२१

[एकविंशोऽध्यायः]

भागसूचना

कर्दमजीकी तपस्या और भगवान‍्का वरदान

श्लोक-१

मूलम् (वचनम्)

विदुर उवाच

विश्वास-प्रस्तुतिः

स्वायम्भुवस्य च मनोर्वंशः परमसम्मतः।
कथ्यतां भगवन् यत्र मैथुनेनैधिरे प्रजाः॥

मूलम्

स्वायम्भुवस्य च मनोर्वंशः परमसम्मतः।
कथ्यतां भगवन् यत्र मैथुनेनैधिरे प्रजाः॥ १ ॥

अनुवाद (हिन्दी)

विदुरजीने पूछा—भगवन्! स्वायम्भुव मनुका वंश बड़ा आदरणीय माना गया है। उसमें मैथुनधर्मके द्वारा प्रजाकी वृद्धि हुई थी। अब आप मुझे उसीकी कथा सुनाइये॥ १॥

वीरराघवः

एवम् असाधारणान् सृष्टि-भेदान् आकर्ण्य प्रकृतं स्वायंभुवम् अनुचरित्रं तद्-वशं च पृच्छति विदुरः । स्वायम्भुवम् इत्य्-आदि पञ्चभिः । स्वायंभुवस्य मनोः परम् उत्कृष्टः सत्तमः सताम् इति शेषः कथ्यतां यत्र वंशे मैथुनेन कर्मणा प्रजा एधिरे ववृधिरे ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै।
यथाधर्मं जुगुपतुः सप्तद्वीपवतीं महीम्॥

मूलम्

प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै।
यथाधर्मं जुगुपतुः सप्तद्वीपवतीं महीम्॥ २ ॥

वीरराघवः

स्वायम्भुवस्य मनोः पुत्रौ प्रिय-व्रतोत्तान-पादौ धर्मं यथा तद्-वत् तत्-तद्-वर्णाश्रम-धर्मान्-अतिक्रम्येत्य् अर्थः । सप्त-द्वीप-युक्तां पृथिवीं यथा जुगुपतुः यथा रक्षितवन्तौ तत्-प्रकारश् च कथ्यताम् इत्य् अर्थः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

तस्य वै दुहिता ब्रह्मन्देवहूतीति विश्रुता।
पत्नी प्रजापतेरुक्ता कर्दमस्य त्वयानघ॥

मूलम्

तस्य वै दुहिता ब्रह्मन्देवहूतीति विश्रुता।
पत्नी प्रजापतेरुक्ता कर्दमस्य त्वयानघ॥ ३ ॥

अनुवाद (हिन्दी)

ब्रह्मन्! आपने कहा था कि स्वायम्भुव मनुके पुत्र प्रियव्रत और उत्तानपादने सातों द्वीपोंवाली पृथ्वीका धर्मपूर्वक पालन किया था तथा उनकी पुत्री जो देवहूति नामसे विख्यात थी, कर्दमप्रजापतिको ब्याही गयी थी।॥ २-३॥

वीरराघवः

तस्य स्वायम्भुवस्य दुहिता पुत्री देवहूतिर् इति श्रुता त्वत्तो मयेति शेषः । हे ब्रह्मन्न् अनघेति । द्वे सम्बोधने कर्दमस्य प्रजापतेः पत्नीति त्वयोक्ता च ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

तस्यां स वै महायोगी युक्तायां योगलक्षणैः।
ससर्ज कतिधा वीर्यं तन्मे शुश्रूषवे वद॥

मूलम्

तस्यां स वै महायोगी युक्तायां योगलक्षणैः।
ससर्ज कतिधा वीर्यं तन्मे शुश्रूषवे वद॥ ४ ॥

अनुवाद (हिन्दी)

देवहूति योगके लक्षण यमादिसे सम्पन्न थी, उससे महायोगी कर्दमजीने कितनी सन्तानें उत्पन्न कीं? वह सब प्रसंग आप मुझे सुनाइये, मुझे उसके सुननेकी बड़ी इच्छा है॥ ४॥

वीरराघवः

योग-लक्षणैः शम-दमादिभिर् युक्तायां तस्यां देवहूत्यां महा-योगी परिपक्व-भगवद् उपासनात्मक-योगनिष्ठः स वै कर्दमः कतिधा कतिभिः प्रकारैः वीर्यं ससर्ज कत्य् अपत्यान्य् असृजद् इत्य् अर्थः । तच् छुश्रूषवे श्रोतुम् इच्छवे मे मह्यं वद कथय ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

रुचिर्यो भगवान् ब्रह्मन्दक्षो वा ब्रह्मणः सुतः।
यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम्॥

मूलम्

रुचिर्यो भगवान् ब्रह्मन्दक्षो वा ब्रह्मणः सुतः।
यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम्॥ ५ ॥

अनुवाद (हिन्दी)

इसी प्रकार भगवान् रुचि और ब्रह्माजीके पुत्र दक्षप्रजापतिने भी मनुजीकी कन्याओंका पाणिग्रहण करके उनसे किस प्रकार क्या-क्या सन्तान उत्पन्न की, यह सब चरित भी मुझे सुनाइये॥ ५॥

वीरराघवः

हे ब्रह्मन् मैत्रेय ! भगवान् षाड्गुण्यपूर्णः रुचिर् दक्षश् च ब्रह्मणश् चतुर्मुखस्य सुतः मानवीं मनु-पुत्रीम् आकूतिं प्रसूतिं च भार्यां लब्ध्वा भूतान्य् अपत्यानि यथा ससर्ज तत्-प्रकारं मे वदेति पूर्वेणान्वयः ॥ ५ ॥

श्लोक-६

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः।
सरस्वत्यां तपस्तेपे सहस्राणां समा दश॥

मूलम्

प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः।
सरस्वत्यां तपस्तेपे सहस्राणां समा दश॥ ६ ॥

अनुवाद (हिन्दी)

मैत्रेयजीने कहा—विदुरजी! जब ब्रह्माजीने भगवान् कर्दमको आज्ञा दी कि तुम संतानकी उत्पत्ति करो तो उन्होंने दस हजार वर्षोंतक सरस्वती नदीके तीरपर तपस्या की॥ ६॥

वीरराघवः

एवम् आपृष्टो मैत्रेयः तद् यथावन् मनु-पुत्र-चरित्रं वक्ष्यमाणस् तावद् देवहूत्य्-आख्य-भार्या-लाभाय कर्दमस्य तपश्चर्या-प्रकारम् आह । द्वाभ्याम् । ब्रह्मणा चतुर्-मुखेन प्रजाः सृजेत्य् उक्तो भगवान् कर्दमः सरस्वत्य्-आख्यां नद्यां सहस्राणां दश समाः दश-सहस्र-संवत्सरान् तपस् तेपे चकार । पाकं पचतीति वन्निर्देशः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

ततः समाधियुक्तेन क्रियायोगेन कर्दमः।
सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम्॥

मूलम्

ततः समाधियुक्तेन क्रियायोगेन कर्दमः।
सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशु1षम्॥ ७ ॥

अनुवाद (हिन्दी)

वे एकाग्रचित्तसे प्रेमपूर्वक पूजनोपचारद्वारा शरणागतवरदायक श्रीहरिकी आराधना करने लगे॥ ७॥

वीरराघवः

ततस् तस्मिन् तपसि कर्दमः समाधिश् चित्तैकाग्र्यं तेन युक्तेन क्रियायोगेन स्व-वर्णाश्रमोचितानभि-संहित-फल-भगवदाराधन-रूप-क्रिया-योगेन भक्त्या ध्रुवानुस्मृति-रूपोपासनया च प्रपन्नानां वरदाशुषं वरप्रदं हरिं प्रपेदे सिषेवे ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

तावत्प्रसन्नो भगवान् पुष्कराक्षः कृते युगे।
दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद्वपुः॥

मूलम्

तावत्प्रसन्नो भगवान् पुष्कराक्षः कृते युगे।
दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद्वपुः॥ ८ ॥

अनुवाद (हिन्दी)

तब सत्ययुगके आरम्भमें कमलनयन भगवान् श्रीहरिने उनकी तपस्यासे प्रसन्न होकर उन्हें अपने शब्दब्रह्ममय स्वरूपसे मूर्तिमान् होकर दर्शन दिये॥ ८॥

वीरराघवः

कृत-युगे तावद्-दश-सहस्र-वर्ष-पर्यन्त-तपश्चर्यान्ते पुण्डरीकाक्षो भगवान् प्रसन्नः तपसा तोषितः हे क्षत्तः ! शाब्दं पञ्चोपनिषन्-मात्र-वेद्यं ब्रह्म सौगन्ध्य-सौकुमार्य-लावण्य-यौवनाद्य्-अनन्त-कल्याण-गुणाकरं वपुर् दिव्य-मङ्गल-विग्रहं दधद् विभ्रत् कर्दमं प्रति दर्शयामास स्वात्मानम् इति शेषः । यद् वात्मानम् इति विग्रहापेक्षया पुल्लिङ्ग-निर्देशः तं विग्रहं दर्शयामासेत्य् अर्थः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

स तं विरजमर्काभं सितपद्मोत्पलस्रजम्।
स्निग्धनीलालकव्रातवक्त्राब्जं विरजोऽम्बरम्॥

मूलम्

स तं विरजमर्काभं सितपद्मोत्पलस्रजम्।
स्निग्धनीलालकव्रातवक्त्राब्जं विरजोऽम्बरम्॥ ९ ॥

अनुवाद (हिन्दी)

भगवान‍्की वह भव्य मूर्ति सूर्यके समान तेजोमयी थी। वे गलेमें श्वेत कमल और कुमुदके फूलोंकी माला धारण किये हुए थे, मुखकमल नीली और चिकनी अलकावलीसे सुशोभित था। वे निर्मल वस्त्र धारण किये हुए थे॥ ९॥

वीरराघवः

तम् एव भगवन्तम् अनुवर्णयन् तं प्रणम्यास्तावीद् इत्य् आह । चतुर्भिः स इति । स कर्दमस् तं भगवन्तं दृष्ट्वा कथंभूतं तं विरजं निर्मलम् अर्काभम् अर्कस्य सूर्यस्येवाभा यस्य तं सितानां पद्मानाम् उत्पलानां च स्रजो यस्य तं स्निग्धा नीलाश् च ये ऽलकाः कुन्तलास् तेषां व्रातो वक्त्राब्जे यस्य तं विरजं निर्मलम् अम्बरं पीताम्बरं यस्य तम् ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

किरीटिनं कुण्डलिनं शङ्खचक्रगदाधरम्।
श्वेतोत्पलक्रीडनकं मनःस्पर्शस्मितेक्षणम्॥

मूलम्

किरीटिनं कुण्डलिनं शङ्खचक्रगदाधरम्।
श्वेतोत्पलक्रीडनकं मनःस्पर्शस्मितेक्षणम्॥ १० ॥

