२३

[त्रयोविंशोऽध्यायः]

भागसूचना

कर्दम और देवहूतिका विहार

श्लोक-१

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

पितृभ्यां प्रस्थिते साध्वी पतिमिङ्गितकोविदा।
नित्यं पर्यचरत्प्रीत्या भवानीव भवं प्रभुम्॥

मूलम्

पितृभ्यां प्रस्थिते साध्वी पतिमिङ्गितकोविदा।
नित्यं पर्यचरत्प्रीत्या भवानीव भवं प्रभुम्॥ १ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजीने कहा—विदुरजी! माता-पिताके चले जानेपर पतिके अभिप्रायको समझ लेनेमें कुशल साध्वी देवहूति कर्दमजीकी प्रतिदिन प्रेमपूर्वक सेवा करने लगी, ठीक उसी तरह, जैसे श्रीपार्वतीजी भगवान् शंकरकी सेवा करती हैं॥ १॥

वीरराघवः

तद्-अपत्योदयं शृण्वति प्रतिज्ञाम् एव वर्णयितुम् आरभते मैत्रेयः पितृभ्याम् इति । मनु-शत-रूपाभ्यां प्रस्थिते गमने कृते सति साध्वीङ्गित्त-कोविदा पत्युर्-अभिप्रायज्ञा देवहूतिः प्रभुं भवं रुद्रं भवानीव पतिं कर्द्दमं प्रीत्या पर्यचरद् आराधितवती ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

विश्रम्भेणात्मशौचेन गौरवेण दमेन च।
शुश्रूषया सौहृदेन वाचा मधुरया च भोः॥

मूलम्

विश्रम्भेणात्मशौचेन गौरवेण दमेन च।
शुश्रूषया सौहृदेन वाचा मधुरया च1 भोः॥ २ ॥

वीरराघवः

एतद् एव प्रपञ्चयति द्वाभ्याम् । विश्रम्भेणेति । विश्रम्भेण विश्वसितेनात्म-शौचेनात्मनो ऽन्तःकरणस्य शौचेन शमेनेत्य् अर्थः । गौरवेण सर्वातिशय-बुद्ध्या दमेन बाह्येन्द्रिय-निग्रहेण शुश्रूषया हिताहितयोः श्रोतुम् इच्छया च सौहार्देन मधुरया वाचा च पतिम् अतोषयद् इत्य् उत्तरेणान्वयः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम्।
अप्रमत्तोद्यता नित्यं तेजीयांसमतोषयत्॥

मूलम्

विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम्।
अप्रमत्तोद्यता नित्यं तेजीयांसमतोषयत्॥ ३ ॥

अनुवाद (हिन्दी)

उसने कामवासना, दम्भ, द्वेष, लोभ, पाप और मदका त्यागकर बड़ी सावधानी और लगनके साथ सेवामें तत्पर रहकर विश्वास, पवित्रता, गौरव, संयम, शुश्रूषा, प्रेम और मधुरभाषणादि गुणोंसे अपने परम तेजस्वी पतिदेवको सन्तुष्ट कर लिया॥ २-३॥

वीरराघवः

कामादीन् विसृज्य तत्र दम्भः कापट्यम् अघं निषिद्धाचरणं मदो गर्वः अप्रमत्ता अनवधान-रहिता उद्यता तन्-निदेशाचरणाद्-युक्ता तेजीयांसम् अतिशयित-तेजः-सम्पन्नं पतिं कर्द्दमम् अतोषयत् ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

स वै देवर्षिवर्यस्तां मानवीं समनुव्रताम्।
दैवाद‍्गरीयसः पत्युराशासानां महाशिषः॥

मूलम्

स वै देवर्षिवर्यस्तां मानवीं समनुव्रताम्।
दैवाद‍्ग2रीयसः पत्युराशासानां महाशिषः॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

कालेन भूयसा क्षामां कर्शितां व्रतचर्यया।
प्रेमगद‍्गदया वाचा पीडितः कृपयाब्रवीत्॥

मूलम्

कालेन भूयसा क्षामां कर्शितां व्रतचर्यया।
प्रेमगद‍्गदया वाचा पीडितः कृपयाब्रवीत्॥ ५ ॥

अनुवाद (हिन्दी)

देवहूति समझती थी कि मेरे पतिदेव दैवसे भी बढ़कर हैं, इसलिये वह उनसे बड़ी-बड़ी आशाएँ रखकर उनकी सेवामें लगी रहती थी। इस प्रकार बहुत दिनोंतक अपना अनुवर्तन करनेवाली उस मनुपुत्रीको व्रतादिका पालन करनेसे दुर्बल हुई देख देवर्षिश्रेष्ठ कर्दमको दयावश कुछ खेद हुआ और उन्होंने उससे प्रेमगद‍्गद वाणीमें कहा॥ ४-५॥

वीरराघवः

स वै देवर्षि-वर्यः कर्द्दमः ताम् अनुवर्तमानां मानवीं मनोः पुत्रीं देवहूतिं प्रेम्णा गद्गद-स्वरया वाचा गिरा पीडितः अविनिसृत-वाक् कृपया ऽब्रवीत् कथम्भूतां मानवीं दैवाद् अपि गरीयसः गरीयस्त्वेनानुसंहितात् यद्वा दैव-भावेनानुसंहितात् श्रेष्ठतमात् पत्युर् भर्तुर् महाशिषम् अपत्य-प्राप्ति-रूषां महतीम् आशिषं पुरुषार्थम् आशासानां प्रार्थयन्तीं व्रत-चर्यया कर्शितां तत्रापि भूयसा कालेन क्षामाम् अतिकृशाङ्गीम् इत्य् अर्थः ॥ ४-५ ॥

श्लोक-६

मूलम् (वचनम्)

कर्दम उवाच

विश्वास-प्रस्तुतिः

तुष्टोऽहमद्य तव मानवि मानदायाः
शुश्रूषया परमया परया च भक्त्या।
यो देहिनामयमतीव सुहृत्स्वदेहो
नावेक्षितः समुचितः क्षपितुं मदर्थे॥

मूलम्

तुष्टोऽहमद्य तव मानवि मानदायाः शुश्रूषया परमया परया च भक्त्या।
यो देहिनामयमतीव सुहृत्स्वदेहो नावेक्षितः समुचितः क्षपितुं मदर्थे॥ ६ ॥

अनुवाद (हिन्दी)

कर्दमजी बोले—मनुनन्दिनि! तुमने मेरा बड़ा आदर किया है। मैं तुम्हारी उत्तम सेवा और परम भक्तिसे बहुत सन्तुष्ट हूँ। सभी देहधारियोंको अपना शरीर बहुत प्रिय एवं आदरकी वस्तु होता है, किन्तु तुमने मेरी सेवाके आगे उसके क्षीण होनेकी भी कोई परवा नहीं की॥ ६॥

वीरराघवः

उक्तिम् एवाह त्रिभिः । हे मानिनि ! परमया शुश्रूषया परया भक्त्या च मयि सम्मानम् एव कुर्वन्त्यास् ते तुभ्यम् अद्याधुनाहं तुष्टः प्रीतो ऽस्मि । देहिनाम् अतीव सुहृत्-प्रियतमो यो देहः स्व-देहः समुचितः श्लाघ्यो ऽपि मद्-अर्थे क्षपितुं कर्शितुं नापेक्षितः उपेक्षितः उचितम् अपि देहम् अनादृत्य स मद्-अर्थे क्षपित इत्य् अर्थः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

ये मे स्वधर्मनिरतस्य तपःसमाधि-
विद्यात्मयोगविजिता भगवत्प्रसादाः।
तानेव ते मदनुसेवनयावरुद्धान्
दृष्टिं प्रपश्य वितराम्यभयानशोकान्॥

मूलम्

ये मे स्वधर्मनिरतस्य तपःसमाधिविद्यात्मयोगविजिता भगवत्प्रसादाः।
तानेव ते मदनुसेवनयावरुद्धान् दृष्टिं प्रपश्य वितराम्यभयानशोकान्॥ ७ ॥

अनुवाद (हिन्दी)

अतः अपने धर्मका पालन करते रहनेसे मुझे तप, समाधि, उपासना और योगके द्वारा जो भय और शोकसे रहित भगवत्प्रसाद-स्वरूप विभूतियाँ प्राप्त हुई हैं, उनपर मेरी सेवाके प्रभावसे अब तुम्हारा भी अधिकार हो गया है। मैं तुम्हें दिव्य-दृष्टि प्रदान करता हूँ, उसके द्वारा तुम उन्हें देखो॥ ७॥

वीरराघवः

स्व-धर्म-निरतस्य स्व-वर्णाश्रमोचित-धर्मेषु निरतस्य मे मया तपः कर्म-योगः समाधिश् चित्तैकाग्र्यं विद्या भगवद्-उपासना आत्म-योगः प्रकृति-विविक्तात्म-याथात्म्य-ज्ञान-योगः एतैर् विजिताः लब्धा भगवत्-प्रसादाः भगवत्-प्रसाद-हेतुकाः प्रसादाद् इति पाठान्तरं तदा तप-आदिभिर् यो भगवत्-प्रसादस् तस्माद् धेतोः निर्जिता ये भोग्य-भोगोपकरण-भोग-स्थानादयस् तान् एव न विद्यते भयं येषु तान् अत एवाशोकान् अशोच्यान् इत्य् अर्थः । मद्-अनुसेवया मत्-सेवयावरुद्धान् त्वया विवशीकृतान् प्रपश्य ते तव दिव्यां दृष्टिं वितरामि ददामि ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ-
विभ्रंशितार्थरचनाः किमुरुक्रमस्य।
सिद्धासि भुङ्क्ष्व विभवान्निजधर्मदोहान्
दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः॥

