[पञ्चविंशोऽध्यायः]
भागसूचना
देवहूतिका प्रश्न तथा भगवान् कपिलद्वारा भक्तियोगकी महिमाका वर्णन
श्लोक-१
मूलम् (वचनम्)
शौनक उवाच
विश्वास-प्रस्तुतिः
कपिलस्तत्त्वसंख्याता भगवानात्ममायया।
जातः स्वयमजः साक्षादात्मप्रज्ञप्तये नृणाम्॥
मूलम्
कपिलस्तत्त्वसंख्याता भगवानात्ममायया।
जातः स्वयमजः साक्षादात्मप्रज्ञप्तये नृणाम्॥ १ ॥
अनुवाद (हिन्दी)
शौनकजीने पूछा—सूतजी! तत्त्वोंकी संख्या करनेवाले भगवान् कपिल साक्षात् अजन्मा नारायण होकर भी लोगोंको आत्मज्ञानका उपदेश करनेके लिये अपनी मायासे उत्पन्न हुए थे॥ १॥
वीरराघवः
एवम् आकर्णितम् अनु तद्-अपत्य-चरित्रः शौनकः कपिलोक्त-साङ्ख्य-शुश्रूषुर् उक्तानुवाद-पूर्वकं पृच्छति त्रिभिः । कपिल इत्य् आदिना । ननु शारीरक-मीमांसायाम् “ईक्षतेर् नाशब्दम्, रचनानुपपत्तेश् च नानुमानम् । विप्रतिषेधाच् चासमञ्जसम्" इत्य्-आदिष्व् अब्रह्मात्मक-प्रधानोपादान-कारणत्व-सृष्ट्य्-अनुपपत्ति-परस्पर-विरुद्धार्थत्वादिभिर् दूषितं सांख्यं केवल-ब्रह्म-स्वरूप-रूप-गुण-विभूति-तद्-उपासन-तद्-विरोधि-तत्-प्राप्त्य्-आदि-प्रतिपादक-वेदान्तार्थोपबृंहणपरे ऽस्मिन् स्व-कर्तृके पुराणे कथं भगवता बादरायणेन निवेशितम् उच्यते दूषितांश-परिहारेण तद्-उक्त-वैदिक-परिगृहीत-सत्कार्य-वादादि-परिग्रहेण च कापिलम् अपि मतं शिक्षयितुं तदेव मतं समीचीन-न्यायोपपन्नं कर्तुं च तद्-उक्त-ज्ञान-योगस्य भगवद्-भक्ति-योगाङ्गत्व-कथनायात्र निवेशितम् अत एव शारीरक-विरुद्धार्थाः कपिलोक्ता अत्र न निवेशिताः । कथं पुनर् भगवद्-अवतार-रूपेण कपिलेन वैदिकापरिगृहीता ब्रह्मात्मक-प्रधान-कारणत्व्-आदि-वादाः परिगृहीता इति चेत् तस्य विशिष्ट-भगवच्-छक्तित्वे ऽपि स्वस्य क्षेत्र-ज्ञत्वेन स्वाज्ञान-मूलत्वाद् वेद-विरुद्धार्थ-परिग्रहस्य यथा हिरण्य-गर्भस्य भगवद्-अवतारत्वे ऽपि क्षेत्र-ज्ञ-स्वाज्ञान-मूला योग-स्मृतिस् तेन रचिता तथैवेदम् अपीति ज्ञेयम् । अजः कर्मायत्त-जन्म-रहितः भगवान् आत्म-मायया स्वयं स्व-सङ्कल्पेन नृणाम् आत्म-प्रज्ञप्तये आत्म-परमात्म-याथात्म्य-विशदीकरणाय तत्त्व-सङ्ख्याता तत्त्व-त्रय-प्रकथकः कपिलः जातः अवतीर्णः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
न ह्यस्य वर्ष्मणः पुंसां वरिम्णः सर्वयोगिनाम्।
विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः॥
मूलम्
न 1ह्यस्य वर्ष्मणः पुंसां वरिम्णः सर्वयोगिनाम्।
विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः॥ २ ॥
अनुवाद (हिन्दी)
मैंने भगवान्के बहुत-से चरित्र सुने हैं, तथापि इन योगिप्रवर पुरुषश्रेष्ठ कपिलजीकी कीर्तिको सुनते-सुनते मेरी इन्द्रियाँ तृप्त नहीं होतीं॥ २॥
वीरराघवः
पुंसां वर्ष्मणः श्रेष्ठस्य सर्व-योगिनां वरिष्णः वरिष्ठस्यास्य कपिलस्य विश्रुतौ कीर्त्यां कीर्ति-श्रवणे इत्य् अर्थः । श्रुतो देवः कपिलो येन तस्य ममासवः इन्द्रियाणि भूरि भृशं न तृष्यन्ति ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
यद्यद्विधत्ते भगवान् स्वच्छन्दात्माऽऽत्ममायया।
तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय॥
मूलम्
यद्यद्विधत्ते भगवान् स्वच्छन्दात्माऽऽत्ममायया।
तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय॥ ३ ॥
अनुवाद (हिन्दी)
सर्वथा स्वतन्त्र श्रीहरि अपनी योगमायाद्वारा भक्तोंकी इच्छाके अनुसार शरीर धारण करके जो-जो लीलाएँ करते हैं, वे सभी कीर्तन करनेयोग्य हैं; अतः आप मुझे वे सभी सुनाइये, मुझे उन्हें सुननेमें बड़ी श्रद्धा है॥ ३॥
वीरराघवः
स्वच्छन्दात्मा स्वेच्छोपात्त-शरीरो भगवान् कपिलः आत्म-मायया आत्मीय-सङ्कल्पेन यद् यच्-चरितं विधत्ते करोति अकरोद् इत्य् अर्थः । तानि कीर्तनीयानि चरितानि श्रद्दधानस्य शुश्रूषा-त्वरान्वितस्य मे मह्यं कीर्त्तय ॥ ३ ॥
श्लोक-४
मूलम् (वचनम्)
सूत उवाच
विश्वास-प्रस्तुतिः
द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा।
प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः॥
मूलम्
द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा।
2प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः॥ ४ ॥
अनुवाद (हिन्दी)
सूतजी कहते हैं—मुने! आपकी ही भाँति जब विदुरने भी यह आत्मज्ञानविषयक प्रश्न किया, तो श्रीव्यासजीके सखा भगवान् मैत्रेयजी प्रसन्न होकर इस प्रकार कहने लगे॥ ४॥
वीरराघवः
एवम् आपृष्टः सूतो विदुरेणैवम् एव पृष्टो मैत्रेय उक्तवान् इत्य् आह । द्वैपायन-सखः द्वैपायनस्य सखा भगवान् मैत्रेय एवम् आन्वीक्षिक्यां तत्त्व-निरूपणे प्रचोदितः प्रवर्त्तितः विदुरं प्राह उवाच ॥ ४ ॥
श्लोक-५
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
पितरि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया।
तस्मिन् बिन्दुसरेऽवात्सीद्भगवान् कपिलः किल॥
मूलम्
पितरि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया।
तस्मिन् बिन्दुसरेऽवात्सीद्भगवान् कपिलः किल॥ ५ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजीने कहा—विदुरजी! पिताके वनमें चले जानेपर भगवान् कपिलजी माताका प्रिय करनेकी इच्छासे उस बिन्दुसर तीर्थमें रहने लगे॥ ५॥
वीरराघवः
उक्तिम् एवाह । पितरीत्य्-आदिना पितरि कर्द्दमे अरण्यं प्रति प्रस्थिते गते सति भगवान् कपिलः मातुर् देवहूत्याः प्रियं कर्तुम् इच्छया तस्मिन्न् एव बिन्दु-सरस्-तीरे ऽवात्सीद् उषितवान् ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
तमासीनमकर्माणं तत्त्वमार्गाग्रदर्शनम्।
स्वसुतं देवहूत्याह धातुः संस्मरती वचः॥
मूलम्
तमासीनमकर्माणं तत्त्वमार्गाग्रदर्शनम्3।
स्वसुतं देवहूत्याह धातुः संस्मरती वचः॥ ६ ॥
अनुवाद (हिन्दी)
एक दिन तत्त्वसमूहके पारदर्शी भगवान् कपिल कर्मकलापसे विरत हो आसनपर विराजमान थे। उस समय ब्रह्माजीके वचनोंका स्मरण करके देवहूतिने उनसे कहा॥ ६॥
वीरराघवः
आसीनम् उपविष्टं तत्त्व-मार्गस्याग्रं पारं पश्यतीति तं स्व-सुतं कपिलं देवहूतिः धातुर् वचः “एष मानवि ! ते गर्भं प्रविष्टः कैटभार्दनः । अविद्या-संशय-ग्रन्थिं छित्त्वा गां विचरिष्यति” इति ब्रह्म-वाक्यं छेत्ता ते हृदय-ग्रन्थिम् औदर्यो ब्रह्म-भावन इति कर्द्दम-वाक्यं वा संस्मरन्त्य् आह ॥ ६ ॥
श्लोक-७
मूलम् (वचनम्)
देवहूतिरुवाच4
विश्वास-प्रस्तुतिः
निर्विण्णा नितरां भूमन्नसदिन्द्रियतर्षणात्।
येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो॥
मूलम्
निर्विण्णा नितरां भूमन्नसदिन्द्रियतर्षणात्।
येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो॥ ७ ॥
अनुवाद (हिन्दी)
देवहूति बोली—भूमन्! प्रभो! इन दुष्ट इन्द्रियोंकी विषय-लालसासे मैं बहुत ऊब गयी हूँ और इनकी इच्छा पूरी करते रहनेसे ही घोर अज्ञानान्धकारमें पड़ी हुई हूँ॥ ७॥
वीरराघवः
