[अष्टाविंशोऽध्यायः]
भागसूचना
अष्टांगयोगकी विधि
श्लोक-१
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे।
मनो येनैव विधिना प्रसन्नं याति सत्पथम्॥
मूलम्
योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे।
मनो येनैव विधिना प्रसन्नं याति सत्पथम्॥ १ ॥
अनुवाद (हिन्दी)
कपिलभगवान् कहते हैं—माताजी! अब मैं तुम्हें सबीज (ध्येयस्वरूपके आलम्बनसे युक्त) योगका लक्षण बताता हूँ, जिसके द्वारा चित्त शुद्ध एवं प्रसन्न होकर परमात्माके मार्गमें प्रवृत्त हो जाता है॥ १॥
वीरराघवः
एवं “पुरुषं प्रकृतिर् ब्रह्मन्” इति पृष्टस्य बह्व्-अङ्गोपकृत भक्ति-योगाराधित-भगवत्-प्रसादेन ब्रह्मात्मक स्वात्म-साक्षात्कार-पूर्वक-परमात्म-प्राप्त्या प्रकृतिर् विमुञ्चतीत्य् उत्तरम् उक्तं भक्ति-योगाङ्ग-भूत-ब्रह्मात्मक-प्रत्यग्-आत्मानुचिन्तन-रूप-ज्ञान-योगश् चोक्तः अथ सविस्तरं भक्ति-योगं तद्-अङ्ग-जातं च विवक्षुः प्रतिजानीते कपिलः । योगस्येति । हे नृपात्मजे मनुपुत्रि ! सबीजस्य सकारणस्य ससाधनकस्येत्य् अर्थः । योगस्य भगवद्-भक्ति-योगस्य गतिं स्व-रूपं प्रकारं च वक्ष्ये सप्रपञ्चं कथयिष्यामि । को ऽसौ योग इत्य् अत्राह । येन विधिना विधीयत इति विधिः कर्मणि “उपसर्गे घोः किः” विहितेन येन दैव-योगेन मनः प्रसन्नं रागाद्य्-अकलुषितं सत् सत्-पथं शुभाश्रयं याति तत्रैव स्थिरं भवतीत्य् अर्थः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम्।
दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम्॥
मूलम्
स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम्।
दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम्॥ २ ॥
अनुवाद (हिन्दी)
यथाशक्ति शास्त्रविहित स्वधर्मका पालन करना तथा शास्त्रविरुद्ध आचरणका परित्याग करना, प्रारब्धके अनुसार जो कुछ मिल जाय उसीमें सन्तुष्ट रहना, आत्मज्ञानियोंके चरणोंकी पूजा करना,॥ २॥
वीरराघवः
तत्र प्रथमं यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-निदिध्यासन-रूपाष्टाङ्ग-योगान् विवक्षुर् यम-नियमान्तर्भूत-विवेकादि-साधन-सप्तकम् आह । स्व-धर्मेति । शक्त्या स्व-शक्त्यनुसारेण स्व-धर्माचरणम् अनभिसंहित-फल स्व-वर्णाश्रमोचित-धर्मानुष्ठानं विधर्माच् च निवर्तनम् अविहिताप्रतिषिद्ध-निषिद्ध-व्यापारान् निवर्तनं दैवाल् लब्धेनान्नादिना सन्तोषः, आत्मविच्-चरणार्चनं भागवत समाराधनम् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा।
मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम्॥
मूलम्
ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा।
मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम्॥ ३ ॥
अनुवाद (हिन्दी)
विषय-वासनाओंको बढ़ानेवाले कर्मोंसे दूर रहना, संसारबन्धनसे छुड़ानेवाले धर्मोंमें प्रेम करना, पवित्र और परिमित भोजन करना, निरन्तर एकान्त और निर्भय स्थानमें रहना,॥ ३॥
वीरराघवः
ग्राम्य-धर्म-निवृत्तिः त्रैवर्गिक-धर्मान् निवृत्तिः मोक्ष-धर्मेषु रतिश् च एवं साधन-सप्तकान्तर्भूत-क्रियोक्ता । अथ विवेकम् आह । शश्वत् सदा विविक्त-क्षेम-सेवनं जात्य्-आश्रय-निमित्त-दुष्टेभ्यो ऽन्नादिभ्यः विविक्तानां पृथक्-कृतानां क्षेमाणां सात्त्विकानाम् अन्नादीनां सेवनं तद् अपि मित-मेध्यादनं मितं यथा भवति तथा मेध्यानां जात्यादिभिर् अदुष्टानाम् अदन-रूपम् । तत्र जाति-दुष्टाः कलञ्ज-गृञ्जनादयः, आश्रम-दुष्टं चण्डाल-पतितादि-द्रव्यं, निमित्त-दुष्टं केशोच्छिष्टाद्य्-उपहतम् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः।
ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम्॥
मूलम्
अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः।
ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम्॥ ४ ॥
अनुवाद (हिन्दी)
मन, वाणी और शरीरसे किसी जीवको न सताना, सत्य बोलना, चोरी न करना, आवश्यकतासे अधिक वस्तुओंका संग्रह न करना, ब्रह्मचर्यका पालन करना, तपस्या करना (धर्मपालनके लिये कष्ट सहना), बाहर-भीतरसे पवित्र रहना, शास्त्रोंका अध्ययन करना, भगवान्की पूजा करना,॥ ४॥
वीरराघवः
कल्याणम् आह । अहिंसेति । एवं विवेकादिष्व् एवास्तेयादयो ऽपि यथासम्भवम् अन्तर्भाव्याः । तत्रास्तेय-यावद्-अर्थ-परिग्रह-तपः-शौच-स्वाध्याय-पुरुषार्चनादयः क्रियायाम् अन्तर्भाव्याः, ब्रह्मचर्यं विमोके अन्तर्भाव्यं, मौनम् अभ्यास-शुभाश्रय-संशीलन-रूपः । एवम् अन्ये ऽप्य् अनवसादादयो विवक्षिता द्रष्टव्याः । यावद्-अर्थ-परिग्रहः यावतार्थेनान्न्-आदिना देह-यात्रा भवेत् तावतो ऽर्थस्य परिग्रहः, ब्रह्मचर्यं जितेन्द्रियत्वं, तपः कृच्छ्र-चान्द्रायणादिः, शौचम् आचारः, स्वाध्यायः वेदाध्ययनादिः, पुरुषार्चनं भगवत्-पूजनम् ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
मौनं सदाऽऽसनजयस्थैर्यं प्राणजयः शनैः।
प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि॥
मूलम्
मौनं सदाऽऽसनजयस्थैर्यं प्राणजयः शनैः।
प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि॥ ५ ॥
मूलम् - कर्णावती
मौनं सदाऽऽसनजयः स्थैर्यं प्राणजयः शनैः।
प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि॥ ५ ॥
अनुवाद (हिन्दी)
वाणीका संयम करना, उत्तम आसनोंका अभ्यास करके स्थिरतापूर्वक बैठना, धीरे-धीरे प्राणायामके द्वारा श्वासको जीतना, इन्द्रियोंको मनके द्वारा विषयोंसे हटाकर अपने हृदयमें ले जाना॥ ५॥
वीरराघवः
आसनादीन्य् अङ्गान्य् आह त्रिभिः । सदा आसन-जयेन स्थैर्यं, शनैः प्राण-जयः प्राण-वायोः स्व-वशीकरणम् इन्द्रियाणां मनसा विषयान् शब्दादि-विषयान् हृदि प्रत्याहारः । मनसा इन्द्रियाणि विषयेभ्यः प्रत्याहृत्य हृद्य् अवस्थापनम् इत्य् अर्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम्।
वैकुण्ठलीलाभिध्यानं समाधानं तथाऽऽत्मनः॥
मूलम्
स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम्।
वैकुण्ठलीलाभिध्यानं समाधानं तथाऽऽत्मनः॥ ६ ॥
अनुवाद (हिन्दी)
मूलाधार आदि किसी एक केन्द्रमें मनके सहित प्राणोंको स्थिर करना, निरन्तर भगवान्की लीलाओंका चिन्तन और चित्तको समाहित करना॥ ६॥
वीरराघवः