अनुवाद (हिन्दी)

सिरपर झिलमिलाता हुआ सुवर्णमय मुकुट, कानोंमें जगमगाते हुए कुण्डल और करकमलोंमें शंख, चक्र, गदा आदि आयुध विराजमान थे। उनके एक हाथमें क्रीडाके लिये श्वेत कमल सुशोभित था। प्रभुकी मधुर मुसकानभरी चितवन चित्तको चुराये लेती थी॥ १०॥

वीरराघवः

किरीट-धारिणं कुण्डल-धारिणं त्रिभिर् हस्तैः शङ्ख-चक्र-गदाः वहन्तं श्वेतोत्पलं क्रीडनं क्रीडा-साधनं यस्य तम् एकेन करेण लीलार्थं श्वेतोत्पलं वहन्तम् इत्य् अर्थः । मनः-स्पर्श-स्मितेक्षणं चित्तापहारि-हास-युक्तावलोकन-युक्तम् ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

विन्यस्तचरणाम्भोजमंसदेशे गरुत्मतः।
दृष्ट्वा खेऽवस्थितं वक्षःश्रियं कौस्तुभकन्धरम्॥

मूलम्

विन्यस्तचरणाम्भोजमंसदेशे गरुत्मतः।
दृष्ट्वा खेऽवस्थितं वक्षःश्रियं कौस्तुभकन्धरम्॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

जातहर्षोऽपतन्मूर्ध्ना क्षितौ लब्धमनोरथः।
गीर्भिस्त्वभ्यगृणात्प्रीतिस्वभावात्मा कृताञ्जलिः॥

मूलम्

जातहर्षोऽपतन्मूर्ध्ना क्षितौ लब्धमनोरथः।
गीर्भिस्त्वभ्यगृणात्प्रीतिस्वभावात्मा कृताञ्जलिः॥ १२ ॥

अनुवाद (हिन्दी)

उनके चरणकमल गरुडजीके कंधोंपर विराजमान थे, तथा वक्षःस्थलमें श्रीलक्ष्मीजी और कण्ठमें कौस्तुभमणि सुशोभित थी। प्रभुकी इस आकाशस्थित मनोहर मूर्तिका दर्शन करके कर्दमजीको बड़ा हर्ष हुआ, मानो उनकी सभी कामनाएँ पूर्ण हो गयीं। उन्होंने सानन्द हृदयसे पृथ्वीपर सिर टेककर भगवान‍्को साष्टांग प्रणाम किया और फिर प्रेमप्रवण चित्तसे हाथ जोड़कर सुमधुर वाणीसे वे उनकी स्तुति करने लगे॥ ११-१२॥

वीरराघवः

गरुत्मतो गरुडस्यांस-देशे स्कन्ध-प्रदेशे विन्यस्ते निहिते चरणे पदे येन तम् । वक्षसि श्रीर् यस्य तं कौस्तुभः कन्धरायां यस्य तम् । खे आकाशे ऽवस्थितं दृष्ट्वा जात-हर्ष इति । लब्धः दर्शन-प्राप्ति-रूपो मनोरथो येन सः । अत एव जातः उत्पन्नः हर्ष आनन्दो यस्य सः । क्षितौ भूम्यां मूर्ध्ना शिरसापतद् दण्डवत् प्रणत इत्य् अर्थः । ततः प्रीतिर् एव स्वभावो यस्य सः । आत्मा मनश् च यस्य सः । कृत अञ्जलिर् येन सः । गीर्भिस् तत्-स्वरूप-गुण-माहात्म्य-प्रतिपादिकाभिर् गीर्भिर् वचोभिर् अभ्यगृणात् स्वाभिप्रेतं निवेदयन्न् अस्तावीद् इत्य् अर्थः ॥ ११-१२ ॥

श्लोक-१३

मूलम् (वचनम्)

ऋषिरुवाच

विश्वास-प्रस्तुतिः

जुष्टं बताद्याखिलसत्त्वराशेः
सांसिध्यमक्ष्णोस्तव दर्शनान्नः।
यद्दर्शनं जन्मभिरीड्य सद‍्भि-
राशासते योगिनो रूढयोगाः॥

मूलम्

जुष्टं बताद्याखिलस2त्त्वराशेः सांसिध्यमक्ष्णोस्तव दर्शनान्नः।
यद्दर्शनं जन्मभिरीड्य सद‍्भिराशासते योगिनो रूढयोगाः॥ १३ ॥

अनुवाद (हिन्दी)

कर्दमजीने कहा—स्तुति करनेयोग्य परमेश्वर! आप सम्पूर्ण सत्त्वगुणके आधार हैं। योगिजन उत्तरोत्तर शुभ योनियोंमें जन्म लेकर अन्तमें योगस्थ होनेपर आपके दर्शनोंकी इच्छा करते हैं; आज आपका वही दर्शन पाकर हमें नेत्रोंका फल मिल गया॥ १३॥

वीरराघवः

तद् एवाह नवभिः । जुष्टम् इति हे ईड्य ! स्तुत्य अखिल-सत्त्व-राशेः परिपूर्ण-शुद्ध-सत्त्वमयस्य तव दर्शनान् नो ऽस्माकम् अक्ष्णोर् नेत्रयोः सांसिध्यं संसिद्धि-विषय-भूतं फलम् अद्य जुष्टं प्राप्तं बतेति हर्षे यदा तव दर्शनम् इति पाठस् तदा नो ऽस्माकं सांसिध्यं संसिद्धिस् तपसः फलाव्यवहित-साधनत्व-दशा तया साध्यं यत् फलं त्वद्-दर्शन-रूपं तद् अक्ष्णोर् अक्षिभ्यां जुष्टम् इत्य् अर्थः । दर्शनस्य सांसिध्यत्वम् उपपादयति यस्य तव दर्शनं योग-रूढाः योगो रूढ आरूढो यैस् ते प्राप्त-योगा इत्य् अर्थः । सद्भिः सात्त्विक-जन्मभिर् अपि यतस् तव दर्शनम् एव प्रार्थ्यते स्व-जन्मभिर् आशासते प्रार्थयन्ते आरूढ-योगैर् बहु-जन्मभिर् अतस् तद् एव निरतिशयं सांसिद्धिक-फलम् इत्य् अर्थः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

ये मायया ते हतमेधसस्त्वत्
पादारविन्दं भवसिन्धुपोतम्।
उपासते कामलवाय तेषां
रासीश कामान्निरयेऽपि ये स्युः॥

मूलम्

ये मायया ते हतमेधसस्त्वत् पादारविन्दं भवसिन्धुपोतम्।
उपासते कामलवाय तेषां रासीश कामान्निरयेऽपि ये स्युः॥ १४ ॥

मूलम् - कर्णावती

ये मायया ते हतमेधसस्त्वत्पादारविन्दं भवसिन्धुपोतम्।
उपासते कामलवाय तेषां रासीश कामान्निरयेऽपि ये स्युः॥ १४ ॥

अनुवाद (हिन्दी)

आपके चरणकमल भवसागरसे पार जानेके लिये जहाज हैं। जिनकी बुद्धि आपकी मायासे मारी गयी है, वे ही उन तुच्छ क्षणिक विषय-सुखोंके लिये, जो नरकमें भी मिल सकते हैं उन चरणोंका आश्रय लेते हैं; किन्तु स्वामिन्! आप तो उन्हें वे विषय-भोग भी दे देते हैं॥ १४॥

वीरराघवः

ननु धर्मादिष्व् अन्यतम एव पुरुषार्थः न तु मद्-दर्शनम् इत्य् अत्राह । य इति । ते मायया ये हत-मेधसः कामानां लवार्थम् । उपासते ये निरये ऽपि निरय-प्राये ऽपि नीच-यौनौ विषये कामाः स्युः तान् कामान् तेषां तान् सुख-लेशान् अपि रासि ददासि । तथापि ते सुमेरुम् आसाद्य वराटिकाद्य् अन्वेषयन्त इव नित्य-निरतिशयानन्द-जलधिं त्वां प्रपद्य आनन्द-लेशम् आशासानास् त्वन्-मायया हत-बुद्धय एव । अतो धर्मादिषु पुरुषार्थ-दृष्ट्या त्वां भजन् मूर्ख एवेति भावः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

तथा स चाहं परिवोढुकामः
समानशीलां गृहमेधधेनुम्।
उपेयिवान्मूलमशेषमूलं
दुराशयः कामदुघाङ्घ्रिपस्य॥

मूलम्

तथा स चाहं परिवोढुकामः समानशीलां गृहमेधधेनुम्।
उपेयिवान्मूलमशेषमूलं दुराशयः कामदुघाङ्घ्रिपस्य॥ १५ ॥

अनुवाद (हिन्दी)

प्रभो! आप कल्पवृक्ष हैं। आपके चरण समस्त मनोरथोंको पूर्ण करनेवाले हैं। मेरा हृदय काम-कलुषित है। मैं भी अपने अनुरूप स्वभाववाली और गृहस्थधर्मके पालनमें सहायक शीलवती कन्यासे विवाह करनेके लिये आपके चरणकमलोंकी शरणमें आया हूँ॥ १५॥

वीरराघवः

यो ऽहं काम-कामिनो निन्दयामि सो ऽहम् अपि काम-कामीत्य् आह । तथापीति । अहम् अपि गृहमेध-वेनुं गार्हस्थ्य-वर्द्धिनीं समान-शीलां समान-धर्मादि-कुल-शीलाम् इत्य् अर्थः भार्यां परिवोढु-कामः उद्वोढुम् इच्छन्न् अत एव दुराशयः दुष्टान्तःकरणः कामदुघाङ्घ्रिपस्य कल्प-वृक्षवद् अर्थितार्थ-दस्य तवाशेष-पुरुषार्थानां मूलम् उपेयिवान् प्राप्तवान् अस्मि ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

प्रजापतेस्ते वचसाधीश तन्त्या
लोकः किलायं कामहतोऽनुबद्धः।
अहं च लोकानुगतो वहामि
बलिं च शुक्लानिमिषाय तुभ्यम्॥

मूलम्

प्रजापतेस्ते वचसाधीश तन्त्या लोकः किलायं कामहतोऽनुबद्धः।
अहं च लोकानुगतो वहामि बलिं च शुक्लानिमिषाय तुभ्यम्॥ १६ ॥

अनुवाद (हिन्दी)