तद् एवाह । हे भूमन्! असतां प्रकृति-परिणाम-रूपाणाम् इन्द्रियाणां तर्पणात् नितरां भृशं निर्विण्णा खिन्ना इन्द्रिय-तर्पणान् मोदेनैव भवितव्यं कथं निर्वेद उदित इत्य् अत्राह हे प्रभो! सम्भाव्यमानेन सम्पाद्यमानेन येनेन्द्रिय-तर्पणेनान्धम् अन्धयति इत्य् अन्ध-तमः अज्ञानं प्रविष्टास्मि ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम्।
सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात्॥
मूलम्
तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम्।
सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात्॥ ८ ॥
अनुवाद (हिन्दी)
अब आपकी कृपासे मेरी जन्मपरम्परा समाप्त हो चुकी है, इसीसे इस दुस्तर अज्ञानान्धकारसे पार लगानेके लिये सुन्दर नेत्ररूप आप प्राप्त हुए हैं॥ ८॥
वीरराघवः
दुष्पारस्यापारस्य तस्यान्धस्य तमसः पारं गमयतीति पारगं त्वम् एव श्रेष्ठं चक्षुः मे मया जन्मनाम् अन्ते, बहु-जन्मान्ते त्वत्-प्रसादाल् लब्धम् ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
य आद्यो भगवान् पुंसामीश्वरो वै भवान् किल।
लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः॥
मूलम्
य आद्यो भगवान् पुंसामीश्वरो वै भवान् किल।
लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः॥ ९ ॥
अनुवाद (हिन्दी)
आप सम्पूर्ण जीवोंके स्वामी भगवान् आदिपुरुष हैं तथा अज्ञानान्धकारसे अन्धे पुरुषोंके लिये नेत्रस्वरूप सूर्यकी भाँति उदित हुए हैं॥ ९॥
वीरराघवः
तद् एव प्रपञ्चयति । य इति । पुंसां जीवानाम् ईश्वरो नियन्ता आद्यो जगत्-कारण-भूतो यो भगवान् स एव भवान् तमसा अन्धस्य लोकस्य चक्षुः, चक्षुर्-अधिष्ठाता सूर्य इवोदितः । यद् वा सूर्य इवेत्य् एतस्योत्तरत्रान्वयः तदा चक्षु-रूप उदितः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
अथ मे देव सम्मोहमपाक्रष्टुं त्वमर्हसि।
योऽवग्रहोऽहंममेतीत्येतस्मिन् योजितस्त्वया॥
मूलम्
अथ मे देव सम्मोहमपाक्रष्टुं त्वमर्हसि।
योऽवग्रहोऽहंममेतीत्येतस्मिन् योजितस्त्वया॥ १० ॥
अनुवाद (हिन्दी)
देव! इन देह-गेह आदिमें जो मैं-मेरेपनका दुराग्रह होता है, वह भी आपका ही कराया हुआ है; अतः अब आप मेरे इस महामोहको दूर कीजिये॥ १०॥
वीरराघवः
उदित-सूर्य इव मे मम सम्मोहम् अपाक्रष्टुम् अपनेतुं हे देव ! त्वम् अर्हसि । को ऽसौ सम्मोहः यो ऽपाक्रष्टव्यः इत्य् अत्राह । अस्मिन् देहे ऽहं ममेत्य् एवं रूपो ऽवग्रहो ऽभिमानः त्वयैव योजितः स एवेत्य् अर्थः । त्वत्-सङ्कल्पाद् एव उत्पन्नो मोहस् त्वयैव निवर्त्यः । यो बन्धकः स एव मोचक इति न्यायाद् इति भावः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
तं त्वा गताहं शरणं शरण्यं
स्वभृत्यसंसारतरोः कुठारम्।
जिज्ञासयाहं प्रकृतेः पूरुषस्य
नमामि सद्धर्मविदां वरिष्ठम्॥
मूलम्
तं त्वा गताहं शरणं शरण्यं स्वभृत्यसंसारतरोः कुठारम्।
जिज्ञासयाहं प्रकृतेः पूरुषस्य नमामि5 सद्धर्मविदां वरिष्ठम्॥ ११ ॥
अनुवाद (हिन्दी)
आप अपने भक्तोंके संसाररूप वृक्षके लिये कुठारके समान हैं; मैं प्रकृति और पुरुषका ज्ञान प्राप्त करनेकी इच्छासे आप शरणागतवत्सलकी शरणमें आयी हूँ। आप भागवतधर्म जाननेवालोंमें सबसे श्रेष्ठ हैं, मैं आपको प्रणाम करती हूँ॥ ११॥
वीरराघवः
तम् उक्त-विधं स्व-भक्तानां संसार एव तरुस् तस्य कुठारं कर्तुर् एव साधकत्वं विवक्षितं सद्-धर्म-विदां निवृत्ति-धर्म-विदां वरिष्ठं श्रेष्ठं शरण्यं शरणार्हं त्वाम् अहं प्रकृतेः पुरुषस्य जीवस्येदं परमात्मनो ऽप्य्-उपलक्षणं जिज्ञासया ज्ञातुम् इच्छया शरणं गता सती नमामि ॥ ११ ॥
श्लोक-१२
मूलम् (वचनम्)
मैत्रेय6 उवाच
विश्वास-प्रस्तुतिः
इति स्वमातुर्निरवद्यमीप्सितं
निशम्य पुंसामपवर्गवर्धनम्।
धियाभिनन्द्यात्मवतां सतां गति-
र्बभाष ईषत्स्मितशोभिताननः॥
मूलम्
इति स्वमातुर्निरवद्यमीप्सितं निशम्य पुंसामपवर्गवर्धनम्।
धियाभिनन्द्यात्मवतां सतां गतिर्बभाष ईषत्स्मितशोभिताननः॥ १२ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—इस प्रकार माता देवहूतिने अपनी जो अभिलाषा प्रकट की, वह परम पवित्र और लोगोंका मोक्षमार्गमें अनुराग उत्पन्न करनेवाली थी, उसे सुनकर आत्मज्ञ सत्पुरुषोंकी गति श्रीकपिलजी उसकी मन-ही-मन प्रशंसा करने लगे और फिर मृदु मुसकानसे सुशोभित मुखारविन्दसे इस प्रकार कहने लगे॥ १२॥
वीरराघवः
एवम् उक्तः कपिलस् ताम् आबभाष इत्य् आह । मैत्रेयः पुंसाम् अपवर्ग-वर्द्धनं मोक्ष-रुचि-करं निरवद्यं निर्दुष्टं स्व-मातुर् देवहूत्या ईप्सितम् अभिप्रेतम् एवं निशम्य श्रुत्वा धिया मनसाभिनन्द्यात्म-वतां निगृहीत-मनसां सतां गतिः मुक्त्य्-उपायः कपिलः इत्य् उत स्मितेन मन्द-हासेन शोभितम् आननं मुखं यस्य सः तां मातरम् आबभाषे ॥ १२ ॥
श्लोक-१३
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे।
अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च॥
मूलम्
योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे।
अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च॥ १३ ॥
अनुवाद (हिन्दी)
भगवान् कपिलने कहा—माता! यह मेरा निश्चय है कि अध्यात्मयोग ही मनुष्योंके आत्यन्तिक कल्याणका मुख्य साधन है, जहाँ दुःख और सुखकी सर्वथा निवृत्ति हो जाती है॥ १३॥
वीरराघवः
तत्र ज्ञान-कर्म-योगादिभिर् अनुगृहीत-भगवद्-भक्ति-योगस्यैव साक्षान् मुक्त्य्-उपायत्वम् उत्तराध्यायेषु विस्तरेण प्रतिपादयिष्यमाणम् अत्र सङ्ग्रहेण प्रतिपादयंस् तावज् ज्ञान-योगम् अवतारयति । योग इति द्वाभ्याम् । आध्यात्मिकः प्रकृति-विविक्तात्म-याथात्म्य-ज्ञान-रूपो योगः पुंसां मुमुक्षूणां निःश्रेयसाय मोक्षाय मे मया मतः । ज्ञान-योगो मुमुक्षूणां मोक्ष-साधनम् इति मन्-मतम् इत्य् अर्थः । आत्म-ज्ञान-योगं प्रशंसन्न् आह अत्यन्तेति । यत्र यस्मिन् आध्यात्मिके योगे निष्पन्ने सति दुःखस्य सुखस्य च वैषयिक-सुख-दुःखयोर् अत्यन्तम् उपरतिर् विनाशो भवति ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
तमिमं ते प्रवक्ष्यामि यमवोचं पुरानघे।
ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम्॥
मूलम्
तमिमं ते प्रवक्ष्यामि यमवोचं पुरानघे।
ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम्॥ १४ ॥
अनुवाद (हिन्दी)
साध्वि! सब अंगोंसे सम्पन्न उस योगका मैंने पहले नारदादि ऋषियोंके सामने, उनकी सुननेकी इच्छा होनेपर, वर्णन किया था। वही अब मैं आपको सुनाता हूँ॥ १४॥
वीरराघवः
आत्म-योगं श्रोतु-कामानां शुश्रूषणाम् ऋषीणां पूर्व-काले ऽहम् अवोचम् उक्तवान् अस्मि तम् इमम् आत्म-योगम् उरुभिर् बहुभिर् अङ्गैः शम-दमादिभिर् नैपुणं यथा भवति तथा ते तुभ्यं प्रवक्ष्यामि ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
चेतःखल्वस्य बन्धाय मुक्तये चात्मनो मतम्।
गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये॥