तथा स्व-धिष्ण्यानां प्राणापानादि-स्थानानां हृदय-गुदादि-स्थानानां मध्ये एकस्मिन् मनसा सह प्राणानां धारणं वैकुण्ठस्य भगवतो लीलानां जगत्-सृष्ट्य्-आदि-व्यापार-रूपाणां लीलानाम् अभिध्यानं तथा आत्मनो मनसः समाधानम् एकाग्रीकरणम् ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
एतैरन्यैश्च पथिभिर्मनो दुष्टमसत्पथम्।
बुद्ध्या युञ्जीत शनकैर्जितप्राणो ह्यतन्द्रितः॥
मूलम्
एतैरन्यैश्च पथिभिर्मनो दुष्टमसत्पथम्।
बुद्ध्या युञ्जीत शनकैर्जितप्राणो ह्यतन्द्रितः॥ ७ ॥
अनुवाद (हिन्दी)
इनसे तथा व्रत-दानादि दूसरे साधनोंसे भी सावधानीके साथ प्राणोंको जीतकर बद्धिके द्वारा अपने कुमार्गगामी दुष्ट चित्तको धीरे-धीरे एकाग्र करे, परमात्माके ध्यानमें लगावे॥ ७॥
वीरराघवः
एतैर् उक्तैः स्व-धर्माचरणादिभिर् अन्यैश् च व्रत-दानादिभिः पथिभिर् उपायैर् असत्-पथम् इन्द्रियार्थ-प्रवणम् अत एव दुष्टं मनो बुद्ध्या शनकैः युञ्जीत शुभाश्रय-प्रवणं कुर्यात् । कथम्भूतो युञ्जीत जित-प्राणः अतन्द्रितः तन्द्रा-रहितः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम्।
तस्मिन् स्वस्ति समासीन ऋजुकायः समभ्यसेत्॥
मूलम्
शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम्।
तस्मिन् स्वस्ति1 समासीन ऋजुकायः समभ्यसेत्॥ ८ ॥
अनुवाद (हिन्दी)
पहले आसनको जीते, फिर प्राणायामके अभ्यासके लिये पवित्र देशमें कुश-मृगचर्मादिसे युक्त आसन बिछावे। उसपर शरीरको सीधा और स्थिर रखते हुए सुखपूर्वक बैठकर अभ्यास करे॥ ८॥
वीरराघवः
आसनादीनि प्रपञ्चयति । शुचाव् इति । विजितासनः चिरम् उपविशन्न् अपि क्लम-रहितः शुचौ देशे आसनं चैलाजिन-कुशोत्तरम् आस्तरणं प्रतिष्ठाप्य तस्मिन्न् आसने स्वस्तिके स्वस्तिकासने ऋजु-कायः अकुटिल-देहः आसीनः समभ्यसेत् प्रणवम् इति शेषः । “ऊरु-जङ्घान्तर-पादौ पादाग्रे जानु-मध्यगे । योगिनो यद्-अवस्थानं स्वस्तिकं तद् विदुर् बुधाः ॥” इति स्वस्तिकासन-लक्षणम् ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः।
प्रतिकूलेन वा चित्तं यथा स्थिरमचञ्चलम्॥
मूलम्
प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः।
प्रतिकूलेन वा चित्तं यथा स्थिरमचञ्चलम्॥ ९ ॥
अनुवाद (हिन्दी)
आरम्भमें बायें नासिकासे पूरक, कुम्भक और रेचक करे, फिर इसके विपरीत दाहिनी नासिकासे प्राणायाम करके प्राणके मार्गका शोधन करे—जिससे चित्त स्थिर और निश्चल हो जाय॥ ९॥
वीरराघवः
बाह्य-वायोर् अन्तः प्रवेशः पूरः, धारणं कुम्भकः, धृतस्य बहिर् निःसरणं रेचकः, प्रतिकूलेन रेचक-पूरक-कुम्भकैर् वा । यद्वा इडया रेचनं पिङ्गलया पूरणं पुनः पिङ्गलया रेचनम् इडया पूरणम् इत्य् एवं प्रतिकूलेन चित्तं स्थिरं सत् पुनर् अप्य् अचञ्चलं यथा स्यात् तथा प्राणस्य मार्गं शोधयेत् । प्राणे स्व-वशे तद्-बन्धनं मनो ऽपि स्व-वशं भवेत् तथा च श्रूयते छान्दोग्ये “यथा शकुनिस् सूत्रेण प्रतिबद्धो दिशं दिशं पतित्वान्यत्रायतनम् अलब्ध्वा बन्धनम् एवोपश्रयते एवं मनो ऽपि” इत्यारभ्य “प्राणम् एवोपश्रयते प्राण-बन्धनं हि सौम्य ! मनः” इति ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
मनोऽचिरात्स्याद्विरजं जितश्वासस्य योगिनः।
वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम्॥
मूलम्
मनोऽचिरात्स्याद्विरजं जितश्वासस्य योगिनः।
वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम्॥ १० ॥
अनुवाद (हिन्दी)
जिस प्रकार वायु और अग्निसे तपाया हुआ सोना अपने मलको त्याग देता है, उसी प्रकार जो योगी प्राणवायुको जीत लेता है, उसका मन बहुत शीघ्र शुद्ध हो जाता है॥ १०॥
वीरराघवः
किञ् च जित-श्वासस्य जित-प्राणस्य योगिनः अचिराद् आशु विरजं विगत-रजोगुणं रजोगुणेनाविक्षिप्तं निर्मलं वा स्यात् ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषान्।
प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान् गुणान्॥
मूलम्
प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषा2न्।
प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान् गुणान्॥ ११ ॥
अनुवाद (हिन्दी)
अतः योगीको उचित है कि प्राणायामसे वात-पित्तादिजनित दोषोंको, धारणासे पापोंको, प्रत्याहारसे विषयोंके सम्बन्धको और ध्यानसे भगवद्विमुख करनेवाले राग-द्वेषादि दुर्गुणोंको दूर करे॥ ११॥
वीरराघवः
यथा लोहं सुवर्णादि वाय्व्-अग्निभ्यां ध्मातं सुतप्तं सन् मलं त्यजति तथा प्राणायामादीनां समाधौ द्वार-कार्याण्य् आह । प्राणायामैर् इति । प्राणायामैः प्राण-नियमैः दोषान् वात-पित्त-श्लेष्मादीन् दहेत् धारणाभिः किल्बिषं पापं प्रत्याहारेण संसर्गान् शब्दादि-विषय-संसर्गान् ध्यानेनानीश्वरान् गुणान् क्लेशादीन् दहेत् । मनसः शुभाश्रये ऽवस्थापनं धारणं, धृतस्य मनसो वृत्ति-सन्ततिर् ध्यानं, विजातीय-प्रत्ययान्तराव्यवहितत्वं समाधिर् इति भेदः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
यदा मनः स्वं विरजं योगेन सुसमाहितम्।
काष्ठां भगवतो ध्यायेत्स्वनासाग्रावलोकनः॥
मूलम्
यदा मनः स्वं विरजं योगेन सुसमाहितम्।
काष्ठां भगवतो ध्यायेत्स्वनासाग्रावलोकनः॥ १२ ॥
अनुवाद (हिन्दी)
जब योगका अभ्यास करते-करते चित्त निर्मल और एकाग्र हो जाय, तब नासिकाके अग्रभागमें दृष्टि जमाकर इस प्रकार भगवान्की मूर्तिका ध्यान करे॥ १२॥
वीरराघवः
अथ धारणा-पूर्वकं ध्यानम् आह । यदेति । यदा स्वं स्वीयं मनः योगेन प्राणायाम् आदि-योगेन विरजं सु-समाहितं सम्यक् शुभाश्रये निहितं स्यात् तदा स्व-नासाग्रारोपित-दृष्टिः भगवतः काष्ठां विग्रहं ध्यायेत् ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम्।
नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम्॥
मूलम्
प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम्।
नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम्॥ १३ ॥
अनुवाद (हिन्दी)
भगवान्का मुखकमल आनन्दसे प्रफुल्ल है, नेत्र कमलकोशके समान रतनारे हैं, शरीर नीलकमलदलके समान श्याम है; हाथोंमें शंख, चक्र और गदा धारण किये हैं॥ १३॥
वीरराघवः
विग्रहम् एव विशिनष्टि प्रसन्नेति सप्तभिः । प्रसन्नं वदनाम्भोजं यस्य तं ध्यायेद् इति षष्ठेनान्वयः । पद्म-गर्भ-वद् अरुणे नेत्रे यस्य नीलोत्पल-दलवत्-श्यामं शङ्खादि-धरम् ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
लसत्पङ्कजकिञ्जल्कपीतकौशेयवाससम्।
