[सप्तविंशोऽध्यायः]
भागसूचना
प्रकृति-पुरुषके विवेकसे मोक्ष-प्राप्तिका वर्णन
श्लोक-१
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः।
अविकारादकर्तृत्वान्निर्गुणत्वाज्जलार्कवत्॥
मूलम्
प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः।
अविकारादकर्तृत्वान्निर्गुणत्वाज्जलार्कवत्॥ १ ॥
अनुवाद (हिन्दी)
श्रीभगवान् कहते हैं—माताजी! जिस तरह जलमें प्रतिबिम्बित सूर्यके साथ जलके शीतलता, चंचलता आदि गुणोंका सम्बन्ध नहीं होता, उसी प्रकार प्रकृतिके कार्य शरीरमें स्थित रहनेपर भी आत्मा वास्तवमें उसके सुख-दुःखादि धर्मोंसे लिप्त नहीं होता; क्योंकि वह स्वभावसे निर्विकार, अकर्ता और निर्गुण है॥ १॥
वीरराघवः
एवं जगत्-सृष्ट्य्-आदि-व्यापार-कथनेन भजनीयस्य भगवत ऐश्वर्यम् आवेद्य तत्-प्राप्त्य्-उपाय-भूत-भक्ति-योगाङ्गात्म-याथात्म्य-ज्ञान-योगम् उपपिपादयिषुर् अतीन्द्रियम् आत्म-स्व-रूपं कथम् अनुसन्धातुं शक्यम् इत्य् आशङ्कां वारयितुं तस्य प्रत्यगात्मनो जागराद्य्-अवस्थासु विशदतरावभासं कथयिष्यन् तस्यैतस्यात्मनः प्रकृति-संसर्ग-कृतम् एव जागराद्य्-अवस्था-रूप-सांसारिक-प्रवृत्तिषु कर्तृत्वं तद्-आयत्त-सुख-दुःख-भोक्तृत्वञ् च न स्व-रूप-प्रयुक्तम् इति पूर्वोक्तम् अनुवदति । प्रकृतिस्थ इति । पुरुषो जीवः प्रकृतिस्थो ऽपि देहस्थो ऽपि प्राकृतैर् गुणैर् धमैर् देवत्व-मनुष्यत्वादि-हेतुकैः सुख-दुःखादिभिश् च नाज्यते स्वतो न स्पृश्यते, कुतः अविकारात् खतो देव-मनुष्यादि-रूपेण परिणामाभावात् अकर्तृकत्वाद् गमनादि-बाह्य-सांसारिक-व्यापाराश्रयत्वाभावात् निर्गुणत्वात् स्वतः सत्त्वादि-गुणान्वयाभावात् स्वतो नाज्यते इत्य् अत्र दृष्टान्तः । जलार्कवद् इति । मठाकाशादेर् अप्य् उपलक्षणम् इदं, ननु जलादिषु सूर्यादयो भ्रान्त्या तत्रस्था इव गृह्यन्ते न परमार्थतस् तत्रस्थाः, अतो जल-गत-वृद्धि-ह्रास-कम्पनादि-दोषास्पर्शः सूर्यादिषु युक्तः । प्रत्यग्-आत्मनस् तु देवादि-शरीरेष्व् अवस्थितेः कथं तद्-गुणैर् नाज्यते इत्य् उच्यते इति चेद् उच्यते देश-विप्रकर्षः काल-विप्रकर्षः स्व-भाव-विप्रकर्षश् च इति त्रिधा विप्रकर्षः । अत्रैक-विप्रकर्षो ऽपि दोष-स्पर्शस्य हेतुः । अत्र देश-विप्रकर्षस्योदाहरणं जल-सूर्यादिः । स्व-भाव-विप्रकर्षस्योदाहरणम् आकाशादिः, तत्र देश-विप्रकर्षवत् स्वभाव-विप्रकर्षस्यापि दोषास्पर्श-हेतुत्वात् यथा घट-करकादिषु वृद्धि-ह्रास-भाक्षु पृथक् पृथक् संयुज्यमानम् अप्य् आकाशं वृद्धि-ह्रासादि-दोषैः न स्पृश्यते, यथा जलाधारेषु विषमेषु दृश्यमानो ऽप्य् अंशुमान् देश-विप्रकर्षात् तत्-तद्-गत-वृद्धि-ह्रासादिभिर् न स्पृश्यते तथायं प्रत्यग्-आत्मापि देवादि-चतुर्विध-शरीरेष्व् अवस्थितस् तद्-गतैर् धर्मैः स्वतो नाज्यते स्वभाव-विप्रकर्षाद् इति । तर्ह्य् आकाश एव दृष्टान्तीकर्तव्यो नार्क इति चेन् न, दोषास्पर्श-मात्राभिप्रायकत्वाद् दृष्टान्तस्य । दृश्यते चैवं सर्वात्मना साधर्म्याभावे ऽपि विवक्षितांश-साधर्म्याद् दृष्टान्तोपादानं सिंहो माणवक इत्य्-आदौ । यद् वा प्रकृति-गता देवत्व-मनुष्यत्वादयः प्रकृतेर् एव धर्मा नात्मनः, तस्य देव-मनुष्याद्य्-आकारस्य स्वतो ऽभावात् देवो ऽयं मनुष्यो ऽयम् इति प्रतीत्या ते ऽप्य् आत्माकारा इति चेत् सा प्रतीतिर् भ्रान्ति-रूपेति सदृष्टान्तम् आह । प्रकृतिस्थ इति । देहस्थो ऽपि पुरुषो जीवः अकर्तृत्वादिभ्यो हेतुभ्यः प्राकृतैर् गुणैर् देवत्वादि-धर्मैर् नाज्यते अत्राञ्जिर् गत्य् अर्थः, स्वतो देवत्वादि-वैशिष्ट्येन न गम्यते तथा नानुसन्धीयत इति यावत् । तत्र दृष्टान्तः । जलार्कवद् इति । यथा जले प्रतिबिम्बितः सूर्यो जल-गतैर् धर्मैर् विशिष्टत्वेन परमार्थतो नाप्रतीयते तेषां जलगतत्वात् । एवं प्रकृति-धर्मैर् आत्मापि परमार्थतो न प्रतीयते, तेषां प्रकृत्य्-आकारत्वेनात्माकारत्वाभावात् तेषाम् आत्म-गतत्वेन प्रतीतिर् भ्रान्ति-रूपेत्य् अर्थः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
स एष यर्हि प्रकृतेर्गुणेष्वभिविषज्जते।
अहंक्रियाविमूढात्मा कर्तास्मीत्यभिमन्यते॥
मूलम्
स एष यर्हि प्रकृतेर्गुणेष्वभिविषज्जते।
अहंक्रियाविमूढात्मा कर्तास्मीत्यभिमन्यते॥
मूलम् - कर्णावती
स एष यर्हि प्रकृतेर्गुणेष्वभिविषञ्जते।
अहंक्रियाविमूढात्मा कर्तास्मीत्यभिमन्यते॥ २ ॥
अनुवाद (हिन्दी)
किन्तु जब वही प्राकृत गुणोंसे अपना सम्बन्ध स्थापित कर लेता है, तब अहंकारसे मोहित होकर ‘मैं कर्ता हूँ’—ऐसा मानने लगता है॥ २॥
