२९

[एकोनत्रिंशोऽध्यायः]

भागसूचना

भक्तिका मर्म और कालकी महिमा

श्लोक-१

मूलम् (वचनम्)

देवहूतिरुवाच

विश्वास-प्रस्तुतिः

लक्षणं महदादीनां प्रकृतेः पुरुषस्य च।
स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम्॥

मूलम्

लक्षणं महदादीनां प्रकृतेः पुरुषस्य च।
स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम्॥ १ ॥

वीरराघवः

एवं स-प्रपञ्चम् उपपादितं साङ्गं मोक्ष-साधन-भक्ति-योगम् आश्रुत्य पुनर्-उक्तानुवाद-पूर्वकं तस्यैव भक्ति-योगस्य भेदान् तद्-अङ्ग-वैराग्योत्पत्ति-हेतुं जीवस्य स्वर्ग-नरकादि-गमनादि-रूप-संसृतिं काल-स्व-रूपं च पृच्छति देवहूतिः । लक्षणम् इति प्रकृतेः । मल-प्रकृतेः तत्-कार्य-भूतानां महद्-आदीनां पुरुषस्य प्रत्यग्-आत्मनश् चकारात् परमात्मनश् चेत्य् अमीषां पारमार्थिकम् अबाधितं स्व-रूपं येन लक्ष्यते ज्ञायते तल् लक्षणं कथितं त्वयेति शेषः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

यथा सांख्येषु कथितं यन्मूलं तत्प्रचक्षते।
भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो॥

मूलम्

यथा सांख्येषु कथितं यन्मूलं तत्प्रचक्षते।
भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः1 प्रभो॥ २ ॥

अनुवाद (हिन्दी)

देवहूतिने पूछा—प्रभो! प्रकृति, पुरुष और महत्तत्त्वादिका जैसा लक्षण सांख्यशास्त्रमें कहा गया है तथा जिसके द्वारा उनका वास्तविक स्वरूप अलग-अलग जाना जाता है और भक्तियोगको ही जिसका प्रयोजन कहा गया है, वह आपने मुझे बताया। अब कृपा करके भक्तियोगका मार्ग मुझे विस्तारपूर्वक बताइये॥ १-२॥

वीरराघवः

एवम्-उक्तानुवादः कृतः । साङ्ख्येषु सिद्धान्तेषु तत्-प्रकृत्यादीनां लक्षणं यन् मूलं यस्य भक्ति-योगस्य मूलं प्रचक्षते तस्य भक्ति-योगस्य मार्गं भेदं यथा यथावद् विस्तरतः मे मह्यं ब्रूहि कथय हे प्रभो ! कथन-समर्थ कपिल ! ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

विरागो येन पुरुषो भगवन् सर्वतो भवेत्।
आचक्ष्व जीवलोकस्य विविधा मम संसृतीः॥

मूलम्

विरागो येन पुरुषो भगवन् सर्वतो भवेत्।
आचक्ष्व जीवलोकस्य विविधा मम संसृतीः॥ ३ ॥

अनुवाद (हिन्दी)

इसके सिवा जीवोंकी जन्म-मरणरूपा अनेक प्रकारकी गतियोंका भी वर्णन कीजिये; जिनके सुननेसे जीवको सब प्रकारकी वस्तुओंसे वैराग्य होता है॥ ३॥

वीरराघवः

येन संसृति-वर्णनेन पुरुषः मुमुक्षुः सर्वत्र इहामुत्र च विरागः वीत-रागः भवेत् ताः जीव-लोकस्य विविधाः संसृतीः ममाचक्ष्व कथय ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

कालस्येश्वररूपस्य परेषां च परस्य ते।
स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः॥

मूलम्

कालस्येश्वररूपस्य परेषां च परस्य ते।
स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः॥ ४ ॥

अनुवाद (हिन्दी)

जिसके भयसे लोग शुभ कर्मोंमें प्रवृत्त होते हैं और जो ब्रह्मादिका भी शासन करनेवाला है, उस सर्वसमर्थ कालका स्वरूप भी आप मुझसे कहिये॥ ४॥

वीरराघवः

तथा ईश्वर-रूपस्येश्वर-शरीरस्य परेषां ब्रह्मादीनाम् अपि परस्य प्रभोः कालस्य स्व-रूपं वद मे कथय । यद् धेतोः यस्मात्-कालाद् धेतोः कुशलं निवृत्ति-धर्मं जनाः कुर्वन्ति यत्-काल-हेतुक-जन्म-मरणादि-सांसारिक-धर्मातिवृत्तये कुशलम् अनुतिष्ठन्ति तस्य कालस्य स्व-रूपं कथयेत्य् अर्थः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

लोकस्य मिथ्याभिमतेरचक्षुष-
श्चिरं प्रसुप्तस्य तमस्यनाश्रये।
श्रान्तस्य कर्मस्वनुविद्धया धिया
त्वमाविरासीः किल योगभास्करः॥

मूलम्

लोकस्य मिथ्याभिमतेरचक्षुषश्चिरं प्रसुप्तस्य तमस्यनाश्रये।
श्रान्तस्य कर्मस्वनुविद्धया धिया त्वमाविरासीः किल योगभास्करः॥ ५ ॥

अनुवाद (हिन्दी)

ज्ञानदृष्टिके लुप्त हो जानेके कारण देहादि मिथ्या वस्तुओंमें जिन्हें आत्माभिमान हो गया है तथा बुद्धिके कर्मासक्त रहनेके कारण अत्यन्त श्रमिक होकर जो चिरकालसे अपार अन्धकारमय संसारमें सोये पड़े हैं, उन्हें जगानेके लिये आप योगप्रकाशक सूर्य ही प्रकट हुए हैं॥ ५॥

वीरराघवः

एवं प्रष्टव्यं पृष्ट्वा पुत्रं प्रसादयति । लोकस्येति । मिथ्याभिमतेः मिथ्याभिमतिर् अभिमानो यस्य मिथ्या-भूत-देहात्माभिमान-स्वतन्त्रात्माभिमानस्येत्य् अर्थः । अत एवाचक्षुषः स्वात्म-परमात्म-याथात्म्य-ज्ञान-रहितस्यात एव कर्मसु स्वर्ग-नरकादि-साधनेषु कर्मस्व् अनुबद्धया आसक्तया धिया श्रान्तस्यात एव अनाश्रये अपारे तमसि संसारे प्रसुप्तस्य लोकस्य प्रबोधाय त्वं योग-भास्करः आविरासीर् आविर्भूतो ऽसि किल ॥ ५ ॥

श्लोक-६

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः।
आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः॥

मूलम्

इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः।
आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः॥ ६ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—कुरुश्रेष्ठ विदुरजी! माताके ये मनोहर वचन सुनकर महामुनि कपिलजीने उनकी प्रशंसा की और जीवोंके प्रति दयासे द्रवीभूत हो बड़ी प्रसन्नताके साथ उनसे इस प्रकार बोले—॥ ६॥

वीरराघवः

एवम् आपृष्टः कपिलो भक्ति-योग-मार्गादीन् कथयितुम् आबभाषे इत्य् आह मैत्रेयः । इतीति । हे कुरु-श्रेष्ठ ! विदुर इत्य्-उक्त-विधं श्लक्ष्णं सरसं सुन्दरं वा मातुर् वचः प्रतिनन्द्य महा-मुनिः कपिलः प्रीतः समीचीन-प्रश्नेन जातानन्दः मातरि करुणयार्दितः परिप्लुतः तां मातरं प्रत्याबभाषे ॥ ६ ॥