श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम्॥
मूलम्
लसत्पङ्कजकिञ्जल्कपीतकौशेयवाससम्।
श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम्॥ १४ ॥
अनुवाद (हिन्दी)
कमलकी केसरके समान पीला रेशमी वस्त्र लहरा रहा है, वक्षःस्थलमें श्रीवत्सचिह्न है और गलेमें कौस्तुभमणि झिलमिला रही है॥ १४॥
वीरराघवः
लसत्-पङ्कज-किञ्जल्क-वत्-पीते कौशेय-वाससी यस्य श्रीवत्स-लाञ्छनं वक्षसि यस्य भ्राजत्-कौस्तुभेनामुक्ता संश्लिष्टा कन्धरा यस्य ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
मत्तद्विरेफकलया परीतं वनमालया।
परार्घ्यहारवलयकिरीटाङ्गदनूपुरम्॥
मूलम्
मत्तद्विरेफकलया परीतं वनमालया।
परार्घ्यहारवलयकिरीटाङ्गदनूपुरम्॥ १५ ॥
अनुवाद (हिन्दी)
वनमाला चरणोंतक लटकी हुई है, जिसके चारों ओर भौंरे सुगन्धसे मतवाले होकर मधुर गुंजार कर रहे हैं; अंग-प्रत्यंगमें महामूल्य हार, कंकण, किरीट, भुजबन्ध और नूपुर आदि आभूषण विराजमान हैं॥ १५॥
वीरराघवः
मत्-तद्-विरेफाणां कलो मधुरो ध्वनिर् यस्यां तया वन-मालया परीतं व्याप्तं परार्द्ध्यान्य्-अमूल्यानि हारादीनि यस्य तम् ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम्।
दर्शनीयतमं शान्तं मनोनयनवर्धनम्॥
मूलम्
काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम्।
दर्शनीयतमं शान्तं मनोनयनवर्धनम्॥ १६ ॥
अनुवाद (हिन्दी)
कमरमें करधनीकी लड़ियाँ उसकी शोभा बढ़ा रही हैं; भक्तोंके हृदयकमल ही उनके आसन हैं, उनका दर्शनीय श्यामसुन्दर स्वरूप अत्यन्त शान्त एवं मन और नयनोंको आनन्दित करनेवाला है॥ १६॥
वीरराघवः
काञ्ची-गुणेन हिरण्मय-मेखला-सूत्रेणोल्लसन्ती श्रोणिर् यस्य भक्तानां हृदयाम्भोजम् एव विष्टरम् आसनं यस्य भक्तानां मनो-नयनानि वर्द्धयति हर्षयतीति तथा ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
अपीच्यदर्शनं शश्वत्सर्वलोकनमस्कृतम्।
सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम्॥
मूलम्
अपीच्यदर्शनं शश्वत्सर्वलोकनमस्कृतम्।
सन्तं वयसि कैशोरे भृ3त्यानुग्रहकातरम्॥ १७ ॥
अनुवाद (हिन्दी)
उनकी अति सुन्दर किशोर अवस्था है, वे भक्तोंपर कृपा करनेके लिये आतुर हो रहे हैं। बड़ी मनोहर झाँकी है। भगवान् सदा सम्पूर्ण लोकोंसे वन्दित हैं॥ १७॥
वीरराघवः
अपीच्यं दर्शनम् अपीच्यम् अति-सुन्दरं भक्ति-विषयं दर्शनं यस्य तं कैशोरे कौमारे वयसि सन्तं भृत्यानाम् अनुग्रहे कातरं व्यग्रम् ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम्।
ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मनः॥
मूलम्
कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम्।
ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मनः॥ १८ ॥
अनुवाद (हिन्दी)
उनका पवित्र यश परम कीर्तनीय है और वे राजा बलि आदि परम यशस्वियोंके भी यशको बढ़ानेवाले हैं। इस प्रकार श्रीनारायणदेवका सम्पूर्ण अंगोंके सहित तबतक ध्यान करे, जबतक चित्त वहाँसे हटे नहीं॥ १८॥
वीरराघवः
कीर्तन्यं कीर्तनार्हं तीर्थं यशो यस्य पुण्य-श्लोका बलि-भीष्मादयस् तेषां यशस्करं, समग्राणि अङ्गानि यस्मिन् यथा भवति तथा एवं ध्यायेत् ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम्।
प्रेक्षणीयेहितं ध्यायेच्छुद्धभावेन चेतसा॥
मूलम्
स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम्।
प्रेक्षणीयेहितं ध्यायेच्छुद्धभावेन चेतसा॥
अनुवाद (हिन्दी)
भगवान्की लीलाएँ बड़ी दर्शनीय हैं; अतःअपनी रुचिके अनुसार खड़े हुए , चलते हुए , बैठे हुए , पौढ़े हुए अथवा अन्तर्यामीरूपमें स्थित हुए उनके स्वरूपका विशुद्ध भावयुक्त चित्तसे चिन्तन करे॥ १९॥
वीरराघवः
तत्रोपासकः स्वेच्छानुसारेण स्थितम् उत्तिष्ठन्तम् आसीनम् उपविष्टं शयानं वा गुहाशयं हृदय-कुहरे वसन्तं प्रेक्षणीयम् ईहितं लीला यस्य तं, भगवन्तं शुद्धः रागाद्य्-अकलुषितः भावः वृत्तिर् यस्य तेन चेतसा ध्यायेत् ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
तस्मिल्ँलब्धपदं चित्तं सर्वावयवसंस्थितम्।
विलक्ष्यैकत्र संयुज्यादङ्गे भगवतो मुनिः॥
मूलम्
तस्मिॅंल्लब्धपदं चित्तं सर्वावयवसंस्थितम्।
विलक्ष्यैकत्र संयुज्यादङ्गे भगवतो मुनिः॥ २० ॥
अनुवाद (हिन्दी)
इस प्रकार योगी जब यह अच्छी तरह देख ले कि भगवद्विग्रहमें चित्तकी स्थिति हो गयी, तब वह उनके समस्त अंगोंमें लगे हुए चित्तको विशेष रूपसे एक-एक अंगमें लगावे॥ २०॥
वीरराघवः
एवं ध्येय-रूप-समुदाय उक्तः । अथ दिव्याङ्गेष्व् एकैकत्रोपासना कार्येत्य् आह । तस्मिन्न् इति । तस्मिन् विग्रहे लब्धं पदं स्थितं स्थितिर् येन तत् सर्वावयेषु सम्यक् स्थितं चित्तं विलक्ष्य विशेषेण लक्ष्यीकृत्य भगवत एकत्रैकस्मिन्न् अङ्गे संयुञ्ज्यात् संयोजयेत् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
सञ्चिन्तयेद्भगवतश्चरणारविन्दं
वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम्।
उत्तुङ्गरक्तविलसन्नखचक्रवाल-
ज्योत्स्नाभिराहतमहद्धृदयान्धकारम्॥
मूलम्
सञ्चिन्तयेद्भगवतश्चरणारविन्दं वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम्।
उत्तुङ्गरक्तविलसन्नखचक्रवालज्योत्स्नाभिराहतमहद्धृदयान्धकारम्॥ २१ ॥
अनुवाद (हिन्दी)
भगवान्के चरणकमलोंका ध्यान करना चाहिये। वे वज्र, अंकुश, ध्वजा और कमलके मंगलमय चिह्नोंसे युक्त हैं तथा अपने उभरे हुए लाल-लाल शोभामय नखचन्द्रमण्डलकी चन्द्रिकासे ध्यान करनेवालोंके हृदयके अज्ञानरूप घोर अन्धकारको दूर कर देते हैं॥ २१॥
वीरराघवः
एतद् एव पादादि-क्रमेण प्रपञ्चयति । सञ्चिन्तयेद् इति । त्रयोदशभिः भगवतश् चरणारविन्दं सम्यक् चिन्तयेत् कथम्भूतं पाद-तल-रेखात्मकानि वज्रादीनि लाञ्छनानि तैर् आढ्यं युक्तम् उत्तुङ्गाश् च रक्ताश् च विलसन्तो ये नखास् तेषां चक्रवालं मण्डलं तस्य ज्योत्स्नाभिर् आहतो महतां ध्यातॄणां हृदयान्धकारो येन तं महत्त्वम् अन्धकार-विशेषणं वा एतच् च सर्वम् उपादेय-विशेषणं ध्येयत्वेनोच्यते ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
यच्छौचनिःसृतसरित्प्रवरोदकेन
तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत्।
ध्यातुर्मनःशमलशैलनिसृष्टवज्रं
ध्यायेच्चिरं भगवतश्चरणारविन्दम्॥
मूलम्
यच्छौचनिःसृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत्।
