[षडविंशोऽध्यायः]
भागसूचना
महदादि भिन्न-भिन्न तत्त्वोंकी उत्पत्तिका वर्णन
श्लोक-१
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक्।
यद्विदित्वा विमुच्येत पुरुषः प्राकृतैर्गुणैः॥
मूलम्
अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक्।
यद्विदित्वा विमुच्येत पुरुषः प्राकृतैर्गुणैः॥ १ ॥
अनुवाद (हिन्दी)
श्रीभगवान्ने कहा—माताजी! अब मैं तुम्हें प्रकृति आदि सब तत्त्वोंके अलग-अलग लक्षण बतलाता हूँ; इन्हें जानकर मनुष्य प्रकृतिके गुणोंसे मुक्त हो जाता है॥ १॥
वीरराघवः
एवं मुक्त्य्-उपाय-भूतं भगवद् भक्ति-योगं प्रस्तुत्य तस्य जगत्-कारण-विषयत्वस्य “कारणन्तु ध्येय” इति श्रुत्यैवोक्तत्वाद् भजनीयस्य भगवतः सृष्ट्य्-आदि-व्यापारान् विवक्षुस् तस्य लक्षण-भूत-सृष्ट्य्-आदि-कारणत्वं प्रकृति-पुरुष-काल-शरीरकस्य प्रकृति-पुरुषादि-स्व-रूप-शोधनम् अन्तरेण तच् छरीरकस्य तस्य सृष्ट्य्-आदि-कारणत्व-कथन-योगात् प्रथमं प्रकृत्य्-आदि-स्व-रूप-शोधनं तद्-विवेकस्य मुक्त्य्-उपाय-कथन-पूर्वकं प्रतिजानीते । अथेति । तत्त्वानां प्रकृति-पुरुष-कालादीनां लक्षणं स्व-रूप-निरूपक निरूपित स्व-रूप-प्रतिपन्न-धर्म-जातं पृथग् असङ्करेण ते तुभ्यं वक्ष्यामि । अप्रस्तुत-प्रसङ्गाशङ्कां वारयति । यद् इति । यत् प्रकृत्य्-आदि-तत्त्वानां लक्षणं विदित्वा पुरुषः मुमुक्षुः प्रकृतेर् गुणैः सत्त्वादिभिः सत्त्वादि-गुण-कार्यानादि-बन्धक पुण्य-पाप-रूपैर् दुरितैर् इत्य् अर्थः । विमुच्येत प्रकृत्य्-आदि-विवेक-हेतुक-हेयोपादेय-विवेकेन भगवद्-उपासनद्वारा विमुच्यत इति भावः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्मदर्शनम्।
यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम्॥
मूलम्
ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्मदर्शनम्।
यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम्॥ २ ॥
अनुवाद (हिन्दी)
आत्मदर्शनरूप ज्ञान ही पुरुषके मोक्षका कारण है और वही उसकी अहंकाररूप हृदयग्रन्थिका छेदन करनेवाला है, ऐसा पण्डितजन कहते हैं। उस ज्ञानका मैं तुम्हारे आगे वर्णन करता हूँ॥ २॥
वीरराघवः
यत् साक्षान्-मुक्त्य्-उपायभूतं ज्ञानं तद् अपि वक्ष्यामीत्य् आह । ज्ञानम् इति । आत्मदर्शनम् आत्मा परम-पुरुषः दृश्यते साक्षात् क्रियते ऽनेनेत्य् आत्म-दर्शनं यज् ज्ञानं पुरुषस्य मुमुक्षोर् निःश्रेयसाय मोक्षायाहुः वेदान्तास् तज्ज्ञाश् च । तज् ज्ञानं हृदय-ग्रन्थि-भेदनम् अज्ञान-निवर्तकं ते तुभ्यं यद् वा ते तव हृदय-ग्रन्थि-भेदनं वर्णये ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः।
प्रत्यग्धामा स्वयंज्योतिर्विश्वं येन समन्वितम्॥
मूलम्
अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः।
प्रत्यग्धामा स्वयंज्योतिर्विश्वं येन समन्वितम्1॥ ३ ॥
अनुवाद (हिन्दी)
यह सारा जगत् जिससे व्याप्त होकर प्रकाशित होता है, वह आत्मा ही पुरुष है। वह अनादि, निर्गुण, प्रकृतिसे परे, अन्तःकरणमें स्फुरित होनेवाला और स्वयंप्रकाश है॥ ३॥
वीरराघवः
तावत् प्रकृति-विलक्षणात्म-स्व-रूपं शोधयति । अनादिर् इति द्वाभ्याम् । पुरुषो जीवः तस्य स्व-रूप-निरूपक-धर्म-द्वयम् आह । स्वयं-ज्योतिः स्वयं-प्रकाशः यः स्वात्मानम् अन्यांश् च प्रकाशयतीति तत् स्वयं-ज्योतिर् इत्य् उच्यते यथा दीपादिस् तद्-वयम् अपि स्वयं-ज्योतिः । तर्हि तद् वद् एव किं जड-स्व-रूप इत्य् अत आह । प्रत्यग्-धामा स्वस्मै भासमानत्वं प्रत्यक्त्वं परस्मै भासमानत्वं पराक्त्वम् । एतद् एव जडत्वं प्रत्यक् स्वस्मै प्रकाशमानं धाम स्व-रूपं यस्य सः । अनेन पराग्-धाम-दीपादिभ्यो जडेभ्यो वैलक्षण्य-सिद्ध्या ज्ञान-स्व-रूपत्व-सिद्धिः स्वयं-ज्योतिर् इत्य् अनेन ज्ञान-गुणकत्व-सिद्धिः । तेन हि स्व-पर-प्रकाशत्वम् उच्यते तत्र यथा दीपादिश् चतुरङ्गुल-परिमितस् तेजो-रूप एक-देशस्थः स्वापृथक्-सिद्ध-धर्म-भूतया प्रभया अन्यान् प्रकाशयति स्व-धर्म-भूत-प्रभाम् अनपेक्ष्यैव स्वयम् अपि प्रकाशते तद्-वद् आत्मापि स्व-धर्म-भूत-ज्ञानेनान्यान् प्रकाशयति स्व-धर्म-भूत-ज्ञान-निरपेक्षम् एव स्वयम् अपि प्रकाशते इत्य् ह्य् उच्यते । एतावांस् तु विशेषः - पराग्-धाम दीपादिः स्वात्मानम् अन्यांश् च परस्मै प्रकाशयति, आत्मा तु प्रत्यक्त्वेन स्वात्मानम् अन्यांश् च स्वस्मा एव प्रकाशयतीति । प्रकाशो नाम व्यवहारानुगुण्यापादनम् । एवं च स्वयं-प्रकाशत्वं दीपादिष्व् आत्मनि चाविशिष्टं प्रत्यग्-धामत्वं स्वात्मन्य् एवासाधारणम् इति ज्ञान-गुणकं ज्ञान-स्व-रूपं चेति जडाद् विलक्षणम् आत्म-स्व-रूपम् इति फलितं, तद् एवाह । प्रकृतेः प्रकृति-परिणाम-रूपाच् छरीरेन्द्रिय-मनः-प्राणादेः परः स्व-रूपतः स्वभावतश् चात्यन्त-विलक्षणः, अत एव निर्गुणः प्राकृत-सत्त्वादि-गुण-रहितः तथाप्य् आत्मा शरीरान्तः-प्रवेशेन तद्-धारकः येनात्म-स्व-रूपेण विश्वम् आब्रह्मस्तम्ब-पर्यन्तं स्थूल-सूक्ष्म-शरीरात्मकं विश्वं व्याप्तं, येनेत्य् एक-वचन-निर्देशः “एको व्रीहिः सुसम्पन्नः सुपुष्टं कुरुते प्रजाः” इति वज् जात्य्-अभिप्राय-कृतः । अनेन देवादि-शरीराणां व्याप्यत्वम् आत्मनो व्यापकत्वं निरतिशय-सूक्ष्मत्वं चोक्तम् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः।
यदृच्छयैवोपगतामभ्यपद्यत लीलया॥
मूलम्
स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः।
यदृच्छयैवोपगतामभ्यपद्यत लीलया॥ ४ ॥
अनुवाद (हिन्दी)
उस सर्वव्यापक पुरुषने अपने पास लीला-विलासपूर्वक आयी हुई अव्यक्त और त्रिगुणात्मिका वैष्णवी मायाको स्वेच्छासे स्वीकार कर लिया॥ ४॥
वीरराघवः
अत एव व्यापकत्वान् निरतिशय-सूक्ष्मत्वाद् अनादित्वाद् देहादि-विलक्षणत्वाच् च देहादीनाम् उपाधिभिर् उत्पत्ति-विनाशादिभिर् देहादि-रूपैर् उपाधिभिर् वा सह न जायते न म्रियते न नश्यति । ननु देवो ऽहं देवो ऽयं मनुष्यो ऽहं मनुष्यो ऽयं स्थूलो ऽहं स्थूलो ऽयम् इति स्वस्य परेषाञ् च देहात्मनोर् अभेदेनैव प्रतीतेः कथं देहादिभिः सह जननादिर् आत्मन इत्य् अत्राह । निमित्तैः पुण्य-पाप-रूपैः आत्तः देवो ऽहं स्थूलो ऽहम् इत्य् आरोपितः देह-धर्मो यस्य स अतो न देहादिभिः सह जननादिर् इत्य् अर्थः । एतद् एव दृष्टान्तेन स्पष्टयति । यथेति । यथा स्वप्न-द्रष्टा स्वाप्न-पदार्थ-नाशे ऽपि न नश्यतीत्य् एवं जागराद्य् अवस्थासु दृश्यते । देहादि-नाशे ऽपि न नश्यतीत्य् अर्थः । एवं प्रकृति-विलक्षणम् आत्म-स्व-रूपं विशोध्यैवं-विधस्य तस्य कथं कर्तृत्व-भोक्तत्वादिकम् इत्य् आशङ्कायां प्रकृति-संसर्ग-कृतत्वादि-वैशिष्ट्यम् इति वक्तुं प्रकृति-संसर्ग-प्रकारम् आह । स एष उक्त-लक्षणः विभुर् निरतिशय-सूक्ष्मत्वेन सर्वान्तर्-व्यापन-समर्थः प्रत्यग्-आत्मा सूक्ष्मां नाम-रूप-विभागानर्ह-निरतिशय-सूक्ष्म-दशाम् आपन्नाम् इत्य्-अर्थः । अनेन जगद् आदाव् इति सामर्थ्याल् लभ्यते तदैव प्रकृतेः सूक्ष्म-देशापन्नत्वात्, दैवीं देवस्य विष्णोर् लीलार्थाम् अत एव लीलया देव-सम्बन्धि-परमार्थ-लीलया हेतु-भूतया पराभिध्यानेनेति वक्ष्यमाणत्वाद् दैवीम् इत्य् उक्तत्वाच् च यदृच्छयैवोपगतां प्राप्तां जीवस्य प्रकृति-सम्बन्धस्य सहजत्वाभावात् कादाचित्कीम् इत्य् अर्थः । गुणमयीं सत्त्वादि-गुण-प्रचुरां मायाम् अभ्यपद्यत अपश्यत् । अत्र केचिद् आवरण-विक्षेप-भेदेन प्रकृतिं द्वेधा विभज्य पुरुषम् अपि जीवेश्वर-रूपेण द्वेधा विभज्य एकस्य प्रकृत्य्-अविवेकेन संसारः इतरस्य प्रकृतिं स्व-वशीकुर्वतः सृष्ट्यादि-व्यापारस् तत्र प्रकृत्य्-अविवेकेन यः संसरत्य् आवरण-शक्त्या तिरोहितस् तस्य संसार-प्रकारो ऽनेन श्लोकेनोच्यते इति व्याचक्षते तद् अयुक्तं नित्यम् अविद्या-प्रत्यनीक-स्व-प्रकाश-स्व-रूपस्य प्रकृत्य्-अविवेकानुपपत्तेः । स्व-लीला रूप सृष्ट्य्-आदि-व्यापार-निवृत्तये आवरण-शक्त्या मुह्यतीति चेन् न, विकल्पासहत्वात् किं भ्रान्तिहेतुर् लीला उत भ्रान्ति-कार्या उत भ्रान्तिर् एव, नाद्यः लीलायाः स्व-भ्रम-सम्पादनानुपपत्तेः । बहु स्याम् इति सङ्कल्पेन हीश्वरो लीला-रूपं सृष्ट्यादिकं करोति । न हि कश्चिद् भ्रान्तः स्याम् इति सङ्कल्प्य भ्राम्यति । किञ् चेश्वरः सर्वज्ञश् चेत् स्वानर्थ-ज्ञ-रूप-संसार न प्रवर्तयति । अज्ञश् चेत् सर्वज्ञत्व-श्रुति-विरोधः । विवेक-निष्पादनेन स्वानर्थ-परिहाराय जगत् सृजतीति चेत् तथा ऽपि लीलात्वम् अनुपपन्नम्, न हि व्याध्य्-उपहतस्य औषधा-नयन-प्रवृत्तिर् लीला भवति । न द्वितीयः प्रथम-सङ्कल्पस्य लीलात्वानुपपत्तेस् तद्-वद् एवोत्तरत्रापि लीलाम् अन्तरेण भ्रमोपपत्तेश् च । नापि तृतीयः द्वि-चन्द्र-ज्ञानस्य लीलात्वा-प्रसिद्धेः । स्वयम् अभ्राम्यन् ईश्वरो लीलया परान् मोहयतीति चेन् न, त्वन्-मते भ्रान्त्यादिना पर-दर्शनायोगात् पर-दर्शने सम्भवति तेषां स्वानन्यत्वज्ञानाच् च निर्विशेष-सन्मात्रस्य ब्रह्मणो निर्विशेषत्वाद् एव न लीला-सम्भवः । ईश्वरस्य तु सर्वज्ञत्वेन संसार-रहितत्वेन जीवान् स्वानन्यत्वेन च जानतो जन्म-मरणादि-निवर्तन नरक-पातनादि-व्यापारो न लीला भवितुम् अर्हति । तस्मान् निखिल-हेय-प्रत्यनीकानन्त-कल्याण-गुण-महोदधेर् ईश्वरस्य लीलोपकरण-भूतया तन्-नियाम्यया मायया तन्-नियाम्यस्य तच् छरीर-भूतस्यानादित्वाद्य्-उक्त-धर्मकस्य तस्माद् विलक्षणस्य प्रत्यग्-आत्मनः परमार्थ-भूतेश्वर-लीला रूप-जगत्-सृष्ट्य्-आदि-व्यापार-निर्वृत्तये अभिपत्तिर् अनेन श्लोकेन प्रतिपाद्यते इत्य् अभ्युपगन्तव्यम् अत्र । लीलया यदृच्छयाभ्युपगताम् अभ्यपद्यतेत्य् अभ्यन्वेतुं शक्यं तदा लीलयेत्य् अध्ययनेन वसतीतिवत् फलस्यैव हेतुत्वेन विवक्षया हेतु-तृतीया लीलया भगवल्-लीला-रस-निर्वृत्त्यर्थं यदृच्छया यादृच्छिक-भगवत्सङ्कल्पेनोपगतां प्राप्ताम् इत्य् अर्थः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः।
विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया॥
मूलम्
गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः।
विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया॥ ५ ॥
अनुवाद (हिन्दी)
लीलापरायण प्रकृति अपने सत्त्वादि गुणोंद्वारा उन्हींके अनुरूप प्रजाकी सृष्टि करने लगी; यह देख पुरुष ज्ञानको आच्छादित करनेवाली उसकी आवरणशक्तिसे मोहित हो गया, अपने स्वरूपको भूल गया॥ ५॥
वीरराघवः
अस्तु प्रकृत्य्-अभिपत्तिः कर्तृत्वादेः किम् आयतम् इत्य् आशङ्कायाम् अभिपत्ति-हेतुक-स्व-स्व-रूप-तिरोधान-कृत-मोहन-निमित्तं कर्तृत्वादिकम् इति वक्तुं प्रकृतिं सूक्ष्माम् इत्य्-उक्त-सूक्ष्मावस्था-प्रतिसम्बन्धि-स्थूलावस्थां वदन् तया प्रकृत्या प्रत्यग्-आत्मनः स्व-स्व-रूप-तिरोधानेन मोहम् आह । गुणैर् इति । विचित्रा देव-मनुष्यादि-रूपेण बहुविधाः सरूपाः सर्वासां प्रकृति-परिणाम-रूपत्वेनैकरूपाः प्रजा गुणैः सत्त्वादिभिः सृजतीं कार्य-दशायां स्रष्ट्रीं प्रकृतिं विलोक्य तया ज्ञानगूहया ज्ञान-तिरोधायिन्य सद्यः स इव मुमुहे तस्यां स्वानन्यता-बुद्धिम् अकरोद् इत्य् अर्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान्।
कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते॥
मूलम्
एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान्।
कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते॥ ६ ॥
अनुवाद (हिन्दी)
इस प्रकार अपनेसे भिन्न प्रकृतिको ही अपना स्वरूप समझ लेनेसे पुरुष प्रकृतिके गुणोंद्वारा किये जानेवाले कर्मोंमें अपनेको ही कर्ता मानने लगता है॥ ६॥
वीरराघवः