मूलम्
चेतःखल्वस्य बन्धाय मुक्तये चात्मनो मतम्।
गुणेषु7 सक्तं बन्धाय रतं वा पुंसि मुक्तये॥ १५ ॥
अनुवाद (हिन्दी)
इस जीवके बन्धन और मोक्षका कारण मन ही माना गया है। विषयोंमें आसक्त होनेपर वह बन्धनका हेतु होता है और परमात्मामें अनुरक्त होनेपर वही मोक्षका कारण बन जाता है॥ १५॥
वीरराघवः
एवम् अध्यात्म-योगम् अवतार्य तत्र प्रकृति-विविक्तात्म-स्वरूप-ग्रहण-योग्य-मनसः स्व-रूपं कथयिष्यन् तावन् मनस एव बन्ध-मोक्ष-कारणत्वम् आह । चेत इति । अस्यात्मनो जीवस्य बन्धाय मोक्षाय च चेत एव मतं खलु कारणम् इति शेषः कीदृशं बन्धाय मुक्तये च कीदृशम् इत्य् अत्राह । गुणेषु गुण-कार्येषु शब्दादि-विषयेषु सक्तम् आसक्तं चेतः बन्धाय भवति पुंसीश्वरे रतं वा आसक्तं मुक्तये भवतीति विवेकः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
अहंममाभिमानोत्थैः कामलोभादिभिर्मलैः।
वीतं यदा मनः शुद्धमदुःखमसुखं समम्॥
मूलम्
अहंममाभिमानोत्थैः कामलोभादिभिर्मलैः।
वीतं यदा मनः शुद्धमदुःखमसुखं समम्॥ १६ ॥
अनुवाद (हिन्दी)
जिस समय यह मन मैं और मेरेपनके कारण होनेवाले काम-लोभ आदि विकारोंसे मुक्त एवं शुद्ध हो जाता है, उस समय वह सुख-दुःखसे छूटकर सम अवस्थामें आ जाता है॥ १६॥
श्लोक-१७
विश्वास-प्रस्तुतिः
तदा पुरुष आत्मानं केवलं प्रकृतेः परम्।
निरन्तरं स्वयंज्योतिरणिमानमखण्डितम्॥
मूलम्
तदा पुरुष आत्मानं केवलं प्रकृतेः परम्।
निरन्तरं स्वयंज्योतिरणिमानमखण्डितम्॥ १७ ॥
मूलम् - कर्णावती
तदा पुरुष आत्मानं केवलं प्रकृतेः परम्।
निरन्तरं स्वयं ज्योतिरणिमानमखण्डितम्॥ १७ ॥
वीरराघवः
प्रकृति-विविक्तात्म-स्वरूप-ग्रहण-योग्य-मनः-स्व-रूपम् आह । अहम् इति त्रिभिः । अहं-ममाभिमानाभ्याम् अनात्मनि देहे आत्माभिमानः अहम्-अभिमानः अस्वीये स्वीयाभिमानः ममाभिमानः तथा च स्मर्यते “अनात्मन्य् आत्म-बुद्धिर् या अस्वे स्वम् इति या मतिः । अविद्या-तरु-सम्भूतं बीजम् एतद् द्विधा स्थितम् ॥” इति आभ्याम् अभिमानाभ्याम् उत्पन्नैः काम-लोभादिभिः मलैः कामादि-हेतुकैः पुण्यापुण्य-रूपैर् मलैर् यदा वीतं रहितम् अनभिसंहित-फलेश्वराराधन-रूप-तद्-वर्णाश्रमोचितैर् धर्मैः कामादिभिः रहितम् अत एव शुद्धम् अत एवादुःखम् असुखम् ऐन्द्रियक-दुःखैर् अभिभूतम् अत एव समं सदैक-रूपं यदा भवति तदा पुरुष उक्त-विध-मनस्कः पुमान् ज्ञान-वैराग्य-युक्तेन ज्ञानम् अत्र शास्त्र-जन्यम् आत्म-स्वरूप-याथात्म्यावगाहि ज्ञानं वैराग्यं विषयेष्व् अनासक्तिः ताभ्यां युक्तेन विशेष्य-भूत-भगवद्-भक्ति-युक्तेन चात्मना मनसा च प्रकृतेः प्रकृति-कार्य-शरीरेन्द्रिय-मनः-प्राणादिभ्यः परं स्वरूपतः स्वभावतश् चात्यन्त-विलक्षणम् अत एव केवलं सत्त्वादि-गुण-रहितं प्रकृति-परिणाम-गत-देवत्व-मनुष्यत्वाद्य्-आकार-रहितम् अत एव निरन्तरं प्रतिशरीरं भिन्नत्वे ऽपि सर्वत्र ज्ञानैकाकारतया वैषम्य-रहितं निर्दोषं हि समं ब्रह्मेति ह्य्-उच्यते अणिमानम् अणुतरं स्वरूप-कथनम् इदं ज्ञान-स्वरूपत्वस्याप्य्-उपलक्षणम् इदम् अणिमत्वाद् एवाखण्डितं खण्डनानर्हम् इदम् अदाह्यत्वाक्लेद्यत्वादिनाम् अप्य्-उपलक्षणं खण्डन-दहनच्-छेदन-साधन-भूता हि परश्व्-अग्नि-जलादयः छेद्यं दाह्यं क्लेद्यं प्राप्य छेदनादीन् निर्वर्तयन्ति । आत्मनस् तु निरतिशयाणुत्वेन सर्वान्तः-प्रवेश-योग्यतया व्यापकत्वाद् व्याप्य-परश्व्-आदि-साध्यैश् छेदनादिभिर् न विनाश इत्य् अर्थः । स्वयं-ज्योतिः स्वयं-प्रकाशं दीपादिवद् इति दृष्टान्तो ऽत्राभिप्रेतः । तत्र यथा दीपादिस् तेजः-स्वरूपं तेजो-धर्मकश् च स्वयं-प्रकाशस् तद्-वद् अयम् आत्मापि ज्ञान-स्वरूपो ज्ञान-गुणकः स्व-प्रकाशश् चेति भावः । एवं-विधम् उदासीनं निर्व्यापारम् आत्मानं प्रत्यग्-आत्मानं हतौजसं संसारयितृत्व-रूप-बल-हीनां प्रकृतिं च पश्यति ॥ १६-१७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना।
परिपश्यत्युदासीनं प्रकृतिं च हतौजसम्॥
मूलम्
ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना8।
परिपश्यत्युदासीनं प्रकृतिं च हतौजसम्॥ १८ ॥
अनुवाद (हिन्दी)
तब जीव अपने ज्ञान-वैराग्य और भक्तिसे युक्त हृदयसे आत्माको प्रकृतिसे परे, एकमात्र (अद्वितीय), भेदरहित, स्वयंप्रकाश, सूक्ष्म, अखण्ड और उदासीन (सुख-दुःखशून्य) देखता है तथा प्रकृतिको शक्तिहीन अनुभव करता है॥ १७-१८॥
श्लोक-१९
विश्वास-प्रस्तुतिः
न युज्यमानया भक्त्या भगवत्यखिलात्मनि।
सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये॥
मूलम्
न युज्यमानया भक्त्या भगवत्यखिलात्मनि।
सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये॥ १९ ॥
अनुवाद (हिन्दी)
योगियोंके लिये भगवत्प्राप्तिके निमित्त सर्वात्मा श्रीहरिके प्रति की हुई भक्तिके समान और कोई मंगलमय मार्ग नहीं है॥ १९॥
वीरराघवः
एवम् आत्म-स्वरूप-ग्रहण-योग्य-मनः-स्वरूप-शिक्षा आत्म-याथात्म्य-शिक्षा च कृता । अत्र भगवद्-भक्ति-युक्तात्मनां पश्यतीत्य् अनेन न केवलं प्रकृति-विलक्षणतयात्म-स्वरूप-चिन्तना-मात्रेण प्रत्यग्-आत्म-साक्षात्कारः, किन्तु ब्रह्मात्मक-प्रत्यग्-आत्मानुसन्धानेनैव प्रत्यग्-आत्म-साक्षात्कारो ऽपि भवतीति सूच्यते । ब्रह्मात्मकत्वम् एव तस्य प्रत्यग्-आत्मनः स्वाभाविकं स्व-रूपं तत्र विशेष्य-भूत-ब्रह्मणो ऽननुसन्धाने विशेषण-भूत-प्रत्यग्-आत्मानुसन्धानासम्भव एव । न हि व्यक्ति-गुणादीन् विना जाति-गुणादयः पृथग् उपलभ्यन्ते तस्मात् प्रकृति-विलक्षण-प्रत्यग्-आत्म-चिन्तनम् अपि ब्रह्म-शरीरतयैव कार्यम् । एवं-विधं चिन्तनम् एव पश्चाद् विशेष्य-भूत-भगवद्-भक्ति-रूपापन्नं मुक्ति-साधनं न केवलम् इत्य् आह । नेति । अखिलात्मन्य् अखिलानां जीवानाम् आत्म-भूते भगवति युज्यमानया भक्त्या सदृशस् तुल्यः ब्रह्म-सिद्धये भाव-प्रधानो ब्रह्म-शब्दः “द्व्य्-एकयोः” इत्यादि-वत् ब्रह्मत्व-सिद्धये इत्य् अर्थः । ब्रह्मत्वं प्रकारः ब्रह्म-प्रकार-सिद्धये ब्रह्म-वद्-अपहत-पाप्मत्वादि-गुणाष्टकाविर्भाव-सिद्धये इति यावत् योगिनां शिवः अन्यानपेक्षः पन्था उपायः अन्यो नास्ति ब्रह्मात्मक-प्रत्यग्-आत्मानुसन्धान-पूर्वक-प्रत्यग्-आत्म-शरीरक-भगवद्-भक्ति-सदृशो मुक्त्य्-उपायः कश्चिद् अन्यो नास्तीत्य् अर्थः । एवम् अनभिसंहित-फल-स्व-धर्म-निरस्त-कामादि-दोष-विशुद्धान्तःकरणानुसंहित-ब्रह्मात्मक-प्रत्यग्-आत्म-याथात्म्य-ज्ञान-योग-पूर्वक-भगवद्-भक्तिर् मोक्ष-साधनम् इत्य् उक्तम् ॥ १८-१९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
प्रसङ्गमजरं पाशमात्मनः कवयो विदुः।
स एव साधुषु कृतो मोक्षद्वारमपावृतम्॥
मूलम्
प्रसङ्गमजरं पाशमात्मनः कवयो विदुः।
स एव साधुषु कृतो मोक्षद्वारमपावृतम्॥ २० ॥
अनुवाद (हिन्दी)
विवेकीजन संग या आसक्तिको ही आत्माका अच्छेद्य बन्धन मानते हैं; किन्तु वही संग या आसक्ति जब संतों—महापुरुषोंके प्रति हो जाती है तो मोक्षका खुला द्वार बन जाती है॥ २०॥
