[विंशोऽध्यायः]
भागसूचना
ब्रह्माजीकी रची हुई अनेक प्रकारकी सृष्टिका वर्णन
श्लोक-१
मूलम् (वचनम्)
शौनक उवाच
विश्वास-प्रस्तुतिः
महीं प्रतिष्ठामध्यस्य सौते स्वायम्भुवो मनुः।
कान्यन्वतिष्ठद् द्वाराणि मार्गायावरजन्मनाम्॥
मूलम्
महीं प्रतिष्ठामध्य1स्य सौते स्वायम्भुवो मनुः।
कान्यन्वतिष्ठद् द्वाराणि मार्गायावरजन्मनाम्॥ १ ॥
अनुवाद (हिन्दी)
शौनकजी कहते हैं—सूतजी! पृथ्वीरूप आधार पाकर स्वायम्भुव मनुने आगे होनेवाली सन्ततिको उत्पन्न करनेके लिये किन-किन उपायोंका अवलम्बन किया?॥ १॥
वीरराघवः
द्वितीय-स्कन्धान्ते ‘यथासौ भगवान् सूत ! क्षत्ता भागवतोत्तम’ इत्य् आदिना विदुर-मैत्रेय-सम्वादे शौनके पृष्ठे राजा परीक्षिता पृष्टो यद् अवोचद् इत्य् आदिना त्वया पृष्ठ एव विदुर-मैत्रेय-सम्वादो राज्ञा पृष्टः शुकेनोक्तः । अतो राज-शुक-प्रश्नोत्तरानुसारेणैव विदुर-मैत्रेय-सम्वादं वर्णयामीत्य् उपक्रम्य सूतेनैकोनविंशत्य् अध्याय-गणेन वर्णिते सति पुनः शौनकः ‘स’ वै स्वायम्भुवः सम्राड् इत्य् आदिना विदुर-पृष्टं यदा स्व-भार्यया साकम् इति मैत्रेयेणोपक्रान्तं स्वायंभुव-चरित्रं प्रष्टुकामः परम-प्रकृतान् दशमाध्यायादौ अन्तर्हिते भगवति ब्रह्मा लोक-पितामहः प्रजाः ससर्ज कतिधा दैहिकीर्मानसीर् विभुर् इति विदुर-पृष्टान् दैहिक-मानसिक-प्रजा-सृष्टि-भेदान् कांश्चिन् मैत्रेयेण वर्णितान् एव सूत-मुखाद् आश्रुत्य् अवशिष्टान् तद्-भेदान् प्रकृतम् अनुचरितं च पृच्छति शौनकः नवभिः श्लोकैः । यद्यपि परीक्षिन्-प्रश्नो ऽपि शौनकेन प्रष्टव्यः शुकोत्तरम् एव सूतेनापि वक्तव्यं न तु विदुर-पृष्टं नापि मैत्रेयेणोक्तं सूतेन वक्तव्यं सूत-शौनक-सम्वादस्य शुक-परीक्षित्-सम्वाद-रूपत्वात् तथापि विदुर-प्रश्नेनैव परीक्षित्-प्रश्नो ऽपि पृष्टप्राय इत्य् अभिप्रेत्य साक्षाद् विदुर-प्रश्नम् एव पृच्छति शौनकः । महीम् इति । हे सौते सूतस्य रोमहर्षणस्य पुत्र ! महीं भूमिं प्रतिष्ठां यथास्थानम् अध्यास्य प्रापय्य स्वायम्भुवो मनुर् अवरम् अर्वाचीनं जन्म येषां तेषां मार्गाय मृग्यते इति मार्गः धर्मादि-चतुर्-विध-रूपः पुरुषार्थस् तस्मै कानि द्वाराण्य् उपायान् अन्वतिष्ठद् अनुष्ठितवान् ‘यद्यद् आचरति श्रेष्ठ’ इति न्यायेन कान् पुरुषार्थोपायान् लोक-मर्यादा-पालनाय स्वयम् अन्वतिष्ठद् इत्य् अर्थः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
क्षत्ता महाभागवतः कृष्णस्यैकान्तिकः सुहृत्।
यस्तत्याजाग्रजं कृष्णे सापत्यमघवानिति॥
मूलम्
क्षत्ता महाभागवतः कृष्णस्यैकान्तिकः सुहृत्।
यस्तत्याजाग्रजं कृष्णे सापत्यमघवानिति॥ २ ॥
अनुवाद (हिन्दी)
विदुरजी बड़े ही भगवद्भक्त और भगवान् श्रीकृष्णके अनन्य सुहृद् थे। इसीलिये उन्होंने अपने बड़े भाई धृतराष्ट्रको, उनके पुत्र दुर्योधनके सहित, भगवान् श्रीकृष्णका अनादर करनेके कारण अपराधी समझकर त्याग दिया था॥ २॥
वीरराघवः
एवं प्रकृतं मनु-चरितं पृष्ट्वा परम-प्रकृत-प्रजा-सृष्टि-भेदाः वैदुरिक-प्रश्नेनैव पृष्टप्राया इत्य् अभिप्रेत्य वैदुरिक-प्रश्ने ऽपि पिपृच्छिषया प्रथमं विदुरं प्रशंसति । क्षत्तेत्य्-आदि-द्वाभ्याम् । क्षत्ता विदुरः महा-भागवतः निरतिशय-भगवद्-भक्ति-युक्तः अत एव कृष्णस्य भगवतः ऐकान्तिकः असाधारणः सुहृन् निरतिशय-प्रीति-विषयः अत्र “प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः" इति भगवद्-उक्त-रीत्या भगवान् अपि तस्य सुहृद् इति बोद्ध्यं सुहृत्त्वम् एव स्पष्टयति । यः क्षत्ता सापत्यं दुर्योधनाद्यपत्य-सहितम् अग्र-जं धृतराष्ट्रं कृष्णे भगवत्य् अघवान् सापराध इति तत्याज त्यक्तवान् श्रीकृष्णोक्त-मन्त्रानादाराद् भगवद् आश्रितेषु धर्म-मर्यादानुवर्तिषु पाण्डु-तनयेषु द्रोहाचरणाच् च कृष्णे ऽघवान् इति भावः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
द्वैपायनादनवरो महित्वे तस्य देहजः।
सर्वात्मना श्रितः कृष्णं तत्परांश्चाप्यनुव्रतः॥
मूलम्
द्वैपायनादनवरो महित्वे तस्य देहजः।
सर्वात्मना श्रितः कृष्णं तत्परांश्चाप्यनुव्रतः॥ ३ ॥
अनुवाद (हिन्दी)
वे महर्षि द्वैपायनके पुत्र थे और महिमामें उनसे किसी प्रकार कम नहीं थे तथा सब प्रकार भगवान् श्रीकृष्णके आश्रित और कृष्णभक्तोंके अनुगामी थे॥ ३॥
वीरराघवः
किञ्च महत्त्वे माहात्म्ये द्वैपायनाद् द्वैपायनाद् धेतोः विदुरः अनवरः अन्यूनः सर्वात्मना समस्त-भावेन “माता पिता भ्राता निवासः शरणं सुहृद् गतिश् च नारायण” इत्य् उक्त-भावेनेत्य् अर्थः । कृष्णं भगवन्तम् आश्रितः तत्-परां भगवत्-परांश्-चानुव्रतो ऽनुवर्तमानः सेवमान इत्य् अर्थः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
किमन्वपृच्छन्मैत्रेयं विरजास्तीर्थसेवया।
उपगम्य कुशावर्त आसीनं तत्त्ववित्तमम्॥
मूलम्
किमन्वपृच्छन्मैत्रेयं विरजास्तीर्थसेवया।
उपगम्य कुशावर्त आसीनं तत्त्ववित्तमम्॥ ४ ॥
अनुवाद (हिन्दी)
तीर्थसेवनसे उनका अन्तःकरण और भी शुद्ध हो गया था। उन्होंने कुशावर्त्तक्षेत्र (हरिद्वार) में बैठे हुए तत्त्वज्ञानियोंमें श्रेष्ठ मैत्रेयजीके पास जाकर और क्या पूछा?॥ ४॥
वीरराघवः
एवं विदुरं प्रस्तुत्य तत्-पृष्टम् अनुपृच्छति किम् इत्य् आदिभिस् त्रिभिः । तीर्थानां गङ्गादि-पुण्य-तीर्थानां सेवया त्रिसवन-स्नानादिना विरजाः विधूत-बाह्याभ्यन्तर-मलः विदुरः कुशावर्ते हरिद्वार-कुशावर्त्त-बिल्वक-नील-पर्वत-कनखलाख्यानि पञ्च तीर्थानि गङ्गाद्वारि सन्ति तत्र कुशावर्ते आसीनं तत्त्वविद्-अग्रेसरं मैत्रेयम् उपसङ्गम्य किम् अन्यद् अपृच्छद् अनुपृष्टवान् इत्य् अर्थः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
तयोः संवदतोः सूत प्रवृत्ता ह्यमलाः कथाः।
आपो गाङ्गा इवाघघ्नीर्हरेः पादाम्बुजाश्रयाः॥
मूलम्
तयोः संवदतोः सूत प्रवृत्ता ह्यमलाः कथाः।