एवं पराभिध्यानेन प्रकृत्या तिरोहित-स्व-स्व-रूप-विस्मरण-पूर्वक-प्रकृति-चिन्तनेन पुमान् जीवः प्रकृतेर् गुणैः कर्मसु क्रियमाणेषु सत्सु तानि कर्माणि आत्मनि मन्यते तानि स्व-कर्तृकाणीति मन्यते इत्य् अर्थः । सांसारिक-प्रवृत्तिष्व् अस्य कर्तृता सत्त्व-रजस्-तमोगुण-संसर्ग-कृता न स्व-रूप-प्रयुक्तेति भावः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम्।
भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मनः॥
मूलम्
तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम्।
भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मनः॥ ७ ॥
अनुवाद (हिन्दी)
इस कर्तृत्वाभिमानसे ही अकर्ता, स्वाधीन, साक्षी और आनन्दस्वरूप पुरुषको जन्म-मृत्युरूप बन्धन एवं परतन्त्रताकी प्राप्ति होती है॥ ७॥
वीरराघवः
तत् तस्मात् सत्त्व-रजस्-तमो-गुण-संसर्ग-कृतात् कर्तृत्वाद् अस्य जीवस्य संसृतिर् बन्धः संसार-रूपो बन्धः तत्-कृतं कर्तृत्व-प्रयुक्तम् एव पारतन्त्र्यं कर्म-वश्यत्वं च भवति न तु स्व-रूप-प्रयुक्तम् इति भावः । स्व-रूप-प्रयुक्तत्वाभावम् एव विशदयितुं तस्य मुक्तावस्थायाम् अवस्थितं प्रकृति-वियुक्तं स्व-रूपं विशिनष्टि । अकर्तुर् इति । अकर्तुः न त्व् अत्र प्रयत्नाश्रयत्वं निषिध्यते, किन्तु गमनादि-सांसारिक-प्रवृत्ति-रहितस्येत्यर्थः । तत्र हेतुर् ईशस्याकर्म-वश्यस्य साक्षिणः ज्ञानाश्रयस्य ज्ञान-गुणकस्येत्यर्थः । साक्षात्त्वम् एव हि साक्षित्वम् । ‘साक्षाद् द्रष्टरि संज्ञायाम्’ इत्यनुशासनानुरोधात् अनेन ज्ञान-गुणकत्वम् उक्तं ज्ञान-स्वरूपत्वम् आह । निर्वृतात्मन इति । निर्वृतं निर्वृत्तेर् भावे क्तः, आनन्द-स्वरूपस्येत्य् अर्थः । तथा च श्रुतिः “निर्वाणमय एवायम् आत्मा” इति । अनुकूल-ज्ञानम् एव ह्य् आनन्दः । ईशस्येत्य्-अनेनाकर्म-वशत्वोक्त्या अनादि-पुण्यापुण्य-कर्म-तिरोहितापहत-पाप्मत्वादि-स्वाभाविक-गुणाष्टकस्य मुक्ति-दशायां तिरोधान-निवृत्त्य्-आविर्भावः सूच्यते अनेन ज्ञान-गुणकत्व-ज्ञान-स्वरूपत्वापहत-पाप्मत्वादि-गुणाष्टक-विशिष्टं प्रकृति-वियुक्तं प्रत्यग्-आत्म-स्व-रूपम् इत्य् उक्तम् । अत्रायम् अर्थो ऽनुसन्धेयः जीवात्मानः स्वयम् असङ्कुचितापरिच्छिन्न-निर्मल-ज्ञान-स्व-रूपाः सन्तः कर्म-रूपाविद्या-वेष्टिताः तत्-तत्-कर्मानुरूप-ज्ञान-सङ्कोचम् आपन्नाः ब्रह्मादि-स्तम्ब-पर्यन्त-विविध-विचित्र-देहेषु प्रविष्टास् तत्-तत्-देहोचित-ज्ञान-प्रसरास् तत्-तत्-देहात्माभिमानिनस् तद्-उचित-कर्माणि कुर्वाणास् तद्-अनुगुण-सुख-दुःखोपभोग-रूप-संसार-प्रवाहं प्रतिपद्यन्ते । ननु ज्ञान-स्वरूप आत्मा स्वयम्-प्रकाशश् च, तस्य देहादि-स्वरूपात्माभिमाने स्व-रूप-प्रकाश-तिरोधानम् अवश्याश्रयणीयं स्व-रूप-प्रकाशे सत्य् आत्मन्य् आकारान्तराध्यासा-योगात् ततश् च स्व-रूप-प्रकाश-तिरोधाने स्व-रूप-नाश-प्रसङ्गः । मैवं न हि स्व-रूप-भूत-ज्ञानस्य तिरोधानम् उच्यते ऽपि तु धर्म-भूत-ज्ञानस्यैव । ननु धर्म-भूत-ज्ञानस्या ऽपि वा तिरोधानम् अवश्यम् आश्रयणीयं, तिरोधानञ् च कर्म-रूपाविद्यया प्रकाशोत्पत्ति-प्रतिबन्धो वा विद्यमान-प्रकाश-निवृत्तिर् वेति कोटि-द्वयम् एव हि सम्भावितम्, उभयथापि नित्यत्वेनाभिमत-धर्म-भूत-ज्ञानस्यापि नाश-प्रसङ्ग इति चेद् उच्यते आत्म-धर्म-भूतस्य चैतन्यस्य स्वाभाविकस्यापि कर्मणा पारमार्थिकं सङ्कोचं विकासं चाभ्युपगच्छामः । तत्र देहादि-भ्रमस्याधिष्ठान-स्फुरण-सापेक्षत्वाद् धर्मि-स्व-रूपं स्वयम्-प्रकाश-रूपम् अधिष्ठानतया स्फुरति नात्र ज्ञानान्तरापेक्षा । जडत्वाद् धि शुक्त्यादेर् ज्ञानान्तरापेक्षा; एवं धर्मि-स्व-रूपम् अधिष्ठानं स्फुरति भ्रम-विरोधिनो नित्यत्वाणुद्याकाराः ते ज्ञानान्तर-वेद्याः इति तिरोधानाद् भ्रम उपपद्यते । तिरोधानं च प्रकाश-निवृत्तिः । प्रकाशश् च न ज्ञान-स्व-रूपम् अपि तु प्रसराख्यो धर्म-भूत-ज्ञानस्य धर्मः प्रकाशः । प्रकाश-रूप-प्रसराभावश् च सङ्कोचः । भावस्यैवाभावाभावत्वात् सङ्कोचाभावः प्रसरः । स एव तिरोधान-निवृत्तिः, न च तदा भ्रमः, एवं च सति ज्ञानं धर्मि-स्व-रूपं च नित्यं ज्ञान-धर्म-भूत-प्रसरस्यैव प्रकाशत्वात् तद् अभावस्य च सङ्कोचत्वात् प्रसराख्य-प्रकाश-निवृत्ति-रूप-तिरोधानम् उपपद्यते । निर्विशेष-प्रकाश-स्वरूपात्म-वादे तु प्रकाशस्यैवात्म-स्वरूपत्वात् तत्र धर्मान्तरानभ्युपगमात् तिरोधाने स्वरूप-नाशो दुष्परिहरः । न च ज्ञानस्य ज्ञानान्तराश्रयत्वं न दृष्टम् इति चेत् तत् किं व्याप्त्या उपश्रुत्या नाद्यः, ज्ञानस्य कस्यचिद् धर्मत्वेनैव दृष्टत्वात् तस्य स्वतन्त्र-वस्तुत्वम् अनुपपन्नम् अतो ज्ञान-स्व-रूप आत्मा कस्यचिद् धर्मः स्यात् । श्रुत्या चेत् तथैव ज्ञानस्य ज्ञानाश्रयत्वम् अपि प्रतिपाद्यते तथा च श्रुतिः “कर्ता बोद्धा विज्ञानात्मेति” । नन्व् अत्र प्रकृतेः पुमान् “कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते” इत्यनेन स्वयम् अकर्तेव सन् प्रत्यग्-आत्मा चेतनानां गुणानां कर्तृत्वम् आत्मन्य् अध्यवस्यतीत्य् अवगम्यते । युक्तं चैतत्, आत्मनो ह्य् अकर्तृत्वं गुणानाम् एव च कर्तृत्वम् अध्यात्म-शास्त्रेषु श्रूयते । तथाहि कठ-वल्लीषु न जायते म्रियते इत्य्-आदिना जन्म-जरा-मरणादिकं सर्वं प्रकृति-धर्मं प्रतिषिध्य हननादिषु क्रियासु कर्तृत्वम् अपि प्रतिषिध्यते । “हन्ता चेन् मन्यते हन्तुं हतश् चेन् मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥” इति हन्तारम् आत्मानं जानन् न जानात्य् आत्मानम् इत्य् अर्थः । तथा च भगवता स्वयम् एव जीवस्याकर्तृत्व-स्वरूपं कर्तृत्वाभिमानस् तु व्यामोह इत्य् उच्यते । “प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कार-विमूढात्मा कर्ताहम् इति मन्यते ॥’ नान्यं गुणेभ्यः कर्तारं यदा द्रष्टा अनुपश्यति ।’ कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते ॥ पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते ॥” इति च । अतः पुरुषस्य भोक्तृत्वम् एव प्रकृतेर् एव कर्तृत्वम् । एवञ् च ‘कर्ता शास्त्रार्थवत्त्वात्’ ॥ २ ॥ ४ ३३ ॥ इत्य्-अधिकरणेन विरोधः । तत्र ह्य् आत्मैव कर्ता न गुणा इत्य् उच्यते । तथा हि “यजेत स्वर्ग-कामः मुमुक्षुर् ब्रह्मोपासीत” इत्य् एवम्-आदीनि शास्त्राणि स्वर्ग-मोक्षादि-फलस्य भोक्तारम् एव कर्तृत्वे नियुञ्जते । न ह्य् अचेतनस्य कर्तृत्वे ऽन्यो नियुज्यते शासनाच् च शास्त्रं शासनं प्रवर्तनं शास्त्रस्य प्रवर्तकत्वं बोध-जनन-द्वारेण अचेतनं च प्रधानं न बोधयितुं शक्यम् । अतः शास्त्राणाम् अर्थवत्त्वं भोक्तुश् चेतनस्यैव कर्तृत्वे भवेत् तद् उक्तम् “शास्त्र-फलं प्रयोक्तरि” इति । अतः कथम् अयं विरोधः परिहरणीय इति चेद् अत्रोच्यते कर्त्रधिकरणे हि शरीराधिष्ठातृ-रूप-कर्तृत्वम् आत्मन एवेत्य् उच्यते हन्ता चेद् इत्य्-अत्रात्मनो नित्यत्वाद् धननाद्यभाव उक्तः । अत्र प्रकृतेः क्रियमाणानीति गीतायां च सांसारिक-प्रवृत्तिषु जीवस्य कर्तृता अन्वय-व्यतिरेकाभ्यां सत्त्व-रजस्-तमोगुण-संसर्ग-कृता न स्व-रूप-प्रयुक्तेति गुणानाम् एव कर्तृत्वम् इत्य् उच्यते । न हि सांसारिक-प्रवृत्तिषु कर्तृत्वं गुण-संसर्ग-कृतम् इत्य्-एतावन्-मात्र-कथनेन स्वतः कृत्य्-आश्रयत्व-रूप-कर्तृत्वं प्रतिषिध्यते । तथा च तत्रैव गीतायाम् “कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु ।” इति सांसारिक-प्रवृत्तिषु कर्तृत्वं गुण-संसर्ग-कृतम् इत्य् अभिहितं । तथा च तत्रैवात्मनश् च कर्तृत्वम् अभ्युपेत्य उच्यते “शरीर-वाङ्-मनोभिर् यत् कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः । पश्यत्य्-अकृत-बुद्धित्वान् न स पश्यति दुर्मतिः ॥” इति । “अधिष्ठानं तथा कर्ता करणं च पृथग्-विधम् । विविधाश् च पृथक्-चेष्टा दैवं चैवात्र पञ्चमम् ॥” इति । दैवम् ईश्वरः अधिष्ठानादि-दैव-पर्यन्त-सापेक्षत्वे सत्य् आत्मनः कर्तृत्वे आत्मानम् एव केवलं कर्तारं मन्यते न स पश्यतीत्य् अर्थः । अतः कर्त्रधिकरणे पुरुषस्याधिष्ठान-भूत-स्व-शरीराधिष्ठातृत्व-रूप-कर्तृत्वम् उच्यते । “प्रकृतेः क्रियमाणेष्व्” इत्य्-आदौ तु सांसारिक-व्यापाराश्रयत्व-रूप-कर्तृत्वं प्रकृति-संसर्ग-कृतं न स्व-रूप-प्रयुक्तम् इत्य् उच्यते इत्य् अतो न तद्-अधिकरण-विरोध इति अलम् अति-विस्तरेण ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः।
भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम्॥
मूलम्
कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः।
भोक्तृत्वे सुखदुःखानां पुरुषं2 प्रकृतेः परम्॥ ८ ॥
अनुवाद (हिन्दी)
कार्यरूप शरीर, कारणरूप इन्द्रिय तथा कर्तारूप इन्द्रियाधिष्ठातृ-देवताओंमें पुरुष जो अपनेपनका आरोप कर लेता है, उसमें पण्डितजन प्रकृतिको ही कारण मानते हैं तथा वास्तवमें प्रकृतिसे परे होकर भी जो प्रकृतिस्थ हो रहा है, उस पुरुषको सुख-दुःखोंके भोगनेमें कारण मानते हैं॥ ८॥
वीरराघवः
एतद् एव सांसारिक-प्रवृत्तिषु कर्तृत्वं प्रकृति-संसर्ग-कृतं न स्व-रूप-कृतम् इति विशदयन् सांसारिक-प्रभृतिष्व् अपि स्व-शरीराधिष्ठातृत्व-रूप-कर्तृत्वाश्रयत्वात् प्रवृत्ति-फल-सुख-दुःखाश्रयत्वम् आत्मन एवेत्य् आह । कार्येति । कार्यं शरीरं कारणानि समनस्कानीन्द्रियाणि तेषां कर्तृत्वे बहिर्-गमनादि-क्रिया-कारित्वे प्रकृतिं पुरुषाधिष्ठितां शरीराकारेण परिणतां प्रकृतिं कारणं हेतुं विदुः । पुरुषाधिष्ठित-शरीराकार-परिणत-प्रकृत्याश्रय-भोग-साधन-भूताः क्रिया इत्य् अर्थः । पुरुषस्य स्वाधिष्ठातृत्वम् एव तद्-अपेक्षयाधिकं “कर्ता शास्त्रार्थवत्त्वात्" इत्यादिषूक्तं शरीराधिष्ठान-रूप-प्रयत्न-हेतुत्वम् एव हि पुरुषस्य कर्तृत्वम् । अत एव सुख-दुःखानां पुरुषाधिष्ठित-शरीराकार-परिणत-प्रकृति-हेतुक-व्यापार-जन्य-सुख-दुःखानां भोक्तृत्वे प्रकृतेः शरीरात् परं विलक्षणं तद्-अधिष्ठातारं पुरुषम् आत्मानं कारणं विदुः । स्व-शरीराधिष्ठान-रूप-प्रयत्नाश्रयत्वात् तद्-अधिष्ठेय-हेतुक-क्रिया-फल-सुख-दुःखाश्रय इत्य् अर्थः ॥ ८ ॥
श्लोक-९
मूलम् (वचनम्)
देवहूतिरुवाच
विश्वास-प्रस्तुतिः
प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम।
ब्रूहि कारणयोरस्य सदसच्च यदात्मकम्॥
मूलम्
प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम।
ब्रूहि कारणयोरस्य सदसच्च यदात्मकम्॥ ९ ॥
अनुवाद (हिन्दी)
देवहूतिने कहा—पुरुषोत्तम! इस विश्वके स्थूल-सूक्ष्म कार्य जिनके स्वरूप हैं तथा जो इसके कारण हैं उन प्रकृति और पुरुषका लक्षण भी आप मुझसे कहिये॥ ९॥
वीरराघवः
एवं प्रकृति-विलक्षणे तत्-संसृष्टे आत्म-स्व-रूपे कार्य-कारण-भावेनावस्थिते प्रकृति-स्व-रूपे चाभिहिते पुनस् तयोर् एव संसृष्टयोः प्रकृति-पुरुषयोः कार्यावस्थाः सप्रपञ्चं शुश्रूषमाणा पृच्छति देवहूतिः । हे पुरुषोत्तम ! प्रकृतेः कार्यावस्था-प्रधानस्य तथा पुरुषस्यापि कार्यावस्थावस्थितस्य ब्रह्मात्मकस्य कथम्भूतयोर् अस्य जगतः कारणयोः कार्यावस्थायाः पूर्वं कृत्स्न-जगत्-कारणत्वेन नाम-रूप-विभागानर्ह-सूक्ष्म-दशापत्त्या भगवच्-छरीरत्वेनावस्थितयोः लक्षणं स्व-रूपं ब्रूहि । ब्रह्मात्मकयोः प्रकृति-पुरुषयोः कार्य-भेदान् कथयेत्य् अर्थः । सद्-असच् च यद्-आत्मकं कारण-भूताः पित्र्-आदयः कार्य-भूताः पुत्रादयश् च यत्-प्रकृति-पुरुषात्मकं तयोर् लक्षणं ब्रूहीत्य् अर्थः । न हि केवल-प्रकृतेः केवलात्म-स्व-रूपस्य वा पितृ-पुत्रत्व्-आदि अत उभयात्मकत्वं सद्-असद् इति चिद्-अचित्-समुदाय-रूपं विश्वं वा विवक्षितम् ॥ ९ ॥
श्लोक-१०