श्लोक-७

मूलम् (वचनम्)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते।
स्वभावगुणमार्गेण पुंसां भावो विभिद्यते॥

मूलम्

भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते।
स्वभावगुणमार्गेण पुंसां भावो विभिद्यते॥ ७ ॥

अनुवाद (हिन्दी)

श्रीभगवान‍्ने कहा—माताजी! साधकोंके भावके अनुसार भक्तियोगका अनेक प्रकारसे प्रकाश होता है, क्योंकि स्वभाव और गुणोंके भेदसे मनुष्योंके भावमें भी विभिन्नता आ जाती है॥ ७॥

वीरराघवः

तद् एवाह । भक्ति-योग इति । हे भामिनि ! पुंसां स्वभाव-गुण-मार्गेण सत्त्वादि-गुण-वृत्ति-वशेन मार्गैः प्रकार-विशेषैर् भक्ति-योगो बहुधा नाना भाव्यते निष्पाद्यते । हि यतः पुंसां भावः मनो-वृत्तिर् भिद्यते ततस् तदधीनो ऽपि भक्ति-योगस् तामस-राजस-सात्त्विकादि-भेदेन भिद्यत इत्य् अर्थः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा।
संरम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः॥

मूलम्

अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा2
संरम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः॥ ८ ॥

अनुवाद (हिन्दी)

जो भेददर्शी क्रोधी पुरुष हृदयमें हिंसा, दम्भ अथवा मात्सर्यका भाव रखकर मुझसे प्रेम करता है, वह मेरा तामस भक्त है॥ ८॥

वीरराघवः

तान् एव भेदान् आह । अभिसन्धायेति । हिंसा-दम्भ-मात्सर्याणाम् अन्यतमं द्वयं त्रितयं वाभिसंधाय सङ्कल्प्य संरम्भी क्रोधी भिन्न-दृग् अ-ब्रह्मात्मक-स्वतन्त्र-वस्तु-दर्शी मय् ईश्वरे भावं भक्तिं यः कुर्यात्स त्रिविधो ऽपि तामसः तामस-भक्ति-योग-युक्तः । तत्रापि हिंसा-दम्भ-मात्सर्यादिभिर् अधम-मध्यमोत्तमत्वं बोध्यम् । एवम् अन्यत्रापि ज्ञेयम् ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

विषयानभिसन्धाय यश ऐश्वर्यमेव वा।
अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः॥

मूलम्

विषयानभिसन्धाय यश ऐश्वर्यमेव वा।
अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः॥ ९ ॥

अनुवाद (हिन्दी)

जो पुरुष विषय, यश और ऐश्वर्यकी कामनासे प्रतिमादिमें मेरा भेदभावसे पूजन करता है, वह राजस भक्त है॥ ९॥

वीरराघवः

विषयान् शब्दादि-विषय-लाभं यशः ऐश्वर्यं वा अन्यतमं यथा-रुचि द्वयं त्रयं वाभिसन्धाय पृथग्-भावः परमात्मनः स्वात्म-शरीरकत्वम् अज्ञात्वा देवता-मात्र-बुद्धित्वं पृथग्-भावत्वम् एवंविधः अर्चादौ मां यो ऽर्चयेत् स राजसः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम्।
यजेद्यष्टव्यमिति वा पृथग्भावः स सात्त्विकः॥

मूलम्

कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम्।
यजेद्यष्टव्यमिति वा पृथग्भावः स सात्त्विकः॥ १० ॥

अनुवाद (हिन्दी)

जो व्यक्ति पापोंका क्षय करनेके लिये, परमात्माको अर्पण करनेके लिये और पूजन करना कर्तव्य है—इस बुद्धिसे मेरा भेदभावसे पूजन करता है, वह सात्त्विक भक्त है॥ १०॥

वीरराघवः

कर्म-निर्हारं पाप-क्षयं परस्मिन् परम-पुरुषे तद् अर्पणं कर्म-समर्पणं भगवत्-प्रीतिम् उद्दिश्येत्य् अर्थः । यष्टव्यम् इति । शेषिण ईश्वरस्याज्ञा-रूपत्वाद् विधेर् वैधम् अवश्यं स्व-रूपानुबन्धि कर्तव्यम् अकरणे भगवता निगृहीतः स्याम् इति वाभिसन्धायापृथग्-भावः स्वात्मनो ब्रह्म-शरीरत्वं जानन् यो मां यजेत् स सात्त्विको भक्तः । अत्र पृथग्-भाव इति छित्त्वा भेद-दर्शित्वं त्रिष्व् अपि समानम् इति केचिद् योजयन्ति । तत्र सात्त्विकत्वम् असङ्गतं सत्त्वस्य यथावस्थित-वस्तु-प्रकाशकत्वस्य ‘सत्त्वात्सञ्जायते ज्ञानं, तत्र सत्त्वं निर्मलत्वात्-प्रकाशकम्’ इति भगवता गीतत्वेन पृथग्-भावस्य सत्त्व-कार्यत्वाभावाद् अतो ऽपृथग्-भाव इत्य् एव छेदो ऽयम् अपि सात्त्विकः कर्म-निर्हार-आद्य्-अभिसन्धि-भेदाद् अधम-मध्यमोत्तम-भेदेन त्रिविधः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

मद‍्गुणश्रुतिमात्रेण मयि सर्वगुहाशये।
मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ॥

मूलम्

मद‍्गुणश्रुतिमात्रेण मयि सर्वगुहा3शये।
मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम्।
अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे॥

मूलम्

लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम्।
अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे॥ १२ ॥

अनुवाद (हिन्दी)

जिस प्रकार गंगाका प्रवाह अखण्डरूपसे समुद्रकी ओर बहता रहता है, उसी प्रकार मेरे गुणोंके श्रवणमात्रसे मनकी गतिका तैलधारावत् अविच्छिन्नरूपसे मुझ सर्वान्तर्यामीके प्रति हो जाना तथा मुझ पुरुषोत्तममें निष्काम और अनन्य प्रेम होना—यह निर्गुण भक्तियोगका लक्षण कहा गया है॥ ११-१२॥

वीरराघवः

एवं च तामसादयस् त्रयो ऽप्य् अवान्तर-भेदैर् नव-विधा । तत्र नवमस्यैव भक्ति-योगस्य साक्षान्-मुक्त्य्-उपायत्वं वक्ष्यन् तस्य फलाव्यवहित-दशा-रूप-लक्षणम् आह द्वयेन । मद्-गुणेति । सर्व-गुहाशये सर्वेषां हृदय-कुहरे वर्तमाने पुरुषोत्तमे मयि मद्-गुण-श्रवण-मात्रेण गङ्गाम्भसो ऽम्बुधाव् इव अविच्छिन्ना विजातीय-प्रत्ययान्तराव्यवहिताहैतुकी फलाद्य्-उपाधि-रहिताव्यवहिता मोक्षं प्रत्य्-उपायान्तर-व्यवधान-रहिता भक्तिः प्रीति-पूर्वकानुस्मरण-रूपा मनो-वृत्तिर् इति या सा निर्गुणस्य सत्त्वादि-नैर्गुण्य-सम्पादकस्य मुक्ति-साधनस्येत्य् अर्थः । भक्ति-योगस्य लक्षणं स्व-रूपम् इत्य् अर्थः ॥ ११-१२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत।
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः॥

मूलम्

सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत।
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः॥ १३ ॥

अनुवाद (हिन्दी)