मूलम्

अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भविभ्रंशितार्थरचनाः किमुरुक्रमस्य।
सिद्धासि भुङ्क्ष्व विभवान्निजधर्मदोहा3न् दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः॥ ८ ॥

अनुवाद (हिन्दी)

अन्य जितने भी भोग हैं, वे तो भगवान् श्रीहरिके भ्रुकुटि-विलासमात्रसे नष्ट हो जाते हैं; अतः वे इनके आगे कुछ भी नहीं हैं। तुम मेरी सेवासे भी कृतार्थ हो गयी हो; अपने पातिव्रत-धर्मका पालन करनेसे तुम्हें ये दिव्य भोग प्राप्त हो गये हैं, तुम इन्हें भोग सकती हो। हम राजा हैं, हमें सब कुछ सुलभ है, इस प्रकार जो अभिमान आदि विकार हैं, उनके रहते हुए मनुष्योंको इन दिव्य भोगोंकी प्राप्ति होनी कठिन है॥ ८॥

वीरराघवः

ननु सर्वोपभोग्यादीन् अनादृत्य तप-आदिभिर् आर्जितान् विलक्षणान् भोग्यान् वितरामीति किम् उच्यते इत्य्-आशङ्कायाम् अभयान् अशोकान् इति सूचितम् इतर-भोग्यादीनां तुच्छत्वं वदन् स्व-संपादितानाम् एव सर्वोत्तमत्वम् आह । अन्य इति । उरु-विक्रमस्य भगवतः या भ्रूस् तस्या उद्विजृम्भः विक्षेपः तेन विभ्रंशिताः अर्थ-रचनाः प्रयोजनाभिलाषा येषु ते अन्ये पुनः किं तैः अतितुच्छास् ते इत्य् अर्थः ! अतो यतस् त्वं सिद्धासि पति-पारार्थ्यादिभिः धर्मैर् मद्-अनुग्रह-विषयातीत-तत्त्वैर् नरैर् दुरधिगमान् दुष्प्रापान् निज-धर्मैः पति-पारार्थ्यादिभिर् दुह्यन्ते प्रपूर्यन्ते साध्यन्ते इति यावत् तान् विभवान् भोग-विस्तारान् नृप-विक्रियाभिः नृपाणां सार्वभौमाणाम् अपि विक्रिया भोगाभिलाषो यासु ताभिर् भोग्यादि-संपद्भिर् इति शेषः भुङ्क्ष्वानुभव ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

एवं ब्रुवाणमबलाखिलयोगमाया-
विद्याविचक्षणमवेक्ष्य गताधिरासीत्।
सम्प्रश्रयप्रणयविह्वलया गिरेषद्‍-
व्रीडावलोकविलसद्धसिताननाऽऽह॥

मूलम्

एवं ब्रुवाणमबलाखिलयोगमायाविद्याविचक्षणमवेक्ष्य गताधिरासीत्।
सम्प्रश्रयप्रणयविह्वलया गिरेषद्‍व्रीडावलोकविलसद्धसिताननाऽऽह॥ ९ ॥

अनुवाद (हिन्दी)

कर्दमजीके इस प्रकार कहनेसे अपने पतिदेवको सम्पूर्ण योगमाया और विद्याओंमें कुशल जानकर उस अबलाकी सारी चिन्ता जाती रही। उसका मुख किंचित् संकोचभरी चितवन और मधुर मुसकानसे खिल उठा और वह विनय एवं प्रेमसे गद‍्गद वाणीमें इस प्रकार कहने लगी॥ ९॥

वीरराघवः

भर्त्रैवम् उक्ता देवहूतिस् तम् उवाचेत्य् आह । मैत्रेयः एवम् इत्य् एकेन । एवम् इति ब्रुवाणं भाषमाणम् अखिला या योग-माया विचित्र-सर्ग-कारि-स्व-सम्बन्धि-सामर्थ्यापर-पर्यायाः शक्तयः तासां विद्या स्व-कार्य-जन-प्रवर्तनानुगुण-ज्ञानं तस्मिन् विचक्षणं निपुणं पतिम् अवेक्ष्य अबला देवहूतिर् गताधिर् गत-मनोव्यथा आसीत् । ततः संप्रश्रयः विनयः प्रणयः प्रेमा ताभ्यां विह्वला गद्गदा तया गिरा वाचा ईषद्-व्रीडा-सहितो यो ऽवलोकस् तेन विलसद्-धसितं यस्मिन् तद्-आननं मुखं यस्या सती आह ॥ ९ ॥

श्लोक-१०

मूलम् (वचनम्)

देवहूतिरुवाच

विश्वास-प्रस्तुतिः

राद्धं बत द्विजवृषैतदमोघयोग-
मायाधिपे त्वयि विभो तदवैमि भर्तः।
यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो
भूयाद‍्गरीयसि गुणः प्रसवः सतीनाम्॥

मूलम्

राद्धं बत4 द्विजवृषैतदमोघयोगमायाधिपे त्वयि विभो तदवैमि भर्तः।
यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो भूयाद‍्गरीयसि गुणः प्रस5वः सतीनाम्॥ १० ॥

अनुवाद (हिन्दी)

देवहूतिने कहा—द्विजश्रेष्ठ! स्वामिन्! मैं यह जानती हूँ कि कभी निष्फल न होनेवाली योगशक्ति और त्रिगुणात्मिका मायापर अधिकार रखनेवाले आपको ये सब ऐश्वर्य प्राप्त हैं। किन्तु प्रभो! आपने विवाहके समय जो प्रतिज्ञा की थी कि गर्भाधान होनेतक मैं तुम्हारे साथ गृहस्थ-सुखका उपभोग करूँगा, उसकी अब पूर्ति होनी चाहिये। क्योंकि श्रेष्ठ पतिके द्वारा सन्तान प्राप्त होना पतिव्रता स्त्रीके लिये महान् लाभ है॥ १०॥

वीरराघवः

उक्तिम् एवाह द्वाभ्याम् । राद्धम् इति । हे द्विजवर अमोघाः सप्रयोजना या योग-मायाः पूर्वोक्तास् तासाम् अधिपे विभौ त्वय्य् एतत्-त्वद्-उक्तं सर्वं राद्धं सिद्धम् एवेत्य् अवैमि जानामि बतेति हर्षे हे । भर्तः ते त्वया यः सकृत् अपत्य-जनन-पर्यन्तम् अङ्ग-संगो यस्मिन् समयः कालो ऽभिहितः भूयात् । यस्माद् गरीयसि श्रेष्ठे भर्तरि हेतु-भूते सतीनां स्त्रीणां प्रसवः अपत्यं गुणः महान् लाभः गुण-प्रसव इति समस्त-पाठे गरीयसि पत्यौ सतीनां यतो गुण-प्रसवः गुण-विस्तारो भवति अतः पुत्रोत्पत्त्या गुण-विस्तारे जाते सति दृष्टिं प्रपश्य वितरामीति यद् उक्तं तत् सर्वं भवेत् ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

तत्रेतिकृत्यमुपशिक्ष यथोपदेशं
येनैष मे कर्शितोऽतिरिरंसयाऽऽत्मा।
सिद्ध्येत ते कृतमनोभवधर्षिताया
दीनस्तदीश भवनं सदृशं विचक्ष्व॥

मूलम्

तत्रेतिकृत्यमुपशिक्ष यथोपदेशं येनैष मे कर्शितोऽतिरिरंसयाऽऽत्मा।
सिद्ध्येत ते कृतमनोभवधर्षिताया दीनस्तदीश भवनं सदृशं विचक्ष्व॥ ११ ॥

अनुवाद (हिन्दी)

हम दोनोंके समागमके लिये शास्त्रके अनुसार जो कर्तव्य हो, उसका आप उपदेश दीजिये और उबटन, गन्ध, भोजन आदि उपयोगी सामग्रियाँ भी जुटा दीजिये, जिससे मिलनकी इच्छासे अत्यन्त दीन, दुर्बल हुआ मेरा यह शरीर आपके अंग-संगके योग्य हो जाय; क्योंकि आपकी ही बढ़ायी हुई कामवेदनासे मैं पीडित हो रही हूँ। स्वामिन्! इस कार्यके लिये एक उपयुक्त भवन तैयार हो जाय, इसका भी विचार कीजिये॥ ११॥