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम्।
प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत्॥
मूलम्
यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम्।
प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत्॥ १० ॥
अनुवाद (हिन्दी)
श्रीभगवान्ने कहा—जो त्रिगुणात्मक, अव्यक्त, नित्य और कार्य-कारणरूप है तथा स्वयं निर्विशेष होकर भी सम्पूर्ण विशेष धर्मोंका आश्रय है, उस प्रधान नामक तत्त्वको ही प्रकृति कहते हैं॥ १०॥
वीरराघवः
एवं पृष्टो ब्रह्मात्म-प्रकृति-पुरुष-कार्यावस्थाः सप्रपञ्चम् उपपादयिष्यन् तावत् प्रकृतेः कारणावस्थां कार्यावस्थां च सङ्ग्रहेणाह । यत् तद् इति । यत् प्रधानं तद् एव प्रकृतिं प्राहुर् इत्य् अन्वयः । किन् तत् प्रधानम् अविशेषं कारणावस्थायां पृथिव्य्-आदि-विशेष-रहितम् अत एवाव्यक्तं नाम-रूप-विभागानर्हं त्रि-गुणं सत्त्व-रजस्-तमोगुणात्मकं नित्यं त्रि-गुणात्मकम् इत्य् अनेन जीवात्म-परमात्म-वैलक्षण्यम् उक्तं, नित्यम् इत्य् अनेन महद्-आद्य्-अवस्थानाम् अनित्यत्वे ऽप्य् अवस्थातो द्रव्यस्य नित्यत्वम् उक्तम् एवं प्रकृतेः कारणावस्थोक्ता, कार्यावस्थाम् आह । विशेषवत् कार्यावस्थायां पृथिव्य्-आदि-विशेषवत् सद्-असद्-आत्मकं महद्-आदि-पृथिव्य्-अन्त-कारण-रूपेण ब्रह्मादि-स्तम्ब-पर्यन्त-शरीर-रूप-कार्य-रूपेण च कार्य-कारणम् इत्य् अर्थः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः॥
मूलम्
पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः॥ ११ ॥
अनुवाद (हिन्दी)
पाँच महाभूत, पाँच तन्मात्रा, चार अन्तःकरण और दस इन्द्रिय—इन चौबीस तत्त्वोंके समूहको विद्वान् लोग प्रकृतिका कार्य मानते हैं॥ ११॥
वीरराघवः
एवम् अवस्था-द्वयम् अभिधाय तस्यैव प्रधानस्य कार्याणां महद्-आदीनां सृष्टिम् अनुक्रमिष्यन् तावत् तत्-कार्याणि गणयन् सुख-ग्रहणाय संगृह्णाति । पञ्चभिर् इति । पञ्चभिः पञ्चभिर् भूतैः पञ्चभिस् तन्-मात्रैश् चतुर्भिर् मनो-ऽहङ्कार-महद्-अव्यक्तैर् दशभिर् ज्ञान-कर्मोभयैर् इन्द्रियैर् इत्य् एवं संख्या-भेदेन एतच्-चतुर्विंशतिकम् । एतानि चतुर्विंशतिर् यस्मिन् तं प्राधानिकं प्रधान-कार्यात्मकं गणं समूहं विदुः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभः।
तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे॥
मूलम्
महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभः।
तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे॥ १२ ॥
अनुवाद (हिन्दी)
पृथ्वी, जल, तेज, वायु और आकाश—ये पाँच महाभूत हैं; गन्ध, रस, रूप, स्पर्श और शब्द—ये पाँच तन्मात्र माने गये हैं॥ १२॥
वीरराघवः
एतद् विवृणोति महा-भूतानीति त्रिभिः । महाभूतान्य् आकाशादीनि पञ्चैव एवकारो ऽधिक-सङ्ख्या-व्यवच्छेदार्थः, तानि गणयति । भूर् इति । स्पष्टो ऽर्थः । गन्धादीनि गन्ध आदिर् येषां तानि तन् मात्राणि द्रव्याणीत्य् अर्थः । गन्धादयो हि पृथिव्य्-आदीनाम् अवस्था-विशेषाः । तावन्ति पञ्चैव मे मया मतानि ज्ञातानि इदं मम भगवतो मतम् इत्य् अर्थः । एवं च तेजो-ऽब्-अन्नात्मकं भूत-त्रयम् एवेति मतान्तर-व्यावृत्तिः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसननासिकाः।
वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यते॥
मूलम्
इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसननासिकाः।
वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यते॥ १३ ॥
अनुवाद (हिन्दी)
श्रोत्र, त्वचा, चक्षु, रसना, नासिका, वाक्, पाणि, पाद, उपस्थ और पायु—ये दस इन्द्रियाँ हैं॥ १३॥
वीरराघवः
इन्द्रियाणि दश गणयति । इन्द्रियाणीति । श्रोत्रादीनि ज्ञानेन्द्रियाणि वाग्-आदीनि कर्मेन्द्रियाणि तत्र पायुर् गुदम् ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
मनो बुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम्।
चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया॥
मूलम्
मनो बुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम्।
चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया॥ १४ ॥
अनुवाद (हिन्दी)
मन, बुद्धि, चित्त और अहंकार—इन चारके रूपमें एक ही अन्तःकरण अपनी संकल्प, निश्चय, चिन्ता और अभिमानरूपा चार प्रकारकी वृत्तियोंसे लक्षित होता है॥ १४॥
वीरराघवः
अन्तः-करणं विभजति । मन इति । अन्तर्-आत्मकम् अन्तः-करणं वृत्त्या स्व-गुण-वृत्त्या सङ्कल्पाध्यवसायाभिमान-चिन्ता-रूपया लक्षण-रूपया चिह्न-भूतया मनो-बुद्धिर्-अहङ्कारश्-चित्तम् इति चतुर्धा लक्ष्यते इत्य् अन्वयः । अत्रायं भावः एकम् एवान्तर्-इन्द्रियं सङ्कल्पादि-वृत्ति-भेदेन चतुर्विधं तत्र चित्त-बुद्ध्य्-अहङ्काराणां क्रमेण मूल-प्रकृति-महद्-अहङ्कारानुग्राहकाः मूल-प्रकृत्याद्य्-अनुप्राह्यत्व-निबन्धनश्-चित्तादि-भेद-व्यपदेशाः अनुग्राह्यानुग्राहकयोर् अभेद-विवक्षया क्वचिद् अभेद-निर्देशो महान् वै बुद्धि-लक्षण इत्य्-आदिः । एषां चाव्यक्त-महद्-अहङ्काराणाम् अधिष्ठातारो वासुदेवादयो वक्ष्यन्ते एवं चात्र बुद्धि-शब्देनान्तर्-इन्द्रियस्य स्व-वृत्ति-रूपाध्यवसाय-जननेनानुग्राहकं महत्-तत्त्वं च विवक्षितं चित्त-शब्देन चिन्ता-जनकस्यान्तर्-इन्द्रियस्यानुग्राहकत्वाच् चिन्तनीयत्वाच् च व्यक्ताख्या मूल-प्रकृतिर् विवक्षिता । तत्रानुग्राह्यानुग्राहकयोर् अभेद-विवक्षया चतुर्विंशतिकं गणं विदुर् इत्य् उक्तम् । भेद-विवक्षायां तु सप्तविंशतिको गणो बोद्धव्य इति ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
एतावानेव सङ्ख्यातो ब्रह्मणः सगुणस्य ह।
सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः॥
मूलम्
एतावानेव सङ्ख्यातो ब्रह्मणः सगुणस्य ह।
सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः॥ १५ ॥
अनुवाद (हिन्दी)
इस प्रकार तत्त्वज्ञानी पुरुषोंने सगुण ब्रह्मके सन्निवेशस्थान इन चौबीस तत्त्वोंकी संख्या बतलायी है। इनके सिवा जो काल है, वह पचीसवाँ तत्त्व है॥ १५॥
वीरराघवः
एवं तत्त्वानि सङ्कल्प्य संगृह्णन् काल-स्व-रूपं लक्षयति । एतावान् इति । सगुणस्य सत्त्वादि-गुणकस्य ब्रह्मणः प्रधानस्य “तस्माद् एतद् ब्रह्म नाम-रूपम् अन्नञ् च जायते द्वे ब्रह्मणी वेदितव्ये” इत्य्-आदि-श्रुतौ “मम योनिर् महद्-ब्रह्म तस्मिन् गर्भं दधाम्य् अहम्” इति स्मृती च प्रकृताव् अपि ब्रह्म-शब्द-प्रयोगात् उपक्रमानुगुण्याय च, यद् वा उक्तानां तत्त्वानां “यः पृथिव्यां तिष्ठन् यश् चक्षुषि तिष्ठन्” इति ब्रह्मात्मकत्व-श्रवणात् सत्त्वादि-गुणात्मक-प्रकृति-कार्य-भूत-पृथिव्य्-आदि-शरीरकस्य पर-ब्रह्मणः परमात्मन इत्य् अर्थः । सन्निवेशः अवस्था-विशेषः मया प्रोक्तः एतावान् एव चतुर्विंशति-संख्याक एव सङ्ख्यातः गणितः तत्त्व-ज्ञैर् इति शेषः । अथ काल-स्व-रूपं लिलक्षयिषुस् तस्य तावत् तत्त्वान्तरत्वम् आह । यः कालः स पञ्चविंशकः पूर्वं परिगणितः चतुर्विंशतिभिः सहास्य परिगणने ऽयं पञ्चविंशतिको भवतीत्य् अर्थः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
प्रभावं पौरुषं प्राहुः कालमेके यतो भयम्।
अहंकारविमूढस्य कर्तुः प्रकृतिमीयुषः॥
मूलम्
प्रभावं3 पौरुषं प्राहुः कालमेके यतो भयम्।
अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः॥ १६ ॥
अनुवाद (हिन्दी)
कुछ लोग कालको पुरुषसे भिन्न तत्त्व न मानकर पुरुषका प्रभाव अर्थात् ईश्वरकी संहारकारिणी शक्ति बताते हैं। जिससे मायाके कार्यरूप देहादिमें आत्मत्वका अभिमान करके अहंकारसे मोहित और अपनेको कर्ता माननेवाले जीवको निरन्तर भय लगा रहता है॥ १६॥
वीरराघवः
तत्र कालो न तत्त्वान्तरम् इति मतान्तरम् उपन्यस्यति । प्रभावम् इति । पौरुषं परम-पुरुष-सम्बन्धिनं प्रभावम् एव कालम् एके आहुः । को ऽसौ पौरुषः प्रभाव इत्य् अत्राह । यतः पौरुष-प्रभावाद् भयं जगतः सर्ग-संहारादि-रूपं संसार-भयं भवति । परम-पुरुषस्य सर्ग-संहारादिषु जगन्-नियमन-सामर्थ्यं कालो न तत्त्वान्तरम् इत्य् अर्थः । एक इत्य् उक्त्या मतान्तरत्वं गम्यते स्व-मतम् आह । अहङ्कारेति । अनात्मन्य् आत्माभिमानो ऽहङ्कारस् तेन मूढस्य तिरोहितस्य स्व-रूपस्य प्रकृतिम् “अक्षरं तमसि लीयते" इति तमः-शब्द-वाच्यं निरतिशय-सूक्ष्म-दशापन्नं प्रधानं प्रकृति-कारणं परमात्मानं वा ईयुषः संसार-दशायां प्राप्तस्य कर्तुर् जीवस्य ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि।
चेष्टा यतः स भगवान् काल इत्युपलक्षितः॥
मूलम्
प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि।
चेष्टा यतः स भगवान् काल इत्युपलक्षितः॥ १७ ॥
अनुवाद (हिन्दी)
मनुपुत्रि! जिनकी प्रेरणासे गुणोंकी साम्यावस्थारूप निर्विशेष प्रकृतिमें गति उत्पन्न होती है, वास्तवमें वे पुरुषरूप भगवान् ही ‘काल’ कहे जाते हैं॥ १७॥
वीरराघवः
तथा हे मानवि ! प्रकृतेः प्रधानस्य यद्-गुण-त्रय-साम्यं तस्य निर्विशेषस्य नाम-रूपादि-विशेष-शून्यस्य नाम-रूपादि-विशेष-परिहारेण संहार-दशायां साम्यावस्थापन्न-गुण-त्रयस्य प्रधानस्य चेत्य्-अर्थः । यतश्-चेष्टा व्यापारो भवति स भगवान् भगवद्-आत्मकः कालः इत्य्-उपलक्षितः । संहार-दशायां नाम-रूप-विभागानर्ह-निरतिशय-सूक्ष्मावस्थाम्-आपन्नयोः प्रकृति-पुरुषयोः परमात्मात्मकयोस् तस्मिन्न् एव लीनयोः पुनः सृष्टि-दशायां जगद्-आकारेण परिणाम-रूपो यो व्यापारस् तद्-हेतु-भूतः स कालः स च भगवद्-आत्मक इत्य् अर्थः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
अन्तः पुरुषरूपेण कालरूपेण यो बहिः।
समन्वेत्येष सत्त्वानां भगवानात्ममायया॥
मूलम्
अन्तः पुरुषरूपेण कालरूपेण यो बहिः।
समन्वेत्येष सत्त्वानां भगवानात्ममायया॥ १८ ॥
अनुवाद (हिन्दी)
इस प्रकार जो अपनी मायाके द्वारा सब प्राणियोंके भीतर जीवरूपसे और बाहर कालरूपसे व्याप्त हैं, वे भगवान् ही पचीसवें तत्त्व हैं॥ १८॥
वीरराघवः
एवं प्रकृति-पुरुष-काल-स्व-रूपं शोधितं ते त्रयो ऽपि भगवद्-रूपाणि “प्रधान-पुरुषाव्यक्त-कालास् तु प्रविभागशः रूपाणि” इत्य्-उक्तेः, तेषु पृथिव्य्-आदि-स्थूल-रूपेण परिणतत्त्वात् प्रायेण प्रकृतिः स्फुट-स्व-रूपा । पुरुष-कालयोस् तु तादृश-स्थूल-परिणामाभावात् तयोः प्रतीयमानत्वं युक्त्या दर्शयन् तयोः शास्त्रैक-समधिगम्यं भगवद्-आत्मकत्वम् अन्तर् इति श्लोकेनाह । य आत्म-मायया स्व-सङ्कल्पेन सत्त्वानां पृथिव्य्-आदि-सम्भूत-देहानाम् अन्तः पुरुष-रूपेण इच्छामि द्वेष्मि सुख्यामि दुःख्यामीतीच्छा-द्वेष-सुखाद्याश्रय-जीवाख्य-रूपेणान्तः प्रविश्य तथा भवत्य्-अभूद्-भविष्यतीति तेषाम् एव सत्त्वानां विशेषणत्वेन बहिः कालाख्य-रूपेण च समन्वेति अवभासते स भगवान् परम-पुरुषः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान्।
आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम्॥
मूलम्
दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान्।
आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम्॥ १९ ॥
अनुवाद (हिन्दी)
जब परमपुरुष परमात्माने जीवोंके अदृष्टवश क्षोभको प्राप्त हुई सम्पूर्ण जीवोंकी उत्पत्तिस्थानरूपा अपनी मायामें चिच्छक्तिरूप वीर्य स्थापित किया, तो उससे तेजोमय महत्तत्त्व उत्पन्न हुआ॥ १९॥
वीरराघवः