वीरराघवः
एवं-विधस्यात्मनः कथं देव-मनुष्यादि-देह-योगः कथं वा सांसारिक-प्रवृत्तिषु कर्तृत्वं सुख-दुःखानुभवश् चेत्य् आशङ्कायां सर्वम् इदं देहात्माभिमान-स्वतन्त्रात्माभिमान-कृतम् इत्य् आह । स इति । स एष प्रकृति-विलक्षणो ऽप्य् आत्मा अहंक्रिया-विमूढात्मा अहंक्रिया ऽनात्मनि देहे आत्माभिमानः तथा विमूढं तिरोहितम् आत्म-स्व-रूपं यस्य स यर्हि यदा प्रकृतेर् गुणेषु शब्दादिषु विषज्जते शब्दादि-विषय-प्रवणः स्यात् यदा च कर्तास्मीति स्वतन्त्र इत्य् अभिमन्यते । अनेन स्वतन्त्राभिमानो ऽपि बन्ध-हेतुर् इत्य् उक्तम् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
तेन संसारपदवीमवशोऽभ्येत्यनिर्वृतः।
प्रासङ्गिकैः कर्मदोषैः सदसन्मिश्रयोनिषु॥
मूलम्
तेन संसारपदवीमवशोऽभ्येत्यनिर्वृतः।
प्रासङ्गिकैः कर्मदोषैः सदसन्मिश्रयोनिषु॥ ३ ॥
अनुवाद (हिन्दी)
उस अभिमानके कारण वह देहके संसर्गसे किये हुए पुण्य-पापरूप कर्मोंके दोषसे अपनी स्वाधीनता और शान्ति खो बैठता है तथा उत्तम, मध्यम और नीच योनियोंमें उत्पन्न होकर संसारचक्रमें घूमता रहता है॥ ३॥
वीरराघवः
तदा तेन उभय-विधाभिमानेनावशः कर्म-परतन्त्रः सन्न् अत एवानिर्वृतः कर्मायत्त-सुख-दुःखोपभोगेन नितरां सुखम् अलभमानः प्रासङ्गिकैः प्रकृति-संसर्ग-कृतैः कर्म-दोषैः पुण्यापुण्य-रूपैर् दोषैः सद्-असत्-मिश्र-योनिषु उत्तमाधम-मध्यम-भूतेषु देव-तिर्यङ्-नरादिषु संसार-पदवीम् अभ्येति प्राप्नोति ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते।
ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा॥
मूलम्
अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते।
ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो1 यथा॥ ४ ॥
अनुवाद (हिन्दी)
जिस प्रकार स्वप्नमें भय-शोकादिका कोई कारण न होनेपर भी स्वप्नके पदार्थोंमें आस्था हो जानेके कारण दुःख उठाना पड़ता है, उसी प्रकार भय-शोक, अहं-मम एवं जन्म-मरणादिरूप संसारकी कोई सत्ता न होनेपर भी अविद्यावश विषयोंका चिन्तन करते रहनेसे जीवका संसार-चक्र कभी निवृत्त नहीं होता॥ ४॥
वीरराघवः
ननु देवाद्याकाराणाम् आत्मनः स्वाभाविकाकारत्वाभावात् तैः को ऽनर्थः आत्मन इत्य् अत्राह । अर्थेति । अर्थे आत्मनो देवत्व-मनुष्यत्वाद्य्-आकारे स्वतो ऽविद्यमाने ऽपि अस्यात्मनः विषयान् शब्दादीन् ध्यायतश् चिन्तयतः संसृतिर् न निवर्तते संसार-रूपो ऽनर्थो न निवर्तते तथा स्वप्न-शरीराणाम् आत्माकारत्वाभावे ऽपि स विषय-चिन्तन-द्वारा सुख-दुःख-रूपानर्थ-हेतुत्वं तद्-वज् जागरे ऽपि देहाकाराणाम् आत्मत्वाभावे ऽपि विषय-प्रावण्य-जनन-द्वारान्-अर्थ-रूप-बन्ध-हेतुत्वम् इत्य् अर्थः । हि यस्मात् तद् एवम् ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
अत एव शनैश्चित्तं प्रसक्तमसतां पथि।
भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम्॥
मूलम्
अत2 एव शनैश्चित्तं प्रसक्तमसतां पथि।
भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम्॥ ५ ॥
अनुवाद (हिन्दी)
इसलिये बुद्धिमान् मनुष्यको उचित है कि असन्मार्ग (विषय-चिन्तन) में फँसे हुए चित्तको तीव्र भक्तियोग और वैराग्यके द्वारा धीरे-धीरे अपने वशमें लावे॥ ५॥
वीरराघवः
एवं मनो नियन्तव्यम् इत्याह । अत एवेति । असतां प्रकृति-परिणाम-रूपाणाम् इन्द्रियाणां पथि शब्दादि-विषये प्रसक्तं नितराम् आसक्तं चित्तं तीव्रेणान्तरायानुपहतेन भगवद्-भक्ति-योगेन विरक्त्या कामानभिष्वङ्गेण च शनैः वशं नयेत् स्व-वशं कुर्यात् । विरक्तिः साधन-सप्त-कोप-लक्षणं विरक्त्यानुगृहीत-भगवद्-भक्त्या स्व-समीहित-भगवद्-अनुचिन्तन-परं कुर्यात् । एवं चेत् बन्धो निवर्तत इति भावः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
यमादिभिर्योगपथैरभ्यसन् श्रद्धयान्वितः।
मयि भावेन सत्येन मत्कथाश्रवणेन च॥
मूलम्
यमादिभिर्योगपथैरभ्यसन् श्रद्धयान्वितः।
मयि भावेन सत्येन मत्कथाश्रवणेन च॥॥ ६ ॥
मूलम् - कर्णावती
यमादिभिर्योगपथैरभ्यसन् श्रद्धयान्वितः।
मयि भावेन सत्येन मत्कथाश्रवणेन च3॥ ६ ॥
वीरराघवः
भक्ति-योगानुग्राहकाण्य् एव वर्णयन् भक्त्या मोक्ष-प्रकारम् आह षड्भिः । श्रद्धया मनो-नियमन-विषयया त्वरया युक्तः योग-पथैः भक्ति-योगेति-कर्त्तव्यता-भूतैर् यमादिभिः शम-दमादिभिः मयीश्वरे भावेन माता पिता भ्राता इत्य् उक्त-विध-भावेन सत्येन सत्य-वचनेन ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः।
ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा॥