आपो गाङ्गा इवाघघ्नीर्हरेः पादाम्बुजाश्रयाः॥ ५ ॥
अनुवाद (हिन्दी)
सूतजी! उन दोनोंमें वार्तालाप होनेपर श्रीहरिके चरणोंसे सम्बन्ध रखनेवाली बड़ी पवित्र कथाएँ हुई होंगी, जो उन्हीं चरणोंसे निकले हुए गंगाजलके समान सम्पूर्ण पापोंका नाश करनेवाली होंगी॥ ५॥
वीरराघवः
यत् किम् अप्य् अपृच्छत् किं तद् इत्य् आह । हे सूत ! तयोर् विदुर-मैत्रेययोः सम्वदतोः सम्वादं कुर्वतोर् अमलाः शृण्वल् लोक-पावन्यः कथाः भगवत्-कथाः प्रवृत्ता भवेयुः । अमलत्वे दृष्टान्तः हरेर् भगवतः पादाम्बुजाश्रयाः पादाम्बुज-प्रसूताः अजघ्न्य उपस्पृशताम् अघनिवर्त्तिकाः गाङ्गा गङ्गा-सम्बधिन्यः आप इवेति ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
ता नः कीर्तय भद्रं ते कीर्तन्योदारकर्मणः।
रसज्ञः को नु तृप्येत हरिलीलामृतं पिबन्॥
मूलम्
ता नः कीर्तय भद्रं ते कीर्तन्योदारकर्मणः।
रसज्ञः को नु तृप्येत हरिलीलामृतं पिबन्॥ ६ ॥
अनुवाद (हिन्दी)
सूतजी! आपका मंगल हो, आप हमें भगवान्की वे पवित्र कथाएँ सुनाइये। प्रभुके उदार चरित्र तो कीर्तन करनेयोग्य होते हैं। भला, ऐसा कौन रसिक होगा जो श्रीहरिके लीलामृतका पान करते-करते तृप्त हो जाय॥ ६॥
वीरराघवः
कीर्त्तन्योदार-कर्मणः कीर्त्तनीय-जगद्-व्यापारादि-विस्तर-चेष्टितस्य भगवतस् ताः कथाः नो ऽस्मभ्यं कीर्त्तय कथय ते तुभ्यं भद्रं मङ्गलम् अस्तु पुनः पुनः भगवत्-कथाम् एव किं पृच्छसीत्य् अत्राह । रसज्ञः भगवत्-कथा-रसज्ञः हरेर् लीलैवामृतं तत् पिबन् को नु तृप्येत न को ऽपीत्य् अर्थः । अतो ऽतृप्यन् पृच्छामीत्य् अभिप्रायः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
एवमुग्रश्रवाः पृष्ट ऋषिभिर्नैमिषायनैः।
भगवत्यर्पिताध्यात्मस्तानाह श्रूयतामिति॥
मूलम्
एवमुग्रश्रवाः पृष्ट ऋषिभिर्नैमिषायनैः।
भगवत्यर्पिताध्यात्मस्तानाह श्रूयतामिति॥ ७ ॥
अनुवाद (हिन्दी)
नैमिषारण्यवासी मुनियोंके इस प्रकार पूछनेपर उग्रश्रवा सूतजीने भगवान्में चित्त लगाकर उनसे कहा—‘सुनिये’॥ ७॥
वीरराघवः
नैमिषं निमिष-क्षेत्रम् अयनं स्थानं येषां तैः नैमिष-क्षेत्र-वासिभिः शौनकादिभिर् एवम् उक्त-प्रकारेण पृष्ट उग्र-श्रवाः सूतः भगवत्य् अर्पितं निहितम् अध्यात्मम् अन्तः-करणं येन सः तान् नैमिषायनान् प्रति श्रूयताम् इत्य् आह । एवं विधानि वचनान्यैतद्-ग्रन्थ-कृता त्रैकाल्य-ज्ञानेन भगवता बादरायणेन स्व-कृत-ग्रन्थस्य तच्-छ्रोतृ-वक्तृ-क्रमेण भाविनीं प्रवृत्तिम् आलोच्य तत्-सन्दर्शनार्थं न्यस्तानि । अत इदं वचनं द्वैपायनीयम् एवेति साम्प्रदायिकाः । तच्-छिष्य-प्रशिष्यैः सन्दर्भाय विरचय्य न्यस्तानीत्य् अपरे ॥ ७ ॥
श्लोक-८
मूलम् (वचनम्)
सूत उवाच
विश्वास-प्रस्तुतिः
हरेर्धृतक्रोडतनोः स्वमायया
निशम्य गोरुद्धरणं रसातलात्।
लीलां हिरण्याक्षमवज्ञया हतं
सञ्जातहर्षो मुनिमाह भारतः॥
मूलम्
हरेर्धृतक्रोडतनोः स्वमायया निशम्य गोरुद्धरणं रसातलात्।
लीलां हिरण्याक्षमवज्ञया हतं सञ्जातहर्षो मुनिमाह 2भारतः॥ ८ ॥
अनुवाद (हिन्दी)
सूतजीने कहा—मुनिगण! अपनी मायासे वराहरूप धारण करनेवाले श्रीहरिकी रसातलसे पृथ्वीको निकालने और खेलमें ही तिरस्कारपूर्वक हिरण्याक्षको मार डालनेकी लीला सुनकर विदुरजीको बड़ा आनन्द हुआ और उन्होंने मुनिवर मैत्रेयजीसे कहा॥ ८॥
वीरराघवः
एवम् आपृष्टः सूतो वृत्त-वाराह-कथा-श्रवणे जात-हर्षो विदुरः प्रकृत-स्वायंभुव-चरितं प्रक्ष्यमाणः परम-प्रकृतान् प्रजा-सृष्टि-भेदान् पृच्छद् इत्य् आहैकेन । हरेर् इति । स्व-मायया स्व-सङ्कल्पेन धृत-कोड-तनोर् धृत-वराह-रूपस्य हरेर् लीलां लीला-रूपं रसातलाद् भूमेर् उद्धरणम् अवज्ञया हतं हिरण्याक्षं च निशम्य श्रुत्वा सञ्जात-हर्षो भारतः विदुरः मुनिं मैत्रेयम् आह ॥ ८ ॥
श्लोक-९
मूलम् (वचनम्)
विदुर उवाच
विश्वास-प्रस्तुतिः
प्रजापतिपतिः सृष्ट्वा प्रजासर्गे प्रजापतीन्।
किमारभत मे ब्रह्मन् प्रब्रूह्यव्यक्तमार्गवित्॥
मूलम्
प्रजापतिपतिः सृष्ट्वा प्रजासर्गे प्रजापतीन्।
किमारभत मे ब्रह्मन् प्रब्रूह्यव्यक्तमार्गवित्॥ ९ ॥
अनुवाद (हिन्दी)
विदुरजीने कहा—ब्रह्मन्! आप परोक्ष विषयोंको भी जाननेवाले हैं; अतः यह बतलाइये कि प्रजापतियोंके पति श्रीब्रह्माजीने मरीचि आदि प्रजापतियोंको उत्पन्न करके फिर सृष्टिको बढ़ानेके लिये क्या किया॥ ९॥
वीरराघवः
उक्तिम् एवाह । त्रिभिः । प्रजा-पतीनां मरीच्यादीनां पतिः ब्रह्मा प्रजासर्गे निमित्ते प्रजापतीन् सृष्ट्वा किम् आरभत किम् अकुर्वत मे मह्यं ब्रूहि हे ब्रह्मन् ! यतस् त्वम् अव्यक्त-मार्गविन् न व्यज्यत इत्य् अव्यक्तम् अतीन्द्रियं तस्य मार्गस्य रूपं वेत्ति अतस् त्वं प्रभुः समर्थ इत्य् अर्थः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनुः।
ते वै ब्रह्मण आदेशात्कथमेतदभावयन्॥
मूलम्
ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनुः।
ते वै ब्रह्मण आदेशात्कथमेतदभावयन्॥ १० ॥
अनुवाद (हिन्दी)
मरीचि आदि मुनीश्वरोंने और स्वायम्भुव मनुने भी ब्रह्माजीकी आज्ञासे किस प्रकार प्रजाकी वृद्धि की?॥ १०॥
वीरराघवः
मरीच्यादयो ये विप्राः यः स्वायंभुवो मनुश् चेति वै ब्रह्मणश् चतुर्मुखस्यादेशान् निर्देशाद् एतद् विश्वं कथम् अभावयन्न् असृजन् ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
सद्वितीयाः किमसृजन् स्वतन्त्रा उत कर्मसु।
आहोस्वित्संहताः सर्व इदं स्म समकल्पयन्॥
मूलम्
सद्वितीयाः किमसृजन् स्वतन्त्रा उत कर्मसु।
आहोस्वित्संहताः सर्व इदं स्म3 समकल्पयन्॥ ११ ॥
अनुवाद (हिन्दी)
क्या उन्होंने इस जगत्को पत्नियोंके सहयोगसे उत्पन्न किया या अपने-अपने कार्यमें स्वतन्त्र रहकर अथवा सबने एक साथ मिलकर इस जगत्की रचना की?॥ ११॥
वीरराघवः