वीरराघवः

अङ्ग-सङ्गार्थम् इति-कर्त्तव्यतां च संपादयेत्य् आह । तत्रेति । हे ईश ! तत्र अङ्ग-सङ्गे इति-कृत्यम् इति-कर्त्तव्यतां साधक-कलापं यथोपदेशं काम-तन्त्रोक्तानुसारेण उपशिक्ष सम्पादय । किं तद् इति-कृत्यं यद् उपशिक्षणीयं तत्राह । ते त्वयैव कृतः उत्पादितः यो मनोभवः कामस् तेन धर्षितायाः पीडितायाः मे मया अतिरिरंसया भृशं रन्तुम् इच्छया कर्शितः अत एव दीनः एष आत्मा देहः येनेति-कृत्येन सिद्ध्येत कार्श्य-दैन्यादि-परिहारेण स्वस्थो भवेत् तद्-इति-कृत्यम् उपशिक्षयेत्य् अर्थः । तस्मात् सदृशम् अनुरूपं भवनं भोग-स्थानम् इदं भोग्यादीनाम् अप्य् उपलक्षणं विचक्ष्व कल्पय ॥ ११ ॥

श्लोक-१२

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

प्रियायाः प्रियमन्विच्छन‍् कर्दमो योगमास्थितः।
विमानं कामगं क्षत्तस्तर्ह्येवाविरचीकरत्॥

मूलम्

प्रियायाः प्रियमन्विच्छन‍् कर्दमो योगमास्थितः।
विमानं कामगं क्षत्तस्तर्ह्येवाविरचीकरत्॥ १२ ॥

अनुवाद (हिन्दी)

मैत्रेयजी कहते हैं—विदुरजी! कर्दम मुनिने अपनी प्रियाकी इच्छा पूर्ण करनेके लिये उसी समय योगमें स्थित होकर एक विमान रचा, जो इच्छानुसार सर्वत्र जा सकता था॥ १२॥

वीरराघवः

एवम् उक्तः कर्द्दमो भोग्यादीन् असृजद् इत्य् आह मैत्रेयः । हे क्षत्तः ! प्रियायाः भार्यायाः प्रियम् अन्विच्छन् कर्तुम् इति शेषः कर्द्दमः योगम् उक्त-योग-मायाम् आश्रितः कामं यथेच्छं गच्छतीति तद्-विमानं तर्ह्य् एव तत्-क्षणम् एव आविरचीकरद् आविर्भावयामास ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम्।
सर्वद्ध र््युपचयोदर्कं मणिस्तम्भैरुपस्कृतम्॥

मूलम्

सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम्।
सर्वद्ध र्युपचयोदर्कं मणिस्तम्भैरुपस्कृतम्॥ १३ ॥

मूलम् - कर्णावती

सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम्।
सर्वद्धर्युपचयोदर्कं मणिस्तम्भैरुपस्कृतम्॥ १३ ॥

अनुवाद (हिन्दी)

यह विमान सब प्रकारके इच्छित भोग-सुख प्रदान करनेवाला, अत्यन्त सुन्दर, सब प्रकारके रत्नोंसे युक्त, सब सम्पत्तियोंकी उत्तरोत्तर वृद्धिसे सम्पन्न तथा मणिमय खंभोंसे सुशोभित था॥ १३॥

वीरराघवः

तद् एव विमानं वर्णयति नवभिः । सर्व-काम-दुघं सर्वाभिलषित-पूरकं दिव्यम् अमानुषं सर्वर्द्धीनां सर्व-सम्पदां य उपचयस् तस्योदर्क उत्तरोत्तराभि-वृद्धिर् यस्मिन् मणिमयैः स्तम्भैर् उपस्कृतं परिष्कृतम् ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

दिव्योपकरणोपेतं सर्वकालसुखावहम्।
पट्टिकाभिः पताकाभिर्विचित्राभिरलंकृतम्॥

मूलम्

दिव्योपकरणोपेतं सर्वकालसुखावहम्।
पट्टिकाभिः पताकाभिर्विचित्राभिरलंकृतम्॥ १४ ॥

अनुवाद (हिन्दी)

वह सभी ऋतुओंमें सुखदायक था और उसमें जहाँ-तहाँ सब प्रकारकी दिव्य सामग्रियाँ रखी हुई थीं तथा उसे चित्र-विचित्र रेशमी झंडियों और पताकाओंसे खूब सजाया गया था॥ १४॥

वीरराघवः

दिव्यैर् उपकरणैः परिकरैर् उपेतं युक्तं सर्वस्मिन् काले सुखम् एवावहति प्रापयति तथा पट्टिकाः अल्प-विस्ताराः पट्ट-वस्त्र-विशेषाः पताका वितताः ताभिश् च विचित्राभिर् अलंकृतम् ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

स्रग्भिर्विचित्रमाल्याभिर्मञ्जुशिञ्जत्षडङ्घ्रिभिः।
दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम्॥

मूलम्

स्रग्भिर्विचित्रमा6ल्याभिर्मञ्जुशिञ्जत्षडङ्घ्रिभिः।
दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम्॥ १५ ॥

अनुवाद (हिन्दी)

जिनपर भ्रमरगण मधुर गुंजार कर रहे थे, ऐसे रंग-बिरंगे पुष्पोंकी मालाओंसे तथा अनेक प्रकारके सूती और रेशमी वस्त्रोंसे वह अत्यन्त शोभायमान हो रहा था॥ १५॥

वीरराघवः

विचित्राणि माल्यानि माला-निर्माण-योग्यानि पुष्पाणि यासु ताभिः मञ्जु मधुरं यथा तथा सिञ्जन्तो ध्वनन्तः षडङ्घ्रयो भ्रमरा यासु ताभिः स्रग्भिर् अलंकृतं दुकूलैः क्षौमैः धौतैः कौशेयैर् अन्यैश् च नाना-विधैर् वस्त्रैर् विशेषेण राजितम् ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

उपर्युपरि विन्यस्तनिलयेषु पृथक्पृथक्।
क्षिप्तैः कशिपुभिः कान्तं पर्यङ्कव्यजनासनैः॥

मूलम्

उपर्युपरि विन्यस्तनिलयेषु पृथक्पृथक्।
क्षिप्तैः कशिपुभिः कान्तं पर्यङ्कव्यजनासनैः॥ १६ ॥

अनुवाद (हिन्दी)

एकके ऊपर एक बनाये हुए कमरोंमें अलग-अलग रखी हुई शय्या, पलंग, पंखे और आसनोंके कारण वह बड़ा सुन्दर जान पड़ता था॥ १६॥

वीरराघवः

उपर्युपरि न्यस्तेषु विरचितेषु गृहेषु पृथक् पृथक् विभक्तं कल्पितैः कशिपुभिः शय्याभिः कान्तं कमनीयं तथा पर्यङ्कादिभिश् च कान्तम् ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

तत्र तत्र विनिक्षिप्तनानाशिल्पोपशोभितम्।
महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः॥

मूलम्

तत्र तत्र विनिक्षिप्तनानाशिल्पोपशोभितम्।
महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः॥ १७ ॥

अनुवाद (हिन्दी)

जहाँ-तहाँ दीवारोंमें की हुई शिल्परचनासे उसकी अपूर्व शोभा हो रही थी। उसमें पन्नेका फर्श था और बैठनेके लिये मूँगेकी वेदियाँ बनायी गयी थीं॥ १७॥

वीरराघवः

तत्र तत्र भित्त्यादिषु विनिक्षिप्तैर् विरचितैर् नाना-विधैः शिल्पैर् उपशोभितं महा-मरकत-स्थल्याम् इन्द्र-नील-मणिमय-भूम्यां रचिताभिर् विद्रुम-वेदिकाभिर् जुष्टं, युक्त-स्थल्येति पाठे तया विद्रुम-वेदिकाभिश् च युक्तम् ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटवत्।
शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिश्रितम्॥

मूलम्

द्वाःसु7 विद्रुमदेहल्या भातं वज्रकपाटवत्।
शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिश्रितम्॥ १८ ॥

अनुवाद (हिन्दी)

मूँगेकी ही देहलियाँ थीं। उसके द्वारोंमें हीरेके किवाड़ थे तथा इन्द्रनील मणिके शिखरोंपर सोनेके कलश रखे हुए थे॥ १८॥

श्लोक-१९

विश्वास-प्रस्तुतिः

चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु निर्मितैः।
जुष्टं विचित्रवैतानैर्महार्हैर्हेमतोरणैः॥

मूलम्

चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु निर्मितैः।
जुष्टं विचित्रवैतानैर्महार्हैर्हेमतोरणैः॥ १९ ॥

अनुवाद (हिन्दी)

उसकी हीरेकी दीवारोंमें बढ़िया लाल जड़े हुए थे, जो ऐसे जान पड़ते थे मानो विमानकी आँखें हों तथा उसे रंग-बिरंगे चँदोवे और बहुमूल्य सुनहरी बन्दनवारोंसे सजाया गया था॥ १९॥

वीरराघवः

द्वास्सु द्वारेषु विद्रुममय-देहल्याम् उदुम्बरेण भातं शोभितं वज्र-खचित-कपाट-युक्तम् इन्द्रनील-मणिमयेषु शिखरेषु सुवर्णमय-कलशैर् अधिष्ठितं चक्षुष्मन्त इव ये पद्म-राग-श्रेष्ठाः वज्र-भित्तिषु खचितास् तैर् जुष्टं विचित्रैर् वैतानैर् वितान-समूहैर् अनघैर् हेममय-तोरणैश् च जुष्टम् ॥ १८-१९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