सर्वेश्वर! आप सम्पूर्ण लोकोंके अधिपति हैं। नाना प्रकारकी कामनाओंमें फँसा हुआ यह लोक आपकी वेद-वाणीरूप डोरीमें बँधा है। धर्ममूर्ते! उसीका अनुगमन करता हुआ मैं भी कालरूप आपको आज्ञापालनरूप पूजोपहारादि समर्पित करता हूँ॥ १६॥

वीरराघवः

नन्व् एवं हेयोपादेय-विभाग-कुशलस् त्वं कथं काम-कामी माम् उपेयिवान् इत्य् अत्राह । प्रजापतेर् इति । हे अधीश ! प्रजापतेस् तव वचसा वेदात्मिक-वचो-रूपया तन्त्र्या दाम्नायं लोकः सांसारिक-लोकः काम-हतः कामैर् अभिभूतः अनुबद्धः पशुर् इव बद्धः “याम् इमां पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः । वेद-वाद-रताः पार्थ ! नान्यद् अस्तीति वादिनः ॥ कामात्मानः स्वर्ग-परा जन्म-कर्म-फल-प्रदाम् । क्रिया-विशेष-बहुलां भोगैश्वर्य-गतिं प्रति ॥” इति त्वद्-उक्त-रीत्या कामात्मानः त्रैवर्गिकम् एव फलं बहुमन्वानास् तत्रैवासक्ताः । अहम् अपि लोकान् सांसारिक-लोकान् अनुगतः अनुसृतः हे शुक्ल ! निर्मल भगवन् अनिमिषाय काल-स्वरूपिणे तुभ्यं बलिं गृहाश्रमोचित-धर्म-रूप-बलिं हरामि । यद्य् अप्य् अहं हेयोपादेय-विवेक-सम्पन्नः तथापि त्वन्-निर्देशानुवर्त्य् अस्मत्-पित्रा चतुर्मुखेन प्रजाः सृजेत्य् अनुशिष्टो ऽहम् अत एव गृहमेधीयैर् एव धर्मैस् त्वाम् आराधयितुं त्वां प्रार्थयामीति भावः । अनिमिषायेति हेतु-गर्भं यतस् त्वं काल-रूपेण संसारिणां निरर्थकम् आयुः क्षपयस्य् अतो ऽहं सांसारिक-धर्मान् अनुतिष्ठन् कालात्मकात् त्वत्तो भीतः सन् अस्मद्-आयुषः सद्-व्ययं चिकीर्षुः पितृ-निदेशं च पालयन् काल-रूपाय तुभ्यम् एव बलिं पूजां वहामि तव पूजां करोमीत्य् अभिप्रायः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

लोकांश्च लोकानुगतान् पशूंश्च
हित्वा श्रितास्ते चरणातपत्रम्।
परस्परं त्वद‍्गुणवादसीधु-
पीयूषनिर्यापितदेहधर्माः॥

मूलम्

लोकांश्च लोकानुगतान् पशूंश्च हित्वा श्रितास्ते चरणातपत्रम्।
परस्परं त्वद‍्गुणवादसीधुपीयूषनिर्यापितदेहधर्माः॥ १७ ॥

अनुवाद (हिन्दी)

प्रभो! आपके भक्त विषयासक्त लोगों और उन्हींके मार्गका अनुसरण करनेवाले मुझ-जैसे कर्मजड पशुओंको कुछ भी न गिनकर आपके चरणोंकी छत्रच्छायाका ही आश्रय लेते हैं तथा परस्पर आपके गुणगानरूप मादक सुधाका ही पान करके अपने क्षुधा-पिपासादि देहधर्मोंको शान्त करते रहते हैं॥ १७॥

श्लोक-१८

विश्वास-प्रस्तुतिः

न तेऽजराक्षभ्रमिरायुरेषां
त्रयोदशारं त्रिशतं षष्टिपर्व।
षण्नेम्यनन्तच्छदि यत्त्रिणाभि
करालस्रोतो जगदाच्छिद्य धावत्॥

मूलम्

न तेऽजराक्षभ्रमि3रायुरेषां त्रयोदशारं त्रिशतं षष्टिपर्व।
षण्नेम्यनन्तच्छदि यत्त्रिणाभि करालस्रोतो जगदाच्छिद्य धाव4त्॥ १८ ॥

अनुवाद (हिन्दी)

प्रभो! यह कालचक्र बड़ा प्रबल है। साक्षात् ब्रह्म ही इसके घूमनेकी धुरी है, अधिक माससहित तेरह महीने अरे हैं, तीन सौ साठ दिन जोड़ हैं, छः ऋतुएँ नेमि (हाल) हैं, अनन्त क्षण-पल आदि इसमें पत्राकार धाराएँ हैं तथा तीन चातुर्मास्य इसके आधारभूत नाभि हैं। यह अत्यन्त वेगवान् संवत्सररूप कालचक्र चराचर जगत‍्की आयुका छेदन करता हुआ घूमता रहता है, किंतु आपके भक्तोंकी आयुका ह्रास नहीं कर सकता॥ १८॥

वीरराघवः

अनिमिषायेत्य् अनेनाभिप्रेतं संसारिणाम् एव वृथायुः क्षपयितृत्वं व्यतिरेक-मुखेनाप्य् आह । द्वाभ्याम् । ये लोकान् संसारिणस् तद्-अनुगतान् अन्यांश् च हित्वा त्यक्त्वा परस्परं मिथः तव गुणानां वादः कथनं तद् एव सीधु मधुर-पीयूषम् अमृतं तेन निर्यापिता निरस्ता देह-धर्मा जरा-मरणादयो येषान् ते तव चरणावेवातपत्रं ताप-त्रय-निवर्तकत्वाद् आत-पत्रत्व-रूपणम् आश्रितास् ते तेन जरा-क्षुद्-भ्रमिः जरा-मरणादि-क्षुत्-पिपासादि-परिवृत्तिमन्तः भ्रमिः भ्रमणं तद्वन्त इत्य् अर्थः । एकवचनम् आर्षम् । जरा-क्षुद्-रूपेण भ्रमणं यस्येति काल-चक्र-विशेषणं वा काल-चक्र-रूप-विशेष्यं विशेषण-सामर्थ्य-सिद्धम् । अस्मिन् पक्षे ये आश्रितास् तेषाम् आयुर् इति सम्बन्धः । ते तव संवत्सरात्मकं काल-चक्रं जगद् आच्छिद्य धावद् इत्य् अर्थः । तेषाम् आयुः सफलम् इत्य् उक्तं भवति ते ऽजराक्ष-भ्रमिर् इति पाठे अजराक्ष-भ्रमिर् इति च्छेदः अजरः अनुपरतः अक्ष-भ्रमिर् अक्ष-भ्रमणं यस्येति चक्र-विशेषणम् एव । यद्वा जरो ऽविशीर्णः अक्षो यस्य स चासौ भ्रमिर् यस्य इत्य् अर्थः । अजरम् अक्षरं ब्रह्म तस्मिन्न् अक्ष-रूपेण भ्रमिर्-भ्रमणं यस्येति वा । कथंभूतं काल-चक्रं त्रयोदशारम् अधिमास-सहिता द्वादश मासा आरा यस्य तत् त्रिशतं षष्टिश् च अहो-रात्राणि पर्वाणि यस्य शत-विभक्तेर् अलुग् आर्षः । षड्-ऋतवो नेमयो यस्य अनन्ताः क्षण-लवादयः छदा दलानि यस्य सन्तीति तथा त्रिणाभि-समाधिक-न्यून-गतिमन्ति त्रीणि चातुर्मास्यान्य् एव नाभयो रन्ध्रा यस्य करालं तीव्रं स्रोतो वेगः यस्य तत् ईदृशं त्वद्-आत्मकं काल-चक्रं केवलं संसारिणाम् एव आयुर् आच्छिद्य धावत् वृथा तद् आयुर् हरति न तु त्वद्-गुणानुभव-पराणाम् अतः काल-चक्र-शरीरकस्याश्रित-काम-दुघस्य भवत एव पाद-मूलम् उपेयिवान् अहम् इति भावः ॥ १७-१८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

एकः स्वयं सञ्जगतः सिसृक्षया-
द्वितीययाऽऽत्मन्नधियोगमायया।
सृजस्यदः पासि पुनर्ग्रसिष्यसे
यथोर्णनाभिर्भगवन् स्वशक्तिभिः॥

मूलम्

एकः स्वयं सञ्जगतः सिसृक्षयाद्वितीययाऽऽत्मन्नधियोगमायया।
सृजस्यदः पासि पुनर्ग्रसिष्यसे यथोर्णनाभिर्भगवन् स्वशक्तिभिः॥ १९ ॥

मूलम् - कर्णावती

एकः स्वयं सञ्जगतः सिसृक्षया द्वितीययाऽऽत्मन्नधियोगमायया।
सृजस्यदः पासि पुनर्ग्रसिष्यसे यथोर्णनाभिर्भगवन् स्वशक्तिभिः॥ १९ ॥

अनुवाद (हिन्दी)

भगवन्! जिस प्रकार मकड़ी स्वयं ही जालेको फैलाती, उसकी रक्षा करती और अन्तमें उसे निगल जाती है—उसी प्रकार आप अकेले ही जगत‍्की रचना करनेके लिये अपनेसे अभिन्न अपनी योगमायाको स्वीकार कर उससे अभिव्यक्त हुई अपनी सत्त्वादि शक्तियोंद्वारा स्वयं ही इस जगत‍्की रचना, पालन और संहार करते हैं॥ १९॥

