२४

[चतुर्विंशोऽध्यायः]

भागसूचना

श्रीकपिलदेवजीका जन्म

श्लोक-१

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः।
दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन्॥

मूलम्

निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः।
दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन्॥ १ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—उत्तम गुणोंसे सुशोभित मनुकुमारी देवहूतिने जब ऐसी वैराग्ययुक्त बातें कहीं, तब कृपालु कर्दम मुनिको भगवान् विष्णुके कथनका स्मरण हो आया और उन्होंने उससे कहा॥ १॥

वीरराघवः

एवं निर्विद्यमानां भार्यां प्रत्य् आह कर्द्दम इत्य् आह मैत्रेयः । एवम् इति । निर्वेदं कथयन्तीं मनोर् दुहितरं शालिनीं स्वगृहिणीं प्रति मुनिः कर्द्दमः दयालुः शुद्धाभिव्याहृतम् । अहं च स्वांश-कलयेति भगवद्-वचनं स्मरन्न् आह ॥ १ ॥

श्लोक-२

मूलम् (वचनम्)

ऋषिरुवाच

विश्वास-प्रस्तुतिः

मा खिदो राजपुत्रीत्थमात्मानं प्रत्यनिन्दिते।
भगवांस्तेऽक्षरो गर्भमदूरात्सम्प्रपत्स्यते॥

मूलम्

मा खिदो राजपुत्रीत्थमात्मानं प्रत्यनिन्दिते।
भगवांस्तेऽक्षरो गर्भमदूरात्सम्प्रपत्स्यते॥ २ ॥

अनुवाद (हिन्दी)

कर्दमजी बोले—दोषरहित राजकुमारी! तुम अपने विषयमें इस प्रकार खेद न करो; तुम्हारे गर्भमें अविनाशी भगवान् विष्णु शीघ्र ही पधारेंगे॥ २॥

वीरराघवः

उक्तिम् एवाह । त्रिभिः हे राज-पुत्रि ! अनिन्दिते ! अनवद्याचारे ! आत्मानं प्रतीत्थं मा खिदः खेदं मा कार्षीः अक्षरो निरस्त-प्राकृत-गुणो भगवान् अनन्त-कल्याण-गुणो हरिर् अदूराद् आशु ते तव गर्भं प्रपत्स्यते ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

धृतव्रतासि भद्रं ते दमेन नियमेन च।
तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज॥

मूलम्

धृतव्रतासि1 भद्रं ते दमेन2 नियमेन च।
तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज॥ ३ ॥

अनुवाद (हिन्दी)

प्रिये! तुमने अनेक प्रकारके व्रतोंका पालन किया है, अतः तुम्हारा कल्याण होगा। अब तुम संयम, नियम, तप और दानादि करती हुई श्रद्धापूर्वक भगवान‍्का भजन करो॥ ३॥

वीरराघवः

ते तुभ्यं भद्रं मङ्गलम् अस्तु धृतं व्रतं भगवद्-आराधन-रूपं व्रतं यया सा सती त्वं दमेन बाह्येन्द्रिय-नियमनेन नियमेनान्तरिन्द्रिय-नियमनेन पातिव्रत्यस्योचित-तपसा द्रविणानां हिरण्यादीनां दानैश् च श्रद्धया प्रारिप्सित-भगवद्-आराधन-त्वरया चेश्वरं भगवन्तं भज ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

स त्वयाऽऽराधितः शुक्लो वितन्वन्मामकं यशः।
छेत्ता ते हृदयग्रन्थिमौदर्यो ब्रह्मभावनः॥

मूलम्

स त्वयाऽऽराधितः शुक्लो वितन्वन्मामकं यशः।
छेत्ता ते हृदयग्रन्थिमौदर्यो ब्रह्मभावनः॥ ४ ॥

अनुवाद (हिन्दी)

इस प्रकार आराधना करनेपर श्रीहरि तुम्हारे गर्भसे अवतीर्ण होकर मेरा यश बढ़ावेंगे और ब्रह्मज्ञानका उपदेश करके तुम्हारे हृदयकी अहंकारमयी ग्रन्थिका छेदन करेंगे॥ ४॥

वीरराघवः

त्वया आराधितः स शुक्लो भगवान् मदीयं यशो वितन्वन् विस्तारयन्न् औदर्यः तद् उदरे जातः ब्रह्म-भावनः तव ब्रह्मोपदेष्टा भूत्वा ते हृदय-ग्रन्थिम् अज्ञानं छेत्स्यति ॥ ४ ॥

श्लोक-५

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

देवहूत्यपि संदेशं गौरवेण प्रजापतेः।
सम्यक् श्रद्धाय पुरुषं कूटस्थमभजद‍्गुरुम्॥

मूलम्

देवहूत्यपि संदेशं गौरवेण प्रजापतेः।
सम्यक् श्रद्धाय पुरुषं कूटस्थमभजद‍्गुरुम्॥ ५ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! प्रजापति कर्दमके आदेशमें गौरव-बुद्धि होनेसे देवहूतिने उसपर पूर्ण विश्वास किया और वह निर्विकार, जगद‍्गुरु भगवान् श्रीपुरुषोत्तमकी आराधना करने लगी॥ ५॥

वीरराघवः

एवम् उक्ता देवहूतिस् तथाकरोद् इत्य् आह मैत्रेयः । देवहूतिर् अपि प्रजा-पतेः कर्द्दमस्य संदेशं निदेशं गौरवेण सम्यक् श्रद्धाय विश्वस्य कूटस्थं निर्विकारं गुरुम् अज्ञान-निवर्त्तकं पुरुषं परम-पुरुषम् अभजत् ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

तस्यां बहुतिथे काले भगवान्मधुसूदनः।
कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि॥

मूलम्

तस्यां बहुतिथे काले भगवान्मधुसूदनः।
कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि॥ ६ ॥

अनुवाद (हिन्दी)

इस प्रकार बहुत समय बीत जानेपर भगवान् मधुसूदन कर्दमजीके वीर्यका आश्रय ले उसके गर्भसे इस प्रकार प्रकट हुए , जैसे काष्ठमेंसे अग्नि॥ ६॥

वीरराघवः

बहु-तिथे बहु-तरे काले गते सति भगवान् मधुसूदनः तस्यां देवहूत्यां कार्दमं कर्द्दम-सम्बन्धि वीर्यम् आपन्नः प्राप्तः दारुण्य् अग्निर् इव जज्ञे कार्द्दम-वीर्य-संश्लिष्ट-जीव-विशेषम् आविष्टः अवततारेत्य् अर्थः । अयम् आवेशावतारो जामदग्न्यवत् आवेशावतारो नाम जीवान्तरात्मतयावस्थितस्यैव भगवतः जीव-द्वारा ज्ञान-शक्त्यादि-गुण-विशेषान्यतमाविर्-भावः तावतैव तस्मिन् जीवे स्वस्य् अन्येषां चेश्वरत्वाभिमानः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

अवादयंस्तदा व्योम्नि वादित्राणि घनाघनाः।
गायन्ति तं स्म गन्धर्वा नृत्यन्त्यप्सरसो मुदा॥

मूलम्

अवादयंस्तदा व्योम्नि वादित्राणि घनाघनाः।
गायन्ति तं3 स्म गन्धर्वा नृत्यन्त्यप्सरसो मुदा॥ ७ ॥

अनुवाद (हिन्दी)

उस समय आकाशमें मेघ जल बरसाते हुए गरज-गरजकर बाजे बजाने लगे, गन्धर्वगण गान करने लगे और अप्सराएँ आनन्दित होकर नाचने लगीं॥ ७॥

वीरराघवः

तद्-अवतरण-समये व्योम्नि वादित्राणि शङ्ख-मृदङ्ग-दुन्दुभ्यादीन्य् अवादयन् अध्वनयन् देवा इति शेषः । घनाघना इत्य् एकं पदं वर्षन्तो मेघाः अभूवन्न् इत्य् अर्थः । सगन्धर्वाः किन्नरादयः गायन्ति स्म गीतवन्तः अप्सरसः मुदा हर्षेण नृत्यन्ति स्म अनृत्यन् ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

