[त्रिंशोऽध्यायः]
भागसूचना
देह-गेहमें आसक्त पुरुषोंकी अधोगतिका वर्णन
श्लोक-१
मूलम् (वचनम्)
कपिल उवाच
विश्वास-प्रस्तुतिः
तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम्।
काल्यमानोऽपि बलिनो वायोरिव घनावलिः॥
मूलम्
तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम्।
काल्यमानोऽपि बलिनो वायोरिव घनावलिः॥ १ ॥
अनुवाद (हिन्दी)
श्रीकपिलदेवजी कहते हैं—माताजी! जिस प्रकार वायुके द्वारा उड़ाया जानेवाला मेघसमूह उसके बलको नहीं जानता, उसी प्रकार यह जीव भी बलवान् कालकी प्रेरणासे भिन्न-भिन्न अवस्थाओं तथा योनियोंमें भ्रमण करता रहता है, किन्तु उसके प्रबल पराक्रमको नहीं जानता॥ १॥
वीरराघवः
एवं कालस्येश्वर-रूपस्येति प्रश्नस्योत्तरम् उक्तम् अथ काल-प्रभाव-वर्णन-पूर्वक प्राप्य-भूत-पर-ब्रह्म-व्यतिरिक्त-वस्तु-वैतृष्ण्य-रूप-वैराग्य-रूपोपासनारम्भाभ्यर्हितोपाय-सिद्ध्यर्थम् इहामुत्र संचरतो जीवस्य गर्भ-जन्म-बाल्य-कौमार-पौगण्ड-यौवन-जरा-मरण-जाग्रत्-स्वप्न-सुषुप्ति-मूर्च्छादिषु क्लेशान् “आचक्ष्व जीव-लोकस्य विविधा मम संसृतीः” इति पृष्टान् एव प्रपञ्चयत्य् अध्याय-त्रयेण कपिलः । तत्र जीवास् त्रिविधाः केचन बद्धाः इष्टापूर्त-दत्ताद्य्-अकारिणः केवल-पाप-कर्माणः अन्ये पुनर् इष्टादिकारिणः पुण्य-कर्माणः अपरे त्व् इष्टादि-पूर्वक-ब्रह्मोपासकाः तत्र केवलेष्टादिकारिणां भगवद्-उपासकानां च यावज्-जीवं स्वानुष्ठेय-पराणां धूमाद्य् अर्चिरादि-गतिभ्यां चन्द्रमसः स्थानं भगवल्-लोकं च प्राप्तानां तत्र भोगानुभवं तत्र भगवन्तं प्राप्तानाम् अपुनरावृत्तिः चन्द्रमसः स्थानं प्राप्तानां तु पुनर्-आवृत्तिर् इति द्वात्रिंशेनाध्यायेन वक्ष्यन्न् अनिष्टादि-कारिणां केवल-पाप-कारिणां यावद्-देहम् अधर्मेण देह-कलत्र-पुत्रादि-पोषण-रतिं तद्-धेतुक-क्लेशान् ततो मृतानां यम-यातनानुभव-प्रकारं पुनर् गर्भ-जन्मादि-क्लेशानुभव-प्रकारं चोपपादयत्य् अध्याय-द्वयेन । न तस्येति । तस्य भगवदात्मकस्य एतस्य प्रकृतस्य बलिनः कालस्य उरु-विक्रममयं जनः काल्यमानो ऽपि स्वयं तेन परिच्छिद्यमानो ऽपि न वेद नूनं ध्रुवं वायोर् विक्रमं यथा मेघ-पङ्क्तिर् न वेद तद्-वत् ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
यं यमर्थमुपादत्ते दुःखेन सुखहेतवे।
तं तं धुनोति भगवान् पुमाञ्छोचति यत्कृते॥
मूलम्
यं यमर्थमुपादत्ते दुःखेन सुखहेतवे।
तं तं धुनोति भगवान् पुमाञ्छोचति यत्कृते॥ २ ॥
अनुवाद (हिन्दी)
जीव सुखकी अभिलाषासे जिस-जिस वस्तुको बड़े कष्टसे प्राप्त करता है, उसी-उसीको भगवान् काल विनष्ट कर देता है—जिसके लिये उसे बड़ा शोक होता है॥ २॥
वीरराघवः
विक्रमम् एवाह । यं यम् इति । अयं पुमान् दुःखेन प्रयासेन सुख-हेतवे सुखार्थं यं यम् अर्थम् उपादत्ते संपादयति तं तम् अर्थं कालात्मको भगवान् धुनोति विहतं करोति यत्-कृते यद्-अर्थं यन्-निमित्तं पुमान् शोचति ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः।
ध्रुवाणि मन्यते मोहाद् गृहक्षेत्रवसूनि च॥
मूलम्
यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः।
ध्रुवाणि मन्यते मोहाद् गृहक्षे1त्रवसूनि च॥ ३ ॥
अनुवाद (हिन्दी)
इसका कारण यही है कि यह मन्दमति जीव अपने इस नाशवान् शरीर तथा उसके सम्बन्धियोंके घर, खेत और धन आदिको मोहवश नित्य मान लेता है॥ ३॥
वीरराघवः