वीरराघवः

ननु ब्रह्म-रुद्रादिषु बहुषु सत्स्व् अपि तान् अनादृत्य मत्-पाद-मूलम् एव किं विशेषेणोपेयिवान् इत्याशङ्कायां “कश् च ध्येयः कारणं तु ध्येयम्” इति श्रुत्यैव प्रश्नोत्तर-रूपेण जगत्-कारणत्वस्यैवोपास्यत्वाभिधानात् जगत्-कारण-भूतस् त्वम् एवोपास्य इत्य् अभिधास्यन् तावत् कारणत्वम् उपपादयति । एक इति । स्वयम् एकः सन् एक-शब्देन “सद् एव सौम्येदम् अग्र आसीद् एकमेवाद्वितीयं ब्रह्म” इति कारणत्व-परा श्रुतिः स्मारिता । तथा चायम् अर्थः सृष्टेः प्राग् एक एव नाम-रूप-विभागानर्ह-सूक्ष्म-चिद्-अचित्-काल-शरीरः सन्न् उपादानत्वेन विद्यमानः अत्रापि श्रुताव् इव एव कारार्थ-गर्भम् इदम् एक एव उपादान-कारणान्तर-शून्यः एकत्वं च सृष्ट्य्-अनन्तर-भावि-नाम-रूप-विभाग-निबन्धन-बहुत्व-प्रतिसम्बन्धि-नाम-रूप-विभागाभावाधीनम् एव विवक्षितं न तु प्रकृति-पुरुषादि-राहित्यम् । एक इति अद्वितीय इत्य् अस्याप्य् उपलक्षणं तथा च निमित्त-कारणान्तर-शून्यः सद् इत्य् अनेन कारणत्वेनावस्थितस्य प्रमाण-सम्बन्धार्हत्व-रूप-सत्ता-योगित्व-कथनाद् असत्कार्य-वादो निरस्तः । एकम् इत्य् अनेन उपलक्षिताद्वितीय-पदेन चोपादानत्व-निमित्तत्वोपयुक्त-सर्व-शक्तित्व-सर्व-ज्ञतादयो धर्मा आक्षिप्यन्ते । एवं च मृत्-कुलालयोर् इव निमित्तोपादानयोर् भेद एव न अभेद उपपद्यत इति शङ्का परास्ता मृदस् त्व् अज्ञत्वात् कुलालस्यासर्व-ज्ञत्वाच् च निमित्तत्वोपादानत्वयोर् उभयोर् अपि मृत्-कुलालयोर् अन्यतरस्मिन्न् असम्भवः । इह तु ब्रह्मणः ‘परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी’ यः सर्वज्ञः सर्वविद् इति सर्वज्ञत्व-सर्व-शक्तित्वाद्य्-अनन्त-कल्याण-गुणाकरत्वेन कीर्तितस्यैवोपादानत्वं चोभयम् अप्य् उपपन्नतरम् एव । एवं च नाम-रूप-विभागानर्ह-सूक्ष्म-चिद्-अचिद्-विशिष्टत्वाकारेणोपादानत्वेन प्रकृति-पुरुष-काल-नियन्तृत्वाकारेण निमित्तत्वेन च तद्-उपयुक्त-सर्वज्ञत्वादि-गुण-विशिष्टत्वेन च सृष्टेः प्राग् विद्यमानः जगतः नाम-रूप-विभागार्ह-स्थूल-चिद्-अचिद्-विशिष्ट-परमात्मक-जगतः सिसृक्षया स्रष्टुम् इच्छया हेतुना अनेन ‘तद् ऐक्षत बहु स्यां’ इत्य् अस्यार्थो विवृतः । द्वितीयया स्वरूपतः स्वभावतश् च स्वस्माद् अत्यन्त-भिन्नया योग-मायया युज्यत इति योगा स्व-सम्बन्धिनी स्व-शरीर-भूतेत्य् अर्थः तया मायया प्रकृत्या अद्वितीयेत्य् अपि छेत्तुं शक्यं तदा स्वापृथक्-सिद्धया अनया योग-मायया स्व-शरीर-भूतया मायया द्वारेण आत्मन्य् अधिस्वात्मन्य् एवादः नाम-रूप-विभागार्ह-चेतनाचेतनात्मकं जगत् सृजसि पासि रक्षसि पुनर्-प्रसिष्यसि संहरसि माया द्वारेण सृजसि । सद्द्वारकोपादानत्व-कथनेन सर्गायत्त-विकाराणां द्वार-भूत-प्रकृति-गतत्वावगमात् निर्विकार-श्रुति-विरोधः परिहृतः । आत्मनि सृजसि इत्य् अनेनाधारान्तर-व्यावृत्तिः । तथा च श्रुतिः ब्रह्म-वनं ब्रह्म स वृक्ष आसीद् यतो द्यावा-पृथिवी निष्टतक्षुर् इति अनया श्रुत्या निमित्तम् उपादानम् आधार उपकरणानि च स्वयम् एवेत्य् उक्तम् एतद् एवोर्णनाभि-दृष्टान्तेन स्पष्टयति हे भगवन् ! उर्णा नाभौ यस्य सः ऊर्णनाभिस् तन्तून् संतन्यमानः कीट-विशेषः स यथा स्व-शक्त्या सृजते तन्तून् इति शेषः तथा त्वम् अपि ख-शक्तिभिर् एव सृजसि रक्षसि प्रसिष्यसे तस्माज् जगत्-कारणम् आश्रित-कल्प-द्रुमं त्वाम् एव काम-लोकान् अनुसरन् परिवोढु-काम उपेयिवान् अहम् इति भावः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

नैतद‍्बताधीश पदं तवेप्सितं
यन्मायया नस्तनुषे भूतसूक्ष्मम्।
अनुग्रहायास्त्वपि यर्हि मायया
लसत्तुलस्या तनुवा विलक्षितः॥

मूलम्

नैतद‍्बताधीश पदं तवेप्सितं यन्मायया नस्तनुषे भूतसूक्ष्मम्।
अनुग्रहायास्त्वपि यर्हि मायया लसत्तुलस्या त5नुवा विलक्षितः॥ २० ॥

मूलम् - कर्णावती

नैतद‍्बताधीश पदं तवेप्सितं यन्मायया नस्तनुषे भूतसूक्ष्मम्।
अनुग्रहायास्त्वपि यर्हि मायया लसत्तुलस्यातनुवा विलक्षितः॥ २० ॥

अनुवाद (हिन्दी)

प्रभो! इस समय आपने हमें अपनी तुलसीमालामण्डित, मायासे परिच्छिन्न-सी दिखायी देनेवाली सगुणमूर्तिसे दर्शन दिया है। आप हम भक्तोंको जो शब्दादि विषय-सुख प्रदान करते हैं, वे मायिक होनेके कारण यद्यपि आपको पसंद नहीं हैं, तथापि परिणाममें हमारा शुभ करनेके लिये वे हमें प्राप्त हों—॥ २०॥

वीरराघवः

ननु कुत एतत् केचित् काम-कामिनो ऽन्ये त्व् अस्मत्-पदाभिलाषिण इत्य् अत्राह । नैतद् इति । हे अधीश ! मायया प्रकृत्या स्व-संकल्पेन वाहम् अहंकारं तस्माद् भूत-सूक्ष्मं भूतान्य् आकाशादीनि भूत-सूक्ष्माणि शब्दादीनि च तनुषे सृजसि भूत-सूक्ष्मम् इति समाहार-द्वन्द्वः नस् तनुषे भूत-सूक्ष्मम् इति पाठे तु भूतानां सूक्ष्म-कारणम् अहंकारम् इत्य् अर्थः कारणं हि कार्यात् सूक्ष्मम् इति सूक्ष्म-शब्देनाहंकार उक्तः मायया भूत-सूक्ष्मं सृजसीति यत् तेन ते पदं तव स्थानं नेप्सितं नाभिलषितं त्वत्-सृष्टाहंकार-वश्यत्वाद् अस्माभिस् त्वत्-पदं नाभिलषितम् इत्य् अर्थः । बतेति खेदे यद् यप्य् अहम् अहंकार-ग्रस्तस् त्वत्-पदं नाभिलषामि तथापि माम् अनुगृह्य त्वत्-पदम् अपि मह्यं दास्यतीति मे प्रतिभातीत्य् आह । अपि तथापि मया त्वत्-पदे ऽनभिलषिते ऽपि यर्हि यदा लसत्-तुलस्या लसन्ती तुलसी माला यस्यास् तया तन्वा आश्चर्य-विग्रहेण भवान् विलक्षितः दृष्टः मयेति शेषः । तद् एवानुग्रहाय त्वत्-पद-प्रापण-रूपानुग्रहार्थं भवान् अस्तु स्याद् इति निश्चिनोमीत्य् अध्याहारः । अस्त्व् इतीति पाठे तु क्रिया-पद-मात्रम् अध्याहर्तव्यम् ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

तं त्वानुभूत्योपरतक्रियार्थं
स्वमायया वर्तितलोकतन्त्रम्।
नमाम्यभीक्ष्णं नमनीयपाद-
सरोजमल्पीयसि कामवर्षम्॥

मूलम्

तं त्वानुभूत्योपरतक्रियार्थं स्वमायया वर्तितलोकतन्त्रम्।
नमाम्यभीक्ष्णं नमनीयपादसरोजमल्पीयसि कामवर्षम्॥ २१ ॥

अनुवाद (हिन्दी)

नाथ! आप स्वरूपसे निष्क्रिय होनेपर भी मायाके द्वारा सारे संसारका व्यवहार चलानेवाले हैं तथा थोड़ी-सी उपासना करनेवालेपर भी समस्त अभिलषित वस्तुओंकी वर्षा करते रहते हैं। आपके चरणकमल वन्दनीय हैं, मैं आपको बार-बार नमस्कार करता हूँ॥ २१॥

वीरराघवः

ननु स्वात्मानुभवानन्द-पूर्णम् उदासीनं मां कथं जगत्-कारणं प्रतिपादितवानसीत्य् आशङ्कां परिहरन् स्तुतिम् उपसंहरति । तम् अस्मद्-अनुग्रहैक-निरतं त्वाम् अभीक्ष्णं पुनः पुनः नमामि कथंभूतम् अनुभूत्या स्वात्मानुभवेन उपरतः अनपेक्षितः क्रियार्थः जगद्-व्यापार-रूप-क्रिया-प्रयोजनं यस्य तम् अपि स्वमायया स्व-लीला-सङ्कल्प-मात्रेण प्रवर्तितं लोक-तन्त्रं जगद्-व्यापारो येन तम् अल्पीयसि ‘स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयाद् इति’ त्वद्-उक्त-रीत्या ईषद्-भवद्-ईयाराधनं कुर्वत्य् अपि पुरुषे कामान् वर्षतीति तथा तम् अत एवं नमनीयं वन्दनीयं पाद-सरोरुहं यस्य तम् ॥ २१ ॥

श्लोक-२२

मूलम् (वचनम्)

ऋषिरुवाच

विश्वास-प्रस्तुतिः

इत्यव्यलीकं प्रणुतोऽब्जनाभ-
स्तमाबभाषे वचसामृतेन।
सुपर्णपक्षोपरि रोचमानः
प्रेमस्मितोद्वीक्षणविभ्रमद‍्भ्रूः॥

मूलम्

इत्यव्यलीकं प्रणुतोऽब्जनाभस्तमाबभाषे वचसामृतेन।
सुपर्णपक्षोपरि रोचमानः प्रेमस्मितोद्वीक्षणविभ्रमद‍्भ्रूः॥ २२ ॥

अनुवाद (हिन्दी)

मैत्रेयजी कहते हैं—भगवान‍्की भौंहें प्रणयमुसकानभरी चितवनसे चंचल हो रही थीं, वे गरुड़जीके कंधेपर विराजमान थे। जब कर्दमजीने इस प्रकार निष्कपटभावसे उनकी स्तुति की तब वे उनसे अमृतमयी वाणीसे कहने लगे॥ २२॥