कथम् इति स्वाभिपृष्टम् एवं प्रकारं मुनि-मुखान् निश्चिचीषया विकल्पयति । सद्वितीयाः सभार्याः किम् असृजन् । किं शब्दः प्रश्ने उताहोस्वित् कर्मसु सृष्ट्य्-आदि-व्यापारेषु स्वतन्त्रा भार्या-निरपेक्षा आहोस्वित् सर्वे मरीच्य्-आदयः संहताः परस्पर-सापेक्षया इदं विश्वं समकल्पयन् असृजन् स्म ॥ ११ ॥
श्लोक-१२
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
दैवेन दुर्वितर्क्येण परेणानिमिषेण च।
जातक्षोभाद्भगवतो महानासीद् गुणत्रयात्॥
मूलम्
दैवेन दुर्वितर्क्येण परेणानिमिषेण च।
जातक्षोभाद्भगवतो महानासीद् गुणत्रयात्॥ १२ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजीने कहा—विदुरजी! जिसकी गतिको जानना अत्यन्त कठिन है—उस जीवोंके प्रारब्ध, प्रकृतिके नियन्ता पुरुष और काल—इन तीन हेतुओंसे तथा भगवान्की सन्निधिसे त्रिगुणमय प्रकृतिमें क्षोभ होनेपर उससे महत्तत्त्व उत्पन्न हुआ॥ १२॥
वीरराघवः
एवम् आपृष्टो मैत्रेयः सर्ग-भेदानां प्रतिपिपादयिषया पूर्वोक्तां महदाद्य्-अविद्या-पञ्च-पर्वान्तां सृष्टिम् अनुवदति सप्तभिः । दैवेनेति । दुर्वितर्क्येणाचिन्त्य-प्रभावेण दैवेनेश्वरेण कर्त्रा परेण प्रकृति-पुरुष-विलक्षण-परमात्म-केनानिमिषेण च कालेन च हेतुना जातः क्षोभः कार्योन्-मुख्य-रूप-व्यापारो यस्य तस्माद् भगवतः भगवत्-संबन्धिनः तच्-छरीर-भूताद् इत्य् अर्थः । गुण-त्रयात्मकात् प्रधानान् महत्-तत्त्वम् आसीत् । अत्र भगवतो गुण-त्रयाद् इत्य् अनेन ब्रह्मात्मक-प्रधानस्योपादानत्व-कथनेन विशिष्टोपादानत्वं दैवेनेत्य् अनेन केवलस्य ब्रह्मणो निमित्तत्वं परेण कालेनेति कालस्यापि परमात्मात्मकत्व-कथनेन ब्रह्मणः सृष्ट्य्-आदि-व्यापारे उपकरणान्तरनैर्-अपेक्ष्यम् अनिमिषेण गुण-त्रयाद् इति काल-प्रधानयोः सृष्टेः प्राग् अपि सद्भावावगमेन तदा विजातीय-वस्तु-सत्त्वं दुर्वितर्येणेत्य् अनेन निमित्तत्त्वोपादानत्वोपयुक्ताचिन्त्य सर्वज्ञत्व सर्व-शक्तित्व सत्य-कामत्वादि-प्रभावत्वावगमेन स्व-गत-भेद-सत्त्वं तयोर् उपलक्षणत्वेन सजातीय-जीव-भेदसत्त्वं चोक्तं भवति ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
रजःप्रधानान्महतस्त्रिलिङ्गो दैवचोदितात्।
जातः ससर्ज भूतादिर्वियदादीनि पञ्चशः॥
मूलम्
रजःप्रधानान्महतस्त्रिलिङ्गो दैवचोदितात्।
जातः ससर्ज भू4तादिर्वियदादीनि पञ्चशः॥ १३ ॥
अनुवाद (हिन्दी)
दैवकी प्रेरणासे रजःप्रधान महत्तत्त्वसे वैकारिक (सात्त्विक), राजस और तामस—तीन प्रकारका अहङ्कार उत्पन्न हुआ। उसने आकाशादि पाँच-पाँच तत्त्वोंके अनेक वर्ग* प्रकट किये॥ १३॥
पादटिप्पनी
- पंच तन्मात्र, पंच महाभूत, पाँच ज्ञानेन्द्रिय, पाँच कर्मेन्द्रिय और उनके पाँच-पाँच देवता—इन्हीं छः वर्गोंका यहाँ संकेत समझना चाहिये।
वीरराघवः
रज इति । दैवेन भगवता चोदितात् प्रेरिताद् रजः प्रधानान् महतः स्वतः सत्त्व-प्रधानत्वे ऽपि महतः कार्योन्-मुख्य-दशायां रजसः तमस् सत्त्वयोर् उभयोर् अप्य् अनुग्राहकत्वेन रजः-प्रधानाद् इत्य् उक्तेः जातः त्रि-लिङ्गकः पञ्च-महा-भूत-ज्ञान-कर्मेन्द्रियात्मकः भूतादिर् अहङ्कारः वियदादीन्याकाशादीनि आदि-शब्देन तन्मात्राणि ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि चोक्तानि पञ्चशः प्रत्येकं पञ्च-संख्याकानि ससर्ज ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
तानि चैकैकशः स्रष्टुमसमर्थानि भौतिकम्।
संहत्य दैवयोगेन हैममण्डमवासृजन्॥
मूलम्
तानि चैकैकशः स्रष्टुमसमर्थानि भौतिकम्।
संहत्य दैवयोगेन हैममण्डमवासृजन्॥ १४ ॥
अनुवाद (हिन्दी)
वे सब अलग-अलग रहकर भूतोंके कार्यरूप ब्रह्माण्डकी रचना नहीं कर सकते थे; इसलिये उन्होंने भगवान्की शक्तिसे परस्पर संगठित होकर एक सुवर्णवर्ण अण्डकी रचना की॥ १४॥
वीरराघवः
तानि च वियदादीनि एकैकशः परस्परम् असमेतानि भौतिकमण्डं स्रष्टुम् असमर्थान्य् अभूवन् । अथ दैव योगेन भगवद् अनुप्रवेशेन समेत्येत्य् अनेन पञ्चीकरणं विवक्षितं हैमं प्रकाश-बहुल-मण्डं ब्रह्माण्डम् असृजन् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
सोऽशयिष्टाब्धिसलिले आण्डकोशो निरात्मकः।
साग्रं वै वर्षसाहस्रमन्ववात्सीत्तमीश्वरः॥
मूलम्
सोऽशयिष्टाब्धिसलिले आण्डकोशो निरात्मकः।
साग्रं वै वर्षसाहस्रमन्ववात्सीत्तमीश्वरः॥ १५ ॥
अनुवाद (हिन्दी)
वह अण्ड चेतनाशून्य अवस्थामें एक हजार वर्षोंसे भी अधिक समयतक कारणाब्धिके जलमें पड़ा रहा। फिर उसमें श्रीभगवान्ने प्रवेश किया॥ १५॥
वीरराघवः
अण्ड-कोशः निरात्मकः अधिष्ठातृ-चेतन-रहितः अधिसलिलं सलिले अनेनाण्ड-सृष्टेः प्राग्-उदक-सृष्टिर् अर्थ-सिद्धा अशयिष्टाध्यवसत् तम् अण्डकोशम् ईश्वरो ऽनिरुद्धः साग्रं सम्पूर्णं संवत्सर-सहस्रम् अन्ववात्सीज् जल-वेष्टितं जल-पूर्ण-मण्डं भगवान् अध्यशेत इत्य् अर्थः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
तस्य नाभेरभूत्पद्मं सहस्रार्कोरुदीधिति।
सर्वजीवनिकायौको यत्र स्वयमभूत्स्वराट्॥
मूलम्
तस्य नाभेरभूत्पद्मं सहस्रार्कोरुदीधिति।
सर्वजीवनिकायौको यत्र स्वयमभूत्स्वराट्॥ १६ ॥
अनुवाद (हिन्दी)
उसमें अधिष्ठित होनेपर उनकी नाभिसे सहस्र सूर्योंके समान अत्यन्त देदीप्यमान एक कमल प्रकट हुआ, जो सम्पूर्ण जीव-समुदायका आश्रय था। उसीसे स्वयं ब्रह्माजीका भी आविर्भाव हुआ है॥ १६॥
वीरराघवः
को ऽसौ भगवान् यो ऽन्ववात्सीद् इत्य् अत्राह यस्याण्डे शयानस्य भगवतो नाभेः सकाशात् सहस्र-संख्याकादित्यवदुरुप्रकाशं पद्मम् अभूत् स ईश्वरो ऽवात्सीद् इत्य् अर्थः । कीदृशं पद्मं यन् नाभेर् अभूद् इत्य् अत्राह । सर्वेषां जीवानां देवादीनां निकायः समूहः तस्यौकः स्थानं यत्र पद्मे स्वराट् ब्रह्मा स्वयम्भूद् उत्पन्नः तत् पद्मम् अभूद् इत्य् अर्थः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
सोऽनुविष्टो भगवता यः शेते सलिलाशये।