मूलम्
सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः।
ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा4॥ ७ ॥
वीरराघवः
सर्व-भूतेषु समत्वेन प्रकृति-पुरुष-शरीरकेश्वरात्मकत्वानुचिन्तनेन अत एव निर्वैरेण प्रसङ्गतः शब्दादि-विषयावाङ्ग-सक्त्या ब्रह्म-चर्येण स्त्री-सङ्गादि-राहित्येन मौनेन मित-वाक्येन बलीयसा भक्ति-योगानुग्राहकाणां मध्ये बलवत्तरेण स्व-धर्मेण स्व-वर्णाश्रमोचित-धर्मेण चाभ्यसन् भक्ति-योगम् इति शेषः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
यदृच्छयोपलब्धेन सन्तुष्टो मितभुङ् मुनिः।
विविक्तशरणः शान्तो मैत्रः करुण आत्मवान्॥
श्लोक-९
सानुबन्धे च देहेऽस्मिन्नकुर्वन्नसदाग्रहम्।
ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च॥
मूलम्
यदृच्छयोपलब्धेन सन्तुष्टो मितभुङ् मुनिः।
विविक्तशरणः शान्तो मैत्रः करुण आत्मवान्॥ ८ ॥
वीरराघवः
यदृच्छयोपस्थितेन दैवाद् उपनतेनान्नादिना सन्तुष्टः दैवाद् उपनतम् अपि मितम् एव भुञ्जानः मुनिः भोजनादि-दशास्व् अपि शुभाश्रय-संशीलन-परः विविक्त-शरण एकान्त-वसतिः शान्तः भयादि-रहितः मैत्रः भय-जनकैर् अपि भूतैर् मैत्रीम् एव कामयमानः करुणः तेष्व् अपि कारुणिकः आत्मवान् प्रशस्त-मनस्कः ॥ ८ ॥
श्लोक-९
मूलम्
सानुबन्धे च देहेऽस्मिन्नकुर्वन्नसदाग्रहम्।
ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च॥ ९ ॥
वीरराघवः
सानुबन्धे पुत्र-कलत्राद्य्-अनुबन्ध-सहिते ऽस्मिन् देहे ऽसद्-आग्रहं ममाभिमतिम् अकुर्वन् दृष्टं तत्त्वं याथात्म्यं यस्मिन् तेन प्रकृतेः पुरुषस्य च ज्ञानेन प्रकृति-पुरुषयोर् हेयोपादेयत्व-ज्ञानेनेत्य् अर्थः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः।
उपलभ्यात्मनाऽऽत्मानं चक्षुषेवार्कमात्मदृक्॥
मूलम्
निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः।
उपलभ्यात्मनाऽऽत्मानं चक्षुषेवार्कमात्मदृक्॥ १० ॥
वीरराघवः
निवृत्तानि बुद्धेर् मनसो ऽवस्थानानि सङ्कल्प-विकल्पादीनि यस्य सः, अत एव दूरी-भूतम् अन्यस्य भगवद्-व्यतिरिक्तस्य दर्शनं यस्य सः । आत्म-दृक् प्रकृति-विविक्तात्म-दर्शी ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
मुक्तलिङ्गं सदाभासमसति प्रतिपद्यते।
सतो बन्धुमसच्चक्षुः सर्वानुस्यूतमद्वयम्॥
मूलम्
मुक्तलिङ्गं सदाभासमसति5 प्रतिपद्यते।
सतो बन्धुमसच्चक्षुः सर्वानुस्यूतमद्वयम्॥ ११ ॥
अनुवाद (हिन्दी)
यमादि योगसाधनोंके द्वारा श्रद्धापूर्वक अभ्यास—चित्तको बारंबार एकाग्र करते हुए मुझमें सच्चा भाव रखने, मेरी कथा श्रवण करने, समस्त प्राणियोंमें समभाव रखने, किसीसे वैर न करने, आसक्तिके त्याग, ब्रह्मचर्य, मौन-व्रत और बलिष्ठ (अर्थात् भगवान्को समर्पित किये हुए) स्वधर्मसे जिसे ऐसी स्थिति प्राप्त हो गयी है कि—प्रारब्धके अनुसार जो कुछ मिल जाता है उसीमें सन्तुष्ट रहता है, परिमित भोजन करता है, सदा एकान्तमें रहता है, शान्तस्वभाव है, सबका मित्र है, दयालु और धैर्यवान् है, प्रकृति और पुरुषके वास्तविक स्वरूपके अनुभवसे प्राप्त हुए तत्त्वज्ञानके कारण स्त्री-पुत्रादि सम्बन्धियोंके सहित इस देहमें मैं-मेरेपनका मिथ्या अभिनिवेश नहीं करता, बुद्धिकी जाग्रदादि अवस्थाओंसे भी अलग हो गया है तथा परमात्माके सिवा और कोई वस्तु नहीं देखता—वह आत्मदर्शी मुनि नेत्रोंसे सूर्यको देखनेकी भाँति अपने शुद्ध अन्तःकरणद्वारा परमात्माका साक्षात्कार कर उस अद्वितीय ब्रह्मपदको प्राप्त हो जाता है, जो देहादि सम्पूर्ण उपाधियोंसे पृथक्, अहंकारादि मिथ्या वस्तुओंमें सत्यरूपसे भासनेवाला, जगत्कारणभूता प्रकृतिका अधिष्ठान, महदादि कार्य-वर्गका प्रकाशक और कार्य-कारणरूप सम्पूर्ण पदार्थोंमें व्याप्त है॥ ६—११॥
वीरराघवः
असति देहे चक्षुषा आदित्याधिष्ठित-चक्षुर्-इन्द्रियेणार्कम् अधिष्ठातारम् आदित्यम् इवात्मना परमात्माधिष्ठितेन प्रत्यग्-आत्मना आत्मानं परमात्मानम् उपलभ्य साक्षात् कृत्य पश्चान् मुक्त-लिङ्गः प्रारब्धावसाने मुक्त-देवादि-शरीरः, द्वितीयान्त-पाठे मुक्त-कर्मायत्त-देहादि-शरीरं सद्-आभासं नित्यासंकुचित-ज्ञान-स्व-रूपं सतः प्रत्यगात्मनः बन्धुं “पिता च रक्षकः शेषी भर्ता” इत्य्-आद्य्-उक्त-सर्व-विध-बन्धुम् असच्-चक्षुः असतो देहादेर् अपि चक्षुर् इव प्रकाशकं “तस्य भासा सर्वम् इदं विभाति" इति श्रुतेः, सर्वानुस्यूतं सर्वान्तर्यामिणम् अद्वयं स्व-समाभ्यधिक-रहितं परम-पुरुषं प्रतिपद्यते प्राप्नोति ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