पेतुः सुमनसो दिव्याः खेचरैरपवर्जिताः।
प्रसेदुश्च दिशः सर्वा अम्भांसि च मनांसि च॥

मूलम्

पेतुः सुमनसो दिव्याः खेचरैरपवर्जिताः।
प्रसेदुश्च दिशः सर्वा अम्भांसि च मनांसि च॥ ८ ॥

अनुवाद (हिन्दी)

आकाशसे देवताओंके बरसाये हुए दिव्य पुष्पोंकी वर्षा होने लगी; सब दिशाओंमें आनन्द छा गया, जलाशयोंका जल निर्मल हो गया और सभी जीवोंके मन प्रसन्न हो गये॥ ८॥

वीरराघवः

खेचरैर् दिविजैर् अपवर्जिता मुक्ताः सुमनसः पुष्पाणि पेतुः पतितवन्ति । सर्वा दिशः अम्भांसि जलानि मनांसि सर्वेषां चित्तानि च प्रसेदुः प्रसन्नान्य् अभूवन् ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

तत्कर्दमाश्रमपदं सरस्वत्या परिश्रितम्।
स्वयम्भूः साकमृषिभिर्मरीच्यादिभिरभ्ययात्॥

मूलम्

तत्कर्दमाश्रमपदं सरस्वत्या परि4श्रितम्।
स्वयम्भूः साकमृषिभिर्मरीच्यादिभिरभ्ययात्॥ ९ ॥

अनुवाद (हिन्दी)

इसी समय सरस्वती नदीसे घिरे हुए कर्दमजीके उस आश्रममें मरीचि आदि मुनियोंके सहित श्रीब्रह्माजी आये॥ ९॥

वीरराघवः

सरस्वत्या परिवेष्टितं तत् कर्दम-स्थानं प्रति स्वयम्भूश् चतुर्मुखो मरीच्यादिभिः ऋषिभिः सहाभ्यागच्छत् ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन्।
तत्त्वसंख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट्॥

मूलम्

भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन्।
तत्त्वसंख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट्॥ १० ॥

अनुवाद (हिन्दी)

शत्रुदमन विदुरजी! स्वतःसिद्ध ज्ञानसे सम्पन्न अजन्मा ब्रह्माजीको यह मालूम हो गया था कि साक्षात् परब्रह्म भगवान् विष्णु सांख्यशास्त्रका उपदेश करनेके लिये अपने विशुद्ध सत्त्वमय अंशसे अवतीर्ण हुए हैं॥ १०॥

वीरराघवः

हे शत्रुहन् ! विदुर अंशेन स्वापृथक्-सिद्ध-विशेषणेन सत्त्वेन नित्यासङ्कुचित-ज्ञान-गुणेन परं ब्रह्मैव तत्त्वानां प्रकृति-पुरुषेश्वराणां संख्यानं याथात्म्य-कथनं तेन विज्ञप्त्यै ज्ञापनाय प्रकृत्य्-आदि-याथात्म्य-कथनेन तद् याथात्म्यं लोकं प्रति प्राहयितुम् इत्य् अर्थः । जातम् अतीवर्णं भगवन्तं विद्वान् जानन् तद् दृष्ट्वा स्वराड् अजो ब्रह्मा भगवद्-आवेशावतारत्वाद् भगवद्-दृष्ट्या ब्रह्मणः स्वराट्त्वम् अकर्म-वश्यत्वम् उक्तम् ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

सभाजयन् विशुद्धेन चेतसा तच्चिकीर्षितम्।
प्रहृष्यमाणैरसुभिः कर्दमं चेदमभ्यधात्॥

मूलम्

सभाजयन् विशुद्धेन चेतसा तच्चिकीर्षितम्।
प्रहृष्यमाणैरसुभिः कर्दमं चेदमभ्यधात्5॥ ११ ॥

अनुवाद (हिन्दी)

अतः भगवान् जिस कार्यको करना चाहते थे, उसका उन्होंने विशुद्ध चित्तसे अनुमोदन एवं आदर किया और अपनी सम्पूर्ण इन्द्रियोंसे प्रसन्नता प्रकट करते हुए कर्दमजीसे इस प्रकार कहा॥ ११॥

वीरराघवः

तस्यावतीर्णस्य भगवतः चिकीर्षितं विशुद्धेन मनसा सभाजयन् संमानयन्न् अभिनन्दयन्न् इति यावत् अत एव प्रहृष्यमाणैर् असुभिर् इन्द्रियैर् आनन्दाश्रु-पूर्ण-रोमाञ्चित-मद्गद-स्वरादि-युक्त-नेत्र-त्वग्-वागादीन्द्रियैर् उपलक्षितः कर्द्दमं चकाराद् देवहूतिं च प्रतीदं वक्ष्यमाणम् अभ्यधाद् अभ्यभाषत ॥ ११ ॥

श्लोक-१२

मूलम् (वचनम्)

ब्रह्मोवाच

विश्वास-प्रस्तुतिः

त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकतः।
यन्मे सञ्जगृहे वाक्यं भवान्मानद मानयन्॥

मूलम्

त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकृतः।
यन्मे सञ्जगृहे वाक्यं भवान्मानद मानयन्॥ १२ ॥

मूलम् - कर्णावती

त्वया मेऽषचितिस्तात कल्पिता निर्व्यलीकतः।
यन्मे सञ्जगृहे वाक्यं भवान्मानद मानयन्॥ १२ ॥

अनुवाद (हिन्दी)

श्रीब्रह्माजीने कहा—प्रिय कर्दम! तुम दूसरोंको मान देनेवाले हो। तुमने मेरा सम्मान करते हुए जो मेरी आज्ञाका पालन किया है, इससे तुम्हारे द्वारा निष्कपट-भावसे मेरी पूजा सम्पन्न हुई है॥ १२॥

वीरराघवः

तत्र त्वयेति पञ्चभिः कर्द्दमं प्रत्याह । हे तात ! पुत्र त्वया ऽपचितिः पूजा निर्व्यलीकेन प्रेमातिशयेन मे मह्यं कल्पिता विहिता । कापचितिर् मया कल्पितेत्य् अत्राह । हे मानद ! भवान् वाक्यं मद्-वचः मानयन् जगृहे गृहीतवान् इति यत् तद् एव ममापचितिः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

एतावत्येव शुश्रूषा कार्या पितरि पुत्रकैः।
बाढमित्यनुमन्येत गौरवेण गुरोर्वचः॥

मूलम्

एतावत्येव शुश्रूषा कार्या पितरि पुत्रकैः।
बाढमित्यनुमन्येत गौरवेण गुरोर्वचः॥ १३ ॥

अनुवाद (हिन्दी)

पुत्रोंको अपने पिताकी सबसे बड़ी सेवा यही करनी चाहिये कि ‘जो आज्ञा’ ऐसा कहकर आदरपूर्वक उनके आदेशको स्वीकार करें॥ १३॥

वीरराघवः

त्वद्-वाक्य-करण-मात्रेण कथम् अपचितिः कल्पितेत्य् अत्राह । पितरि पुत्रैः कार्या शुश्रूषा अपचितिर् एतावत्य् एव यद् गुरोः पितुर्-वचः वाक्यं गौरवेण बाढम् अनुमन्येताङ्गीक्रियेतेति प्रजाः सृजेति मयाभिहितस् त्वं तथैवाकार्षीर् अतो मद्-अपचितिः कल्पितेति भावः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

इमा दुहितरः सभ्य तव वत्स सुमध्यमाः।
सर्गमेतं प्रभावैः स्वैर्बृंहयिष्यन्त्यनेकधा॥

मूलम्

इमा दुहितरः सभ्य तव वत्स सुमध्यमाः।
सर्गमेतं प्रभावैः स्वैर्बृंहयिष्यन्त्यनेकधा6॥ १४ ॥

अनुवाद (हिन्दी)

बेटा! तुम सभ्य हो, तुम्हारी ये सुन्दरी कन्याएँ अपने वंशोंद्वारा इस सृष्टिको अनेक प्रकारसे बढ़ावेंगी॥ १४॥