लोकसंस्थां यथापूर्वं निर्ममे संस्थया स्वया॥
मूलम्
सोऽनुविष्टो भगवता यः शेते सलिलाशये।
लोकसंस्थां यथापूर्वं निर्ममे संस्थया स्वया॥ १७ ॥
अनुवाद (हिन्दी)
जब ब्रह्माण्डके गर्भरूप जलमें शयन करनेवाले श्रीनारायणदेवने ब्रह्माजीके अन्तःकरणमें प्रवेश किया, तब वे पूर्वकल्पोंमें अपने ही द्वारा निश्चित की हुई नाम-रूपमयी व्यवस्थाके अनुसार लोकोंकी रचना करने लगे॥ १७॥
वीरराघवः
स ब्रह्मा भगवतानुविष्टः सङ्कल्प-रूप-ज्ञानेनानुप्रविष्ट इत्य् अर्थः । को ऽसौ भगवान् येनानुप्रविष्ट इत्य् अत्राह । सलिलाशये गर्भोदकस्यान्ते यः शेते तेनेत्य् अर्थः । भगवतानुप्रविष्टो ब्रह्मा यथा-पूर्वं पूर्व-कल्पानुसारेण लोकसंस्था लोकानां संस्थानं विन्यासं स्वया असाधारणया संस्थया देवादि-नाम-रूपात्मकया प्राकल्पयत् कृतवान् ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
ससर्जच्छाययाविद्यां पञ्चपर्वाणमग्रतः।
तामिस्रमन्धतामिस्रं तमो मोहो महातमः॥
मूलम्
ससर्जच्छाययाविद्यां पञ्चपर्वाणमग्रतः।
तामिस्रमन्धतामिस्रं तमो मो5हो महातमः॥ १८ ॥
मूलम् - कर्णावती
ससर्जच्छायया विद्यां पञ्चपर्वाणमग्रतः।
तामिस्रमन्धतामिस्रं तमो मोहो महातमः॥ १८ ॥
अनुवाद (हिन्दी)
सबसे पहले उन्होंने अपनी छायासे तामिस्र, अन्धतामिस्र, तम, मोह और महामोह—यों पाँच प्रकारकी अविद्या उत्पन्न की॥ १८॥
वीरराघवः
छायया तमोगुणेन पञ्चपर्वाम् अविद्यां ससर्ज पञ्च-पर्वाण्य् एवाह । तामिस्रम् इत्य् अर्थेन तामिस्रादि-स्वरूपं तु पूर्वम् एव प्रपञ्चितम् ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
विससर्जात्मनः कायं नाभिनन्दंस्तमोमयम्।
जगृहुर्यक्षरक्षांसि रात्रिं क्षुत्तृट्समुद्भवाम्॥
मूलम्
विससर्जात्मनः कायं नाभिनन्दंस्तमोमयम्।
जगृहुर्यक्षरक्षांसि रात्रिं क्षुत्तृट्समुद्भवाम्॥ १९ ॥
अनुवाद (हिन्दी)
ब्रह्माजीको अपना वह तमोमय शरीर अच्छा नहीं लगा, अतः उन्होंने उसे त्याग दिया। तब जिससे भूख-प्यासकी उत्पत्ति होती है—ऐसे रात्रिरूप उस शरीरको उसीसे उत्पन्न हुए यक्ष और राक्षसोंने ग्रहण कर लिया॥ १९॥
वीरराघवः
एवं साधारणीं सृष्टिम् अनूद्यासाधारणान् सृष्टि-भेदान् आह । विसर्जेत्यादिना यावदध्याय-समाप्ति । नाभिनन्दन् अनभिनन्दन् तमोमयं तमः प्रचुरं कायं छाया-रूपां तनुं विससर्ज सर्वत्र तनु-त्यागो नाम तत्-तदवस्था-पर-पर्याय-भाव-त्यागो विवक्षितः, ग्रहणं च तत्तद्भावापत्तिः । यक्षा रक्षांसि विसृष्टात् कायात् समुत्पन्नानि यक्ष-रक्षांसि तम् एव कायं स्वात्मानं क्षुत्तृषोः क्षुत्पिपासयोः समुद्भवो यस्यां तां रात्रिं रात्रि-धर्म-रूपेण परिणम्यमाणां जगृहुः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
क्षुत्तृड्भ्यामुपसृष्टास्ते तं जग्धुमभिदुद्रुवुः।
मा रक्षतैनं जक्षध्वमित्यूचुः क्षुत्तृडर्दिताः॥
मूलम्
क्षुत्तृड्भ्यामुपसृष्टास्ते तं जग्धुमभिदुद्रुवुः।
मा रक्षतैनं जक्षध्वमित्यूचुः क्षुत्तृडर्दिताः॥ २० ॥
अनुवाद (हिन्दी)
उस समय भूख-प्याससे अभिभूत होकर वे ब्रह्माजीको खानेको दौड़ पड़े और कहने लगे—‘इसे खा जाओ, इसकी रक्षा मत करो’ क्योंकि वे भूख-प्याससे व्याकुल हो रहे थे॥ २०॥
वीरराघवः
ते यक्षादयः क्षुत्तृङ्भ्याम् उपसृष्टाः पीडितास् तं कायं जग्धुम् अभिदुद्रुवुर् अभ्यधावन् यतो वयं क्षुत्तृड्भ्याम् अर्दिताः तत एव ते कायं कृपया पितेति रक्षतेत्य् एके ऊचुर् अपरे पुनः पितरम् अपि जक्षध्वं भक्षयतेत्य् ऊचुः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
देवस्तानाह संविग्नो मा मां जक्षत रक्षत।
अहो मे यक्षरक्षांसि प्रजा यूयं बभूविथ॥
मूलम्
देवस्तानाह संविग्नो मा मां जक्षत रक्षत।
अहो मे यक्षरक्षांसि प्रजा यूयं बभूविथ॥ २१ ॥
अनुवाद (हिन्दी)
ब्रह्माजीने घबराकर उनसे कहा—‘अरे यक्ष-राक्षसो! तुम मेरी सन्तान हो; इसलिये मुझे भक्षण मत करो, मेरी रक्षा करो!’ (उनमेंसे जिन्होंने कहा ‘खा जाओ’, वे यक्ष हुए और जिन्होंने कहा ‘रक्षा मत करो’, वे राक्षस कहलाये)॥ २१॥
वीरराघवः
देवो ब्रह्मा संविग्नः भीतः तान् यज्ञादीन् प्रति मां मत्-कायं मा जक्षत न भक्षयत किंतु रक्षतेत्य् आह । अहो हे यक्ष-रक्षांसि यूयं मे प्रजाः पुत्रा बभूविथ जाता एवं तमः-स्वभावा जाता इत्य् अर्थः । तत्र ये यक्षध्वम् इत्यूचुस् ते यक्षाः ये तु मा रक्षतेत्यूचुस् ते राक्षसा इति विज्ञेयम् ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
देवताः प्रभया या या दीव्यन् प्रमुखतोऽसृजत्।
ते अहार्षुर्देवयन्तो विसृष्टां तां प्रभामहः॥
मूलम्
देवताः प्रभया या या दीव्यन् प्रमुखतोऽसृजत्।
ते6 अहार्षुर्देवयन्तो विसृष्टां तां प्रभामहः॥ २२ ॥
अनुवाद (हिन्दी)
फिर ब्रह्माजीने सात्त्विकी प्रभासे देदीप्यमान होकर मुख्य-मुख्य देवताओंकी रचना की। उन्होंने क्रीडा करते हुए , ब्रह्माजीके त्यागनेपर, उनका वह दिनरूप प्रकाशमय शरीर ग्रहण कर लिया॥ २२॥
वीरराघवः
प्रभया छाया-प्रतियोगिन्या तेजसेत्य् अर्थः । दीव्यन्-प्रकाशमानः ब्रह्मा प्रमुखतः प्राङ्मुखं या या देवताः देवास् तान् देवान् असृजत् । देवाः देवयतेः द्योतमाना विसृष्टां त्यक्ताम् अहः अहर्-धर्म-रूपां प्रभाम् अहारिषु तवन्तः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
देवोऽदेवाञ्जघनतः सृजति स्मातिलोलुपान्।
त एनं लोलुपतया मैथुनायाभिपेदिरे॥
मूलम्
देवोऽदेवाञ्जघनतः सृजति स्मातिलोलुपान्।
त एनं लोलुपतया मैथुनायाभिपेदिरे॥ २३ ॥
अनुवाद (हिन्दी)
इसके पश्चात् ब्रह्माजीने अपने जघनदेशसे कामासक्त असुरोंको उत्पन्न किया। वे अत्यन्त कामलोलुप होनेके कारण उत्पन्न होते ही मैथुनके लिये ब्रह्माजीकी ओर चले॥ २३॥
वीरराघवः