वीरराघवः

एवं कर्दमेन स्तुतः तेन निवेदिताभिप्रायश् च भगवांस् तम् उवाचेत्य् आह मैत्रेयः । इत्य् एवं व्यलीकं विगतालीकं सत्यं यथा तथा अव्यलीकम् इति पाठेऽप्य् अयम् एवार्थः । प्रणुतः प्रकृष्ट-गुण-विशिष्टत्वेन स्तुतः सुपर्णस्य गरुडस्य पृष्ठोपरि स्कन्ध-देशे रोचमानः प्रकाशमानः प्रेम्णा स्मितेन उद्वीक्षणेन च विभ्रमन्ती भ्रूर्यस्य सो ऽब्जनाभो भगवान् तेनामृत-तुल्येन वचसा तं कर्द्दमं प्रत्याबभाषे उवाचेत्य् अर्थः ॥ २२ ॥

श्लोक-२३

मूलम् (वचनम्)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

विदित्वा तव चैत्त्यं मे पुरैव समयोजि तत्।
यदर्थमात्मनियमैस्त्वयैवाहं समर्चितः॥

मूलम्

विदित्वा तव चैत्त्यं मे पुरैव समयोजि तत्।
यदर्थमात्मनियमैस्त्वयैवाहं समर्चितः॥ २३ ॥

अनुवाद (हिन्दी)

श्रीभगवान‍्ने कहा—जिसके लिये तुमने आत्मसंयमादिके द्वारा मेरी आराधना की है, तुम्हारे हृदयके उस भावको जानकर मैंने पहलेसे ही उसकी व्यवस्था कर दी है॥ २३॥

वीरराघवः

उक्तिम् एवाह दशभिः । विदित्वेति । तव चैत्यम् अभिप्रायं विदित्वा ज्ञात्वा मे मया तत् त्वद्-अभिप्रेतं पुरैव समयोजि संघटितं किं तद् इत्य् अत्राह । यद्-अर्थं यत्-कन्या-लाभार्थम् आत्मनो नियमैः शम-दमादिभिः त्वयाहम् एव समर्चितः सम्यग् आराधितः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

न वै जातु मृषैव स्यात्प्रजाध्यक्ष मदर्हणम्।
भवद्विधेष्वतितरां मयि संगृभितात्मनाम्॥

मूलम्

न वै जातु मृषैव स्यात्प्रजाध्यक्ष मदर्हणम्।
भवद्विधेष्वतितरां मयि संगृभितात्मनाम्॥ २४ ॥

अनुवाद (हिन्दी)

प्रजापते! मेरी आराधना तो कभी भी निष्फल नहीं होती; फिर जिनका चित्त निरन्तर एकान्तरूपसे मुझमें ही लगा रहता है, उन तुम-जैसे महात्माओंके द्वारा की हुई उपासनाका तो और भी अधिक फल होता है॥ २४॥

वीरराघवः

हे प्रजाध्यक्ष ! कर्दम मद्-अर्हणं मद्-आराधनं जातु कदाचिद् अपि मृषा व्यर्थं न स्याद् एवम् अपि सङ्गृभितः एकाग्रीकृतः आत्मा मनः यैस् तेषु भवद्-विधेषु भवादृशेषु सुतराम् अपि मद्-अर्हणं न मृषेत्य् अर्थः । सङ्गृहीतात्मनाम् इति षष्ठ्यन्त-पाठे सङ्गृभितात्मनां मद्-अर्हणं न मृषैव भवद्-विधेषु सुतराम् अपि न मृषेति योज्यम् ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

प्रजापतिसुतः सम्राण्मनुर्विख्यातमङ्गलः।
ब्रह्मावर्तं योऽधिवसन् शास्ति सप्तार्णवां महीम्॥

मूलम्

प्रजापतिसुतः सम्राण्मनुर्विख्यातमङ्गलः।
ब्रह्मावर्तं योऽधिवसन् शास्ति सप्तार्णवां महीम्॥ २५ ॥

अनुवाद (हिन्दी)

प्रसिद्ध यशस्वी सम्राट् स्वायम्भुव मनु ब्रह्मावर्तमें रहकर सात समुद्रवाली सारी पृथ्वीका शासन करते हैं॥ २५॥

वीरराघवः

यः प्रजापतेर् ब्रह्मणः पुत्रः सम्राट् सार्वभौमो विख्यातं मङ्गलं मङ्गलाचारो यस्य सः श्रौत-स्मार्त-सदाचार-निष्ठो मनुः स्वायम्भुव-मनुः ब्रह्मावर्त्तं ब्रह्मावर्त्ताख्यं देशमध्यवसदधिष्ठायावत् सप्त अर्णवाः समुद्रा यस्यां तां महीं पृथ्वीं शास्ति धर्मतः पालयति ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

स चेह विप्र राजर्षिर्महिष्या शतरूपया।
आयास्यति दिदृक्षुस्त्वां परश्वो धर्मकोविदः॥

मूलम्

स चेह विप्र राजर्षिर्महिष्या शतरूपया।
आयास्यति दिदृक्षुस्त्वां परश्वो धर्मकोविदः॥ २६ ॥

अनुवाद (हिन्दी)

विप्रवर! वे परम धर्मज्ञ महाराज महारानी शतरूपाके साथ तुमसे मिलनेके लिये परसों यहाँ आयेंगे॥ २६॥

वीरराघवः

स च राजर्षिर् मनुः शत-रूपया शत-रूपाख्यया महिष्या भार्यया सह धर्म-कोविदं धर्मेषु मद्-आराधन-रूपेषु धर्मेषु कुशलं त्वां दिदृक्षुः द्रष्टुम् इच्छुः परश्वः इतो ऽनागते द्वितीये ऽहन्य् आयास्यति आगमिष्यति ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

आत्मजामसितापाङ्गीं वयःशीलगुणान्विताम्।
मृगयन्तीं पतिं दास्यत्यनुरूपाय ते प्रभो॥

मूलम्

आत्मजामसितापाङ्गीं वयःशीलगुणान्विताम्।
मृगयन्तीं पतिं दास्यत्यनुरूपाय ते प्रभो॥ २७ ॥

अनुवाद (हिन्दी)

उनकी एक रूप-यौवन, शील और गुणोंसे सम्पन्न श्यामलोचना कन्या इस समय विवाहके योग्य है। प्रजापते! तुम सर्वथा उसके योग्य हो, इसलिये वे तुम्हींको वह कन्या अर्पण करेंगे॥ २७॥

वीरराघवः

आयातु मम किम् इत्य् अत्राह । असितापाङ्गीम् अति-नील-कनीनिका-युक्त-नेत्रां वयसा शीलेन सु-स्वभावेन सद्-वृत्त्या च गुणैर् जितेन्द्रियत्वादिभिश् चान्वितां पतिं स्वानुरूपं भर्तारं मृगयन्तीं दूत-प्रेषणादिभिः परिशीलयन्तीम् आत्मजां देवहूत्याख्यां तनयाम् अनुरूपाय ते तुभ्यं दास्यति । हे प्रभो ! वश्येन्द्रिय ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

समाहितं ते हृदयं यत्रेमान् परिवत्सरान्।
सा त्वां ब्रह्मन्नृपवधूः काममाशु भजिष्यति॥

मूलम्

6माहितं ते हृदयं यत्रेमान् परिवत्सरान्।
सा त्वां ब्रह्मन्नृपवधूः काममाशु भजिष्यति॥ २८ ॥

मूलम् - कर्णावती

समाहितं ते हृदयं यत्रेमान् परिवत्सरान्।
सा त्वं ब्रह्मन्नृपवधूः काममाशु भजिष्यति॥ २८ ॥

अनुवाद (हिन्दी)

ब्रह्मन्! गत अनेकों वर्षोंसे तुम्हारा चित्त जैसी भार्याके लिये समाहित रहा है, अब शीघ्र ही वह राजकन्या तुम्हारी वैसी ही पत्नी होकर यथेष्ट सेवा करेगी॥ २८॥

वीरराघवः

यत्र यस्यां मनु-कन्यायाम् इमान् यावतः परिवत्सरान् सम्वत्सरान् अत्यन्त-संयोगे द्वितीया ते, हृदयं चित्तं सम्यग् आहितं भोगासक्तं तावत्-सम्वत्सर-पर्यन्तं सा नृप-वधूर् नृप-कन्या हे ब्रह्मन् ! त्वाम् आशु क्षणवत्-कामं भजिष्यति अनुभविष्यति । त्वया सह बहु-वर्ष-पर्यन्तं कामान् सेवमाना क्षण-मात्रम् इवानुभविष्यतीत्य् अर्थः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

या त आत्मभृतं वीर्यं नवधा प्रसविष्यति।
वीर्ये त्वदीये ऋषय आधास्यन्त्यञ्जसाऽऽत्मनः॥

मूलम्

या त आत्मभृतं वीर्यं नवधा प्रसविष्यति।
वीर्ये त्वदीये ऋषय आधास्यन्त्यञ्जसाऽऽत्मनः॥ २९ ॥

अनुवाद (हिन्दी)

वह तुम्हारा वीर्य अपने गर्भमें धारणकर उससे नौ कन्याएँ उत्पन्न करेगी और फिर तुम्हारी उन कन्याओंसे लोकरीतिके अनुसार मरीचि आदि ऋषिगण पुत्र उत्पन्न करेंगे॥ २९॥

वीरराघवः

या देवहूतिः ते त्वयात्म-भृतम् आत्मना घृतं स्वस्मिन् वीर्यं नवधा प्रसविष्यति त्वदीये वीर्ये त्वद्-उत्पन्नासु नवसु पुत्रीषु ऋषयः मरीच्यादयो ऽञ्जसा विश्रुतात्मनः पुत्रान् “आत्मा वै पुत्रनामासि” इति श्रुतेः आधास्यन्ति उत्पादयिष्यन्ति ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

त्वं च सम्यगनुष्ठाय निदेशं म उशत्तमः।
मयि तीर्थीकृताशेषक्रियार्थो मां प्रपत्स्यसे॥

मूलम्

त्वं च सम्यगनुष्ठाय निदेशं म उशत्तमः।
मयि तीर्थीकृताशेषक्रियार्थो मां प्रपत्स्यसे॥ ३० ॥

अनुवाद (हिन्दी)

तुम भी मेरी आज्ञाका अच्छी तरह पालन करनेसे शुद्धचित्त हो, फिर अपने सब कर्मोंका फल मुझे अर्पणकर मुझको ही प्राप्त होओगे॥ ३०॥

वीरराघवः

त्वं मे मम निदेशम् आज्ञां सम्यग् अनुष्ठाय परिपाल्य उशत्तमः कमनीयम् मद्-आराधन-निष्ठः मयि तीर्थीकृतः तीर्थ-शब्देन पात्रम् उच्यते तेन दानं लक्ष्यते तीर्थीकृतः समर्पितः अशेष-क्रियार्थः समस्त-क्रिया-फलं येन स मां प्रपत्स्यसे प्राप्स्यसि ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