वीरराघवः

हे वत्स ! सुमध्यमाः शोभनाङ्गयः इमाः सत्यः साधु-शीलाः तव दुहितरः स्वैः प्रभावैर् अंशैः सर्गम् अनेकधा तत्-तद्-अपत्य-परंपराभिर् बृहयिष्यन्ति वर्द्धयिष्यन्ति ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

अतस्त्वमृषिमुख्येभ्यो यथाशीलं यथारुचि।
आत्मजाः परिदेह्यद्य विस्तृणीहि यशो भुवि॥

मूलम्

अतस्त्वमृषिमुख्येभ्यो यथाशीलं यथारुचि।
आत्मजाः परिदेह्यद्य विस्तृणीहि यशो भुवि॥ १५ ॥

अनुवाद (हिन्दी)

अब तुम इन मरीचि आदि मुनिवरोंको इनके स्वभाव और रुचिके अनुसार अपनी कन्याएँ समर्पित करो और संसारमें अपना सुयश फैलाओ॥ १५॥

वीरराघवः

अतस् त्वम् ऋषि-मुख्येभ्यो मरीच्यादिभ्यः आत्मजा दुहितॄः तत्-तद्-दुहितृ-रुचि-शीलानतिक्रमेण परिदेहि प्रयच्छ । अद्याधुना भुवि यशः विस्तृणीहि वितनु ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

वेदाहमाद्यं पुरुषमवतीर्णं स्वमायया।
भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने॥

मूलम्

वेदाहमाद्यं पुरुषमवतीर्णं स्वमायया।
भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने॥ १६ ॥

अनुवाद (हिन्दी)

मुने! मैं जानता हूँ, जो सम्पूर्ण प्राणियोंकी निधि हैं—उनके अभीष्ट मनोरथ पूर्ण करनेवाले हैं, वे आदिपुरुष श्रीनारायण ही अपनी योगमायासे कपिलके रूपमें अवतीर्ण हुए हैं॥ १६॥

वीरराघवः

तव पुत्रस् तु साक्षाद् ईश्वर इत्य् आह । हे मुने ! स्व-मायया आत्मीय-सङ्कल्पेनावतीर्णं किमर्थं भूतानां शेवधिं निधिं देहं बिभ्राणं निधिम् इवाभीष्ट-प्रदानाय देहं बिभ्राणं कपिलम् आद्यं जगत्-कारणं परम-पुरुषम् एवाहं वेद जानामि ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

ज्ञानविज्ञानयोगेन कर्मणामुद्धरन् जटाः।
हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः॥

मूलम्

ज्ञानविज्ञानयोगेन कर्मणामुद्धरन् जटाः।
हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः।
अविद्यासंशयग्रन्थिं छित्त्वा गां विचरिष्यति॥

मूलम्

एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः।
अविद्यासंशयग्रन्थिं छित्त्वा गां विचरिष्यति॥ १८ ॥

अनुवाद (हिन्दी)

[फिर देवहूतिसे बोले—] राजकुमारी! सुनहरे बाल, कमल-जैसे विशाल नेत्र और कमलांकित चरणकमलोंवाले शिशुके रूपमें कैटभासुरको मारनेवाले साक्षात् श्रीहरिने ही, ज्ञान-विज्ञानद्वारा कर्मोंकी वासनाओंका मूलोच्छेदन करनेके लिये, तेरे गर्भमें प्रवेश किया है। ये अविद्याजनित मोहकी ग्रन्थियोंको काटकर पृथ्वीमें स्वच्छन्द विचरेंगे॥ १७-१८॥

वीरराघवः

देवहूतिं प्रत्य् आह त्रिभिः मानवि ! मनु-पुत्रि ! कैटभार्दनः कैटभारिर् भगवान् ज्ञान-विज्ञान-योगेन जीव-पर-याथात्म्य-ज्ञान-योगोपदेशेन कर्मणा शुश्रूषतां पुंसाम् अनादि-पुण्य-पाप-रूप-कर्मणां जटा मूलानि उद्धरन्न् उत्पाटयितुम् इत्य् अर्थः । ते तव गर्भं प्रविष्टो जात इत्य् अर्थः । कथम्-भूतः हिरण्य-केशः हिरण्यवत्-प्रकाशमानाः केशा यस्य स पद्माक्षः पुण्डरीकाक्षः पद्माकारा मुद्रा रेखा यस्मिंस् तत्-पदाम्बुजं यस्य स एष अविद्या देहात्माभिमानः संशयः अब्रह्मात्मक-स्वतन्त्राभिमानः उभयात्मको यस् तव ग्रन्थिः हृद्-गतम् अज्ञानं तं छित्वा निरस्य गां भूमिं विचरिष्यति ॥ १७-१८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः।
लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः॥

मूलम्

अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः।
लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः॥ १९ ॥

अनुवाद (हिन्दी)

ये सिद्धगणोंके स्वामी और सांख्याचार्योंके भी माननीय होंगे। लोकमें तेरी कीर्तिका विस्तार करेंगे और ‘कपिल’ नामसे विख्यात होंगे॥ १९॥

वीरराघवः

अयं त्वत्-पुत्रः सिद्ध-गणानां योगि-समूहानामधीशः साङ्ख्याचार्यैः सङ्ख्या बुद्धिः बुद्ध्यावधारणीयम् आत्म-तत्त्वं साङ्ख्यं तत्-प्रतिपादकं शास्त्रम् अपि सांख्यम् एव तस्याचार्याः स्वाम् अनुष्ठानेनोपदेष्टारः तैः सु-संमतः बहु-मतः लोके कपिल इत्य् आख्यां नाम-धेयं गन्ता गमिष्यति प्राप्स्यतीत्य् अर्थः । ते तव कीर्ति-वर्धनः ॥ १९ ॥

श्लोक-२०

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

तावाश्वास्य जगत्स्रष्टा कुमारैः सहनारदः।
हंसो हंसेन यानेन त्रिधामपरमं ययौ॥

मूलम्

तावाश्वास्य जगत्स्रष्टा कुमारैः सहनारदः।
हंसो हंसेन यानेन त्रिधामपरमं7 ययौ॥ २० ॥

मूलम् - कर्णावती

तावाश्वास्य जगत्स्रष्टा कुमारैः सहनारदः।
हंसो हंसेन यानेन त्रिधाम परमं ययौ॥ २० ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! जगत‍्की सृष्टि करनेवाले ब्रह्माजी उन दोनोंको इस प्रकार आश्वासन देकर नारद और सनकादिको साथ ले, हंसपर चढ़कर ब्रह्मलोकको चले गये॥ २०॥

वीरराघवः

एवम् उक्त्वा ब्रह्मा स्व-लोकं ययाव् इत्य् आह मैत्रेयः । तौ कर्द्दम-देवहूती आश्वास्य सान्त्वयित्वा जगत्-स्रष्टा हंसो ब्रह्मा कुमारैः सहेति शेषः सह-नारदः नारद-सहितश् च हंसेन यानेन वाहनेन त्रि-धाम्नः स्वर्गात् परम् उपरिस्थितं सत्य-लोकं प्रति ययौ ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

गते शतधृतौ क्षत्तः कर्दमस्तेन चोदितः।
यथोदितं स्वदुहितॄः प्रादाद्विश्वसृजां ततः॥

मूलम्

गते शतधृतौ8 क्षत्तः कर्दमस्तेन चोदितः।
यथोदितं स्वदुहितॄः9 प्रादाद्विश्वसृजां ततः॥ २१ ॥

अनुवाद (हिन्दी)

ब्रह्माजीके चले जानेपर कर्दमजीने उनके आज्ञानुसार मरीचि आदि प्रजापतियोंके साथ अपनी कन्याओंका विधिपूर्वक विवाह कर दिया॥ २१॥

वीरराघवः

शत-धृतौ ब्रह्मणि गते सति क्षत्तः ! तेन ब्रह्मणा चोदितः आदिष्टः कर्द्दमः ततः स्व-दुहितॄः विश्वसृजां विश्वसृड्भ्यः यथोचितं यथानुरूपं प्रादात् प्रायच्छत् ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