ऐसे निष्काम भक्त, दिये जानेपर भी, मेरी सेवाको छोड़कर सालोक्य१, सार्ष्टि,२ सामीप्य,३ सारूप्य४ और सायुज्य५ मोक्षतक नहीं लेते—॥ १३॥

पादटिप्पनी

१. भगवान‍्के नित्यधाममें निवास, २. भगवान‍्के समान ऐश्वर्यभोग, ३. भगवान‍्की नित्यसमीपता,४. भगवान् का-सा रूप और ५. भगवान‍्के विग्रहमें समा जाना, उनसे एक हो जाना या ब्रह्मरूप प्राप्त कर लेना।

वीरराघवः

अहैतुकीत्य्-अनेनोक्तं निर्गुण-भक्ति-योग-निष्ठानां फल-कामना-रहित्यं कैमुत्य-नयेन द्रढयति । सालोक्येति । सेवनं मद्-अनुभवम् अन्तरेण मया दीयमानं सालोक्यादि-रूपं पञ्च-विधं मोक्षम् अपि न गृह्णन्ति जनाः निर्गुण-भक्ताः । किम् उत सांसारिक-फलं न गृह्णन्तीति अत्रैकत्वम् एकाकारकत्वं सायुज्यम् इत्य् अर्थः । सालोक्यं समान-लोक-वासित्वं सार्ष्टिः समान-भोगः सामीप्यं निकट-वर्तित्वं सारूप्यं समान-विग्रहवत्त्वम् ननु “विकल्पो ऽविशिष्ट-फलत्वात्” इति मुक्तौ फल-तारतम्यं प्रतिषिद्धम् । मैवम् । एते सर्वे सायुज्य एवान्तर्भूताः । तत्र सायुज्यं नाम समान-गुण-योगः गुणाष्टकाविर्भाव-रूपः युज्यत इति युग्-धर्मः । धर्मो हि धर्मिणा युज्यते समानः युग् यस्य स सम्युक् स-युजो भावः सायुज्यं साधर्म्यं तथा च गीतं भगवता “मम साधर्म्यम् आगता” इति । अत्र सालोक्यादि-चतुष्टयस्यापि ब्रह्म-सायुज्यान्तर्भूतत्व-ज्ञापनाय सालोक्यादीनां भेदेनोपादानं साधर्म्ये सति हि सालोक्यादिकं सर्वं सम्पन्नम् एवेति सालोक्यादेः सायुज्यान्तर्भूतत्वं युक्तं, देवतान्तर-प्राप्तौ हि सालोक्यादि-भेदावाप्तिः । ब्रह्म-प्राप्तौ तु सायुज्यान्तर्भूतत्वेनैव सालोक्यादि-प्राप्तिर् इति विशेषः । यद् वा भगवत्-प्राप्ताव् अपि श्री-विष्णु-लोकादिषु द्वारकादिष्व् इव तथा-विध-भेदो ऽस्तीति तद्-अपेक्षिणां प्राप्य-भेद-द्योतनाय पृथङ्-निर्देशः । यद् आहुः ‘लोकेषु विष्णोर् निवसन्ति केचित् समीपम् ऋच्छन्ति च केचिद् अन्ये । अन्ये तु रूपं सदृशं भजन्ते सायुज्यम् अन्ये स तु मोक्ष उक्तः ॥’ इति तस्मान् मुक्तौ फल-तारतम्य-शङ्का न कार्या ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः।
येनातिव्रज्य त्रिगुणं मद‍्भावायोपपद्यते॥

मूलम्

स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः।
येनातिव्रज्य त्रिगुणं मद‍्भावायोपपद्यते॥ १४ ॥

अनुवाद (हिन्दी)

भगवत‍्-सेवाके लिये मुक्तिका तिरस्कार करनेवाला यह भक्तियोग ही परम पुरुषार्थ अथवा साध्य कहा गया है। इसके द्वारा पुरुष तीनों गुणोंको लाँघकर मेरे भावको—मेरे प्रेमरूप अप्राकृत स्वरूपको प्राप्त हो जाता है॥ १४॥

वीरराघवः

अस्य भक्ति-योगस्य लक्षणम् उपसंहरति । स एवेति । येन त्रि-गुणान् सत्त्वादीन् अतिक्रम्य प्रकृति-सम्बन्ध-निर्मुक्त इत्य् अर्थः । अनेन निर्गुणस्येति पूर्वम् उक्तं निर्गुणत्वं स्पष्टीकृतं मद्-भावाय मत्-स्व-भावाय मत्-साम्यापत्तय इत्य् अर्थः । उपपद्यते योग्यो भवति । स एव भक्ति-योगः आत्यन्तिकः चरम-काष्ठां गतः । इत्य् उदाहृतः मत्-स्वभावापत्ति-रूप-फलाव्यवहित-साधनत्व-दशैव नवमस्य भक्ति-योगस्य स्व-रूपम् उदाहृतम् इत्य् अर्थः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

निषेवितेनानिमित्तेन स्वधर्मेण महीयसा।
क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः॥

मूलम्

निषेवितेनानिमित्तेन स्वधर्मेण महीयसा।
क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः॥ १५ ॥

वीरराघवः

तस्य साधनान् आह पञ्चभिः । निषेवितेनानुष्ठितेन अनिमित्तेन फलाभिसन्धि-रहितेन स्व-धर्मेण स्व-वर्णाश्रमोचित-धर्मेण महीयसा अङ्गानां मध्ये बलवत्तरेण शस्तेन प्रशस्तेन क्रिया-योगेन पञ्चरात्राद्य्-उक्त-पूजा-योगेन ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

मद्धिष्ण्यदर्शनस्पर्शपूजास्तुत्यभिवन्दनैः।
भूतेषु मद‍्भावनया सत्त्वेनासङ्गमेन च॥

मूलम्

मद्धिष्ण्यदर्शनस्पर्शपूजास्तुत्यभिवन्दनैः।
भूतेषु मद‍्भावनया सत्त्वेनासङ्गमेन च॥ १६ ॥

वीरराघवः

मद्-विष्ण्यं मत्-प्रतिमायतनादिस् तस्य दर्शनादिभिः भूतेषु मद्-भावनया मद्-आत्मकत्व-बुद्ध्या सत्त्वेन धैर्येणासङ्गमेन वैराग्येण ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

महता बहुमानेन दीनानामनुकम्पया।
मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च॥

मूलम्

महतां बहुमानेन दीनानामनुकम्पया।
मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च॥ १७ ॥

वीरराघवः

महतां स्वाधिकानां बहु-मानेन दीनानां स्वापेक्षयाधमानाम् अनुकम्पया विषये षष्ठी आत्म-तुल्येषु मैत्र्या तथा च वक्ष्यति “गुणाधिकान् मुदं लिप्सेद् अनुक्रोशं गुणाधमात् । मैत्रीं समानाद् अन्विच्छेन् न तापैर् अभिभूयते ॥” इति यमेन नियमेन च इदम् आसनादीनाम् अप्य् उपलक्षणम् ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाच्च मे।
आर्जवेनार्यसङ्गेन निरहंक्रियया तथा॥

मूलम्

आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाच्च मे।
आर्जवेनार्यसङ्गेन निरहङ्क्रियया तथा॥ १८ ॥

वीरराघवः

आध्यात्मिकस्य वेदान्त-शास्त्रस्यानुश्रवणाद् आर्जनेन मनो-वाक्-कायानाम् ऐकरूप्येणार्य-सङ्गेन सत्-सङ्गेन निरहङ्क्रियया देहात्माभिमानादि-राहित्येन ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