हंसपारावतव्रातैस्तत्र तत्र निकूजितम्।
कृत्रिमान् मन्यमानैः स्वानधिरुह्याधिरुह्य च॥

मूलम्

हंसपारावतव्रातैस्तत्र तत्र निकूजितम्8
कृत्रिमान् मन्यमानैः9 स्वानधिरुह्याधिरुह्य च॥ २० ॥

अनुवाद (हिन्दी)

उस विमानमें जहाँ-तहाँ कृत्रिम हंस और कबूतर आदि पक्षी बनाये गये थे, जो बिलकुल सजीव-से मालूम पड़ते थे; उन्हें अपना सजातीय समझकर बहुत-से हंस और कबूतर उनके पास बैठ-बैठकर अपनी बोली बोलते थे॥ २०॥

वीरराघवः

कृत्रिमान् अपि हंसादीन्स्वान् सजातीयान् मन्यमानैर् हंसानां पारावतानाञ् च समूहैस् तत्र तत्राधिरुह्यावरुह्य च विकूजितम् ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

विहारस्थानविश्रामसंवेशप्राङ्गणाजिरैः।
यथोपजोषं रचितैर्विस्मापनमिवात्मनः॥

मूलम्

विहारस्थानविश्रामसंवेशप्राङ्गणाजिरैः।
यथोपजोषं रचितैर्विस्मापनमिवात्मनः॥ २१ ॥

अनुवाद (हिन्दी)

उसमें सुविधानुसार क्रीडास्थली, शयनगृह, बैठक, आँगन और चौक आदि बनाये गये थे—जिनके कारण वह विमान स्वयं कर्दमजीको भी विस्मित-सा कर रहा था॥ २१॥

वीरराघवः

यथोपजोषं यथासुखं रचितैः कल्पितैः विहार-स्थानादिभिर् युक्तम् इति शेषः । यद्वा विहार-स्थानादिभिर् आत्मनः स्वस्य मायाविनो ऽपि विस्मापनम् इव विस्मय-जनकम् इवावस्थितम् आविरचीकरद् इति पूर्वेणान्वयः । तत्र विहार-स्थानं क्रीडा-प्रदेशः विश्रामः शयन-गृहं सम्वेश उपभोग-स्थानं प्राङ्गणं गृहाद् बहि रचितम् अजिरं प्राकाराद् बहिः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

ईदृग्गृहं तत्पश्यन्तीं नातिप्रीतेन चेतसा।
सर्वभूताशयाभिज्ञः प्रावोचत्कर्दमः स्वयम्॥

मूलम्

ईदृग्गृहं10 तत्पश्यन्तीं नातिप्रीतेन चेतसा।
सर्वभूताशयाभिज्ञः प्रावोचत्कर्दमः11 स्वयम्॥ २२ ॥

अनुवाद (हिन्दी)

ऐसे सुन्दर घरको भी जब देवहूतिने बहुत प्रसन्न चित्तसे नहीं देखा तो सबके आन्तरिक भावको परख लेनेवाले कर्दमजीने स्वयं ही कहा—२२॥

वीरराघवः

ईदृग् एवविधं तद्-गृहं विमानं नाति-प्रीतेनानति-सन्तुष्टेन चेतसा पश्यन्तीं देवहूतिं स्वयं सर्व-भूतानाम् आशयम् अभिप्रायं जानातीति सः कर्द्दमः स्वयं प्रावोचत् ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

निमज्ज्यास्मिन् ह्रदे भीरु विमानमिदमारुह।
इदं शुक्लकृतं तीर्थमाशिषां यापकं नृणाम्॥

मूलम्

निमज्ज्यास्मिन् ह्रदे भीरु विमानमिदमारुह।
इदं शुक्लकृतं तीर्थमाशिषां यापकं12 नृणाम्॥ २३ ॥

अनुवाद (हिन्दी)

‘भीरु! तुम इस बिन्दुसरोवरमें स्नान करके विमानपर चढ़ जाओ; यह विष्णुभगवान‍्का रचा हुआ तीर्थ मनुष्योंको सभी कामनाओंकी प्राप्ति करानेवाला है’॥ २३॥

वीरराघवः

हे भीरु ! इदं तीर्थं शुक्ल-कृतं शुक्लेन भगवता कृतम् आनन्दाश्रु-निपातेन कृतं नृणाम् आशिषां कांक्षितानां प्रापकम् अतो ऽस्मिन् ह्रदे बिन्दु-सरसि निमज्ज्य स्नाहि इदं विमानम् आरुहाधिरुह ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

सा तद‍्भर्तुः समादाय वचः कुवलयेक्षणा।
सरजं बिभ्रती वासो वेणीभूतांश्च मूर्धजान्॥

मूलम्

सा तद‍्भर्तुः समादाय वचः कुवलयेक्षणा।
सरजं बिभ्रती वासो वेणीभूतांश्च मूर्धजान्॥ २४ ॥

वीरराघवः

सा कुवलयेक्षणा देवहूतिः भर्तुः कर्द्दमस्य वचः समादाय गृहीत्वा सरजं मलिनं वासः वस्त्रं वेणीभूतान् मूर्धजान् केशान् ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

अङ्गं च मलपङ्केन संछन्नं शबलस्तनम्।
आविवेश सरस्वत्याः सरः शिवजलाशयम्॥

मूलम्

अङ्गं च मलपङ्केन संछन्नं शबलस्तनम्।
आविवेश सरस्वत्याः सरः शिवजलाशयम्॥ २५ ॥

अनुवाद (हिन्दी)

कमललोचना देवहूतिने अपने पतिकी बात मानकर सरस्वतीके पवित्र जलसे भरे हुए उस सरोवरमें प्रवेश किया। उस समय वह बड़ी मैली-कुचैली साड़ी पहने हुए थी,उसके सिरके बाल चिपक जानेसे उनमें लटें पड़ गयी थीं, शरीरमें मैल जम गया था तथा स्तन कान्तिहीन हो गये थे॥ २४-२५॥

वीरराघवः

मल-पङ्केन सम्यक् छन्नौ अत एव शबलौ विवर्णौ स्तनौ यस्मिंस् तद्-अङ्गं शरीरं च बिभ्रती सती शिवानां निर्मलानां जलानाम् आशयम् आश्रयं सरस्वत्या परिश्रितम् इति शेषः । षष्ठ्यन्त-पाठे तन्-मध्यस्थम् इत्य् अर्थः, सरः बिन्दु-सरः आविवेश प्रविष्टवती ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

सान्तःसरसि वेश्मस्थाः शतानि दश कन्यकाः।
सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः॥

मूलम्

सान्तःसरसि वेश्मस्थाः शतानि दश कन्यकाः।
सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः॥ २६ ॥

मूलम् - कर्णावती

सान्तः सरसि वेश्मस्थाः शतानि दशकन्यकाः।
सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः॥ २६ ॥

अनुवाद (हिन्दी)

सरोवरमें गोता लगानेपर उसने उसके भीतर एक महलमें एक हजार कन्याएँ देखीं। वे सभी किशोर-अवस्थाकी थीं और उनके शरीरोंसे कमलकी-सी गन्ध आती थी॥ २६॥

वीरराघवः

सा अन्तः सरसि निमग्ना सती तत्र वेश्म-स्थाः मन्दिर-स्थाः दश-शतानि कन्यकाः ददर्श । कथम्भूताः सर्वाः किशोर-वयसः उत्पलस्येव देह-गन्धो यासां ताः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः।
वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम्॥

मूलम्

तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः।
वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम्॥ २७ ॥

अनुवाद (हिन्दी)

देवहूतिको देखते ही वे सब स्त्रियाँ सहसा खड़ी हो गयीं और हाथ जोड़कर कहने लगीं, ‘हम आपकी दासियाँ हैं; हमें आज्ञा दीजिये, आपकी क्या सेवा करें?’॥ २७॥

वीरराघवः

तां देवहूतिं दृष्ट्वा दश-शतानि स्त्रियः सहसा आशु प्रोत्थाय जलस्थाद् वेश्मनो बहिर् विनिर्गत्य प्राञ्जलयः वयं तुभ्यं कर्मकरीः किङ्करीः नो ऽस्मान् शाधि अनुशिक्षय किं दास्यं करवामेति प्रोचुः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम्।
दुकूले निर्मले नूत्ने ददुरस्यै च मानदाः॥

मूलम्

स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम्।
दुकूले निर्मले नूत्ने13 ददुरस्यै च मानदाः14॥ २८ ॥

अनुवाद (हिन्दी)

विदुरजी! तब स्वामिनीको सम्मान देनेवाली उन रमणियोंने बहुमूल्य मसालों तथा गन्ध आदिसे मिश्रित जलके द्वारा मनस्विनी देवहूतिको स्नान कराया तथा उसे दो नवीन और निर्मल वस्त्र पहननेको दिये॥ २८॥

वीरराघवः

महार्हेण श्रेष्ठ-तमेन स्नानेन स्नान-योग्येन सुगन्धि-तैलादिना तां मनस्विनीं देवहूतिं स्नापयित्वा मानदाः स्त्रियः अस्यै देवहूत्यै एव निर्मले नूत्ने नवीने दुकूले ददुः दत्तवत्यः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