मरीचये कलां प्रादादनसूयामथात्रये।
श्रद्धामङ्गिरसेऽयच्छत्पुलस्त्याय हविर्भुवम्॥

मूलम्

मरीचये कलां प्रादादनसूयामथात्रये।
श्रद्धामङ्गिरसेऽयच्छत्पुलस्त्याय हविर्भुवम्॥ २२ ॥

अनुवाद (हिन्दी)

उन्होंने अपनी कला नामकी कन्या मरीचिको, अनसूया अत्रिको, श्रद्धा अंगिराको और हविर्भू पुलस्त्यको समर्पित की॥ २२॥

वीरराघवः

कस्मै कां प्रादाद् इत्य् अत्राह । मरीचय इति । मरीच्य्-अत्र्य्-अङ्गिरः-पुलस्त्य-पुलह-क्रतु-भृगु-वशिष्ठाथर्वभ्यो यथा-क्रमं कलानुसूया-श्रद्धा-हविर्भू-गति-क्रिया-ख्यात्य्-अरुन्धन्तीशान्त्य्-आख्या दुहितॄः प्रायच्छद् इत्य् अर्थः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम्।
ख्यातिं च भृगवेऽयच्छद्वसिष्ठायाप्यरुन्धतीम्॥

मूलम्

पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम्।
ख्यातिं च10 भृगवेऽयच्छद्वसिष्ठायाप्यरुन्धतीम्॥ २३ ॥

अनुवाद (हिन्दी)

पुलहको उनके अनुरूप गति नामकी कन्या दी, क्रतुके साथ परम साध्वी क्रियाका विवाह किया, भृगुजीको ख्याति और वसिष्ठजीको अरुन्धती समर्पित की॥ २३॥

वीरराघवः

तत्र युक्तां वय-आदिभिर् इति शेषः । इदं सर्वासाम् अप्य् उपलक्षणम् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते।
विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत्॥

मूलम्

अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते।
विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत्॥ २४ ॥

अनुवाद (हिन्दी)

अथर्वा ऋषिको शान्ति नामकी कन्या दी, जिससे यज्ञकर्मका विस्तार किया जाता है। कर्दमजीने उन विवाहित ऋषियोंका उनकी पत्नियोंके सहित खूब सत्कार किया॥ २४॥

वीरराघवः

यया शान्त्या यज्ञः क्रतुर् वितन्यते विस्तार्यते बहु-यज्ञ-वर्द्धिनीत्य् अर्थः । दम्पत्योः सहाधिकाराद् ययेत्य् उक्तं कृतोद्वाहान् कृत-विवाहान् सदारान् मरीच्यादीन् समलालयत् वैवाहिक-वस्त्राभरणादि-प्रदानेन संतोषितवान् इत्य् अर्थः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम्।
प्रातिष्ठन्नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम्॥

मूलम्

ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम्।
प्रातिष्ठन्नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम्॥ २५ ॥

अनुवाद (हिन्दी)

विदुरजी! इस प्रकार विवाह हो जानेपर वे सब ऋषि कर्दमजीकी आज्ञा ले अति आनन्दपूर्वक अपने-अपने आश्रमोंको चले गये॥ २५॥

वीरराघवः

हे क्षत्तः ! विदुर ! ततः कृत-दाराः प्रगृहीत-दारास् ते मरीच्यादय ऋषयस् तं कर्द्दमं निमन्त्र्यानुज्ञाप्य नन्दिं हर्षम् आपन्नाः प्राप्ताः सन्तः स्वं स्वमाश्रमं स्थानं प्रातिष्ठन् प्राविशन् ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम्।
विविक्त उपसङ्गम्य प्रणम्य समभाषत॥

मूलम्

स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम्।
विविक्त उपसङ्गम्य प्रणम्य समभाषत॥ २६ ॥

अनुवाद (हिन्दी)

कर्दमजीने देखा कि उनके यहाँ साक्षात् देवाधिदेव श्रीहरिने ही अवतार लिया है तो वे एकान्तमें उनके पास गये और उन्हें प्रणाम करके इस प्रकार कहने लगे॥ २६॥

वीरराघवः

हे भरतर्षभ ! सः कर्दमः त्रीणि युगानि ज्ञान-शक्त्यादि-गुण-युग्मानि यस्य तं भगवन्तं कपिल-रूपेणावतीर्णम् आज्ञाय विदित्वा विविक्ते एकान्ते उपसङ्गम्य समीपम् एत्य प्रणम्य सम्यक् मधुराक्षरं यथा तथा ऽभाषत ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

अहो पापच्यमानानां निरये स्वैरमङ्गलैः।
कालेन भूयसा नूनं प्रसीदन्तीह देवताः॥

मूलम्

अहो पापच्यमानानां निरये स्वैरमङ्गलैः।
कालेन भूयसा नूनं प्रसीदन्तीह देवताः॥ २७ ॥

अनुवाद (हिन्दी)

‘अहो! अपने पापकर्मोंके कारण इस दुःखमय संसारमें नाना प्रकारसे पीडित होते हुए पुरुषोंपर देवगण तो बहुत काल बीतनेपर प्रसन्न होते हैं॥ २७॥

वीरराघवः

भाषणम् एवाह । अहो इत्य् अष्टभिः । तावत् सामान्येन देवता-प्रसादो दुर्लभ इत्य् आह । स्वीयैर् अमङ्गलैः दुष्कृतैः निरये संसारे पापच्यमानानां भृशं दह्यमानानां भूयसा कालेन देवताः प्रसीदन्ति प्रसन्ना भवन्ति नूनं निश्चयः अहो आश्चर्यम् ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

बहुजन्मविपक्वेन सम्यग्योगसमाधिना।
द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्पदम्॥

मूलम्

बहुजन्मविपक्वेन सम्यग्योगसमाधिना।
द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्पदम्॥ २८ ॥

वीरराघवः

वाङ्-मनसा-गोचर-स्वरूप-स्वभावस् त्वं भक्तेषु स्व-सौलभ्यं प्रदर्शयन्न् अस्मद्-भाग्य-वशान् नयन-विषयतां गतो ऽसीत्य् आह । बह्वित्यादिना त्रयेण । बहुभिर् जन्मभिर् विपक्वेन परिपाक-दशाम् आपन्नेन बहु-जन्मानुष्ठित-ज्ञान-कर्म-योगाभ्याम् अनुगृहीतेनेत्य् अर्थः । सम्यग्-योग-समाधिना सम्यग्-योगो भगवद्-भक्ति-योगो यस्मिंस् तेन समाधिना चित्तैकाग्र्येण यस्य तव पदं स्वरूपं शून्यागारेषु रागादि-रहितेषु हृदय-स्थानेषु द्रष्टुं साक्षात् कर्तुं यतन्ते अनेन प्राकृत-मन-आद्य्-अगोचरत्वम् उक्तम् ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

स एव भगवानद्य हेलनं नगणय्य नः।
गृहेषु जातो ग्राम्याणां यः स्वानां पक्षपोषणः॥

मूलम्

स एव भगवानद्य हेलनं नगणय्य नः।
गृहेषु जातो ग्राम्याणां यः11 स्वानां पक्षपोषणः॥ २९ ॥

अनुवाद (हिन्दी)

किन्तु जिनके स्वरूपको योगिजन अनेकों जन्मोंके साधनसे सिद्ध हुई सुदृढ़ समाधिके द्वारा एकान्तमें देखनेका प्रयत्न करते हैं, अपने भक्तोंकी रक्षा करनेवाले वे ही श्रीहरि हम विषयलोलुपोंके द्वारा होनेवाली अपनी अवज्ञाका कुछ भी विचार न कर आज हमारे घर अवतीर्ण हुए हैं॥ २८-२९॥

वीरराघवः

स एष भगवान् भवान् हेलनं कथम् अहं निःसमाभ्यधिको ग्राम्याणां गृहेषु निरय-प्रायेषु जायेयेत्य् अवज्ञाम् अविगणय्य ग्राम्याणां नो ऽस्माकं गृहेषु जातो ऽवतीर्णः । भक्त-सुलभस्य भवतस् त्व् इदम् उचितम् एवेत्य् आह यस् त्वं स्वानां स्व-भक्तानां पक्षं पोषयति तथा सः । अनेन भक्त-सौलभ्यम् उक्तम् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