मद्धर्मणो गुणैरेतैः परिसंशुद्ध आशयः।
पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम्॥

मूलम्

मद्धर्मणो गुणैरेतैः परिसंशुद्ध आशयः।
पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम्॥ १९ ॥

अनुवाद (हिन्दी)

निष्कामभावसे श्रद्धापूर्वक अपने नित्य-नैमित्तिक कर्तव्योंका पालन कर, नित्यप्रति हिंसारहित उत्तम क्रियायोगका अनुष्ठान करने, मेरी प्रतिमाका दर्शन, स्पर्श, पूजा, स्तुति और वन्दना करने, प्राणियोंमें मेरी भावना करने, धैर्य और वैराग्यके अवलम्बन, महापुरुषोंका मान, दीनोंपर दया और समान स्थितिवालोंके प्रति मित्रताका व्यवहार करने, यम-नियमोंका पालन, अध्यात्मशास्त्रोंका श्रवण और मेरे नामोंका उच्च स्वरसे कीर्तन करनेसे तथा मनकी सरलता, सत्पुरुषोंके संग और अहंकारके त्यागसे मेरे धर्मोंका (भागवतधर्मोंका) अनुष्ठान करनेवाले भक्त पुरुषका चित्त अत्यन्त शुद्ध होकर मेरे गुणोंके श्रवणमात्रसे अनायास ही मुझमें लग जाता है॥ १५—१९॥

वीरराघवः

इत्य् एतैर् गुणैर् मद्-धर्मिणः भगवद्-धर्मानुष्ठातुः पुरुषस्याशयश् चित्तं परिसंशुद्धः निर्मलः श्रुत-मात्रः गुणो यस्य तं माम् अञ्जसा प्रयत्नेनैवाभ्येति मद्-गुण-श्रवण-मात्रेण मय्य् आसक्तो भवतीत्य् अर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

यथा वातरथो घ्राणमावृङ्‍क्ते गन्ध आशयात्।
एवं योगरतं चेत आत्मानमविकारि यत्॥

मूलम्

यथा वातरथो घ्राणमावृ4ङ्‍क्ते गन्ध आशयात्।
एवं योगरतं चेत आत्मानमविकारि यत्॥ २० ॥

अनुवाद (हिन्दी)

जिस प्रकार वायुके द्वारा उड़कर जानेवाला गन्ध अपने आश्रय पुष्पसे घ्राणेन्द्रियतक पहुँच जाता है, उसी प्रकार भक्तियोगमें तत्पर और राग-द्वेषादि विकारोंसे शून्य चित्त परमात्माको प्राप्त कर लेता है॥ २०॥

वीरराघवः

प्रयत्नं विनैवाभ्येतीत्य् अत्र दृष्टान्तः । यथेति । वातो वायुः रथः प्रापको यस्य स गन्धः आश्रयात् पुष्पादेः सकाशाद् घ्राणेन्द्रियं प्रत्य् अयत्नेनैवावृङ्क्ते प्राप्नोति एवं योग-रतम् अत एवाविकारि यच् चेतस् तद् आत्मानं माम् आवृङ्क्ते आत्मसात्-करोतीत्य् अर्थः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा।
तमवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम्॥

मूलम्

अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा।
तमवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम्॥ २१ ॥

अनुवाद (हिन्दी)

मैं आत्मारूपसे सदा सभी जीवोंमें स्थित हूँ; इसलिये जो लोग मुझ सर्वभूतस्थित परमात्माका अनादर करके केवल प्रतिमामें ही मेरा पूजन करते हैं, उनकी वह पूजा स्वाँगमात्र है॥ २१॥

वीरराघवः

एवं निर्गुण-भक्ति-योगस्य साङ्गस्य स्व-रूपम् अभिधाय तम् एव प्रस्तोष्यंस्-तामसादि-भक्ति-योगान् निन्दति । अहम् इति षड्भिः । यो ऽहं सदा सर्वेषु भूतेषु भूतात्मावस्थितः भूतामात्मनि प्रत्यग्-आत्मन्य् अवस्थितः अन्तरात्मतया स्थितः तं माम् अवज्ञायाभिभूयाज्ञात्वेत्य् अर्थः । मर्त्यः संसारी अर्चायां पूजायां विडम्बनं कुरुते ईश्वरत्वम् इह पुष्कलम् इति ज्ञान-रहितानाम् अर्चनं बिडम्बनाम् इत्य् उच्यते न त्व् अवतार-प्रभाव-तिरस्कार इह क्रियते ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम्।
हित्वार्चां भजते मौढ्याद‍्भस्मन्येव जुहोति सः॥

मूलम्

यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम्।
हित्वार्चां भजते मौढ्याद‍्भस्मन्येव जुहोति सः॥ २२ ॥

अनुवाद (हिन्दी)

मैं सबका आत्मा, परमेश्वर सभी भूतोंमें स्थित हूँ; ऐसी दशामें जो मोहवश मेरी उपेक्षा करके केवल प्रतिमाके पूजनमें ही लगा रहता है, वह तो मानो भस्ममें ही हवन करता है॥ २२॥

वीरराघवः

एतद् एव स्पष्टयति । य इति । सर्वेषु भूतेषु आत्मानं सन्तम् अन्तरात्मतयावस्थितं मां हित्वा ‘हि गतौ’ आज्ञा वेत्य् अर्थः अर्चां भजते यः स भस्मन्य् एव जुहोति-ईश्वर इह स्थित इति ज्ञान-रहितानाम् अर्चार्चनादिकं भस्म-हुतम् अतो ऽर्चावतारे परत्वं ज्ञातव्यम् इत्य् अर्थः । अन्यथा मद्-दर्शन-स्पर्शः पश्यन्ति मे रुचिराणि अतो-रूपाणि दिव्यानि वर-प्रदानीत्य् आदि प्राकरणिक-ग्रन्थ-विरोधात् ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

द्विषतः परकाये मां मानिनो भिन्नदर्शिनः।
भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति॥

मूलम्

द्विषतः परकाये मां मानिनो भिन्नदर्शिनः।
भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति॥ २३ ॥

अनुवाद (हिन्दी)

जो भेददर्शी और अभिमानी पुरुष दूसरे जीवोंके साथ वैर बाँधता है और इस प्रकार उनके शरीरोंमें विद्यमान मुझ आत्मासे ही द्वेष करता है, उसके मनको कभी शान्ति नहीं मिल सकती॥ २३॥

वीरराघवः

मानिनो देहात्माभिमानिनः अत एव पर-काये मां द्विषतः भिन्न-दर्शिनः अर्चादौ भेद-दर्शिनः भूतेषु निबद्ध-वैरस्य मनः शान्तिं नार्च्छति न प्राप्नोति ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयानघे।
नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः॥

मूलम्

अहमुच्चावचैर्द्रव्यैः क्रिय5योत्पन्नयानघे।
नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः॥ २४ ॥

अनुवाद (हिन्दी)

माताजी! जो दूसरे जीवोंका अपमान करता है, वह बहुत-सी घटिया-बढ़िया सामग्रियोंसे अनेक प्रकारके विधि-विधानके साथ मेरी मूर्तिका पूजन भी करे तो भी मैं उससे प्रसन्न नहीं हो सकता॥ २४॥

वीरराघवः

हे अनघे ! उच्चावचैर् द्रव्यैर् उत्पन्नया अनुष्ठितया क्रियया पूजया अर्चायाम् अर्चितो ऽप्य् अहं भूत-समूहावमानिनः नैव तुष्ये न तुष्टो ऽस्मि ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत्।
यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम्॥