शोके हेतुः यद् यस्मात् सानुबन्धस्य कलत्रादि-सहितस्याध्रुवस्य देहस्य संबन्धीनि गृहादीनि वसु धनम्, अनुक्त-समुच्चयार्थश् चकारः, दुर्मतिर् अयं जनः मोहात् ध्रुवाणि मन्यते अतस् तद्-विहतौ शोचतीत्य् अर्थः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
जन्तुर्वै भव एतस्मिन् यां यां योनिमनुव्रजेत्।
तस्यां तस्यां स लभते निर्वृतिं न विरज्यते॥
मूलम्
जन्तुर्वै भव एतस्मिन् यां यां योनिमनुव्रजेत्।
तस्यां तस्यां स लभते निर्वृतिं न विरज्यते॥ ४ ॥
अनुवाद (हिन्दी)
इस संसारमें यह जीव जिस-जिस योनिमें जन्म लेता है, उसी-उसीमें आनन्द मानने लगता है और उससे विरक्त नहीं होता॥ ४॥
वीरराघवः
दुर्मतित्वं दर्शयन् यौवन-जरयोः शोकं प्रपञ्चयति । जन्तुर् इति चतुर्दशभिः । एतस्मिन् भवे संसारे ऽयं जन्तुर् जीवः यां यां देव-मनुष्यादि-योनिं प्राप्नुयात् तस्यां तस्यां योनौ निर्वृतिं सुखं लभते न विरज्यते न विरक्तो भवति च ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
नरकस्थोऽपि देहं वै न पुमांस्त्यक्तुमिच्छति।
नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः॥
मूलम्
नरकस्थोऽपि देहं वै न पुमांस्त्यक्तुमिच्छति।
नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः॥ ५ ॥
अनुवाद (हिन्दी)
यह भगवान्की मायासे ऐसा मोहित हो रहा है कि कर्मवश नारकी योनियोंमें जन्म लेनेपर भी वहाँके विष्ठा आदि भोगोंमें ही सुख माननेके कारण उसे भी छोड़ना नहीं चाहता॥ ५॥
वीरराघवः
नरकस्थो ऽपि पुमान् भगवन्-माया-विमोहितः नारक्यां नरकाहारादिभिर् जातायां निर्वृतौ सत्यां देहं नारक-देहम् अपि त्यक्तुं नेच्छति ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
आत्मजायासुतागारपशुद्रविणबन्धुषु।
निरूढमूलहृदय आत्मानं बहु मन्यते॥
मूलम्
आत्मजायासुतागारपशुद्रविणबन्धुषु।
निरूढमूलहृदय आत्मानं बहु मन्यते॥ ६ ॥
अनुवाद (हिन्दी)
यह मूर्ख अपने शरीर, स्त्री, पुत्र, गृह, पशु, धन और बन्धु-बान्धवोंमें अत्यन्त आसक्त होकर उनके सम्बन्धमें नाना प्रकारके मनोरथ करता हुआ अपनेको बड़ा भाग्यशाली समझता है॥ ६॥
वीरराघवः
आत्मा देहः अगारं गृहं द्रविणं धनं बन्धवः कुटुम्बिनः आत्मादिषु निरूढ-मूलं प्रसृत-मनोरथं हृदयं यस्य स आत्मानं बहु मन्यते मादृशः कश्चित् सुखी नास्तीति श्लाघते इत्य् अर्थः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
सन्दह्यमानसर्वाङ्ग एषामुद्वहनाधिना।
करोत्यविरतं मूढो दुरितानि दुराशयः॥
मूलम्
सन्दह्यमानसर्वाङ्ग एषामुद्वहनाधिना।
करोत्यविरतं मूढो दुरितानि दुराशयः॥ ७ ॥
अनुवाद (हिन्दी)
इनके पालन-पोषणकी चिन्तासे इसके सम्पूर्ण अंग जलते रहते हैं; तथापि दुर्वासनाओंसे दूषित हृदय होनेके कारण यह मूढ़ निरन्तर इन्हींके लिये तरह-तरहके पाप करता रहता है॥ ७॥
वीरराघवः
एषाम् आत्मादीनाम् उद्वहनादिना पोषण-चिन्तया परितप्त-सर्वाङ्गः अत एव मूढः दुराशयः दुष्ट-चित्तः दुरितान्य् एवाविरतं करोति ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
आक्षिप्तात्मेन्द्रियः स्त्रीणामसतीनां च मायया।
रहोरचितयाऽऽलापैः शिशूनां कलभाषिणाम्॥
मूलम्
आक्षिप्तात्मेन्द्रियः स्त्रीणामसतीनां च मायया।
रहोरचितयाऽऽलापैः शिशूनां कलभाषिणाम्॥ ८ ॥
वीरराघवः