स्वीयं वाक्यमृतं कर्तुमवतीर्णोऽसि मे गृहे।
चिकीर्षुर्भगवान् ज्ञानं भक्तानां मानवर्धनः॥

मूलम्

स्वीयं वाक्यमृतं कर्तुमवतीर्णोऽसि मे गृहे।
चिकीर्षुर्भगवान् ज्ञानं भक्तानां मानवर्धनः॥ ३० ॥

अनुवाद (हिन्दी)

आप वास्तवमें अपने भक्तोंका मान बढ़ानेवाले हैं। आपने अपने वचनोंको सत्य करने और सांख्ययोगका उपदेश करनेके लिये ही मेरे यहाँ अवतार लिया है॥ ३०॥

वीरराघवः

स्वीयं वाक्यम् अहं च स्वांश-कलयेति वाक्यम् ऋतं सत्यं कर्त्तुं मम गृहे ऽवतीर्णो ऽसि इदं सङ्कल्पित-करणम् अस्मद्-भाग्यम् एवेति भावः । अवतार-प्रयोजनम् आह । ज्ञानं ज्ञायते ऽनेनेति ज्ञान-साधनं सांख्यं तन्त्रं तच् चिकीर्षुः कर्तुम् इच्छुः भक्तानां मानं बहुमानं वर्द्धयतीति तथा सन्न् अवतीर्णो ऽसि साधून् परित्रातुं लोकोज्जिजीविषया सांख्य-तन्त्रं च कर्त्तुम् अवतीर्ण इत्य् अर्थः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव।
यानि यानि च रोचन्ते स्वजनानामरूपिणः॥

मूलम्

तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव।
यानि यानि च रोचन्ते स्वजनानामरूपिणः॥ ३१ ॥

अनुवाद (हिन्दी)

भगवन्! आप प्राकृतरूपसे रहित हैं, आपके जो चतुर्भुज आदि अलौकिक रूप हैं वे ही आपके योग्य हैं तथा जो मनुष्य-सदृश रूप आपके भक्तोंको प्रिय लगते हैं, वे भी आपको रुचिकर प्रतीत होते हैं॥ ३१॥

वीरराघवः

पुनर् भक्तानुग्राहकत्वम् एवाह । तान्य् एवेति । अरूपिणः कर्मायत्त-देव-मनुष्यादि-रूप-रहितस्य तव यानि चतुर्भुजादि-रूपाणि स्वानां स्व-भक्तानां रोचते यान्य् एव रूपाणि ते तवाप्य् अभिरूपाण्य् अभिमतानि रूपाणि स्व-जनान् अनुग्रहीतुम् एव तद्-रुच्य्-अनुसारेण दिव्यानि रूपाणि बिभर्षीत्य् अर्थः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा
सदाभिवादार्हणपादपीठम्।
ऐश्वर्यवैराग्ययशोऽवबोध-
वीर्यश्रिया पूर्त्तमहं प्रपद्ये॥

मूलम्

त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा सदाभिवादार्हणपादपीठम्।
ऐश्वर्यवैराग्ययशोऽवबोधवीर्यश्रिया पूर्त्तमहं प्रपद्ये॥ ३२ ॥

अनुवाद (हिन्दी)

आपका पाद-पीठ तत्त्वज्ञानकी इच्छासे विद्वानोंद्वारा सर्वदा वन्दनीय है तथा आप ऐश्वर्य, वैराग्य, यश, ज्ञान, वीर्य और श्री—इन छहों ऐश्वर्योंसे पूर्ण हैं। मैं आपकी शरणमें हूँ॥ ३२॥

वीरराघवः

एवं सौलभ्यादि-गुण-विशिष्टत्वेन पुनः प्रस्तुत्य पुनः शरण-वश्योपयुक्त-कल्याण-गुणान्तर-विशिष्टत्वेन प्रस्तुवन् शरणं व्रजति द्वाभ्याम् । सूरिभिः सुधीभिः तत्त्व-बुभुत्सया स्वावगताधिक-प्रकृति-पुरुषेश्वर-याथात्म्यं बोद्धुम् इच्छया सदा अभिवादन-योग्यं पाद-पीठं यस्य तम् ऐश्वर्यादिभिः पूर्णं तत्रावबोधः ज्ञानं श्रीस् तेजः एवम्भूतं त्वां प्रपद्ये शरणं व्रजामि ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

परं प्रधानं पुरुषं महान्तं
कालं कविं त्रिवृतं लोकपालम्।
आत्मानुभूत्यानुगतप्रपञ्चं
स्वच्छन्दशक्तिं कपिलं प्रपद्ये॥

मूलम्

परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम्।
आत्मानुभूत्यानुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये॥ ३३ ॥

अनुवाद (हिन्दी)

भगवन्! आप परब्रह्म हैं; सारी शक्तियाँ आपके अधीन हैं; प्रकृति, पुरुष, महत्तत्त्व, काल, त्रिविध अहंकार, समस्त लोक एवं लोकपालोंके रूपमें आप ही प्रकट हैं; तथा आप सर्वज्ञ परमात्मा ही इस सारे प्रपंचको चेतनशक्तिके द्वारा अपनेमें लीन कर लेते हैं। अतः इन सबसे परे भी आप ही हैं। मैं आप भगवान् कपिलकी शरण लेता हूँ॥ ३३॥

वीरराघवः

परं प्रकृति-पुरुष-विलक्षणं प्रधानं प्रकृति-शरीरकं पुरुषं जीव-शरीरकं कालं काल-शरीरकम् अनेन कारणावस्थ-प्रकृति-पुरुष-काल-शरीरकत्वम् उक्तम् अथ कार्यावस्थ-तच्-छरीरकत्वम् उच्यते महान्तं महत्-शरीरकं त्रिवृतं त्रयाणां सत्त्व-रजस्-तमसां वृत्-वर्धनं यस्मिन् कार्यावस्थे जीवे तच्-छरीरकम् इत्य् अर्थः । शरीर-वाचक-शब्दः शरीरि-पर्यन्तम् अभिधत्ते इत्य् अत्रोपपत्तिः पूर्वम् एवासकृद् उक्ता अनेन कार्यावस्थ-कारणावस्थ-चिद्-अचिद्-अन्तरात्मत्व-कथनेन कारणत्वम् उक्तं तद्-उपयुक्त-सर्वज्ञत्वादि-गुण-योगम् आह । कविं सर्वज्ञं स्वच्छन्द-शक्तिं स्वायत्त-सर्व-शक्तित्वादि-युक्तं पालकत्वम् आह । लोक-पालं लोक-पं चिद्-अचिद्-आत्मक-प्रपञ्चं पालयतीति तं संहर्तृत्वम् उच्यते । आत्मानुभूत्यानुगत-प्रपञ्चम् इति । आत्मनः स्वस्यानुभत्या संहारोपयुक्त-ज्ञान-शक्त्या ऽनुगतः स्वस्मिन् लीनः प्रपञ्चो यस्य तम् आत्मानुभूत्येति पूर्वत्राप्य् अन्वेति काकाक्षि-न्यायात् । ततश् च जगत्-पालनोपयुक्त-स्वकीय-ज्ञान-शक्त्या लोक-पालकम् इत्य् अर्थः । एवम्विधं कपिलं त्वां प्रपद्ये ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

आ स्माभिपृच्छेऽद्य पतिं प्रजानां
त्वयावतीर्णार्ण उताप्तकामः।
परिव्रजत्पदवीमास्थितोऽहं
चरिष्ये त्वां हृदि युञ्जन् विशोकः॥

मूलम्

आ स्माभिपृच्छेऽद्य पतिं प्रजानां त्वयावतीर्णार्ण उताप्तकामः।
परिव्रजत्पदवीमास्थितोऽहं चरिष्ये त्वां हृदि युञ्जन्12 विशोकः॥ ३४ ॥

अनुवाद (हिन्दी)

प्रभो! आपकी कृपासे मैं तीनों ऋणोंसे मुक्त हो गया हूँ और मेरे सभी मनोरथ पूर्ण हो चुके हैं। अब मैं संन्यास-मार्गको ग्रहणकर आपका चिन्तन करते हुए शोकरहित होकर विचरूँगा। आप समस्त प्रजाओंके स्वामी हैं, अतएव इसके लिये मैं आपकी आज्ञा चाहता हूँ॥ ३४॥