मूलम्

अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत्।
यावन्न वेद स्वहृदि सर्वभूतेष्वव6स्थितम्॥ २५ ॥

अनुवाद (हिन्दी)

मनुष्य अपने धर्मका अनुष्ठान करता हुआ तबतक मुझ ईश्वरकी प्रतिमा आदिमें पूजा करता रहे, जबतक उसे अपने हृदयमें एवं सम्पूर्ण प्राणियोंमें स्थित परमात्माका अनुभव न हो जाय॥ २५॥

वीरराघवः

अतः स्व-हृदि सर्व-भूतेषु चावस्थितम् ईश्वरं मां यावन् न वेद तावत् स्व-धर्म-दृक् स्व-धर्म-निष्ठः अर्चादाव् अर्चयेत् अर्चादावर्चनं हृत्पद्ये साक्षात्कार-साधनम् अतस् तत्-सिद्धितः प्राग् अर्चायाम् अर्चनविच्छेदो न कर्तव्य इत्य् अर्थः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

आत्मनश्च परस्यापि यः करोत्यन्तरोदरम्।
तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम्॥

मूलम्

आत्मनश्च परस्यापि यः करोत्यन्तरोदरम्।
तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम्॥ २६ ॥

अनुवाद (हिन्दी)

जो व्यक्ति आत्मा और परमात्माके बीचमें थोड़ा-सा भी अन्तर करता है, उस भेददर्शीको मैं मृत्युरूपसे महान् भय उपस्थित करता हूँ॥ २६॥

वीरराघवः

आत्मन इति । स्वात्मनः परमात्मनि उदरम् उत् अपि अरम् अल्पम् ईषद् अपीत्य् अर्थः अन्तरा भेदं यः करोति ब्रह्मात्मकानां जीवानां ज्ञानैकाकारतया साम्ये सति कर्मायत्त देवादि-शरीर-कृत वैचित्र्यम् आत्म-गतत्वेन यो ऽनुसन्धत्ते तस्य भिन्नदृशः मृत्युर् यमः उल्बणं भयं विदधे स नरक-पातीत्य् अर्थः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

अथ मां सर्वभूतेषु भूतात्मानं कृतालयम्।
अर्हयेद्दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा॥

मूलम्

अथ मां सर्वभूतेषु भूतात्मानं कृतालयम्।
अर्हयेद्दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा॥ २७ ॥

अनुवाद (हिन्दी)

अतः सम्पूर्ण प्राणियोंके भीतर घर बनाकर उन प्राणियोंके ही रूपमें स्थित मुझ परमात्माका यथायोग्य दान, मान, मित्रताके व्यवहार तथा समदृष्टिके द्वारा पूजन करना चाहिये॥ २७॥

वीरराघवः

निर्गुणस्यानुष्ठान-प्रकारम् आह । अथ अतः सर्वेषु भूतेषु कृतालयं कृतावासं तत्र हेतुः भूतात्मानं भूत-शब्दो देवादि-देह-विशिष्ट-जीवन-पर्यन्तः तस्य तत्रैव स्वारस्यात् तेषाम् आत्मानम् अन्तर्यामिणं माम् अभिन्नेन समेन चक्षुषा ज्ञानेन मैत्र्या दानमानाभ्यां चार्हयेत् स्वाधिकेषु बहुमानं समेषु मैत्री अधमेषु दानं सर्वेषु ज्ञानैकाकारत्व-ब्रह्मात्मकत्वानुसन्धानम् अविशेषेण कर्तव्यम् इत्य् अर्थः । माम् अर्हयेद् इत्य् अनेन मद् आत्मकत्व-बुद्धया भूतेषु कृतं दानादिकं मत्-सन्तोष-करम् इत्य् उक्तं भवति ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे।
ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः॥

मूलम्

जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे।
ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः॥ २८ ॥

वीरराघवः

अथ भूतेषु यथोत्तरं दानमानाद्य् अतिशयः कर्तव्य इति वक्तुं निर्गुण-भक्तस्य सर्वोत्तमत्वञ् च वक्तुं भूतानां तारतम्यम् आह । सार्द्धैः षड्भिः । जीवन्तीति जीवाः सर्ग-प्रलयान्तर-काल-स्थिति-जीवनाः शरीरिणः ते पृथिव्याद्य् अचेतनेभ्यः श्रेष्ठा इत्य् अर्थः । अजीवानाम् इत्य् अपादानस्य शेषत्व-विवक्षया षष्ठी तत्रापि प्राण-भृतः प्राणवन्तः हे शुभे ! ततः सचित्ताः ज्ञानवन्तः प्रवराः ततस् तेभ्यः इन्द्रिय-वृत्तयः इन्द्रियाणां वृत्तयो येषु ते वृक्षादयः वृक्षाणाम् अपि इन्द्रिय-वृत्तयः सूक्ष्माः सन्त्य् एव तथाहि महा-भारते स्मर्यते “तस्मात् पश्यन्ति पादपास् तस्माज् जिघ्रन्ति पादपा इति ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः।
तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः॥

मूलम्

तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः।
तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः॥ २९ ॥

अनुवाद (हिन्दी)

माताजी! पाषाणादि अचेतनोंकी अपेक्षा वृक्षादि जीव श्रेष्ठ हैं, उनसे साँस लेनेवाले प्राणी श्रेष्ठ हैं, उनमें भी मनवाले प्राणी उत्तम और उनसे इन्द्रियकी वृत्तियोंसे युक्त प्राणी श्रेष्ठ हैं। सेन्द्रिय प्राणियोंमें भी केवल स्पर्शका अनुभव करनेवालोंकी अपेक्षा रसका ग्रहण कर सकनेवाले मत्स्यादि उत्कृष्ट हैं तथा रसवेत्ताओंकी अपेक्षा गन्धका अनुभव करनेवाले (भ्रमरादि) और गन्धका ग्रहण करनेवालोंसे भी शब्दका ग्रहण करनेवाले (सर्पादि) श्रेष्ठ हैं॥ २८-२९॥

श्लोक-३०

विश्वास-प्रस्तुतिः

रूपभेदविदस्तत्र ततश्चोभयतोदतः।
तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततो द्विपात्॥

मूलम्

रूपभेदविदस्त7त्र ततश्चोभयतोदतः।
तेषां बहुपदाः श्रेष्ठाश्चतुष्पाद8स्ततो द्विपात्॥ ३० ॥

अनुवाद (हिन्दी)

उनसे भी रूपका अनुभव करनेवाले (काकादि) उत्तम हैं और उनकी अपेक्षा जिनके ऊपर-नीचे दोनों ओर दाँत होते हैं, वे जीव श्रेष्ठ हैं। उनमें भी बिना पैरवालोंसे बहुत-से चरणोंवाले श्रेष्ठ हैं तथा बहुत चरणोंवालोंसे चार चरणवाले और चार चरणवालोंसे भी दो चरणवाले मनुष्य श्रेष्ठ हैं॥ ३०॥

वीरराघवः

तेभ्यः स्पर्श-वेदिनः स्पर्श-वेदिताद्य्-अवान्तर-भेदास् तिर्यक्षुः द्रष्टव्याः प्रभुता तु स्पर्शनेन्द्रिय-वृत्तिर् एव तेभ्यः स्पर्श-वेदिभ्यः रसनेन्द्रिय-वृत्तयः मत्स्यादयः श्रेष्ठा गन्धविदो भ्रमरादयः शब्दविदः सर्पादयः रूपविदः काकादयः तेभ्य उभयतोदतः तेभ्यः बहु-पदाः तेभ्यश् चतुष्पादः ततो द्विपान् मनुष्यः ॥ २९-३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः।
ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः॥

