुवाद (हिन्दी)

जो शरीर इसे वृद्धावस्था आदि अनेक प्रकारके कष्ट ही देता है तथा अविद्या और कर्मके सूत्रसे बँधा रहनेके कारण सदा इसके पीछे लगा रहता है, उसीके लिये यह तरह-तरहके कर्म करता रहता है—जिनमें बँध जानेके कारण इसे बार-बार संसारचक्रमें पड़ना होता है॥ ३१॥

वीरराघवः

तद् अर्थं देहार्थं कर्म करोति येन कर्मणा बद्धः संसृतिं पुनर् याति तद् एवाह । यो देही अविद्या-कर्म-बन्धनः “अविद्या-कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते” इत्य्-उक्त-कर्माख्याविद्यावश्यः ददत् क्लेशं क्लेशावहं देहम् अनुयाति पुनः पुनर् अनुवर्त्तते ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

यद्यसद‍्भिः पथि पुनः शिश्नोदरकृतोद्यमैः।
आस्थितो रमते जन्तुस्तमो विशति पूर्ववत्॥

मूलम्

यद्यसद‍्भिः पथि पुनः शिश्नोदरकृतोद्यमैः।
आस्थितो रमते जन्तुस्तमो विशति पूर्ववत्॥ ३२ ॥

अनुवाद (हिन्दी)

सन्मार्गमें चलते हुए यदि इसका किन्हीं जिह्वा और उपस्थेन्द्रियके भोगोंमें लगे हुए विषयी पुरुषोंसे समागम हो जाता है और यह उनमें आस्था करके उन्हींका अनुगमन करने लगता है, तो पहलेके समान ही फिर नारकी योनियोंमें पड़ता है॥ ३२॥

वीरराघवः

असद्भिर् दारादिभिर् आश्रितः तेषां पथ्य-सन्मार्गे स्थितः शिश्नोदार्थं कृत-प्रयत्नः यदि रमते वैषयिकेषु सुखेषु तर्हि पूर्ववत् तमः “यातनादेह आवृत्य” इत्य्-आदि-पूर्वोक्त-प्रकारेण नरकं प्रविशति ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा।
शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम्॥

मूलम्

सत्यं शौचं दया9 मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा।
शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम्॥ ३३ ॥

वीरराघवः

असत्सङ्गं निन्दिति । सत्यम् इति त्रिभिः । यत्सङ्गाद् येषाम् असतां सङ्गात् सत्यादयः क्षयं यान्ति नाशं यान्ति ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु।
सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च॥

मूलम्

तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु।
सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च॥ ३४ ॥

अनुवाद (हिन्दी)

जिनके संगसे इसके सत्य, शौच (बाहर-भीतरकी पवित्रता), दया, वाणीका संयम, बुद्धि, धन-सम्पत्ति, लज्जा, यश, क्षमा, मन और इन्द्रियोंका संयम तथा ऐश्वर्य आदि सभी सद‍्गुण नष्ट हो जाते हैं। उन अत्यन्त शोचनीय, स्त्रियोंके क्रीडामृग (खिलौना), अशान्त, मूढ़ और देहात्मदर्शी असत्पुरुषोंका संग कभी नहीं करना चाहिये॥ ३३-३४॥

वीरराघवः

अशान्तेषु विषय-वैतृष्ण्य-रहितेषु खण्डितात्मसु देहात्म-बुद्धिषु मूढेषु योषितां क्रीडा-मृगवद् अधीनेषु शोच्येषु विवेकिभिर् इति शेषः, तेष्व् असाधुषु सङ्गं न कुर्यात् ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः।
योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः॥

मूलम्

न तथास्य भवेन्मोहो बन्धश्चान्य10प्रसङ्गतः।
योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः॥ ३५ ॥

अनुवाद (हिन्दी)

क्योंकि इस जीवको किसी औरका संग करनेसे ऐसा मोह और बन्धन नहीं होता, जैसा स्त्री और स्त्रियोंके संगियोंका संग करनेसे होता है॥ ३५॥