दुराशयत्वम् आह । आक्षिप्तेति स्त्रीणां मायया असतीनां पुंश्चलीनाम् अपि रहसि रचितया संभोगादि-रूपया मायया कलभाषिणां मधुर-भाषिणां शिशूनाम् आलापैश् चाक्षिप्तान्यासक्तन्य् आत्मेन्द्रियाणि समनस्कानीन्द्रियाणि यस्य सः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः।
कुर्वन्दुःखप्रतीकारं सुखवन्मन्यते गृही॥
मूलम्
गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः।
कुर्वन्दुःखप्रतीकारं सुखवन्मन्यते गृही॥ ९ ॥
अनुवाद (हिन्दी)
कुलटा स्त्रियोंके द्वारा एकान्तमें सम्भोगादिके समय प्रदर्शित किये हुए कपटपूर्ण प्रेममें तथा बालकोंकी मीठी-मीठी बातोंमें मन और इन्द्रियोंके फँस जानेसे गृहस्थ पुरुष घरके दुःखप्रधान कपटपूर्ण कर्मोंमें लिप्त हो जाता है। उस समय बहुत सावधानी करनेपर यदि उसे किसी दुःखका प्रतीकार करनेमें सफलता मिल जाती है, तो उसे ही वह सुख-सा मान लेता है॥ ८-९॥
वीरराघवः
गृही । गृहाश्रमी कूटा अविचाल्या धर्मा येषु दुःख-प्रधानेषु गृहेष्व् अतन्द्रितः दुःख-निवृत्ति-करम् इव किञ्चित् कर्म कुर्वन् तत्-सुखम् इव गम्यते ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
अर्थैरापादितैर्गुर्व्या हिंसयेतस्ततश्च तान्।
पुष्णाति येषां पोषेण शेषभुग्यात्यधः स्वयम्॥
मूलम्
अर्थैरापादितैर्गुर्व्या हिंसयेतस्ततश्च तान्।
पुष्णाति येषां पोषेण शेषभुग्यात्यधः स्वयम्॥ १० ॥
अनुवाद (हिन्दी)
जहाँ-तहाँसे भयंकर हिंसावृत्तिके द्वारा धन संचय कर यह ऐसे लोगोंका पोषण करता है, जिनके पोषणसे नरकमें जाता है। स्वयं तो उनके खाने-पीनेसे बचे हुए अन्नको ही खाकर रहता है॥ १०॥
वीरराघवः
इतस् ततः गुर्व्या बहुलया हिंसया हिंसादिनोपायेनापादितैः संपादितैर् अर्थैः वित्तादिभिस् तान् पुत्र-कलत्रादीन् पुष्णाति येषां पुत्रादीनां पोषेण शेषभुक् तत्-पोषणोपयुक्तावशिष्टम् अनुभवन् सुखलेशो ऽपि तस्य दुर्लभ इति भावः स्वयम् अधः निरये याति ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
वार्तायां लुप्यमानायामारब्धायां पुनः पुनः।
लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम्॥
मूलम्
वार्तायां लुप्यमानायामारब्धायां पुनः पुनः।
लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम्॥ ११ ॥
अनुवाद (हिन्दी)
बार-बार प्रयत्न करनेपर भी जब इसकी कोई जीविका नहीं चलती, तो यह लोभवश अधीर हो जानेसे दूसरेके धनकी इच्छा करने लगता है॥ ११॥
वीरराघवः
वार्त्तायां जीविकायां पुनः पुनर् आरब्धायां लुप्यमानायां दैवेन विहतायां सत्यां लोभेनाभिभूतः व्याप्तो निःसत्त्वः अशक्तः परार्थे परस्वे स्पृहां कुरुते ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यमः।
श्रिया विहीनः कृपणो ध्यायञ्छ्वसिति मूढधीः॥
मूलम्
कुटुम्बभरणाकल्पो मन्दभाग्यो 2वृथोद्यमः।
श्रिया विहीनः कृपणो ध्यायञ्छ्वसिति मूढधीः॥ १२ ॥
अनुवाद (हिन्दी)
जब मन्दभाग्यके कारण इसका कोई प्रयत्न नहीं चलता और यह मन्दबुद्धि धनहीन होकर कुटुम्बके भरण-पोषणमें असमर्थ हो जाता है, तब अत्यन्त दीन और चिन्तातुर होकर लंबी-लंबी साँसें छोड़ने लगता है॥ १२॥
वीरराघवः
कुटुम्ब-भरणे ऽकल्पः असमर्थः मन्द-भाग्यः भाग्य-हीनः अत एव वृथोद्यमः व्यर्थ-प्रयत्नः क्रिया-विहीनः सत्क्रिया-रहितः कृपणो दीनः ध्यायन् वृथा चिन्तयन् मूढधीर् वसति ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
एवं स्वभरणाकल्पं तत्कलत्रादयस्तथा।
नाद्रियन्ते यथा पूर्वं कीनाशा इव गोजरम्॥