वीरराघवः

एवं भगवन्तं प्रस्तुत्याभिप्रेतम् आवोदयति । आस्मा इति । प्रजानाम् अधिपतिं त्वाम् अहम् अभिपृच्छे स्म ईषद् अभिपृच्छामि स्मेत्य् अर्थः । किं तद् इत्य् अत्राह त्वया प्रजा-रूपेण त्वया ऽवतीर्णः अवतारित-ऋण-त्रयः आत्तः अनुभूतः कामः सांसारिको भोगो येन सो ऽहम् इदानीं त्वाम् एव हृदि युञ्जन् ध्यायन्न् अत एव विगतः शोकः ताप-त्रय-जनित-दुःखं यस्य सः, तीव्र-शोकम् इति पाठान्तरं तदा त्वाम् इत्यस्य विशेषणं तच् चापहत-पाप्मत्वादि-गुणाष्ट-कोप-लक्षणं हृदीत्य् अनेन दहर-विद्या-प्रत्यभिज्ञानात् परिव्रजां तुर्याश्रमिणां पदवीं मार्गं संन्यासं धर्मम् आश्रितः चरिष्ये चरिष्यामि ॥ ३४ ॥

श्लोक-३५

मूलम् (वचनम्)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके।
अथाजनि मया तुभ्यं यदवोचमृतं मुने॥

मूलम्

मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके13
अथाजनि मया तुभ्यं यदवोचमृतं मुने॥ ३५ ॥

अनुवाद (हिन्दी)

श्रीभगवान‍्ने कहा—मुने! वैदिक और लौकिक सभी कर्मोंमें संसारके लिये मेरा कथन ही प्रमाण है। इसलिये मैंने जो तुमसे कहा था कि ‘मैं तुम्हारे यहाँ जन्म लूँगा’, उसे सत्य करनेके लिये ही मैंने यह अवतार लिया है॥ ३५॥

वीरराघवः

कर्द्दमैनैवम् उक्तो भगवान् कपिलः स्व-चिकीर्षित-साङ्ख्य-तन्त्रस्य प्रामाण्यं तावन् निदर्शनेन प्रदर्शयन्न् अवतार-प्रयोजनं च कथयन्न् अभिप्रेतार्थे पितरम् आदिशति षड्भिः श्लोकैः । मयेति । सत्य-लौकिके सत्यं पुण्यम् ऋत-पर्यायत्वाद् ऋत-पर्यायत्वादृतं च पुण्यम् एव अपुण्यस्य कर्मण एवम् अनृताद् आत्मानं जुगुप्सेद् इत्य् उक्तेः “ऋतं पिबन्तौ सुकृतस्य लोके” इति चोक्तेः तच् च पुण्यं कर्मोपासनं चेति द्वि-विधम् अत्र विवक्षितं कथं कर्म-वाचि-पुण्य-शब्देनोपासनम् अभिधीयत इति न शङ्क्यम् उपासनस्यापि मनो-व्यापार-रूपत्वेन तेनाभिधान-संभवाद् अत एव हि ‘वाचिकैः पक्षि-मृगतां मानसैर् अन्त्यजातिताम् । शारीर-जैः कर्म-दोषैर् याति स्थावरतां नरः ॥’ इति मानस-व्यापारस्यापि कर्म-दोषैर् इत्य् अनेन क्रिया-रूपत्वम् अवगतं भगवद्-अनुग्रह-विशेषस्यैव पुण्य-स्वरूपत्वेन उपासनस्यापि तद्-अनुग्रह-हेतुत्वेन तद्-अभिधानस्य न्याय्यत्वाच् च लोक्यत इति लोकः फलं तत्-साधनं लौकिकं तच् चापि स्वर्गापवर्ग-साध्य-भेदेन कर्मोपासनं चेति द्वि-विधं तस्मिन् विषये यन् मया प्रोक्तं साङ्ख्यं तत् प्रमाणम् एवेत्य् अर्थः । वक्ष्यमाणे हि साङ्ख्ये भगवद्-भक्ति-योग-निष्ठानाम् अर्चिरादि-गत्या भगवत्-प्राप्तिर् निवृत्ति-धर्म-निरता इत्य् आरभ्य “सूर्य-द्वारेण ते यान्ति” इत्य् अनेन अथ ये गृहमेधीयान् धर्मान् इत्य् आरभ्य “गत्वा चान्द्रमसं लोकं सोमपाः पुनर् एष्यती"ति स्वर्गासक्त-मनसां तत्-साधनानुष्ठानेन पितृ-यान-गत्या तद्-भोगानुभवश् च वक्ष्यते । यद् वा सत्यं ब्रह्म “सत्यं ज्ञानम् अनन्तम्” इति श्रुतेः, लोक्यते साक्षात् क्रियते इति लोकः फलं तत्-साधनं लौकिकं सत्यं च लौकिकं चेति समाहार-द्वन्द्वः तस्मिन् ब्रह्म-स्वरूप-तद्-अनुभव-रूप-फलवत्-साधनादि-विषय इत्य् अर्थः । तत्र यन् मया प्रोक्तं साङ्ख्यं तत् प्रमाणम् एव हीत्य् अर्थः । एतन् निदर्शयति । हे मुने ! अथात एव तुभ्यम् अहं यद् अहं च स्वांश-कलया त्वद्-वीर्येणेत्य् अवोचं तद् ऋतं सत्यं कर्तुम् इति शेषः, अत्रावितथ-वाची ऋत-शब्द औचित्याद् ऋतं यथा तथा मया ऽजनि अवातारि अवान्तर-क्रिया-विशेषणं वा ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

एतन्मे जन्म लोकेऽस्मिन्मुमुक्षूणां दुराशयात्॥
प्रसंख्यानाय तत्त्वानां सम्मतायात्मदर्शने॥

मूलम्

एतन्मे जन्म लोकेऽस्मिन्मुमुक्षूणां दुराशयात्॥
प्रसंख्यानाय तत्त्वानां सम्मतायात्मदर्शने॥ ३६ ॥

अनुवाद (हिन्दी)

इस लोकमें मेरा यह जन्म लिंगशरीरसे मुक्त होनेकी इच्छावाले मुनियोंके लिये आत्मदर्शनमें उपयोगी प्रकृति आदि तत्त्वोंका विवेचन करनेके लिये ही हुआ है॥ ३६॥

वीरराघवः

अवतार-प्रयोजनम् आह । एतद् इति । दुराशयात् दुष्ट आशयो ऽन्तःकरणं यस्मिन् तस्माद् आत्मत्वेनानुसंहिताद् देहान् मुमुक्षूणां मोक्तुम् इच्छतां संसृतिम् अनिच्छताम् इत्य् अर्थः । तेषाम् आत्म-दर्शने प्रकृति-विविक्त-जीवात्म-परमात्म-याथात्म्य-विज्ञाने सम्मतायाभिमताय उपयुक्तायेति यावत् तत्त्वानां प्रकृति-पुरुषेश्वर-याथात्म्य-रूप-तत्त्वानां प्रसंख्यानाय प्रकथनाय विवेचनायास्मिन् लोके एतन् मम जन्माभूद् इत्य् अर्थः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

एष आत्मपथोऽव्यक्तो नष्टः कालेन भूयसा।
तं प्रवर्तयितुं देहमिमं विद्धि मया भृतम्॥

मूलम्

एष आत्मपथोऽव्य14क्तो नष्टः कालेन भूयसा।
तं प्रवर्तयितुं देहमिमं विद्धि मया भृतम्॥ ३७ ॥

अनुवाद (हिन्दी)

आत्मज्ञानका यह सूक्ष्म मार्ग बहुत समयसे लुप्त हो गया है। इसे फिरसे प्रवर्तित करनेके लिये ही मैंने यह शरीर ग्रहण किया है—ऐसा जानो॥ ३७॥

