[द्वाविंशोऽध्यायः]
भागसूचना
देवहूतिके साथ कर्दम प्रजापतिका विवाह
श्लोक-१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
एवमाविष्कृताशेषगुणकर्मोदयो मुनिम्।
सव्रीड इव तं सम्राडुपारतमुवाच ह॥
मूलम्
एवमाविष्कृताशेषगुणकर्मोदयो मुनिम्।
सव्रीड इव तं सम्राडुपारतमुवाच ह॥ १ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—विदुरजी! इस प्रकार जब कर्दमजीने मनुजीके सम्पूर्ण गुणों और कर्मोंकी श्रेष्ठताका वर्णन किया तो उन्होंने उन निवृत्तिपरायण मुनिसे कुछ सकुचाकर कहा॥ १॥
वीरराघवः
एवं कर्दमेनोक्तो मनुस् तम् उवाचेत्य् आह मैत्रेयः । एवम् इति आविष्कृतानां गुणानां च कर्मणां च उभय उत्कर्षो यस्य स अत एव सव्रीड इव स्व-कीर्ति-श्रवणाल् लज्जित इव सम्राट् मनुर् उपारतं निवृत्ति-धर्म-निष्ठं तं मुनिम् उवाच हेति हर्षे ॥ १ ॥
श्लोक-२
मूलम् (वचनम्)
मनुरुवाच
विश्वास-प्रस्तुतिः
ब्रह्मासृजत्स्वमुखतो युष्मानात्मपरीप्सया।
छन्दोमयस्तपोविद्यायोगयुक्तानलम्पटान्॥
मूलम्
ब्रह्मासृजत्स्वमुखतो युष्मानात्मपरीप्सया।
छन्दोमयस्तपोविद्यायोगयुक्तानलम्पटान्॥ २ ॥
वीरराघवः
उक्तिम् एवाह त्रयोदशभिः । मदीयेयं कन्या त्वया परिणेयेति विज्ञापयिष्यन् तावद् युष्मद्-अस्मत्-संबन्ध ईश्वरेण ब्रह्मणा पूर्वम् एव संघटित इत्य् आह मनुः । ब्रह्मेति सार्ध-द्वयेन । छन्दो-मयो वेद-प्रचुरः ब्रह्मा स्व-मुखात् तपः कर्म-योगः विद्या भगवद्-उपासना योगो ज्ञान-योगः एतैर् युक्तान् अलंपटान् विषयेष्व् अलम्पटान् युष्मान् वेदमयान् ब्राह्मणान् आत्म-परीप्सया वेदमयस्यात्मनः रिरक्षिषया वेदमयस्यात्मनः परीप्सा रिरक्षिषैव आत्म-परीप्सया आत्म-ज्ञान-प्रवर्तन-श्रद्धया वा चतुर्मुख-शरीरकः परमात्मा स्वमुखाद् असृजत् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
तत्त्राणायासृजच्चास्मान्दोः सहस्रात्सहस्रपात्।
हृदयं तस्य हि ब्रह्म क्षत्रमङ्गं प्रचक्षते॥
मूलम्
तत्त्राणायासृजच्चास्मान्दोः सहस्रात्सहस्रपात्।
हृदयं तस्य हि ब्र1ह्म क्षत्रमङ्गं प्रचक्षते॥ ३ ॥
अनुवाद (हिन्दी)
मनुजीने कहा—मुने! वेदमूर्ति भगवान् ब्रह्माने अपने वेदमय विग्रहकी रक्षाके लिये तप, विद्या और योगसे सम्पन्न तथा विषयोंमें अनासक्त आप ब्राह्मणोंको अपने मुखसे प्रकट किया है और फिर उन सहस्र चरणोंवाले विराट् पुरुषने आपलोगोंकी रक्षाके लिये ही अपनी सहस्रों भुजाओंसे हम क्षत्रियोंको उत्पन्न किया है। इस प्रकार ब्राह्मण उनके हृदय और क्षत्रिय शरीर कहलाते हैं॥ २-३॥
वीरराघवः
तेषां ब्राह्मणानां त्राणाय रक्षणायास्मान् क्षत्रियान् सहस्र-पात् सर्वतः पाणि-पादादि-कार्य-कर्ता भगवान् दोः-सहस्राद् असृजत् तस्य ब्रह्मणः हृदयं ब्रह्म-कुलं क्षत्रं क्षत्रिय-कुलम् अङ्गो प्रचक्षते ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
अतो ह्यन्योन्यमात्मानं ब्रह्म क्षत्रं च रक्षतः।
रक्षति स्माव्ययो देवः स यः सदसदात्मकः॥
मूलम्
अतो ह्यन्योन्यमात्मानं ब्रह्म क्षत्रं च रक्षतः।
रक्षति स्माव्ययो देवः स यः सदसदात्मकः॥ ४ ॥
अनुवाद (हिन्दी)
अतः एक ही शरीरसे सम्बद्ध होनेके कारण अपनी-अपनी और एक-दूसरेकी रक्षा करनेवाले उन ब्राह्मण और क्षत्रियोंकी वास्तवमें श्रीहरि ही रक्षा करते हैं जो समस्त कार्यकारणरूप होकर भी वास्तवमें निर्विकार हैं॥ ४॥
वीरराघवः
अतो वेद-पालनाय ब्राह्मणान् ब्राह्मण-पालनायास्मांश् च यतः सृष्टवान् अतः ब्रह्म-क्षत्रं च अन्यो ऽन्यं मिथः रक्षतः रक्षां कुर्वतः एवं परस्परं रक्षिष्यमाणे उभयम् अपि सद्-असद्-आत्मकः कार्य-कारण-रूपः एवम् अव्ययः कार्य-गत-विकारैर् अस्पृष्टः यद्वा सद्-असद्-आत्मकः चेतनाचेतन-शरीरकः अत एवाव्ययः नहि शरीर-गतैर् विकारैः शरीरी स्पृश्यते यो देवः स रक्षति ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
तव सन्दर्शनादेवच्छिन्ना मे सर्वसंशयाः।
यत्स्वयं भगवान् प्रीत्या धर्ममाह रिरक्षिषोः॥
मूलम्
तव सन्दर्शनादेवच्छिन्ना मे सर्वसंशयाः।
यत्स्वयं भगवान् प्रीत्या धर्ममाह रिरक्षिषोः॥ ५ ॥
अनुवाद (हिन्दी)
आपके दर्शनमात्रसे ही मेरे सारे सन्देह दूर हो गये, क्योंकि आपने मेरी प्रशंसाके मिससे स्वयं ही प्रजापालनकी इच्छावाले राजाके धर्मोंका बड़े प्रेमसे निरूपण किया है॥ ५॥
वीरराघवः