मूलम्
एवं स्वभरणाकल्पं तत्कलत्रादयस्तथा।
नाद्रियन्ते यथा पूर्वं कीनाशा इव गोजरम्॥ १३ ॥
मूलम् - कर्णावती
एवं स्वभरणाकल्पं तत्कलत्रादयस्तथा।
नाद्रियन्ते यथापूर्वं कीनाशा इव गोजरम्॥ १३ ॥
अनुवाद (हिन्दी)
इसे अपने पालन-पोषणमें असमर्थ देखकर वे स्त्री-पुत्रादि इसका पहलेके समान आदर नहीं करते, जैसे कृपण किसान बूढ़े बैलकी उपेक्षा कर देते हैं॥ १३॥
वीरराघवः
एवं स्व-भरणे विकलं तत्-कलत्रादयः पूर्वं कुटुम्ब-पोषण-दशायां यथा आद्रियन्ते तथा नाद्रियन्ते नादरं कुर्वन्ति यथा गो-जरं वृद्ध-बलीवर्दं कीनाशाः कृषीवला नाद्रियन्ते तद्-वत् । गोरजम् इति पाठान्तरं तदा यथा गां हित्वा अजं नेच्छन्ति तद्-वद् इत्य् अर्थः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
तत्राप्यजातनिर्वेदो भ्रियमाणः स्वयम्भृतैः।
जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे॥
मूलम्
तत्राप्यजातनिर्वेदो भ्रियमाणः स्वयम्भृतैः।
ज3रयोपात्तवैरूप्यो मरणाभिमुखो गृहे॥ १४ ॥
वीरराघवः
तत्राप्य् अनादरणे ऽप्य् अजात-निर्वेदः अनुत्पन्न-परितापः स्वयम् आत्मना पूर्वं भृतैः पुष्टैर् भ्रियमाणः पोष्यमाणः जरया उपात्तं प्राप्तं वैरूप्यं पलित-वलितादि यस्य सः मरणायाभिमुखः सम्मुख-मरणः सन् गृहे आस्ते ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन्।
आमयाव्यप्रदीप्ताग्निरल्पाहारोऽल्पचेष्टितः॥
मूलम्
आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन्।
आमयाव्यप्रदीप्ताग्निरल्पाहारोऽल्पचेष्टितः॥ १५ ॥
अनुवाद (हिन्दी)
फिर भी इसे वैराग्य नहीं होता। जिन्हें उसने स्वयं पाला था, वे ही अब उसका पालन करते हैं, वृद्धावस्थाके कारण इसका रूप बिगड़ जाता है, शरीर रोगी हो जाता है, अग्नि मन्द पड़ जाती है, भोजन और पुरुषार्थ दोनों ही कम हो जाते हैं। वह मरणोन्मुख होकर घरमें पड़ा रहता है और कुत्तेकी भाँति स्त्री-पुत्रादिके अपमानपूर्वक दिये हुए टुकड़े खाकर जीवन-निर्वाह करता है॥ १४-१५॥
वीरराघवः
अवमत्योपन्यस्तं परिभव-पूर्वकम् अग्रे पातितम् अन्नादिकं गृहपालः श्वेवाहरन् अदन् आमयावी रोगी अप्रज्वलित-जाठराग्निर् अत एवाल्पाहारः अत एवाल्पं चेष्टितं व्यापारो यस्य सः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
वायुनोत्क्रमतोत्तारः कफसंरुद्धनाडिकः।
कासश्वासकृतायासः कण्ठे घुरघुरायते॥
अनुवाद (हिन्दी)
मृत्युका समय निकट आनेपर वायुके उत्क्रमणसे इसकी पुतलियाँ चढ़ जाती हैं, श्वास-प्रश्वासकी नलिकाएँ कफसे रुक जाती हैं, खाँसने और साँस लेनेमें भी इसे बड़ा कष्ट होता है तथा कफ बढ़ जानेके कारण कण्ठमें घुरघुराहट होने लगती है॥ १६॥
वीरराघवः
कफेन श्लेष्मणा संरुद्धा नाड्यो यस्य तेन वायुना कफ-निरुद्ध-नाडि-रूप-मार्गेण वायुना उत्क्रमिते बहिर् निर्गते तारे नेत्रे यस्य कास-श्वासाभ्यां कृत आयासो यस्य सः । कण्ठे घुरघुरायते घुरघुर-शब्दं करोति ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः।
वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः॥
मूलम्
शयानः परिशोचद्भिः प6रिवीतः स्वबन्धुभिः।
वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः॥ १७ ॥
अनुवाद (हिन्दी)
यह अपने शोकातुर बन्धु-बान्धवोंसे घिरा हुआ पड़ा रहता है और मृत्युपाशके वशीभूत हो जानेसे उनके बुलानेपर भी नहीं बोल सकता॥ १७॥