मूलम्

ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः।
ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः॥ ३१ ॥

अनुवाद (हिन्दी)

मनुष्योंमें भी चार वर्ण श्रेष्ठ हैं; उनमें भी ब्राह्मण श्रेष्ठ है। ब्राह्मणोंमें वेदको जाननेवाले उत्तम हैं और वेदज्ञोंमें भी वेदका तात्पर्य जाननेवाले श्रेष्ठ हैं॥ ३१॥

वीरराघवः

द्विपात्स्व् अपि चत्वारो ब्राह्मणादयो वर्णाः वर्णानां मध्ये ब्राह्मणः ब्राह्मणेष्व् अपि वेदाध्यायी ततो ऽपि वेदार्थ-ज्ञः अधिक-श्रेष्ठ इत्य् अर्थः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत्।
मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मनः॥

मूलम्

अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत्।
मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मनः॥ ३२ ॥

अनुवाद (हिन्दी)

तात्पर्य जाननेवालोंसे संशय निवारण करनेवाले, उनसे भी अपने वर्णाश्रमोचित धर्मका पालन करनेवाले तथा उनसे भी आसक्तिका त्याग और अपने धर्मका निष्कामभावसे आचरण करनेवाले श्रेष्ठ हैं॥ ३२॥

वीरराघवः

अर्थज्ञाद् अपि संशयच्छेत्ता मीमांसकः ततो ऽपि केवलात् स्व-कर्म-कृत् श्रेष्ठः ततो मुक्त-सङ्गः भूयान् श्रेष्ठः तस्य लक्षणम् आत्मनो धर्मम् अदोग्धा निष्काम इत्य् अर्थः ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

तस्मान्मय्यर्पिताशेषक्रियार्थात्मा निरन्तरः।
मय्यर्पितात्मनः पुंसो मयि संन्यस्तकर्मणः।
न पश्यामि परं भूतमकर्तुः समदर्शनात्॥

मूलम्

तस्मान्मय्यर्पिताशेषक्रियार्थात्मा निरन्तरः।
मय्यर्पितात्मनः पुंसो मयि संन्यस्तकर्मणः।
न पश्यामि परं भूतमकर्तुः समदर्शनात्॥ ३३ ॥

अनुवाद (हिन्दी)

उनकी अपेक्षा भी जो लोग अपने सम्पूर्ण कर्म, उनके फल तथा अपने शरीरको भी मुझे ही अर्पण करके भेदभाव छोड़कर मेरी उपासना करते हैं, वे श्रेष्ठ हैं। इस प्रकार मुझे ही चित्त और कर्म समर्पण करनेवाले अकर्त्ता और समदर्शी पुरुषसे बढ़कर मुझे कोई अन्य प्राणी नहीं दीखता॥ ३३॥

वीरराघवः

तस्माद् अपि मय्य् अर्पिताशेष-क्रियार्थात्मा अर्पिताः अशेषाः क्रियाः क्रियार्थाः क्रिया-फलान्य् आत्मा देहः स्वात्मा च येन सां ओम् इत्य् आत्मानं युञ्जीतेत्य् उक्त-रीत्या न्यस्तात्म-रक्षाभर इत्य् अर्थः । अत एव निरन्तरः भेद-रहितः “ज्ञानीत्य् आत्मैव मे मतम्” इत्य्-उक्त-रीत्या ममात्मत्वेनाभिमत इत्य् अर्थः एतस्मात् कश्चिन् नाधिको ऽस्तीत्य् आह । मयीति । मयि शेषिणि रक्षके ऽन्तर्यामिण्य् अर्पितात्मनः न्यस्तात्म-रक्षाभरस्य मयि प्रयोजक-कर्त्तरि क्रिया-फल-पदे सन्न्यस्तं कर्म येन सः “मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्म-चेतसा । निराशीर् निर्ममो भूत्वा” इत्य् उक्त-रीत्या सर्वेषाम् आत्मनम् आत्म-भूते सर्व-क्रिया-प्रवर्त्तके मय्य् एवानुसंहित-क्रिया-कर्तृत्वाद् इत्य् अर्थः । अत एवाकर्तुः स्वस्मिन् कर्तृत्वाभिमान-रहितात् समदर्शनात् चेतनाचेतनात्मकं कृत्स्नं जगद् ब्रह्मात्मकम् इत्य् एवम्विध-ज्ञानवतः परम् उत्कृष्टं भूतं न पश्यामि ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

मनसैतानि भूतानि प्रणमेद‍्बहु मानयन्।
ईश्वरो जीवकलया प्रविष्टो भगवानिति॥

मूलम्

मनसैतानि भूतानि प्रणमेद‍्बहु मानयन्।
ईश्वरो जीवकलया प्रविष्टो भगवानिति॥ ३४ ॥

अनुवाद (हिन्दी)

अतः यह मानकर कि जीवरूप अपने अंशसे साक्षात् भगवान् ही सबमें अनुगत हैं, इन समस्त प्राणियोंको बड़े आदरके साथ मनसे प्रणाम करे॥ ३४॥

वीरराघवः

समदर्शित्वम् एव स्पष्टयन्न् आह । मनसेति । ईश्वरो भगवान् जीव-कलया परिकलनं कला अन्तः प्रवेशनं जीवान् कलया जीवान्तर्यामितयेत्य् अर्थः । प्रविष्ठ इति मनसा बुद्ध्या एतानि चराचराणि भूतानि बहु मानयन् प्रणमेत् ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

भक्तियोगश्च योगश्च मया मानव्युदीरितः।
ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत्॥

मूलम्

भक्तियोगश्च योगश्च मया मानव्युदीरितः।
ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत्॥ ३५ ॥

अनुवाद (हिन्दी)

माताजी! इस प्रकार मैंने तुम्हारे लिये भक्तियोग और अष्टांगयोगका वर्णन किया। इनमेंसे एकका भी साधन करनेसे जीव परमपुरुष भगवान‍्को प्राप्त कर सकता है॥ ३५॥