एवं सृष्ट्य्-उपयोगितया प्रकृति-पुरुष-काल-शरीरकत्वं भगवत उक्तम् अथ सृष्टिम् आह । दैवाद् इति । परः पुमान् परम-पुरुषः भगवान् स्वस्यां स्वीयायां योनौ जगद्-योनौ प्रकृतौ दैवात् स्व-सङ्कल्पात् क्षुभित-धर्मिण्याम् “रजस्-तमश्-चाभिभूय सत्त्वं भवति भारत ! रजः-सत्त्वं तमश्-चैव तमः सत्त्वं रजस्-तथा ॥” इत्य्-उक्त-रीत्या क्षुभित-सत्त्वादि-गुणायां वीर्यं महद्-आदि-प्रपञ्च-सृष्टि-सामर्थ्यं चेतन-समष्टिं वा आधत्तायुङ्क्त, ततः सा योनिः हिरण्मयं प्रकाश-बहुलं महत्-तत्त्वम् असूत प्रसूतवती । क्षुभित-धर्मिण्याम् इत्य्-उक्त-सत्त्वादि-गुण-क्षोभो नाम गुणानां साम्यावस्था-प्रहाणेनान्यतम-गुणाभिभव-पूर्वकम् अन्य-गुणाविर्भावः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः।
स्वतेजसापिबत्तीव्रमात्मप्रस्वापनं तमः॥
मूलम्
विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः।
स्वतेजसापिबत्तीव्रमात्मप्रस्वापनं तमः॥ २० ॥
अनुवाद (हिन्दी)
लय-विक्षेपादि रहित तथा जगत्के अंकुररूप इस महत्तत्त्वने अपनेमें स्थित विश्वको प्रकट करनेके लिये अपने स्वरूपको आच्छादित करनेवाले प्रलयकालीन अन्धकारको अपने ही तेजसे पी लिया॥ २०॥
वीरराघवः
तत्र महत्-तत्त्व-सृष्टिः कस्य गुणस्याभिभवाद् इत्य् अत्राह । विश्वम् इति । जगद्-अङ्कुरः, जगद्-अङ्कुर-स्थानीयं यस्य जगद्-अङ्कुरः तथा सः जगत्-कारण-भूतः कूटस्थो ऽद्वारको निर्विकारो भगवान् आत्म-गतं “सो ऽभिध्याय शरीरात् स्वात्” इति प्रकारेण स्व-शरीर-भूत-प्रकृति-लीनं विश्वं व्यञ्जयन् व्यञ्जयितुं स्व-तेजसा स्व-सङ्कल्प-रूप-ज्ञानेनात्म-प्रस्वापनं जीवात्मनां ज्ञान-सङ्कोचकं तमस्-तमोगुणम् अपि बदभिभूतम्-अकरोद् इत्य्-अर्थः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
यत्तत्सत्त्वगुणं स्वच्छं शान्तं भगवतः पदम्।
यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम्॥
मूलम्
यत्तत्सत्त्वगुणं स्वच्छं शान्तं भगवतः पदम्।
यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम्॥ २१ ॥
अनुवाद (हिन्दी)
जो सत्त्वगुणमय, स्वच्छ, शान्त और भगवान्की उपलब्धिका स्थानरूप चित्त है, वही महत्तत्त्व है और उसीको ‘वासुदेव’ कहते हैं*॥ २१॥
पादटिप्पनी
- जिसे अध्यात्ममें चित्त कहते हैं; उसीको अधिभूतमें महत्तत्त्व कहा जाता है। चित्तमें अधिष्ठाता ‘क्षेत्रज्ञ’ और उपास्यदेव ‘वासुदेव’ हैं। इसी प्रकार अहंकारमें अधिष्ठाता ‘रुद्र’ और उपास्यदेव ‘संकर्षण’ है, बुद्धिमें अधिष्ठाता ‘ब्रह्मा’ और उपास्यदेव ‘प्रद्युम्न’ है तथा मनमें अधिष्ठाता ‘चन्द्रमा’ और उपास्यदेव ‘अनिरुद्ध’ है।
वीरराघवः
कस्य गुणस्याविर्भावाद् इत्य् अपेक्षायां तद्-दर्शयन् मूल-प्रकृति-महतोर् वासुदेवाख्य-व्यूहाधिष्ठितत्वं तयोर् अन्तः-करण-भेद-चित्त-बुद्ध्य्-अनुग्राहकत्वं चाह । यत् तद् इति । भगवतः पदम् “तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम्” इत्य्-उक्त-रीत्या सत्त्वस्य प्रकाशकत्वात् तद्-गुणकस्य चित्तस्य भगवद्-उपलम्भ-स्थानत्वम् इत्य् अर्थः । शान्तम् अभिभूत-तमस्कम् अत एव स्वच्छं प्रकाशकं सत्त्व-गुणकं यच् च वासुदेवाख्य-भगवद्-व्यूहाधिष्ठितं यच् चित्तम् अन्तः-करण-भेद-चित्तानुग्राहकं मूल-प्रकृत्य्-अपर-पर्यायम् अव्यक्तं तद् एव महत्-आत्मकं महत्-तत्त्वात्मनावस्थितम् इत्य् अर्थः । अत्र वासुदेवाख्यं चित्तम् इत्य् अधिष्ठात्राधिष्ठेययोर् अनुग्राह्यानुग्राहकयोश् चाभेद-विवक्षया निर्देशः । नात्र चित्तस्य वैकारिकाहङ्कार-कार्यान्तः-करण-भेदस्य वासुदेवाधिष्ठितत्वं महत्-आत्मकत्वं चोच्यते ‘चित्तं चैत्यस् ततो ऽभवद्’ इति चित्तस्य क्षेत्रज्ञाधिष्ठितत्वस्य वक्ष्यमाणत्वात् । महत्-कार्याहङ्कार-कार्यस्य चित्तस्य महद्-आत्मनावस्थानायोगाच् च कारणं हि कार्यात्मनावतिष्ठते न तु कार्यं कारणात्मना । तत् तु संहार-दशायां यद्य् अपि संभवति तथाप्य् अत्र सृष्टि-प्रकरणे तथावस्थानम् अयुक्तं वक्तुम् नापि महद्-आत्मकम् इति चित्तस्यान्तः-करण-भेदस्य महद्-अनुग्राह्यत्वम् उच्यते । महतो बुद्ध्य्-अनुग्राहकत्वान् महान् वै बुद्धि-लक्षण इत्य्-उक्तेः, न चात्र चित्त-शब्देन बुद्धिर् एवान्तः-करण-भेदो विवक्षित इति वक्तुं शक्यम् । बुद्धेर् वासुदेवाधिष्ठितत्वानुपपत्तेः बुद्धेर् गिरां पतिर्’ इति वक्ष्यमाणत्वात् तस्माद् अत्राभिभूत-तमस्कम् उद्भूत-सत्त्व-गुणम् अव्यक्तम् एव वासुदेवाधिष्ठितं महत्-आत्मना परिणतम् इत्य् अवधारणीयं तत्र यो ऽव्यक्तस्याधिष्ठाता वासुदेवः स एव महतो ऽप्य् अधिष्ठाता, अधिष्ठात्र्-अन्तर-अनुक्तेः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतसः।
वृत्तिभिर्लक्षणं प्रोक्तं यथापां प्रकृतिः परा॥
मूलम्
स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतसः।
वृत्तिभिर्लक्षणं प्रोक्तं यथापां प्रकृतिः परा॥ २२ ॥
अनुवाद (हिन्दी)
जिस प्रकार पृथ्वी आदि अन्य पदार्थोंके संसर्गसे पूर्व जल अपनी स्वाभाविक (फेन-तरंगादिरहित) अवस्थामें अत्यन्त स्वच्छ, विकारशून्य एवं शान्त होता है, उसी प्रकार अपनी स्वाभाविकी अवस्थाकी दृष्टिसे स्वच्छत्व, अविकारित्व और शान्तत्व ही वृत्तियोंसहित चित्तका लक्षण कहा गया है॥ २२॥
वीरराघवः
कदान्तः-करण-व्यक्तानुगृहीतं सञ्-चित्तम् इति । लक्ष्यते इत्य् अत्राह स्वच्छत्वम् इति । स्वच्छत्वं भगवद्-बिम्ब-ग्राहित्वम् अविकारित्वं विक्षेपादि-राहित्यम् अत एव शान्तत्वं रजस्-तमोभ्याम् अनभिभूतत्वम् इत्य् एवं-रूपैः स्वच्छत्वादिभिश् चेतसो वृत्तिभिर् लक्षणं प्रोक्तं यदा स्वच्छत्वादि-गुणकं मनस् तदा सत्त्वोत्तराव्यक्तानुगृहीतम् इति चेतो-वृत्तिभिर् लक्ष्यते इत्य् अर्थः । स्वच्छत्वादौ दृष्टान्तम् आह । यथेति । अपाम् अम्भसां परा प्रकृतिर् अनारोपित-स्व-स्व-भावो यथा अपां स्व-भाव-रूपं स्वच्छत्वं फेन-तरङ्गादि-राहित्यम् एवं स्वच्छत्वादिकं यदा भवति तदाव्यक्तानुगृहीतं मन इत्य् अर्थः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
महत्तत्त्वाद्विकुर्वाणाद्भगवद्वीर्यसम्भवात्।
क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत॥
मूलम्
महत्तत्त्वाद्विकुर्वाणाद्भगवद्वीर्यसम्भवात्।
क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत॥ २३ ॥
वीरराघवः
एवम् अध्यवसायादि-वृत्तिभिर् बुद्धेर् महत्-तत्त्वानुगृहीतत्वं वेदितव्यम् । अथाहङ्कारोत्पत्ति-प्रकारं वदन् तत्-स्वरूपं तद्-अवान्तर-भेदं तद्-अधिष्ठातारं चाह त्रिभिः । महत्-तत्त्वाद् इति । भगवतो वीर्येण सङ्कल्प-ज्ञानेन चोदितात् प्रेरिताद् अत एव विकुर्वाणात् महत्-तत्त्वाद् वैकारिक-तैजस-तामस-भेदेन त्रि-विधः, क्रिया-शक्तिः क्रिया-शब्देन प्रवर्तक रजो-गुण उच्यते गुणोद्रिक्त इत्य् अर्थः, अहङ्कारः समपद्यत उदभूद् इत्य् अर्थः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
वैकारिकस्तैजसश्च तामसश्च यतो भवः।
मनसश्चेन्द्रियाणां च भूतानां महतामपि॥
मूलम्
वैकारिकस्तैजसश्च तामसश्च यतो भवः।
मनसश्चेन्द्रियाणां च भूतानां महतामपि॥ २४ ॥
अनुवाद (हिन्दी)
तदनन्तर भगवान्की वीर्यरूप चित्-शक्तिसे उत्पन्न हुए महत्तत्त्वके विकृत होनेपर उससे क्रिया-शक्तिप्रधान अहंकार उत्पन्न हुआ। वह वैकारिक, तैजस और तामस भेदसे तीन प्रकारका है। उसीसे क्रमशः मन, इन्द्रियों और पंचमहाभूतोंकी उत्पत्ति हुई॥ २३-२४॥
वीरराघवः
को ऽसाव् अहङ्कार इत्य् अत्राह । वैकारिक इति । यतः त्रि-विधाहङ्कारान् मनसः इन्द्रियाणां ज्ञान-कर्मोभयेन्द्रियाणां महतां भूतानाम् आकाशादीनाम् अपि शब्दाच् छन्दादि-तन्-मात्राणां च भव उत्पत्तिः मन-आदीनां कारणम् इत्य् अर्थः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
सहस्रशिरसं साक्षाद्यमनन्तं प्रचक्षते।
सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम्॥
मूलम्
सहस्रशिरसं साक्षाद्यमनन्तं प्रचक्षते4।
सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम्॥ २५ ॥
अनुवाद (हिन्दी)
इस भूत, इन्द्रिय और मनरूप अहंकारको ही पण्डितजन साक्षात् ‘संकर्षण’ नामक सहस्र सिरवाले अनन्तदेव कहते हैं॥ २५॥
वीरराघवः
तस्याहङ्कारस्य सङ्कर्षणाधिष्ठितत्वम् आह । सहस्र-शिरसम् इति । सहस्र-शिरसं सहस्र-फणम् अनन्त-शब्द-वाच्यं साक्षात् सङ्कर्षणाख्य-भगवद्-व्यूहं पुरुषं परम-पुरुषं भूतेन्द्रिय-मनोमयं भूतादीनां कारणम् अहङ्कारं प्रचक्षते सङ्कर्षणाधिष्ठितम् अहङ्कारं प्रचक्षते इत्य् अर्थः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम्।
शान्तघोरविमूढत्वमिति वा स्यादहंकृते॥
मूलम्
कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम्।
शान्तघोरविमूढत्वमिति5 वा स्यादहंकृते॥ २६ ॥
अनुवाद (हिन्दी)
इस अहंकारका देवतारूपसे कर्तृत्व, इन्द्रियरूपसे करणत्व और पंचभूतरूपसे कार्यत्व लक्षण है तथा सत्त्वादि गुणोंके सम्बन्धसे शान्तत्व, घोरत्व और मूढत्व भी इसीके लक्षण हैं॥ २६॥
वीरराघवः
अहङ्कारस्य लक्षणं तस्य स्व-कार्य-भूतान्तः-करण-भेदाहङ्कारानुग्राहकत्वं तद्वृत्तिभिर् लक्ष्यत्वं चाह । कर्तृत्वम् इति । कर्तृत्वाभिमानः आत्मनि गमनाद्याश्रयत्वाभिमानो यदा मनसि स्यात्-तदाहङ्कारानुगृहीतं मन इत्य् अर्थः । एवं करणत्वम् इन्द्रियत्वं कार्यत्वं देहत्वं चेति लक्षणम् अहङ्कारस्य लक्षणं चिह्न-भूतेन्द्रिय-कारणत्वाद् अहङ्कारस्येत्य् अर्थः । शान्तत्वं प्रकाशत्वं घोरत्वं विक्षिप्तत्वं मूढत्वं चेति वाहंकृतेर् लक्षणं तत्-तत्-कारण-गुण-त्रय-रूपेणाहङ्कारो लक्षित इत्य् अर्थः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
वैकारिकाद्विकुर्वाणान्मनस्तत्त्वमजायत।
यत्सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भवः॥
मूलम्
वैकारिकाद्विकुर्वाणान्मनस्तत्त्वमजायत।
यत्सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भवः6॥ २७ ॥
अनुवाद (हिन्दी)
उपर्युक्त तीन प्रकारके अहंकारमेंसे वैकारिक अहंकारके विकृत होनेपर उससे मन हुआ, जिसके संकल्प-विकल्पोंसे कामनाओंकी उत्पत्ति होती है॥ २७॥
वीरराघवः
अथ मनस उत्पत्ति-पूर्वकं तल्-लक्षणम् अधिष्ठातारञ् चाह । वैकारिकाद् इति । विकुर्वाणाद् वैकारिकात् सात्त्विकाहङ्कारान् मनस्तत्त्वम् अजायत । यन्-मनः सङ्कल्प-विकल्पाभ्यां वर्त्तते सङ्कल्पः समित्येकीकारे देहादिभिर् आत्मनो ऽपृथक्त्वेन चिन्तनम् । विकल्पो विविध-विषय-चिन्तनं यद् अन्तः-करणे तैजसाहङ्कारानुग्रहात् सङ्कल्प-विकल्पौ भवतः तदा तदैवान्तः-करणं मन इति जानीयाद् इत्य् अर्थः । तस्य प्रद्युम्न्नाधिष्ठितत्वम् आह । काम-संभव इति । वैकारिक इति शेषः, कामः प्रद्युम्नः तस्य संभवः सम्यग् भवतीति सम्भवस् तस्य विभूतिर् इत्य् अर्थः । अयम् अधिष्ठाता प्रद्युम्नो मनः-कारणस्य वैकारिकाहङ्कारस्य न तु मनसः “मनसश् चन्द्रमा जात” इति तदधिष्ठातुर् वक्ष्यमाणत्वात् अस्य मनसो ऽनुग्राहकस् तु तैजसो ऽहङ्कारः । “लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा । रजस्येतानि जायन्त” इति स्पृहादीनां रजः-कार्यत्वावगमात् तस्य प्रवर्तनात्मक-क्रिया-शक्ति-युक्तत्वाच् च । एवं तामसाहङ्कार-कार्यस्याकाशादेर् अपि स्व-स्व-कार्य-जनने तैजसो ऽहङ्कारो ऽनुग्राहको वेदितव्यः । एवं सामान्येनोक्तम् अहङ्काराधिष्ठातृत्वं सङ्कर्षणस्य तत्-तामसाहङ्काराधिष्ठातृत्वम् एवेति विशेषे पर्यवसन्नं बोध्यम् ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
यद्विदुर्ह्यनिरुद्धाख्यं हृषीकाणामधीश्वरम्।
शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः॥
मूलम्
यद्विदुर्ह्यनिरुद्धाख्यं हृषीकाणामधीश्वरम्।
शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः॥ २८ ॥
अनुवाद (हिन्दी)
यह मनस्तत्त्व ही इन्द्रियोंके अधिष्ठाता ‘अनिरुद्ध’ के नामसे प्रसिद्ध है। योगिजन शरत्कालीन नीलकमलके समान श्याम वर्णवाले इन अनिरुद्धजीकी शनैः-शनैः मनको वशीभूत करके आराधना करते हैं॥ २८॥