तस्मै स्वाभिप्रायं निवेदयितु-कामः तद्-दर्शनादिकं प्रस्तौति । त्रिभिः । तव दर्शनाद् एव मे सर्वे संशयाः प्रष्टव्यार्थ-विषयाः छिन्नाः । हे भगवन् ! कर्दम । यद् यस्मात् स्वयम् एव भवान् रिरक्षिषोः प्रजाः पालयितुम् इच्छोर् मम धर्मम् आह न यदा रथम् आस्थायेत्य् आदिनोक्तवान् ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
दिष्ट्या मे भगवान् दृष्टो दुर्दर्शो योऽकृतात्मनाम्।
दिष्ट्या पादरजः स्पृष्टं शीर्ष्णा मे भवतः शिवम्॥
मूलम्
दिष्ट्या मे भगवान् दृष्टो दुर्दर्शो योऽकृतात्मनाम्।
दिष्ट्या पादरजः स्पृष्टं शीर्ष्णा मे भवतः शिवम्॥ ६ ॥
मूलम् - कर्णावती
दिष्ट्या मे भगवान् दृष्टो दुर्दर्शो योऽकृतात्मनाम्।
दिष्टया पादरजः स्पृष्टं शीर्ष्णा मे भवतः शिवम्॥ ६ ॥
अनुवाद (हिन्दी)
आपका दर्शन अजितेन्द्रिय पुरुषोंको बहुत दुर्लभ है; मेरा बड़ा भाग्य है जो मुझे आपका दर्शन हुआ और मैं आपके चरणोंकी मंगलमयी रज अपने सिरपर चढ़ा सका॥ ६॥
वीरराघवः
अकृतात्मनाम् अकृत-सुकृतैर् दुर्दशः द्रष्टुम् अशक्यो भगवान् त्वं मे मया दिष्ट्यास्मद्-भाग्येन दृष्टः भवतः शिवं मङ्गल-करं पाद-रजः मे शीर्ष्णा शिरसा स्पृष्टं धृतम् ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
दिष्ट्या त्वयानुशिष्टोऽहं कृतश्चानुग्रहो महान्।
अपावृतैः कर्णरन्ध्रैर्जुष्टा दिष्ट्योशतीर्गिरः॥
मूलम्
दिष्ट्या त्वयानुशिष्टोऽहं कृतश्चानुग्रहो महान्।
अपावृतैः कर्णरन्ध्रैर्जुष्टा दिष्ट्योशतीर्गिरः॥ ७ ॥
अनुवाद (हिन्दी)
मेरे भाग्योदयसे ही आपने मुझे राजधर्मोंकी शिक्षा देकर मुझपर महान् अनुग्रह किया है और मैंने भी शुभ प्रारब्धका उदय होनेसे ही आपकी पवित्र वाणी कान खोलकर सुनी है॥ ७॥
वीरराघवः
अनुशिष्टो ऽनुशिक्षितः महान् अनुग्रहो ऽनुशासनादि-रूपः त्वया कृतः अपावृतैरनावृतेः कर्णरन्ध्रैर् उशतीर् उशत्यः कमनीयाः गिरः दिष्ट्या जुष्टाः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
स भवान्दुहितृस्नेहपरिक्लिष्टात्मनो मम।
श्रोतुमर्हसि दीनस्य श्रावितं कृपया मुने॥
मूलम्
स भवान्दुहितृस्नेहपरिक्लिष्टात्मनो मम।
श्रोतुमर्हसि दीनस्य श्रावितं कृपया मुने॥ ८ ॥
अनुवाद (हिन्दी)
मुने! इस कन्याके स्नेहवश मेरा चित्त बहुत चिन्ताग्रस्त हो रहा है; अतः मुझ दीनकी यह प्रार्थना आप कृपापूर्वक सुनें॥ ८॥
श्लोक-९
विश्वास-प्रस्तुतिः
प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम।
अन्विच्छति पतिं युक्तं वयःशीलगुणादिभिः॥
मूलम्
प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम।
अन्विच्छति पतिं युक्तं वयःशीलगुणादिभिः॥ ९ ॥
मूलम् - कर्णावती
प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम।
अन्विच्छति पतिं युक्तं वयः शीलगुणादिभिः॥ ९ ॥
अनुवाद (हिन्दी)
यह मेरी कन्या—जो प्रियव्रत और उत्तानपादकी बहिन है—अवस्था, शील और गुण आदिमें अपने योग्य पतिको पानेकी इच्छा रखती है॥ ९॥
वीरराघवः
एवम् आत्मनः कृतार्थताम् आवेद्य तं प्रसादयन् स्वाभिप्रेतं निवेदयति । स इति सप्तभिः । दुहितरि स्नेहेन परिक्लिष्टः आत्मा मनो यस्य अत एव दीनस्य मम मया श्रावितं विज्ञापितं भगवान् कृपया श्रोतुम् अर्हति किं तद् इत्य् आह । इयं देवहूतिः प्रिय-व्रतोत्तान-पदोः स्वसा भगिनी मम दुहिता च प्रिय-व्रतोत्तान-पदोः स्वसेत्य् अनेन पुत्रीकरण-शङ्का निरस्ता । मम दुहितेत्य् अनेन क्षत्रिय-कन्या तव योग्येति दर्शितं वयः-शीलादिभिर् युक्तं पतिम् अन्विच्छतीत्य् अनेन स्वयंवरेति सूचितम् ॥ ८-९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
यदा तु भवतः शीलश्रुतरूपवयोगुणान्।
अशृणोन्नारदादेषा त्वय्यासीत्कृतनिश्चया॥
मूलम्
यदा तु भवतः शीलश्रुतरूपवयोगुणान्।
अशृणोन्नारदादेषा त्वय्यासीत्कृतनिश्चया॥ १० ॥
अनुवाद (हिन्दी)
जबसे इसने नारदजीके मुखसे आपके शील, विद्या, रूप, आयु और गुणोंका वर्णन सुना है तभीसे यह आपको अपना पति बनानेका निश्चय कर चुकी है॥ १०॥
वीरराघवः
तदेव विशदयति । यदेति । यदानु यर्ह्य् एव भवतः शीलादिल्-नारदोपदेशाद् अशृणोत् तर्ह्य् एव त्वयि कृतः निश्चयः तवैवाहं भार्येति निश्चयो यया सा ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
तत्प्रतीच्छ द्विजाग्र्येमां श्रद्धयोपहृतां मया।
सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु॥
मूलम्
तत्प्रतीच्छ द्विजाग्र्येमां श्रद्धयोपहृतां मया।
सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु॥ ११ ॥
मूलम् - कर्णावती
तत्प्रतीच्छ द्विजाग्र्ये मां श्रद्धयोपहृतां मया।
सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु॥ ११ ॥
अनुवाद (हिन्दी)
द्विजवर! मैं बड़ी श्रद्धासे आपको यह कन्या समर्पित करता हूँ, आप इसे स्वीकार कीजिये। यह गृहस्थोचित कार्योंके लिये सब प्रकार आपके योग्य है॥ ११॥
वीरराघवः
तत् तस्माद्धे द्विजाग्र्य ! मया श्रद्धयोपाहृतां समर्पितां तव गृहमेधिषु गार्हस्थ्येषु कर्मसु सर्वात्मना सर्व-प्रकारैर् अनुरूपाम् अनुकूलाम् इमां कन्यां प्रतीच्छ प्रतिगृहाण ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
उद्यतस्य हि कामस्य प्रतिवादो न शस्यते।
अपि निर्मुक्तसङ्गस्य कामरक्तस्य किं पुनः॥
मूलम्
उद्यतस्य हि कामस्य प्रतिवादो न शस्यते।
अपि निर्मुक्तसङ्गस्य कामरक्तस्य किं पुनः॥ १२ ॥
अनुवाद (हिन्दी)
जो भोग स्वतः प्राप्त हो जाय, उसकी अवहेलना करना विरक्त पुरुषको भी उचित नहीं है; फिर विषयासक्तकी तो बात ही क्या है॥ १२॥
वीरराघवः
प्रतिग्रह प्रत्याख्यान-शङ्कया तं प्रोत्साहयन्न् आह । त्रिभिः उद्यतस्य दैवात् स्वतः प्राप्त-विषयस्य कामस्याभिलाषस्य प्रतिवादः प्रत्याख्यानं निर्मुक्त-सङ्गस्यापि न शस्यते कन्तुम् इति शेषः, कामासक्तस्य किं पुनः प्रविवादो न शस्यत इति किं पुनर् वक्तव्यम् इत्य् अर्थः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
य उद्यतमनादृत्य कीनाशमभियाचते।
क्षीयते तद्यशः स्फीतं मानश्चावज्ञया हतः॥
मूलम्
य उद्यतमनादृत्य कीनाशमभियाचते।
क्षीयते तद्यशः स्फीतं मानश्चावज्ञया हतः॥ १३ ॥
अनुवाद (हिन्दी)
जो पुरुष स्वयं प्राप्त हुए भोगका निरादर कर फिर किसी कृपणके आगे हाथ पसारता है उसका बहुत फैला हुआ यश भी नष्ट हो जाता है और दूसरोंके तिरस्कारसे मानभंग भी होता है॥ १३॥
वीरराघवः
प्रतिवादे किं स्याद् इत्य् आह । य इति । यः पुमान् उद्यतं कामम् अनादृत्य पश्चात्-कीनाशं कृपणम् अभियाचते स्फीतं प्रवृद्धम् अपि तस्य पुंसो यशः क्षीयते नश्यति अवज्ञया परावमानेन मानः बहुमानश् च हतः विनष्टो भवेत् ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
अहं त्वाशृणवं विद्वन् विवाहार्थं समुद्यतम्।
अतस्त्वमुपकुर्वाणः प्रत्तां प्रतिगृहाण मे॥
अनुवाद (हिन्दी)
विद्वन्! मैंने सुना है, आप विवाह करनेके लिये उद्यत हैं। आपका ब्रह्मचर्य एक सीमातक है, आप नैष्ठिक ब्रह्मचारी तो हैं नहीं। इसलिये अब आप इस कन्याको स्वीकार कीजिये, मैं इसे आपको अर्पित करता हूँ॥ १४॥
वीरराघवः
ननु सत्यं त्वद् उक्तं सर्वं परिवोढुकामश् चाहं तु न तादृश इत्य् अत्राह । अहम् इति । हे विद्वन् ! त्वाम् उद्वाहार्थं समुद्यतं यतमानम् अहम् अशृणवं श्रुतवान् अतस् तस्माद् उपकुर्वाणः नैष्ठिकेतर ब्रह्मचारी सावधिक-ब्रह्मचर्यवान् त्वं मे मया प्रत्तां दत्तां कन्यां प्रतिगृहाण ॥ १४ ॥
श्लोक-१५
मूलम् (वचनम्)
ऋषिरुवाच
विश्वास-प्रस्तुतिः
बाढमुद्वोढुकामोऽहमप्रत्ता च तवात्मजा।
आवयोरनुरूपोऽसावाद्यो वैवाहिको विधिः॥
मूलम्
बाढमुद्वोढुकामोऽहमप्रत्ता च तवात्मजा।
आवयोरनुरूपोऽसावाद्यो वैवाहिको विधिः॥ १५ ॥
अनुवाद (हिन्दी)
श्रीकर्दम मुनिने कहा—ठीक है, मैं विवाह करना चाहता हूँ और आपकी कन्याका अभी किसीके साथ वाग्दान नहीं हुआ है, इसलिये हम दोनोंका सर्वश्रेष्ठ ब्राह्म* विधिसे विवाह होना उचित ही होगा॥ १५॥
पादटिप्पनी
- मनुस्मृतिमें आठ प्रकारके विवाहोंका उल्लेख पाया जाता है—(१) ब्राह्म, (२) दैव, (३) आर्ष, (४) प्राजापत्य, (५) आसुर, (६) गान्धर्व, (७) राक्षस और (८) पैशाच। इनके लक्षण वहीं तीसरे अध्यायमें देखने चाहिये। इनमें पहला सबसे श्रेष्ठ माना गया है। इसमें पिता योग्य वरको कन्याका दान करता है।
वीरराघवः
एवं मनुना विज्ञापितः कर्द्दमस् तद् उक्तम् अङ्गीकुर्वन्न् आह । बाढम् इति षड्भिः । बाढम् इत्य् अङ्गीकारे अहम् उद्वोढुकामः परिणेतु-कामः तवात्मजा पुत्री अप्रत्ता कस्मैचिद् अप्रतिश्रुता चात आवयोर् अनुरूप आद्यः ब्राह्मः वैवाहिकः विवाह-रूपः विधिर्-विधानम् अस्त्व् इति शेषः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
कामः स भूयान्नरदेव तेऽस्याः
पुत्र्याः समाम्नायविधौ प्रतीतः।
क एव ते तनयां नाद्रियेत
स्वयैव कान्त्या क्षिपतीमिव श्रियम्॥
मूलम्
कामः स भूयान्नरदेव तेऽस्याः पुत्र्याः समाम्नायविधौ प्रतीतः।
क एव ते तनयां नाद्रियेत स्वयैव कान्त्या क्षिपतीमिव श्रियम्॥ १६ ॥
अनुवाद (हिन्दी)