भूषणानि परार्घ्यानि वरीयांसि द्युमन्ति च।
अन्नं सर्वगुणोपेतं पानं चैवामृतासवम्॥

मूलम्

भूषणानि परार्घ्यानि वरीयांसि द्युमन्ति च।
अन्नं सर्वगुणोपेतं पानं चैवामृतासवम्॥ २९ ॥

अनुवाद (हिन्दी)

फिर उन्होंने ये बहुत मूल्यके बड़े सुन्दर और कान्तिमान् आभूषण, सर्वगुणसम्पन्न भोजन और पीनेके लिये अमृतके समान स्वादिष्ट आसव प्रस्तुत किये॥ २९॥

वीरराघवः

तथा पराद् वर्याणि श्रेष्ठ-तमानि द्युमन्ति दीप्तिमन्ति वरीयांसि तत्-प्रियाणि भूषणानि सर्व-गुणोपेतं षड्रसोपेतम् अन्नम् अमृतं स्वाद्व्-आसवं मादकं पानं पेयं च अस्यै ददुः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

अथादर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम्।
विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम्॥

मूलम्

अथादर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम्।
विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम्॥ ३० ॥

अनुवाद (हिन्दी)

अब देवहूतिने दर्पणमें अपना प्रतिबिम्ब देखा तो उसे मालूम हुआ कि वह भाँति-भाँतिके सुगंधित फूलोंके हारोंसे विभूषित है, स्वच्छ वस्त्र धारण किये हुए है, उसका शरीर भी निर्मल और कान्तिमान् हो गया है तथा उन कन्याओंने बड़े आदरपूर्वक उसका मांगलिक शृंगार किया है॥ ३०॥

वीरराघवः

असौ देवहूतिः स्वम् आत्मानं देहम् आदर्शे दर्पणे ददर्शेति शेषः । कथम्भूतं स्रग्विर्ण स्रजः बिभ्रतं विरजः निर्मलम् अम्बरं वासो यस्य तं विरजस्कं मल-हीनं कृतं स्वस्त्ययनं मङ्गलानाम् आचरणं यस्य तं कन्याभिः संमानितम् ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

स्नातं कृतशिरःस्नानं सर्वाभरणभूषितम्।
निष्कग्रीवं वलयिनं कूजत्काञ्चननूपुरम्॥

मूलम्

स्नातं कृतशिरःस्नानं सर्वाभरणभूषितम्।
निष्कग्रीवं वलयिनं कूजत्काञ्चननूपुरम्॥ ३१ ॥

अनुवाद (हिन्दी)

उसे सिरसे स्नान कराया गया है, स्नानके पश्चात् अंग-अंगमें सब प्रकारके आभूषण सजाये गये हैं तथा उसके गलेमें हार-हुमेल, हाथोंमें कङ्कण और पैरोंमें छमछमाते हुए सोनेके पायजेब सुशोभित हैं॥ ३१॥

वीरराघवः

स्नातम् उद्वर्तन-क्षालितं कृतं शिरःस्नानम् अभ्यङ्गो येन तं सर्वैर् आभरणैर् भूषितम् अलङ्कृतम् । एतद् एव प्रपञ्चयति निष्कं पदकं ग्रीवायां यस्य तं कूजन्ती काञ्चनमये नूपुरे यस्य तम् ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया।
हारेण च महार्हेण रुचकेन च भूषितम्॥

मूलम्

श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया।
हारेण च महार्हेण रुचकेन च भूषितम्॥ ३२ ॥

अनुवाद (हिन्दी)

कमरमें पड़ी हुई सोनेकी रत्नजटित करधनीसे, बहुमूल्य मणियोंके हारसे और अंग-अंगमें लगे हुए कुङ्कुमादि मंगलद्रव्योंसे उसकी अपूर्व शोभा हो रही है॥ ३२॥

वीरराघवः

श्रोण्योर् नितम्बयोर् अध्यस्तया धृतया काञ्चनमय्या बहूनि रत्नानि यस्यां तया काञ्च्या मेखलया महार्हेण हारेण रुचकेन मङ्गल-द्रव्येण च कुङ्कुमादिना तद् उक्तं विश्वप्रकाशे “रुचकं मङ्गल-द्रव्ये ग्रीवा-भरण-दन्तयोः” इति विभूषितम् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

सुदता सुभ्रुवा श्लक्ष्णस्निग्धापाङ्गेन चक्षुषा।
पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम्॥

मूलम्

सुदता15 सुभ्रुवा श्लक्ष्णस्निग्धापाङ्गेन चक्षुषा।
पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम्॥ ३३ ॥

अनुवाद (हिन्दी)

उसका मुख सुन्दर दन्तावली, मनोहर भौंहें, कमलकी कलीसे स्पर्धा करनेवाले प्रेमकटाक्षमय सुन्दर नेत्र और नीली अलकावलीसे बड़ा ही सुन्दर जान पड़ता है॥ ३३॥

वीरराघवः

सुभ्रुवा शोभनया भ्रूवा सुदता सुन्दर-दन्त-पङ्क्त्यापाश्लक्ष्णो मनोहरः स्निग्धो ऽपाङ्गः नेत्र-प्रान्तो यस्मिन् पद्म-कोश-स्पृधा पद्म-कोश-स्पर्धिना चक्षुषा नेत्रेण सुभ्रुवा चक्षुषेति जातावेक-वचनं तथा नीलैर् अलकैश् च लसन्-मुखं यस्य तम् ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

यदा सस्मार ऋषभमृषीणां दयितं पतिम्।
तत्र चास्ते सह स्त्रीभिर्यत्रास्ते स प्रजापतिः॥

मूलम्

यदा सस्मार ऋषभमृषीणां दयितं पतिम्।
तत्र चास्ते16 सह स्त्रीभिर्यत्रास्ते स प्रजापतिः॥ ३४ ॥

अनुवाद (हिन्दी)

विदुरजी! जब देवहूतिने अपने प्रिय पतिदेवका स्मरण किया, तो अपनेको सहेलियोंके सहित वहीं पाया जहाँ प्रजापति कर्दमजी विराजमान थे॥ ३४॥

वीरराघवः

एवं भूतम् आत्मानं दृष्ट्वा यदा ऋषीणाम् ऋषभं श्रेष्ठं दयितं प्रियं पतिं भर्तारं सस्मार स्मृतवती तथा यत्र स प्रजापतिः कर्द्दमः आस्ते तत्र स्वयम् अपि स्त्रीभिः सहास्ते उपविवेशेत्य् अर्थः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा।
निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत॥

मूलम्

भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा।
निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत॥ ३५ ॥

अनुवाद (हिन्दी)

उस समय अपनेको सहस्रों स्त्रियोंके सहित अपने प्राणनाथके सामने देख और इसे उनके योगका प्रभाव समझकर देवहूतिको बड़ा विस्मय हुआ॥ ३५॥

वीरराघवः

भर्तुः पुरस्ताद् अग्रे स्त्रीसहस्रैर् वृतम् आत्मानं निशाम्य दृष्ट्वा तस्य भर्तुर् योग-गतिं योग-प्रभावं प्रति संशयं प्रत्यपद्यत कीदृशीयं योग-गतिर् इति संशयं विस्मयं प्राप्तवतीत्य् अर्थः ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

स तां कृतमलस्नानां विभ्राजन्तीमपूर्ववत्।
आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम्॥

मूलम्

स तां कृतमलस्नानां विभ्राजन्तीमपूर्ववत्।
आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम्॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

विद्याधरीसहस्रेण सेव्यमानां सुवाससम्।
जातभावो विमानं तदारोहयदमित्रहन्॥

मूलम्

विद्याधरीसहस्रेण सेव्यमानां सुवाससम्।
जातभावो विमानं तदारोहयदमित्रहन्॥ ३७ ॥

अनुवाद (हिन्दी)

शत्रुविजयी विदुर! जब कर्दमजीने देखा कि देवहूतिका शरीर स्नान करनेसे अत्यन्त निर्मल हो गया है, और विवाहकालसे पूर्व उसका जैसा रूप था, उसी रूपको पाकर वह अपूर्व शोभासे सम्पन्न हो गयी है। उसका सुन्दर वक्षःस्थल चोलीसे ढका हुआ है, हजारों विद्याधरियाँ उसकी सेवामें लगी हुई हैं तथा उसके शरीरपर बढ़िया-बढ़िया वस्त्र शोभा पा रहे हैं, तब उन्होंने बड़े प्रेमसे उसे विमानपर चढ़ाया॥ ३६-३७॥

वीरराघवः

हे अमित्रहन् ! विदुर जितारि-षड्वर्गः संः कर्द्दमः जात-भावः सन् पूर्ववत् विवाहात् प्राग्वत् आत्मनः स्वस्या रूपं बिभ्रतीम् अत एव विशेषेण भ्राजमानां सन्वीतौ प्रावृतौ रुचिरौ स्तनौ यस्याः ताम् । पाठान्तरे रूप-विशेषणं, शोभने वाससी यस्यास् ताम् ॥ ३६-३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