वीरराघवः
अथास्य सर्वस्य निवृत्ति-धर्मस्य रुचि-जनने सत्-सङ्गतिर् एव प्रथमं कारणम् असत्-सङ्गतिः संसृति-हेतुर् इति वदन् सतां स्व-रूपं चाह । प्रसङ्गम् इति पञ्चभिः । प्रसङ्गम् असत्स्व् इति शेषः असत्स्व्-इन्द्रियार्थेषु तत्-परायणेषु प्रसङ्गं प्रकृष्टासक्तिम् आत्मनो जीवस्याजरम् अशिथिलं पाशं बन्धं कवयः सुधियो विदुः स एव प्रसङ्ग एव स एवेत्य् अनेनासद्-रूप-विषय-परिहारेण प्रसङ्ग-मात्रस्य परामर्शः साधुषु कृतः अपावृतम् अविघ्नोपहतं मोक्ष-द्वारं मोक्षोपायः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम्।
अजातशत्रवः शान्ताः साधवः साधुभूषणाः॥
मूलम्
तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम्।
अजातशत्रवः शान्ताः साधवः साधुभूषणाः॥ २१ ॥
वीरराघवः
के ते साधव इत्य् अत्राह । तितिक्षवः मूर्खेष्व् अपि क्षिति-वत् सहन-शीलाः कारुणिकाः स्वार्थ-निरपेक्ष-पर-दुःख-निराचिकीर्षवः अत एव सर्व-देहिनां सुहृदः मित्राण्य् अत एवाजाताः अविद्यमानाः शत्रवो येषां ते शान्ताः । इदं यमादीनाम् उपलक्षणं शम-दमादि-सम्पन्नाः साधवः पर-कार्य-साधकाः साधु-शीलं तद् एव भूषणं येषां ते साधव इति शेषः । यद् वा साधव इति विधेय-विशेष-साधव इत्य् अर्थः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम्।
मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः॥
मूलम्
मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम्।
मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः॥ २२ ॥
वीरराघवः
किञ्च मयीश्वरे कपिलस्यानुप्रवेशावतारत्वे ऽपि जीव-शक्तेर् अभिभूतत्वाद् भगवच्-छक्तेर् एवोद्भूतत्वाच् च मयीति व्यपदेशः, अनन्येनाव्यभिचरितेन भावेनान्तःकरणेनाभिप्राय-विशेषेण वा ये दृढाम् अविचाल्यां भक्तिं कुर्वन्ति ते साधव इत्य् उत्तरत्रान्वयः । तान् एव विशिनष्टि । मत्-कृते मद्-अर्थं त्यक्तानि कर्माणि यैस् ते, परित्यक्त-मद्-आराधन-विधि-प्रवृत्ति-धर्मास् तथा त्यक्त-मद्-भक्त-जन-विरोधि-स्व-जन-बान्धवाः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
मदाश्रयाः कथा मृष्टाःशृण्वन्ति कथयन्ति च।
तपन्ति विविधास्तापा नैतान्मद्गतचेतसः॥
मूलम्
मदाश्रयाः कथा मृष्टाःशृण्वन्ति कथयन्ति च।
तपन्ति विविधास्तापा नैतान्मद्गतचेतसः9॥ २३ ॥
मूलम् - कर्णावती
मदाश्रयाः कथा मृष्टाःशृण्वन्ति कथयन्ति च।
तपन्ति विविधास्तापा नैतान्मद्गतचेतसः॥ २३ ॥
अनुवाद (हिन्दी)
जो लोग सहनशील, दयालु, समस्त देहधारियोंके अकारण हितू, किसीके प्रति भी शत्रुभाव न रखनेवाले, शान्त, सरलस्वभाव और सत्पुरुषोंका सम्मान करनेवाले होते हैं, जो मुझमें अनन्यभावसे सुदृढ़ प्रेम करते हैं, मेरे लिये सम्पूर्ण कर्म तथा अपने सगे-सम्बन्धियोंको भी त्याग देते हैं, और मेरे परायण रहकर मेरी पवित्र कथाओंका श्रवण, कीर्तन करते हैं तथा मुझमें ही चित्त लगाये रहते हैं—उन भक्तोंको संसारके तरह-तरहके ताप कोई कष्ट नहीं पहुँचाते हैं॥ २१—२३॥
वीरराघवः
अहम् एवाश्रयो विषयो यासां ताभिः कथाभिः हृष्टाः, कथा-हृष्टत्वम् एव प्रपञ्चयति । शृण्वन्ति, कथयन्ति, गायन्ति चेति मद्-आश्रय-कथा-श्रवण-कथनादिभिर् हृष्टा इत्य् अर्थः । यद् वा कथा-स्मरणेन हृष्टाः पुनस् त एव शृण्वन्ति कथयन्ति यद् वा हृष्टाः इति व्यस्तं पदं हृष्टाः सन्तुष्टाः सन्तो मद्-आश्रय-कथाः शृण्वन्ति कथयन्ति चेत्य् अर्थः । मय्य्-एव गतं न्यस्तं चेतो यैस् ते अत एवैनान् विविधा नाना-विधास् तापाः आध्यात्मिकादयः न तपन्ति न क्लेशयन्ति । ऐकात्म्य-गत-चेतस इति पाठान्तरम्, एकस्य भगवत एवात्मत्वम् अन्येषां चेतनाचेतनानां तच्-छरीरत्वात् एक एव परम-पुरुषः आत्मेति तस्मिन् गतं चेतः येषां तान् इत्य् अर्थः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
त एते साधवः साध्वि सर्वसङ्गविवर्जिताः।
सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते॥
मूलम्
त एते साधवः साध्वि सर्वसङ्गविवर्जिताः10।
सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते॥ २४ ॥
अनुवाद (हिन्दी)
साध्वि! ऐसे-ऐसे सर्वसंगपरित्यागी महापुरुष ही साधु होते हैं, तुम्हें उन्हींके संगकी इच्छा करनी चाहिये; क्योंकि वे आसक्तिसे उत्पन्न सभी दोषोंको हर लेनेवाले हैं॥ २४॥
वीरराघवः
हे साध्वि ! त एते सर्वैः सङ्गैर् विषय-सङ्गैर् विवर्जिता विरहिताः साधवः तेषु साधुषु अथेति प्राथम्ये प्रथमं तेषु त्वया सङ्गः प्रार्थ्यः प्रार्थनीयः हि यस्मात् ते साधवः सङ्ग-दोष-हराः इन्द्रियार्थ-प्रसङ्ग-हेतुकानादि-पुण्य-पाप-रूप-दोष-हरा इत्य् अर्थः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
सतां प्रसङ्गान्मम वीर्यसंविदो
भवन्ति हृत्कर्णरसायनाः कथाः।
तज्जोषणादाश्वपवर्गवर्त्मनि
श्रद्धा रतिर्भक्तिरनुक्रमिष्यति॥
मूलम्
सतां प्रसङ्गान्मम वीर्यसंविदो भवन्ति हृत्कर्णरसायनाः कथाः।
तज्जोषणादाश्वपवर्गवर्त्मनि श्रद्धा रतिर्भक्तिरनुक्रमिष्यति॥ २५ ॥
अनुवाद (हिन्दी)
सत्पुरुषोंके समागमसे मेरे पराक्रमोंका यथार्थ ज्ञान करानेवाली तथा हृदय और कानोंको प्रिय लगनेवाली कथाएँ होती हैं। उनका सेवन करनेसे शीघ्र ही मोक्षमार्गमें श्रद्धा, प्रेम और भक्तिका क्रमशः विकास होगा॥ २५॥
वीरराघवः
कथं सतां प्रसङ्गान् निवृत्ति-धर्माभिरुचिर् उत्पद्यते इत्य् अत्राह । सताम् इति । सतां साधूनां प्रसङ्गान् मम वीर्य-संविदः वीर्याणि संवेदयन्तीति वीर्य-संविदः णिजर्थ-गर्भम् इदम् । यद् वा भावे क्विप् वीर्याणां संवित् संवेदनं यासुः ताः कथा यद् वा वीर्येण नित्यासंकुचित-ज्ञान-गुणेन संवेत्ति सर्वं स्व-रूपतः स्वभावतश् च साक्षात्-करोति तथा तस्य सर्वज्ञस्य ममेत्य् अर्थः । कथा हृत्-कर्णयोः रसायना अमृताद् रुचि-करा भवन्ति प्रवर्तन्ते तज्-जोषणात् तासां कथानां जोषणात् सेवनाद् आशु अपवर्ग-वर्त्मन्य् अपवर्गस्य मोक्षस्य वर्त्मनि द्वार-भूते गुरूपसदने श्रद्धा त्वरा भवत्य् उत्पद्यते । सत्-सन्निधौ भगवत्-कथा-श्रवणे सति “तद् यथेह कर्म-चितो लोकः क्षीयते एवम् एवामुत्र पुण्य-चितो लोकः क्षीयते नास्त्य् अकृतः कृतेन तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेत् “आब्रह्म-भुवनाल् लोकाः पुनर् आवर्तिनो ऽर्जुन! । माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते ॥” इति । स्वर्गादीनां सुखानां सातिशयित्वं क्षयिष्णुत्वं ब्रह्मोपासनस्यानन्त-स्थिर-फलत्वं केवल-कर्मणाम् अनन्तत्वाद् दुष्करत्वात् परिमित-फलत्वाच् च तुच्छत्वं निवृत्ति-धर्माणां तद्-विपरीतत्वं च श्रुतवतः जात-विरागस्य पुंसस् तादृश-निवृत्ति-धर्मो जायते इत्य् अर्थः । प्रत्येकाभिप्रायेणानुक्रमिष्यतीत्य् एक-वचन-निर्देशः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