वीरराघवः

योषितां सङ्गाद् योषित्-सङ्गि-सङ्गतेश् च यथा पुंसो मोहो बन्धश् च भवेत् तथा ऽन्य-प्रसङ्गतो मोहादिर् न भवेत् ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्रूपधर्षितः।
रोहिद‍्भूतां सोऽन्वधावदृक्षरूपी हतत्रपः॥

मूलम्

प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्रूपधर्षितः।
रोहिद‍्भूतां सोऽन्वधावदृक्षरूपी हतत्रपः॥ ३६ ॥

अनुवाद (हिन्दी)

एक बार अपनी पुत्री सरस्वतीको देखकर ब्रह्माजी भी उसके रूप-लावण्यसे मोहित हो गये थे और उसके मृगीरूप होकर भागनेपर उसके पीछे निर्लज्जतापूर्वक मृगरूप होकर दौड़ने लगे॥ ३६॥

वीरराघवः

योषित्-सङ्गस्यानर्थ-हेतुतां प्रपञ्चयति । प्रजापतिर् इति सप्तभिः प्रजापतिर् ब्रह्मा स्वां दुहितरं सरस्वतीं दृष्ट्वा तस्या दुहितुः रूपेण शरीर-सौन्दर्येण धर्षितः मोहितः रोहिद्भूतां मृगीभूतां सः ऋष्य-रूपी स्वयम् अपि मृग-रूपी सन् गतह्रीर् गत-लज्जो ऽन्वधावद् अन्ववर्त्तत तया सह रेमे इत्य् अर्थः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधीः पुमान्।
ऋषिं नारायणमृते योषिन्मय्येह मायया॥

मूलम्

तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधीः पुमान्।
ऋषिं नारायणमृते योषिन्मय्येह मायया॥ ३७ ॥

अनुवाद (हिन्दी)

उन्हीं ब्रह्माजीने मरीचि आदि प्रजापतियोंकी तथा मरीचि आदिने कश्यपादिकी और कश्यपादिने देव-मनुष्यादि प्राणियोंकी सृष्टि की। अतः इनमें एक ऋषिप्रवर नारायणको छोड़कर ऐसा कौन पुरुष हो सकता है, जिसकी बुद्धि स्त्रीरूपिणी मायासे मोहित न हो॥ ३७॥

वीरराघवः

तेन ब्रह्मणा सृष्टा मरीच्यादयस् तैः सृष्टाः कश्यपादयः तैर् अपि सृष्टा देव-मनुष्यादयः तेषु मध्ये कः पुमान् नारायणम् ऋषिं विना योषित्-मय्या मायया भगवन्-मायया अखण्डित-धीर् अनाकृष्ट-मनाः । सर्वो ऽपि खण्डित-धीर् एव, भगवन्-मायाया मोहकत्वात् तत्-समान-धर्मत्वाद् योषन्-मायात्वेन रूपिता ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम्।
या करोति पदाक्रान्तान् भ्रूविजृम्भेण केवलम्॥

मूलम्

बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम्।
या करोति पदाक्रान्तान्11 भ्रूविजृम्भेण केवलम्॥ ३८ ॥

अनुवाद (हिन्दी)

अहो! मेरी इस स्त्रीरूपिणी मायाका बल तो देखो, जो अपने भ्रुकुटि-विलासमात्रसे बड़े-बड़े दिग्विजयी वीरोंको पैरोंसे कुचल देती है॥ ३८॥

वीरराघवः

स्त्री-रूपाया मे मम मायायाः बलं मोहकत्व-रूपं सामर्थ्यं पश्य या स्त्री केवलं भ्रू-विक्षेपेणैव दिशां जयिनः दिग्-विजयिनः शूरान् अपि स्वाधीनान् करोति ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

सङ्गं न कुर्यात्प्रमदासु जातु
योगस्य पारं परमारुरुक्षुः।
मत्सेवया प्रतिलब्धात्मलाभो
वदन्ति या निरयद्वारमस्य॥