वीरराघवः
अस्य तैजसाहङ्कारस्याधिष्ठातारं वदन् को ऽसाव् इन्द्रियेषु तत्-कृतो ऽनुग्रह इत्य् अपेक्षायां ज्ञान-स्वरूप-मात्र-जनन-सामर्थ्यादिर् एव सर्वेन्द्रियेष्व् अनुग्रहत्वं वृत्तिभिर् लक्ष्यत इत्य् आह यम् इति त्रिभिः । हृषीकाणाम् इन्द्रियाणाम् अधीश्वरम् अधिष्ठातारम् अनिरुद्धाधिष्ठेय-तैजसाहङ्कारानुग्राह्यत्वाद् इन्द्रियाणाम् अप्य् अनिरुद्धाधिष्ठितत्वम् उक्तं शरत्-कालीनेन्दीवरवच्-छ्यामम् ऋषिभिः शनैः सम्यग् आराधनीयम् अनिरुद्धाख्य-व्यूहं यं तैजसाहङ्कारं विदुः अनिरुद्धाधिष्ठितं तैजसाहङ्कारं विदुर् इत्य् अर्थः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
तैजसात्तु विकुर्वाणाद् बुद्धितत्त्वमभूत्सति।
द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहः॥
मूलम्
तैजसात्तु विकुर्वाणाद् बुद्धितत्त्वमभूत्सति।
द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहः॥ २९ ॥
अनुवाद (हिन्दी)
साध्वि! फिर तैजस अहंकारमें विकार होनेपर उससे बुद्धितत्त्व उत्पन्न हुआ। वस्तुका स्फुरणरूप विज्ञान और इन्द्रियोंके व्यापारमें सहायक होना—पदार्थोंका विशेष ज्ञान करना—ये बुद्धिके कार्य हैं॥ २९॥
श्लोक-३०
विश्वास-प्रस्तुतिः
संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च।
स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक्॥
मूलम्
संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च।
स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक्7॥ ३० ॥
अनुवाद (हिन्दी)
वृत्तियोंके भेदसे संशय, विपर्यय (विपरीत ज्ञान), निश्चय, स्मृति और निद्रा भी बुद्धिके ही लक्षण हैं। यह बुद्धितत्त्व ही ‘प्रद्युम्न’ है॥ ३०॥
वीरराघवः
तस्मात् तैजसाद् विक्रियमाणात् हे सति ! इन्द्रियाणाम् अनुग्रह-रूपं बुद्धि-तत्त्वं बुद्ध्यते ऽनेनेति बुद्धिः ज्ञान-स्व-रूप-जनन-सामर्थ्यम् अभूत् कथं बुद्धि-तत्त्वस्येन्द्रियानुग्रहत्वम् अवगम्यते इत्य् आशङ्कायां स्व-वृत्तिभिर् इत्य् आह । द्रव्येति । द्रव्य-स्फुरण-विज्ञानादयो बुद्धि-तत्त्वस्य वृत्तयः तत्र द्रव्य-स्फुरण-विज्ञानं द्रव्य-मात्रावभास-रूपं ज्ञानं व्यावर्तकाकार-ज्ञानाभावात् । संशय इति । संशयो विकल्प-ज्ञानं विपर्यास-शब्देनान्यथा-ज्ञान-विपरीत-ज्ञाने विवक्षिते तत्र धर्मान्तरस्य धर्म्यन्तरे प्रतीतिर् अन्यथा-ज्ञानं यथा पीतः शङ्ख इति धर्म्यन्तरस्य धर्म्यन्तरत्वेन प्रतीतिर् विपरीत-ज्ञानं यथेदं रजतम् इति । शुक्ति-शकले निश्चयः प्रमाण-रूपं स्मृतिर् अनुभूत-वस्तु-विषयं ज्ञानं स्वापो निद्रा संशयादि-स्वापान्ताभिः पृथग् असङ्करेण वृत्तितः वृत्तिभिर् बुद्धेर् बुद्धि-तत्त्वस्य लक्षणम् इन्द्रियानुग्रहत्व-रूप-लक्षणम् उच्यते । यदेन्द्रियाणां द्रव्य-स्फुरण-विज्ञानादि-जनकत्वं तदा तान् इन्द्रियाणि बुद्धि-तत्त्वानुगृहीतानीत्य् उच्यन्ते इत्य् अर्थः । यद्वा इन्द्रियाणाम् इति कर्तरि षष्ठी, इन्द्रियाणां कार्य-भूतं द्रव्य-स्फुरण-विज्ञानं द्रव्य-स्फुरणम् अर्थेन्द्रियं सम्बन्ध-स्फुरणं तज्-जन्य-विज्ञान-शब्द-वाच्यं बुद्धि-तत्त्वं तैजसाहङ्काराद् अभूत् तद्-अनुग्राह्येन्द्रिय-कार्यत्वाद् इत्य् अर्थः । संशयादयो ज्ञान-विशेषा इत्य् आह । संशय इति । बुद्धेर् लक्षणं बुद्धेः प्रकारः वृत्तितः सदोष-निर्दोष-इन्द्रिय-वृत्तिभिर् इत्य् अर्थः ॥ २९-३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः।
प्राणस्य हि क्रिया शक्तिर्बुद्धेर्विज्ञानशक्तिता॥
मूलम्
तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः।
प्राणस्य हि क्रिया शक्तिर्बुद्धेर्विज्ञानशक्तिता॥ ३१ ॥
अनुवाद (हिन्दी)
इन्द्रियाँ भी तैजस अहंकारका ही कार्य हैं। कर्म और ज्ञानके विभागसे उनके कर्मेन्द्रिय और ज्ञानेन्द्रिय दो भेद हैं। इनमें कर्म प्राणकी शक्ति है और ज्ञान बुद्धिकी॥ ३१॥
वीरराघवः
उभयेन्द्रियाणाम् उत्पत्तिं तेषां लक्षणं चाह । तैजसानीति । क्रिया-ज्ञान-विभागशः ज्ञानेन्द्रिय-कर्मेन्द्रिय-विभागेनोभयविधानीन्द्रियाणि तैजसान्य् एव । एवकारो ऽहङ्कारान्तर-कार्यत्व-व्युदासार्थः । ननु पूर्वम् इन्द्रियाणाम् अनुग्रह इति तैजसाहङ्कारस्येन्द्रियानुग्राहकत्वम् उक्तम् । अत्र त्व् इन्द्रियाणां तत्-कार्यत्वम् एवोच्यत इति विरोधः, मैवं पूर्वत्र को ऽसाव् इन्द्रियेषु तैजस-कृतो ऽनुग्रह इत्य् अपेक्षायां द्रव्य-स्फुरण-विज्ञान-रूपो ऽनुग्रह इत्य् उक्तं न च तत्रान्तः-करण-भेदस्य बुद्धि-तत्त्वस्यैवोत्पत्तिर् उच्यत इति वक्तुं शक्यं महत्-तत्त्वानुगृहीतान्तः-करणाध्यवसायात्मक-वृत्ति-विशेषस्यैव बुद्धित्वात् । “वैकारिकाद् विकुर्वाणान् मनस्-तत्त्वम् अजायत” इति मनस उत्पत्ति-कथनेनैव सिद्धत्वात् पृथग् बुद्ध्य्-उत्पत्ति-कथनस्यानपेक्षितत्वात्, अन्यथा चित्ताहङ्कारयोर् अपि पृथग् उत्पत्ति-कथनापत्तेश् च न च तत्र निश्चयः स्मृतिर् एव चेति बुद्धेर् वृत्ति-विशेषस्य निश्चयस्य कथनाद् अध्यवसायात्मिका बुद्धिर् एव बुद्धि-तत्त्वम् अभूत् सतीत्य् उच्यत इति चेन् न, अध्यवसायात्मकान्तः-करण-वृत्ति-विशेषाया बुद्धेः पुनर् वृत्त्य् अन्तरानुपपत्तेः । अन्यथा तस्या अपि पुनर् वृत्त्य् अन्तरं स्याद् इत्य् अनवस्था-प्रसङ्गस् तस्माद् बुद्धि-तत्त्वम् अभूद् इत्य् अनेन ज्ञान-स्व-रूप-मात्र-जनन-सामर्थ्यम् अभूत् निश्चय-प्रमात्मकं ज्ञानम् इति यथोक्त एवार्थः साधुः । तस्मात् पूर्व्वत्र बुद्धि-तत्त्व-रूप एवेन्द्रियेषु तैजस-कृतो ऽनुग्रह इति दर्शितम् । अत्र तु सर्वेन्द्रियाणाम् इन्द्रिय-कारणस्य वैकारिकस्य च तैजसानुग्राह्यत्वम् एव, न त्व् अहङ्कारान्तरानुग्राह्यत्वम् इत्य् उच्यते । अत एवोत्पत्ति-वाचक-शब्दो ऽत्र न प्रयुक्तः । युक्तं चैतत्, नहि तैजसस्य प्रवर्तनात्मक-क्रिया-शक्ति-युक्तस्यानुग्राहकत्वम् अन्तरेण पृथक्-कार्य-जनन-सामर्थ्यम् अस्ति । नचैवं बुद्धि-तत्त्वस्यापि तैजसाद् उत्पत्तिर् अनुपपन्ना कथम् उक्तेति वाच्यम्, तस्य तैजस-कृतानुग्रह-प्रदर्शन-मात्र-परत्वात् तस्मात् तैजसानीन्द्रियाण्य् एवेत्य् अस्यायम् अर्थः । तैजसाहङ्कारानुगृहीत-वैकारिकाहङ्कार-कार्याण्य् एवोभयविधानीतीन्द्रियाणां तेजसानुगृहीत-वैकारिकाद् एवोत्पत्तिर् हि द्वितीय-स्कन्धे ऽभिहिता । एतद् एव सहेतुकम् उपपादयति । प्राणस्य हीति । हि यस्मात् प्राणस्य कर्मेन्द्रिय-गणस्य “प्राणम् अनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति” इति सर्वेन्द्रियाणां प्राण-शब्दावाच्यत्वे ऽपि बुद्धेर् इति ज्ञानेन्द्रिय-गणस्य पृथग् उपादानात् गो-बलीवर्द-न्यायेनात्र कर्मेन्द्रिय-वर्ग-परः प्राण-शब्दः । तस्य कर्मेन्द्रिय-गणस्य क्रिया गमनादि-क्रिया-रूपा शक्तिर् दृश्यते, यतश् च बुद्धेर् बुद्ध्यते ऽनेनेति बुद्धिर् ज्ञानेन्द्रिय-वर्गः । तस्य विज्ञानम् अत्र प्रकाशनं प्रकाशन-रूप-शक्तिता दृश्यते ततस् तैजसाहङ्कारानुगृहीत-सात्त्विकाहङ्कार-कार्याण्य् एवोभयेन्द्रियाणि इत्य् अर्थः । बुद्धेर् विज्ञान-शक्तितेत्य् अनेनात्रापि ज्ञानेन्द्रिय-गणस्य वैकारिकत्वं स्पष्टम् एवोक्तं “तत्र सत्त्वं निर्मलत्वात् प्रकाशकम्” इति सत्त्वस्यैव प्रकाशकत्वात् । ननूभयेन्द्रियाणाम् अपि तैजसानुगृहीत-वैकारिकत्वे उभयेषाम् अपीन्द्रियाणां ज्ञान-क्रिया-शक्ति-द्वयवत्त्वम् एव स्यात् तत् तु न दृष्टम् इति चेन् न, सत्त्व-रजसोर् उद्भवाभिभव-योगेन ज्ञानेन्द्रियोत्पादन-वेलायां वैकारिके सत्त्वस्योद्भवः रजसो ऽभिभवः कर्मेन्द्रियोत्पत्ति-वेलायां तु रजस उद्भवः सत्त्वस्याभिभव इत्याशयात् ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
तामसाच्च विकुर्वाणाद्भगवद्वीर्यचोदितात्।
शब्दमात्रमभूत्तस्मान्नभः श्रोत्रं तु शब्दगम्॥
मूलम्
तामसाच्च विकुर्वाणाद्भगवद्वीर्यचोदितात्।
शब्दमात्रमभूत्तस्मान्नभः8 श्रोत्रं तु शब्दगम्॥ ३२ ॥
अनुवाद (हिन्दी)
भगवान्की चेतनशक्तिकी प्रेरणासे तामस अहंकारके विकृत होनेपर उससे शब्दतन्मात्रका प्रादुर्भाव हुआ। शब्दतन्मात्रसे आकाश तथा शब्दका ज्ञान करानेवाली श्रोत्रेन्द्रिय उत्पन्न हुई॥ ३२॥
वीरराघवः
अथ तन्-मात्रोत्पत्ति-पूर्वकम् आकाशादि-महा-भूतोत्पत्तिं तयोः कार्यापर-पर्यायं लक्षणं चाह । तामसाद् इति पञ्च-दशभिः । भगवद्-वीर्य-चोदिताद् भगवत्-सङ्कल्प-प्रेरिताद् अत एव विकुर्वाणात् तामसाद् अहङ्कारात् शब्द-तन्-मात्र-द्रव्यम् अभूद् उद्भूत् तस्माच् शब्द-मात्रान् नभः उदभूत् । स शब्दः केन गृह्यते इत्य् अत्राह । श्रोत्रम् इति । श्रोत्रं तु शब्दगम् इत्य् आदिना श्रोत्रादीनां नभादिभ्यो नोत्पत्तिर् उच्यते, श्रोत्रादीनां तैजसानुगृहीत-वैकारिकाद् उत्पत्तेर् उक्तत्वात् । किं तु शब्दादि-रूप-विषयोत्पत्त्य् अनन्तरं श्रोत्रादीनां तत्-सम्बन्ध-मात्रम् उच्यते, श्रोत्रं श्रोत्रेन्द्रियं शब्दगं शब्द-तन्-मात्र-ज्ञापकम् इत्य् अर्थः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च।
तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः॥
मूलम्
अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च।
तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः॥ ३३ ॥
अनुवाद (हिन्दी)
अर्थका प्रकाशक होना, ओटमें खड़े हुए वक्ताका भी ज्ञान करा देना और आकाशका सूक्ष्म रूप होना—विद्वानोंके मतमें यही शब्दके लक्षण हैं॥ ३३॥
वीरराघवः
किं तत् शब्द-तन्-मात्रं कीदृशं तन् नभ इत्य् अपेक्षायां तयोः कार्य-मुखेन स्वरूपं शोधयति द्वाभ्याम् । अर्थाश्रयत्वम् अर्थ-वाचकत्वं द्रष्टुर्लिङ्गत्वं तस्य भावस् तत्त्वं द्रष्टुः सर्वज्ञस्य परमात्मनः लिङ्गत्वं प्रमाण-भूतत्वं भगवतः शास्त्र-योनित्त्वात् द्रष्टुः घट-पटाद्य्-अर्थ-द्रष्टुः लिङ्ग्यते प्रतीयते इति द्रष्टृलिङ्गं तस्य भावस् तत्त्वम् इति वा घट-पटाद्य्-अर्थ-द्रष्टुर् हि तद्-वाचकः शब्दः प्रतीयते, यद्य् अपि शब्द-श्रवणाद् अप्य् अर्थः प्रतीयते, तथापि तद् अपि शब्दस्य लक्षणम् एव तद् एव हि अर्थाश्रयत्वम् इत्य् उक्तम् । अर्थाश्रयत्वं नाम श्रोतुर् अर्थ-प्रत्यायकत्वम् एव वक्तुर् द्रष्टृत्वेनानुमापकत्वं वा । अर्थं दृष्ट्वा हि वक्ताभिवदति कुड्याद्य्-अन्तरितस्यापि वक्तुर् ज्ञापकत्वं वा नभसस् तन्-मात्रम् आकाशस्यासाधारण-गुणत्वं सूक्ष्मत्वं वा शब्दस्य लक्षणं कार्य्यं कवयो विदुः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
भूतानां छिद्रदातृत्वं बहिरन्तरमेव च।
प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो वृत्तिलक्षणम्॥
मूलम्
भूतानां छिद्रदातृत्वं बहिरन्तरमेव च।
प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो वृत्तिलक्षणम्॥ ३४ ॥
अनुवाद (हिन्दी)
भूतोंको अवकाश देना, सबके बाहर-भीतर वर्तमान रहना तथा प्राण, इन्द्रिय और मनका आश्रय होना—ये आकाशके वृत्ति (कार्य) रूप लक्षण हैं॥ ३४॥
वीरराघवः
नभसो लक्षणम् आह । भूतानाम् इति । भूतानां ब्रह्मादि-स्तम्ब-पर्यन्त-भूतानां छिद्र-दातृत्वम् अवकाश-दातृत्वं बहिर् अन्तर्-व्यवहारास्पदत्वं प्राणानाम् इन्द्रियाणाम् आत्मनश् च धिष्ण्यत्वं स्थानत्वं नाड्य्-आदि-च्छिद्र-रूपेण नभस आकाशस्य वृत्ति-लक्षणं वृत्तिः छिद्र-दातृत्वादि-कार्यम् एव लक्षणम् । एवम् उत्तरत्राप्य् एकेन श्लोकेन तन्-मात्र-महा-भूतयोर् उत्पत्तिः, द्वितीयेन तन्-मात्र-लक्षणं तृतीयेन महा-भूत-लक्षणम् इत्य् अनुसन्धेयम् ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