ध्यातुर्मनःशमलशैलनिसृष्टवज्रं ध्यायेच्चिरं भगवतश्चरणारविन्दम्॥ २२ ॥
अनुवाद (हिन्दी)
इन्हींकी धोवनसे नदियोंमें श्रेष्ठ श्रीगंगाजी प्रकट हुई थीं, जिनके पवित्र जलको मस्तकपर धारण करनेके कारण स्वयं मंगलरूप श्रीमहादेवजी और भी अधिक मंगलमय हो गये। ये अपना ध्यान करनेवालोंके पापरूप पर्वतोंपर छोड़े हुए इन्द्रके वज्रके समान हैं। भगवान्के इन चरणकमलोंका चिरकालतक चिन्तन करे॥ २२॥
वीरराघवः
किञ् च यस्य चरणारविन्दस्य शौचेन प्रक्षालन-जलेन निःसृतायाः सरित्-प्रवरायाः गङ्गाया उदकेन तीर्थेन संसार-तारकेण मूर्धन्य् अधिकृतेन शिवो रुद्रः शिवः मङ्गल-युक्तो ऽभूद् इत्य् अर्थः । ध्यातुर् मनसि यः शमल-शैलः पाप-पर्वतः तस्मिन् विसृष्टं क्षिप्तं वज्रम् इव यद् वा शमल-शैले निसृष्टं स्व-लाञ्छन-रूपं वज्रं येन तद् भगवतश् चरणारविन्दं चिरं ध्यायेत् ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
जानुद्वयं जलजलोचनया जनन्या
लक्ष्म्याखिलस्य सुरवन्दितया विधातुः।
ऊर्वोर्निधाय करपल्लवरोचिषा यत्
संलालितं हृदि विभोरभवस्य कुर्यात्॥
मूलम्
जा4नुद्वयं जलजलोचनया जनन्या लक्ष्म्याखिलस्य सुरवन्दितया विधातुः।
ऊर्वोर्निधाय करपल्लवरोचिषा यत् संलालितं हृदि विभोरभवस्य कुर्यात्॥ २३ ॥
अनुवाद (हिन्दी)
भवभयहारी अजन्मा श्रीहरिकी दोनों पिंडलियों एवं घुटनोंका ध्यान करे, जिनको विश्वविधाता ब्रह्माजीकी माता सुरवन्दिता कमललोचना लक्ष्मीजी अपनी जाँघोंपर रखकर अपने कान्तिमान् करकिसलयोंकी कान्तिसे लाड़ लड़ाती रहती हैं॥ २३॥
वीरराघवः
जानु-द्वयम् इति । अखिलस्य जगतः जनन्या मात्रा “नित्यैवैषा जगन्-माता विष्णोः श्रीर् अनपायिनी” इत्य् उक्तेः सुर-वन्दितया ब्रह्मादिभिर् आराधितया जलज-लोचनया लक्ष्म्या स्वस्याः ऊर्वोर् निधाय कर-पल्लव-रोचिषा प्रकाशमान-कर-पल्लवेन संलालितं स्पर्शन-चातुर्येण संसेवितं, संसारित्व-प्रतीतिं वारयति । अभवस्येति । विधातुर् जगत्-कर्तुर् विभोः भगवतः जानु-द्वयं पाद-पर्यन्त-जङ्घा-द्वयं हृदि कुर्यात् ध्यायेत् ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
ऊरू सुपर्णभुजयोरधिशोभमाना-
वोजोनिधी अतसिकाकुसुमावभासौ।
व्यालम्बिपीतवरवाससि वर्तमान-
काञ्चीकलापपरिरम्भि नितम्बबिम्बम्॥
मूलम्
ऊरू सुपर्णभुजयोरधिशोभमानावोजोनिधी अतसिकाकुसुमावभासौ।
व्यालम्बिपीतवरवाससि वर्तमानकाञ्चीकलापपरिरम्भि नितम्बबिम्बम्॥ २४ ॥
अनुवाद (हिन्दी)
भगवान्की जाँघोंका ध्यान करे, जो अलसीके फूलके समान नीलवर्ण और बलकी निधि हैं तथा गरुडजीकी पीठपर शोभायमान हैं। भगवान्के नितम्बबिम्बका ध्यान करे, जो एड़ीतक लटके हुए पीताम्बरसे ढका हुआ है और उस पीताम्बरके ऊपर पहनी हुई सुवर्णमयी करधनीकी लड़ियोंको आलिंगन कर रहा है॥ २४॥
वीरराघवः
ऊरू इति सुपर्णस्य गरुत्-मतः भुजयोः स्कन्धयोर् अधि उपरि शोभमानाव् ओजसः बलस्य औज्वल्यस्य वा निधी आश्रयाव् अतसिका-कुसुम-कान्तिवत् कान्त्या भासमानौ ऊरू हृदि कुर्याद् इति पूर्वेणान्वयस् तथा व्यालम्बि आ-गुल्फं लम्बमानं यत् पीतं परमनर्घं वासस् तस्मिन् वर्तमानो यः काञ्जी-कलापस् तेन परिरम्भः संश्लेषो विद्यते यस्य तद् विभोः नितम्ब-बिम्बञ् च हृदि कुर्यात् ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
नाभिह्रदं भुवनकोशगुहोदरस्थं
यत्रात्मयोनिधिषणाखिललोकपद्मम्।
व्यूढं हरिन्मणिवृषस्तनयोरमुष्य
ध्यायेद्द्वयं विशदहारमयूखगौरम्॥
मूलम्
नाभिह्रदं भुवनकोशगुहोदरस्थं यत्रात्मयोनिधिषणाखिललोकपद्मम्।
व्यूढं हरिन्मणिवृ5षस्तनयोरमुष्य ध्यायेद्द्वयं विशदहारमयूखगौरम्॥ २५ ॥
अनुवाद (हिन्दी)
सम्पूर्ण लोकोंके आश्रयस्थान भगवान्के उदरदेशमें स्थित नाभिसरोवरका ध्यान करे; इसीमेंसे ब्रह्माजीका आधारभूत सर्वलोकमय कमल प्रकट हुआ है। फिर प्रभुके श्रेष्ठ मरकतमणिसदृश दोनों स्तनोंका चिन्तन करे, जो वक्षःस्थलपर पड़े हुए शुभ्र हारोंकी किरणोंसे गौरवर्ण जान पड़ते हैं॥ २५॥
वीरराघवः
नाभि-हृदम् इति । अमुष्य भगवतः । नाभि-हृदं ध्यायेत् कथम्भूतम् भुवनानां कोशस्य गृहम् अधिष्ठानं यद् उदरे तत्र स्थिरं यत्र नाभि-हृदे आत्म-योनेर् ब्रह्मणः धिषणं धिष्ण्यम् अधिष्ठानम् अखिल-लोकात्मकं पद्मं व्यूढम् उत्थितं तथा हरिन्-मणि-वृषौ मरकत-मणि-श्रेष्ठाव् इव यौ स्तनौ तयोर् द्वयं विशद-हारस्य मयूखैः गौरं श्वेतं ध्यायेत् । वक्षो-विशेषणं वा ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
वक्षोऽधिवासमृषभस्य महाविभूतेः
पुंसां मनोनयननिर्वृतिमादधानम्।
कण्ठं च कौस्तुभमणेरधिभूषणार्थं
कुर्यान्मनस्यखिललोकनमस्कृतस्य॥
मूलम्
वक्षोऽधिवासमृषभस्य महाविभूतेः पुंसां मनोनयननिर्वृतिमादधानम्।
कण्ठं च कौस्तुभमणेरधिभूषणार्थं कुर्यान्मनस्यखिललोकनमस्कृतस्य॥ २६ ॥
अनुवाद (हिन्दी)
इसके पश्चात् पुरुषोत्तमभगवान्के वक्षःस्थलका ध्यान करे, जो महालक्ष्मीका निवासस्थान और लोगोंके मन एवं नेत्रोंको आनन्द देनेवाला है। फिर सम्पूर्ण लोकोंके वन्दनीय भगवान्के गलेका चिन्तन करे, जो मानो कौस्तुभमणिको भी सुशोभित करनेके लिये ही उसे धारण करता है॥ २६॥
वीरराघवः
वक्ष इति । महा-विभूतेर् महा-लक्ष्म्या अधिवासं स्थानं पुंसां ध्यातॄणां मनो-नयनयोर् निर्वृतिम् आनन्दम् आदधानम् ऋषभस्य श्रेष्ठस्य भगवतः वक्षः ध्यायेत् तथा खिलैर् लोकैर् ब्रह्मादिभिर् नमस्कृतस्य सेवितस्य भगवतः कण्ठं च मनसि कुर्याद् ध्यायेत् । कथम्भूतं कौस्तुभ-मणिर् यो भूषणार्थं कृतस् तस्याधिकं भूषणम् अर्थः प्रयोजनं यस्य तं कौस्तुभ-मणिम् एव स्वयम् अलङ्कुर्वन्तम् इत्य् अर्थः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
बाहूंश्च मन्दरगिरेः परिवर्तनेन
निर्णिक्तबाहुवलयानधिलोकपालान्।
सञ्चिन्तयेद्दशशतारमसह्यतेजः
शङ्खं च तत्करसरोरुहराजहंसम्॥
मूलम्
बाहूंश्च मन्दरगिरेः परिवर्तनेन निर्णिक्तबाहुवलयानधिलोकपालान्।
सञ्चिन्तयेद्दशशतारमसह्यतेजः शङ्खं च तत्करसरोरुहरा6जहंसम्॥ २७ ॥
अनुवाद (हिन्दी)
समस्त लोकपालोंकी आश्रयभूता भगवान्की चारों भुजाओंका ध्यान करे, जिनमें धारण किये हुए कंकणादि आभूषण समुद्रमन्थनके समय मन्दराचलकी रगड़से और भी उजले हो गये हैं। इसी प्रकार जिसके तेजको सहन नहीं किया जा सकता, उस सहस्र धारोंवाले सुदर्शनचक्रका तथा उनके कर-कमलमें राजहंसके समान विराजमान शंखका चिन्तन करे॥ २७॥
वीरराघवः