मूलम्

सङ्गं न कुर्यात्प्रमदासु जातु योगस्य पारं परमारुरुक्षुः।
मत्सेवया प्रतिलब्धात्मलाभो वदन्ति या निरयद्वारमस्य॥ ३९ ॥

अनुवाद (हिन्दी)

जो पुरुष योगके परम पदपर आरूढ़ होना चाहता हो अथवा जिसे मेरी सेवाके प्रभावसे आत्मा-अनात्माका विवेक हो गया हो, वह स्त्रियोंका संग कभी न करे; क्योंकि उन्हें ऐसे पुरुषके लिये नरकका खुला द्वार बताया गया है॥ ३९॥

वीरराघवः

अतः योगस्य परं पारम् अन्तं भक्ति-योग-फलं मत्-पदम् इत्य् अर्थः । आरोढुम् इच्छुः मत्-सेवया प्रतिलब्ध आत्म-बोधः प्रकृति-विलक्षणात्म-याथात्म्य-ज्ञानं यस्य सः प्रमदासु कदाचिद् अपि सङ्गं न कुर्यात् याः प्रमदाः अस्य मुमुक्षोर् निरय-द्वारं वदन्ति अतस् तासु सङ्गं न कुर्याद् इत्य् अर्थः ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

योपयाति शनैर्माया योषिद्देवविनिर्मिता।
तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम्॥

मूलम्

योपयाति शनैर्माया योषिद्देवविनिर्मिता।
तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम्॥ ४० ॥

अनुवाद (हिन्दी)

भगवान‍्की रची हुई यह जो स्त्रीरूपिणी माया धीरे-धीरे सेवा आदिके मिससे पास आती है, इसे तिनकोंसे ढके हुए कुएँके समान अपनी मृत्यु ही समझे॥ ४०॥

वीरराघवः

येति । शनैः शुश्रूषादि-व्याजेन देवेन भगवता निर्मिता या योषिद् रूपा माया उपयाति तां योषितम् आत्मनो मृत्युम् अनर्थकरीम् ईक्षेत तृणैर् आवृतं कूपम् इव ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

यां मन्यते पतिं मोहान्मन्मायामृषभायतीम्।
स्त्रीत्वं स्त्रीसङ्गतः प्राप्तो वित्तापत्यगृहप्रदम्॥

मूलम्

यां मन्यते पतिं मोहान्मन्मायामृषभायतीम्।
स्त्रीत्वं स्त्रीसङ्गतः प्राप्तो वित्तापत्यगृहप्रदम्॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

तामात्मनो विजानीयात्पत्यपत्यगृहात्मकम्।
दैवोपसादितं मृत्युं मृगयोर्गायनं यथा॥

मूलम्

तामात्मनो विजानीयात्पत्यपत्यगृहात्मकम्।
दैवोपसादितं मृत्युं मृगयोर्गायनं यथा॥ ४२ ॥

अनुवाद (हिन्दी)

स्त्रीमें आसक्त रहनेके कारण तथा अन्त समयमें स्त्रीका ही ध्यान रहनेसे जीवको स्त्रीयोनि प्राप्त होती है। इस प्रकार स्त्रीयोनिको प्राप्त हुआ जीव पुरुषरूपमें प्रतीत होनेवाली मेरी मायाको ही धन, पुत्र और गृह आदि देनेवाला अपना पति मानता रहता है; सो जिस प्रकार व्याधेका गान कानोंको प्रिय लगनेपर भी बेचारे भोले-भाले पशु-पक्षियोंको फँसाकर उनके नाशका ही कारण होता है—उसी प्रकार उन पुत्र, पति और गृह आदिको विधाताकी निश्चित की हुई अपनी मृत्यु ही जाने॥ ४१-४२॥