भक्त्या पुमाञ्जातविराग ऐन्द्रियाद्
दृष्टश्रुतान्मद्रचनानुचिन्तया।
चित्तस्य यत्तो ग्रहणे योगयुक्तो
यतिष्यते ऋजुभिर्योगमार्गैः॥
मूलम्
भक्त्या पुमाञ्जातविराग ऐन्द्रियाद् दृष्टश्रुतान्मद्रचनानुचिन्तया।
चित्तस्य यत्तो ग्रहणे योगयुक्तो यतिष्यते ऋजुभिर्योगमार्गैः॥ २६ ॥
अनुवाद (हिन्दी)
फिर मेरी सृष्टि आदि लीलाओंका चिन्तन करनेसे प्राप्त हुई भक्तिके द्वारा लौकिक एवं पारलौकिक सुखोंमें वैराग्य हो जानेपर मनुष्य सावधानतापूर्वक योगके भक्तिप्रधान सरल उपायोंसे समाहित होकर मनोनिग्रहके लिये यत्न करेगा॥ २६॥
वीरराघवः
सत्-सङ्गति-प्रभृति-प्रणाड्या भगवति प्रीति-रूपापन्न-भक्ताव्-उत्पन्नायां तत्रैव चित्तं सावधानेन नियम्येतेत्य् आह । भक्त्येति । मम रचनानां सृष्ट्य्-आदि-व्यापाराणां चिन्ता यस्यां तया भक्त्या अनेन ब्रह्म-स्वरूप-वत् तद्-गुणानाम् अप्य्-उपास्यत्वम् उक्तं दृष्ट-श्रुताद् ऐहिकामुष्मिकाद् दृष्ट्यन्न-पशु-पुत्र-स्वर्गादि-रूपात् फलात् तस्मिन् इत्य् अर्थः । जात उत्पन्नो विरागो यस्य स पुमान् योग-युक्तः अनभिसंहित-फल-धर्म-योग-ज्ञान-योगाभ्यां युक्तः स ऋजुभिः चित्तैकरूप्य-संपादकैः योगस्य भगवद्-भक्ति-योगस्य मार्गैः साधनैर् विवेक-विमोकाभ्यासादिभिः चित्तस्य ग्रहणे नियमने यत्तः समाहितः यतिष्यते यत्नं कुर्याद् इत्य् अर्थः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
असेवयायं प्रकृतेर्गुणानां
ज्ञानेन वैराग्यविजृम्भितेन।
योगेन मय्यर्पितया च भक्त्या
मां प्रत्यगात्मानमिहावरुन्धे॥
मूलम्
असेवयायं प्रकृतेर्गुणानां ज्ञानेन वैराग्यविजृम्भितेन।
योगेन मय्यर्पितया च भक्त्या मां प्रत्यगात्मानमिहावरुन्धे॥ २७ ॥
अनुवाद (हिन्दी)
इस प्रकार प्रकृतिके गुणोंसे उत्पन्न हुए शब्दादि विषयोंका त्याग करनेसे, वैराग्ययुक्त ज्ञानसे, योगसे और मेरे प्रति की हुई सुदृढ़ भक्तिसे मनुष्य मुझ अपने अन्तरात्माको इस देहमें ही प्राप्त कर लेता है॥ २७॥
वीरराघवः
योग-मार्गान् एव दर्शयन् अनयैव भक्त्या पुमान् मां प्राप्नोतीत्य् आह । प्रकृतेर् गुणानां सत्त्वादि-गुण-परिणाम-रूपाणाम् अविहिता-प्रतिषिद्ध-निषिद्धानां कलञ्ज-गृञ्जन-चण्डाल-पतितादि-संबन्धि-केशोच्छिष्टाद्य्-उपहत-रूप-जात्य्-आश्रय-निमित्त-दुष्टानाम् अन्नादीनाम् असेवया अनेन विवेक उक्तः वैराग्येण विजृम्भितं यज् ज्ञानं तेन वैराग्यं कामानभिष्वङ्ग-शम-दमादिर् इति यावत् । ज्ञान-शब्देन प्रकृति-विलक्षणात्म-याथात्म्य-ज्ञान-योगः शुभाश्रय-संशीलन-रूपं ज्ञानं च विवक्षितं अनेनाभ्यास उक्तः । योगेनानभिसंहित-कर्म-फल-योगेन । अनेन क्रिया उक्ता । च-कारेण कल्याणानवसादानुद्धर्षा विवक्षिताः तत्र सत्यार्जव-दया-दानाहिंसानभिध्याः कल्याणानि अनभिध्या पर-कृत-दोषाचिन्तनं पुत्र-विपत्त्य्-आदि-स्मरण-जनित-खेदाभावेन-अवसादः, अनुद्धर्षः पुत्र-जन्मादि-निमित्तातिसन्तोषः, एतैः प्रकृति-गुणासेवादिभिर् मय्य् अर्पितया समर्पितया ऐश्वर्य-कैवल्यादि-प्रयोजन-विधुरया इत्य् अर्थः । भक्त्या इहैतद्-देहावसाने प्रतीचो जीवस्यात्मानम् अन्तर्-आत्मानं माम् अवरुन्धे प्राप्नोति । यद् वा प्रत्यग्-आत्म-शरीरिणं माम् इत्य् अर्थः । यद् वा प्रत्यग्-जीवः आत्मानं माम् अवरुन्धे इत्य् अर्थः । अत्र गुणासेवादिभिर् भक्त्येति न सहोपाय-समुच्चयः । किन्त्व्-असेवादिभिर् अनुगृहीताया भक्तिर् एव साक्षात्-साधनत्वम् इतरेषां तद्-अनुग्राहकत्वेनैव परम्परया साधनत्वम् इत्य् अभिप्रायेण गुणासेवादिभिर् भक्त्येत्य् उक्तम् । इहावरुन्धे इत्य् अनेन इह देहे जीवद्-दशायाम् एव मुक्तिं लभते इति जीवन्-मुक्तिर् इयम् उच्यते इति व्याख्यानं नादर्तव्यं, जीवन्-मुक्तेर् अप्रामाणिकत्वात् । तथा ह्य्-आपस्तम्बेन जीवन्-मुक्तिर् निरस्ता, वेदान् इमं लोकम् अमुं च परित्यज्यात्मानम् अन्विच्छेत् “बुद्ध-क्षेम-प्रापणं तच् छास्त्रैर् विप्रतिषिद्धम् । बुद्धे चेत् क्षेम-प्रापणम् इहेव न दुःखम् उपलभेत् ।” एतेन परं व्याख्यातम् इति का चेयं जीवन्-मुक्तिः सशरीरस्येव मोक्ष इति चेन् माता मे वध्न्येति वद् असङ्गतार्थम् इदम् । यतः सशरीरत्वं बन्धः अशरीरत्वम् एव मोक्ष इति “न ह वै सशरीरस्य सतः प्रियाप्रिययोर् अपहतिर् अस्ति, अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत” इत्य्-आदि-श्रुतिभिस् तेनैवोपपादितत्वाद् इति । दिक् विस्तरस् तु भाष्यादिष्व् अनुसन्धेयः । अथ मर्त्यो ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते इति श्रुतिर् जीवन्-मुक्तिम् अभिदधाति इति चेन् न, अत्रोपासन-दशायाम् अपि ब्रह्माश्नुते अनुभवतीति श्रुत्य्-अर्थ-वर्णनात् । अन्यथा देह-पातावधि-विलम्ब-परायास् तस्य तावद् एव चिरं यावन् न विमोक्ष्ये अथ सम्पत्स्य, इति श्रुतेर् विरोधापत्तेः । तस्माद् यथोक्त एवार्थः ॥ २७ ॥
श्लोक-२८
मूलम् (वचनम्)
देवहूतिरुवाच
विश्वास-प्रस्तुतिः
काचित्त्वय्युचिता भक्तिः कीदृशी मम गोचरा।
यया पदं ते निर्वाणमञ्जसान्वाश्नवा अहम्॥
मूलम्
काचित्त्वय्युचिता भक्तिः कीदृशी मम गोचरा।
यया पदं ते निर्वाणमञ्जसान्वाश्नवा अहम्॥ २८ ॥
अनुवाद (हिन्दी)
देवहूतिने कहा—भगवन्! आपकी समुचित भक्तिका स्वरूप क्या है? और मेरी-जैसी अबलाओंके लिये कैसी भक्ति ठीक है, जिससे कि मैं सहजमें ही आपके निर्वाणपदको प्राप्त कर सकूँ?॥ २८॥
वीरराघवः
एवं विवेकादिभिर् ज्ञानेन योगेन चानुगृहीत-भगवद्-भक्ति-योगस्यैव मुक्त्य्-उपायत्वं संग्रहेणाश्रुत्य पुनः तद्-विस्तर-बुभुत्सया पृच्छति देवहूतिः । यद् वा ज्ञान-योग-प्रतिपादन-साधु-स्व-रूप-प्रतिपादन-प्रसङ्गात् सङ्ग्रहेणोक्त-भगवद्-भक्ति-योगस्य प्राधान्येन तत्-स्वरूप-तद्-अङ्ग-स्व-रूप-विस्तर-बुभुत्सया पृच्छति त्रिभिः । उचिता मुक्तिं साधयितुं योग्या त्वयि भक्तिः का चेति भक्ति-स्व-रूप-प्रश्नः । का स्विद् इत्य् अपि पाठान्तरं तदाप्य्-अयम् एवार्थः । कीदृशीति मम मतेर् गोचरा योग्यानेन भक्त्य्-अधिकारानुसारेण सम्भावितावान्तर-भेदश् च पृष्टः यया भक्त्याहं ताप-त्रयातुरा ते तव निर्वाणं निरतिशय-सुखं पदम् अञ्जसा सुखेनान्वश्नवै अनुप्राप्नुवानि । अत्राहम् इत्य्-उपासक-प्रश्नः ते पदं स्व-रूपम् इत्य् अनेन प्राप्य-प्रश्नः निर्वाणम् इति प्राप्ति-फल-प्रश्नः । अञ्जसेति विघ्न-प्रतीत्या विरोधि-वर्ग-प्रश्नः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
यो योगो भगवद्बाणो निर्वाणात्मंस्त्वयोदितः।
कीदृशः कति चाङ्गानि यतस्तत्त्वावबोधनम्॥
मूलम्
यो योगो भगवद्बाणो निर्वाणात्मंस्त्वयोदितः।
कीदृशः कति चाङ्गानि यतस्तत्त्वावबोधनम्॥ २९ ॥
अनुवाद (हिन्दी)
निर्वाणस्वरूप प्रभो! जिसके द्वारा तत्त्वज्ञान होता है और जो लक्ष्यको बेधनेवाले बाणके समान भगवान्की प्राप्ति करानेवाला है, वह आपका कहा हुआ योग कैसा है और उसके कितने अंग हैं?॥ २९॥
वीरराघवः