यथा जलस्थ आभासः स्थलस्थेनावदृश्यते।
स्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थितः॥
मूलम्
यथा जलस्थ आभासः स्थलस्थेनावदृश्यते।
स्वाभासेन तथा6 सूर्यो जलस्थेन दिवि स्थितः॥ १२ ॥
वीरराघवः
आत्मदृग्-आत्मनात्मानम् उपलभ्येत्य् अनेन प्रकृति-विविक्त-स्वात्म-स्व-रूपं पश्यन्न् एव तद्-अन्तर्यामिणं परमात्मानम् उपलभ्य तं प्रतिपद्यत इत्य् उक्तं, तत्र कथम् अतीन्द्रियं निरतिशय-सूक्ष्मम् आत्म-स्व-रूपं दर्शन-योग्यम् इत्य् आशङ्कायां देहेन्द्रियादिभ्यो विलक्षणात्म-स्व-रूप-प्रत्यवमर्शन-प्रकारम् आत्मोपलम्भस्य जागराद्य्-अवस्थास्व् अति-विशद-तरत्व-कथन-मुखेन सदृष्टान्तम् आह । यथेति । प्रथमं दृष्टान्तं शिक्षयति यथेत्य् एकेन, स्थल-स्थेनाभासेन तृण-लोष्टादि-प्रकाशकेनादित्यालोकेनैवेत्य् अर्थः, जलस्थ आभास आदित्य-प्रतिबिम्बं दृश्यते अनादित्ये आदित्य-बुद्धिर् हि सा तथा स्वाभासेन स्वालोकेन जल-स्थेन जले ऽपि प्रतिबिम्बं प्रकाशयता तेनैव दिवि स्थितः साक्षाद् आदित्यो दृश्यते । अनादित्यादित्ययोर् आदित्यावलोकेनैव प्रतीतिर् इत्य् अर्थः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोमयैः।
स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक्॥
मूलम्
एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोमयैः।
स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक्॥ १३ ॥
वीरराघवः
दृष्टान्तेन शिक्षितम् अर्थं दार्ष्टान्तिके दर्शयति । एवम् इति । एवं भूतेन्द्रिय-मनोमयैः भूतेन्द्रिय-मनात्मकैस् त्रिभिः स्व-कार्यैस् त्रि-प्रकारो ऽहंकाराख्यः प्रकृति-परिणाम-विशेषः स्वाभासैः स्व-धर्म-भूत-ज्ञानैः आत्म-व्यतिरिक्तो ऽप्य् आत्मतया गृह्यते सा हीन्द्रिय-मनो-ऽहङ्कार-पञ्च-भूत-स्व-रूप-देहात्म-विषयात्म-बुद्धिर् भ्रान्तिः तथा तेनैव स्वाभासेन स्वाभाविकस्य प्रभा-भूत-ज्ञानेन सत्य-दृक् निर्विकार-ज्ञान-स्व-रूप आत्मा गृह्यत इत्य् अर्थः । स्वाभासैर् इति बहु-वचनं देवो ऽहं मनुष्यो ऽहं कृशो ऽहम् इत्य्-आदि-नानाकार-विषयत्वाभिप्रायम् । अयम् अर्थः न ह्य् अन्धकारे प्रतिबिम्ब-ज्ञानम् अतो ऽनादित्ये आदित्य-भ्रान्तिः साक्षाद् आदित्ये आदित्य-बुद्धिश् चादित्य-धर्म-भूतालोकेनैव, एवम् अनात्मनि देहे आत्म-भ्रान्तिः साक्षाद् आत्मन्य् आत्म-प्रतिपत्तिश् चात्म-धर्म-भूत-ज्ञानेनैव भवति ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
भूतसूक्ष्मेन्द्रियमनोबुद्ध्यादिष्विह निद्रया।
लीनेष्वसति यस्तत्र विनिद्रो निरहंक्रियः॥
मूलम्
भूतसूक्ष्मेन्द्रियमनोबुद्ध्यादिष्विह निद्रया।
लीनेष्वसति यस्तत्र विनिद्रो निरहंक्रियः॥ १४ ॥
मूलम् - कर्णावती
भूतसूक्ष्मेन्द्रिन्यमनोबुद्ध्यादिष्विह निद्रया।
लीनेष्वसति यस्तत्र विनिद्रो निरहंक्रियः॥ १४ ॥
अनुवाद (हिन्दी)
जिस प्रकार जलमें पड़ा हुआ सूर्यका प्रतिबिम्ब दीवालपर पड़े हुए अपने आभासके सम्बन्धसे देखा जाता है और जलमें दीखनेवाले प्रतिबिम्बसे आकाशस्थित सूर्यका ज्ञान होता है, उसी प्रकार वैकारिक आदि भेदसे तीन प्रकारका अहङ्कार देह, इन्द्रिय और मनमें स्थित अपने प्रतिबिम्बोंसे लक्षित होता है और फिर सत् परमात्माके प्रतिबिम्बयुक्त उस अहङ्कारके द्वारा सत्यज्ञानस्वरूप परमात्माका दर्शन होता है—जो सुषुप्तिके समय निद्रासे शब्दादि भूतसूक्ष्म, इन्द्रिय और मनबुद्धि आदिके अव्याकृतमें लीन हो जानेपर स्वयं जागता रहता है और सर्वथा अहंकारशून्य है॥ १२—१४॥
वीरराघवः
अथेन्द्रियाद्य्-अनवधान-दशायाम् अप्य् आत्मावभासम् आह । भूतेति । बुद्धिर् महान्, आदि-शब्दाद् अहङ्कार-द्रव्यं भूत-सूक्ष्मादिषु निद्रया लीनेषु अनवभासमानेष्व् अकार्य-करेष्व् इति वा तदा असति देहे यः निर्निद्रः वीत-निद्रः निरहंक्रियः देहात्माभिमान-रहितः तम् आत्मानं प्रतिपद्यत इति तृतीयेनान्वयः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
मन्यमानस्तदाऽऽत्मानमनष्टो नष्टवन्मृषा।
नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः॥
मूलम्
मन्यमानस्तदाऽऽत्मानमनष्टो नष्टवन्मृषा।
नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः॥ १५ ॥
अनुवाद (हिन्दी)
(जाग्रत्-अवस्थामें यह आत्मा भूत-सूक्ष्मादि दृश्यवर्गके द्रष्टारूपमें स्पष्टतया अनुभवमें आता है; किन्तु) सुषुप्तिके समय अपने उपाधिभूत अहंकारका नाश होनेसे वह भ्रमवश अपनेको ही नष्ट हुआ मान लेता है और जिस प्रकार धनका नाश हो जानेपर मनुष्य अपनेको भी नष्ट हुआ मानकर अत्यन्त व्याकुल हो जाता है, उसी प्रकार वह भी अत्यन्त विवश होकर नष्टवत् हो जाता है॥ १५॥