वीरराघवः

एवं मुमुक्षुणा पुरुषेण स्त्री-सङ्गो न कार्य इत्य् उक्तम् अथ मुमुक्षोः स्त्रिया अपि पुरुष-सङ्गो न कार्य इत्य् आह । याम् इति द्वाभ्याम् । अयम् आत्मा स्त्री-सङ्गाद् अन्य-काले स्त्रियम् एव ध्यायन् “यं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेवरम्” इत्य्-उक्त-रीत्या स्त्रीत्वं प्राप्तः अहं स्त्रीति मन्यमानः ऋषभवद्-आचरन्तीं भर्तृ-रूपाम् इत्य् अर्थः । मे यां मायां मोहाद् वित्तादि-प्रदं पतिं मन्यते पत्युर् अपि मोहकत्वाद् एव मायात्व-रूपणं तं वित्ताद्य्-आश्रयं पतिम् आत्मनो दैवोपसादितं मृत्युं जानीयात् यथा मृगयोर् व्यधस्य गायनं मृगस्य मृत्यु-करं तथेत्य् अर्थः ॥ ४१-४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

देहेन जीवभूतेन लोकाल्लोकमनुव्रजन्।
भुञ्जान एव कर्माणि करोत्यविरतं पुमान्॥

मूलम्

देहेन जीवभूतेन लोकाल्लोकमनुव्रजन्।
भुञ्जान एव कर्माणि करोत्यविरतं पुमान्॥ ४३ ॥

अनुवाद (हिन्दी)

देवि! जीवके उपाधिभूत लिंगदेहके द्वारा पुरुष एक लोकसे दूसरे लोकमें जाता है और अपने प्रारब्धकर्मोंको भोगता हुआ निरन्तर अन्य देहोंकी प्राप्तिके लिये दूसरे कर्म करता रहता है॥ ४३॥

वीरराघवः

एवं गर्भ-जन्मादि-यौवनान्ताः क्लेशा उक्ताः । जरा-मरणादि-क्लेशास् तु पूर्वस्मिन्न् एवाध्याये प्रपञ्चिताः । तत्र नित्यस्यात्मनः कथं जन्म-मरणे सम्भवतः सम्भवे वा तयोः स्व-रूपं किं भोगेन सर्व-कर्म-क्षये सति कथं शरीराच् छरीरान्तर-गमनं तत्-सम्भवे ऽपि किं प्राक्तनैर् भूत-सूक्ष्मैः सम्परिष्वक्तो गच्छति उत तानि विहाय गच्छतीतीमा आशङ्का निराकुर्वन् वैराग्य-सिद्ध्यर्थं देहस्यानात्मत्व-प्रतिपादनाय तद्-एकदेशस्येन्द्रियस्यानात्मत्वम् आह । देहेनेति चतुर्भिः । पुमान् जीवः जीव-भूतेन जीवाभिन्नत्वेनाभिमतेन देहेन भूतेन्द्रिय-मनात्मकेन सूक्ष्मेण देहेन लोकात् सूक्ष्म-परिणाम-रूपात् स्थूलाच् शरीराल् लोकान्तरं तत्-परिणाम-रूपं देहान्तरम् अनुव्रजन् कर्माणि प्राक्तन-स्थूल-शरीर-निष्पादित-कर्म-फलानि भुञ्जानः पुनर् उत्तर-शरीरारम्भकाणि कर्माण्य् अविरतम् अविच्छेदेन करोति ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमयः।
तन्निरोधोऽस्य मरणमाविर्भावस्तु सम्भवः॥

मूलम्

जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमयः12
तन्निरोधोऽस्य मरणमाविर्भावस्तु सम्भवः॥ ४४ ॥

अनुवाद (हिन्दी)

जीवका उपाधिरूप लिंगशरीर तो मोक्षपर्यन्त उसके साथ रहता है तथा भूत, इन्द्रिय और मनका कार्यरूप स्थूलशरीर इसका भोगाधिष्ठान है। इन दोनोंका परस्पर संगठित होकर कार्य न करना ही प्राणीकी ‘मृत्यु’ है और दोनोंका साथ-साथ प्रकट होना ‘जन्म’ कहलाता है॥ ४४॥