देवः ब्रह्मा जघनतः जघनाद् अतिलोलुपान् अतीव कामासक्तान् देवान् असुरान् सृजति स्मातिलौलुप्येन भावेनासृजत् ते ऽदेवा अतिलोलुपतयातिकामासक्ततया मैथुनाय एनं ब्रह्माणम् अभिपेदिरे ऽभितः प्राप्ताः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
ततो हसन् स भगवानसुरैर्निरपत्रपैः।
अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत्॥
मूलम्
ततो हसन् स भगवानसुरैर्निरपत्रपैः।
अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत्॥ २४ ॥
अनुवाद (हिन्दी)
यह देखकर पहले तो वे हँसे; किन्तु फिर उन निर्लज्ज असुरोंको अपने पीछे लगा देख भयभीत और क्रोधित होकर बड़े जोरसे भागे॥ २४॥
वीरराघवः
स भगवान् ब्रह्मा हसन् निरपत्रपैर् निर्लज्जैर् असुरैर् अन्वीयमान अभिपद्यमानः अत एव क्रुद्धो भीतश् च तरसा आशु परापतत् पर्यधावत् ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
स उपव्रज्य वरदं प्रपन्नार्तिहरं हरिम्।
अनुग्रहाय भक्तानामनुरूपात्मदर्शनम्॥
मूलम्
स उपव्रज्य वरदं प्रपन्नार्तिहरं हरिम्।
अनुग्रहाय भक्तानामनुरूपात्मदर्शनम्॥ २५ ॥
अनुवाद (हिन्दी)
तब उन्होंने भक्तोंपर कृपा करनेके लिये उनकी भावनाके अनुसार दर्शन देनेवाले, शरणागतवत्सल वरदायक श्रीहरिके पास जाकर कहा—॥ २५॥
वीरराघवः
स ब्रह्मा भक्तानाम् अनुग्रहायानुरूपं तत्-तद्-भक्त-बुद्ध्य्-अनुरूपम् आत्मानं दर्शयतीति तं प्रपन्न-दुःख-हरं वरदम् अभीष्टदं हरिं भगवन्तम् उपव्रज्य समीपम् एत्य् आहेति शेषः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
पाहि मां परमात्मंस्ते प्रेषणेनासृजं प्रजाः।
ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो॥
मूलम्
पाहि मां परमात्मंस्ते प्रेषणेनासृजं प्रजाः।
ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो॥ २६ ॥
अनुवाद (हिन्दी)
‘परमात्मन्! मेरी रक्षा कीजिये; मैंने तो आपकी ही आज्ञासे प्रजा उत्पन्न की थी, किन्तु यह तो पापमें प्रवृत्त होकर मुझको ही तंग करने चली है॥ २६॥
वीरराघवः
उक्तिम् एवाह द्वाभ्याम् । हे परमात्मन् ! मा पाहि पालय । ते तव प्रेक्षणेन सङ्कल्पेन प्रजा अहम् असृजं ताः त्वत्-सङ्कल्पेन मया सृष्टाः पापा इमा असुर-रूपाः प्रजा यभितुं मैथुनं कर्तुं माम् उपक्रामन्ति परिवेष्टन्ते ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
त्वमेकः किल लोकानां क्लिष्टानां क्लेशनाशनः।
त्वमेकः क्लेशदस्तेषामनासन्नपदां तव॥
मूलम्
त्वमेकः7 किल लोकानां क्लिष्टानां क्लेशनाशनः।
त्वमेकः क्लेशदस्तेषामनासन्नपदां तव॥ २७ ॥
अनुवाद (हिन्दी)
नाथ! एकमात्र आप ही दुःखी जीवोंका दुःख दूर करनेवाले हैं और जो आपकी चरण-शरणमें नहीं आते, उन्हें दुःख देनेवाले भी एकमात्र आप ही हैं’॥ २७॥
वीरराघवः
हे प्रभो ! त्वम् एक एव क्लिष्टानां दुःखितानां लोकानां क्लेश-नाशनः बाधा-निवर्तकः किल तवानासन्नावनाश्रितौ पादौ यैस् तेषां तव पादम् अनाश्रितानां लोकानां त्वम् एव क्लेदः क्लेश-संपादकः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः।
विमुञ्चात्मतनुं घोरामित्युक्तो विमुमोच ह॥
मूलम्
सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः।
विमुञ्चात्मतनुं घोरामित्युक्तो विमुमोच ह॥ २८ ॥
अनुवाद (हिन्दी)
प्रभु तो प्रत्यक्षवत् सबके हृदयकी जाननेवाले हैं। उन्होंने ब्रह्माजीकी आतुरता देखकर कहा—‘तुम अपने इस कामकलुषित शरीरको त्याग दो।’ भगवान्के यों कहते ही उन्होंने वह शरीर भी छोड़ दिया॥ २८॥
वीरराघवः
विविक्ताध्यात्म-दर्शनः विविक्तं विशदं यथा तथाध्यात्म-दर्शनः पराभिप्राय-ज्ञः स भगवान् अस्य ब्रह्मणः कार्पण्यं क्लेशम् उपधार्य ज्ञात्वा घोराम् अतिलौलुप्य-रूपाम् आत्म-तनुम् आत्मनो भावं विमुञ्चेत्य् आहेति शेषः । एवम् उक्तो भगवता ब्रह्मा तां तनु-भावं विमुमोच विससर्ज । सा तेन विसृष्टा तनुः सायन्तनी सन्ध्या बभूव सा च कामोद्रेक-वेला ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
तां क्वणच्चरणाम्भोजां मदविह्वललोचनाम्।
काञ्चीकलापविलसद्दुकूलच्छन्नरोधसम्॥
मूलम्
तां क्वणच्चरणाम्भोजां मदविह्वललोचनाम्।
काञ्चीकलापविलसद्दुकूलच्छन्नरोधसम्॥ २९ ॥
अनुवाद (हिन्दी)
(ब्रह्माजीका छोड़ा हुआ वह शरीर एक सुन्दरी स्त्री—संध्यादेवीके रूपमें परिणत हो गया।) उसके चरणकमलोंके पायजेब झंकृत हो रहे थे। उसकी आँखें मतवाली हो रही थीं और कमर करधनीकी लड़ोंसे सुशोभित सजीली साड़ीसे ढकी हुई थी॥ २९॥
वीरराघवः
असुरा राज-सत्वात् स्त्री-लम्पटाः यतस् तां सन्ध्याम् एव स्त्रियं कल्पयित्वा संमुमुहुर् इत्य् आह त्रिभिः । तां सन्ध्या-रूपां स्त्रीत्वेन कल्पितां तनुं कथंभूतां क्वणच्-चरणाम्भोजां, नूपुराभ्यां ध्वनच्-चरण-कमलां मदेन विह्वले लोचने यस्यास् तां काञ्ची-कलापेन मेखला-रत्न-भूषणेन विलसद्यद्-दुकूलं क्षौम-वासस् तेन छन्नं पिहितं रोधः नितम्ब-प्रदेशो यस्यास् ताम् ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
अन्योन्यश्लेषयोत्तुङ्गनिरन्तरपयोधराम्।
सुनासां सुद्विजां स्निग्धहासलीलावलोकनाम्॥
मूलम्
अन्योन्यश्लेषयोत्तुङ्गनिरन्तरपयोधराम्।
सुनासां सुद्विजां स्निग्धहासलीलावलोकनाम्॥ ३० ॥
अनुवाद (हिन्दी)
उसके उभरे हुए स्तन इस प्रकार एक-दूसरेसे सटे हुए थे कि उनके बीचमें कोई अन्तर ही नहीं रह गया था। उसकी नासिका और दन्तावली बड़ी ही सुघड़ थी तथा वह मधुर-मधुर मुसकराती हुई असुरोंकी ओर हाव-भावपूर्ण दृष्टिसे देख रही थी॥ ३०॥
वीरराघवः
अन्यो ऽन्याश्लेषेण परस्परोपमर्देन उत्तुङ्गाव् उन्नतौ निरन्तरौ श्लिष्टौ पयोधरौ स्तनौ यस्यास् तां सुनासां तिल-पुष्प-तुल्य-नासिकां सुद्विजां कुन्द-कुड्मल-सदृश-दन्त-पङ्क्ति स्निग्धो हासो यस्मिंस् तल्-लीलावलोकनं यस्यास् ताम् ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
गूहन्तीं व्रीडयाऽऽत्मानं नीलालकवरूथिनीम्।
उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम्॥
मूलम्
गूहन्तीं व्रीडयाऽऽत्मानं नीलालकवरूथिनीम्।
उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम्॥ ३१ ॥
अनुवाद (हिन्दी)
वह नीली-नीली अलकावलीसे सुशोभित सुकुमारी मानो लज्जाके मारे अपने अंचलमें ही सिमिटी जाती थी। विदुरजी! उस सुन्दरीको देखकर सब-के-सब असुर मोहित हो गये॥ ३१॥
वीरराघवः
व्रीडया लज्जया आत्मानं देहम् उपगूहन्तीं वस्त्राञ्चलेनावृण्वतीं नीलानाम् अलकानां चूर्ण-कुन्तलानां वरूथः समूहो यस्यास्तां स्त्रियम् उपलभ्य मत्वा सर्वे ऽसुरा हे धर्म ! विदुर ! संमुमुहुः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
अहो रूपमहो धैर्यमहो अस्या नवं वयः।
मध्ये कामयमानानामकामेव विसर्पति॥
मूलम्
अहो रूपमहो धैर्यमहो अस्या नवं वयः।
मध्ये कामयमानानामकामेव विसर्पति॥ ३२ ॥
अनुवाद (हिन्दी)
‘अहो! इसका कैसा विचित्र रूप, कैसा अलौकिक धैर्य और कैसी नयी अवस्था है। देखो, हम कामपीड़ितोंके बीचमें यह कैसी बेपरवाह-सी विचर रही है’॥ ३२॥
वीरराघवः
मोमुह्यमानानाम् असुराणां प्रलपनम् आह । अहो इति पञ्चभिः । अहो इत्य् आश्चर्ये रूपम् आकारः स्थैर्यं लावण्यं वयः यौवनं कामयमानानाम् अस्माकं मध्ये ऽकामेवाकामयमानेव विसर्पति गच्छति ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम्।
अभिसम्भाव्य विश्रम्भात्पर्यपृच्छन् कुमेधसः॥
मूलम्
वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम्।
अभिसम्भाव्य विश्रम्भात्पर्यपृच्छन् कुमेधसः॥ ३३ ॥
अनुवाद (हिन्दी)
इस प्रकार उन कुबुद्धि दैत्योंने स्त्रीरूपिणी संध्याके विषयमें तरह-तरहके तर्क-वितर्क करके फिर उसका बहुत आदर करते हुए प्रेमपूर्वक पूछा—॥ ३३॥
वीरराघवः
बहुधा वितर्कयन्तः रूप-गुणैर् ईदृशम् ईदृशम् अस्या रूपादिकम् इत्यूहयन्तः प्रमदाकृतिं स्त्री-रूपवत्त्वेन कल्पितां तां सन्ध्याम् अभिसम्भाव्य सत्कृत्य विस्रम्भात् प्रणयात् कुमेधसः कुबुद्धयो ऽसुराः पर्यपृच्छन् ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
कासि कस्यासि रम्भोरु को वार्थस्तेऽत्र भामिनि।
रूपद्रविणपण्येन दुर्भगान्नो विबाधसे॥
मूलम्
कासि कस्यासि रम्भोरु को वार्थस्तेऽत्र भामिनि।
रूपद्रविणपण्येन दुर्भगान्नो विबाधसे॥ ३४ ॥
अनुवाद (हिन्दी)
‘सुन्दरि! तुम कौन हो और किसकी पुत्री हो? भामिनि! यहाँ तुम्हारे आनेका क्या प्रयोजन है? तुम अपने अनूप रूपका यह बेमोल सौदा दिखाकर हम अभागोंको क्यों तरसा रही हो॥ ३४॥
वीरराघवः
पृच्छाम् एवाह त्रिभिः । कासि किं देवता अथवा मानुषी उतान्या वा कस्य सम्बन्धिन्य् असि हे रम्भोरु । रम्भा कदली तद्वद् ऊरू यस्याः हे भामिनि ! कोपने ऽत्रास्मिन् मध्ये ते को वार्थः किं प्रयोजनं रूपम् एव द्रविणम् अनर्घ्यं वस्तु तद् एव पण्यं क्रयार्हं तेन तत्-समर्पणेन दुर्भगान् भाग्य-हीनान् नो ऽस्मान् बाधसे क्लेशयसि ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
या वा काचित्त्वमबले दिष्ट्या सन्दर्शनं तव।
उत्सुनोषीक्षमाणानां कन्दुकक्रीडया मनः॥
मूलम्
या वा का8चित्त्वमबले दिष्ट्या सन्दर्शनं तव।
उत्सुनोषीक्षमाणानां कन्दुकक्रीडया मनः॥ ३५ ॥
अनुवाद (हिन्दी)
अबले! तुम कोई भी क्यों न हो, हमें तुम्हारा दर्शन हुआ—यह बड़े सौभाग्यकी बात है। तुम अपनी गेंद उछाल-उछालकर तो हम दर्शकोंके मनको मथे डालती हो॥ ३५॥
वीरराघवः
किं जाति-कुलादि-प्रश्नेन या वा काचिद् भवसि हे अबले ! दिष्ट्या ऽस्मद्-भाग्य-वशेन तव संदर्शनं जातम् ईक्षमाणानां पश्यतां नो ऽस्माकं मनः कन्दुक-क्रीडया उत्सुनोषि हरसि मध्नासीति यावत् ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
नैकत्र ते जयति शालिनि पादपद्मं
घ्नन्त्या मुहुः करतलेन पतत्पतङ्गम्।
मध्यं विषीदति बृहत्स्तनभारभीतं
शान्तेव दृष्टिरमला सुशिखासमूहः॥
मूलम्
नैकत्र ते जयति शालिनि पादपद्मं घ्नन्त्या मुहुः करतलेन पतत्पतङ्गम्।
मध्यं विषीदति बृहत्स्तनभारभीतं9 शान्तेव दृष्टिरमला10 सुशिखासमूहः॥ ३६ ॥
अनुवाद (हिन्दी)
सुन्दरि! जब तुम उछलती हुई गेंदपर अपनी हथेलीकी थपकी मारती हो, तब तुम्हारा चरण-कमल एक जगह नहीं ठहरता; तुम्हारा कटिप्रदेश स्थूल स्तनोंके भारसे थक-सा जाता है और तुम्हारी निर्मल दृष्टिसे भी थकावट झलकने लगती है। अहो! तुम्हारा केशपाश कैसा सुन्दर है’॥ ३६॥
वीरराघवः
मथित-मनसां वाक्यं हे शालिनि ! सुन्दरि पतत्-पतङ्गम् उत्प्लुत्य पतन्तं कन्दुकं मुहुः कर-तलेन घ्नन्त्यास् तव पाद-पद्मम् एकत्र न जयति न तिष्ठति । बृहतोः स्तनयोर् भाराद् भीतं तव कृशं मध्यं विषीदति क्लिश्यति श्राम्यति वा । दृष्टिः श्रान्ता मन्दं प्रसरति । सुशिखा-समूहः शोभनः केश-कलापः सुशिखा बधानेति पाठे शोभन-केशान् विकीर्यमाणान् बधानेत्य् अर्थः । अत्र चास्तं गच्छन् सूर्य एव पतङ्गः मेघ-विच्छेदो मध्य-विषादः तारका-रूपा दृष्टिः तम एव केशा इत्याद्य् ऊह्यम् ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
इति सायन्तनीं सन्ध्यामसुराः प्रमदायतीम्।
प्रलोभयन्तीं जगृहुर्मत्वा मूढधियः स्त्रियम्॥
मूलम्
इति सायन्तनीं सन्ध्यामसुराः प्रमदायतीम्।
प्रलोभयन्तीं जगृहुर्मत्वा मूढधियः स्त्रियम्॥ ३७ ॥
अनुवाद (हिन्दी)
इस प्रकार स्त्रीरूपसे प्रकट हुई उस सायंकालीन सन्ध्याने उन्हें अत्यन्त कामासक्त कर दिया और उन मूढ़ोंने उसे कोई रमणीरत्न समझकर ग्रहण कर लिया॥ ३७॥
वीरराघवः