वीरराघवः

ननु पूर्वम् एवाविच्छिन्न-तच्-छ्रोतृ-वक्तृ-परम्पराभिस् त्वयोक्त आत्म-पथो ऽविकल एवावतिष्ठते । किम् इदानीं त्वद्-अवतार-साध्यम् इत्य् अत्राह एष इति । एष आत्म-पथः आत्म-मार्गः आत्म-तत्त्वम् इति यावत् स अव्यक्तः सूक्ष्मः परम-दुर्ज्ञेयः अत एव मया पूर्वम् उपदिष्टो ऽपि भूयसा कालेन बहु-काल-विलम्बेन नष्टः परिभ्रष्टः तम् एवात्म-पथं प्रवर्त्तयितुं मयेमं देहं कृतम् इति विद्धि जानीहि ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

गच्छ कामं मयाऽऽपृष्टो मयि संन्यस्तकर्मणा।
जित्वा सुदुर्जयं मृत्युममृतत्वाय मां भज॥

मूलम्

गच्छ कामं मयाऽऽपृष्टो मयि संन्यस्तकर्मणा।
जित्वा सुदुर्जयं मृत्युममृतत्वाय मां भज॥ ३८ ॥

मूलम् - कर्णावती

गच्छ कामं मया पृष्टो मयि संन्यस्तकर्मणा।
जित्वा सुदुर्जयं मृत्युममृतत्वाय मां भज॥ ३८ ॥

अनुवाद (हिन्दी)

मुने! मैं आज्ञा देता हूँ, तुम इच्छानुसार जाओ और अपने सम्पूर्ण कर्म मुझे अर्पण करते हुए दुर्जय मृत्युको जीतकर मोक्षपद प्राप्त करनेके लिये मेरा भजन करो॥ ३८॥

वीरराघवः

एवम् अवतार-प्रयोजनम् अभिधाय तम् आदिशति । गच्छेति । मया आपृष्टः आदिष्टः कामं यथेच्छं गच्छ मयि संन्यस्-तेन समर्पितेन कर्मणा अनभिसंहित-फलेन मद्-आराधनतैक-वेषेणानुष्ठितेन कर्मणा सुदुर्जयम् उपायान्तरैर् जेतुम् अशक्यं मृत्युं ज्ञानोत्पत्ति-विरोधि-पुण्य-पाप-रूपं प्राचीनं कर्म जित्वा अपोह्यामृतत्वाय मत्-प्राप्ति-रूपामृतत्व-विरोधि-प्राचीन-कर्म-निरसनायेति भावः, मां भज । अत्रेदं वेदितव्यं मे अनादि-पुण्य-पाप-रूपं कर्म किंचिन् मोक्षोपाय-भूत-भगवद्-उपासनोत्पत्ति-विरोधि किंचिच् च कर्मोपेय-भगवत्-प्राप्ति-विरोधि तत्रोपाय-विरोधिनः कर्मणो ऽनभिसंहित-फल-कर्मणा निवृत्तिः “धर्मेण पापम् अपनुदति अविद्यया मृत्युं तीर्त्वा विद्यया मृतम् अश्नुते । कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्त्तते” इत्यादि-श्रुतिभिर् उक्ता, अत्राविद्यया ऽनभिसंहित-फल-कर्मणा मृत्युम् उपायोत्पत्ति-प्रतिबन्धक-कर्म तीर्त्वा अपोह्य विद्यया ज्ञानेनामृतत्वम् एति प्राप्नोतीति श्रुत्य् अर्थः । तथा च स्मृतिः “इयाज सो ऽपि सुबहून् यज्ञान् ज्ञान-व्यपाश्रयः ब्रह्म-विद्याम् अधिष्ठाय तर्तुं मृत्युम् अविद्यया” इति उपेय-विरोधिनस् तु कर्मणः भगवद्-उपासनांश-भक्त्य्-आद्य-पर-पर्याय-ज्ञानेनैव निवृत्तिः “तम् एव विदित्वाति मृत्युम् एति नान्यः पन्था एवम् एवं विदित्वा पापं कर्म न श्लिष्यते । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे । निचाय्य तं मृत्यु-मुखात् प्रमुच्यते । ज्ञात्वा देवं मुच्यते सर्व-पाशैः । ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा” इत्यादि-श्रुति-स्मृति-सिद्धा तद् एतद् अत्रापि मयि संन्यस्त-कर्मणेत्यादिनोच्यते इति संक्षेपः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

मामात्मानं स्वयंज्योतिः सर्वभूतगुहाशयम्।
आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि॥

मूलम्

मामात्मानं स्वयंज्योतिः सर्वभूतगुहाशयम्।
आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि॥ ३९ ॥

अनुवाद (हिन्दी)

मैं स्वयंप्रकाश और सम्पूर्ण जीवोंके अन्तःकरणोंमें रहनेवाला परमात्मा ही हूँ। अतः जब तुम विशुद्ध बुद्धिके द्वारा अपने अन्तःकरणमें मेरा साक्षात्कार कर लोगे तब सब प्रकारके शोकोंसे छूटकर निर्भय पद (मोक्ष) प्राप्त कर लोगे॥ ३९॥

वीरराघवः

तेन मद्-भजनेन माम् आत्मन्य् एव स्वात्मन्य् एव वात्मना मनसा ऽन्वीक्षन् साक्षात् कुर्वन् विशोकः विगतः शोकः शोक-हेतु-मत्-प्राप्ति-विरोधि-प्राचीनं कर्म यस्य सः अभयं न विद्यते भयं यस्मात् तं माम् ऋच्छसि प्राप्स्यसि कथम्भूतं माम् आत्मानं जीवान्तरात्मानं स्वयं प्रकाशं सर्व-भूतानां गुहायां हृदय-कुहरे शयानम् ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम्।
वितरिष्ये यया चासौ भयं चातितरिष्यति॥

मूलम्

मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम्।
वितरिष्ये यया चासौ भयं चातितरिष्यति॥ ४० ॥

अनुवाद (हिन्दी)

माता देवहूतिको भी मैं सम्पूर्ण कर्मोंसे छुड़ानेवाला आत्मज्ञान प्रदान करूँगा, जिससे यह संसाररूप भयसे पार हो जायगी॥ ४०॥

वीरराघवः

मयि गते सति किं भवान् करिष्यतीत्य् अत्राह । मात्र इति । असौ मम माता यया च ब्रह्म-विद्यया मद्-उपदिष्टया भयं मृत्युम् अतिहरिष्यति ताम् आध्यात्मिकीं सर्व-कर्म-शमनीं पूर्वोत्तराघ-विनाशिनीं विद्यां मात्रे वितरिष्ये उपदेक्ष्यामीत्य् अर्थः ॥ ४० ॥

श्लोक-४१

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

एवं समुदितस्तेन कपिलेन प्रजापतिः।
दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह॥

मूलम्

एवं समुदितस्तेन कपिलेन प्रजापतिः।
दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह॥ ४१ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—भगवान् कपिलके इस प्रकार कहनेपर प्रजापति कर्दमजी उनकी परिक्रमा कर प्रसन्नतापूर्वक वनको चले गये॥ ४१॥

वीरराघवः

एवं कपिलेनोक्तः कर्द्दमस् तद् उक्तम् एवाकरोद् इत्य् आह मैत्रेयः । एवम् इति । तेन कपिलेन समुदितः सम्यग् उक्तः प्रजापतिः कर्द्दमस् तं कपिलं प्रदक्षिणीकृत्य परिक्रम्य प्रीतस् तुष्टो वनं प्रति एव जगाम । हेत्य् अनेन सर्व-सम्पत्-समृद्ध-गृह-त्यागो विस्मीयते ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

व्रतं स आस्थितो मौनमात्मैकशरणो मुनिः।
निःसङ्गो व्यचरत्क्षोणीमनग्निरनिकेतनः॥

मूलम्

व्रतं स आस्थितो मौनमात्मैकशरणो मुनिः।
निःसङ्गो व्यचरत्क्षोणीमनग्निरनिकेतनः॥ ४२ ॥

अनुवाद (हिन्दी)

वहाँ अहिंसामय संन्यास-धर्मका पालन करते हुए वे एकमात्र श्रीभगवान‍्की शरण हो गये तथा अग्नि और आश्रमका त्याग करके निःसङ्गभावसे पृथ्वीपर विचरने लगे॥ ४२॥