वीरराघवः
शयानः परितः शोचद्भिः स्व-जनैः परिवेष्टितः वाच्यमानो ऽपि संबोध्य तात ! तातेत्य् आहूतो ऽपि किञ्चिद् अपि न ब्रूते, यतः काल-पाश-वशं मृत्यु-पाश-वशं गतः प्राप्तः । एवं यौवन-जरयोः क्लेशा उक्ताः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
एवं कुटुम्बभरणे व्यापृतात्माजितेन्द्रियः।
म्रियते रुदतां स्वानामुरुवेदनयास्तधीः॥
मूलम्
एवं कुटुम्बभरणे व्या7पृतात्माजितेन्द्रियः।
म्रियते रुदतां स्वानामुरुवेदनयास्तधीः॥ १८ ॥
अनुवाद (हिन्दी)
इस प्रकार जो मूढ़ पुरुष इन्द्रियोंको न जीतकर निरन्तर कुटुम्ब-पोषणमें ही लगा रहता है, वह रोते हुए स्वजनोंके बीच अत्यन्त वेदनासे अचेत होकर मृत्युको प्राप्त होता है॥ १८॥
वीरराघवः
अथ मरण-क्लेशान् आह द्वाभ्याम् । एवं कुटुम्ब-भरणे व्यापृता व्यापारिताः आत्मानः देहेन्द्रियाणि येन सः । अत एवाजितेन्द्रिय उरु-वेदनया बहुलया मरण-वेदनयास्तधीर् नष्ट-मतिः स्वानां स्व-बन्धूनां रुदतां सतां म्रियते ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ।
स दृष्ट्वा त्रस्तहृदयः शकृन्मूत्रं विमुञ्चति॥
मूलम्
यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ।
स दृष्ट्वा त्रस्तहृदयः शकृन्मूत्रं विमुञ्चति॥ १९ ॥
अनुवाद (हिन्दी)
इस अवसरपर उसे लेनेके लिये अति भयंकर और रोषयुक्त नेत्रोंवाले जो दो यमदूत आते हैं, उन्हें देखकर वह भयके कारण मल-मूत्र कर देता है॥ १९॥
वीरराघवः
तदा मरण-समये प्राप्ताव् आगतौ सरभसं सक्रोधम् ईक्षणं ययोस् तौ भीमौ भयङ्करौ यमस्य दूतौ दृष्ट्वा सः म्रियमाणः त्रस्त-हृदयः शकृन्-मलं मूत्रं च विमुञ्चति ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात्।
नयतो दीर्घमध्वानं दण्ड्यं राजभटा यथा॥
मूलम्
यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात्।
नयतो दीर्घमध्वानं दण्ड्यं राजभटा यथा॥ २० ॥
अनुवाद (हिन्दी)
वे यमदूत उसे यातनादेहमें डाल देते हैं और फिर जिस प्रकार सिपाही किसी अपराधीको ले जाते हैं, उसी प्रकार उसके गलेमें रस्सी बाँधकर बलात् यमलोककी लंबी यात्रामें उसे ले जाते हैं॥ २०॥
वीरराघवः
मृतस्य पुण्य-पापाभ्यां द्वे गती, तत्र पाप-गतिम् आह । यावद् अध्याय-समाप्ति । तौ यम-दूतौ मृतं यातना-देहे आवृत्य निरुध्य कण्ठे बलात् पाशैर् बद्ध्वा दीर्घम् अध्वानं नयतः गमयतः यथा लोके दण्डनार्हं राजभृत्यास् तद्-वत् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
तयोर्निर्भिन्नहृदयस्तर्जनैर्जातवेपथुः।
पथि श्वभिर्भक्ष्यमाण आर्तोऽघं स्वमनुस्मरन्॥
मूलम्
तयोर्निर्भिन्नहृदयस्तर्जनैर्जातवेपथुः।
पथि श्वभिर्भक्ष्यमाण आर्तोऽघं स्वमनुस्मरन्॥ २१ ॥
अनुवाद (हिन्दी)
उनकी घुड़कियोंसे उसका हृदय फटने और शरीर काँपने लगता है, मार्गमें उसे कुत्ते नोचते हैं। उस समय अपने पापोंको याद करके वह व्याकुल हो उठता है॥ २१॥
वीरराघवः
तयोर् दूतयोस् तर्जनैर् भिन्नं हृदयं यस्य सः अत एव सञ्जात-शरीर-कम्पः पथि श्वभिर् भक्ष्यमाणः दश्यमान-शरीरः आर्त्तः सन् स्वीयम् अघं पापम् अनुस्मरंश् चलतीति द्वितीयेनान्वयः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
क्षुत्तृट्परीतोऽर्कदवानलानिलैः
सन्तप्यमानः पथि तप्तवालुके।
कृच्छ्रेण पृष्ठे कशया च ताडित-
श्चलत्यशक्तोऽपि निराश्रमोदके॥
मूलम्
क्षुत्तृट्परीतोऽर्कदवानलानिलैः सन्तप्यमानः पथि तप्तवालुके।