इत्य् उक्त-रीत्या प्रमदायतीं स्त्रीवद् आचरन्तीं सायन्तनीं सन्ध्यां प्रलोभयन्तीं मोहयन्तीं स्त्रियं मत्वा मूढ-धियो मोहित-बुद्धयो ऽसुरा जगृहुर् उपाददुः । ननु कथं छाया-प्रभा-लौलुप्यानां ब्रह्मणोपात्त-त्यक्तानां रात्र्य्-अहः-सन्ध्या-काल-रूपवत्त्वं कालो हि छायादीनाम् अपि च्छेदकः तेभ्यो विलक्षण एव सत्यं छायादयो हि रात्र्य्-अहः-सन्ध्या-कालैः परिच्छिद्यन्ते । अतः परिच्छेद्य-परिच्छेदकयोर् अभेद-विवक्षया रात्रिं प्रभाम् अहः लौलुप्यं सन्ध्याम् इत्य् अभेद-निर्देशः । परमार्थतस् तु यं यं धर्मम् उपादाय यान् यान् असृजत् ते ते तत्-तद्-धर्म-प्रधाना जाताः । रात्र्य्-आदि-काल-विशेषाणां निद्रादि-तमः-कार्यादि-हेतुत्वात् स्व-गुणानुसारेण तत्-तत्-काल-विशेषम् एव स्व-व्यवहारायोपाददुर् इत्य्-अभिप्रायः ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
प्रहस्य भावगम्भीरं जिघ्रन्त्यात्मानमात्मना।
कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान्॥
मूलम्
प्रहस्य भावगम्भीरं जिघ्रन्त्यात्मानमात्मना।
कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान्॥ ३८ ॥
अनुवाद (हिन्दी)
तदनन्तर ब्रह्माजीने गम्भीर भावसे हँसकर अपनी कान्तिमयी मूर्तिसे, जो अपने सौन्दर्यका मानो आप ही आस्वादन करती थी, गन्धर्व और अप्सराओंको उत्पन्न किया॥ ३८॥
वीरराघवः
भगवान् ब्रह्मा भावेनाभिप्राय-विशेषेण गम्भीरं यथा तथा प्रहस्यात्मानं देहम् आत्मना स्वयं जिघ्रन् कान्त्या सौन्दर्येण गन्धर्वाणाम् अप्सरसां च गणान् ससर्ज प्रहसनं स्वात्मावघ्राणनं च सौन्दर्यानुभाव-चातुर्य-विकारः ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम्।
त एव चाददुः प्रीत्या विश्वावसुपुरोगमाः॥
मूलम्
विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम्।
त एव चाददुः प्रीत्या विश्वावसुपुरोगमाः॥ ३९ ॥
अनुवाद (हिन्दी)
उन्होंने ज्योत्स्ना (चन्द्रिका)-रूप अपने उस कान्तिमय प्रिय शरीरको त्याग दिया। उसीको विश्वावसु आदि गन्धर्वोंने प्रसन्नतापूर्वक ग्रहण किया॥ ३९॥
वीरराघवः
तां कान्तिमतीं कान्ति-बहुलां प्रियां स्वाभिमतां ज्योत्स्नां प्राक्-सन्ध्या-रूपां तनुं विससर्ज त एव गन्धर्वाप्सरसां गणाः विश्वावसुः पुरोगमो मुख्यो येषां ते प्रीत्या तां तनुम् उपाददुः ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
सृष्ट्वा भूतपिशाचांश्च भगवानात्मतन्द्रिणा।
दिग्वाससो मुक्तकेशान् वीक्ष्य चामीलयद् दृशौ॥
मूलम्
सृष्ट्वा भूतपिशाचांश्च भगवानात्म11तन्द्रिणा।
दिग्वाससो मुक्तकेशान् वीक्ष्य चामीलयद् दृशौ॥ ४० ॥
अनुवाद (हिन्दी)
इसके पश्चात् भगवान् ब्रह्माने अपनी तन्द्रासे भूत-पिशाच उत्पन्न किये। उन्हें दिगम्बर (वस्त्रहीन) और बाल बिखेरे देख उन्होंने आँखें मूँद लीं॥ ४०॥
वीरराघवः
भगवान् ब्रह्मा आत्म-तन्द्रिणा आत्मनस् तन्द्रिणा आलस्येन भूतानि पिशाचान् च सृष्ट्वा एतान् मुक्त-केशान् विकीर्ण-केशान् दिग्-वाससः दिगम्बरान् भूतानि पिशाचांश् चान्वीक्ष्य दृशौ नेत्रे अमीलयन् निमीलितवान् ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
जगृहुस्तद्विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः।
निद्रामिन्द्रियविक्लेदो यया भूतेषु दृश्यते।
येनोच्छिष्टान्धर्षयन्ति तमुन्मादं प्रचक्षते॥
मूलम्
जगृहुस्तद्विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः12।
निद्रामिन्द्रियविक्लेदो यया भूतेषु दृश्यते।
येनोच्छिष्टान्धर्षयन्ति तमुन्मादं प्रचक्षते॥ ४१ ॥
अनुवाद (हिन्दी)
ब्रह्माजीके त्यागे हुए उस जँभाईरूप शरीरको भूत-पिशाचोंने ग्रहण किया। इसीको निद्रा भी कहते हैं, जिससे जीवोंकी इन्द्रियोंमें शिथिलता आती देखी जाती है। यदि कोई मनुष्य जूठे मुँह सो जाता है तो उसपर भूत-पिशाचादि आक्रमण करते हैं; उसीको उन्माद कहते हैं॥ ४१॥
वीरराघवः
तन्द्रिर् आलस्य-जृम्भण-निद्रोन्माद-रूपश् चतुर्विधः । तत्रालस्यादीनाम् उत्तरोत्तरं हेतुत्वं सूचयन् निद्रोन्मादयोः स्वरूपं च कथयन् भूत-पिशाचानां चातुर्विध्यं तन्द्रि-प्रधानत्वम् आह जगृहुर् इति सार्द्धेन । तेन ब्रह्मणा विसृष्टां प्रभोर् ब्रह्मणस् तां जृम्भणाख्यां तनुं जगृहुर् उपाददुः । तन्द्रि-चातुर्विध्य-सूचनाय तदवान्तर-भेदेन जृम्भणाख्याम् इति निर्देशः । यथा जृम्भणाख्यया इन्द्रिय-विक्लेदः इन्द्रिय-विरसत्वम् इन्द्रिय-वैक्लव्यं भूतेषु दृश्यते तां निद्रां प्रचक्षते इत्य् उत्तरान्वयः । येनेन्द्रिय-विक्लेदेन उच्छिष्टान् अपरिशुद्धान् धर्षयन्ति सहन्ते स्वार्थे णिच् तं धर्षम् उन्मादम् इति प्रचक्षते । भूत-पिशाचा अप्य् एतच्-चतुर्विध-तन्द्रि-प्रधाना इति भावः ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः।
साध्यान् गणान् पितृगणान् परोक्षेणासृजत्प्रभुः॥
मूलम्
ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः।
साध्यान् गणान् पितृगणान् परोक्षेणासृजत्प्रभुः॥ ४२ ॥
अनुवाद (हिन्दी)
फिर भगवान् ब्रह्माने भावना की कि मैं तेजोमय हूँ और अपने अदृश्य रूपसे साध्यगण एवं पितृगणको उत्पन्न किया॥ ४२॥
वीरराघवः
प्रभुर् भगवान् अजो ब्रह्मा आत्मानम् ऊर्जस्वन्तं बलवन्तं मन्यमानः साध्यान् गणान् गुण-गुणिनोर् भेदा-विवक्षया सामानाधिकरण्य-निर्देशः पितॄणां गणांश् च परोक्षेणाभिमुखम् असृजत् ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
त आत्मसर्गं तं कायं पितरः प्रतिपेदिरे।
साध्येभ्यश्च पितृभ्यश्च कवयो यद्वितन्वते॥
मूलम्
त आत्मसर्गं तं कायं पितरः प्रतिपेदिरे।
साध्येभ्यश्च पितृभ्यश्च कवयो यद्वितन्वते॥ ४३ ॥
अनुवाद (हिन्दी)
पितरोंने अपनी उत्पत्तिके स्थान उस अदृश्य शरीरको ग्रहण कर लिया। इसीको लक्ष्यमें रखकर पण्डितजन श्राद्धादिके द्वारा पितर और साध्यगणोंको क्रमशः कव्य (पिण्ड) और हव्य अर्पण करते हैं॥ ४३॥
वीरराघवः