बाहून् इति । मन्दर-गिरेः परिवर्तनेन परिभ्रमणेन निर्णिक्तान्य् उज्ज्वलीकृतानि बाहु-वलयान्य् अङ्गदानि येषु अधिश्रिता लोक-पालाः येषु तान् बाहून् सञ्चिन्तयेत् तथा दश-शतारं सहस्रारं न सह्यं तेजो यस्य तच् चक्रं तस्य भगवतः कर-सरोरुहस्य राज-हंसम् इव स्थितं शङ्खं च सञ्चिन्तयेत् ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
कौमोदकीं भगवतो दयितां स्मरेत
दिग्धामरातिभटशोणितकर्दमेन।
मालां मधुव्रतवरूथगिरोपघुष्टां
चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे॥
मूलम्
कौमोदकीं भगवतो दयितां स्मरेत दिग्धामरातिभटशोणितकर्दमेन।
मालां मधुव्रतवरूथगिरोपघुष्टां चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे॥ २८ ॥
अनुवाद (हिन्दी)
फिर विपक्षी वीरोंके रुधिरसे सनी हुई प्रभुकी प्यारी कौमोदकी गदाका, भौंरोंके शब्दसे गुंजायमान वनमालाका और उनके कण्ठमें सुशोभित सम्पूर्ण जीवोंके निर्मलतत्त्वरूप कौस्तुभमणिका ध्यान करे*॥ २८॥
पादटिप्पनी
- ‘आत्मानमस्य जगतो निर्लेपमगुणामलम्।
विभर्ति कौस्तुभमणिं स्वरूपं भगवान् हरिः॥’
अर्थात् इस जगत्की निर्लेप, निर्गुण, निर्मल तथा स्वरूपभूत आत्माको कौस्तुभमणिके रूपमें भगवान् धारण करते हैं।
वीरराघवः
कौमोदकीम् इति । तथा भगवतो दयितां प्रियाम् अरातयः शत्रवो ये योद्धारस् तेषां शोणितम् एव कर्दमस् तेन दिग्धां लिप्तां कौमोदकीं गदां स्मरेत् तथास्य भगवतः कण्ठे मालां मणिं च स्मरेत् कथम्भूतां मालां मधु-व्रतानां भृङ्गाणां वरूथस्य सङ्घस्य गिरा उपघुष्टां नादितां मणिं कथम्भूतम् अमलं चैत्यस्य जीवस्य तत्त्वं स्व-रूपं जीव-स्व-रूपाधिष्ठातृ-देवता-रूपम् इत्य् अर्थः तद् उक्तं वैष्णवे पुराणे
आत्मानम् अस्य जगतो निर्लेपम् अगुणामलम् ।
बिभर्ति कौस्तुभ-मणिं स्व-रूपं भगवान् हरिः ॥ इति ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
भृत्यानुकम्पितधियेह गृहीतमूर्तेः
सञ्चिन्तयेद्भगवतो वदनारविन्दम्।
यद्विस्फुरन्मकरकुण्डलवल्गितेन
विद्योतितामलकपोलमुदारनासम्॥
मूलम्
भृत्यानुकम्पितधियेह गृहीतमूर्तेः सञ्चिन्तयेद्भगवतो वदनारविन्दम्।
यद्विस्फुरन्मकरकुण्डलवल्गितेन विद्योतितामलकपोलमुदारनासम्॥ २९ ॥
अनुवाद (हिन्दी)
भक्तोंपर कृपा करनेके लिये ही यहाँ साकाररूप धारण करनेवाले श्रीहरिके मुखकमलका ध्यान करे, जो सुघड़ नासिकासे सुशोभित है और झिलमिलाते हुए मकराकृत कुण्डलोंके हिलनेसे अतिशय प्रकाशमान स्वच्छ कपोलोंके कारण बड़ा ही मनोहर जान पड़ता है॥ २९॥
वीरराघवः
भृत्येति । भृत्येष्व् अनुकम्पिता कृतानुकम्पा या धीस् तया गृहीता मूर्तिर् येन तस्य भृत्यानुग्रहाय स्वेच्छोपात्त-तनोर् इत्य् अर्थः भगवतः यद् वदनारविन्दं सञ्चिन्तयेत् । कथम्भूतं विस्फुरन्ती ये मकर-कुण्डले तयोर् वल्गितेन प्रचलितेन विद्योतिताव् अमलौ कपोलौ यस्मिन्न् उदारा उन्नता नासा यस्मिंस् तत् ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
यच्छ्रीनिकेतमलिभिः परिसेव्यमानं
भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम्।
मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं
ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु॥
मूलम्
यच्छ्रीनिकेतमलिभिः परिसेव्यमानं भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम्।
मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु॥ ३० ॥
अनुवाद (हिन्दी)
काली-काली घुँघराली अलकावलीसे मण्डित भगवान्का मुखमण्डल अपनी छबिके द्वारा भ्रमरोंसे सेवित कमलकोशका भी तिरस्कार कर रहा है और उसके कमलसदृश विशाल एवं चंचल नेत्र उस कमलकोशपर उछलते हुए मछलियोंके जोड़ेकी शोभाको मात कर रहे हैं। उन्नत भ्रूलताओंसे सुशोभित भगवान्के ऐसे मनोहर मुखारविन्दकी मनमें धारणा करके आलस्यरहित हो उसीका ध्यान करे॥ ३०॥
वीरराघवः
यच् च स्वया विभूत्या शोभयालिभिः परिषेव्यमाणं मीन-द्वयाश्रयश् च श्री-निकेतं पद्मम् अधिक्षिपद् अतिवर्तयत् तद् ध्यायेत् । तत्र कुन्तलैर् अलीनाम् अधिक्षेपः नेत्र-द्वयेन मीन-द्वयस्येति द्रष्टव्यं, अब्जे इव नेत्रे इत्य् उपमानान्तरम् उल्लसन्त्यौ भ्रुवौ यस्मिन् मनोमयं योग-परिशुद्ध-मनो-ग्राह्यं वदनारविन्दम् अतन्द्रितो ऽवहित-मनाः ध्यायेत् ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
तस्यावलोकमधिकं कृपयातिघोर-
तापत्रयोपशमनाय निसृष्टमक्ष्णोः।
स्निग्धस्मितानुगुणितं विपुलप्रसादं
ध्यायेच्चिरं विततभावनया गुहायाम्॥
मूलम्
तस्यावलोकमधिकं कृपयातिघोरतापत्रयोपशमनाय निसृष्टमक्ष्णोः।
स्निग्धस्मितानुगुणितं विपुलप्रसादं ध्यायेच्चिरं वि7ततभावनया गुहायाम्॥ ३१ ॥
मूलम् - कर्णावती
तस्यावलोकमधिकं कृपयातिघोरतापत्रयोपशमनाय निसृष्टमक्ष्णोः।
स्निग्धस्मितानुगुणितं विपुलप्रसादं ध्यायेच्चिरं विपुलभावनया गुहायाम्॥ ३१ ॥
अनुवाद (हिन्दी)
हृदयगुहामें चिरकालतक भक्तिभावसे भगवान्के नेत्रोंकी चितवनका ध्यान करना चाहिये, जो कृपासे और प्रेमभरी मुसकानसे क्षण-क्षण अधिकाधिक बढ़ती रहती है, विपुल प्रसादकी वर्षा करती रहती है और भक्तजनोंके अत्यन्त घोर तीनों तापोंको शान्त करनेके लिये ही प्रकट हुई है॥ ३१॥
वीरराघवः
तस्येति । तस्य भगवतः ऽवलोकनं हृदि वितत-भावनया चिरं ध्यायेत् पाकं पचतीतिवद् भावनया ध्यायेद् इति निर्देशः भावनां कुर्याद् इत्य् अर्थः कथम्भूतम् अवलोकनम् अधिकम् अत्यर्थं कृपया अक्ष्णोर् अक्षिभ्याम् अति-दुःसहाध्यात्मिकादि-ताप-त्रयोपशान्तये निसृष्टं प्रयुक्तं स्निग्धेन स्मितेनानुगुणितं संपृक्तं विपुलः प्रसादो भक्तेष्व् अनुकम्पा-रूपो यस्मिंस् तम् इत्य् अर्थः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
हासं हरेरवनताखिललोकतीव्र-
शोकाश्रुसागरविशोषणमत्युदारम्।
सम्मोहनाय रचितं निजमाययास्य
भ्रूमण्डलं मुनिकृते मकरध्वजस्य॥
मूलम्
हासं हरेरवनताखिललोकतीव्रशोकाश्रुसागरविशोषणमत्युदारम्।
सम्मोहनाय रचितं निजमाययास्य भ्रूमण्डलं मुनिकृते मकरध्वजस्य॥ ३२ ॥
अनुवाद (हिन्दी)
श्रीहरिका हास्य प्रणतजनोंके तीव्र-से-तीव्र शोकके अश्रुसागरको सुखा देता है और अत्यन्त उदार है। मुनियोंके हितके लिये कामदेवको मोहित करनेके लिये ही अपनी मायासे श्रीहरिने अपने भ्रूमण्डलको बनाया है—उनका ध्यान करना चाहिये॥ ३२॥
वीरराघवः