तस्मिन्नलुप्तमहिमा प्रिययानुरक्तो
विद्याधरीभिरुपचीर्णवपुर्विमाने।
बभ्राज उत्कचकुमुद‍्गणवानपीच्य-
स्ताराभिरावृत इवोडुपतिर्नभःस्थः॥

मूलम्

तस्मिन्नलुप्तमहिमा प्रिययानुरक्तो विद्याधरीभिरुपचीर्णवपुर्विमाने।
बभ्राज उत्कचकुमुद‍्गणवानपीच्य17स्ताराभिरावृत इवोडुपतिर्नभःस्थः॥ ३८ ॥

अनुवाद (हिन्दी)

उस समय अपनी प्रियाके प्रति अनुरक्त होनेपर भी कर्दमजीकी महिमा (मन और इन्द्रियोंपर प्रभुता) कम नहीं हुई। विद्याधरियाँ उनके शरीरकी सेवा कर रही थीं। खिले हुए कुमुदके फूलोंसे शृंगार करके अत्यन्त सुन्दर बने हुए वे विमानपर इस प्रकार शोभा पा रहे थे, मानो आकाशमें तारागणसे घिरे हुए चन्द्रदेव विराजमान हों॥ ३८॥

वीरराघवः

अलुप्त-महिमा अलुप्त-प्रभावः प्रियया भार्ययानुसक्त अनुसङ्गतः विद्याधरीभिर् उपचीर्णं शुश्रूषितं वपुर् यस्य स मुनिः कर्दमः तस्मिन् विमाने बभ्राजे रराज । तत्र दृष्टान्तः उत्कच-कुमुद्गणवान् विकसत्-कुमुद्गणवान् अपीच्यो दर्शनीयः तारकाभिर् आवृतो नभःस्थ उडु-पतिः पूर्ण-चन्द्र इवेति पूर्ण-चन्द्र इव मुनिः नभ इव विमानं तारा इव स्त्रियः कुमुदानीव तासां नेत्राणि इति विज्ञेयम् ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

तेनाष्टलोकपविहारकुलाचलेन्द्र-
द्रोणीष्वनङ्गसखमारुतसौभगासु।
सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु
रेमे चिरं धनदवल्ललनावरूथी॥

मूलम्

तेनाष्टलोकपविहारकुलाचलेन्द्र द्रोणीष्वनङ्गसखमारुतसौभगासु18
सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु रेमे चिरं धनदवल्ललनावरूथी॥ ३९ ॥

अनुवाद (हिन्दी)

उस विमानपर निवासकर उन्होंने दीर्घकालतक कुबेरजीके समान मेरुपर्वतकी घाटियोंमें विहार किया। ये घाटियाँ आठों लोकपालोंकी विहारभूमि हैं; इनमें कामदेवको बढ़ानेवाली शीतल, मन्द, सुगन्ध वायु चलकर इनकी कमनीय शोभाका विस्तार करती है तथा श्रीगंगाजीके स्वर्गलोकसे गिरनेकी मंगलमय ध्वनि निरन्तर गूँजती रहती है। उस समय भी दिव्य विद्याधरियोंका समुदाय उनकी सेवामें उपस्थित था और सिद्धगण वन्दना किया करते थे॥ ३९॥

वीरराघवः

तेन विमानेनाष्ट-लोक-पालानां विहारा यस्मिन् सः कुलाचलेन्द्रो मेरुः तस्य द्रोणीषु दरीषु कथम्-भूतासु अनङ्गस्य यः सखा मारुतः शीत-सुगन्ध-मन्दानिलः तेन सौभगं सौन्दर्यं यासु द्युधुनी गङ्गा तस्याः पातेन शिवः स्वनो यासु तासु ललना-वरूथी स्त्री-रत्न-समूहवान् मुनिर् धनदवत् कुबेर इव रेमे ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

वैश्रम्भके सुरसने नन्दने पुष्पभद्रके।
मानसे चैत्ररथ्ये च स रेमे रामया रतः॥

मूलम्

वैश्रम्भके सुरसने नन्दने पुष्पभद्रके।
मानसे चैत्ररथ्ये च स रेमे रामया रतः॥ ४० ॥

अनुवाद (हिन्दी)

इसी प्रकार प्राणप्रिया देवहूतिके साथ उन्होंने वैश्रम्भक, सुरसन, नन्दन, पुष्पभद्र और चैत्ररथ आदि अनेकों देवोद्यानों तथा मानस-सरोवरमें अनुरागपूर्वक विहार किया॥ ४०॥

वीरराघवः

वैस्रम्भकादिषु देवोद्यानेषु मानसे च सरसि रतः प्रीतः सन् रमया स्त्रिया सह रेमे रमितवान् ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

भ्राजिष्णुना विमानेन कामगेन महीयसा।
वैमानिकानत्यशेत चरल्ँलोकान् यथानिलः॥

मूलम्

भ्राजिष्णुना विमानेन कामगेन महीयसा।
वैमानिकानत्यशेत चरॅंल्लोकान् यथानिलः॥ ४१ ॥

अनुवाद (हिन्दी)

उस कान्तिमान् और इच्छानुसार चलनेवाले श्रेष्ठ विमानपर बैठकर वायुके समान सभी लोकोंमें विचरते हुए कर्दमजी विमानविहारी देवताओंसे भी आगे बढ़ गये॥ ४१॥

वीरराघवः

भ्राजिष्णुना प्रकाशमानेन महीयसा श्रेष्ठेन कामगेन विमानेनानिल इव सर्वत्राप्रतिहतगत्या चरन् वैमानिकान् लोकान् अत्यशेतातिक्रम्य स्थितः ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

किं दुरापादनं तेषां पुंसामुद्दामचेतसाम्।
यैराश्रितस्तीर्थपदश्चरणो व्यसनात्ययः॥

मूलम्

किं दुरापादनं तेषां पुंसामुद्दामचेतसाम्।
यैराश्रितस्तीर्थपदश्चरणो व्यसनात्ययः॥ ४२ ॥

अनुवाद (हिन्दी)

विदुरजी! जिन्होंने भगवान‍्के भवभयहारी पवित्र पादपद्मोंका आश्रय लिया है, उन धीर पुरुषोंके लिये कौन-सी वस्तु या शक्ति दुर्लभ है॥ ४२॥

वीरराघवः

कीदृशो ऽयं मुनेः प्रभाव इति न विस्मयनीयम् इत्याह । किम् इति । यैः पुम्भिस् तीर्थपदः भगवतः व्यसनाप्ययः ताप-त्रय-नाशनश् चरणः पादः आश्रितः तेषाम् उद्दाम-चेतसां योग-परिशुद्ध-मनसां पुंसां किं दुरापादनं दुष्प्रापं किम् अस्तीत्य् अर्थः ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्वसंस्थया।
बह्वाश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत॥

मूलम्

प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्वसंस्थया।
बह्वाश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत॥ ४३ ॥

अनुवाद (हिन्दी)

इस प्रकार महायोगी कर्दमजी यह सारा भूमण्डल, जो द्वीप-वर्ष आदिकी विचित्र रचनाके कारण बड़ा आश्चर्यमय प्रतीत होता है, अपनी प्रियाको दिखाकर अपने आश्रमको लौट आये॥ ४३॥

वीरराघवः

स्व-संस्थया द्वीप-वर्षादि-संस्थानेन यावान् भू-गोलस् तावन्तं बह्व् आश्चर्यम् इति विस्मयनीयं भुवो गोलं पत्न्यै भार्यायै दर्शयित्वा महायोगी कर्दमः पुनः स्वाश्रमाय न्यवर्तत स्वाश्रमं प्रत्यागतवान् ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

विभज्य नवधाऽऽत्मानं मानवीं सुरतोत्सुकाम्।
रामां निरमयन् रेमे वर्षपूगान्मुहूर्तवत्॥

मूलम्

विभज्य नवधाऽऽत्मानं मानवीं सुरतोत्सुकाम्।
रामां निरमयन् रेमे वर्षपूगान्मुहूर्तवत्॥ ४४ ॥

अनुवाद (हिन्दी)

फिर उन्होंने अपनेको नौ रूपोंमें विभक्त कर रतिसुखके लिये अत्यन्त उत्सुक मनुकुमारी देवहूतिको आनन्दित करते हुए उसके साथ बहुत वर्षोंतक विहार किया, किन्तु उनका इतना लम्बा समय एक मुहूर्तके समान बीत गया॥ ४४॥

वीरराघवः

नवधात्मानम् अपत्यं विभज्य नवधापत्यम् उत्पादयिष्यामीति मनसा स्ववीर्यं विभज्येत्य् अर्थः । सुरते उत्सुकाम् उत्साहवतीं मनोः पुत्रीं रामां स्व-स्त्रियं विशेषेण रमयन् वर्ष-पूगान् वर्ष-गणान् मुहूर्तवद् रेमे ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

तस्मिन् विमान उत्कृष्टां शय्यां रतिकरीं श्रिता।
न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता॥

मूलम्

तस्मिन् विमान उत्कृष्टां शय्यां रतिकरीं श्रिता।
न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता॥ ४५ ॥

अनुवाद (हिन्दी)