वीरराघवः

कुत एतद् देहेन लोकाल् लोकान्तर-गमनं जायत इत्य् अत्राह । सूक्ष्मो यो भूतेन्द्रिय-मनो-मयो देहः अस्य देहस्यानुगो जीवः अनुसृत्य गन्ता देहेन सहितो गन्तेत्य् अर्थः । यद् वा । जीवः जीवत्वेनाभिमतः भूतेन्द्रियात्मको देहः सूक्ष्म-देहः अस्यात्मनो ऽनुगो हीति श्रुति-स्मृति-प्रसिद्धिं द्योतयति श्रुतिस् तावत् “पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति” इत्य्-आदिका स्मृतिर् अपि ।

मनः-षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति । शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः ॥ गृहीत्वैतानि संयाति ।

इत्य्-आदिका अत्राविरतं कर्माणि करोतीत्य् अनेन कर्मणाम् असमाप्तिर् उक्ता । अभ्युपगत-प्रारब्धानां भोगेन विनाशे ऽप्य् अनभ्युपगत-प्रारब्धानाम् अविनष्टत्वात् । नन्व् एवम् अपि कथं नित्यस्यात्मनः जन्म-मरणे सम्भवत इत्य् अत्राह । तन्-निरोध इति तस्मिन् सूक्ष्मे शरीरे स्थूलस्य निरोधः संहारः स्थूलावस्थां परित्यज्य सूक्ष्मावस्था-प्राप्तिर् एवास्य जीवस्य मरणम् आविर्भावः पुनः सूक्ष्मावस्था-प्रहाणेन स्थूलावस्था प्राप्तिर् एवास्य सम्भवः देह-द्वारके उत्पत्ति-मरणे न स्वत इत्य् अर्थः ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा।
तत्पञ्चत्वमहं मानादुत्पत्तिर्द्रव्यदर्शनम्॥

मूलम्

द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा।
13त्पञ्चत्वमहं मानादुत्पत्तिर्द्रव्यदर्शनम्॥ ४५ ॥

मूलम् - कर्णावती

द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा।
तत्पञ्चत्वमहंमानादुत्पत्तिर्द्रव्यदर्शनम्॥ ४५ ॥

अनुवाद (हिन्दी)

पदार्थोंकी उपलब्धिके स्थानरूप इस स्थूलशरीरमें जब उनको ग्रहण करनेकी योग्यता नहीं रहती, यह उसका मरण है और यह स्थूलशरीर ही मैं हूँ—इस अभिमानके साथ उसे देखना उसका जन्म है॥ ४५॥

वीरराघवः

एतद् एवोपपादयन् जन्म-मरण-स्व-रूपम् आह । द्रव्येति । द्रव्योपलब्धि-स्थानस्य पृथिव्यादि-भूतोपलब्धि-स्थानस्य देहस्य यथा द्रव्येक्षा-योग्यता पार्थिवाप्य-तैजसादि-द्रव्यांश-निरीक्षण-योग्यता सूक्ष्मावस्थेत्य् अर्थः, यथा पुंसो भवति तद् एवास्य पञ्चत्वं मरणं पृथिव्यादि-द्रव्यत्वेन ज्ञायमान-देहस्यात्माभिमान-विषयत्वात् तस्य द्रव्यांश-निरीक्षणायोग्यतैव पुंसो मरणम् इत्य् अर्थः । अहंमानाद् द्रव्य-दर्शनम् अहम् इत्य् अभिमानेन द्रव्यस्य दर्शनम् एव देहस्योत्पत्तिः सैव पुंस उत्पत्तिर् इत्य् अर्थः । अत्रेदम् अवधेयम् ।

तद् एतद् अक्षयम् नित्यं जगत्-स्थावर-जङ्गमम् । प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि ॥