नभसः शब्दतन्मात्रात्कालगत्या विकुर्वतः।
स्पर्शोऽभवत्ततो वायुस्त्वक् स्पर्शस्य च संग्रहः॥
मूलम्
नभसः शब्दतन्मात्रात्कालगत्या विकुर्वतः।
स्पर्शोऽभवत्ततो वायुस्त्वक् स्पर्शस्य च संग्रहः॥ ३५ ॥
अनुवाद (हिन्दी)
फिर शब्दतन्मात्रके कार्य आकाशमें कालगतिसे विकार होनेपर स्पर्शतन्मात्र हुआ और उससे वायु तथा स्पर्शका ग्रहण करानेवाली त्वगिन्द्रिय (त्वचा) उत्पन्न हुई॥ ३५॥
वीरराघवः
नभस इति शब्द-तन्-मात्रात् शब्दस् तन्-मात्रम् असाधारणो यस्य तस्मात् काल-गत्या काल-शरीरक-भगवत्-सङ्कल्पेन विकुर्वतो विक्रियमाणान् नभस आकाशात् स्पर्शः स्पर्श-तन्-मात्रम् अभवत् । ततः स्पर्शाद् वायुर् अभवत् को ऽसौ स्पर्शस्य ग्राहक इत्य् अत्राह । त्वक् त्वग्-इन्द्रियं स्पर्शस्य संग्रहः सम्यग् ग्राहकः सम्यक् ग्रहो यया सेति वा (सम्यग् ग्रहो यया सेति वेति व्याख्यानं तु स्त्रीलिङ्ग-पाठाभिप्रायेण) ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
मृदुत्वं कठिनत्वं च शैत्यमुष्णत्वमेव च।
एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः॥
मूलम्
मृदुत्वं कठिनत्वं च शैत्यमुष्णत्वमेव च।
एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः॥ ३६ ॥
अनुवाद (हिन्दी)
कोमलता, कठोरता, शीतलता और उष्णता तथा वायुका सूक्ष्म रूप होना—ये स्पर्शके लक्षण हैं॥ ३६॥
वीरराघवः
मृदुत्वादयः नभस्वतो वायोस् तन्-मात्रत्वम् असाधारण-गुणत्वं च स्पर्शस्य स्पर्शत्वं लक्षणम् इत्य् अर्थः ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः।
सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिलक्षणम्॥
मूलम्
चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः।
सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिलक्षणम्॥ ३७ ॥
अनुवाद (हिन्दी)
वृक्षकी शाखा आदिको हिलाना, तृणादिको इकट्ठा कर देना, सर्वत्र पहुँचना, गन्धादियुक्त द्रव्यको घ्राणादि इन्द्रियोंके पास तथा शब्दको श्रोत्रेन्द्रियके समीप ले जाना तथा समस्त इन्द्रियोंको कार्यशक्ति देना—ये वायुकी वृत्तियोंके लक्षण हैं॥ ३७॥
वीरराघवः
चालनं वृक्ष-शाखादेः व्यूहनं विभाग-करणं प्राप्तिश् च चलितयोः संयोजकत्वं द्रव्य-शब्दयोर् नेतृत्वं द्रव्य-नेतृत्वं तत्र द्रव्य-नेतृत्वं द्रव्यस्य गन्धवतो घ्राणं प्रति शब्दस्य नेतृत्वं दूरस्य शब्दस्य श्रोत्र-ग्राह्यत्व-करणं सर्वेन्द्रियाणाम् आत्मत्वं धारकत्वं वायोः कर्मैवाभिलक्षणम् ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
वायोश्च स्पर्शतन्मात्राद्रूपं दैवेरितादभूत्।
समुत्थितं ततस्तेजश्चक्षू रूपोपलम्भनम्॥
मूलम्
वायोश्च स्पर्शतन्मात्राद्रूपं दैवेरितादभूत्।
समुत्थितं ततस्तेजश्चक्षू रूपोपलम्भनम्॥ ३८ ॥
अनुवाद (हिन्दी)
तदनन्तर दैवकी प्रेरणासे स्पर्शतन्मात्रविशिष्ट वायुके विकृत होनेपर उससे रूपतन्मात्र हुआ तथा उससे तेज और रूपको उपलब्ध करानेवाली नेत्रेन्द्रियका प्रादुर्भाव हुआ॥ ३८॥
वीरराघवः
वायोर् इति । स्पर्शस् तन्-मात्रो ऽसाधारण-गुणो यस्य तस्माद् दैवेरिताद् ईश्वर-प्रेरिताद् वायो रूपं रूप-तन्-मात्रम् अभूत् ततो रूपात् तेजः समुत्थितम् उत्पन्नम् अभूत् । किन् तद् रूपस्य ग्राहकम् इत्य् अत्राह । चक्षुश् चक्षुर्-इन्द्रियं रूपोपलम्भनं रूप-ग्राहकम् ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च।
तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः॥
मूलम्
द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च।
तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः॥ ३९ ॥
अनुवाद (हिन्दी)
साध्वि! वस्तुके आकारका बोध कराना, गौण होना—द्रव्यके अंगरूपसे प्रतीत होना, द्रव्यका जैसा आकार-प्रकार और परिमाण आदि हो, उसी रूपमें उपलक्षित होना तथा तेजका स्वरूपभूत होना—ये सब रूपतन्मात्रकी वृत्तियाँ हैं॥ ३९॥
वीरराघवः
द्रव्याकृतित्वं द्रव्यस्य भूतासार-व्यावर्तकत्वं गुणता नित्यं द्रव्याश्रयत्वं व्यक्ति-संस्थानं व्यक्तेर् व्यक्त्यन्तर-व्यावर्तकत्वं तेजसः तेजस्त्वम् असाधारण-गुणत्वं च हे साध्वि ! रूप-मात्रस्य रूप-तन्-मात्रस्य वृत्तयः लक्षणानीत्य् अर्थः ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
द्योतनं पचनं पानमदनं हिममर्दनम्।
तेजसो वृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च॥
मूलम्
द्योतनं पचनं पानमदनं हिममर्दनम्।
तेजसो वृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च॥ ४० ॥
अनुवाद (हिन्दी)
चमकना, पकाना, शीतको दूर करना, सुखाना, भूख-प्यास पैदा करना और उनकी निवृत्तिके लिये भोजन एवं जलपान कराना—ये तेजकी वृत्तियाँ हैं॥ ४०॥
वीरराघवः
द्योतनं प्रकाशनं पचनं तण्डुलादेः क्षुत्-तृड्-अशनाया-पिपासे च तद् द्वारेण पानम् अदनं च हिम-मर्द्दनं हिमाभिभवः शोषणं च तेजसो वृत्तयः लक्षणानि कार्याणीति यावत् ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
रूपमात्राद्विकुर्वाणात्तेजसो दैवचोदितात्।
रसमात्रमभूत्तस्मादम्भो जिह्वा रसग्रहः॥
मूलम्
रूपमात्राद्विकुर्वाणात्तेजसो दैवचोदितात्।
रसमात्रमभूत्तस्मादम्भो जिह्वा रसग्रहः॥ ४१ ॥
अनुवाद (हिन्दी)
फिर दैवकी प्रेरणासे रूपतन्मात्रमय तेजके विकृत होनेपर उससे रसतन्मात्र हुआ और उससे जल तथा रसको ग्रहण करानेवाली रसनेन्द्रिय (जिह्वा) उत्पन्न हुई॥ ४१॥
वीरराघवः
रूप-मात्राद् इति । दैवेन चोदितात्-प्रेरिताद् विकुर्वाणाद् रूप-मात्राद् रूपं तन्-मात्रं यस्य तस्मात् तेजसः रस-मात्रं रस-तन्-मात्रम् अभूत्, तस्माद् रस-तन्-मात्राद् अम्भः अभूत् । का रस-तन्-मात्रस्य ग्राहिकेत्य् अत्राह । जिह्वा रसनेन्द्रियं रसस्य ग्रहः ग्राहिका ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
कषायो मधुरस्तिक्तः कट्वम्ल इति नैकधा।
भौतिकानां विकारेण रस एको विभिद्यते॥
मूलम्
कषायो मधुरस्तिक्तः कट्वम्ल इति नैकधा9।
भौतिकानां विकारेण रस एको विभिद्यते॥ ४२ ॥
अनुवाद (हिन्दी)
रस अपने शुद्ध स्वरूपमें एक ही है; किन्तु अन्य भौतिक पदार्थोंके संयोगसे वह कसैला, मीठा, तीखा, कड़वा, खट्टा और नमकीन आदि कई प्रकारका हो जाता है॥ ४२॥
वीरराघवः
कषाय इति । कषायादिषु लवणो ऽपि द्रष्टव्यः, भौतिकानां सांसर्गिक-द्रव्याणां विकारेण एक एव रसः कषायादि-भेदेनानेकधा विभिद्यत इत्य् अर्थः ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम्।
तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः॥
मूलम्
क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम्।
तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः॥ ४३ ॥
अनुवाद (हिन्दी)
गीला करना, मिट्टी आदिको पिण्डाकार बना देना, तृप्त करना, जीवित रखना, प्यास बुझाना, पदार्थोंको मृदु कर देना, तापकी निवृत्ति करना और कूपादिमेंसे निकाल लिये जानेपर भी वहाँ बार-बार पुनः प्रकट हो जाना—ये जलकी वृत्तियाँ हैं॥ ४३॥
वीरराघवः
क्लेदनम् आर्द्रीकरणं पिण्डनं मृद्-आदेः पिण्डीकरणं तृप्तिः तृप्ति-दातृत्वं प्राणनं जीवनम् “आपोमयः प्राण” इति श्रुतेर् आप्यायनं तृड्-वैक्लव्य-निर्वर्तनम् औन्दनं मृदू-करणं भूयस्त्वं कूपादाव् उद्धृतस्यापि पुनर् उद्गमः पाञ्च-भौतिकेष्व् अपि जलांशस्य भूयस्त्वं वा तथा च सूत्र-कारः । त्र्य्-आत्मकत्वात् तु भूयस्त्वात् ।३।१।२। इति । इमाः क्लेदनादयः तेजसो वृत्तयः ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
रसमात्राद्विकुर्वाणादम्भसो दैवचोदितात्।
गन्धमात्रमभूत्तस्मात्पृथ्वी घ्राणस्तु गन्धगः॥
मूलम्
रसमात्राद्विकुर्वाणादम्भसो दैवचोदितात्।
गन्धमात्रमभूत्तस्मात्पृथ्वी घ्राणस्तु गन्धगः॥ ४४ ॥
अनुवाद (हिन्दी)
इसके पश्चात् दैवप्रेरित रसस्वरूप जलके विकृत होनेपर उससे गन्धतन्मात्र हुआ और उससे पृथ्वी तथा गन्धको ग्रहण करानेवाली घ्राणेन्द्रिय प्रकट हुई॥ ४४॥
वीरराघवः
दैव-चोदिताद् विकुर्वाणाद् रस-मात्राद् अम्भसः गन्ध-मात्रम् अभूत् तस्माद् गन्ध-मात्रात् पृथ्वी अभूत् घ्राणः । घ्राणेन्द्रियं गन्ध-गः गन्ध-ग्राहकः ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
करम्भपूतिसौरभ्यशान्तोग्राम्लादिभिः पृथक्।
द्रव्यावयववैषम्याद्गन्ध एको विभिद्यते॥
मूलम्
करम्भपूतिसौरभ्यशान्तोग्राम्लादिभिः10 पृथक्।
द्रव्यावयववैषम्याद्गन्ध एको विभिद्यते॥ ४५ ॥
अनुवाद (हिन्दी)
गन्ध एक ही है; तथापि परस्पर मिले हुए द्रव्यभागोंकी न्यूनाधिकतासे वह मिश्रितगन्ध, दुर्गन्ध, सुगन्ध, मृदु, तीव्र और अम्ल (खट्टा)आदि अनेक प्रकारका हो जाता है॥ ४५॥
वीरराघवः
एक एव गन्धः द्रव्याणां संसर्गि-द्रव्याणां वैषम्याद् विकुर्वाणात् पृथक्-करम्भादि-भेदेन विभिद्यते । तत्र करम्भो मिश्र-गन्धः यथा व्यञ्जनादीनां हिङ्ग्वादि-संस्कारैः पूतिर्-दूर्गन्धः सौरभ्यं कर्पूरादेः शान्तः शत-पत्रादेः उग्रो लशुनादेः अम्लः पर्युषित-भुक्तान्नादेः ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम्।
सर्वसत्त्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम्॥
मूलम्
भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम्।
सर्वसत्त्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम्॥ ४६ ॥
अनुवाद (हिन्दी)
प्रतिमादि रूपसे ब्रह्मकी साकार-भावनाका आश्रय होना, जल आदि कारणतत्त्वोंसे भिन्न किसी दूसरे आश्रयकी अपेक्षा किये बिना ही स्थित रहना, जल आदि अन्य पदार्थोंको धारण करना, आकाशादिका अवच्छेदक होना (घटाकाश, मठाकाश आदि भेदोंको सिद्ध करना) तथा परिणामविशेषसे सम्पूर्ण प्राणियोंके [स्त्रीत्व, पुरुषत्व आदि] गुणोंको प्रकट करना—ये पृथ्वीके कार्यरूप लक्षण हैं॥ ४६॥
वीरराघवः
भावनं घटादि-निष्पादनं ब्राह्मण-स्थानं ब्राह्मण-शब्दश् चराचरोपलक्षणार्थः सर्वेषाम् आधारत्वम् इत्य् अर्थः । ब्रह्मणः इति पाठे तु ब्रह्मणः ब्रह्म-कुलस्य स्थानम् इति स एवार्थः सद्-विशेषणं सतां कार्याणां विशेषकत्वं ब्रह्मादि-कार्याणां देश-भेदेन सारासार-वत्त्व-दर्शनात् सर्व-सत्त्व-गुणोद्-भेदः तत्-तत्-देश-स्थ-प्राणिनाम् आकार-विशेष-हेतुत्वं यद् वा शब्दादि-सर्व-सत्त्व-गुण-वत्त्वं चेति पृथिव्या वृत्तिः कार्यम् एव लक्षणम् इत्य् अर्थः ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते।
वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदुः॥
मूलम्
नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते।
वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदुः॥ ४७ ॥
अनुवाद (हिन्दी)
आकाशका विशेष गुण शब्द जिसका विषय है, वह श्रोत्रेन्द्रिय है; वायुका विशेष गुण स्पर्श जिसका विषय है, वह त्वगिन्द्रिय है॥ ४७॥
श्लोक-४८
विश्वास-प्रस्तुतिः
तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते।
अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः।
भूमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते॥
मूलम्
तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते।
अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः।
भूमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते॥ ४८ ॥
अनुवाद (हिन्दी)
तेजका विशेष गुण रूप जिसका विषय है, वह नेत्रेन्द्रिय है; जलका विशेष गुण रस जिसका विषय है, वह रसनेन्द्रिय है और पृथ्वीका विशेष गुण गन्ध जिसका विषय है, उसे घ्राणेन्द्रिय कहते हैं॥ ४८॥
वीरराघवः