कृत्वा दयां च जीवेषु दत्त्वा चाभयमात्मवान्।
मय्यात्मानं सह जगद् द्रक्ष्यस्यात्मनि चापि माम्॥

मूलम्

कृत्वा दयां च जीवेषु दत्त्वा चाभयमात्मवान्।
मय्यात्मानं सह जगद् द्रक्ष्यस्यात्मनि चापि माम्॥ ३१ ॥

अनुवाद (हिन्दी)

जीवोंपर दया करते हुए तुम आत्मज्ञान प्राप्त करोगे और फिर सबको अभय-दान दे अपने सहित सम्पूर्ण जगत‍्को मुझमें और मुझको अपनेमें स्थित देखोगे॥ ३१॥

वीरराघवः

आत्मवान् जितान्तःकरणस् त्वं भूतेषु चराचरात्मकेषु दयां कृत्वा अभयं च दत्त्वा मय्य् अन्तः प्रविश्य धारके मयि कृत्स्नं चराचरात्मकं जगद् आत्मानं च सहैव द्रक्ष्यसि व्याप्तं धार्यं च द्रक्ष्यसि धार्ये स्वात्मनि च मां धारकं व्यापकं च द्रक्ष्यसीत्य् अर्थः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

सहाहं स्वांशकलया त्वद्वीर्येण महामुने।
तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्वसंहिताम्॥

मूलम्

सहाहं स्वांशकलया त्वद्वीर्येण महामु7ने।
तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्वसंहिताम्॥ ३२ ॥

अनुवाद (हिन्दी)

महामुने! मैं भी अपने अंश-कलारूपसे तुम्हारे वीर्यद्वारा तुम्हारी पत्नी देवहूतिके गर्भमें अवतीर्ण होकर सांख्यशास्त्रकी रचना करूँगा॥ ३२॥

वीरराघवः

स्वांश-कलया स्वांशेन सहाहं च त्वद्-वीर्येण द्वार-भूतेन हे महामुने ! तव क्षेत्रे क्षेत्र-भूतायां देवहूत्याम् अवतीर्येति शेषः तत्त्व-संहितां तत्त्वानां प्रकृति-पुरुषेश्वराणां स्वरूप-विवेचनीं संहितां प्रणेष्ये कथयिष्यामि ॥ ३२ ॥

श्लोक-३३

मूलम् (वचनम्)

मैत्रेय8 उवाच

विश्वास-प्रस्तुतिः

एवं तमनुभाष्याथ भगवान् प्रत्यगक्षजः।
जगाम बिन्दुसरसः सरस्वत्या परिश्रितात्॥

मूलम्

एवं तमनुभाष्याथ भगवान् प्रत्यगक्षजः।
जगाम बिन्दुसरसः सरस्वत्या परिश्रितात्॥ ३३ ॥

अनुवाद (हिन्दी)

मैत्रेयजी कहते हैं—विदुरजी! कर्दमऋषिसे इस प्रकार सम्भाषण करके, इन्द्रियोंके अन्तर्मुख होनेपर प्रकट होनेवाले श्रीहरि सरस्वती नदीसे घिरे हुए बिन्दुसर-तीर्थसे (जहाँ कर्दमऋषि तप कर रहे थे) अपने लोकको चले गये॥ ३३॥

वीरराघवः

एवं कर्दमम् आभाष्य स्व-स्थानं प्रति भगवान् गत इत्य् आह । मैत्रेयः प्रत्यग्-अक्षजः प्रत्याहृतेष्व् इन्द्रियेषु जायते आविर्-भवतीति प्रत्यग्-अक्षजो भगवान् तं कर्दमम् अनुभाष्याथानन्तरं सरस्वत्या नद्या परिश्रितात् परिवेष्टितात् बिन्दु-सरसः सरोवर-तीरस्थात् कर्दमाश्रमाज् जगाम ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

निरीक्षतस्तस्य ययावशेष-
सिद्धेश्वराभिष्टुतसिद्धमार्गः।
आकर्णयन् पत्ररथेन्द्रपक्षै-
रुच्चारितं स्तोममुदीर्णसाम॥

मूलम्

निरीक्षतस्तस्य ययावशेषसिद्धेश्वराभिष्टुतसिद्धमार्गः।
आकर्णयन् पत्ररथेन्द्रपक्षैरुच्चारितं स्तोममुदीर्णसाम॥ ३४ ॥

मूलम् - कर्णावती

निरीक्षतस्तस्य ययावशेष सिद्धेश्वराभिष्टुतसिद्धमार्गः।
आकर्णयन् पत्ररथेन्द्रपक्षैरुच्चारितं स्तोममुदीर्णसाम॥ ३४ ॥

अनुवाद (हिन्दी)

भगवान‍्के सिद्धमार्ग (वैकुण्ठमार्ग) की सभी सिद्धेश्वर प्रशंसा करते हैं। वे कर्दमजीके देखते-देखते अपने लोकको सिधार गये। उस समय गरुडजीके पक्षोंसे जो सामकी आधारभूता ऋचाएँ निकल रही थीं, उन्हें वे सुनते जाते थे॥ ३४॥

वीरराघवः

कथं जगामेत्य् अत्राह । निरीक्षत इति । तस्य कर्दमस्य निरीक्षतः पश्यतः सतः अशेष-सिद्धेश्वरैः सर्व-योगीश्वरैर् अभिष्टुतः सिद्धः स्वतः सिद्धः मार्गः कल्याण-गुण-गण-रूप-प्रकारो यस्य सः पत्र-रथेन्द्रो गरुडः तस्य पक्षैर् उच्चारिते उदीर्णे अभिव्यक्ते सामनी बृहद्-रथन्तरे यस्मिन् तं स्तोमं सामाधार-भूतं ऋक्-समुदायं “बृहद्-रथन्तरे पक्षौ स्तोम आत्मा” इति श्रुतेः आकर्णयन् श्रावयन् ययौ जगाम ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

अथ सम्प्रस्थिते शुक्ले कर्दमो भगवानृषिः।
आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन्॥

मूलम्

अथ सम्प्रस्थिते शुक्ले कर्दमो भगवानृषिः।
आस्ते स्म9 बिन्दुसरसि तं कालं प्रतिपालयन्॥ ३५ ॥

अनुवाद (हिन्दी)

विदुरजी! श्रीहरिके चले जानेपर भगवान् कर्दम उनके बताये हुए समयकी प्रतीक्षा करते हुए बिन्दु-सरोवरपर ही ठहरे रहे॥ ३५॥

वीरराघवः

गते भगवति कर्दमः किम् अकरोद् इत्य् अपेक्षायाम् अनन्तर-वृत्तान्तम् आह । अथेत्य् आदिना । शुक्ले भगवति संप्रस्थिते सम्यक् प्रयाते सति भगवान् कर्दम ऋषिस् तं कालं दिदृक्षुस् त्वां परश्व इति भगवता निर्दिष्टं कालं प्रतिपालयन् प्रतीक्षमाणः बिन्दु-सरसि बिन्दु-सरस्-तीरे आस्ते स्म उपविष्टः किल ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

मनुः स्यन्दनमास्थाय शातकौम्भपरिच्छदम्।
आरोप्य स्वां दुहितरं सभार्यः पर्यटन्महीम्॥

मूलम्

मनुः स्यन्दनमास्थाय शातकौम्भपरिच्छदम्।
आरोप्य स्वां दुहितरं सभार्यः पर्यटन्महीम्॥ ३६ ॥

वीरराघवः

मनुः स्वायम्भुवः शातकौम्भाः सुवर्णमयाः परिच्छदा अलंकारा यस्मिंस् तं स्यन्दनं रथम् आस्थायाधिष्ठाय आरुह्येत्य् अर्थः । तत्र स्वां दुहितरम् आरोप्य सभार्यः शत-रूपया सहितः महीं दुहितुः पत्य्-अन्वेषणार्थं परितः सञ्चरन् ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

तस्मिन् सुधन्वन्नहनि भगवान् यत्समादिशत्।
उपायादाश्रमपदं मुनेः शान्तव्रतस्य तत्॥

मूलम्

तस्मिन् सुध10न्वन्नहनि भगवान् यत्समादिशत्।
उपायादाश्रमपदं मुनेः शान्तव्रतस्य तत्॥ ३७ ॥

अनुवाद (हिन्दी)

वीरवर! इधर मनुजी भी महारानी शतरूपाके साथ सुवर्णजटित रथपर सवार होकर तथा उसपर अपनी कन्याको भी बिठाकर पृथ्वीपर विचरते हुए , जो दिन भगवान‍्ने बताया था, उसी दिन शान्तिपरायण महर्षि कर्दमके उस आश्रमपर पहुँचे॥ ३६-३७॥

वीरराघवः

भगवान् यद्-अहः समादिशन् निर्दिष्टवान् तस्मिन्न् अहनि हे सुधन्वन् ! विदुर शान्त-व्रतस्योपशम-शीलस्य मुनेर् आश्रम-पदं स्थानं प्रति उपायाद् उपागात् ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

यस्मिन् भगवतो नेत्रान्न्यपतन्नश्रुबिन्दवः।
कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम्॥

मूलम्

यस्मिन् भगवतो नेत्रान्न्यपतन्न11श्रुबिन्दवः।
कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम्॥ ३८ ॥

वीरराघवः

आश्रम-पदं वर्णयति सप्तभिः । यस्मिन्न् इति । प्रपन्ने कर्दमे भृशम् अत्यन्तम् अर्पितया निहितया कृपया संपरीतस्य सम्यक् परितो व्याप्तस्य भगवतो नेत्राद् धर्षविन्दव आनन्दाश्रूणि यस्मिन् सरस्य् अपतन् ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम्।
पुण्यं शिवामृतजलं महर्षिगणसेवितम्॥

मूलम्

तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम्।
पुण्यं शिवामृतजलं महर्षिगणसेवितम्॥ ३९ ॥

अनुवाद (हिन्दी)

सरस्वतीके जलसे भरा हुआ यह बिन्दुसरोवर वह स्थान है, जहाँ अपने शरणागत भक्त कर्दमके प्रति उत्पन्न हुई अत्यन्त करुणाके वशीभूत हुए भगवान‍्के नेत्रोंसे आँसुओंकी बूँदें गिरी थीं। यह तीर्थ बड़ा पवित्र है, इसका जल कल्याणमय और अमृतके समान मधुर है तथा महर्षिगण सदा इसका सेवन करते हैं॥ ३८-३९॥