इत्य्-आद्य्-उक्त-रीत्या प्रकृति-पुरुषयोर् उभयोर् अपि नित्यत्वान् नोत्पत्ति-विनाशौ यद्य् अपि सम्भवतः, तथाप्य् आत्मनो ऽपरिणामित्वान् न साक्षाद् उत्पत्त्यादि-सम्भवः, किन्तु प्रकृति-द्वारा सम्भवत्य् एवोत्पत्त्य्-आदिः प्रकृतेस् तु साक्षाद् उत्पत्त्यादयः सम्भवन्त्य् एव । न चैवं तस्यानित्यता शङ्क्या, द्रव्यस्य नित्यत्वात् उत्पत्ति-विनाशादयो हि सतो द्रव्यस्यावस्था-विशेषाः तन्तु-प्रभृतीनि हि द्रव्याणि सन्त्य् एव रचना-विशेष-युक्तानि पटादीन्य् उच्यन्ते । असत्-कार्य-वादिना चैतद् एवोपलभ्यते न हि तत्र तन्तु-सन्तान-विशेषातिरेकेणान्यत् पदार्थान्तरं प्रतीयते कारक-व्यापार-नामान्तर-भजन-व्यवहार-विशेषाणाम् एतावतैवोपपत्तेर् न द्रव्यान्तर-कल्पना युक्ता । अत उत्पत्ति-विनाशादयः सतो द्रव्यस्यावस्था-विशेषाः । उत्पत्त्याख्याम् अवस्थाम् उपजातस्य द्रव्यस्य तद्-विरोध्य्-अवस्थान्तर-प्राप्तिर् विनाश इत्य् उच्यते । मृद्-द्रव्यस्यापिण्डत्व-घटत्व-कपालत्व-चूर्णत्वादि-वत् परिणामि-द्रव्यस्य परिणाम-परंपरा ऽवर्जनीया । तत्र चूर्णत्वावस्थ-द्रव्यस्योत्तरावस्था-प्राप्तिर् विनाशः, सैव तद्-अवस्थस्योत्पत्तिर् इति ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

यथाक्ष्णोर्द्रव्यावयवदर्शनायोग्यता यदा।
तदैव चक्षुषो द्रष्टुर्द्रष्टृत्वायोग्यतानयोः॥

मूलम्

यथाक्ष्णोर्द्रव्यावयवदर्शनायोग्यता यदा।
तदैव चक्षुषो द्रष्टुर्द्रष्टृत्वायोग्यतानयोः॥ ४६ ॥

अनुवाद (हिन्दी)

नेत्रोंमें जब किसी दोषके कारण रूपादिको देखनेकी योग्यता नहीं रहती, तभी उनमें रहनेवाली चक्षु-इन्द्रिय भी रूप देखनेमें असमर्थ हो जाती है और जब नेत्र और उनमें रहनेवाली इन्द्रिय दोनों ही रूप देखनेमें असमर्थ हो जाते हैं, तभी इन दोनोंके साक्षी जीवमें भी वह योग्यता नहीं रहती॥ ४६॥