कृच्छ्रेण पृष्ठे कशया च ताडितश्चलत्यशक्तोऽपि निराश्रमोदके॥ २२ ॥
अनुवाद (हिन्दी)
भूख-प्यास उसे बेचैन कर देती है तथा घाम, दावानल और लूओंसे वह तप जाता है। ऐसी अवस्थामें जल और विश्रामस्थानसे रहित उस तप्तबालुकामय मार्गमें जब उसे एक पग आगे बढ़नेकी भी शक्ति नहीं रहती, यमदूत उसकी पीठपर कोड़े बरसाते हैं, तब बड़े कष्टसे उसे चलना ही पड़ता है॥ २२॥
वीरराघवः
क्षुत्-तृड्भ्यां परीतो व्याप्तः तप्ताः वालुका यस्मिंस् तस्मिन् पथि सूर्य-दावाग्निभ्याम् अनिलेन च सन्तप्यमानः पृष्ठे कशया चर्ममय्या रज्ज्वा ताडितः अशक्तो गन्तुम् असमर्थोपि निराश्रमोदके निर्गतः आश्रमः विश्रमादि-स्थानम् उदकञ् च यस्मिस् तस्मिन् पथि कृच्छ्रेणातिप्रयासेन चलति ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
तत्र तत्र पतञ्छ्रान्तो मूर्च्छितः पुनरुत्थितः।
पथा पापीयसा नीतस्तमसा यमसादनम्॥
मूलम्
तत्र तत्र पतञ्छ्रान्तो मूर्च्छितः पुनरुत्थितः।
पथा पापीयसा नीतस्तमसा यमसादनम्॥ २३ ॥
अनुवाद (हिन्दी)
वह जहाँ-तहाँ थककर गिर जाता है, मूर्च्छा आ जाती है, चेतना आनेपर फिर उठता है। इस प्रकार अति दुःखमय अँधेरे मार्गसे अत्यन्त क्रूर यमदूत उसे शीघ्रतासे यमपुरीको ले जाते हैं॥ २३॥
वीरराघवः
तमसा तमः-प्रचुरेण तामस-कर्म-प्राप्येण वा पापिष्ठेन पथा मार्गेण यम-सादनं यम-सन्निधिं प्रति नीतो भवति ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
योजनानां सहस्राणि नवतिं नव चाध्वनः।
त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाः॥
मूलम्
योजनानां सहस्राणि नवतिं नव चाध्वनः।
त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाः॥ २४ ॥
अनुवाद (हिन्दी)
यमलोकका मार्ग निन्यानबे हजार योजन है। इतने लम्बे मार्गको दो-ही-तीन मुहूर्तमें तय करके वह नरकमें तरह-तरहकी यातनाएँ भोगता है॥ २४॥
वीरराघवः
तत्रैव विशेषम् आह । योजनानाम् इति । अध्वनः सम्बन्धिनां योजनानां नवतिं नव च सहस्राणि त्रिभिर् मुहूर्तैः पापाधिक्ये द्वाभ्यां मुहूर्ताभ्यां नीतः यातनां प्राप्नोति ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभिः।
आत्ममांसादनं क्वापि स्वकृत्तं परतोऽपि वा॥
मूलम्
आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभिः।
आत्ममांसादनं क्वापि स्वकृत्तं परतोऽपि वा॥ २५ ॥
अनुवाद (हिन्दी)
वहाँ उसके शरीरको धधकती लकड़ियों आदिके बीचमें डालकर जलाया जाता है, कहीं स्वयं और दूसरोंके द्वारा काट-काटकर उसे अपना ही मांस खिलाया जाता है॥ २५॥
वीरराघवः
यातनाः संक्षेपतो दर्शयति चतुर्भिः । आदीपनम् इति । उल्मुकादिभिर् वेष्टयित्वा च स्वाङ्गानाम् आदीपनं प्रज्वलनं स्वेन कृत्तं यत् स्व-मांसं तस्यादनं भक्षणम् ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
जीवतश्चान्त्राभ्युद्धारः श्वगृध्रैर्यमसादने।
सर्पवृश्चिकदंशाद्यैर्दशद्भिश्चात्मवैशसम्॥
मूलम्
जीवतश्चान्त्राभ्युद्धारः श्वगृध्रैर्यमसादने।
सर्पवृश्चिकदंशाद्यैर्दशद्भिश्चात्मवैशसम्॥ २६ ॥
अनुवाद (हिन्दी)
यमपुरीके कुत्तों अथवा गिद्धोंद्वारा जीते-जी उसकी आँतें खींची जाती हैं। साँप, बिच्छू और डाँस आदि डसनेवाले तथा डंक मारनेवाले जीवोंसे शरीरको पीड़ा पहुँचायी जाती है॥ २६॥
वीरराघवः