वीरराघवः

तत् सरः बिन्दु-सरो नाम इति प्रसिद्धम् । इदम् एव बिन्दु-सरः शब्दस्य प्रवृत्ति-निमित्तं यद् धरि-हर्ष-बिन्दु-निपतनाद् आविर्भावः । कथंभूतं सरस्वत्या नद्या परितः श्रितं बलयितं पुण्यम् उपस्पर्शनादिभिः पुण्य-साधनं शिवम् अमृततुल्यं जलं यस्मिंस् तन् महर्षि-गणैः सेवितम् अहरहर् उपस्पृश्यमानम् ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

पुण्यद्रुमलताजालैः कूजत्पुण्यमृगद्विजैः।
सर्वर्तुफलपुष्पाढ्यं वनराजिश्रियान्वितम्॥

मूलम्

पुण्यद्रुमलताजालैः कूजत्पुण्यमृगद्विजैः।
सर्वर्तुफलपुष्पाढ्यं वनराजिश्रियान्वितम्॥ ४० ॥

अनुवाद (हिन्दी)

उस समय बिन्दुसरोवर पवित्र वृक्ष-लताओंसे घिरा हुआ था, जिनमें तरह-तरहकी बोली बोलनेवाले पवित्र मृग और पक्षी रहते थे, वह स्थान सभी ऋतुओंके फल और फूलोंसे सम्पन्न था और सुन्दर वनश्रेणी भी उसकी शोभा बढ़ाती थी॥ ४०॥

वीरराघवः

कूजन्तः पुण्याः मृगा द्विजाः शकुनयश् च येषु तैः पुण्यानां द्रुमाणां लतानां च जालैः समूहैः सर्वर्तुषु यानि फलानि पुष्पाणि च तैर् आढ्या शालिनी या वनराजिर् वनपंक्तिस् तस्याः श्रिया शोभयान्वितं युक्तम् ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

मत्तद्विजगणैर्घुष्टं मत्तभ्रमरविभ्रमम्।
मत्तबर्हिनटाटोपमाह्वयन्मत्तकोकिलम्॥

मूलम्

मत्तद्विजगणैर्घुष्टं12 मत्तभ्रमरविभ्रमम्।
मत्तबर्हि13नटाटोपमाह्वयन्मत्तकोकिलम्॥ ४१ ॥

अनुवाद (हिन्दी)

वहाँ झुंड-के-झुंड मतवाले पक्षी चहक रहे थे, मतवाले भौंरे मँडरा रहे थे, उन्मत्त मयूर अपने पिच्छ फैला-फैलाकर नटकी भाँति नृत्य कर रहे थे और मतवाले कोकिल कुहू-कुहू करके मानो एक-दूसरेको बुला रहे थे॥ ४१॥

वीरराघवः

मत्ता ये द्विजास् तैर् घुष्टं नादितं मत्ता मधुपान-मत्ता ये भ्रमरास् तेषां विभ्रमो विलासो यस्मिन् मत्ता बर्हिणो मयूरा एव नटास् तेषाम् आटोपो नृत्य-सम्भ्रमो यस्मिन् आह्वयन्तो मिथः मत्ताः कोकिला यस्मिन् ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

कदम्बचम्पकाशोककरञ्जबकुलासनैः।
कुन्दमन्दारकुटजैश्चूतपोतैरलङ्‍कृतम्॥

मूलम्

कदम्ब14चम्पकाशोककरञ्जबकुलासनैः।
कुन्दमन्दारकुटजैश्चूतपोतैरलङ्‍कृतम्॥ ४२ ॥

अनुवाद (हिन्दी)

वह आश्रम कदम्ब, चम्पक, अशोक, करंज, बकुल, असन, कुन्द, मन्दार, कुटज और नये-नये आमके वृक्षोंसे अलंकृत था॥ ४२॥

वीरराघवः

कदम्बादिभिः पुष्प-वृक्षैर् अलंकृतम् ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

कारण्डवैः प्लवैर्हंसैः कुररैर्जलकुक्‍कुटैः।
सारसैश्चक्रवाकैश्च चकोरैर्वल्गु कूजितम्॥

मूलम्

कारण्डवैः प्लवैर्हंसैः कुररैर्जलकुक्‍कुटैः।
सारसैश्चक्रवाकैश्च चकोरैर्वल्गु कूजितम्॥ ४३ ॥

अनुवाद (हिन्दी)

वहाँ जलकाग, बत्तख आदि जलपर तैरनेवाले पक्षी हंस, कुरर, जलमुर्ग, सारस, चकवा और चकोर मधुर स्वरसे कलरव कर रहे थे॥ ४३॥

वीरराघवः

कारण्डव्-आदिभिः पक्षिभिः वल्गु मधुरं सुन्दरं वा यथा तथा कूजितम् ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

तथैव हरिणैः क्रोडैः श्वाविद‍्गवयकुञ्जरैः।
गोपुच्छैर्हरिभिर्मर्कैर्नकुलैर्नाभिभिर्वृतम्॥

मूलम्

तथैव हरिणैः क्रोडैः श्वाविद‍्गवयकुञ्जरैः।
गोपुच्छैर्हरिभिर्मर्कैर्नकुलैर्नाभिभिर्वृतम्॥ ४४ ॥

अनुवाद (हिन्दी)

हरिन, सूअर, स्याही, नीलगाय, हाथी, लंगूर, सिंह, वानर, नेवले और कस्तूरीमृग आदि पशुओंसे भी वह आश्रम घिरा हुआ था॥ ४४॥

वीरराघवः

तथा हरिणादिभिर् मृगैर् वृतं तत्र क्रोडः सूकरः श्वावित् शल्यकः मर्को मर्कटः तद्-विशेषो गोपुच्छः हरिः सिंहः नाभिः कस्तूरी-मृगः ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

प्रविश्य तत्तीर्थवरमादिराजः सहात्मजः।
ददर्श मुनिमासीनं तस्मिन् हुतहुताशनम्॥

मूलम्

प्रविश्य तत्तीर्थवरमादिराजः सहात्मजः15
ददर्श मुनिमासीनं तस्मिन् हुतहुताशनम्॥ ४५ ॥

अनुवाद (हिन्दी)

आदिराज महाराज मनुने उस उत्तम तीर्थमें कन्याके सहित पहुँचकर देखा कि मुनिवर कर्दम अग्निहोत्रसे निवृत्त होकर बैठे हुए हैं॥ ४५॥

वीरराघवः

सहानुगः सभृत्यः आदि-राजो मनुः तत्-तीर्थ-श्रेष्ठं प्रविश्य तस्मिस् तीर्थे हुतः हुताशनो येन तं कृताग्नि-कार्यम् इत्य् अर्थः । आसीनम् उपविष्टं मुनिं ददर्श ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

विद्योतमानं वपुषा तपस्युग्रयुजा चिरम्।
नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात्।
तद्‍व्याहृतामृतकलापीयूषश्रवणेन च॥

मूलम्

विद्योतमानं वपुषा तपस्यु16ग्रयुजा चिरम्।
नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात्।
तद्‍व्याहृतामृतकलापीयूषश्रवणेन च॥ ४६ ॥

अनुवाद (हिन्दी)

बहुत दिनोंतक उग्र तपस्या करनेके कारण वे शरीरसे बड़े तेजस्वी दीख पड़ते थे तथा भगवान‍्के स्नेहपूर्ण चितवनके दर्शन और उनके उच्चारण किये हुए कर्णामृतरूप सुमधुर वचनोंको सुननेसे, इतने दिनोंतक तपस्या करनेपर भी वे विशेष दुर्बल नहीं जान पड़ते थे॥ ४६॥

वीरराघवः

पुनर् मुनिम् एव विशिनष्टि सार्ध-द्वयेन । तपसि चिरम् उग्रो युग्-योगो यस्य तेन वपुषा विद्योतमानं भगवतः स्नेह-युक्तं यद् अपाङ्गावलोकनं कटाक्ष-प्रसरणं तस्मात् ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम्।
उपसंसृत्य मलिनं यथार्हणमसंस्कृतम्॥

मूलम्

प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम्।
उपसंसृत्य मलिनं यथार्हणमसंस्कृतम्॥ ४७ ॥

मूलम् - कर्णावती

प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम्।
उपसंश्रित्य मलिनं यथार्हणमसंस्कृतम्॥ ४७ ॥

अनुवाद (हिन्दी)

उनका शरीर लम्बा था, नेत्र कमलदलके समान विशाल और मनोहर थे, सिरपर जटाएँ सुशोभित थीं और कमरमें चीर-वस्त्र थे। वे निकटसे देखनेपर बिना सानपर चढ़ी हुई महामूल्य मणिके समान मलिन जान पड़ते थे॥ ४७॥

वीरराघवः

तस्य भगवतो व्याहृतं भाषणम् एवामृत-कलामृत-मयस्य चन्द्रस्य कला तन्-मयं पीयूषं तस्य स्रवेण च नाति-क्षामं तपसा कृशम् अपि नाति-कृशम् इत्य् अर्थः । प्रांशुम् उन्नतं जटिलं सञ्जात-जटम् उपसंसृत्य समीपम् आगत्य मलिनं ददर्शेति पूर्वैव क्रिया । अर्ह्यते ऽनेनेत्य् अर्हणं महा-रत्नं तद् असंस्कृतम् अनिर्णिक्तं यथा मलिनं भवति तद्-वत् ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

अथोटजमुपायातं नृदेवं प्रणतं पुरः।
सपर्यया पर्यगृह्णात्प्रतिनन्द्यानुरूपया॥

मूलम्

अथोटजमुपायातं नृदेवं प्रणतं पुरः।
सपर्यया पर्यगृह्णात्प्रतिनन्द्यानुरूपया॥ ४८ ॥

अनुवाद (हिन्दी)

महाराज स्वायम्भुव मनुको अपनी कुटीमें आकर प्रणाम करते देख उन्होंने उन्हें आशीर्वादसे प्रसन्न किया और यथोचित आतिथ्यकी रीतिसे उनका स्वागत-सत्कार किया॥ ४८॥

वीरराघवः

अथानन्तरम् उटजं पर्णशालाम् उपायान्तं प्राप्तं पुरः पादयोः समीपे प्रणतं नमस् कुर्वन्तं नृ-देवं मनुं प्रतिनन्द्याशीर्भिर् अभिनन्द्यानुरूपया सपर्यया पूजया प्रत्यगृह्णात् सत्कृतवान् ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

गृहीतार्हणमासीनं संयतं प्रीणयन्मुनिः।
स्मरन् भगवदादेशमित्याह श्लक्ष्णया गिरा॥

मूलम्

गृहीतार्हणमासीनं संयतं प्रीणयन्मुनिः।
स्मरन् भगवदादेशमित्याह श्लक्ष्णया गिरा॥ ४९ ॥