वीरराघवः

एवम् उत्पत्ति-विनाश-स्व-रूपम् उपपादितम् अथ वैराग्योदयाय साक्षाद् उत्पत्ति-विनाश-योगि-द्रव्यस्य देहस्यानात्मत्वं वक्तुं तद्-एकदेशस्य इन्द्रियस्यानात्मत्वम् उपपादयति । चक्षुर्-इन्द्रियाधिष्ठानं गोलकम् अक्षीत्य् उच्यते “आदित्यश् चक्षुर् भूत्वा अक्षिणी प्राविशत्” इति श्रुतेः इहापि निरभिद्येताम् अक्षणी चक्षुर् एतयोर् इत्य्-उक्तत्वात् अक्ष्णोर् इन्द्रिय-गोलकयोर् दर्शनायोग्यता यथा तथैव चक्षुर्-इन्द्रियस्यापि दर्शनायोग्यता सिद्धा । काच-तिमिराद्य्-उपहत-दृष्टेश् चक्षुर्-गोचर-सद्भावे दर्शनाभावाद् इन्द्रिय-गोलकस्य न द्रष्टृत्वम् एवं शोभन-दृष्टेर् अपि पुरुषस्यात्मन्य् अनभिमते सत्य् उन्मीलितम् अपि चक्षुर् न पश्यतीति चक्षुषोर् द्रष्टृत्वायोग्यता भवति तस्माच् चेतनस्यैव द्रष्टृत्वं, द्रष्टृता-योग्यतानयोर् इति पाठान्तरं, तत्र द्रष्टुश् चेतनस्यैव द्रष्टृता द्रष्टृत्वम् अनयोश् चक्षुर्-द्रष्ट्रोः योग्यता-सम्बन्ध-योग्यता करणत्व-करणित्व-रूप-सम्बन्ध-योग्यतेत्य् अर्थः । एवञ् च यथा चक्षुषो ऽनात्मत्वं तथा देहस्याप्य् अनात्मत्वं सिद्धम् अत्र तन्-निरोधस् तु मरणम् आविर्भावस् तु सम्भव इत्यस्यानन्तरम् । “द्रव्योपलब्धि-स्थानस्य द्रव्येक्षायोग्यता यथा । तथैव चक्षुषो द्रष्टुर् द्रष्टृत्वायोग्यतानयोः इति ॥” क्वचिद् अधिकः पठ्यते, तं चैवं केचिद् व्याचक्षते द्रव्योपलब्धि-स्थानस्य नेत्र-गोलकादेर् द्रव्येक्षायां रूपादि-दर्शने काच-कामलादि-दोषेण यथायोग्यता भवति तथैव चक्षुष इन्द्रियस्यायोग्यता, अनयोः स्थान-चक्षुषोर् यथायोग्यता तथैव द्रष्टुर् जीवस्य द्रष्टृत्वायोग्यतेति निरोधाविर्भावयोर् एव जन्म-मरणत्वे दृष्टान्त इति तत्र स्थान-चक्षुषोर् इव द्रष्टुर् जीवस्याप्य् अद्रष्टृत्वे कस्य तर्हि द्रष्टृत्वम् इति प्रष्टव्यं, व्याहतं चैतद् द्रष्टुर् अद्रष्टृत्वम् इति दृष्टान्तो ऽप्य् असङ्गतः, न ह्य् अनेन किञ्चिद् दृष्टान्त-दार्ष्टन्तिक-गतं साधर्म्यम् उच्यते, तस्माद् एवं व्याख्येयः यदि तन्-निरोध एव मरणं तर्हि सूक्ष्मावस्थयावस्थितस्य देहस्योपलम्भः स्यात् तत्राह । द्रव्येति । द्रष्टुः शोभन-द्रष्टुर् जीवस्य चक्षुषश् चेत्य् अनयोर् द्रव्योपलब्धि-स्थानस्य पृथिव्यादि-भूतोपलब्धि-स्थानस्य देहस्य द्रव्येक्षा-योग्यता पार्थिवाप्य-तैजसादि-द्रव्य-दर्शन-योग्यता यथा भवति स्थूलत्वाद् अतस् तस्य यथा दर्शन-विषयता स्व-भाव-सिद्धा तथा सूक्ष्मे ऽपि शरीरे अनयोश् चक्षुर्-आत्मनोर् द्रष्टृत्वायोग्यता सूक्ष्मत्वात् तस्य दर्शन-विषयत्व-योग्यता नास्तीत्य् अर्थ इति ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

तस्मान्न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः।
बुद्‍ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह॥

मूलम्

तस्मान्न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः।
बुद्‍ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह॥ ४७ ॥