राजन्! वेदोक्त विवाह-विधिमें प्रसिद्ध जो ‘गृभ्णामि ते’ इत्यादि मन्त्रोंमें बताया हुआ काम (संतानोत्पादनरूप मनोरथ) है, वह आपकी इस कन्याके साथ हमारा सम्बन्ध होनेसे सफल होगा। भला, जो अपनी अंगकान्तिसे आभूषणादिकी शोभाको भी तिरस्कृत कर रही है, आपकी उस कन्याका कौन आदर न करेगा?॥ १६॥
वीरराघवः
हे नर-देव ! ते तवास्याः पुत्र्याः यः समाम्नायविधौ वेद-रूप-चोदनायां प्रतीतः प्रख्यातः स कामः विवाहः भूयात् एवं तद् विज्ञापितम् अनुमत्य नाहं त्वत् प्रोत्साहेन प्रतिग्रहीष्याम्य् अपि त्व् अस्याः सौन्दर्य्यवयः शीलादीन् श्रुत्वास्याम् एव कृत-निश्चयः भगवतादिष्टश् च प्रतीच्छामीति वदन् तां वर्णयति । क इत्य् आदिना । ते सार्वभौमस्य तव तनयां को नाम नाद्रियेत कथम्भूतां स्वयैवाभरणादिभिर् विना कान्त्या सौन्दर्येण श्रियं भूषणादि-कृत-शोभां क्षिपतीम् इव स्थितां भूषण-भूषणाङ्गीम् इत्य् अर्थः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
यां हर्म्यपृष्ठे क्वणदङ्घ्रिशोभां
विक्रीडतीं कन्दुकविह्वलाक्षीम्।
विश्वावसुर्न्यपतत्स्वाद्विमाना-
द्विलोक्य सम्मोहविमूढचेताः॥
मूलम्
यां हर्म्यपृष्ठे क्वणदङ्घ्रिशोभां विक्रीडतीं कन्दुकविह्वलाक्षीम्।
विश्वावसुर्न्यपतत्स्वाद्विमानाद्विलोक्य सम्मोहविमूढचेताः॥ १७ ॥
अनुवाद (हिन्दी)
एक बार यह अपने महलकी छतपर गेंद खेल रही थी। गेंदके पीछे इधर-उधर दौड़नेके कारण इसके नेत्र चंचल हो रहे थे तथा पैरोंके पायजेब मधुर झनकार करते जाते थे। उस समय इसे देखकर विश्वावसु गन्धर्व मोहवश अचेत होकर अपने विमानसे गिर पड़ा था॥ १७॥
वीरराघवः
किं च हर्म्यपृष्ठे प्रासादोपरि कणतोर् नूपुराभ्यां शब्दं कुर्वतोर् अङ्घ्र्योः पादयोः शोभा यस्यास् तां विक्रीडतीं कन्दुके विह्वले चञ्चले अक्षिणी यस्यास् तां यां तव कन्यां विलोक्य संमोहेन विमूढं व्याकुलं चेतो यस्य सः विश्वावसुर् नाम कश्चिद् गन्धर्वः स्वाद् विमानान् न्यपतत् तां को नानुमन्येतेत्य् उत्तरेणान्वयः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
तां प्रार्थयन्तीं ललनाललाम-
मसेवितश्रीचरणैरदृष्टाम्।
वत्सां मनोरुच्चपदः स्वसारं
को नानुमन्येत बुधोऽभियाताम्॥
मूलम्
तां प्रार्थयन्तीं ललनाललाममसेवितश्रीचरणैरदृष्टाम्।
वत्सां मनोरुच्चपदः स्वसारं को नानुमन्येत बुधोऽभियाताम्॥ १८ ॥
अनुवाद (हिन्दी)
वही इस समय यहाँ स्वयं आकर प्रार्थना कर रही है; ऐसी अवस्थामें कौन समझदार पुरुष इसे स्वीकार न करेगा? यह तो साक्षात् आप महाराज श्रीस्वायम्भुवमनुकी दुलारी कन्या और उत्तानपादकी प्यारी बहिन है; तथा यह रमणियोंमें रत्नके समान है। जिन लोगोंने कभी श्रीलक्ष्मीजीके चरणोंकी उपासना नहीं की है, उन्हें तो इसका दर्शन भी नहीं हो सकता॥ १८॥
वीरराघवः
पुनः कथम्भूतां प्रार्थयन्तीं पतिम् इति शेषः । ललना-ललामं ललनानां ललामं योषितां भूषण-भूतां श्रेष्ठाम् इत्य् अर्थः । असेवितौ श्रियो लक्ष्म्याश् चरणौ यैस् तैर् अदृष्टां द्रष्टुम् अशक्यां मनोर् वत्साम् पुत्रीम् । उत्तान-पदः तव पुत्रस्य भगिनीं स्वयम् एव प्राप्तां बुधः कुशलः को नाम नानुमन्येत नाङ्गीकुर्यात् ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
अतो भजिष्ये समयेन साध्वीं
यावत्तेजो बिभृयादात्मनो मे।
अतो धर्मान् पारमहंस्यमुख्यान्
शुक्लप्रोक्तान् बहु मन्येऽविहिंस्रान्॥
मूलम्
अतो भ4जिष्ये समयेन साध्वीं यावत्तेजो बिभृयादात्मनो मे।
अतो धर्मान् पारमहंस्यमुख्यान् शुक्लप्रोक्तान् बहु मन्येऽविहिंस्रान्॥ १९ ॥
मूलम् - कर्णावती
अतो भजिष्ये समयेन साध्वीं यावत्तेजो बिभृयादात्मनो मे।
अतो धर्मान् पारमहंस्यमुख्यान् शुक्लप्रोक्तान् बहु मन्येऽविहिंस्रान्॥ १९ ॥
अनुवाद (हिन्दी)
अतः मैं आपकी इस साध्वी कन्याको अवश्य स्वीकार करूँगा, किन्तु एक शर्तके साथ। जबतक इसके संतान न हो जायगी, तबतक मैं गृहस्थ-धर्मानुसार इसके साथ रहूँगा। उसके बाद भगवान्के बताये हुए संन्यासप्रधान हिंसारहित शम-दमादि धर्मोंको ही अधिक महत्त्व दूँगा॥ १९॥
वीरराघवः
अत उक्त-हेतुभ्यः मे मम तेजः वीर्यं यावद् विभृयात्तावता समयेन कालेन साध्वीम् इमां भजिष्ये स्वीकरिष्ये अपत्य-जननावधि स्वीकरिष्य इत्य् अर्थः । अथो अनन्तरं पारमहंस्ये परम-हंसाश्रमे मुख्यान् प्राधान्येनोपादेयान् शुक्लेन भगवता प्रोक्तान् अविहिंस्रान् हिंसा-रहितान् सात्विकान् धर्मान् विवेक-विमोकादीन् बहुमन्ये अनुष्ठास्यामि अपत्योत्पत्त्य् अनन्तरं निवृत्ति-धर्म-निष्ठो ऽहम् इमां त्यक्ष्यामीति भावः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