हे निर्वाणात्मन् ! निरतिशयानन्द-रूप ! भगवद्-बाणः लक्ष्य-रूपे भगवति बाण-रूपेण प्रयुक्तो योगस् त्वयोदित उक्तः स कीदृशः किं-प्रकारः तस्याङ्गानि कति कति सङ्ख्याकानि यतो येभ्यो ऽङ्गेभ्यः तत्त्वस्यात्म-तत्त्वस्यावबोधनम् अवबुध्यते अनेनेत्य् अवबोधनं साक्षात्कार-साधनम् उपासनं निर्वर्त्यते इत्य् अर्थः । कीदृश इति प्रकार-प्रश्नः कति चाङ्गानीत्य् अङ्ग-गणना-प्रश्नः । एवम् अर्थ-पञ्चकं पृष्टं भवति ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
तदेतन्मे विजानीहि यथाहं मन्दधीर्हरे।
सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात्॥
मूलम्
तदेतन्मे विजानीहि यथाहं मन्दधीर्हरे।
सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात्॥ ३० ॥
अनुवाद (हिन्दी)
हरे! यह सब आप मुझे इस प्रकार समझाइये जिससे कि आपकी कृपासे मैं मन्दमति स्त्रीजाति भी इस दुर्बोध विषयको सुगमतासे समझ सकूँ॥ ३०॥
वीरराघवः
तद्-एतद्-उपायोपेयोपेतृ-विरोधि-फल-स्व-रूपं दुर्ज्ञेयं हे हरे ! योषा अत एव मन्द-धीर् अहं भवद्-अनुग्रहात् सुखं बुध्येय जानीयां तथा मे मह्यं विजानीहि ज्ञापय ॥ ३० ॥
श्लोक-३१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
विदित्वार्थं कपिलो मातुरित्थं
जातस्नेहो यत्र तन्वाभिजातः।
तत्त्वाम्नायं यत्प्रवदन्ति सांख्यं
प्रोवाच वै भक्तिवितानयोगम्॥
मूलम्
विदित्वार्थं कपिलो मातुरित्थं जातस्नेहो यत्र तन्वाभिजातः।
तत्त्वाम्नायं यत्प्रवदन्ति सांख्यं प्रोवाच11 वै भक्तिवितानयोगम्॥ ३१ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—विदुरजी! जिसके शरीरसे उन्होंने स्वयं जन्म लिया था, उस अपनी माताका ऐसा अभिप्राय जानकर कपिलजीके हृदयमें स्नेह उमड़ आया और उन्होंने प्रकृति आदि तत्त्वोंका निरूपण करनेवाले शास्त्रका, जिसे सांख्य कहते हैं, उपदेश किया। साथ ही भक्ति-विस्तार एवं योगका भी वर्णन किया॥ ३१॥
वीरराघवः
एवम् आपृष्टः कपिलो भगवद्-भक्ति-योगम् अवतारयामासेत्य् आह मैत्रेयः । विदित्वेति । कपिलो मातुर् देवहूत्याः अर्थं भक्ति-योगादि-रूपार्थ-सम्बन्धि शुश्रूषितं स्व-रूपं विदित्वा जात-स्नेहः मातर्य्-उत्पन्न-स्नेहः तत्र हेतुः यत्र यस्यां तन्वा देहेन जातः तत्त्वाम्नायं तत्त्व-शास्त्रं सांख्य-तत्त्व-संख्या तेनात्म-स्व-रूप-प्रकाशकं यद् वदन्ति तद्-भक्ति-वितान-योगं भक्ति-विस्तर-रूपं योगम् उवाच ज्ञान-योगस्य भक्ति-योगाङ्गत्वद्-एकीकृत्योक्तम् ॥ ३१ ॥
श्लोक-३२
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
देवानां गुणलिङ्गानामानुश्रविककर्मणाम्।
सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या॥
मूलम्
देवानां गुणलिङ्गानामानुश्रविककर्मणाम्।
सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या॥ ३२ ॥
वीरराघवः
तत्र भगवान् कपिलः साङ्गं सविस्तरं मुक्त्य्-उपायं भक्ति-योगम् अष्टाविंशाध्यायेन प्रतिपिपादयिषुस् तद्-अङ्ग-भूतात्म-योग-विषय-भूत-प्रत्यग्-आत्म-स्वरूपं सविस्तरं सप्तविंशाध्यायेन शोधयिष्यन् भजनीयस्य परस्य ब्रह्मणो माहात्म्य-सूचनाय जगत्-सृष्ट्य्-आदि-लीलाः षड्-विंशेन कथयिष्यंस् तावद्-भक्ति-योगं सङ्ग्रहैणेतत्-स्व-रूप-कथन-पूर्वकं प्रशंसति । देवानाम् इति । गुण-लिङ्गानां गुणाः शब्दादि-विषयाः तेषां लिङ्गानां ज्ञापकानां देवानां देवाधिष्ठितानां स्व-स्व-देवताधिष्ठितानां ज्ञानेन्द्रियाणाम् इत्य् अर्थः, तथा आनुश्रविक-कर्मणाम् अनुसृत्याविच्छिन्न-पाठ-परम्परया श्रूयते इत्य् अनुश्रवो वेदः तद्-विहितम् आनुश्रविकं आनुश्रविकं कर्म येषां शास्त्र-प्रसिद्ध-व्यापारानुष्ठान-पराणां कर्मेन्द्रियाणाम् इत्य् अर्थः । तेषाम् उभय-विधेन्द्रियाणाम्, एकाग्रस्य मनसश् च सत्त्वे शुद्ध-सत्त्व-मये भगवद्-विग्रहे या स्वाभाविकी अनिमित्ता फलाभिसन्धि-रहितेति यावत् वृत्तिर् व्यापारः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी।
जरयत्याशु या कोशं निगीर्णमनलो यथा॥
मूलम्
अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी।
जरयत्याशु या कोशं निगीर्णमनलो यथा॥ ३३ ॥
अनुवाद (हिन्दी)
श्रीभगवान्ने कहा—माता! जिसका चित्त एकमात्र भगवान्में ही लग गया है, ऐसे मनुष्यकी वेदविहित कर्मोंमें लगी हुई तथा विषयोंका ज्ञान करानेवाली (कर्मेन्द्रिय एवं ज्ञानेन्द्रिय—दोनों प्रकारकी) इन्द्रियोंकी जो सत्त्वमूर्ति श्रीहरिके प्रति स्वाभाविकी प्रवृत्ति है, वही भगवान्की अहैतुकी भक्ति है। यह मुक्तिसे भी बढ़कर है; क्योंकि जठरानल जिस प्रकार खाये हुए अन्नको पचाता है, उसी प्रकार यह भी कर्मसंस्कारोंके भण्डाररूप लिंगशरीरको तत्काल भस्म कर देती है॥ ३२-३३॥
वीरराघवः
स-निमित्ता भागवती भगवत्-सम्बन्धिनी भक्तिर् इत्य् अर्थः । उभयविधेन्द्रियाणां मनसश् च सत्त्वे वृत्तिर् नाम श्रवण-कीर्तन-स्मरणादिः । अथ भक्तिं प्रस्तौति । सिद्धेः ऐश्वर्य-कैवल्यादि-सिद्धेः गरीयसी श्रेष्ठा निरतिशयानन्द-रूप-भगवद्-अनुभव-फल-साधनत्वाद् इति भावः । सिद्धेर् गरीयस्त्वम् एवाह । या भागवती भक्तिः कोशम् अनादि-पुण्यापुण्य-रूप-कर्म-वासना-कोशं जरयति जीर्णं करोति नाशयति इति यावत्, तत्र दृष्टान्तः निगीर्णं भुक्तम् अन्न-पानादि अनलो जाठराग्निर् यथेति ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
नैकात्मतां मे स्पृहयन्ति केचिन्-
मत्पादसेवाभिरता मदीहाः।
येऽन्योन्यतो भागवताः प्रसज्य
सभाजयन्ते मम पौरुषाणि॥
मूलम्
नैकात्मतां मे स्पृहयन्ति केचिन्मत्पादसेवाभिरता मदीहाः।
येऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि॥ ३४ ॥
अनुवाद (हिन्दी)
मेरी चरणसेवामें प्रीति रखनेवाले और मेरी ही प्रसन्नताके लिये समस्त कार्य करनेवाले कितने ही बड़भागी भक्त, जो एक-दूसरेसे मिलकर प्रेमपूर्वक मेरे ही पराक्रमोंकी चर्चा किया करते हैं, मेरे साथ एकीभाव (सायुज्यमोक्ष) की भी इच्छा नहीं करते॥ ३४॥
वीरराघवः
पुनर् भक्तिम् एव प्रस्तोतुं निरतिशयानन्द-भगवद्-अनुभव-रूप-भक्ति-योग-निष्ठास् तत्-साधर्म्य-रूप-मुक्तिम् अपि नेच्छन्तीत्य् आह । केचिन् मत्-पादयोः सेवायाम् अभिरता आसक्ता मय्य् एव ईहा सर्वेन्द्रिय-चेष्टा येषां ते भागवताः अन्यो ऽन्यतः परस्परं मम पौरुषाणि कल्याण-गुण-प्रकाशकानि चेष्टितानि प्रसज्ज्य प्रस्तूय सभाजयन्तः सम्यग् अनुमोदयन्तः पौरुष-प्रसङ्ग-जनितानन्द-सम्प्लुताः सन्तः मे ममैकात्मतां एक-स्वभावतां मत्-समान-गुणकतां “मम साधर्म्यम् आगताः” इति ह्य् उच्यते न स्पृहयन्ति नेच्छन्ति ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
पश्यन्ति ते मे रुचिराण्यम्ब सन्तः
प्रसन्नवक्त्रारुणलोचनानि।
रूपाणि दिव्यानि वरप्रदानि
साकं वाचं स्पृहणीयां वदन्ति॥
मूलम्
पश्यन्ति ते मे रुचिराण्यम्ब सन्तः प्रसन्नवक्त्रारुणलोचनानि।
रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ति॥ ३५ ॥