उस विमानमें रतिसुखको बढ़ानेवाली बड़ी सुन्दर शय्याका आश्रय ले अपने परम रूपवान् प्रियतमके साथ रहती हुई देवहूतिको इतना काल कुछ भी न जान पड़ा॥ ४५॥

वीरराघवः

तस्मिन् विमाने उत्स्पृष्टां निरतिशय-सुख-स्पर्शां रति-करीं रति-वर्द्धिनीं शय्यां श्रिता अपीच्येन सुन्दरेण पत्या भर्त्रा सङ्गता संयुक्ता सती तम् अनेक-वर्ष-समूहात्मकं कालं नाबुध्यत एतावान् कालो व्यतीत इति न ज्ञातवती ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

एवं योगानुभावेन दम्पत्यो रममाणयोः।
शतं व्यतीयुः शरदः कामलालसयोर्मनाक्॥

मूलम्

एवं योगानुभावेन दम्पत्यो रममाणयोः।
शतं व्यतीयुः शरदः19 कामलालसयोर्मनाक्॥ ४६ ॥

अनुवाद (हिन्दी)

इस प्रकार उस कामासक्त दम्पतिको अपने योगबलसे सैकड़ों वर्षोंतक विहार करते हुए भी वह काल बहुत थोड़े समयके समान निकल गया॥ ४६॥

वीरराघवः

कियान् कालो व्यतीत इत्य् अत्राह । एवम् इति । योगानुभावेन योग-प्रभावेण कामासक्तयोः दम्पत्योः रममाणयोः सतोः शतं शरदः सम्वत्सराः मनाग् ईषत्-कालम् इव व्यतीयुः अतिक्रान्ताः ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

तस्यामाधत्त रेतस्तां भावयन्नात्मनाऽऽत्मवित्।
नोधा विधाय रूपं स्वं सर्वसङ्कल्पविद्विभुः॥

मूलम्

तस्यामाधत्त रेतस्तां20 भावयन्नात्मनाऽऽत्मवित्।
नोधा21 विधाय रूपं स्वं सर्वसङ्कल्पविद्विभुः॥ ४७ ॥

अनुवाद (हिन्दी)

आत्मज्ञानी कर्दमजी सब प्रकारके संकल्पोंको जानते थे; अतः देवहूतिको सन्तानप्राप्तिके लिये उत्सुक देख तथा भगवान‍्के आदेशको स्मरणकर उन्होंने अपने स्वरूपके नौ विभाग किये तथा कन्याओंकी उत्पत्तिके लिये एकाग्रचित्तसे अर्धांगरूपमें अपनी पत्नीकी भावना करते हुए उसके गर्भमें वीर्य स्थापित किया॥ ४७॥

वीरराघवः

आत्म-वित् जीव-परमात्म-याथात्म्य-वित् कर्द्दमः तां प्रियाम् आत्मना स्व-देहार्ध-रूपेणातिप्रीत्या आत्मना मनसा भावयन्न् अभिप्रयन् सर्व-सङ्कल्प-वित् तस्याः बह्व्-अपत्य-सङ्कल्पं जानन् विभुस् तथा कर्तुं समर्थः स्वं स्वीयं रूपं वीर्यं नोधा नवधा विधाय विभज्य तद् रेतः तस्यां पत्न्याम् आधत्त निहितवान् ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः।
सर्वास्ताश्चारुसर्वाङ्‍ग्यो लोहितोत्पलगन्धयः॥

मूलम्

अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः।
सर्वास्ताश्चारुसर्वाङ्‍ग्यो लोहितोत्पलगन्धयः॥ ४८ ॥

अनुवाद (हिन्दी)

इससे देवहूतिके एक ही साथ नौ कन्याएँ पैदा हुईं। वे सभी सर्वांगसुन्दरी थीं और उनके शरीरसे लाल कमलकी-सी सुगन्ध निकलती थी॥ ४८॥

वीरराघवः

ततः अनन्तरं सा देवहूतिः सद्य आशु स्त्रियः स्त्री-प्रजाः अपत्यानि सुषुवे प्रसूतवती कथम्-भूताः प्रजाः ताः सर्वा नव स्त्रियः चारूणि सर्वाण्य् अङ्गान्य् अवयवा यासां लोहितोत्पलस्य रक्तोत्पलस्येव गन्धो यासां ताः ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

पतिं सा प्रव्रजिष्यन्तं तदाऽऽलक्ष्योशती सती।
स्मयमाना विक्लवेन हृदयेन विदूयता॥

मूलम्

पतिं सा प्रव्रजिष्यन्तं तदाऽऽलक्ष्योशती सती।
स्मयमाना विक्लवेन हृदयेन विदूयता॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

लिखन्त्यधोमुखी भूमिं पदा नखमणिश्रिया।
उवाच ललितां वाचं निरुध्याश्रुकलां शनैः॥

मूलम्

लिखन्त्यधोमुखी भूमिं पदा नखमणिश्रिया।
उवाच ललितां वाचं निरुध्याश्रुकलां शनैः॥ ५० ॥

अनुवाद (हिन्दी)

इसी समय शुद्ध स्वभाववाली सती देवहूतिने देखा कि पूर्व प्रतिज्ञाके अनुसार उसके पतिदेव संन्यासाश्रम ग्रहण करके वनको जाना चाहते हैं तो उसने अपने आँसुओंको रोककर ऊपरसे मुसकराते हुए व्याकुल एवं संतप्त हृदयसे धीर-धीरे अति मधुर वाणीमें कहा। उस समय वह सिर नीचा किये हुए अपने नखमणिमण्डित चरणकमलसे पृथ्वीको कुरेद रही थी॥ ४९-५०॥

वीरराघवः

तद्-आपत्योत्पत्त्य्-अनन्तरं प्रव्रजिष्यन्तं सन्यस्यन्तं पतिम् आलक्ष्य वितर्क्य उशती कमनीया सा सती देवहूतिः बहिः स्मयमाना ईषद् धसमाना अन्तस् तु विक्लवेन व्याकुलितेन चेतसा विदूयता परितप्यमानेन हृदयेन मनसा अधोमुखी नखा एव मणयः तेषां श्रीः शोभा यस्मिंस् तेन पदा चरणेन भुवं लिखन्ती । अनेन दुरन्त-चिन्ता सूच्यते । अश्रु-कणान् शनैः निरुध्य ललितां मृद्वीं वाचम् उवाच ॥ ४९-५० ॥

श्लोक-५१

मूलम् (वचनम्)

देवहू22तिरुवाच

विश्वास-प्रस्तुतिः

सर्वं तद‍्भगवान्मह्यमुपोवाह प्रतिश्रुतम्।
अथापि मे प्रपन्नाया अभयं दातुमर्हसि॥

मूलम्

सर्वं तद‍्भगवान्मह्यमुपोवाह प्रतिश्रुतम्।
अथापि मे प्रपन्नाया अभयं दातुमर्हसि॥ ५१ ॥

अनुवाद (हिन्दी)

देवहूतिने कहा—भगवन्! आपने जो कुछ प्रतिज्ञा की थी, वह सब तो पूर्णतः निभा दी; तो भी मैं आपकी शरणागत हूँ, अतः आप मुझे अभयदान और दीजिये॥ ५१॥

वीरराघवः

हे भगवन् ! मह्यं यत्-प्रतिश्रुतं तत् सर्वम् उपोवाह उपावहत् सम्पादितवान् तथापि प्रपन्नाया मे अभयं दातुम् अर्हसि अभय-प्रदानं करोषीति चेत् कथयामीति भावः ॥ ५१ ॥

श्लोक-५२

विश्वास-प्रस्तुतिः

ब्रह्मन्दुहितृभिस्तुभ्यं विमृग्याः पतयः समाः।
कश्चित्स्यान्मे विशोकाय त्वयि प्रव्रजिते वनम्॥

मूलम्

ब्रह्मन्दुहितृभिस्तुभ्यं विमृग्याः पतयः समाः।
कश्चित्स्यान्मे विशोकाय त्वयि प्रव्रजिते वनम्॥ ५२ ॥

अनुवाद (हिन्दी)

ब्रह्मन्! इन कन्याओंके लिये योग्य वर खोजने पड़ेंगे और आपके वनको चले जानेके बाद मेरे जन्म-मरणरूप शोकको दूर करनेके लिये भी कोई होना चाहिये॥ ५२॥

वीरराघवः

तत् किम् इत्य् अत आह । हे ब्रह्मन् ! दुहितृभिः समाः वयः-शील-गुणादिभिः तुल्याः पतयः तासां भर्तारः तुभ्यं त्वया विभक्ति-व्यत्यय आर्षः । विमृग्या अन्वेषणीयाः । त्वयि वनं प्रति प्रव्रजिते सति संन्यस्य गते सति मम विशोकाय विगतः शोको यस्मात् सः विशोकः ब्रह्म-ज्ञानं “तरति शोकम् आत्मवित्” इति श्रुतेः तेन तद्-उपदेशो लक्ष्यते तस्मै कश्चित् पुत्रः स्यात् किम् इत्य् अर्थः कञ्चिद् इति पाठान्तरं तदा किं स्यात् पुत्र इति शेषः ॥ ५२ ॥

श्लोक-५३

विश्वास-प्रस्तुतिः

एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो।
इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मनः॥