हासम् इति । अवनता ये अखिल-लोकास् तेषां तीव्र-शोकेन यान्य् अश्रूणि तेषां सागरं विशोषयतीति तथा हरेर् हासं ध्यायेत् । अस्यात्युदारं भ्रू-मण्डलं ध्यायेत् कथम्भूतं मुनि-कृते मुनि-सम्मोहनाय प्रवृत्तस्य मकर-ध्वजस्य कामस्य सम्मोहनाय निज-मायया आत्मीय-सङ्कल्पेन रचितं परिगृहीतम् ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
ध्यानायनं प्रहसितं बहुलाधरोष्ठ-
भासारुणायिततनुद्विजकुन्दपङ्क्ति।
ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णो-
र्भक्त्याऽऽर्द्रयार्पितमना न पृथग्दिदृक्षेत्॥
मूलम्
ध्यानायनं प्रहसितं बहु8लाधरोष्ठभासारुणायिततनुद्विजकुन्दपङ्क्ति।
ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोर्भक्त्याऽऽर्द्रयार्पितमना न पृथग्दिदृक्षेत्॥ ३३ ॥
अनुवाद (हिन्दी)
अत्यन्त प्रेमार्द्रभावसे अपने हृदयमें विराजमान श्रीहरिके खिलखिलाकर हँसनेका ध्यान करे, जो वस्तुतः ध्यानके ही योग्य है तथा जिसमें ऊपर और नीचेके दोनों होठोंकी अत्यधिक अरुण कान्तिके कारण उनके कुन्दकलीके समान शुभ्र छोटे-छोटे दाँतोंपर लालिमा-सी प्रतीत होने लगी है। इस प्रकार ध्यानमें तन्मय होकर उनके सिवा किसी अन्य पदार्थको देखनेकी इच्छा न करे॥ ३३॥
वीरराघवः
मन्द-हास-ध्यानम् उक्त्वा स्पष्ट-हास-ध्यानम् आह । ध्यानायनम् इति । विष्णोः प्रहसितम् उच्चैर् हसितं ध्यायेत् कीदृशम् अति सुन्दरतया प्रयत्नं विनैव ध्यान-विषय-भूतं सौन्दर्यम् एव आह । बहुलया अधिकयाधरोष्ठस्य भासा ऽरुणीभूतास् तनवः सूक्ष्मा द्विजा दन्ता एव कुन्द-मुकुलानि तेषां पङ्क्तिर् यस्मिन् तत् । एवं ध्यानम् उक्त्वा समाधिम् आह । स्व-दहर-कुहरे हृदय-विवरे ऽवसितस्य ध्यातस्य विष्णोः प्रेम-रसेनार्द्रया भक्त्या तस्मिन्न् एवार्पित-मनाः सन् पृथग् व्यतिरिक्तं भगवद्-विग्रह-व्यतिरिक्तं न दिदृक्षे द्विजातीय-प्रत्ययं न कुर्याद् इत्य् अर्थः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
एवं हरौ भगवति प्रतिलब्धभावो
भक्त्या द्रवद्धृदय उत्पुलकः प्रमोदात्।
औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमान-
स्तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते॥
मूलम्
एवं हरौ भगवति प्रतिलब्धभावो भक्त्या द्रवद्धृदय उत्पुलकः प्रमोदात्।
औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमानस्तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते॥ ३४ ॥
अनुवाद (हिन्दी)
इस प्रकारके ध्यानके अभ्याससे साधकका श्रीहरिमें प्रेम हो जाता है, उसका हृदय भक्तिसे द्रवित हो जाता है, शरीरमें आनन्दातिरेकके कारण रोमांच होने लगता है, उत्कण्ठाजनित प्रेमाश्रुओंकी धारामें वह बारंबार अपने शरीरको नहलाता है और फिर मछली पकड़नेके काँटेके समान श्रीहरिको अपनी ओर आकर्षित करनेके साधनरूप अपने चित्तको भी धीरे-धीरे ध्येय वस्तुसे हटा लेता है॥ ३४॥
वीरराघवः
एवं दिव्य-विग्रह-चिन्तावसाने दिव्यात्म-स्व-रूप-चिन्ता तत्-प्रकारत्वेन प्रत्यग्-आत्म-चिन्ता च कार्येत्य् आह । एवम् इति द्वाभ्याम् । एवम् उक्त-विधया हरौ भगवति प्रतिलब्धः भावः प्रेमातिशयो येन भक्त्या इव द्रवद्-धृदयं यस्य प्रमोदाद् उद्गतानि पुलकानि यस्य औत्कण्ठ्य-प्रवृत्ताश्रु-कलया मुहुर् अर्द्यमानानन्द-सम्प्लवे निमज्जमानः चित्त-बडिशं बडिशं मत्स्य-बन्धनं दुर्ग्रहस्य भगवतो ग्रहणे मत्स्य-बन्धनम् इवोपाय-भूतं चित्तम् अपि ध्येयाद् भगवद्-विग्रहात् शनकैर् वियुङ्क्ते वियुञ्ज्यात् । यद् वा चित्तस्य बडिशं चित्तापहारिणं भगवद्-विग्रहं प्रति अपादानस्यैव कर्मत्व-विवक्षया द्वितीया, ततश् चित्ते वियुङ्क्ते इत्य् अर्थः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
मुक्ताश्रयं यर्हि निर्विषयं विरक्तं
निर्वाणमृच्छति मनः सहसा यथार्चिः।
आत्मानमत्र पुरुषोऽव्यवधानमेक-
मन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः॥
मूलम्
मुक्ताश्रयं यर्हि निर्विषयं विरक्तं निर्वाणमृच्छति मनः सहसा यथार्चिः।
आत्मानमत्र पुरुषोऽव्यवधानमेकमन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः॥ ३५ ॥
अनुवाद (हिन्दी)
जैसे तेल आदिके चुक जानेपर दीपशिखा अपने कारणरूप तेजस्-तत्त्वमें लीन हो जाती है, वैसे ही आश्रय, विषयऔर रागसे रहित होकर मन शान्त—ब्रह्माकार हो जाता है। इस अवस्थाके प्राप्त होनेपर जीव गुणप्रवाहरूप देहादि उपाधिके निवृत्त हो जानेके कारण ध्याता, ध्येय आदि विभागसे रहित एक अखण्ड परमात्माको ही सर्वत्र अनुगत देखता है॥ ३५॥
वीरराघवः
ततः यथार्चिः निर्धूम-दीप-शिखेव विरक्तं शब्दाद्य्-अप्रवणम् अत एव निर्विषयं शब्दादि-विषय-शून्यं यर्हि यदा मुक्ताश्रयं मुक्त-विग्रह-चिन्तनं मनः निर्वाणं बाह्य-व्यापारोपरतिम् ऋच्छति तदात्र परमात्मन्य् अव्यवधानं साक्षाद् एव प्रकारतया सम्बन्धम् एकं देहादि-भेद-रहितम् आत्मानं विशुद्धस्य रूपं प्रति निवृत्त-गुण-प्रवाहः, अपगत-देहात्माभिमान-स्वतन्त्रात्माभिमानः सन् ईक्षते परमात्म-प्रकारतया जीव-स्व-रूपं चिन्तयेद् इत्य् अर्थः ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
सोऽप्येतया चरमया मनसो निवृत्त्या
तस्मिन्महिम्न्यवसितः सुखदुःखबाह्ये।
हेतुत्वमप्यसति कर्तरि दुःखयोर्यत्
स्वात्मन् विधत्त उपलब्धपरात्मकाष्ठः॥
मूलम्
सोऽप्येतया चरमया मनसो निवृत्त्या तस्मिन्महिम्न्यवसितः सुखदुःखबाह्ये।
हेतुत्वमप्यसति कर्तरि दुःखयोर्यत् स्वात्मन् विधत्त उपलब्धपरात्मकाष्ठः॥ ३६ ॥
अनुवाद (हिन्दी)
योगाभ्याससे प्राप्त हुई चित्तकी इस अविद्यारहित लयरूप निवृत्तिसे अपनी सुख-दुःखरहित ब्रह्मरूप महिमामें स्थित होकर परमात्मतत्त्वका साक्षात्कार कर लेनेपर वह योगी जिस सुख-दुःखके भोक्तृत्वको पहले अज्ञानवश अपने स्वरूपमें देखता था, उसे अब अविद्याकृत अहंकारमें ही देखता है॥ ३६॥
वीरराघवः