अनुवाद (हिन्दी)

जब मनुजी उनकी पूजा ग्रहण कर स्वस्थ-चित्तसे आसनपर बैठ गये, तब मुनिवर कर्दमने भगवान‍्की आज्ञाका स्मरण कर उन्हें मधुर वाणीसे प्रसन्न करते हुए इस प्रकार कहा—॥ ४९॥

वीरराघवः

गृहीतं प्रतिगृहीतम् अर्हणं पूजनं येन तम् आसीनम् उपविष्टं संयतं स्व-वाक्य-श्रवणे सम्यक् यतमानं मुनिं मुनिः कर्दमः श्लक्ष्णया मधुरया गिरा स्वागत-प्रश्न-रूपया वाचा नृपं प्रीणयन् तर्पयन्न् इति वक्ष्यमाण-प्रकारेणाह जगाद ॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

नूनं चङ्‍क्रमणं देव सतां संरक्षणाय ते।
वधाय चासतां यस्त्वं हरेः शक्तिर्हि पालिनी॥

मूलम्

नूनं चङ्‍क्रमणं देव सतां संरक्षणाय ते।
वधाय चासतां यस्त्वं हरेः शक्तिर्हि पालिनी॥ ५० ॥

अनुवाद (हिन्दी)

‘देव! आप भगवान् विष्णुकी पालनशक्तिरूप हैं, इसलिये आपका घूमना-फिरना निःसन्देह सज्जनोंकी रक्षा और दुष्टोंके संहारके लिये ही होता है॥ ५०॥

वीरराघवः

हे देव मनो ! ते तव चंक्रमणं पर्यटनं सतां रक्षणायासतां वधाय च यद् यस्मात् त्वं पालिनी जगत्-पालिनी हरेर् भगवतः शक्तिः हरेर् जगत्-पालकत्व-शक्ति-युक्तस् त्वम् इत्य् अर्थः ॥ ५० ॥

श्लोक-५१

विश्वास-प्रस्तुतिः

योऽर्केन्द्वग्नीन्द्रवायूनां यमधर्मप्रचेतसाम्।
रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः॥

मूलम्

योऽर्केन्द्वग्नीन्द्रवायूनां यमधर्मप्रचेतसाम्।
रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः॥ ५१ ॥

अनुवाद (हिन्दी)

आप साक्षात् विशुद्ध विष्णुस्वरूप हैं तथा भिन्न-भिन्न कार्योंके लिये सूर्य, चन्द्र, अग्नि, इन्द्र, वायु, यम, धर्म और वरुण आदि रूप धारण करते हैं; आपको नमस्कार है॥ ५१॥

वीरराघवः

प्रसङ्गात् स्मृतं भगवन्तं प्रणमति । य इति । यो विष्णुर् अकादीनां रूपाणि शिला-पुत्रकस्येदं शरीरम् इतिवद् अभेद-संसर्गे षष्ठी अर्कादि-रूपाणि शरीराणि स्थाने तत्-तद्-उचित-जगत्-परिपालनावसरे आधत्से बिभर्षि तस्मै विष्णवे शुक्लाय निर्मलाय ते तुभ्यं भगवते नमः ॥ ५१ ॥

श्लोक-५२

विश्वास-प्रस्तुतिः

न यदा रथमास्थाय जैत्रं मणिगणार्पितम्।
विस्फूर्जच्चण्डकोदण्डो रथेन त्रासयन्नघान्॥

मूलम्

न यदा रथमास्थाय जैत्रं मणिगणार्पितम्।
विस्फूर्जच्चण्डकोदण्डो रथेन त्रासयन्नघान्॥ ५२ ॥

वीरराघवः

एवं विष्णुं प्रणम्य मुनिर् मनोर् आगमन-प्रयोजनं प्रष्टुकामः प्रथमं तत्-प्रश्ने जगद्-रक्षणाय पर्यटन्ते मां किम्-अर्थम् आगतो ऽसीति किं पृच्छसीति मा वादीर् इत्य् अभिप्रायेण प्रधान-प्रयोजनं जगद्-रक्षणम् एवानुषङ्गिकम् इहागमन-प्रयोजनं यत्-किञ्चिद् अस्ति चेत् कथ्यताम् इत्य् आह । यावद् अध्याय-समाप्ति । जैत्रं जय-शीलं मणि-गणैर् अर्पितं खचितं रथम् आस्थायाधिरुह्य चण्डं परेषां भय-जनकं कोदण्डं धनुर् यस्य स विस्फूर्जन् ध्वनयन् कोदण्डम् इति शेषः । द्वितीयान्त-पाठे तु कर्म-धारयः चण्ड-को-दण्डं विस्फूर्जन् रथेनाघान् धर्म-विरोधिनः त्रासयन् उद्वेजयन् ॥ ५२ ॥

श्लोक-५३

विश्वास-प्रस्तुतिः

स्वसैन्यचरणक्षुण्णं वेपयन्मण्डलं भुवः।
विकर्षन् बृहतीं सेनां पर्यटस्यंशुमानिव॥

मूलम्

स्वसैन्यचरणक्षुण्णं वेपयन्मण्डलं भुवः।
विकर्षन् बृहतीं17 सेनां पर्यटस्यंशुमानिव॥ ५३ ॥

वीरराघवः

स्व-सैन्यानां चरणैः क्षुण्णं संघट्टितं भुवो मण्डलं वेपयन् कम्पयन् महतीं सेनां विकर्षन्न् आकर्षयन् सूर्य इव यदा यर्हि न पर्यटसि ॥ ५३ ॥

श्लोक-५४

विश्वास-प्रस्तुतिः

तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः।
भगवद्रचिता राजन् भिद्येरन् बत दस्युभिः॥

मूलम्

तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः।
भगवद्रचिता18 राजन् भिद्येरन् बत दस्युभिः॥ ५४ ॥

वीरराघवः

तत् तद् एव वर्णाश्रम-प्रयुक्ता भगवता रचिताः कल्पिताः सर्वे सेतवः धर्म-मर्यादा हे राजन् ! दस्युभिः धर्म-विरोधिभिर् भिद्येरन् नश्येरन् बतेति खेदे ॥ ५४ ॥

श्लोक-५५

विश्वास-प्रस्तुतिः

अधर्मश्च समेधेत लोलुपैर्व्यङ्कुशैर्नृभिः।
शयाने त्वयि लोकोऽयं दस्युग्रस्तो विनङ्क्ष्यति॥

मूलम्

अधर्मश्च समेधेत लोलुपैर्व्यङ्कुशैर्नृभिः।
शयाने त्वयि लोकोऽयं दस्युग्रस्तो विनङ्क्ष्यति॥ ५५ ॥

अनुवाद (हिन्दी)

आप मणियोंसे जड़े हुए जयदायक रथपर सवार हो अपने प्रचण्ड धनुषकी टंकार करते हुए उस रथकी घरघराहटसे ही पापियोंको भयभीत कर देते हैं और अपनी सेनाके चरणोंसे रौंदे हुए भूमण्डलको कँपाते अपनी उस विशाल सेनाको साथ लेकर पृथ्वीपर सूर्यके समान विचरते हैं। यदि आप ऐसा न करें तो चोर-डाकू भगवान‍्की बनायी हुई वर्णाश्रमधर्मकी मर्यादाको तत्काल नष्ट कर दें तथा विषयलोलुप निरंकुश मानवोंद्वारा सर्वत्र अधर्म फैल जाय। यदि आप संसारकी ओरसे निश्चिन्त हो जायँ तो यह लोक दुराचारियोंके पंजेमें पड़कर नष्ट हो जाय॥ ५२—५५॥

वीरराघवः

व्यङ्कुशैः निष्प्रतिपक्षैः लोलुपैः केवलार्थ-काम-परायणैः नृभिर् अधर्मश् च समेधेत वर्द्धेत त्वयि शयाने सत्य् अयं लोकः दस्यु-ग्रस्तः विनङ्क्ष्यति नाशं यास्यति ॥ ५५ ॥

श्लोक-५६

विश्वास-प्रस्तुतिः

अथापि पृच्छे त्वां वीर यदर्थं त्वमिहागतः।
तद्वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा॥

मूलम्

अथापि पृच्छे त्वां वीर यदर्थं त्वमिहागतः।
तद्वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा॥ ५६ ॥

अनुवाद (हिन्दी)

तो भी वीरवर! मैं आपसे पूछता हूँ कि इस समय यहाँ आपका आगमन किस प्रयोजनसे हुआ है; मेरे लिये जो आज्ञा होगी उसे मैं निष्कपट भावसे सहर्ष स्वीकार करूँगा॥ ५६॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकविंशोऽध्यायः॥ २१ ॥

वीरराघवः

अतो लोक-रक्षणम् एव तवाटनस्य प्रधानं प्रयोजनं तथापि हे वीर ! त्वं यद्-अर्थम् इहास्मद्-आश्रमे आगतः तत्-प्रयोजनं त्वां प्रति पृच्छे वयं तत् त्वद् आगमन-प्रयोजनं निर्व्यलीकेन निष्कपटेन हृदा चित्तेन प्रतिपद्यामहे ऽङ्गीकुर्महे ॥ ५६ ॥

इति श्री-भागवत-महा-पुराणे तृतीय-स्कंधे श्रीमद्-वीर-राघवाचार्य-कृत-भागवत-चन्द्रिकायाम् एकविंशो ऽध्यायः ॥ २१ ॥


  1. प्रा. पा. - स समा । ↩︎

  2. प्रा. पा. - तत्त्वरा । ↩︎

  3. प्रा. पा. - भ्रमिवायु । ↩︎

  4. प्रा. पा. - धावतु । ↩︎

  5. प्रा. पा. - भगवान् वि. । ↩︎

  6. प्रा. पा. - सम्मोहितं । ↩︎

  7. प्रा. पा. - महामते । ↩︎

  8. प्राचीने पाठे ‘मैत्रेय उवाच’ अयमंशो न । ↩︎

  9. प्रा. पा. - आस्तेऽस्मिन् । ↩︎

  10. प्रा. पा. - सुधन्ये न्वहनि । ↩︎

  11. प्रा. पा. - पतन्हर्षविन्दवः । ↩︎

  12. प्रा. पा. - गणैर्जुष्टं । ↩︎

  13. प्रा. पा. - बर्हिण याघोषमा । ↩︎

  14. प्रा. पा. - कदम्बबकुलाशोककरञ्ज वञ्जुलासनैः । ↩︎

  15. प्रा. पा. - सहानुगः । ↩︎

  16. प्रा. पा. - रुजा । ↩︎

  17. प्रा. पा. – महतीं । ↩︎

  18. प्रा. पा. - भगवद्ग्र्थिता । ↩︎