मूलम्

एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो।
इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मनः॥ ५३ ॥

अनुवाद (हिन्दी)

प्रभो! अबतक परमात्मासे विमुख रहकर मेरा जो समय इन्द्रियसुख भोगनेमें बीता है, वह तो निरर्थक ही गया॥ ५३॥

वीरराघवः

एवं स्वाभिप्रेतं निवेद्याथ संसारात् स्व-निर्वेदम् आवेदयन्त्य् आह । यावद्-अध्यायं हे विभो इन्द्रियार्थेषु शब्दादि-विषयेषु प्रसङ्गेन प्रकृष्टासङ्गेन परित्यक्त अनुपासितः परात्मा परमात्मा यया तस्या मे मम व्यतीतेनातिक्रान्तेन एतावता शत-वर्ष-परिमितेन कालेनालम् ॥ ५३ ॥

श्लोक-५४

विश्वास-प्रस्तुतिः

इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस्त्वयि मे कृतः।
अजानन्त्या परं भावं तथाप्यस्त्वभयाय मे॥

मूलम्

इन्द्रियार्थेषु सञ्जन्त्या प्रसङ्गस्त्वयि मे कृतः।
अजानन्त्या परं भावं तथाप्यस्त्वभयाय मे॥ ५४ ॥

अनुवाद (हिन्दी)

आपके परम प्रभावको न जाननेके कारण ही मैंने इन्द्रियोंके विषयोंमें आसक्त रहकर आपसे अनुराग किया तथापि यह भी मेरे संसार-भयको दूर करनेवाला ही होना चाहिये॥ ५४॥

वीरराघवः

स्व-कृतम् अनुशोचन्त्य् आह । इन्द्रियार्थेषु सज्जन्त्या आसक्ताया मे मया त्वयि प्रसङ्गः प्रकृष्टासङ्गः कृतः तथापि परं भावम् उत्कृष्टं भावं त्वं ब्रह्म-विद् इति भावम् अजानन्त्या अपि मे ममाभयायास्तु स्यात् त्वयि कृतः सङ्ग इत्य् अनुषङ्गः ॥ ५४ ॥

श्लोक-५५

विश्वास-प्रस्तुतिः

सङ्गो यः संसृतेर्हेतुरसत्सु विहितोऽधिया।
स एव साधुषु कृतो निःसङ्गत्वाय कल्पते॥

मूलम्

सङ्गो यः संसृतेर्हेतुरसत्सु विहितोऽधिया।
स एव साधुषु कृतो निःसङ्गत्वाय कल्पते॥ ५५ ॥

अनुवाद (हिन्दी)

अज्ञानवश असत्पुरुषोंके साथ किया हुआ जो संग संसार-बन्धनका कारण होता है, वही सत्पुरुषोंके साथ किये जानेपर असंगता प्रदान करता है॥ ५५॥

वीरराघवः

कथम् इन्द्रियार्थ-प्रसङ्गो मयि कृतो ऽपि अभवाय स्याद् इत्य् अत्राह । सङ्ग इति । अधिया ऽज्ञानेनासत्सु विहितः कृतोः यः सङ्गः संसृतेर् हेतुः स एवाधिया कृतो ऽपि सङ्गः साधुषु भवादृशेषु कृतश् चेन् निःसङ्गत्वाय विरागत्वायैव कल्पते अन्ततो वैराग्यम् एव जनयतीत्य् अर्थः । धियेति छेदे तदा बुद्धि-पूर्वको ऽप्य् असत्सु विहितः सङ्गः संसृतेर् हेतुः किम् उत अधिया साधुषु तूभय-विधो ऽपि सङ्गः निःसङ्गत्वायैव भवतीत्य् अर्थः ॥ ५५ ॥

श्लोक-५६

विश्वास-प्रस्तुतिः

नेह यत्कर्म धर्माय न विरागाय कल्पते।
न तीर्थपदसेवायै जीवन्नपि मृतो हि सः॥

मूलम्

नेह यत्कर्म धर्माय न विरागाय कल्पते।
न तीर्थपदसेवायै जीवन्नपि मृतो हि सः॥ ५६ ॥

अनुवाद (हिन्दी)

संसारमें जिस पुरुषके कर्मोंसे न तो धर्मका सम्पादन होता है, न वैराग्य उत्पन्न होता है और न भगवान‍्की सेवा ही सम्पन्न होती है वह पुरुष जीते ही मुर्देके समान है॥ ५६॥

वीरराघवः

इह लोके यत् कर्म यस्य पुंसः स्वभावतः प्रवृत्तम् अपि कर्म धर्माय न कल्पते निसर्गतः प्रवृत्तम् अप्य् आहार-विहार-चेष्टित-निद्रादि-रूपं कर्म “युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु । युक्त-स्वप्नावबोधस्य योगो भवति दुःखहा” इत्य् उक्त-रीत्या सात्त्विकान् एव सेवेत । ऋताव् उपेयाद् इत्य् आदि-शास्त्रानुमत-द्रव्य-कालादि-विशेष-विषयं स प्रत्यवाय-परिहारेण भगवद्-आराधन-रूप-कर्म-योगाख्य-धर्म-निवृत्तये न भवेद् इत्य् अर्थः । स एव धर्मः विरागाय विगतो रागो यस्मात् सः ज्ञान-योगः ‘रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तत’ इति भगवता गीतत्वात् तस्मै न कल्पते चेद् इत्य् अर्थः तस्य जीवनं व्यर्थम् इति भावः । यद्य् अपि कर्म-योगस्य भक्ति-योगाङ्गस्य ज्ञान-योगाङ्गत्वम् अनुपपन्नं तथापि “कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः” इत्य् उक्त-रीत्या कर्म-योग-ज्ञान-योगयोः परस्परोपकर्तृत्वम् अप्य् अस्तीति बोध्यं स च धर्मो विरागश् च तीर्थ-पदस्य भगवतः सेवायै भक्त्यै न कल्पते चेत् सः जीवन्न् एव मृतो हि जीवच्छवः खल्व् इत्य् अर्थः । तस्य जीवनं व्यर्थम् इति भावः ॥ ५६ ॥

श्लोक-५७

विश्वास-प्रस्तुतिः

साहं भगवतो नूनं वञ्चिता मायया दृढम्।
यत्त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात्॥

मूलम्

साहं भगवतो नूनं वञ्चिता मायया दृढम्।
यत्त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात्॥ ५७ ॥

अनुवाद (हिन्दी)

अवश्य ही मैं भगवान‍्की मायासे बहुत ठगी गयी, जो आप-जैसे मुक्तिदाता पतिदेवको पाकर भी मैंने संसार-बन्धनसे छूटनेकी इच्छा नहीं की॥ ५७॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे का23पिलेयोपाख्याने त्रयोविंशोऽध्यायः॥ २३ ॥

वीरराघवः

स्वात्मानं प्रति निर्विद्यते सा इन्द्रियार्थेष्व् एव सज्जन्त्य् अहं भगवतो मायया दैवी ह्य् एषा गुणमयीत्य् उक्त-विधया दृढं वञ्चिता मोहिता याहं विमुक्ति-दं मुक्ति-साधन-प्रदं त्वां प्राप्यापि बन्धनात् संसारान् न मुमुक्षेय मोक्तुं नेच्छामि स्म ॥ ५७ ॥

इति श्रीमद्-भागवते महा-पुराणे तृतीय-स्कन्धे श्रीमद्-वीर-राघवाचार्य-कृत-भागवत-चन्द्र-चन्द्रिकायां त्रयोविंशो ऽध्यायः ॥ २३ ॥


  1. प्रा. पा. - तथा । ↩︎

  2. प्रा. पा. - दयितां गरीयसीं । ↩︎

  3. निजवर्त्मदो । ↩︎

  4. प्रा. पा. - तव । ↩︎

  5. प्रा. पा. - प्रभवः । ↩︎

  6. प्रा. पा. - मालाभि । ↩︎

  7. प्रा. पा. - द्वाःस्थविदुः । ↩︎

  8. प्रा. पा. - विकू । ↩︎

  9. प्रा. पा. - सविमानांश्च समन्तादधिरुह्य । ↩︎

  10. प्रा. पा. - इत्थं गृहं तस्य पश्यन्नति प्रीतेन । ↩︎

  11. प्रा. पा. - प्रोवाच कर्दमः । ↩︎

  12. प्रा. पा. - यद्भवेन्नू । ↩︎

  13. प्रा. पा. - भूतै । ↩︎

  14. प्रा. पा. - मानिताः । ↩︎

  15. प्रा. पा. - सुभ्रुवा सुदता । ↩︎

  16. प्रा. पा. - चास्ति ततः स्त्री । ↩︎

  17. प्रा. पा. - वान्परार्ध्य । ↩︎

  18. पा. पा. - सौरभासु । ↩︎

  19. प्रा. पा. - शरदां । ↩︎

  20. प्रा. पा. - रेतः स्वं । ↩︎

  21. प्रा. पा. - नवधा । ↩︎

  22. प्राचीने पुस्तके ‘देवहूतिरुवाच’ इती मूले नास्ति, टिप्पण्यामस्ति । ↩︎

  23. प्रा. पा. - कापिलोपा । ↩︎