यतोऽभवद्विश्वमिदं विचित्रं
संस्थास्यते यत्र च वावतिष्ठते।
प्रजापतीनां पतिरेष मह्यं
परं प्रमाणं भगवाननन्तः॥
मूलम्
यतोऽभवद्विश्वमिदं विचित्रं संस्थास्यते यत्र च वावतिष्ठते।
प्रजापतीनां पतिरेष मह्यं परं प्रमाणं भगवाननन्तः॥ २० ॥
अनुवाद (हिन्दी)
जिनसे इस विचित्र जगत्की उत्पत्ति हुई है, जिनमें यह लीन हो जाता है और जिनके आश्रयसे यह स्थित है—मुझे तो वे प्रजापतियोंके भी पति भगवान् श्रीअनन्त ही सबसे अधिक मान्य हैं॥ २०॥
वीरराघवः
अयं भाषा-बन्धो न केवलं मयैव कृतः किन्तु समस्त-जगद्-उदय-विभवलय-लीलेन भगवतैव निर्दिष्ट इत्य् आह । यत इति । एवं देव-तिर्यङ्-मनुष्य-स्थावरादि-भेदेन विचित्रं विश्वं यतो भगवतः अभवद् उदपद्यत यत इति हेतौ पञ्चमी हेतुत्वस्य निमित्तोपादान-साधारणत्वात् तथा च यतो निमित्त-भूताद् उपादान-भूताच् चेत्य् अर्थः । यत्र यस्मिन् कारण-भूते भगवति संस्थास्यते संहारं यास्यति यत्र यस्मिन्न् अन्तः प्रविश्य प्रशासनेन धारके भगवति अवतिष्ठते प्रशासित-व्यत्वेन धार्यत्वेनावतिष्ठते तिष्ठति स एष प्रजा-पतीनां ब्रह्मादीनाम् अपि पतिर् अनन्तः “सत्यं ज्ञानम् अनन्तम्” इत्य् उक्त-क्षणो भगवान् परं केवलं प्रमाणम् अस्मद्-उक्त-भाषा-बन्धे प्रमाणम् इत्य् अर्थः । तथैव हि भगवताभिहितं समाहितं ते हृदयम् इत्य् आरभ्येति भावः ॥ २० ॥
श्लोक-२१
मूलम् (वचनम्)
5मैत्रेय उवाच
विश्वास-प्रस्तुतिः
स उग्रधन्वन्नियदेवाबभाषे
आसीच्च तूष्णीमरविन्दनाभम्।
धियोपगृह्णन् स्मितशोभितेन
मुखेन चेतो लुलुभे देवहूत्याः॥
मूलम्
स उग्रधन्व6न्नियदेवाबभाषे आसीच्च तूष्णीमरविन्दनाभम्।
धियोपगृह्णन् स्मितशोभितेन मुखेन चेतो लुलुभे देवहूत्याः॥ २१ ॥
अनुवाद (हिन्दी)
मैत्रेयजी कहते हैं—प्रचण्ड धनुर्धर विदुर! कर्दमजी केवल इतना ही कह सके, फिर वे हृदयमें भगवान् कमलनाभका ध्यान करते हुए मौन हो गये। उस समय उनके मन्द हास्ययुक्त मुखकमलको देखकर देवहूतिका चित्त लुभा गया॥ २१॥
वीरराघवः
कर्दमोक्तिम् उपसंहरति मैत्रेयः । स इति । हे उग्रधन्वन् ! विदुर ! स कर्दम इयद् एव एतावद् एव आबभाषे उक्तवान् अनन्तरम् अरविन्द-नाभं भगवन्तं धियोपगृह्णन् चिन्तयन् तूष्णीं मौनेनासीत् । स्थितवान् स्मितेन मन्द-हासेन शोभितं यन्-मुखं तेन देवहूत्याश् चित्तं लुलुभे मोहितवान् ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
सोऽनु ज्ञात्वा व्यवसितं महिष्या दुहितुः स्फुटम्।
तस्मै गुणगणाढ्याय ददौ तुल्यां प्रहर्षितः॥
मूलम्
सोऽनु ज्ञात्वा व्यवसितं महिष्या दुहितुः स्फुटम्।
तस्मै गुणगणाढ्याय ददौ तुल्यां प्रहर्षितः॥ २२ ॥
अनुवाद (हिन्दी)
मनुजीने देखा कि इस सम्बन्धमें महारानीशतरूपा और राजकुमारीकी स्पष्ट अनुमति है, अतः उन्होंने अनेक गुणोंसे सम्पन्न कर्दमजीको उन्हींके समान गुणवती कन्याका प्रसन्नतापूर्वक दान कर दिया॥ २२॥
वीरराघवः
अनु अनन्तरं स मनुः महिष्या भार्यायाः दुहितुश् च व्यवसितं निश्चितं स्फुटं व्यक्तं यथा तथा ज्ञात्वा गुण-गणैर् आढ्याय युक्ताय तस्मै कर्दमाय तुल्यां वयः-शीलादीभिस् तुल्यां कन्यां प्रहर्षितः ददौ दत्तवान् । प्रघर्ष इति पाठे गुण-विवश इत्य् अर्थः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
शतरूपा महाराज्ञी पारिबर्हान्महाधनान्।
दम्पत्योः पर्यदात्प्रीत्या भूषावासः परिच्छदान्॥
मूलम्
शतरूपा महाराज्ञी पारिब7र्हान्महाधनान्।
दम्पत्योः पर्यदात्प्रीत्या भूषावासः परिच्छदान्॥ २३ ॥
अनुवाद (हिन्दी)
महारानी शतरूपाने भी बेटी और दामादको बड़े प्रेमपूर्वक बहुत-से बहुमूल्य वस्त्र, आभूषण और गृहस्थोचित पात्रादि दहेजमें दिये॥ २३॥
वीरराघवः
महाराजस्य मनोः स्त्री शत-रूपा पारिबर्हानुपायन-रूपान् भूषादीन् वासांसि वस्त्राणि परिच्छदाः क्रीडोपकरणानि दम्पत्योर् दुहितृजामात्रोः पर्यदात् ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
प्रत्तां दुहितरं सम्राट् सदृक्षाय गतव्यथः।
उपगुह्य च बाहुभ्यामौत्कण्ठ्योन्मथिताशयः॥
मूलम्
8प्रत्तां दुहितरं सम्राट् सदृक्षाय गतव्यथः।
उपगुह्य च बाहुभ्यामौत्कण्ठ्योन्मथिताशयः॥ २४ ॥
वीरराघवः
सदृक्षाय सदृशाय प्रत्तां दत्तां दुहितरं सम्राट् मनुः गतव्यथः निरस्त-दुहितृपत्यन्वेषण-दुःख-बाहुभ्याम् उपगुह्यालिङ्ग्य औत्कण्ठ्येन पुत्र्यां प्रेमातिशयेन उन्मथितः क्षुभितः आशयोन्तःकरणं यस्य सः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