एवं सप्रपञ्चं भक्ति-योगम् उपपाद्याथानया भक्त्याप्रयाणाद् अनुवर्तमानया प्रारब्धावसाने परमात्मानं प्राप्तस्य न पुनः संसार इत्य् आह । सो ऽपीति । चरमया प्रत्याहाराद्य्-अपेक्षया चरमया यद् वा प्रारब्धावसान-पर्यन्तम् अनुवर्तमानया एतयोक्तया मनसो ऽनिवृत्त्या निवृत्तिर् निर्व्यापारः तद्-इतरा ऽनिवृत्तिः मनो-व्यापार-रूपया भक्त्येत्य् अर्थः । निवृत्त्येति छेदे मनसो निवृत्त्या न विद्यते वृत्तिः शब्दादि-विषया यस्यां तया एतया भक्त्योपलब्धा परमात्मनः काष्ठा स्व-रूपं यस्य सः । अत एव सुख-दुःखातिगे स्वे महिम्नि अपहत-पाप्मत्वादि-गुणाष्टक-लक्षणे महिम्नि अवसितो ऽध्यवसितः स्थितम् इत्य् अर्थः परमात्मानम् उपसम्पद्याविर्भूत-स्व-स्व-रूप इत्य् अर्थः, परमात्म-प्राप्ति-पूर्वको हि स्व-स्व-रूपाविर्भावः । तथा च श्रूयते “एष सम्प्रसादो ऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते” इति स्वात्मन् स्वात्मनि पूर्वं दुःखयोः सुख-दुःखयोर् यद्-हेतुत्वं हेतुर् देहात्माभिमान-स्वतन्त्रात्माभिमानादिस् तस्य भावस् तत्त्वं तद् अपि कर्तरि गमनादि-बाह्य-व्यापाराश्रये ऽसति देहे निमित्त-भूते विधत्ते करोति, कर्मायत्त-प्रकृति-परिणाम-रूप-देह-सम्बन्धायत्तम् एव सुख-दुःखादि-हेतु-देहात्माभिमानादिकं पश्यतीत्य् अर्थः । देहात्माभिमानादिकं पूर्व-सिद्धं पुनर् न भजतीत्य् अर्थः ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
देहं च तं न चरमः स्थितमुत्थितं वा
सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम्।
दैवादुपेतमथ दैववशादपेतं
वासो यथा परिकृतं मदिरामदान्धः॥
मूलम्
देहं च9 तं न चरमः स्थितमुत्थितं वा सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम्।
दैवादुपेतमथ 10दैववशादपेतं वासो यथा परिकृतं मदिरामदान्धः॥ ३७ ॥
अनुवाद (हिन्दी)
जिस प्रकार मदिराके मदसे मतवाले पुरुषको अपनी कमरपर लपेटे हुए वस्त्रके रहने या गिरनेकी कुछ भी सुधि नहीं रहती, उसी प्रकार चरमावस्थाको प्राप्त हुए सिद्ध पुरुषको भी अपनी देहके बैठने-उठने अथवा दैववश कहीं जाने या लौट आनेके विषयमें कुछ भी ज्ञान नहीं रहता; क्योंकि वह अपने परमानन्दमय स्वरूपमें स्थित है॥ ३७॥
वीरराघवः
किमु वक्तव्यं पूर्व-सिद्ध-देहात्माभिमानादिकं न करोतीति यतः प्राक्तनं देहम् अपि न स्मरतीत्य् आह । देहम् इति । चरमः प्रारब्धावसान-पर्यन्तम् अनुवृत्त-प्रत्ययः ततः सिद्धः परमात्मोपसंपत्त्याविर्भूत-स्व-स्व-रूपः दैवाद् ईश्वर-सङ्कल्पाद् उपेतं प्राप्तं पुनर् दैवाद् अपेतम् अपगतम् अवस्थितं दाहादि-संस्कार-रहितत्वेन स्थितम् उत्थितं दाहादिभिः संस्कृतं वा उत्थानं दाहादीनाम् अप्य् उपलक्षणं देहं च न पश्यति न स्मरति अत्र “यद् उ चास्मिञ् शव्यं च कुर्वन्ति यद् उ च न नोपजनं स्मरन्न् इदं शरीरम्" इत्य्-आदि-श्रुत्य्-अर्थो ऽभिप्रेतः । शव्यं शव-सम्बन्धि कर्म उपजनं स्व-जनानां समीपे उपशोच्यं कुतो न पश्यति यतः स्व-रूपम् आनन्द-रूपम् आविर्भूत-गुणाष्टकं स्व-स्व-रूपम् अध्यगमत् प्राप्तवान् नित्य-निरतिशयानन्द-ब्रह्म-स्व-रूपं तत्-प्रकारं प्रत्यग्-आत्मानं चानुभवन्न् आनन्द-सम्प्लवे निमज्जन् प्राक्तन-देहादिकं न स्मरतीत्य् अर्थः । न पश्यतीत्य् अत्र दृष्टान्तः मदिरायाः सुराया मदेनान्धः पर-वशः परिकृतं परिधृतं वासः वस्त्रं न पश्यति तद्-वत् केचिद् इमं श्लोकम् उपासना-दशायाम् एव तज्-जनितानन्द-पूर्णः किम् अपि देहादिकं न पश्यतीत्य् एवं परत्वेन व्याचक्षते । तन् मन्दं, यतो ऽध्यगमत् स्वरूपम् इति हेतूपन्यासात् “परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते” इति परमात्म-प्राप्त्य्-आनन्तर्य-श्रवणात् स्व-रूप-प्राप्तेः साक्षात्-कृत-परमात्म-स्व-रूपाणाम् अपि सनकादीनां देहादि दर्शनाच् चातो यथोक्त एवार्थः साधीयान् ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
देहोऽपि दैववशगः खलु कर्म यावत्
स्वारम्भकं प्रतिसमीक्षत एव सासुः।
तं सप्रपञ्चमधिरूढसमाधियोगः
स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः॥
मूलम्
देहोऽपि दैववशगः खलु कर्म यावत् स्वारम्भकं प्रतिसमीक्षत एव सासुः।
तं सप्रपञ्चमधिरूढसमाधियोगः स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः॥ ३८ ॥
अनुवाद (हिन्दी)
उसका शरीर तो पूर्वजन्मके संस्कारोंके अधीन है; अतः जबतक उसका आरम्भक प्रारब्ध शेष है तबतक वह इन्द्रियोंके सहित जीवित रहता है; किन्तु जिसे समाधिपर्यन्त योगकी स्थिति प्राप्त हो गयी है और जिसने परमात्मतत्त्वको भी भलीभाँति जान लिया है, वह सिद्धपुरुष पुत्र-कलत्रादिके सहित इस शरीरको स्वप्नमें प्रतीत होनेवाले शरीरोंके समान फिर स्वीकार नहीं करता—फिर उसमें अहंता-ममता नहीं करता॥ ३८॥
वीरराघवः
एवम्-विध-भक्ति-योग-निष्ठस्य कदा मुक्तिः किमु मुक्तस्य पुनर् आवृत्तिः स्याद् इत्य् आशङ्कां शमयन्न् आह । देहो ऽपीति । दैव-वशगः ईश्वर-सङ्कल्प-रूप-पुण्यापुण्यायत्तः देहो ऽपि स्वारम्भकं स्व-सत्ता-निमित्तं कर्म यावद्-यावन् न नश्यति तावत् सासुरिन्द्रिय-प्राण-सहितः प्रतिसमीक्षत एव खलु यावत् स्वारम्भकं कर्म प्रतिसमीक्षत इति वान्वयः, खलु-शब्देन श्रुति-प्रसिद्धिर् द्योत्यते तथा च श्रुतिः “तस्य तावद् एव चिरं यावन् न विमोक्ष्ये ऽथ सम्पत्स्यते” इति प्रारब्धावसानावधि-विलम्ब इत्य् अर्थः, अधिरूढः समाधि-योगो येन सः ततः प्रतिबुद्धम् आविर्भूतं वस्तु गुणाष्टक-विशिष्टम् आत्म-स्व-रूपं यस्य सः प्रारब्धावसाने मुक्तिं प्राप्त इत्य् अर्थः । स्वाप्नं स्वप्न-पदार्थ-तुल्यं तद्-वद् अनित्यम् इत्य् अर्थः, स-प्रपञ्चं पुत्र-कलत्रादि-संहितं तं देहं पुनर् न भजते न प्राप्नोति “न च पुनर् आवर्तते, सर्गे ऽपि नोपजायन्ते प्रलये न व्यथन्ति च” इत्याद्य् अत्रानुसन्धेयम् ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
यथा पुत्राच्च वित्ताच्च पृथङ्मर्त्यः प्रतीयते।
अप्यात्मत्वेनाभिमताद्देहादेः पुरुषस्तथा॥
मूलम्
यथा पुत्राच्च वित्ताच्च पृथङ्मर्त्यः प्रतीयते।
अप्यात्मत्वेनाभिमताद्देहादेः पुरुषस्तथा॥ ३९ ॥
अनुवाद (हिन्दी)
जिस प्रकार अत्यन्त स्नेहके कारण पुत्र और धनादिमें भी साधारण जीवोंकी आत्मबुद्धि रहती है, किन्तु थोड़ा-सा विचार करनेसे ही वे उनसे स्पष्टतया अलग दिखायी देते हैं, उसी प्रकार जिन्हें यह अपना आत्मा मान बैठा है, उन देहादिसे भी उनका साक्षी पुरुष पृथक् ही है॥ ३९॥
वीरराघवः