अनुवाद (हिन्दी)
मा! वे साधुजन अरुण नयन एवं मनोहर मुखारविन्दसे युक्त मेरे परम सुन्दर और वरदायक दिव्य रूपोंकी झाँकी करते हैं और उनके साथ सप्रेम सम्भाषण भी करते हैं, जिसके लिये बड़े-बड़े तपस्वी भी लालायित रहते हैं॥ ३५॥
वीरराघवः
किन्तु हे अम्ब ! ते सन्तः मे मम रुचिराणि सुन्दराणि प्रशस्तानि वक्त्रारुण-लोचनानि येषु तानि दिव्यान्य् अमानुषाणि वर-प्रदानि अभिमतार्थ-प्रदानि रूपाणि दिव्य-मङ्गल-शरीराणि पश्यन्ति ध्यायन्ति रूपैः साकं सह वा स्पृहणीयां वाचं मत्-उक्तिं वदन्ति परस्परं कथयन्ति ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
तैर्दर्शनीयावयवैरुदार-
विलासहासेक्षितवामसूक्तैः।
हृतात्मनो हृतप्राणांश्च भक्ति-
रनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते॥
मूलम्
तैर्दर्शनीयावयवैरुदारविलासहासेक्षितवामसूक्तैः।
हृतात्मनो हृतप्राणांश्च भक्तिरनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते॥ ३६ ॥
अनुवाद (हिन्दी)
दर्शनीय अंग-प्रत्यंग, उदार हास-विलास, मनोहर चितवन और सुमधुर वाणीसे युक्त मेरे उन रूपोंकी माधुरीमें उनका मन और इन्द्रियाँ फँस जाती हैं। ऐसी मेरी भक्ति न चाहनेपर भी उन्हें परमपदकी प्राप्ति करा देती है॥ ३६॥
वीरराघवः
यद्य् अपि मुक्तिस् तैर् न प्रार्थ्यते तथापि तेषाम् अवश्यं मद्-भक्त्या मुक्तिर् भवित्रीत्य् आह । तैर् इति द्वाभ्याम् । दर्शनीया अवयवा येषु तैः विलास-लीला मन्द-हास-युक्तम् ईक्षणम् अवलोकनं वाम-सूक्तं मधुर-भाषणम् उदाराणि सुन्दराणि विलासादीनि येषु तैर् मद्-रूपैः हृत आत्मा मनो येषां तान् हृताः प्राणाः ज्ञान-कर्मेन्द्रियाणि येषां तान् अनिच्छतः मुक्तिम् अप्रार्थयमानान् अपि भक्तिः पूर्वोक्ता मद्-भक्तिर् अण्वीं सूक्ष्माम् एक-पदीम् इत्य् अर्थः, गतिम् अर्चिरादिकां गतिं प्रति अर्चिरादि-गतिर् बहुभिर् अक्षुण्णत्वाद् अण्वीम् इत्य् उक्तं प्रयुङ्क्ते प्रारब्धावसाने प्रवर्त्तयति गमयतीति यावत् ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
अथो विभूतिं मम मायाविनस्ता-
मैश्वर्यमष्टाङ्गमनुप्रवृत्तम्।
श्रियं भागवतीं वास्पृहयन्ति भद्रां
परस्य मे तेऽश्नुवते तु लोके॥
मूलम्
अथो विभूतिं मम मायाविनस्तामैश्वर्यमष्टाङ्गमनुप्रवृत्तम्।
श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे तेऽश्नुवते तु लोके॥ ३७ ॥
मूलम् - कर्णावती
अथो विभूतिं मम मायाविनस्तामैश्वर्यमष्टाङ्गमनुप्रवृत्तम्।
श्रियं भागवतीं वाऽस्पृहयन्ति भद्रां परस्य मे तेऽश्नुवते तु लोके॥ ३७ ॥
अनुवाद (हिन्दी)
अविद्याकी निवृत्ति हो जानेपर यद्यपि वे मुझ मायापतिके सत्यादि लोकोंकी भोगसम्पत्ति, भक्तिकी प्रवृत्तिके पश्चात् स्वयं प्राप्त होनेवाली अष्टसिद्धि अथवा वैकुण्ठलोकके भगवदीय ऐश्वर्यकी भी इच्छा नहीं करते, तथापि मेरे धाममें पहुँचनेपर उन्हें ये सब विभूतियाँ स्वयं ही प्राप्त हो जाती हैं॥ ३७॥
वीरराघवः
अथो ऽर्चिरादि-गत्या गमनारम्भानन्तरं मम मायया विसृष्टां विशेषेण सृष्टां विभूतिं ब्रह्म-लोक-पर्यन्त-भूतिं तथानुप्रवृत्तं भक्तिम् अनुसृत्य प्रवृत्तम् अष्टाङ्गम् अणिम्-आद्य्-अष्ट-प्रकारकम् ऐश्वर्यं भागवतीं श्रियं मुक्तिं न स्पृहयन्ति । भागवतीं श्रियम् इति दृष्टान्तार्थं यथा भागवतीं श्रियं न स्पृहयन्ति तथा माया-विभूत्यादीन् इत्य् अर्थः । कैमुत्य-न्याय-द्योतनार्थं वा भागवतीं श्रियम् एव न स्पृहयन्ति किं माया-विभूत्यादीन् न स्पृहयन्तीति वक्तव्यम् इति । अथवा ब्रह्माण्डान्तर्-भूत-भगवल्-लोकस्थ-श्रियम् अपि नेच्छन्ति किन्तु ते परस्य प्रकृति-पुरुष-विलक्षणस्य मे मम लोके नित्य-विभूताव् अश्नुवते प्राप्नुवन्ति । क्षयिष्णून् सातिशय-सुखान् लोकान् न प्राप्नुवन्ति किन्तु निरतिशय-सुखं मल्-लोकं प्राप्नुवन्तीत्य् अर्थः ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
न कर्हिचिन्मत्पराः शान्तरूपे
नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः।
येषामहं प्रिय आत्मा सुतश्च
सखा गुरुः सुहृदो दैवमिष्टम्॥
मूलम्
न कर्हिचिन्मत्पराः शान्तरूपे नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः।
येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम्॥ ३८ ॥
अनुवाद (हिन्दी)
जिनका एकमात्र मैं ही प्रिय, आत्मा, पुत्र, मित्र, गुरु, सुहृद् और इष्टदेव हूँ—वे मेरे ही आश्रयमें रहनेवाले भक्तजन शान्तिमय वैकुण्ठधाममें पहुँचकर किसी प्रकार भी इन दिव्य भोगोंसे रहित नहीं होते और न उन्हें मेरा कालचक्र ही ग्रस सकता है॥ ३८॥
वीरराघवः
ननु लोकत्वाविशेषात् स्वर्गादिवद् भोक्तृ-भोग्य-भोगोपकरणानां नाशः स्यात् तत्राह । नेति । हे शान्त-रूपे ! यद् वा शान्त-रूपे शुद्ध-सत्त्व-मयात्मके मल्-लोके मद्-अनुभव-पराः कर्हिचित् कदाचिद् अपि न नंक्ष्यन्ति न मद्-अनुभव-हीना भवन्ति, मे मद् ईयम् अनिमिषो हेतिः काल-चक्रं न लेढि न ग्रसति । तत्र हेतुः येषाम् इति । येषां निरतिशय-प्रीति-विषय आत्माहं सुत इव स्नेह-विषयः सखेव विश्वासास्पदं गुरुर् इव हितोपदेष्टा सुहृद् इव हित-कारी इष्ट-देवम् इव पूज्यः एवं सर्व-भावेनोपासीनान् अहरहर् अनुष्ठीयमान-वर्णाश्रम-धर्मानुगृहीत-मद्-उपासन-रूप-मत्-समाराधन-प्रीतो ऽहं मद्-याथात्म्यानुभव-रूपानन्दं प्रापय्य पुनर् नावर्त्तयामीति भगवतो ऽभिप्रायः । तथा च भगवता स्वयम् एवोक्तम्
माम् उपेत्य पुनर्-जन्म दुःखालयम् अशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥
आ-ब्रह्म-भुवनाल् लोकाः पुनर् आवर्तिनो ऽर्जुन ! माम् उपेत्य तु कौन्तेय ! पुनर्-जन्म न विद्यते ॥ इति च
श्रुतिर् अपि “स खल्व् एवं वर्त्तयन् यावद्-आयुषं ब्रह्म-लोकम् अभिसम्पद्यते न च पुनर् आवर्त्तते” इत्य्-आदिका । एतेन यदि परम-पुरुषायत्तं मुक्तैश्वर्यं तर्हि तस्य स्वतन्त्रत्वेन तत्-सङ्कल्पान् मुक्तस्य पुनर्-आवृत्ति-सम्भावना-शङ्का परास्ता । न हि परम-पुरुषः सत्य-सङ्कल्पः अत्यर्थ-प्रियं ज्ञानिनं लब्ध्वा कदाचिद् आवर्तयिष्यति य एवम् आह-
प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः । उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् ॥
आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम् । बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते ॥
वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः ॥ ३८ ॥ इति
श्लोक-३९
विश्वास-प्रस्तुतिः
इमं लोकं तथैवामुमात्मानमुभयायिनम्।
आत्मानमनु ये चेह ये रायः पशवो गृहाः॥
मूलम्
इमं लोकं तथैवामुमात्मानमुभयायिनम्।
आत्मानमनु ये चेह ये रायः पशवो गृहाः॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
विसृज्य सर्वानन्यांश्च मामेवं विश्वतोमुखम्।
भजन्त्यनन्यया भक्त्या तान्मृत्योरतिपारये॥
मूलम्