वीरराघवः
ननु यदि तदा विनिद्रो ऽसाव् अस्ति तर्हि जाग्रत्-स्वप्नयोर् इव स्फुटं किं नावभासते तत्राह । मन्यमान इति । पूर्वं स द्रष्टा देहादेर् द्रष्टत्वेन सविकल्पकतया स्फुटं प्रतीतस् तदा सुषुप्तौ देहादेर् अनात्मन्य् आत्माभिमान-रूपाहङ्कार-विषयस्य लीनत्वात् तद्-विषये ऽहङ्करणे नष्टे सति स्वयम् अनष्टो ऽपि मृषैवात्मानं नष्ट इव मन्यमानो यः अन्यस्य नाशे अन्यस्य नष्ट-तुल्यत्वे दृष्टान्तः - नष्ट-वित्तो यथातुरो विवशः नष्टवद् भवति तथेत्य् अर्थः । ननु सुषुप्तौ न किञ्चिद् अनुभूयते तथा च श्रुतिः “नाहं खल्व् अयम् एवं संप्रत्य् आत्मानं जानात्य् अयम् अहम् अस्मि” इति, मैवं तमो-गुणाभिभवात् पराग्-अर्थानुभवाभावाच् चाहम्-अर्थस्यात्मनो विविक्त-ब्राह्मणत्वादि-स्फुट-प्रतिभासाभावे ऽप्य् अप्रबोधाद् अहम् इत्य् एकाकारेणात्मनः स्फुरणात् सुषुप्ताव् अपि नाहम्-अर्थस्यात्मनो विगमः । अत एव हि सुप्तोत्थितस्यैवं परामर्शः सुखम् अहम् अस्वाप्सं न किञ्चिद् अवेदिषं माम् अप्य् अहं न ज्ञातवान् इति, अनेन प्रत्यवमर्शेन तदानीम् अप्य् अहम्-अर्थस्यैवात्मनः सुखित्वं ज्ञातृत्वं च ज्ञायते । सुखम् अहम् अस्वाप्सम् इति परामर्शे हि सुखम् इत्य् अनेन तदानीम् अनुकूलतया भासमान-स्व-रूपम् अनुसंहितं भवति, अहम् इत्य् अनेन स्वस्मै भासमानत्व-रूप-प्रत्यक्त्वं चानुसंहितं भवति यथा मन्दम् अगच्छं मधुरम् अगायम् इति परामर्शे पूर्वं गमनेन सह तदानींतन-तन्-मान्द्यं गानेन सह तदानींतन-तन्-माधुर्यं चानुसंहितं भवति तद्-वत् नन्व् एतावन्तं कालं न किञ्चिद् अहम् अज्ञासिषम् इति च परामृशतीति चेत् ततः किं न किञ्चिद् इति कृत्स्न-प्रतिषेध इति चेन् न, अहम् अवेदिषम् इति वेदितुर् अहम्-अर्थस्यानुवृत्तेः वेद्य-विषयो हि स प्रतिषेधः, माम् अप्य् अहं न ज्ञातवान् इति अहम्-अर्थस्यापि तदानीम् अननुसंधानं प्रतीयत इति चेन् न, माम् अप्य् अहं न ज्ञातवान् इति परामर्शे हि अहम्-अर्थस्य ज्ञातुर् अनुवृत्तेर् न स्व-रूपं निषिध्यते ऽपि तु प्रबोध-समये ऽनुसन्धीयमानस्य अहम्-अर्थस्य व्यावर्तक-ब्राह्मणत्वादि-बाह्य-धर्म-विशिष्टत्वेन बुद्धि-सुखाद्य्-अनन्तर-धर्म-विशिष्टत्वेन च प्रतिभासाभावो ऽहं मां न ज्ञातवान् इत्य् उक्तेर् विषयो विवेचनीयः । जागरितावस्थानुसंहित-जात्यादि-विशिष्टो ऽस्मद्-अर्थो माम् इत्य् अंशस्य विषयः, स्वापाप्ययावस्था-प्रसिद्धाविशद-स्वानुभवैकतानश् चाहम्-अर्थो ऽहम् इत्य् अंशस्य विषयः, अत्र सुप्तो ऽहम् ईदृशो ऽहम् इति च माम् अपि न ज्ञातवान् अहम् इत्य् एव खल्व् अनुभव-प्रकारः । नाहं खल्व् अयम् एवं संप्रतीत्य् उदाहृतावहम्-इत्य् अनेन अहम् अयम् ईदृश-जात्यादि-विशिष्ट इति न जानातीत्य् उच्यते, तस्माद् अहम्-अर्थस्यात्मनः सुषुप्तौ स्फुरणम् अस्त्येव ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
एवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यते।
साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः॥
मूलम्
एवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यते।
साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः॥ १६ ॥
अनुवाद (हिन्दी)
माताजी! इन सब बातोंका मनन करके विवेकी पुरुष अपने आत्माका अनुभव कर लेता है, जो अहंकारके सहित सम्पूर्ण तत्त्वोंका अधिष्ठान और प्रकाशक है॥ १६॥
वीरराघवः
एतद् एवाभिप्रयन्न् आह एवम् इति । एवं सुषुप्ताव् अहम्-अर्थस्यात्मनो वृत्तिं प्रत्यवमृश्य परामृश्यासौ प्रकृति-विविक्तात्म-स्व-रूप-जिज्ञासुर् आत्मानं प्रकृति-विविक्तं प्रत्यगात्मानं प्रतिपद्यते यथावज् जानीयात् । पुनर् आत्मानम् एव विशिनष्टि । साहंकारस्य द्रव्यस्य पञ्च-भूत-समुदायस्य य अवस्थानम् अवस्थापकः इत्य् अर्थः, आत्म-विश्लेषे देहस्य विशरण-स्वभावत्वाद् अनुग्रहः अनुग्राहकः देहस्य प्रवृत्ति-हेतुर् इत्य् अर्थः । न हि निरात्मको देहः प्रवर्त्तते ॥ १६ ॥
श्लोक-१७
मूलम् (वचनम्)
देवहूतिरुवाच
विश्वास-प्रस्तुतिः
पुरुषं प्रकृतिर्ब्रह्मन्न विमुञ्चति कर्हिचित्।
अन्योन्यापाश्रयत्वाच्च नित्यत्वादनयोः प्रभो॥
मूलम्
पुरुषं प्रकृतिर्ब्रह्मन्न विमुञ्चति कर्हिचित्।
अन्योन्यापाश्रयत्वाच्च नित्यत्वादनयोः7 प्रभो॥ १७ ॥
अनुवाद (हिन्दी)
देवहूतिने पूछा—प्रभो! पुरुष और प्रकृति दोनों ही नित्य और एक-दूसरेके आश्रयसे रहनेवाले हैं, इसलिये प्रकृति तो पुरुषको कभी छोड़ ही नहीं सकती॥ १७॥