अशक्नुवंस्तद्विरहं मुञ्चन् बाष्पकलां मुहुः।
आसिञ्चदम्ब वत्सेति नेत्रोदैर्दुहितुः शिखाः॥
मूलम्
अशक्नुवंस्तद्विरहं मुञ्चन् बाष्पकलां मुहुः।
9आसिञ्चदम्ब वत्सेति नेत्रोदैर्दुहितुः शिखाः॥ २५ ॥
अनुवाद (हिन्दी)
इस प्रकार सुयोग्य वरको अपनी कन्या देकर महाराज मनु निश्चिन्त हो गये। चलती बार उसका वियोगन सह सकनेके कारण उन्होंने उत्कण्ठावश विह्वलचित्त होकर उसे अपनी छातीसे चिपटा लिया और ‘बेटी! बेटी!’ कहकर रोने लगे। उनकी आँखोंसे आँसुओंकी झड़ी लग गयी और उनसे उन्होंने देवहूतिके सिरके सारे बाल भिगो दिये॥ २४-२५॥
वीरराघवः
अत एव तस्य दुहितुर् विरहं विश्लेषम् अशक्नुवन् सोढुम् इति शेषः, अत एव मुहुः बाष्पकलाः नेत्राम्बुकणान् मुञ्चन् हे अम्ब ! हे वत्सेति संबोधयन् नेत्र-जलैर् दुहितुः शिखाम् आसिञ्चन् ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
आमन्त्र्य तं मुनिवरमनुज्ञातः सहानुगः।
प्रतस्थे रथमारुह्य सभार्यः स्वपुरं नृपः॥
मूलम्
आमन्त्र्य तं मुनिवरमनुज्ञातः सहानुगः।
प्रतस्थे रथमारुह्य सभार्यः स्वपुरं नृपः॥ २६ ॥
वीरराघवः
मुनि-वरं कर्दमम् आमन्त्र्य अनुज्ञाप्य तेनानुज्ञातः सभार्यो रथम् आरुह्य नृपो मनुः सहानुगः स्व-पुरं प्रतस्थे गतवान् ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
उभयोर्ऋषिकुल्यायाः सरस्वत्याः सुरोधसोः।
ऋषीणामुपशान्तानां पश्यन्नाश्रमसम्पदः॥
मूलम्
उभयोर्ऋषिकुल्यायाः सरस्वत्याः सुरोधसोः।
ऋषीणामुपशान्तानां पश्यन्नाश्रमसम्पदः॥ २७ ॥
अनुवाद (हिन्दी)
फिर वे मुनिवर कर्दमसे पूछकर, उनकी आज्ञा ले रानीके सहित रथपर सवार हुए और अपने सेवकोंसहित ऋषिकुलसेवित सरस्वती नदीके दोनों तीरोंपर मुनियोंके आश्रमोंकी शोभा देखते हुए अपनी राजधानीमें चले आये॥ २६-२७॥
वीरराघवः
गच्छन्तम् अनुवर्णयति द्वाभ्यां ऋषि-कुल्यायाः ऋषि-कुल-हितायाः ऋषि-कुल-सहितायाः सरस्वत्याः उभयोः सुरोधसोः शोभन-तटयोः उपशान्तानां शम-दमादि-गुण-संपन्नानाम् ऋषीणाम् आश्रमेषु संपदः भगवद्-आराधनोपयुक्त-तुलसी-पुष्प-फलादि-समृद्धीः पश्यन् प्रतस्थ इति पूर्वेणान्वयः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
तमायान्तमभिप्रेत्य ब्रह्मावर्तात्प्रजाः पतिम्।
गीतसंस्तुतिवादित्रैः प्रत्युदीयुः प्रहर्षिताः॥
मूलम्
तमायान्तमभिप्रेत्य ब्रह्मावर्तात्प्रजाः पतिम्।
गीतसंस्तुतिवादित्रैः प्रत्युदीयुः प्रहर्षिताः॥ २८ ॥
अनुवाद (हिन्दी)
जब ब्रह्मावर्तकी प्रजाको यह समाचार मिला कि उसके स्वामी आ रहे हैं तब वह अत्यन्त आनन्दित होकर स्तुति, गीत एवं बाजे-गाजेके साथ अगवानी करनेके लिये ब्रह्मावर्तकी राजधानीसे बाहर आयी॥ २८॥
वीरराघवः
आयान्तम् आगच्छन्तं पतिं मनुम् अभिप्रेत्य ज्ञात्वा प्रजाः प्रहर्षिताः ब्रह्मवर्ताद् देशात् गीत-संतुति-मृदङ्गादि-वाद्य-ध्वनिभिः प्रत्युदीयुः प्रत्युज्जग्मुः । ब्रह्मावर्त्तान् इति द्वितीयान्त-पाठे ब्रह्मावर्त्तान् प्रत्यायान्तम् इत्य् अन्वयः । प्रजा-पतिम् इति समस्त-पाठे प्रजानां पतिं मनुं ब्रह्मावर्तात् तत्स्था लोकाः प्रत्युदीयुर् इत्य् अन्वयः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
बर्हिष्मती नाम पुरी सर्वसम्पत्समन्विता।
न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः॥
मूलम्
बर्हिष्मती नाम पुरी सर्वसम्पत्समन्विता।
न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः॥ २९ ॥
अनुवाद (हिन्दी)
सब प्रकारकी सम्पदाओंसे युक्त बर्हिष्मती नगरी मनुजीकी राजधानी थी, जहाँ पृथ्वीको रसातलसे ले आनेके पश्चात् शरीर कँपाते समय श्रीवराहभगवान्के रोम झड़कर गिरे थे॥ २९॥
वीरराघवः
कासौ पुरी यां प्रतस्थ इत्य्-उक्तम् इत्य् अत्राह । बर्हिष्मती नाम-पुरी कथम्भूता सर्वाभिः संपद्भिर् ऐश्वर्यैः युक्ता सापि कुत्रेत्य् अत्राह । यज्ञस्यादि-वराहस्याङ्गं शरीरं विधुन्वतः कम्पयतः सतः रोमाणि तनूरुहाणि यत्रापतंस् तत्रेत्य् अर्थः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
कुशाः काशास्त एवासन् शश्वद्धरितवर्चसः।
ऋषयो यैः पराभाव्य यज्ञघ्नान् यज्ञमीजिरे॥
मूलम्
कु9शाः काशास्त एवासन् शश्वद्धरितवर्चसः।
ऋषयो यैः पराभाव्य यज्ञघ्नान् यज्ञमीजिरे॥ ३० ॥
अनुवाद (हिन्दी)
वे रोम ही निरन्तर हरे-भरे रहनेवाले कुश और कास हुए , जिनके द्वारा मुनियोंने यज्ञमें विघ्न डालनेवाले दैत्योंका तिरस्कार कर भगवान् यज्ञपुरुषकी यज्ञोंद्वारा आराधना की है॥ ३०॥