विसृज्य सर्वानन्यांश्च मामेवं विश्वतोमुखम्।
भजन्त्यनन्यया भक्त्या तान्मृत्योरतिपारये12॥ ४० ॥
अनुवाद (हिन्दी)
माताजी! जो लोग इहलोक, परलोक और इन दोनों लोकोंमें साथ जानेवाले वासनामय लिंगदेहको तथा शरीरसे सम्बन्ध रखनेवाले जो धन, पशु एवं गृह आदि पदार्थ हैं, उन सबको और अन्यान्य संग्रहोंको भी छोड़कर अनन्य भक्तिसे सब प्रकार मेरा ही भजन करते हैं—उन्हें मैं मृत्युरूप संसारसागरसे पार कर देता हूँ॥ ३९-४०॥
वीरराघवः
नन्व् अपहतापाप्मत्वादेः सत्य-सङ्कल्पत्व-पर्यन्तस्य गुण-गणस्य प्रत्यग्-आत्मनः स्वाभाविकस्यैवाविर्-भावः, अतो न मुक्तैश्वर्यं परम-पुरुषायत्तम् इति चेद् उच्यते तस्य तथाविधत्वम् एव परम-पुरुषायत्तं तस्य नित्य-स्थितिश् चेत् तद्-आयत्ता परम-पुरुषस्यैतन्-नित्यताया नित्येष्टत्वात् नित्यतया वर्त्तत इति न कश्चिद् विरोधः । एवम् एव परम-पुरुष-भोगोपकरणस्य लीलोपकरणस्य च नित्यतया शास्त्रावगतस्य परम-पुरुषस्य नित्येष्टत्वाद् एव तथावस्थानम् अस्तीति शास्त्राद् अवगम्यते । एतत् सर्वम् अभिप्रेत्याह । इमम् इत्य्-आदि द्वाभ्याम् । इमं लोकम् अमुं लोकं पर-लोकं च विसृज्य उभाव् अपि लोकौ हेयाव् इति निश्चित्येत्य् अर्थः । उभौ लोकौ यात्य् अनेनेत्य् उभयायिनम् आत्मानम् उभय-लौकिक-धर्म-साधनं देहम् इत्य् अर्थः । विसृज्य तस्मिन् देहे आत्माभिमानं परित्यज्येत्य् अर्थः । तथात्मानं देहम् अनु ये ऽनुबन्धिनो ये पुत्र-कलत्रादयः ये च रायः धनानि पशवो गृहाश् च तान् अन्यांश् च परिग्रहादीन् विसृज्य तेषु ममताम् अपोह्येत्य् अर्थः । विश्वतो-मुखं सर्वज्ञं माम् एवं सुत-सखि-गुरुत्व्-आदि-भावेनानन्यया विषयान्तर-वितृष्णया भक्त्या भजन्त्य् आराधयन्ति तान् मृत्योः संसाराद् अतिपारये ऽत्यन्तं पारं नयामि पुनर् न संसारयामि । एतन् मम नित्येष्टम् इति भावः ॥ ३९-४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
नान्यत्र मद्भगवतः प्रधानपुरुषेश्वरात्।
आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते॥
मूलम्
नान्यत्र मद्भगवतः प्रधानपुरुषेश्वरात्।
आत्मनः सर्वभूतानां भयं तीव्रं13 निवर्तते॥ ४१ ॥
अनुवाद (हिन्दी)
मैं साक्षात् भगवान् हूँ, प्रकृति और पुरुषका भी प्रभु हूँ तथा समस्त प्राणियोंका आत्मा हूँ; मेरे सिवा और किसीका आश्रय लेनेसे मृत्युरूप महाभयसे छुटकारा नहीं मिल सकता॥ ४१॥
वीरराघवः
अनन्ययेत्य् अनेन सूचितं देवतान्तर-भक्तेर् मुक्ति-साधनत्वं वक्तुं देवतान्तराणां क्षेत्रज्ञत्वात् कर्म-वश्यत्वान् मन्-निदेशानुवर्तित्वाच् च न तद्-भजनान् मुक्तिर् इत्य् आह । नान्यत्रेति । सर्व-भूतानां सर्व-जीवानाम् आत्मनः धारकस्य अनेन सर्व-भूतानां धार्यत्वेन शरीरत्वम् उक्तं प्रधान-पुरुषयोः सर्वावस्थावस्थित-चेतनाचेतनयोर् ईश्वराद् अन्तः प्रविश्य नियन्तुर् अनेन कर्मायत्त-सर्वावस्थावस्थित-प्रधान-पुरुषयोर् नियाम्यत्वम् उक्तं मद्-भगवतः अहं चासौ भगवांश् च तस्मात् पूर्ण-षाड्गुण्यान् मत्त इत्य् अर्थः । अनेन स्वस्यैव मुक्ति-प्रदत्वम् इतरेषां दुर्भगत्वेनानुत्तारकत्वं च सूचितम् अन्यत्रान्यस्मिन् सेव्यमाने इति शेषः । तीव्रं दुःसहं भयं गर्भ-जन्म-जरा-मरणादि-सांसारिक-भयं न निवर्तते ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
मद्भयाद्वाति वातोऽयं सूर्यस्तपति मद्भयात्।
वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति मद्भयात्॥
मूलम्
मद्भयाद्वाति वातोऽयं सूर्यस्तपति मद्भयात्।
वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति मद्भयात्॥ ४२ ॥
अनुवाद (हिन्दी)
मेरे भयसे यह वायु चलती है, मेरे भयसे सूर्य तपता है, मेरे भयसे इन्द्र वर्षा करता और अग्नि जलाती है तथा मेरे ही भयसे मृत्यु अपने कार्यमें प्रवृत्त होता है॥ ४२॥
वीरराघवः
प्रधान-पुरुषेश्वराद् इत्य् अनेन सूचितम् इतरेषाम् आ-ब्रह्म-पर्यन्त-क्षेत्रज्ञानां स्व-नियाम्यत्वम् आह । मद्-भयाद् इति सार्द्धेन । वायु-सूर्यादयः मन्-निर्दिष्ट-स्व-स्व-व्यापाराकरणे मत्-संजात-महा-भय-निमित्त-दण्डनम् उद्भावयन्तः स्वकीय-व्यापारेषु जागरूकास् तिष्ठन्तीत्य् अर्थः । अत्र “भीषास्माद् वातः पर्वत” इत्य्-आदि-श्रुत्य्-अर्थः ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः।
क्षेमाय पादमूलं मे प्रविशन्त्यकुतोभयम्॥
मूलम्
ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः।
क्षेमाय पादमूलं मे प्रविशन्त्यकुतोभयम्14॥ ४३ ॥
अनुवाद (हिन्दी)
योगिजन ज्ञान-वैराग्ययुक्त भक्तियोगके द्वारा शान्ति प्राप्त करनेके लिये मेरे निर्भय चरणकमलोंका आश्रय लेते हैं॥ ४३॥
वीरराघवः
उक्तः मद्-भजनाद् एव मोक्ष इत्य् अत्र सदाचारं प्रमाणयति । ज्ञानेति तस्माद् योगिनो मद्-उपासका ज्ञान-वैराग्याभ्यां ज्ञान-योग-विवेकादि-साधन-प्राप्ताभ्यां युक्तेन मद्-भक्ति-योगेन क्षेमाय नित्य-निरतिशयानन्द-रूप-मद्-अनुभवात्मक-क्षेमायाकुतो-भयं कुतश्चिद् भय-रहितं मत्-पाद-मूलम् एव प्रविशन्ति भजन्ते प्राप्नुवन्तीति वा ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
एतावानेव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः।
तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम्॥
मूलम्
एतावानेव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः।
तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम्॥ ४४ ॥
अनुवाद (हिन्दी)
संसारमें मनुष्यके लिये सबसे बड़ी कल्याणप्राप्ति यही है कि उसका चित्त तीव्र भक्तियोगके द्वारा मुझमें लगकर स्थिर हो जाय॥ ४४॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे का15पिलेयोपाख्याने पञ्चविंशोऽध्यायः॥ २५ ॥
वीरराघवः
आलोड्य सर्व-शास्त्राणीति न्यायेन उक्तं वक्ष्यमाणं च कृत्स्न-शास्त्रार्थं सुख-ग्रहणाय संगृह्य निर्दिशति । एतावान् इति । तीव्रेणान्तरायानुपहतेन भक्ति-योगेन मनश् चित्तं मय्य् अर्पितं सत् तत्रैव स्थिरं सु-निश्चलं भवतीत्य् एतावान् एवास्मिन् प्रकृति-मण्डले पुंसां बद्ध-जीवानां निःश्रेयसोदयः परम-पुरुषार्थोत्कर्षः ॥ ४४ ॥
इति श्रीमद्-भागवते महा-पुराणे तृतीय-स्कन्धे श्रीमद्-वीर-राघवाचार्य-कृत-भागवत-चन्द्र-चन्द्रिकायां पञ्चविंशो ऽध्यायः ॥ २५ ॥
-
प्रा. पा. - तर्ह्यस्य । ↩︎
-
प्रा. पा. - आहेदं । ↩︎
-
प्रा. पा. - मार्गप्रदर्शकम् । ↩︎
-
प्राचीनपाठे ‘देवहूतिरुवाच’ अंशोऽयं टिप्पण्यां वर्तते । ↩︎
-
प्रा. पा. - ज्ञानेन । ↩︎
-
प्राचीने पाठे ‘मैत्रेय उवाच’ अयं पाठो न । ↩︎
-
प्रा. पा. - गुणे प्रसक्तं । ↩︎
-
प्रा. पा. - चेतसा । ↩︎
-
प्रा. पा. - नैकात्मगत । ↩︎
-
प्रा. पा. - विनिर्गता । ↩︎
-
प्रा. पा. - प्रावोचद्वै । ↩︎
-
प्रा. पा. - रभिपारये । ↩︎
-
प्रा. पा. - सर्वे । ↩︎
-
प्रा. पा. - कुतोभयाः । ↩︎
-
प्राचीने पाठे ‘कापिलेयोपाख्याने’ अयमंशो न । ↩︎