वीरराघवः

सः कर्द्दमः मौनं व्रतम् आस्थितः आश्रितः आत्मा परमात्मैव एकं शरणम् उपायो रक्षकश् च यस्य सः मुनिः शुभाश्रय-संशीलन-परः निःसङ्गः इन्द्रियार्थेष्व्-आसक्ति-रहितः संसारि-जन-सङ्ग-रहितो वा अनग्निः परित्यक्त-गृहाश्रमत्वाद् आहवनीयाद्य्-अग्नि-रहितः अनिकेतनः नियतावसथ-रहितः क्षोणीं भूमिं व्यचरत् ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

मनो ब्रह्मणि युञ्जानो यत्तत्सदसतः परम्।
गुणावभासे विगुण एकभक्त्यानुभाविते॥

मूलम्

मनो ब्रह्मणि युञ्जानो यत्तत्सदसतः परम्।
गुणावभासे विगुण एकभक्त्यानुभाविते॥ ४३ ॥

अनुवाद (हिन्दी)

जो कार्यकारणसे अतीत है, सत्त्वादि गुणोंका प्रकाशक एवं निर्गुण है और अनन्य भक्तिसे ही प्रत्यक्ष होता है उस परब्रह्ममें उन्होंने अपना मन लगा दिया॥ ४३॥

वीरराघवः

यत्-सद्-असतः चिद्-अचितोः परं विलक्षणं तस्मिन् ब्रह्मणि गुणावभासे गुणैर् अवभासो यस्येति बहुव्रीहिः मङ्गल-गुणावभासिते विगुणे हेय-गुण-रहिते मनो युञ्जानः एकाग्रीकुर्वन् ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

निरहंकृतिर्निर्ममश्च निर्द्वन्द्वः समदृक् स्वदृक्।
प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः॥

मूलम्

निरहंकृतिर्निर्ममश्च15 निर्द्वन्द्वः समदृक् स्वदृक्।
प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्भिरिवोदधिः॥ ४४ ॥

अनुवाद (हिन्दी)

वे अहंकार, ममता और सुख-दुःखादि द्वन्द्वोंसे छूटकर समदर्शी (भेददृष्टिसे रहित) हो, सबमें अपने आत्माको ही देखने लगे। उनकी बुद्धि अन्तर्मुख एवं शान्त हो गयी। उस समय धीर कर्दमजी शान्त लहरोंवाले समुद्रके समान जान पड़ने लगे॥ ४४॥

वीरराघवः

निरहंकृतिर् देहात्माभिमान-रहितः निर्ममः देहापत्य-कलत्रादिषु स्वीयत्व-बुद्धि-रहितः निर्द्वन्द्वः शीतोष्णादि-देह-धर्मैर् अनाकुलः समदृक् । “विद्या-विनय-सम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च समदृक् पण्डितो मतः ॥” इत्य्-आद्य्-उक्त-रीत्या सम-दर्शनः स्वदृक् प्रकृति-विलक्षण-ब्रह्मात्मक-स्वात्म-दर्शी प्रत्यक् प्रशान्त-धीः प्रत्यग्-आत्मनि ब्रह्मात्मके जीवात्मनि प्रशान्ता धीर्यस्य सः ब्रह्मात्मक-स्वात्मानुभवतः निस्तरङ्गितोदधिर् इव स्वयम् अप्य्-अशनाया-पिपासा-शोक-मोह-जरा-मृत्य्व्-आख्योर्मि-षट्क-रहितः ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि।
परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः॥

मूलम्

वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि।
परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः॥ ४५ ॥

अनुवाद (हिन्दी)

परम भक्तिभावके द्वारा सर्वान्तर्यामी सर्वज्ञ श्रीवासुदेवमें चित्त स्थिर हो जानेसे वे सारे बन्धनोंसे मुक्त हो गये॥ ४५॥

वीरराघवः

सर्वज्ञे प्रतीचः जीवस्यात्मन्य् अन्तः प्रविश्य नियन्तरि षाड्गुण्य-पूर्णे सर्व-भूत-धारके परम-पुरुषे परेण ध्रुवानुस्मृतित्व-प्रत्यक्षतापन्न-निरतिशय-प्रीति-रूपत्वादि-दशाम् आपन्नेन भक्ति-योगेन लब्धात्मा लब्ध-मतिः ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

आत्मानं सर्वभूतेषु भगवन्तमवस्थितम्।
अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि॥

मूलम्

आत्मानं सर्वभूतेषु भगवन्तमवस्थितम्।
अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि॥ ४६ ॥

अनुवाद (हिन्दी)

सम्पूर्ण भूतोंमें अपने आत्मा श्रीभगवान‍्को और सम्पूर्ण भूतोंको आत्मस्वरूप श्रीहरिमें स्थित देखने लगे॥ ४६॥

वीरराघवः

धार्येषु सर्व-भूतेषु अवस्थितं भगवन्तम् आत्मानं धारके परमात्मनि भगवति भूतानि धार्याण्य् अपश्यत् पूर्वोत्तरार्धाभ्यां भगवतो व्याप्तिर् धारकत्वं चोच्यते ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

इच्छाद्वेषविहीनेन सर्वत्र समचेतसा।
भगवद‍्भक्तियुक्तेन प्राप्ता भागवती गतिः॥

मूलम्

इच्छाद्वेषविहीनेन सर्वत्र समचेतसा।
भगवद‍्भक्तियुक्तेन प्राप्ता भागवती गतिः॥ ४७ ॥

अनुवाद (हिन्दी)

इस प्रकार इच्छा और द्वेषसे रहित, सर्वत्र समबुद्धि और भगवद‍्भक्तिसे सम्पन्न होकर श्रीकर्दमजीने भगवान‍्का परमपद प्राप्त कर लिया॥ ४७॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे 16कापिलेये चतुर्विंशोऽध्यायः॥ २४ ॥

वीरराघवः

इच्छा-द्वेषादि-प्राकृत-गुण-रहितेन सर्वत्र भूतेषु सम-चेतसा तत्-तत्-कर्मायत्-तद्-एवत्व-मनुष्यत्वादि-वैचित्र्यानादरेण प्रकृति-परिणाम-रूपान् देहान् प्रतिशरीरं जीवानां भेदे ऽपि सर्वत्र ज्ञानैकाकारतया एक-रूपान् जीवान् तत्-तत्-कर्मानुसारेण नियन्तृत्वाभेदे ऽप्य् अन्तर्य्यामित्व-निरस्त-समस्त-दोषत्वानन्त-कल्याण-गुणाकरत्वेन चैक-रूपम् ईश्वरं च पश्यति यच् चित्तं तत्-सम-चेतस् तेन भगवद् भक्ति-योगेन च भागवती गतिः मुक्तिः प्राप्ता लब्धा । पाठान्तरे स एव तां भागवतीं गतिं प्राप्तः ॥ ४७ ॥

इति श्री-भागवत-महापुराणे तृतीय-स्कन्धे श्रीमद्-वीर-राघवाचार्य-कृत-भागवत-चन्द्रिकायां चतुर्विंशो ऽध्यायः ॥ २४ ॥


  1. प्रा. पा. — व्रता सुभद्रं । ↩︎

  2. प्रा. पा. - यमेन । ↩︎

  3. प्रा. पा. - स्म स गन्धर्वा । ↩︎

  4. प्रा. पा. - परिश्रुतम् । ↩︎

  5. प्रा. पा. - मनवेत् । ↩︎

  6. प्रा. पा. - ष्यन्ति नैकधा । ↩︎

  7. प्रा. पा. - त्रिधाम प्रत्यपद्यत । ↩︎

  8. प्रा. पा. - सत्यत्रते । ↩︎

  9. प्रा. पा. - सुदु । ↩︎

  10. प्रा. पा. - स । ↩︎

  11. प्रा. पा. - यत् । ↩︎

  12. प्रा. पा. - युञ्जन्नशोकः । ↩︎

  13. प्रा. पा. - लौकिकम् । ↩︎

  14. प्रा. पा. - थो नष्टोऽव्यक्तः । ↩︎

  15. प्रा. पा. - कृन्निर्मम । ↩︎

  16. प्रा. पा. - कापिले । ↩︎