वीरराघवः

एवं साङ्गस्य सावान्तर-भेदस्य भक्ति-योगस्य स्व-रूपं प्रतिपादितं तद्-अङ्ग-भूत-प्रकृति-विविक्त-ब्रह्मात्मक-प्रत्यग्-आत्मानुसंधान-रूप-ज्ञान-योगश् च पूर्वम् उक्तः इदानीं तयोर् अन्यतरो ऽपि मुक्तिं साधयतीति वदन्न् उपसंहरति । भक्ति-योगश् चेति । हे मानवि ! मया भक्ति-योगः भगवद्-उपासनात्मक-भक्ति-योगस् तथा ज्ञान-योगः प्रकृति-विविक्त-ब्रह्मात्मक-प्रत्यग्-आत्मानुचिन्तन-रूपो ज्ञान-योगश् च उदीरितः कथितः ययोर् भक्ति-योग-ज्ञान-योगयोर् मध्ये ऽन्यतरेणैव पुरुषः ब्रह्मप्रेप्सुः पुरुषं परम-पुरुषं व्रजेत् प्राप्नुयात् । ननु पूर्वं ज्ञान-योगस्य भक्ति-योगाङ्गत्वम् उक्तम् । अत्र तु साक्षाज् ज्ञानस्यैव मुक्ति-साधनत्वम् उच्यत इति विरोध इति चेद् उच्यते त्रि-विधं हि प्रत्यग्-आत्मोपासनम् । अ-ब्रह्मात्मक-स्वतन्त्रात्मोपासनं भगवद्-उपासनाङ्गतया अप्राधान्येनोपासनं ब्रह्मात्मक-स्वात्मोपासनं चेति तत्राद्यस्य न भगवत्-प्राप्ति-साधनत्वं “सर्वे च्यवन-धर्माणः प्रतिबुद्धस् तु मोक्ष-भाक्” इति तन्-निष्ठस्य च्यवन-धर्मत्वोक्तेः अप्राधान्येनात्मानुचिन्तनन् तु भगवद्-भक्ति-निवर्त्तकम् इति पूर्वम् उक्तं प्राधान्येन ब्रह्मात्मक-प्रकृति-वियुक्तात्म-स्व-रूपोपासनं तु साक्षाद् एव मुक्ति-साधनम् इत्य् अत्रोच्यते तथा हि छान्दोग्ये पञ्चाग्नि-विद्यायां परब्रह्मोपासीनान् ब्रह्मात्मक-स्वात्मानं चोपासीनांश् च “तद्य इत्थं विदुर् ये चेमे ऽरण्ये श्रद्धा तप इत्य् उपासते” इति निर्दिश्य “ते ऽर्चिषम् अभिसम्भवन्ति” इत्य् अर्चिरादिगत्या ब्रह्म-प्राप्तिर् आम्नायते ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

एतद‍्भगवतो रूपं ब्रह्मणः परमात्मनः।
परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम्॥

मूलम्

एतद‍्भगवतो रूपं ब्रह्मणः परमात्मनः।
परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम्॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

रूपभेदास्पदं दिव्यं काल इत्यभिधीयते।
भूतानां महदादीनां यतो भिन्नदृशां भयम्॥

मूलम्

रूपभेदास्पदं दिव्यं काल इत्यभिधीयते।
भूतानां महदादीनां यतो भिन्नदृशां भयम्॥ ३७ ॥

अनुवाद (हिन्दी)

भगवान् परमात्मा परब्रह्मका अद‍्भुत प्रभावसम्पन्न तथा जागतिक पदार्थोंके नानाविध वैचित्र्यका हेतुभूत स्वरूपविशेष ही ‘काल’ नामसे विख्यात है। प्रकृति और पुरुष इसीके रूप हैं तथा इनसे यह पृथक् भी है। नाना प्रकारके कर्मोंका मूल अदृष्ट भी यही है तथा इसीसे महत्तत्त्वादिके अभिमानी भेददर्शी प्राणियोंको सदा भय लगा रहता है॥ ३६-३७॥

वीरराघवः

अथ “आचक्ष्व जीवनोकस्य विविधा मम संसृतिः” इति प्रश्नस्योत्तराध्याय-त्रयेणोत्तरं विवक्षुः कालस्येश्वर-रूपस्येति प्रश्नस्योत्तरम् आह यावद् अध्याय-परिसमाप्ति । एतद् इति । प्रधानं प्रकृतिः पुरुषो जीवः दैवम् ईश्वर-संकल्पः कर्मादृष्टं प्रधानादिभ्यः परम् इत्य् अर्थः । दैव-कर्मात्म-चेष्टितम् इति पाठे दैव-कर्मात्म-वस्तु-स्व-भावानुगुण-चेष्टितं प्रधान-पुरुषाभ्यां परं विलक्षणं कालाख्यं भगवत एतद् रूपं शरीरम् अभिधीयते भगवान् एव काल-शरीरकत्वेनावस्थितः इति भावः प्रधानं पुरुषम् इति आर्षत्वात् व्यत्ययेन पञ्चम्य्-अर्थे द्वितीया । दैवं कर्म-विचेष्टितम् इति पाठे कर्मणा विचेष्टितम् । संसृति-लक्षणं यस्मात् प्रधानादिभ्यः परं भगवतो रूपं काल इत्य् अर्थः । काल-प्रेरित-कर्म-कृता हि संसृतिः पुनर् भगवद् आत्मकं कालं विशिनष्टि । महद्-आदीनां भूतानां रूप-भेदास्पदं रूप-विशेष-हेतुः परिणाम-हेतुः काल इत्य् अर्थः । उक्तं हि “कालाद् गुण-व्यतिकर-” इति वक्ष्यते च “गुण-व्यतिकरः काल” इति भिन्न-दृशां सर्वत्र ज्ञानैकाकारे आत्मनि देव-मनुष्यादि-वैचित्र्यं पश्यतां देहात्माभिमानिनाम् इत्य् अर्थः । यतः काल-रूपाद् भगवतः, भयं जन्म-मरणादि-भयं भवति ॥ ३६-३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

योऽन्तः प्रविश्य भूतानि भूतैरत्त्यखिलाश्रयः।
स विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः॥

मूलम्

योऽन्तः प्रविश्य भूतानि भूतै9रत्त्यखिलाश्रयः।
स विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः॥ ३८ ॥

अनुवाद (हिन्दी)

जो सबका आश्रय होनेके कारण समस्त प्राणियोंमें अनुप्रविष्ट होकर भूतोंद्वारा ही उनका संहार करता है, वह जगत‍्का शासन करनेवाले ब्रह्मादिका भी प्रभु भगवान् काल ही यज्ञोंका फल देनेवाला विष्णु है॥ ३८॥

वीरराघवः

यः काल-रूपी भगवान् अन्तः प्रविश्य भूतैर् एव भूतान्य् अत्ति अभिसंहरति असौ कालः यो ऽखिलाश्रयः अखिलाधारो विष्ण्वाख्यो भगवान् स एव शरीर-शरीरि-भाव-निबन्धनम् इदं सामानाधिकरण्यं पूर्वम् एतद् भगवतो रूपम् इति व्यधिकरण-निर्देशेनात्र सामानाधिकरण्य-निर्देशेन च शरीरात्म-भावस्य नियतत्वं विवक्षितं शरीर-वाचि-शब्देन शरीर-पर्यन्तो बोधनम् आकृत्यधिकरण-सिद्धम् इत्य् अन्यत्र विस्तरः अधियज्ञः यज्ञात्मकः काले हि कर्म चोद्यते कलयतां सर्वं स्व-वशीकुर्वतां ब्रह्मादीनाम् अपि प्रभुः स्व-वशीकर्त्ता ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

न चास्य कश्चिद्दयितो न द्वेष्यो न च बान्धवः।
आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत्॥

मूलम्

न चास्य कश्चिद्दयितो न द्वेष्यो न च बान्धवः।
आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत्॥ ३९ ॥

अनुवाद (हिन्दी)

इसका न तो कोई मित्र है न कोई शत्रु और न तो कोई सगा-सम्बन्धी ही है। यह सर्वदा सजग रहता है और अपने स्वरूपभूत श्रीभगवान‍्को भूलकर भोगरूप प्रमादमें पड़े हुए प्राणियोंपर आक्रमण करके उनका संहार करता है॥ ३९॥

वीरराघवः

अस्य कालात्मनो भगवतः कश्चित् प्रियो द्वेष्यो बान्धवो वा न विद्यते स्वयम् अप्रमत्तो ऽसौ कालात्मको भगवान् प्रमत्तं जनम् अन्तकृत् संहर्ता सन्न् आविशति परिच्छिनत्ति ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

यद‍्भयाद्वाति वातोऽयं सूर्यस्तपति यद‍्भयात्।
यद‍्भयाद्वर्षते देवो भगणो भाति यद‍्भयात्॥