एवं काचित् त्वय्य् उचिता भक्तिः कीदृशी मम गोचरेत्य् अस्योत्तरम् उक्तम् । अथ पुरुषं प्रकृतिर् ब्रह्मन् न विमुञ्चतीति प्रश्नस्य यद् उत्तरम् उक्तं प्रकृति-विलक्षणात्म-स्व-रूप-चिन्तन-पूर्वक-स्व-वर्णाश्रम-धर्माद्य्-अनुगृहीत-भगवद्-भक्ति-योगात् प्रकृति-सम्बन्ध-राहित्य-रूप-कैवल्य-सिद्धिर् इति तद् उपसंहर्तुं पूर्वोक्तम् एव प्रकृति-पुरुषेश्वराणां मिथो ऽत्यन्त-वैलक्षण्यं सदृष्टान्तम् अनुवदति । यथेति पञ्चभिः । तत्रैकेन देहात्मनो वैलक्षण्यं ततो द्वाभ्यां प्रकृति-पुरुषाभ्यां परमात्मनः, तत एकेन जीवानां परस्पर-साम्यं, तत एकेन जीवानां देह-कृतो देवादि-भेदो न स्वत इत्य् उच्यते इति विवेकः । यथात्यन्त-प्रीति-विषयात् पुत्राद् वित्ताच् च मर्त्यः पृथग् एव प्रतीयते तथात्यन्त-प्रियत्वेनात्मत्वेन स्वाभिन्नत्वेनाभिमताद् देहादेर् अपि पुरुषः प्रत्यगात्मा पृथग् एवेत्य् अर्थः ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
यथोल्मुकाद्विस्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात्।
अप्यात्मत्वेनाभिमताद्यथाग्निः पृथगुल्मुकात्॥
मूलम्
यथोल्मुकाद्विस्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात्।
अप्यात्मत्वेनाभिमताद्यथाग्निः पृथगुल्मुकात्॥ ४० ॥
वीरराघवः
यथेति । आत्मत्वेनाभिमताद् अत्यन्ताविवेकिनो ऽग्न्य्-अभिन्नत्वेनाभिमतात् स्व-सम्भवाद् अग्नेर् उत्पन्नाद् धूमाद् उल्मुकाद् विस्फुलिङ्गाच् चाप्यग्निर् यथा पृथग् उच्यते ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
भूतेन्द्रियान्तःकरणात्प्रधानाज्जीवसंज्ञितात्।
आत्मा तथा पृथग्द्रष्टा भगवान् ब्रह्मसंज्ञितः॥
मूलम्
भूतेन्द्रियान्तःकरणात्प्रधानाज्जीवसंज्ञितात्।
आत्मा तथा पृथग्द्रष्टा भगवान् ब्रह्मसंज्ञितः॥ ४१ ॥
अनुवाद (हिन्दी)
जिस प्रकार जलती हुई लकड़ीसे, चिनगारीसे, स्वयं अग्निसे ही प्रकट हुए धूएँसे तथा अग्निरूप मानी जानेवाली उस जलती हुई लकड़ीसे भी अग्नि वास्तवमें पृथक् ही है—उसी प्रकार भूत, इन्द्रिय और अन्तःकरणसे उनका साक्षी आत्मा अलग है तथा जीव कहलानेवाले उस आत्मासे भी ब्रह्म भिन्न है और प्रकृतिसे उसके संचालक पुरुषोत्तम भिन्न हैं॥ ४०-४१॥
वीरराघवः
तथाभूतेन्द्रियान्तः-करण-रूपात्-प्रधानाज् जीव-संहितात् क्षेत्रज्ञाच् चात्मा तयोर् अन्तः प्रविश्य प्रशासनेन धारकः द्रष्टा सर्वज्ञो भगवान् षाड्गुण्य-पूर्णो ब्रह्म-संज्ञितः साक्षाद्-ब्रह्म-पद-वाच्यः पृथग् एवेत्य् अर्थः । अत्र दृष्टान्तो धूमः प्रधान-स्थाने उल्मुकादिकं जीव-स्थाने वेदितव्यम् ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि।
ईक्षेतानन्यभावेन भूतेष्विव तदात्मताम्॥
मूलम्
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि।
ईक्षेतानन्यभावेन भूतेष्विव तदात्मताम्॥ ४२ ॥
अनुवाद (हिन्दी)
जिस प्रकार देहदृष्टिसे जरायुज, अण्डज, स्वेदज और उद्भिज्ज—चारों प्रकारके प्राणी पंचभूतमात्र हैं, उसी प्रकार सम्पूर्ण जीवोंमें आत्माको और आत्मामें सम्पूर्ण जीवोंको अनन्यभावसे अनुगत देखे॥ ४२॥
वीरराघवः
सर्व-भूतेषु देवादि-चतुर्विध-शरीरेष्व् आत्मानं तेष्व् अन्तः प्रविश्य धारकत्वेनावस्थितं जीवात्मानम् अनन्य-भावेन सर्वत्र ज्ञानैकाकारत्वाणु-परिमाणत्वाद् एक-रूप्येणैवेक्षेत आत्मानम् इत्य् एक-वचन-निर्देशः एको व्रीहिर् इत्य् आदि-वज् जात्य् अभिप्रायकः तथा आत्मनि धार्यतयावस्थितानि सर्व-भूतानि देवादि-चतुर्विध-भूतान्य् अनन्य-भावेन कर्मायत्तावान्तर-वैचित्र्यं परित्यज्य प्रकृति-परिणाम-रूपत्वेनैक-रूपेण पश्येत् भूतेष्व् अपि अपि-शब्दाज् जीवेष्व् अपि तदात्मता परमात्मकत्वम् ईक्षेत ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
स्वयोनिषु यथा ज्योतिरेकं नाना प्रतीयते।
योनीनां गुणवैषम्यात्तथाऽऽत्मा प्रकृतौ स्थितः॥
मूलम्
स्वयोनिषु यथा ज्योतिरेकं नाना प्रतीयते।
योनीनां गुणवैषम्यात्तथाऽऽत्मा प्रकृतौ स्थितः॥ ४३ ॥
अनुवाद (हिन्दी)
जिस प्रकार एक ही अग्नि अपने पृथक्-पृथक् आश्रयोंमें उनकी विभिन्नताके कारण भिन्न-भिन्न आकारका दिखायी देता है, उसी प्रकार देव-मनुष्यादि शरीरोंमें रहनेवाला एक ही आत्मा अपने आश्रयोंके गुण-भेदके कारण भिन्न-भिन्न प्रकारका भासता है॥ ४३॥
वीरराघवः
स्वयोनिषु । तृण-दार्वादिषु एकम् एव ज्योतिर् अग्निर्-योनीनां गुण-वैषम्याद् योनि-भूत-तृण-दार्वादि-गत-ह्रस्व-दीर्घ-कुटिलत्वादि-गुण-कृत-वैषम्याद् यथा नाना प्रतीयते तथा प्रकृतो देवादि-शरीरे स्थितः आत्मा प्रत्यग् आत्मापि देवादि-कृत-भेदेन नाना प्रतीयते । वस्तुतस् तु सर्वत्र ज्ञानैकाकारतयैक-रूप एवेत्य् अर्थः ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
तस्मादिमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम्।
दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते॥
मूलम्
तस्मादिमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम्।
दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते॥ ४४ ॥
अनुवाद (हिन्दी)
अतः भगवान्का भक्त जीवके स्वरूपको छिपा देनेवाली कार्यकारणरूपसे परिणामको प्राप्त हुई भगवान्की इस अचिन्त्य शक्तिमयी मायाको भगवान्की कृपासे ही जीतकर अपने वास्तविक स्वरूप—ब्रह्मरूपमें स्थित होता है॥ ४४॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे का11पिलेये साधनानुष्ठानं नामाष्टाविंशोऽध्यायः॥ २८ ॥
वीरराघवः
पुरुषं प्रकृतिर् ब्रह्मन्न् इति प्रश्नस्योत्तरम् उपसंहरति । तस्माद् इति । दैवीं देवस्य विष्णोः सम्बन्धिनीं सदसदात्मिकां कार्य-कारण-रूपेणावस्थितां दुर्विभाव्यां दुरत्ययाम् इमां स्व-प्रकृतिं स्व-सम्बन्धिनीं प्रकृतिं पराभाव्य उक्त-विध-भगवद्-भक्ति-योगेन तिरोभाव्य स्व-रूपेण गुणाष्टक-विशिष्ट-स्व-रूपेणावतिष्ठते न पुनः संसरतीत्य् अर्थः ॥ ४४ ॥
इति श्रीमद्-भागवते महा-पुराणे तृतीय-स्कन्धे श्रीमद्-वीर-राघवाचार्य-कृत-भागवत-चन्द्र-चन्द्रिकायाम् अष्टाविंशो ऽध्यायः ॥ २८ ॥
-
प्रा. पा. - स्वस्तिकमासी । ↩︎
-
प्रा. पा. - षम् । ↩︎
-
प्रा. पा. - भूत्या । ↩︎
-
प्राचीने पाठे ‘जानुद्वयं….’ इत्यारभ्य ‘…कुर्यात्’ पर्यन्तं सम्पूर्ण एकः श्लोकः मूले नास्ति टिप्पण्यां लिखितः । ↩︎
-
प्रा. पा. - मणिदशस्त । ↩︎
-
प्राचीने पाठे ‘२’ तः ‘३’ चिह्नमध्यगतोऽशः मूले खण्डितः टिप्पण्यां लिखितः । ↩︎
-
प्रा. पा. - वितत । ↩︎
-
प्रा. पा. - बहला । ↩︎
-
प्रा. पा. - तु । ↩︎
-
प्राचीने पाठे ‘दैववशा० दारभ्य ३९ तमश्लोकस्थ ‘नाभिमता’ऽवधिकोंऽशः मूले नास्ति टिप्पण्यां वर्तते । ↩︎
-
प्राचीने पाठे ‘कापिलेये साधनानुष्ठानं नाम’ इत्यंशो न । ↩︎