वीरराघवः
पतितानि रोमाणि किम् आसन्न् इत्य् अत्राह । त एव पतितान्य् एव रोमाणि शश्वत् सदा हरिद्-वर्णाः कुशाः काशाश् चासन् उत्पन्नाः । कस् तेषाम् उपयोग इत्य् अत्राह यैः कुशैः काशैश् च यज्ञघ्नान् यज्ञ-विरोधिनो राक्षसान् पराभाव्य यज्ञम् ईजिरे कृतवन्तः । पाकं पचतीतिवन् निर्देशः । यद्वा यज्ञं भगवन्तम् ईजिरे इष्टवन्तः भगवद्-आराधन-रूप-यज्ञेषूपयुक्ता इत्य् अर्थः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
कुशकाशमयं बर्हिरास्तीर्य भगवान्मनुः।
अयजद्यज्ञपुरुषं लब्धा स्थानं यतो भुवम्॥
मूलम्
कुशकाशमयं बर्हिरास्तीर्य भगवान्मनुः।
अयजद्यज्ञपुरुषं लब्धा स्थानं यतो भु10वम्॥ ३१ ॥
अनुवाद (हिन्दी)
महाराज मनुने भी श्रीवराहभगवान्से भूमिरूप निवासस्थान प्राप्त होनेपर इसी स्थानमें कुश और कासकी बर्हि (चटाई) बिछाकर श्रीयज्ञभगवान्की पूजा की थी॥ ३१॥
वीरराघवः
अत एव भगवान् मनुः कुश-काश-रूपं बर्हिर् आस्तीर्य यतो भगवतो वराहाद् भुवः स्थानं प्रतिष्ठां लब्धवान् तम् एव यज्ञ-पुरुषम् अयजत् यज्ञैर् आराधितवान् अनेन इदम् एव बर्हिष्मती-शब्दस्य प्रवृत्ति-निमित्तं यत् कुश-काश-रूप-बर्हिषा युक्तत्वम् इत्य् उक्तं भवति ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
बर्हिष्मतीं नाम विभुर्यां निर्विश्य समावसत्।
तस्यां प्रविष्टो भवनं तापत्रयविनाशनम्॥
मूलम्
बर्हिष्मतीं नाम विभुर्यां निर्विश्य समावसत्।
तस्यां प्रविष्टो भवनं तापत्रयविनाशनम्॥ ३२ ॥
अनुवाद (हिन्दी)
जिस बर्हिष्मती पुरीमें मनुजी निवास करते थे, उसमें पहुँचकर उन्होंने अपने त्रितापनाशक भवनमें प्रवेश किया॥ ३२॥
वीरराघवः
विभुर् मनुर् यां बर्हिष्मतीं माम पुरीं निर्विश्य प्रविश्य पूर्वं समावसत् तस्यां पुर्याम् आध्यात्मिकाधि-भौतिकाधि-दैविक-रूप-ताप-त्रय-रहितं भवनं गृहं प्रविष्टः सभार्यः सपुत्रश् चान्याविरोधतः वर्णाश्रम-प्रयुक्त-भगवद्-आराधन-रूप-धर्माविरोधेन कामान् बुभुजे अनुबभूव ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
सभार्यः सप्रजः कामान् बुभुजेऽन्याविरोधतः।
सङ्गीयमानसत्कीर्तिः सस्त्रीभिः सुरगायकैः।
प्रत्यूषेष्वनुबद्धेन हृदा शृण्वन् हरेः कथाः॥
मूलम्
सभार्यः सप्रजः कामान् बुभुजेऽन्याविरोधतः।
सङ्गीयमानसत्कीर्तिः सस्त्रीभिः सुरगायकैः।
प्रत्यूषेष्वनुबद्धेन हृदा शृण्वन् हरेः कथाः॥ ३३ ॥
अनुवाद (हिन्दी)
वहाँ अपनी भार्या और सन्ततिके सहित वे धर्म, अर्थ और मोक्षके अनुकूल भोगोंको भोगने लगे। प्रातःकाल होनेपर गन्धर्वगण अपनी स्त्रियोंके सहित उनका गुणगान करते थे; किन्तु मनुजी उसमें आसक्त न होकर प्रेमपूर्ण हृदयसे श्रीहरिकी कथाएँ ही सुना करते थे॥ ३३॥
वीरराघवः
एतद् एव प्रपञ्चयति । सङ्गीयमानेत्य्-आदि-षड्भिः । प्रत्यूषेषु प्रत्युषःसु सस्त्रीतिः स्त्रीभिः सहितैः सुर-गायकैः सुरा गन्धर्वाः किन्नरादयः त एव गायकास् तैः सम्यग् गीयमाना सती निर्मला कीर्त्तिर् यस्य । सो ऽपि अनुबन्धेन प्रेमानुबन्धेन हृदा हरेः कथाः शृण्वन् कामान् बुभुज इति पूर्वेणान्वयः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
निष्णातं योगमायासु मुनिं स्वायम्भुवं मनुम्।
यदा भ्रंशयितुं भोगा न शेकुर्भगवत्परम्॥
अनुवाद (हिन्दी)
वे इच्छानुसार भोगोंका निर्माण करनेमें कुशल थे; किन्तु मननशील और भगवत्परायण होनेके कारण भोग उन्हें किंचित् भी विचलित नहीं कर पाते थे॥ ३४॥
वीरराघवः
मुनिं शुभाश्रय-संशीलन-परं भगवत्-परं भगवद्-गुणानुचिन्तन-परं स्वायम्भुवं मनुं भोगाः कामभोगा योग-मायासु भगवद्-आश्चर्य-शक्तिकासु निष्णातम् आसक्तं यथा तथा आभ्रंशयितुम् ईषद् अपि पातयितुं यद् यस्मान् न शेकुः न समर्था अतस् तस्य यामा अयातयामा आसन्नित्य् उत्तरेणान्वयः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
अयातयामास्तस्यासन् यामाः स्वान्तरयापनाः।
शृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः॥
मूलम्
अयातयामास्तस्यासन् यामाः स्वान्तरयापनाः।
शृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः॥ ३५ ॥
अनुवाद (हिन्दी)
भगवान् विष्णुकी कथाओंका श्रवण, ध्यान, रचना और निरूपण करते रहनेके कारण उनके मन्वन्तरको व्यतीत करनेवाले क्षण कभी व्यर्थ नहीं जाते थे॥ ३५॥
वीरराघवः