श्रोत्रादीनां शब्दादि-ग्राहकत्वम् उक्तं तेषां च लक्षणं तद् एवेत्य् आह पञ्चभिर् अर्घैः । नभस आकाशस्य गुण-विशेषः शब्दो यस्यार्थः विषयः ग्राह्य इति यावत्, तच् श्रोत्रम् उच्यते आकाशासाधारण-गुण-शब्द-ग्राहकत्वम् एव श्रोत्रत्वम् इत्य् अर्थः । एवम् उत्तरत्रापि वेदितव्यम् ॥ ४७-४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
परस्य दृश्यते धर्मो ह्यपरस्मिन् समन्वयात्।
अतो विशेषो भावानां भूमावेवोपलक्ष्यते॥
मूलम्
परस्य दृश्यते धर्मो ह्यपरस्मिन् समन्वयात्।
अतो विशेषो भावानां भूमावेवोपलक्ष्य11ते॥ ४९ ॥
अनुवाद (हिन्दी)
वायु आदि कार्य-तत्त्वोंमें आकाशादि कारण-तत्त्वोंके रहनेसे उनके गुण भी अनुगत देखे जाते हैं; इसलिये समस्त महाभूतोंके गुण शब्द, स्पर्श, रूप, रस और गन्ध केवल पृथ्वीमें ही पाये जाते हैं॥ ४९॥
वीरराघवः
यद् उक्तं पृथिव्याः सर्व-सत्त्व-गुणोद्-भेद इति लक्षणं तद् विशदयति । परस्येति । हि यस्मात् परस्य कारणस्य धर्मः शब्दादिर् अपरस्मिन् कार्ये वाय्व्-आदौ समन्वयात् समवायात् दृश्यते अतस् तस्माद् भावानाम् आकाशादीनां विशेषः शब्दादिः भूमौ पृथिव्याम् एवोपलक्ष्यते दृश्यते ॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
एतान्यसंहत्य यदा महदादीनि सप्त वै।
कालकर्मगुणोपेतो जगदादिरुपाविशत्॥
मूलम्
एतान्यसंहत्य यदा महदादीनि सप्त वै।
कालकर्मगुणोपेतो जगदादिरुपाविशत्॥ ५० ॥
अनुवाद (हिन्दी)
जब महत्तत्त्व, अहंकार और पंचभूत—ये सात तत्त्व परस्पर मिल न सके—पृथक्-पृथक् ही रह गये, तब जगत्के आदिकारण श्रीनारायणने काल, अदृष्ट और सत्त्वादि गुणोंके सहित उनमें प्रवेश किया॥ ५०॥
वीरराघवः
एवं महद्-आदि-पृथिव्य्-अन्त-भूत-सृष्टिम् अभिधाय तेभ्यो ऽण्डोत्पत्तिम् अभिधास्यन् “नो वीर्याः पृथग्-भूतास् ततस् ते संहतिं विना” इत्य् उक्त-रीत्या ईश्वरानुप्रवेशम् अन्तरेण कार्यासमर्थ्यं वदंस् तेष्व् ईश्वरानुप्रवेशम् आह । एतानीति । एतानि महद्-आदिदि-पृथिव्य्-अन्तानि सप्त-तत्त्वानि तन्-मात्राणि भूतेषु इन्द्रियाणाम् अहङ्कारे चान्तर्भाव्य सप्तेति निर्देशः यदा संहत्या मिलित्वा स्थितानि तदा काल-कर्म-गुणोपेतः कर्म अदृष्टं गुणः सत्त्वादिः कालादिभिर् उपेतः जगद्-आदिर् ईश्वरः तानि महद्-आदि-तत्त्वानि उपाविशत् ॥ ५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम्।
उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट्॥
मूलम्
ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम्।
उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट्॥ ५१ ॥
अनुवाद (हिन्दी)
फिर परमात्माके प्रवेशसे क्षुब्ध और आपसमें मिले हुए उन तत्त्वोंसे एक जड अण्ड उत्पन्न हुआ। उस अण्डसे इस विराट् पुरुषकी अभिव्यक्ति हुई॥ ५१॥
वीरराघवः
मेलनं संहतत्व-समागतत्व-भेदेन द्विविधं, संहतत्वं नाम पृथक्-स्थित्य्-अर्ह-संयोग-मात्रं, समागतत्वं पृथक्-स्थित्य्-अनर्ह-संश्लेष-विशेषः एतद्-द्वयाभावात् सृष्ट्य्-असमर्थान्य् एवं स्थितानीश्वरानुप्रवेशाद् उभयं प्राप्तेभ्यस् तेभ्यो ऽण्डं सृष्टम् इत्य् आह । तत इति । ईश्वरानुप्रवेशानन्तरन् तेनेश्वरानुप्रवेशेन हेतुनानुविद्धेभ्यः समागतेभ्यः युक्तेभ्यः संहतेभ्यस् तत्त्वेभ्य अचेतनम् अधिष्ठातृ-चेतन-रहितम् अण्डम् उत्थितम् उत्पन्नं कीदृशं तद् एतद् अण्डम् इत्य् अत्राह । यस्माद् अण्डाद् असौ विराट् समष्टि-पुरुषो ब्रह्मोदतिष्ठद् उदभूत् ॥ ५१ ॥
श्लोक-५२
विश्वास-प्रस्तुतिः
एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरैः।
तोयादिभिः परिवृतं प्रधानेनावृतैर्बहिः।
यत्र लोकवितानोऽयं रूपं भगवतो हरेः॥
मूलम्
एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरैः।
तोयादिभिः परिवृतं प्रधानेना12वृतैर्बहिः।
यत्र लोकवितानोऽयं रूपं भगवतो हरेः॥ ५२ ॥
अनुवाद (हिन्दी)
इस अण्डका नाम विशेष है, इसीके अन्तर्गत श्रीहरिके स्वरूपभूत चौदहों भुवनोंका विस्तार है। यह चारों ओरसे क्रमशः एक-दूसरेसे दसगुने जल, अग्नि, वायु, आकाश, अहंकार और महत्तत्त्व—इन छः आवरणोंसे घिरा हुआ है। इन सबके बाहर सातवाँ आवरण प्रकृतिका है॥ ५२॥
वीरराघवः
पुनर् अण्डम् एव विशिनष्टि । एतद् इति । एतद्-विशेषाख्यम् अण्डं बहिः प्रधानेन प्रकृत्या आवृतैः क्रमवृद्धैः क्रमश उत्तरोत्तरम् अधिकैः किं यद् आधिक्यं तत्राह । दशोत्तरैर्-दश-गुणितोत्तरैः उत्तरोत्तरं दश-गुणाधिकैर् इत्य् अर्थः, तोयादिभिः तोय-ग्रहणं पृथिव्या उपलक्षणं पृथिव्यादिभिर् इत्य् अर्थः, परिवृतं परिवेष्टितं यत्र यस्मिन्न् अण्डे लोक-वितानः देव-मनुष्यादि-लोक-विस्तारः भवति तद् भगवतो रूपं शरीरम् इत्य् अर्थः ॥ ५२ ॥
श्लोक-५३
विश्वास-प्रस्तुतिः
हिरण्मयादण्डकोशादुत्थाय सलिलेशयात्।
तमाविश्य महादेवो बहुधा निर्बिभेद खम्॥
मूलम्
हिरण्मयादण्डकोशादुत्थाय सलिलेशयात्।
तमाविश्य महादेवो बहुधा निर्बिभेद खम्॥ ५३ ॥
अनुवाद (हिन्दी)
कारणमय जलमें स्थित उस तेजोमय अण्डसे उठकर उस विराट् पुरुषने पुनः उसमें प्रवेश किया और फिर उसमें कई प्रकारके छिद्र किये॥ ५३॥
वीरराघवः
एवं महद्-आदि-चतुर्मुखान्त-सृष्टिर् उक्ता । अथ समष्टि-भूत-चतुर्मुख-शरीरस्य तत्-तद्-अवयवाद् देवादि-व्यष्टि-शरीराणाम् इन्द्रिय-तत्-स्थान-तद्-अभिमानि-देवतानां विभागं विवक्षुः सो ऽपि विभागश् चतुर्मुख-शरीरक-परमात्म-कर्तृक एवेत्य् आह । हिरण्मयाद् इति । सलिलेशयात् उषिताद् धिरण्मयात्-प्रकाश-बहुलाद् अण्ड-कोशाद् उत्थायाण्ड-कोशे शयानो ऽनिरुद्ध-रूपी भगवान् तत उत्थाय प्रवृत्त्य्-उन्मुखो भूत्वा तं चतुर्मुखम् आविश्य महादेवो भगवान् खम् इन्द्रिय-गणं बहुधा-ऽनेकधा निर्बिभेद समष्टि-भूत-चतुर्मुख-शरीरस्थम् इन्द्रिय-गणं व्यष्टि-रूपेणानेकधा विभक्तम् अकरोद् इत्य् अर्थः ॥ ५३ ॥
श्लोक-५४
विश्वास-प्रस्तुतिः
निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत्।
वाण्या वह्निरथो नासे प्राणोऽतो घ्राण एतयोः॥
मूलम्
निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत्।
वाण्या वह्निरथो नासे प्राणोऽतो घ्राण एतयोः॥ ५४ ॥
अनुवाद (हिन्दी)
सबसे पहले उसमें मुख प्रकट हुआ, उससे वाक्-इन्द्रिय और उसके अनन्तर वाक्का अधिष्ठाता अग्नि उत्पन्न हुआ। फिर नाकके छिद्र (नथुने) प्रकट हुए , उनसे प्राणसहित घ्राणेन्द्रिय उत्पन्न हुई॥ ५४॥
वीरराघवः
विभागम् एवाह । निरभिद्यतेत्य् अष्टभिः । अस्य ब्रह्मणः प्रथमं मुखं निरभिद्यत, ‘नटस्य शृणोतीतिवद्’ अस्येति पञ्चम्य्-अर्थस्यैव शेषत्व-विवक्षया षष्ठी बोध्या, समष्टि-भूत-ब्रह्म-शरीर-मुखाद् देवादीनां वाग्-इन्द्रियाधिष्ठानं व्यष्टि-मुखं विभक्तम् अभूद् इत्य् अर्थः । ततो वाणी वाग्-व्यष्टिर् अभवत्, वाण्या वाग्-इन्द्रियात् तद्-अधिष्ठाता वह्निर् अभवद् विभक्तो ऽभूत् । अथो ऽनन्तरम् अस्य नासे घ्राणेन्द्रियाधिष्ठाने नासा-बिले व्यष्टीनां निरभिद्येताम् । अतः नासाभ्यां घ्राणाः घ्राणेन्द्रिय-व्यष्टिः एतयोर् एतस्या घ्राणेन्द्रियस्याधिष्ठानापेक्षया एतयोर् इति द्विवचन-निर्देशः, यद् वा एतयोर् नासिकयोः प्राणः प्राणाधीनः घ्राण एतयोर् अभवद् इत्य् अनुषङ्गः ॥ ५४ ॥
श्लोक-५५
विश्वास-प्रस्तुतिः
घ्राणाद्वायुरभिद्येतामक्षिणी चक्षुरेतयोः।
तस्मात्सूर्यो व्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः॥
मूलम्
घ्राणाद्वायुरभिद्येताम13क्षिणी चक्षुरेतयोः।
तस्मात्सूर्यो व्यभिद्ये14तां कर्णौ श्रोत्रं ततो दिशः॥ ५५ ॥
अनुवाद (हिन्दी)
घ्राणके बाद उसका अधिष्ठाता वायु उत्पन्न हुआ। तत्पश्चात् नेत्रगोलक प्रकट हुए , उनसे चक्षु-इन्द्रिय प्रकट हुई और उसके अनन्तर उसका अधिष्ठाता सूर्य उत्पन्न हुआ। फिर कानोंके छिद्र प्रकट हुए , उनसे उनकी इन्द्रिय श्रोत्र और उसके अभिमानी दिग्देवता प्रकट हुए॥ ५५॥
वीरराघवः
घ्राणाद् अनन्तरं तद्-अधिष्ठाता वायुश् च प्राणाधीनत्वं सर्वेन्द्रियेष्व् अपि द्रष्टव्यं, तथाहि छन्दोग-वाजसनेयिनां प्राण-विद्यायाम् ‘एता ह वै देवता अहं श्रेयसे व्यूदिरे अहं श्रेयसे विवदमाना, इति चोपक्रम्य वाग्-आद्य्-एकैकापक्रमणे अन्येषां सप्राणानाम् इन्द्रियाणां शरीरस्य च स्थितिं तत्-कार्यं चाविकलं प्रतिपाद्य प्राणोत्क्रमणे सर्वेषां विशरणम् अकार्य-करत्वं चाभिधाय सर्वेषां प्राणाधीन-स्थितित्वम् अभिहितम् । अक्षिणी चक्षुर्-इन्द्रियाधिष्ठाने भिद्येतां विभक्ते अभवताम् एतयोर् अक्ष्णोश् चक्षुर्-इन्द्रियं निरभिद्यत । तस्माच् चक्षुषः सूर्यश् चक्षुषो ऽधिष्ठाता अभवत् । कर्णौ श्रोत्रेन्द्रियाधिष्ठाने निरभिद्येतां ततः श्रोत्रेन्द्रियं तद्-अधिदेवता दिशश् च निरभिद्यन्त ॥ ५५ ॥
श्लोक-५६
विश्वास-प्रस्तुतिः
निर्बिभेद विराजस्त्वग्रोमश्मश्र्वादयस्ततः।
तत ओषधयश्चासन् शिश्नं निर्बिभिदे ततः॥
मूलम्
निर्बिभेद विराजस्त्वग्रोमश्मश्र्वादयस्ततः।
तत ओषधयश्चासन् शिश्नं निर्बिभिदे ततः॥ ५६ ॥
अनुवाद (हिन्दी)
इसके बाद उस विराट् पुरुषके त्वचा उत्पन्न हुई। उससे रोम, मूँछ-दाढ़ी तथा सिरके बाल प्रकट हुए और उनके बाद त्वचाकी अभिमानी ओषधियाँ (अन्न आदि) उत्पन्न हुईं। इसके पश्चात् लिंग प्रकट हुआ॥ ५६॥
वीरराघवः
विराजो ब्रह्मणः रोम-श्मश्र्व्-आदयः त्वग्-इन्द्रियाधिष्ठान-भूताः ततस् त्वग्-इन्द्रियं ततस् तद्-अधिदेवता ओषधयश् चासन् एवं । शिश्नम् उपस्थेन्द्रियाधिष्ठानम् ॥ ५६ ॥
श्लोक-५७
विश्वास-प्रस्तुतिः
रेतस्तस्मादाप आसन्निरभिद्यत वै गुदम्।
गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्करः॥
मूलम्
रेतस्तस्मादाप आसन्निरभिद्यत वै गुदम्।
गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्करः॥ ५७ ॥
अनुवाद (हिन्दी)
उससे वीर्य और वीर्यके बाद लिंगका अभिमानी आपोदेव (जल) उत्पन्न हुआ। फिर गुदा प्रकट हुई, उससे अपानवायु और अपानके बाद उसका अभिमानी लोकोंको भयभीत करनेवाला मृत्युदेवता उत्पन्न हुआ॥ ५७॥
वीरराघवः
रेत उपस्थेन्द्रियं तद्-अधिदेवता आपः गुदं पाय्व्-इन्द्रियाधिष्ठानं पाय्व्-इन्द्रिय-रूपो ऽपानः प्राणस् तद्-अधिष्ठाता लोक-संहर्ता मृत्युः ॥ ५७ ॥
श्लोक-५८
विश्वास-प्रस्तुतिः
हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट्।
पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः॥
मूलम्
हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट्।
पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः॥ ५८ ॥
अनुवाद (हिन्दी)
तदनन्तर हाथ प्रकट हुए , उनसे बल और बलके बाद हस्तेन्द्रियका अभिमानी इन्द्र उत्पन्न हुआ। फिर चरण प्रकट हुए , उनसे गति (गमनकी क्रिया) और फिर पादेन्द्रियका अभिमानी विष्णुदेवता उत्पन्न हुआ॥ ५८॥
वीरराघवः
हस्तौ पाणीन्द्रियाधिष्ठानं बलाख्यं प्राणेन्द्रियं तद्-अधिष्ठाता स्वराट् स्वराड् अत्रेन्द्रः “स्वराडिन्द्रः प्रथमम् आसीत्” इति श्रुतेः । पादौ पादेन्द्रियाधिष्ठानं गत्य्-आख्यं प्राणेन्द्रियं तद्-अधिदेवता हरि-रूपेन्द्रः ॥ ५८ ॥
श्लोक-५९
विश्वास-प्रस्तुतिः
नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम्।
नद्यस्ततः समभवन्नुदरं निरभिद्यत॥
मूलम्
नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृ15तम्।
नद्यस्ततः समभवन्नुदरं निरभिद्यत॥ ५९ ॥
अनुवाद (हिन्दी)
इसी प्रकार जब विराट् पुरुषके नाडियाँ प्रकट हुईं, तो उनसे रुधिर उत्पन्न हुआ और उससे नदियाँ हुईं। फिर उसके उदर (पेट) प्रकट हुआ॥ ५९॥
वीरराघवः
अस्य ब्रह्मणः नाड्यः अधिष्ठानम् । आभृतं पूर्णं लोहितम् इन्द्रिय-स्थानीयं तद्-अधिदेवता नद्यः उदरम् अधिष्ठानम् ॥ ५९ ॥
श्लोक-६०
विश्वास-प्रस्तुतिः
क्षुत्पिपासे ततः स्यातां समुद्रस्त्वेतयोरभूत्।
अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम्॥
मूलम्
क्षुत्पिपासे ततः स्यातां समुद्रस्त्वेतयोरभूत्।
अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम्॥ ६० ॥
अनुवाद (हिन्दी)
उससे क्षुधा-पिपासाकी अभिव्यक्ति हुई और फिर उदरका अभिमानी समुद्रदेवता उत्पन्न हुआ। तत्पश्चात् उसके हृदय प्रकट हुआ, हृदयसे मनका प्राकट्य हुआ॥ ६०॥
वीरराघवः
क्षुत्-पिपासे इन्द्रिय-स्थानीये समुद्रो ऽधिदेवता हृदय-पुण्डरीकाकारम् अधिष्ठानं मनः सङ्कल्पाख्य-वृत्त्य्-अवच्छिन्नान्तर् इन्द्रियम् ॥ ६० ॥
श्लोक-६१
विश्वास-प्रस्तुतिः
मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरां पतिः।
अहङ्कारस्ततो रुद्रश्चित्तं चैत्यस्ततोऽभवत्॥
मूलम्
मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरां पतिः।
अहङ्कारस्ततो रुद्रश्चित्तं चैत्यस्ततोऽभवत्॥ ६१ ॥
अनुवाद (हिन्दी)
मनके बाद उसका अभिमानी देवता चन्द्रमा हुआ। फिर हृदयसे ही बुद्धि और उसके बाद उसका अभिमानी ब्रह्मा हुआ। तत्पश्चात् अहंकार और उसके अनन्तर उसका अभिमानी रुद्रदेवता उत्पन्न हुआ। इसके बाद चित्त और उसका अभिमानी क्षेत्रज्ञ प्रकट हुआ॥ ६१॥
वीरराघवः
चन्द्रमा अधिदेवता हृदयाद् एवाधिष्ठानाद् व्यवसायाख्य-वृत्त्य्-अवच्छिन्न-बुद्धि-रूपां तद्-इन्द्रियं तद्-अधिदेवता गिरां पतिर् ब्रह्मा तथा हृदयम् एव वाधिष्ठानं तत्राभिमानाख्य-वृत्त्य्-अवच्छिन्नाहङ्काराख्यम् अन्तः-करणम् इन्द्रियं तद्-अधिदेवता रुद्रस् तथा हृदयम् एवाधिष्ठानं चित्ताख्य-वृत्त्य्-अवच्छिन्न-चित्ताख्यम् अन्तः-करणम् इन्द्रियं तद्-अभिमानी चैत्यः क्षेत्रज्ञः निरभिद्यत इत्य् अर्थः । अत्र चतुर्मुख-शरीराच् चतुर्मुखस्योपेन्द्रस्य विभागोक्तिर् इन्द्रियाभिमानि-देवतात्वाकारेणेति न विरोधः ॥ ६१ ॥
श्लोक-६२
विश्वास-प्रस्तुतिः
एते ह्यभ्युत्थिता देवा नैवास्योत्थापनेऽशकन्।
पुनराविविशुः खानि तमुत्थापयितुं क्रमात्॥
मूलम्
एते ह्यभ्युत्थिता देवा नैवास्योत्थापनेऽशकन्।
पुनराविविशुः खानि तमुत्थापयितुं क्रमात्॥ ६२ ॥
अनुवाद (हिन्दी)
जब ये क्षेत्रज्ञके अतिरिक्त सारे देवता उत्पन्न होकर भी विराट् पुरुषको उठानेमें असमर्थ रहे, तो उसे उठानेके लिये क्रमशः फिर अपने-अपने उत्पत्तिस्थानोंमें प्रविष्ट होने लगे॥ ६२॥
वीरराघवः
एवं समष्टि-भूत-चतुर्मुख-देह-स्थ-वाग्-आदीन्द्रिय-तद्-अधिष्ठानेभ्यो देवादि-व्यष्टीनाम् इन्द्रिय-तत्-स्थान-तद्-अधिदेवता-सृष्टिर् उक्ता अथ क्षेत्रज्ञ-भोगायतनत्वाद् देवादि-शरीराणां तत्र प्राधान्यं भोक्तुः क्षेत्रज्ञस्येत्य् अन्वय-व्यतिरेकाभ्यां प्रतिपिपादयिषुर् वाग्-आदीन्द्रिय-तद्-अधिष्ठातृ-देवतानां च व्यष्टीनां व्यष्टि-शरीराधिष्ठानेषु प्रविष्टानाम् अपि क्षेत्रज्ञानुप्रवेशम् अन्तरेण व्यष्टि-शरीर-भूत-जातस्य प्रवृत्ति-क्षमत्व-सम्पादनासामर्थ्यम् आह । एत इति । एते देवा इन्द्रिय-सहितास् तद्-अभिमानि-वाग्-आदि-देवा अभ्युत्थिताः समष्टि-चतुर्मुख-शरीराद् उत्पन्ना अस्य देवादि-व्यष्टि-शरीर-रूप-भूत-जातस्य प्रविश्येति शेषः । उत्थापने प्रवृत्त्य्-उन्मुखी-करणे नाशकन्न समर्था बभूवुः । एतद् एव प्रपञ्चयति । पुनर् आविविशुर् इत्य् आदिना । पुनः शब्दो ऽसामर्थ्य-प्रतिपादनारम्भ-द्योतकः तं देवादि-व्यष्टि-शरीरं मुखानि देवाधिष्ठितानि इन्द्रियाणि उत्थापयितुं प्रवृत्त्य्-उन्मुखं कर्तुं क्रमाद् आविविशुः तत्-तद्-अधिष्ठानं प्रविविशुः ॥ ६२ ॥
श्लोक-६३
विश्वास-प्रस्तुतिः
वह्निर्वाचा मुखं भेजे नोदतिष्ठत्तदा विराट्।
घ्राणेन नासिके वायुर्नोदतिष्ठत्तदा विराट्॥
मूलम्
वह्निर्वाचा मुखं भेजे नोदतिष्ठत्तदा विराट्।
घ्राणेन नासिके वायुर्नोदतिष्ठत्तदा विराट्॥ ६३ ॥
अनुवाद (हिन्दी)
अग्निने वाणीके साथ मुखमें प्रवेश किया, परन्तु इससे विराट् पुरुष न उठा। वायुने घ्राणेन्द्रियके सहित नासाछिद्रोंमें प्रवेश किया, फिर भी विराट् पुरुष न उठा॥ ६३॥
श्लोक-६४
विश्वास-प्रस्तुतिः
अक्षिणी चक्षुषाऽऽदित्यो नोदतिष्ठत्तदा विराट्।
श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत्तदा विराट्॥
मूलम्
अक्षिणी चक्षुषाऽऽदित्यो नोदतिष्ठत्तदा विराट्।
श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत्तदा विराट्॥ ६४ ॥
अनुवाद (हिन्दी)
सूर्यने चक्षुके सहित नेत्रोंमें प्रवेश किया, तब भी विराट् पुरुष न उठा। दिशाओंने श्रवणेन्द्रियके सहित कानोंमें प्रवेश किया, तो भी विराट् पुरुष न उठा॥ ६४॥
श्लोक-६५
विश्वास-प्रस्तुतिः
त्वचं रोमभिरोषध्यो नोदतिष्ठत्तदा विराट्।
रेतसा शिश्नमापस्तु नोदतिष्ठत्तदा विराट्॥
मूलम्
त्वचं रोमभिरोषध्यो नोदतिष्ठत्तदा विराट्।
रेतसा शिश्नमापस्तु नोदतिष्ठत्तदा विराट्॥ ६५ ॥
अनुवाद (हिन्दी)
ओषधियोंने रोमोंके सहित त्वचामें प्रवेश किया फिर भी विराट् पुरुष न उठा। जलने वीर्यके साथ लिंगमें प्रवेश किया, तब भी विराट् पुरुष न उठा॥ ६५॥
श्लोक-६६
विश्वास-प्रस्तुतिः
गुदं मृत्युरपानेन नोदतिष्ठत्तदा विराट्।
हस्ताविन्द्रो बलेनैव नोदतिष्ठत्तदा विराट्॥
मूलम्
गुदं मृत्युरपानेन नोदतिष्ठत्तदा विराट्।
हस्ताविन्द्रो बलेनैव नोदतिष्ठत्तदा विराट्॥ ६६ ॥
अनुवाद (हिन्दी)
मृत्युने अपानके साथ गुदामें प्रवेश किया, फिर भी विराट् पुरुष न उठा। इन्द्रने बलके साथ हाथोंमें प्रवेश किया, परन्तु इससे भी विराट् पुरुष न उठा॥ ६६॥
श्लोक-६७
विश्वास-प्रस्तुतिः
विष्णुर्गत्यैव चरणौ नोदतिष्ठत्तदा विराट्।
नाडीर्नद्यो लोहितेन नोदतिष्ठत्तदा विराट्॥
मूलम्
विष्णुर्गत्यैव चरणौ नोदतिष्ठत्तदा विराट्।
नाडीर्नद्यो लोहितेन नोदतिष्ठत्तदा विराट्॥ ६७ ॥
अनुवाद (हिन्दी)
विष्णुने गतिके सहित चरणोंमें प्रवेश किया, तो भी विराट् पुरुष न उठा। नदियोंने रुधिरके सहित नाडियोंमें प्रवेश किया, तब भी विराट् पुरुष न उठा॥ ६७॥
श्लोक-६८
विश्वास-प्रस्तुतिः
क्षुत्तृड्भ्यामुदरं सिन्धुर्नोदतिष्ठत्तदा विराट्।
हृदयं मनसा चन्द्रो नोदतिष्ठत्तदा विराट्॥
मूलम्
क्षुत्तृड्भ्यामुदरं सिन्धुर्नोदतिष्ठत्तदा विराट्।
हृदयं मनसा चन्द्रो नोदतिष्ठत्तदा विराट्॥ ६८ ॥
अनुवाद (हिन्दी)
समुद्रने क्षुधा-पिपासाके सहित उदरमें प्रवेश किया, फिर भी विराट् पुरुष न उठा। चन्द्रमाने मनके सहित हृदयमें प्रवेश किया, तो भी विराट् पुरुष न उठा॥ ६८॥
श्लोक-६९
विश्वास-प्रस्तुतिः
बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत्तदा विराट्।
रुद्रोऽभिमत्या हृदयं नोदतिष्ठत्तदा विराट्॥
मूलम्
बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत्तदा विराट्।
रुद्रोऽभिमत्या हृदयं नोदतिष्ठत्तदा विराट्॥ ६९ ॥
अनुवाद (हिन्दी)
ब्रह्माने बुद्धिके सहित हृदयमें प्रवेश किया, तब भी विराट् पुरुष न उठा। रुद्रने अहंकारके सहित उसी हृदयमें प्रवेश किया, तो भी विराट् पुरुष न उठा॥ ६९॥
वीरराघवः
वीरराघवः
का देवता केनेन्द्रियेण कुत्र प्रविष्टा उत्थापनाशक्ताभूद् इत्य् अत्राह । वह्निर् इत्यादिभिः सप्तभिः । वह्निर् अधिदेवता वाचा वाग्-इन्द्रियेण सह मुखं देवादि-व्यष्टि-मुखं भेजे आविशत् तदासौ विराट्-कार्य-भूत-व्यष्टि-शरीर-जातं नोदतिष्ठन् न प्रवृत्त्य्-उन्मुखो ऽभूत् । एवम् उत्तरत्रापि द्रष्टव्यं सर्वत्र विराट्-शब्देन विराट्-कार्य-भूतत्वाद् व्यष्टि-शरीर-जातं लक्ष्यते । अन्यथा चतुर्मुख-सृष्टानां वाह्म्यादीनां चतुर्मुख-शरीरोत्थापकत्वाशक्तेः ॥ ६३-६९ ॥
श्लोक-७०
विश्वास-प्रस्तुतिः
चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद्यदा।
विराट् तदैव पुरुषः सलिलादुदतिष्ठत॥
मूलम्
चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद्यदा।
विराट् तदैव पुरुषः सलिलादुदतिष्ठत॥ ७० ॥
अनुवाद (हिन्दी)
किन्तु जब चित्तके अधिष्ठाता क्षेत्रज्ञने चित्तके सहित हृदयमें प्रवेश किया, तो विराट् पुरुष उसी समय जलसे उठकर खड़ा हो गया॥ ७०॥
वीरराघवः
एवं स्वतः सेन्द्रियाणां देवानाम् उत्थापनाशक्तिम् अभिधाय क्षेत्रज्ञाधीनं तेषाम् उत्थापकत्वम् इत्य् आह । चित्तेनेति । चैत्यः चित्ताधिदेवः क्षेत्रज्ञः हृदयम् अधिष्ठानं चित्तेन सह यदा प्राविशत् तदैव विराट् पुरुषः विराट्-कार्य-भूतो देवादि-रूप पुरुषः सलिलात् सलिल-कार्य-भूत-ब्रह्माण्डात्, इयं ल्यब्-लोपे पञ्चमी सलिलम् आविश्येत्य् अर्थः । उदतिष्ठत प्रवृत्ति-क्षमो ऽभूद् इत्य् अर्थः ॥ ७० ॥
श्लोक-७१
विश्वास-प्रस्तुतिः
यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधियः।
प्रभवन्ति विना येन नोत्थापयितुमोजसा॥
मूलम्
यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधियः।
प्रभवन्ति विना येन नोत्थापयितुमोजसा॥ ७१ ॥
अनुवाद (हिन्दी)
जिस प्रकार लोकमें प्राण, इन्द्रिय, मन और बुद्धि आदि चित्तके अधिष्ठाता क्षेत्रज्ञकी सहायताके बिना सोये हुए प्राणीको अपने बलसे नहीं उठा सकते, उसी प्रकार विराट् पुरुषको भी वे क्षेत्रज्ञ परमात्माके बिना नहीं उठा सके॥ ७१॥
वीरराघवः
एतद् एव सदृष्टान्तम् आह । यथेति । यथा प्राणादय ओजसा स्वबलेन प्रसुप्तं पुरुषं येन विना क्षेत्रज्ञेन विना यद्-इच्छाम् अन्तरेत्य् अर्थः, उत्थापयितुं न प्रभवन्ति न समर्थाः तथा वह्न्यादयो ऽपि स्वाधिष्ठेयैर् इन्द्रियैः सह देवादि-शरीराणि प्रविश्यापि क्षेत्रज्ञानुप्रवेशम् अन्तरेणोत्थापनाशक्ता इत्य् अर्थः ॥ ७१ ॥
श्लोक-७२
विश्वास-प्रस्तुतिः
तमस्मिन् प्रत्यगात्मानं धिया योगप्रवृत्तया।
भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत्॥
मूलम्
तमस्मिन् प्रत्यगात्मानं धिया योगप्रवृत्तया।
भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत्॥ ७२ ॥
अनुवाद (हिन्दी)
अतः भक्ति, वैराग्य और चित्तकी एकाग्रतासे प्रकट हुए ज्ञानके द्वारा उस अन्तरात्मस्वरूप क्षेत्रज्ञको इस शरीरमें स्थित जानकर उसका चिन्तन करना चाहिये॥ ७२॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेये तत्त्वसमाम्नाये षड्विंशोऽध्यायः॥ २६॥
वीरराघवः
एवम् अन्वय-व्यतिरेकाभ्यां भोक्तुं क्षेत्रज्ञस्यैव प्राधान्यम् उक्तं तस्यैतस्य क्षेत्रज्ञस्यानुचिन्तनं भगवद्-भक्ति-योगाङ्गत्वेन कार्यम् इत्य् आह । तम् इति । प्रत्यग्-आत्मानं जीवं परिशुद्ध-स्व-रूपं योगे तद्-याथात्म्य-विवेचन-रूप-योगे प्रवृत्तया धिया अस्मिन् देहे विविच्य शरीर-बुद्धीन्द्रिय-प्राणादिभ्यः पृथक्-कृत्य भक्त्या ईश्वर-भक्त्या विरक्त्या कामानभिष्वङ्गेण ज्ञानेन ब्रह्मात्मकत्व-ज्ञानेन चात्मनि मनसि चिन्तयेत् । यद् वा प्रत्यग्-आत्मानं धिया विविच्यात्मनि तस्मिन् प्रत्यग्-आत्मनि परमात्मानम् इति शेषः । विरक्त्या अविहिता-प्रतिषिद्ध-निषिद्ध-विषय-वैराग्येण, अनेन कर्म-योग उक्तः, ज्ञानेन प्रत्यग्-आत्म-याथात्म्य-ज्ञान-योगेन भक्त्या ईश्वर-भक्त्या ज्ञान-कर्म-योगाभ्याम् अनुगृहीतया भक्त्येत्य् अर्थः चिन्तयेत् ॥ ७२ ॥
इति श्री-भागवत-महा-पुराणे तृतीय-स्कंधे श्रीमद्-वीर-राघवाचार्य्य-कृत-भागवत-चन्द्रिकायां षड्विंशो ऽध्यायः ॥ २६ ॥
-
प्रा. पा. - प्रकाशितम् । ↩︎
-
प्रा. पा. - पुरुषः प्रकृतेः परः । ↩︎
-
प्रा. पा. - प्रधानं पुरुष प्रा । ↩︎
-
प्रा. पा. - प्रवर्तते । ↩︎
-
प्रा. पा. - शान्तं घोरं वि. । ↩︎
-
प्रा. पा. - कार्य सं । ↩︎
-
प्रा. पा. - क्वचित् । ↩︎
-
प्रा. पा. - तत्वन्नभः । ↩︎
-
प्रा. पा. - नैकशः । ↩︎
-
प्रा. पा. - प्राच्छा । ↩︎
-
प्रा. पा. - लभ्यते । ↩︎
-
प्रा. पा. - नेन वृतै । ↩︎
-
प्राचीने पाठे ? चिन्हात् । ↩︎
-
पर्यत्तांशो मूले न विद्यते टिप्पण्यां वर्तते । ↩︎
-
प्रा. पा. - माश्रितम् । ↩︎