वीरराघवः
एवम् इन्द्रियाद्य्-अनवधान-दशायां तद्-अवधान-दशायां चात्मनो विशदतरावभास उपपादितः । अथैवम्-विध-प्रत्यग्-आत्म-स्व-रूप-चिन्तनं भगवद्-भक्ति-योगानुग्रह-द्वारा मोक्ष-साधनम् इति पुत्रस्य विवक्षाम् आलोच्यान्तरा प्रकृति-पुरुषयोर् अनादित्वात् तयोर् मिथः सम्बन्धस्याप्य् अनादित्वात् कथम् उभयोर् विश्लेष इति मुक्त्य्-असम्भावनाम् उद्भावयन्ती पृच्छति देवहूतिः पुरुषम् इति चतुर्भिः । हे ब्रह्मन् ! पुरुषं जीवं प्रकृतिः कदाचिद् अपि न विमुञ्चति न त्यजति । कुतः अनयोः प्रकृति-पुरुषयोर् अन्यो ऽन्यापाश्रयत्वात् परस्परं दृढ-तर-सम्बन्धत्वात् न चान्यतर-विनाशेनापि विश्लेषः सम्भाव्येत, यतस् तयोः नित्यत्वं, चो हेतौ, यत इत्य् अर्थः हे प्रभो ! पृथग्-अवस्थानं न सम्भवति इति प्रश्नाभिप्रायः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
यथा गन्धस्य भूमेश्च न भावो व्यतिरेकतः।
अपां रसस्य च यथा तथा बुद्धेः परस्य च॥
मूलम्
यथा गन्धस्य भूमेश्च न भावो व्यतिरेकतः।
अपां रसस्य च यथा तथा बुद्धेः परस्य च॥ १८ ॥
अनुवाद (हिन्दी)
ब्रह्मन्! जिस प्रकार गन्ध और पृथ्वी तथा रस और जलकी पृथक्-पृथक् स्थिति नहीं हो सकती, उसी प्रकार पुरुष और प्रकृति भी एक-दूसरेको छोड़कर नहीं रह सकते॥ १८॥
वीरराघवः
इदम् एव पृथग्-अवस्थानं दृष्टान्तेन दृढीकरोति यथेति । यथा भूमेः पृथ्व्याः गन्धस्य तद्-अपृथक्-सिद्धस्य गन्ध-गुणस्य च व्यतिरेकतः पृथग्-भावः अवस्थानं न सम्भवति यथा च अपां रसस्य तद्-अपृथक्-सिद्ध-रस-गुणस्य च पृथग्-भावो नास्ति तथा बुद्धेः प्रकृतेस् ततः परस्यात्मनश् च पृथग्-भावो नास्ति । यद् वा बुद्धेः परस्य बोद्धुर् आत्मनः प्रकृतेश् चेत्य् अध्याहारेण योजना ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
अकर्तुः कर्मबन्धोऽयं पुरुषस्य यदाश्रयः।
गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्वतः कथम्॥
मूलम्
अकर्तुः कर्मबन्धोऽयं पुरुषस्य यदाश्रयः।
गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्वतः कथम्॥ १९ ॥
अनुवाद (हिन्दी)
अतः जिनके आश्रयसे अकर्ता पुरुषको यह कर्मबन्धन प्राप्त हुआ है, उन प्रकृतिके गुणोंके रहते हुए उसे कैवल्यपद कैसे प्राप्त होगा?॥ १९॥
वीरराघवः
किञ् चाकर्तुः स्वतः सांसारिक-गमनादि-प्रवृत्त्य्-अनाश्रयस्य पुरुषस्यात्मनः अयं कर्म-बन्धः कर्म-रूपो बन्धः यद् आश्रयः यत्-सम्बन्धाधीनः, यच्-छब्दः प्रकृति-परः, तस्याः प्रकृतेर् गुणेषु सत्स्व् इत्य् अन्वयः । यच्-छब्दः सत्त्वादि-गुण-परो वा तेष्व् इत्य् अन्वय-स्वारस्यात् तेषु प्रकृतेर् गुणेषु सत्त्वादिषु सत्स्व् अतः गुणेभ्यः प्रकृतेर् वा कैवल्यं विमुक्तत्वं कथं भवेत् ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
क्वचित् तत्त्वावमर्शेन निवृत्तं भयमुल्बणम्।
अनिवृत्तनिमित्तत्वात्पुनः प्रत्यवतिष्ठते॥
मूलम्
क्वचित्8 तत्त्वावमर्शेन निवृत्तं भयमुल्बणम्9।
अनिवृत्तनिमित्तत्वात्पुनः10 प्रत्यवतिष्ठते॥ २० ॥
अनुवाद (हिन्दी)
यदि तत्त्वोंका विचार करनेसे कभी यह संसारबन्धनका तीव्र भय निवृत्त हो भी जाय, तो भी उसके निमित्तभूत प्राकृत गुणोंका अभाव न होनेसे वह भय फिर उपस्थित हो सकता है॥ २०॥
वीरराघवः
तत्त्व-ज्ञानेनात्मानं विमुञ्चति प्रकृतिर् इति चेत् तत्राह । क्वचिद् इति । उल्बणं संसार-रूप-भयं क्वचित् तत्त्वावमर्शेन पूर्वोक्त-तत्त्वावमर्शेन निवृत्तं निवृत्त-प्रायम् अपि अनिवृत्त-निमित्तत्वाद् अनिवृत्त-प्रकृति-सम्बन्धत्वात् पुनः प्रत्यवतिष्ठते उपस्थितं भवति ॥ २० ॥
श्लोक-२१
मूलम् (वचनम्)
श्रीभगवानुवाच11
विश्वास-प्रस्तुतिः
अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना।
तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम्॥
मूलम्
अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना।
तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम्॥ २१ ॥
वीरराघवः
सत्यम् एवं तथापि बह्व्-अङ्गोपकृत-भक्ति-योगाराधित-परम-पुरुष-प्रसादाद् आत्मानं विमुञ्चति प्रकृतिः । क्वचिद् उद्भवस् तु साधन-वैकल्याद् इत्य् आह कपिलः । अनिमित्तेति । निमित्तं फलं तद् अनिमित्तम् अप्रवर्तकं यस्मिन् फलाभिसन्धि-रहितेनेत्य् अर्थः, स्व-धर्मेण स्व-वर्णाश्रमोचित-धर्मेणामलात्मना विशुद्धान्तः-करणेन “धर्मेण पापम् अपनुदति” इति श्रुतेः, श्रुत-सम्भृतया मत्-कथा-श्रवणेन सम्भृतया वर्द्धितया तीव्रया विघ्नानुपहतया मयि भक्त्या अनभिसंहित-फल-कर्म-योग-परिशुद्धान्तः-करण-निष्पाद्यया मत्-कथा-श्रवणादिभिर् उपकृतया मद्-भक्त्या प्रकृतिस् तिरोभवित्री इत्य् अन्वयः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा।
तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना॥
मूलम्
ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा।
तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना॥ २२ ॥
वीरराघवः
अन्यान्य् अपि भक्ति-योगाङ्गान्य् आह । दृष्टं तत्त्वं प्रकृति-पुरुषयोर् याथात्म्यं हेयोपादेय-स्व-रूपं यस्मिंस् तेन ज्ञानेन बलीयसा वैराग्येण कामानभिष्वङ्गेण तपो-युक्तेन देह-शोषणादि-तपो-युक्तेन योगेन प्रकृति-विविक्तात्म-याथात्म्य-चिन्तनेन तीव्रेणात्म-समाधिना चित्तैकाग्र्येण च उपकृतया मद्-भक्त्या ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम्।
तिरोभवित्री शनकैरग्नेर्योनिरिवारणिः॥
मूलम्
प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम्।
तिरोभवित्री शनकैरग्नेर्योनिरिवारणिः॥ २३ ॥
अनुवाद (हिन्दी)
श्रीभगवान्ने कहा—माताजी! जिस प्रकार अग्निका उत्पत्तिस्थान अरणि अपनेसे ही उत्पन्न अग्निसे जलकर भस्म हो जाती है, उसी प्रकार निष्कामभावसे किये हुए स्वधर्मपालनद्वारा अन्तःकरण शुद्ध होनेसे बहुत समयतक भगवत्कथा-श्रवणद्वारा पुष्ट हुई मेरी तीव्र भक्तिसे, तत्त्वसाक्षात्कार करानेवाले ज्ञानसे, प्रबल वैराग्यसे, व्रतनियमादिके सहित किये हुए ध्यानाभ्याससे और चित्तकी प्रगाढ़ एकाग्रतासे पुरुषकी प्रकृति (अविद्या) दिन-रात क्षीण होती हुई धीरे-धीरे लीन हो जाती है॥ २१—२३॥
वीरराघवः
अहर्-निशं दह्यमाना पीड्यमाना पुरुषस्य प्रकृतिर् आत्म-बन्ध-करी प्रकृतिः शनकैस् तिरोभवित्री अ-बन्ध-करी भविष्यति । निःशेषं निवर्तिष्यतीत्य् अर्थः । तत्र दृष्टान्तः अग्नेर् इति । तिरोधायिका प्रकृतिः अग्न्य्-आविर्भाव-हेतुर् यथाग्निना दह्यते तथा तत्त्व-ज्ञान-सम्पत्ति-हेतुर् अपि प्रकृतिस् तेन दह्यत इत्य् अर्थः, यद् वाग्नि-तिरोधायिकारणिर् इवात्म-तिरोधायिका प्रकृतिर् दह्यत इत्य् अर्थः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः।
नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च॥
मूलम्
भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः।
नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च॥ २४ ॥
अनुवाद (हिन्दी)
फिर नित्यप्रति दोष दीखनेसे भोगकर त्यागी हुई वह प्रकृति अपने स्वरूपमें स्थित और स्वतन्त्र (बन्धनमुक्त) हुए उस पुरुषका कुछ भी नहीं बिगाड़ सकती॥ २४॥
वीरराघवः
एवं सति न पुनः संसारयत्य् आत्मानं प्रकृतिर् इत्य् आह । भुक्त-भोगेति । भुक्तः भोगो यस्याः नित्यशः सदा दृष्टो दोषो यस्याः अत एव परित्यक्ता सती प्रकृतिर् ईश्वरस्य कर्म-वश्यस्य स्वे महिम्नि स्थितस्यापहत-पाप्मत्वादि-गुणाष्टक-लक्षण-महिमवतः आत्मनः अशुभं संसारं न धत्ते न सम्पादयतीत्य् अर्थः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत्।
स एव प्रतिबुद्धस्य न वै मोहाय कल्पते॥
मूलम्
यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत्।
स एव प्रतिबुद्धस्य न वै मोहाय कल्पते॥ २५ ॥
अनुवाद (हिन्दी)
जैसे सोये हुए पुरुषको स्वप्नमें कितने ही अनर्थोंका अनुभव करना पड़ता है, किन्तु जग पड़नेपर उसे उन स्वप्नके अनुभवोंसे किसी प्रकारका मोह नहीं होता॥ २५॥
वीरराघवः
यस्य प्रकृति-सम्बन्धः ज्ञानस्य तु न सम्बन्धः इत्य् अत्र दृष्टान्तम् आह । यथेति । यथा अप्रतिबुद्धस्य निद्राम् उपगतस्य पुंसः स्वप्नो बह्व्-अनर्थ-कृत् स्व-शिरश्-छेदादि-बह्व्-अनर्थकारी स एव प्रस्वापः प्रबुद्धस्य जाग्रतः मोहायानर्थाय न कल्पते न समर्थो भवेत् । अनर्थस्यास्थिरत्वाय स्वप्न-दृष्टान्तः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
एवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम्।
युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित्॥
मूलम्
एवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम्।
युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित्॥ २६ ॥
अनुवाद (हिन्दी)
उसी प्रकार जिसे तत्त्वज्ञान हो गया है और जो निरन्तर मुझमें ही मन लगाये रहता है, उस आत्माराम मुनिका प्रकृति कुछ भी नहीं बिगाड़ सकती॥ २६॥
वीरराघवः