विष्णोः कथा शृण्वतः ब्रुवतः कथयतः कुर्वतः भगवद्-आराधनम् इति शेषः, ध्यायतः विष्णुम् इति शेषः, तस्य मनोः स्वान्तरं मन्वन्तराख्य-कालं यापयन्ति नयन्ति यामाः कालावयवाः प्रहरा अयातयामाः सफला आसन् । यामा इत्य् अन्तेनैकस्मिन्न् अपि यामे भगवद्-आराधना-भाव-राहित्यं सूच्यते ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
स एवं स्वान्तरं निन्ये युगानामेकसप्ततिम्।
वासुदेवप्रसङ्गेन परिभूतगतित्रयः॥
मूलम्
स एवं स्वान्तरं निन्ये युगानामेकसप्ततिम्।
वासुदेवप्रसङ्गेन परिभूतगतित्रयः॥ ३६ ॥
अनुवाद (हिन्दी)
इस प्रकार अपनी जाग्रत् आदि तीनों अवस्थाओं अथवा तीनों गुणोंको अभिभूत करके उन्होंने भगवान् वासुदेवके कथा-प्रसंगमें अपने मन्वन्तरके इकहत्तर चतुर्युग पूरे कर दिये॥ ३६॥
वीरराघवः
स मनुर् एवं भगवत्-कथा-श्रवण-कीर्तन-ध्यान-तद्-आराधनादिभिर् युगानाम् एकसप्तति-परिमाणं स्वान्तरं कालं वासुदेवे प्रकृष्टासङ्गेन परिभूतं गतित्रयम् । “ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्य-गुण-वृत्ति-स्था अधो गच्छन्ति तामसा” ॥ इत्य्-उक्त-गति-त्रयं येन सः निन्ये यापयामास । यद्वा गतयो ऽवगतयः क्लेशा अवगतयस् तासां त्रयं निरस्ताध्यात्मिकादि-ताप-त्रय इत्य् अर्थः ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
शारीरा मानसा दिव्या वैयासे ये च मानुषाः।
भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम्॥
मूलम्
शारीरा मानसा दिव्या वैयासे ये च मानुषाः।
भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम्॥ ३७ ॥
अनुवाद (हिन्दी)
व्यासनन्दन विदुरजी! जो पुरुष श्रीहरिके आश्रित रहता है उसे शारीरिक, मानसिक, दैविक, मानुषिक अथवा भौतिक दुःख किस प्रकार कष्ट पहुँचा सकते हैं॥ ३७॥
वीरराघवः
एतद् एव विशदयति । शारीरा इति । हे वैयासे ! विदुर ! शारीरा व्याधिरूपा मानसा आधयः एते आध्यात्मिकाः क्लेशा दिव्या आन्तरिक्षा अशनि-शीतोष्ण-वात-वर्षादि-प्रभवा एते आधि-दैविकाः क्लेशाः भौतिकाः शत्रु-व्याघ्र-चोर-सर्पादि-भूत-प्रभवाः एते आधि-भौतिकाः । एते सर्वे मानुषा मनुष्यैर् अनुभाव्याः क्लेशाः हरिः संश्रयः आश्रयो यस्य तं कथं बाधेरन् । आश्रित-क्लेश-हर-भगवद्-आश्रयं मनुं न कथंचिद् अपि बाधेरन्न् इत्य् अर्थः ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
यःपृष्टो मुनिभिः प्राह धर्मान्नानाविधाञ्छुभान्।
नृणां वर्णाश्रमाणां च सर्वभूतहितः सदा॥
मूलम्
यःपृष्टो मुनिभिः प्राह धर्मान्नानाविधाञ्छुभान्।
नृणां वर्णाश्रमाणां च सर्वभूतहितः सदा॥ ३८ ॥
अनुवाद (हिन्दी)
मनुजी निरन्तर समस्त प्राणियोंके हितमें लगे रहते थे। मुनियोंके पूछनेपर उन्होंने मनुष्योंके तथा समस्त वर्ण और आश्रमोंके अनेक प्रकारके मंगलमय धर्मोंका भी वर्णन किया (जो मनुसंहिताके रूपमें अब भी उपलब्ध है)॥ ३८॥
वीरराघवः
हरि-संश्रयम् इत्य् अनेन सूचितं तस्य ज्ञानातिशयम् आह । य इति । सर्व-भूत-हितः यो मनुः मुनिभिः पृष्टः नृणां तत्रापि वर्णाश्रमाणां चात एव नानाविधान् शुभान् स्वर्गापवर्ग-साधन-भूतान् धर्मान् प्राह ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
एतत्त आदिराजस्य मनोश्चरितमद्भुतम्।
वर्णितं वर्णनीयस्य तदपत्योदयं शृणु॥
मूलम्
एतत्त आदिराजस्य मनोश्चरितमद्भुतम्।
वर्णितं वर्णनीयस्य तदपत्योदयं शृणु॥ ३९ ॥
अनुवाद (हिन्दी)
जगत्के सर्वप्रथम सम्राट् महाराज मनु वास्तवमें कीर्तनके योग्य थे। यह मैंने उनके अद्भुत चरित्रका वर्णन किया, अब उनकी कन्या देवहूतिका प्रभाव सुनो॥ ३९॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे द्वाविंशोऽध्यायः॥ २२ ॥
वीरराघवः
एवं वर्णितं मनु-चरित्रं निगमयंस् तद्-अपत्य-चरित्रम् अवतारयति । एतद् इति । वर्णनीयस्य कथनीय-कीर्तेर् आदि-राजस्य मनोर् अद्भुतं विस्मयनीयम् एतच्-चरित्रं ते तुभ्यं वर्णितं मयेति शेषः । अथ तस्य मनोः अपत्यं देवहूतिस् तस्या उदयं प्रभवम् उत्कर्षं वा शृणु मत्त इति शेषः ॥ ३९ ॥
इति श्रीमद्-भागवते महा-पुराणे तृतीय-स्कन्धे श्रीमद्-वीर-राघवाचार्य-कृत-भागवत-चन्द्र-चन्द्रिकायां द्वाविंशो ऽध्यायः ॥ २२ ॥
-
प्रा. पा. - ब्रह्मन्नुत्तमाङ्गं प्र । ↩︎
-
प्रा. पा. - विद्वन्नुद्वाहार्थं । ↩︎
-
प्रा. पा. - प्रपन्नां प्रतिगृह्ण मे । ↩︎
-
प्रा. पा. - वरिष्ये । ↩︎
-
प्राचीने पाठे ‘मैत्रेय उवाच’ नास्ति । ↩︎
-
प्रा. पा. - धन्वन्नृप आवमा । ↩︎
-
प्रा. पा. - पारिहार्य महाधनम् । ↩︎
-
प्रा. पा. - पिता । ↩︎
-
प्रा. पा. - भुवः । ↩︎
-
प्रा. पा. - मनुं । ↩︎
-
प्रा. पा. - मुनिम् । ↩︎