वीरराघवः

उपसंहरति । तस्माद् इति । तस्मात् साक्षाज् जन्म-मरणादि-भाजो देहस्यानात्मत्वात् संत्रासः देह-प्रयुक्तागामि-जन्म-मरणादि-दुःख-विषय-ज्ञान-रूप-भयं न कार्यम्, कार्पण्यम् अतीत-पुरुष-मरणादि-स्मृति-निमित्तं दैन्यं सम्भ्रमः पुत्र-जन्मादि-निमित्त-सन्तोषश् च न कार्यः, किन्तु धीरः सुख-दुःख-समः जीव-गतिं ब्रह्मात्मक-प्रकृति-विलक्षणात्म-स्व-रूपं बुद्ध्वा मुक्त-सङ्गः देहापत्य-कलत्रादिष्व् अनासक्तः इह लोके विचरेत् ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

सम्यग्दर्शनया बुद्‍ध्या योगवैराग्ययुक्तया।
मायाविरचिते लोके चरेन्न्यस्य कलेवरम्॥

मूलम्

सम्यग्दर्शनया बुद्‍ध्या योगवैराग्ययुक्तया।
मायाविरचिते लोके चरेन्न्यस्य कलेवरम्॥ ४८ ॥

अनुवाद (हिन्दी)

अतः मुमुक्षपुरुषको मरणादिसे भय, दीनता अथवा मोह नहीं होना चाहिये। उसे जीवके स्वरूपको जानकर धैर्यपूर्वक निःसंगभावसे विचरना चाहिये तथा इस मायामय संसारमें योग-वैराग्य-युक्त सम्यक् ज्ञानमयीबुद्धिसे शरीरको निक्षेप (धरोहर)-की भाँति रखकर उसके प्रति अनासक्त रहते हुए विचरण करना चाहिये॥ ४७-४८॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे का14पिलेयोपाख्याने जीवगतिर्नामैकत्रिंशोऽध्यायः॥ ३१ ॥

वीरराघवः

तथा सम्यग्-दर्शनया सम्यग्-अबाधितं दर्शनं शास्त्र-जन्यं ज्ञानं यस्यां तया प्रकृति-विविक्तात्म-याथात्म्य-ज्ञानं वैराग्यं कामानभिष्वङ्गः । स च प्राप्य-परब्रह्म-व्यतिरिक्त-वस्तु-वैतृष्ण्य-रूपस् ताभ्यां युक्तया धिया विवेकादि-जन्य-भगवद्-उपासनात्मिकया बुद्ध्या माया-विरचिते ऽस्मिल् लोके कलेवरं न्यस्य त्यक्त्वा कलेवरे आसक्तिम् अकृत्वेत्य् अर्थः । चरेन् निवृत्ति-धर्मम् इति शेषः ॥ ४८ ॥


  1. प्रा. पा. - संगात् किं । ↩︎

  2. प्रा. पा. - इति । ↩︎

  3. प्रा. पा. - सोऽचरत् । ↩︎

  4. प्रा. पा. - जीव उवाच । ↩︎

  5. प्रा. पा. - न कुतो । ↩︎

  6. प्रा. पा. - याश्रय । ↩︎

  7. प्रा. पा. - दैवमिति प्रतीतः । ↩︎

  8. प्राचीनेपाठे ‘रोरूयति…’ अत उत्तरार्द्धात् ३६तम श्लोकस्य पूर्वार्द्धावधिकं श्लोकद्वयं मूले नास्ति टिपण्यां वर्तते । ↩︎

  9. प्रा. पा. - तपो मौनं बुद्धिर्ह्रीः श्रीर्यशः । ↩︎

  10. प्रा. पा. - चाल्य प्र । ↩︎

  11. प्रा. पा. - सदायत्तान् भ्रू । ↩︎

  12. प्राचीने पाठे ‘…मनोमयः ।’ अस्मात्पूर्वाद्धात्पूर्व ‘यश्चायमस्थिरो देहो यस्य मोक्षाय कृत्यसौ’ इत्यधिकः पाठः । ↩︎

  13. प्राचीने पाठे ‘तत्पञ्चत्व…’ इत्यारभ्य ‘दर्शनीयोग्यता यदा’ इति यावत्पाठो नास्ति । ↩︎

  14. प्रा. पा. - कापिलेये जीवगतिरेक । ↩︎