यम-सादने श्व-गृध्रैः जीवत एव स्वस्यान्त्राणाम् अभ्युद्धारः बहिर् निष्कासनं दशद्भिः सर्पादिभिर् आत्म-वैशसम् आत्म-पीडाम् ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
कृन्तनं चावयवशो गजादिभ्यो भिदापनम्।
पातनं गिरिशृङ्गेभ्यो रोधनं चाम्बुगर्तयोः॥
मूलम्
कृन्तनं चावयवशो गजादिभ्यो भिदापनम्।
पातनं गिरिशृङ्गेभ्यो रोधनं चाम्बुगर्तयोः॥ २७ ॥
अनुवाद (हिन्दी)
शरीरको काटकर टुकड़े-टुकड़े किये जाते हैं। उसे हाथियोंसे चिरवाया जाता है, पर्वतशिखरोंसे गिराया जाता है अथवा जल या गढ़ेमें डालकर बन्द कर दिया जाता है॥ २७॥
वीरराघवः
अवयवशः कृन्तनं छेदनं गजादिभ्यः भिदापनं भेद-प्रापणम् अन्वुगर्तयोः निरोधनम् इत्य् एवं-रूपाः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
यास्तामिस्रान्धतामिस्रा रौरवाद्याश्च यातनाः।
भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः॥
मूलम्
यास्तामिस्रान्धतामिस्रा रौरवाद्याश्च यातनाः।
भु8ङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः॥ २८ ॥
मूलम् - कर्णावती
यास्तामिस्रान्धतामिस्रा रौरवाद्याश्चयातनाः।
भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः॥ २८ ॥
अनुवाद (हिन्दी)
ये सब यातनाएँ तथा इसी प्रकार तामिस्र, अन्धतामिस्र एवं रौरव आदि नरकोंकी और भी अनेकों यन्त्रणाएँ, स्त्री हो या पुरुष, उस जीवको पारस्परिक संसर्गसे होनेवाले पापके कारण भोगनी ही पड़ती हैं॥ २८॥
वीरराघवः
याश् च तामिस्रादयः पञ्चमे स्कन्धे विस्तरेण वक्ष्यमाणा यातनाः स्त्री पुरुषो वा परस्परं संगेन निर्मिताः सम्पादिताः यातनाः भुङ्क्ते ऽनुभवति ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते।
या यातना वै नारक्यस्ता इहाप्युपलक्षिताः॥
मूलम्
अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते।
या यातना वै नारक्यस्ता इहाप्युपलक्षिताः॥ २९ ॥
अनुवाद (हिन्दी)
माताजी! कुछ लोगोंका कहना है कि स्वर्ग और नरक तो इसी लोकमें हैं, क्योंकि जो नारकी यातनाएँ हैं, वे यहाँ भी देखी जाती हैं॥ २९॥
वीरराघवः
न चैतद् असम्भावितम् इति मन्तव्यम् अत्रापि दृश्यमानत्वाद् इत्य् आह । अत्रैवेति । हे मातः ! स्वर्गो नरकश् चात्रैव लोके वर्त्तते इत्य् आचक्षते नारक्यः नरक-सम्बन्धिन्यो या यातनास् त इहाप्य् उपलक्षिताः दृष्टाः । वै निश्चितम् ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
एवं कुटुम्बं बिभ्राण उदरम्भर एव वा।
विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलमीदृशम्॥
मूलम्
एवं कुटुम्बं बिभ्राण उदरम्भर एव वा।
विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलमीदृशम्॥ ३० ॥
अनुवाद (हिन्दी)
इस प्रकार अनेक कष्ट भोगकर अपने कुटुम्बका ही पालन करनेवाला अथवा केवल अपना ही पेट भरनेवाला पुरुष उन कुटुम्ब और शरीर—दोनोंको यहीं छोड़कर मरनेके बाद अपने किये हुए पापोंका ऐसा फल भोगता है॥ ३०॥
वीरराघवः
एवं कुटुम्ब-भरणः कुटुम्ब-पोषण-परः उदरम्-भरः स्व-देह-पोषण-मात्र-परो वा उभयं कुटुम्बं स्व-देहं च विसृज्य प्रेत्य पर-लोकं प्राप्य ईदृशम् उक्त-विधं केवलं कुटुम्ब-पोषणादि-फलं भुङ्क्ते ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
एकः प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम्।
कुशलेतरपाथेयो भूतद्रोहेण यद् भृतम्॥
मूलम्
एकः प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम्।