मूलम्

यद‍्भयाद्वाति वातोऽयं सूर्यस्तपति यद‍्भयात्।
यद‍्भयाद्वर्षते देवो भगणो भाति यद‍्भयात्॥ ४० ॥

अनुवाद (हिन्दी)

इसीके भयसे वायु चलता है, इसीके भयसे सूर्य तपता है, इसीके भयसे इन्द्र वर्षा करते हैं और इसीके भयसे तारे चमकते हैं॥ ४०॥

श्लोक-४१

विश्वास-प्रस्तुतिः

यद्वनस्पतयो भीता लताश्चौषधिभिः सह।
स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च॥

मूलम्

यद्वनस्पतयो भीता लताश्चौषधिभिः सह।
स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च॥ ४१ ॥

अनुवाद (हिन्दी)

इसीसे भयभीत होकर ओषधियोंके सहित लताएँ और सारी वनस्पतियाँ समय-समयपर फल-फूल धारण करती हैं॥ ४१॥

वीरराघवः

यद् भयात् यस्य कालात्मनो भगवतो भयात् वातो वाति प्रसरति “भीषास्माद् वातः पवते” इति श्रुत्यर्थो ऽत्राभिप्रेतः देवः पर्जन्यः भगणो नक्षत्र-गणः ॥ ४०-४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः।
अग्निरिन्धे सगिरिभिर्भूर्न मज्जति यद‍्भयात्॥

मूलम्

स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः।
अग्निरिन्धे सगिरिभिर्भूर्न मज्जति यद‍्भयात्॥ ४२ ॥

अनुवाद (हिन्दी)

इसीके डरसे नदियाँ बहती हैं और समुद्र अपनी मर्यादासे बाहर नहीं जाता। इसीके भयसे अग्नि प्रज्वलित होती है और पर्वतोंके सहित पृथ्वी जलमें नहीं डूबती॥ ४२॥

वीरराघवः

स्वे स्वे काले वसन्तादाव् ऋतौ यतो भीताः सरितः प्रस्रवन्ति यतो भीत उदधिः समुद्रः नोत्सर्पति न पृथिवीं प्लावयति यतो भीतो ऽग्निर् इन्धे दीप्यते सह गिरिभिर् भूर् न निमज्जति ॥ ४१-४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

नभो ददाति श्वसतां पदं यन्नियमाददः।
लोकं स्वदेहं तनुते महान् सप्तभिरावृतम्॥

मूलम्

नभो ददाति श्वसतां 10पदं यन्नियमाददः।
लोकं स्वदेहं तनुते महान् सप्तभिरावृतम्॥ ४३ ॥

अनुवाद (हिन्दी)

इसीके शासनसे यह आकाश जीवित प्राणियोंको श्वास-प्रश्वासके लिये अवकाश देता है और महत्तत्त्व अहंकाररूप शरीरका सात आवरणोंसे युक्त ब्रह्माण्डके रूपमें विस्तार करता है॥ ४३॥

वीरराघवः

अदो नभः यन्-नियमनात् श्वसतां प्राणिनां मार्गम् अवकाशं ददाति महान् महताम् अपि महत्तमः कालात्मको भगवान् सप्तभिः पृथिव्यादि-सप्तावरणैर् आवृतं स्व-देहं स्व-शरीर-भूतं ब्रह्माण्डं तनुते उत्पादयति । यद्वा यन्-नियमनाद् इत्य् अनुवर्त्तते महान् महत्तत्त्वं सप्तभिः पृथिव्य्-अप्-तेजो-वाय्व्-आकाशाहङ्कारेन्द्रियैर् आवृतं स्व-देहं स्व-परिणाम-रूपं जगत् तनुते विस्तारयति । यद् वा सप्तभिर् धातुभिर् आवृतम् ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

गुणाभिमानिनो देवाः सर्गादिष्वस्य यद‍्भयात्।
वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम्॥

मूलम्

गुणाभिमानिनो देवाः सर्गादिष्वस्य यद‍्भयात्।
वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम्॥ ४४ ॥

मूलम् - कर्णावती

गुणाभिमानिनौ देवाः सर्गादिष्वस्य यद‍्भयात्।
वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम्॥ ४४ ॥

अनुवाद (हिन्दी)

इस कालके ही भयसे सत्त्वादि गुणोंके नियामक विष्णु आदि देवगण, जिनके अधीन यह सारा चराचर जगत् है, अपने जगत्-रचना आदि कार्योंमें युगक्रमसे तत्पर रहते हैं॥ ४४॥

वीरराघवः

गुणाभिमानिनः रजस्-तमो-गुण-प्रधाना देवाः ब्रह्मादयः अस्य विश्वस्य सर्गादिषु सृष्ट्यादिष्व् अनुयुगं प्रतिकल्पं वर्त्तते येषां देवानां वशे एतच्-चराचरात्मकं जगद् वर्त्तते चराचरात्मकं जगत्-स्व-वशीकुर्वन्तो ऽपि ब्रह्मादयः कालात्मनो भगवतो भयात् स्व-स्व-व्यापारेषु जागरूका वर्त्तन्त इत्य् अर्थः ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः।
जनं जनेन जनयन्मारयन्मृत्युनान्तकम्॥

मूलम्

सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः।
जनं जनेन जनयन्मारयन्मृत्युनान्तकम्॥ ४५ ॥

अनुवाद (हिन्दी)

यह अविनाशी काल स्वयं अनादि किन्तु दूसरोंका आदिकर्ता (उत्पादक) है तथा स्वयं अनन्त होकर भी दूसरोंका अन्त करनेवाला है। यह पितासे पुत्रकी उत्पत्ति कराता हुआ सारे जगत‍्की रचना करता है और अपनी संहारशक्ति मृत्युके द्वारा यमराजको भी मरवाकर इसका अन्त कर देता है॥ ४५॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपा11ख्याने एकोनत्रिंशोऽध्यायः॥ २९ ॥

वीरराघवः

सः कालात्मा भगवान् अनन्तः अन्येनापरिच्छिन्नः जनेन पित्रादिना जनं पुत्रादिकं जनयन् आदि-कृत् मृत्युना मृत्योर् अपि मृत्युना स्वेनान्तकं मृत्युम् अपि मारयन्न् अन्तकरः स्वयं स्वनादिर् अनन्तो ऽव्यय इत्य् अर्थः ॥ ४५ ॥

इति श्री-भागवत-महा-पुराणे तृतीय-स्कन्धे श्रीमद्-वीर-राघव-आचार्य-कृत-भागवत-चन्द्रिकायाम् ऊनत्रिंशो ऽध्यायः ॥ २९ ॥


  1. प्रा. पा. - रतः । ↩︎

  2. प्रा. पा. - च । ↩︎

  3. प्रा. पा. - गुणाशये । ↩︎

  4. प्रा. पा. - माभुङ्क्ते । ↩︎

  5. प्रा. पा. - क्रियोत्पत्तेश्च मानिनि । ↩︎

  6. प्रा. पा. - भूतेष्वपि स्थितम् । ↩︎

  7. प्रा. पा. - विदस्तेभ्यस्ततश्चोभयवेदिनः । ↩︎

  8. प्रा. पा. - पादास्ततो । ↩︎

  9. प्रा. पा. - रप्य । ↩︎

  10. प्रा. पा. - मार्गे यन्नियमाच्च यः । ↩︎

  11. प्राचीने पाठे ‘कापिलेयोपाख्याने’ इत्यंशो न । ↩︎