एवं विदित-तत्त्वस्य विदित-प्रकृति-पुरुषेश्वर तत्त्व-त्रयस्य मयि मानसं युञ्जतः आत्मारामस्यात्मन्य् एव रममाणस्य प्रकृति-विलक्षणत्वात् परमात्मानुभव-परस्य कर्हिचित् कदाचिद् अपि प्रकृतिर् नापकुरुते न बन्धं करोतीत्य् अर्थः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
यदैवमध्यात्मरतः कालेन बहुजन्मना।
सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनिः॥
मूलम्
यदैवमध्यात्मरतः कालेन बहुजन्मना।
सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनिः॥ २७ ॥
अनुवाद (हिन्दी)
जब मनुष्य अनेकों जन्मोंमें बहुत समयतक इस प्रकार आत्मचिन्तनमें ही निमग्न रहता है, तब उसे ब्रह्मलोक-पर्यन्त सभी प्रकारके भोगोंसे वैराग्य हो जाता है॥ २७॥
वीरराघवः
उक्तम् उपसंहरति । यदेति । यदैवम् उक्त-रीत्यात्मरतः आत्मारामः बहूनि जन्मानि यस्मिन् तेन कालेन प्रतिबुद्धार्थः विदित-तत्त्व-हित पुरुषार्थः आ-ब्रह्म-भुवनात्सत्य-लोक-पर्यन्तेषु लोकेषु जात-वैराग्यः सातिशयित्व क्षयिष्णुत्व-बुद्ध्या-भोग्यता-बुद्धि-रहितः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
मद्भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भूयसा।
निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम्॥
मूलम्
मद्भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भूयसा।
निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम्॥ २८ ॥
वीरराघवः
मद्-भक्तः निरतिशय-प्रीति-रूप मद्-भक्ति-युक्तः भूयसा मत्-प्रसादेन निःश्रेयसं पुरुषार्थ-रूपं मद् आश्रयम् अनेन निष्कृष्ट-जीव-स्व-रूपस्य भगवद्-धार्यत्वम् उक्तम् ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
प्राप्नोतीहाञ्जसा धीरः स्वदृशा छिन्नसंशयः।
यद्गत्वा न निवर्तेत योगी लिङ्गाद्विनिर्गमे॥
मूलम्
प्राप्नोतीहाञ्जसा धीरः स्वदृशा छिन्नसंशयः।
यद्गत्वा न निवर्तेत योगी लिङ्गाद्विनिर्गमे12॥ २९ ॥
अनुवाद (हिन्दी)
मेरा वह धैर्यवान् भक्त मेरी ही महती कृपासे तत्त्वज्ञान प्राप्त करके आत्मानुभवके द्वारा सारे संशयोंसे मुक्त हो जाता है और फिर लिंगदेहका नाश होनेपर एकमात्र मेरे ही आश्रित अपने स्वरूपभूत कैवल्यसंज्ञक मंगलमय पदको सहजमें ही प्राप्त कर लेता है, जहाँ पहुँचनेपर योगी फिर लौटकर नहीं आता॥ २८-२९॥
वीरराघवः
इह प्राप्नोत्य् उपासन-दशायां साक्षात्-करोति ततः स्वदृशा भगवद्-आत्मक स्वात्म-साक्षात्-कारेण छिन्न-संशयः विगत-देहात्माभिमानः योगी मद्-भक्ति-योगनिष्ठः लिङ्ग-विनिर्गमे प्रारब्धावसाने यत्-स्थानं गत्वा प्राप्य न निवर्तेत न पुनर् आवर्तते तत् परम-स्थानं प्राप्नोति ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
यदा न योगोपचितासु चेतो
मायासु सिद्धस्य विषज्जतेऽङ्ग।
अनन्यहेतुष्वथ मे गतिः स्याद्
आत्यन्तिकी यत्र न मृत्युहासः॥
मूलम्
यदा न योगोपचितासु चेतो मायासु सिद्धस्य विषज्जतेऽङ्ग13।
अनन्यहेतुष्वथ मे गतिः स्याद् आत्यन्तिकी यत्र न मृत्युहासः॥ ३० ॥
अनुवाद (हिन्दी)
माताजी! यदि योगीका चित्त योगसाधनासे बढ़ी हुई मायामयी अणिमादि सिद्धियोंमें, जिनकी प्राप्तिका योगके सिवा दूसरा कोई साधन नहीं है, नहीं फँसता, तो उसे मेरा वह अविनाशी परमपद प्राप्त होता है—जहाँ मृत्युकी कुछ भी दाल नहीं गलती॥ ३०॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे का14पिलेयोपाख्याने सप्तविंशोऽध्यायः॥ २७ ॥
वीरराघवः
पूर्व-श्लोकोक्त-साक्षात्-कारवतो ऽवान्तर सिद्धि-वितृष्णस्य भगवत्-प्राप्तिम् आह । यदेति । अम्ब हे मातः ! सिद्धस्य परिनिष्पन्न-भक्ति-योगस्य तस्य पुंसश् चेतः योगोपचितासु योग-समृद्धासु अनन्य-हेतुषु योगाद् अन्यो हेतुर् नास्ति यासु यत्र मृत्योः संसारस्य हासो नाशो न भवति तासु मायासु आश्चर्य-रूपाणिमादि-सिद्धिषु यदा न विषज्जते अथ तदा आत्यन्तिकी निरतिशया मे गतिः मत्-प्राप्तिः स्यात् ॥ ३० ॥
इति श्रीमद्-भागवते महा-पुराणे तृतीय-स्कन्धे श्रीमद्-वीर-राघवाचार्य-कृत-भागवत-चन्द्र-चन्द्रिकायां सप्तविंशो ऽध्यायः ॥ २७ ॥
-
प्रा. पा. - स्वप्नेनार्थाग । ↩︎
-
प्रा. पा. - अतः शनैः । ↩︎
-
प्रा. पा. - तु । ↩︎
-
प्रा. पा. - महीयसा । ↩︎
-
प्रा. पा. - मगर्ति । ↩︎
-
प्रा. पा. - यथा । ↩︎
-
प्रा. पा. - नित्यत्वाच्चा । ↩︎
-
प्रा. पा. - सकृत् । ↩︎
-
प्रा. पा. - तत्त्वमु । ↩︎
-
प्रा. पा. – अनिमित्त । ↩︎
-
प्राचीने पाठे ‘श्रीभगवानुवाच’ अयमंशो न । ↩︎
-
प्रा. पा. - लिङ्गविनिर्गमे । ↩︎
-
प्रा. पा. - जते कथम् । ↩︎
-
प्राचीने पाठे ‘कापिलेयोपाख्याने’ इत्यंशो न । ↩︎