कुशलेतरपाथेयो भूतद्रोहेण यद् भृतम्॥ ३१ ॥
अनुवाद (हिन्दी)
अपने इस शरीरको यहीं छोड़कर प्राणियोंसे द्रोह करके एकत्रित किये हुए पापरूप पाथेयको साथ लेकर वह अकेला ही नरकमें जाता है॥ ३१॥
वीरराघवः
पापार्जितं धनं भुञ्जते बहवः कर्तैव नरकं यातीत्य् आह । एक इति । भूत-द्रोहेण यद् भृतं पुष्टं तत् स्व-कलेवरं चेहैव हित्वा कुशलात् पुण्याद् इतरत् पापं तद् एव पाथेयं भोग्यं यस्य सः अध्वानं निरय-मार्गम् एक एव प्रपद्यते ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
दैवेनासादितं तस्य शमलं निरये पुमान्।
भुङ्क्ते कुटुम्बपोषस्य हृतवित्त इवातुरः॥
मूलम्
दैवेनासादितं तस्य शमलं निरये पुमान्।
भुङ्क्ते कुटुम्बपोषस्य हृतवित्त इवातुरः॥ ३२ ॥
अनुवाद (हिन्दी)
मनुष्य अपने कुटुम्बका पेट पालनेमें जो अन्याय करता है, उसका दैवविहित कुफल वह नरकमें जाकर भोगता है। उस समय वह ऐसा व्याकुल होता है, मानो उसका सर्वस्व लुट गया हो॥ ३२॥
वीरराघवः
ननु पापम् अपि विहाय गच्छतु तत्राह । दैवेनेति । तस्य कुटुम्ब-पोषणस्य शमलं पापं दैवेनेश्वरेण प्रापितं निरये नरके पुमान् भुङ्क्ते अपहृतवित्त इवातुरः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
केवलेन ह्यधर्मेण कुटुम्बभरणोत्सुकः।
याति जीवोऽन्धतामिस्रं चरमं तमसः पदम्॥
मूलम्
केवलेन ह्यधर्मेण कुटुम्बभरणोत्सुकः।
याति जीवोऽन्धतामिस्रं चरमं तमसः पदम्॥ ३३ ॥
अनुवाद (हिन्दी)
जो पुरुष निरी पापकी कमाईसे ही अपने परिवारका पालन करनेमें व्यस्त रहता है, वह अन्धतामिस्र नरकमें जाता है—जो नरकोंमें चरम सीमाका कष्टप्रद स्थान है॥ ३३॥
वीरराघवः
ननु कुटुम्ब-पोषणं विहितम् एव तत्राह केवलेन ईषद् अपि धर्म-लेश-रहितेनाधर्मेण कुटुम्ब-भरणासक्तः जीवः तमसो नरकस्य चरमं पदं स्थानम् अन्धतामिस्राख्यं याति ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
अधस्तान्नरलोकस्य यावतीर्यातनादयः।
क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचिः॥
मूलम्
अधस्तान्नरलोकस्य यावतीर्यातनाद9यः।
क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचिः॥ ३४ ॥
अनुवाद (हिन्दी)
मनुष्य-जन्म मिलनेके पूर्व जितनी भी यातनाएँ हैं तथा शूकर-कूकरादि योनियोंके जितने कष्ट हैं, उन सबको क्रमसे भोगकर शुद्ध हो जानेपर वह फिर मनुष्ययोनिमें जन्म लेता है॥ ३४॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने कर्मवि10पाको नाम त्रिंशोऽध्यायः॥ ३० ॥
वीरराघवः
पुनर् मनुष्य-शरीर-प्राप्तिम् आह । अधस्ताद् इति । नर-लोकस्य मनुष्य-देह-प्राप्तेर् अधस्ताद् अर्वाग्यावत्यो यातनास् ताः क्रमेण सर्वाः संप्राप्य शुचिः भोगेन कर्मक्षयाच् छुचिः सन्न् अत्र पुनर् नरत्वं प्राप्नोतीत्य् अर्थः ॥ ३४ ॥
इति श्रीमद्-भागवते महा-पुराणे तृतीय-स्कन्धे श्रीमद्-वीर-राघवाचार्य-कृत-भागवत-चंद्र-चंद्रिकायां त्रिंशो ऽध्यायः ॥ ३० ॥
-
प्रा. पा. - क्षेत्रधनानि च । ↩︎
-
प्रा. पा. - वृथाश्रमः । ↩︎
-
प्रा. पा. - जरया जात । ↩︎
-
प्रा. पा. - नाडिना । ↩︎
-
प्रा. पा. - यासकण्ठो घु । ↩︎
-
प्रा. पा. – परीतश्च स्व । ↩︎
-
प्रा. पा. - व्यावृता । ↩︎
-
प्राचीने पाठे ‘भुङ्क्ते नरो वा नारी वा…’ इत्यारभ्य ‘इहाप्युपलक्षितः’ अवधिकः सार्धैकलोको न । ↩︎
-
प्रा. पा. - नास्तु ताः ।+ ↩︎
-
प्रा. पा. - के त्रिंश । ↩︎