आत्म-सर्गम् आत्मनां साध्यानां पितॄणां च सर्ग उत्पत्तिर् यस्मात् तत् कार्यं ब्रह्मण ऊर्ग्-रूपं पितरः प्रतिपेदिरे । पितर इति साध्यानाम् अप्य् उपलक्षणम् ऊर्जस्वन्तो ऽभूवन्न् इति भावः । अत एवोर्जस्त्वम् इच्छद्भिस् ते इज्यन्त इत्य् आह । कवयः कर्म-कुशलाः साध्येभ्यश् च पितृभ्यश् च यद् यद् ऊर्जं वितन्वते यज्ञैर् आराधयन्ति साध्यान् संसाधको विशां तन्तुं तन्वन् पितॄन् यजेद् इति द्वितीय-स्कन्धोक्त-रीत्या विट्-पतित्व-सन्तति-वृद्ध्यादिभिर् आत्मनो बल-सम्पादनाय साध्यान् पितॄंश् च यजन्तीत्य् अर्थः । यदा ऊर्क् प्राणनं प्रकृष्टं जीवनं तद्वन्तं मन्यमानः साध्यादीन् असृजद् अत एव विट्-पतित्व-सन्तत्यादिभिर् इहामुत्र च प्राणनम् इच्छद्भिर् इज्यन्त इत्य् अर्थः ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
सिद्धान् विद्याधरांश्चैव तिरोधानेन सोऽसृजत्।
तेभ्योऽददात्तमात्मानमन्तर्धानाख्यमद्भुतम्॥
मूलम्
सिद्धान् विद्याधरांश्चैव तिरोधानेन सोऽसृजत्।
तेभ्योऽददात्तमात्मानमन्तर्धानाख्यमद्भुतम्॥ ४४ ॥
अनुवाद (हिन्दी)
अपनी तिरोधानशक्तिसे ब्रह्माजीने सिद्ध और विद्याधरोंकी सृष्टि की और उन्हें अपना वह अन्तर्धान नामक अद्भुत शरीर दिया॥ ४४॥
वीरराघवः
स ब्रह्मा तिरोधानेन स्वेतरैर् अदृश्यत्व-शक्त्या सिद्धान् विद्याधरांश् च असृजत् तेभ्यः सिद्ध-विद्याधरेभ्यः तम् अन्तर्धानाख्यम् आत्मानं कायम् अद्भुतम् आश्चर्यं ददौ । ते ऽन्तर्धानाख्य-शक्ति-प्रधाना अभूवन्न् इत्य् अर्थः ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
स किन्नरान् किम्पुरुषान् प्रत्यात्म्येनासृजत्प्रभुः।
मानयन्नात्मनाऽऽत्मानमात्माभासं विलोकयन्॥
मूलम्
स किन्नरान् किम्पुरुषान् प्रत्यात्म्येनासृजत्प्रभुः।
मानयन्नात्मनाऽऽत्मानमात्माभासं विलोकयन्॥ ४५ ॥
अनुवाद (हिन्दी)
एक बार ब्रह्माजीने अपना प्रतिबिम्ब देखा। तब अपनेको बहुत सुन्दर मानकर उस प्रतिबिम्बसे किन्नर और किम्पुरुष उत्पन्न किये॥ ४५॥
वीरराघवः
प्रभुर् ब्रह्मात्माभासम् आत्म-प्रतिबिम्बं विलोकयन् तम् आत्मानं प्रतिबिम्ब-रूपं कायं मानयन् प्रत्यात्म्येन प्रतिबिम्बेन किन्नर-सहितान् किं-पुरुषान् असृजत् ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
ते तु तज्जगृहू रूपं त्यक्तं यत्परमेष्ठिना।
मिथुनीभूय गायन्तस्तमेवोषसि कर्मभिः॥
मूलम्
ते तु तज्जगृहू रूपं त्यक्तं यत्परमेष्ठिना।
मिथुनीभूय गायन्तस्तमेवोषसि कर्मभिः॥ ४६ ॥
अनुवाद (हिन्दी)
उन्होंने ब्रह्माजीके त्याग देनेपर उनका वह प्रतिबिम्ब-शरीर ग्रहण किया। इसीलिये ये सब उषःकालमें अपनी पत्नियोंके साथ मिलकर ब्रह्माजीके गुण-कर्मादिका गान किया करते हैं॥ ४६॥
वीरराघवः
ते तु किन्नरादयः परमेष्ठिना यत् त्यक्तं तत् प्रत्यात्म-रूपं कायं जगृहुर् अत एव ते किन्नराः किं-पुरुषाश् च परस्परं मिथुनी-भूय बिम्ब-प्रतिबिम्बयोर् यादृशोभिमानस् तम् अभिमानं कृत्वा तम् एव ब्रह्माणम् उषसि कर्मभिस् तच्-चेष्टित-स्तुति-रूपैस् ते गायन्तो बभूवुः । आत्म-भासं विलोकयन्न् इति पाठे त्व्-आत्म-भासं स्व-प्रकाशं विलोकयंस् तम् आत्मानं स्व-विशेषणत्वेन स्वाभिन्नं मन्यमानस् तेन प्रत्यात्म्येनात्म-प्रकाशेनासृजद् अत एव तत्-सृष्टा गानाख्ये कर्मणि परस्परं गुण-प्रधान-भावेनाभिन्न-प्रयोजनात्मानो मत्वा मिथुनीभूय गायन्तो बभूवुर् इत्य् अर्थः ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
देहेन वै भोगवता शयानो बहुचिन्तया।
सर्गेऽनुपचिते क्रोधादुत्ससर्ज ह तद्वपुः॥
मूलम्
देहेन वै भोगवता शयानो बहुचिन्तया।
सर्गेऽनुपचिते क्रोधादुत्ससर्ज ह तद्वपुः॥ ४७ ॥
अनुवाद (हिन्दी)
एक बार ब्रह्माजी सृष्टिकी वृद्धि न होनेके कारण बहुत चिन्तित होकर हाथ-पैर आदि अवयवोंको फैलाकर लेट गये और फिर क्रोधवश उस भोगमय शरीरको त्याग दिया॥ ४७॥
वीरराघवः
भोगवता सौकुमार्यवता दैर्ध्यवता देहेन बहु-चिन्तया शयानः सर्गे ऽनुपचिते ऽप्रवृद्धे सति क्रोधात् तद् वपुः भोग-क्रोध-बहु-चिन्ता-रूपं वपुः उत्ससर्ज ह ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
येऽहीयन्तामुतः केशा अहयस्तेऽङ्ग जज्ञिरे।
सर्पाः प्रसर्पतः क्रूरा नागा भोगोरुकन्धराः॥
अनुवाद (हिन्दी)
उससे जो बाल झड़कर गिरे, वे अहि हुए तथा उसके हाथ-पैर सिकोड़कर चलनेसे क्रूरस्वभाव सर्प और नाग हुए , जिनका शरीर फणरूपसे कंधेके पास बहुत फैला होता है॥ ४८॥
वीरराघवः
अमृतः भोगवतो देहाद् ये केशा अहीयन्त प्रच्युताः ते केशा अहयो जज्ञिरे अङ्ग हे विदुर ! प्रसर्पतः पादाद्य्-आकुञ्चनैः प्रचलतो ऽमुष्माद् देहात् सर्पाः प्रजज्ञिरे प्रसर्पतो जातत्वात् ते नागा न गच्छन्तीत्य् अगा न अगा नागा अतिवेगा इत्य् अर्थः । क्रोधात्-त्यक्त-कायाज् जातत्वात् क्रूरा बहु-चिन्ता-क्रान्ता भोगवतो जातत्वाद् भोगाः सुख-स्पर्श-देहा दीर्घाश् च शयानाज् जातत्वाद् दीर्घ-कन्धराः ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः।
तदा मनून् ससर्जान्ते मनसा लोकभावनान्॥
मूलम्
स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः।
तदा मनून् ससर्जान्ते मनसा लोकभावनान्॥ ४९ ॥
अनुवाद (हिन्दी)
एक बार ब्रह्माजीने अपनेको कृतकृत्य-सा अनुभव किया। उस समय अन्तमें उन्होंने अपने मनसे मनुओंकी सृष्टि की। ये सब प्रजाकी वृद्धि करनेवाले हैं॥ ४९॥
वीरराघवः
स आत्मभूर् यद् आत्मानं कृत-कृत्यम् इव मन्यमान आसीत् तदा अन्ते साक्षात्-स्व-कर्तृक-सर्गान्ते मनसा लोक-भावनान् प्रजा-स्रष्टॄन् मनून् असृजत् ॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
तेभ्यः सोऽत्यसृजत्स्वीयं पुरं पुरुषमात्मवान्।
तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम्॥
मूलम्
तेभ्यः सोऽत्यसृ15जत्स्वीयं पुरं पुरुषमात्मवान्।
तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम्॥ ५० ॥
मूलम् - कर्णावती
तेभ्यः सोऽसृजत्स्वीयं पुरं पुरुषमात्मवान्।
तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम्॥॥ ५० ॥
अनुवाद (हिन्दी)
मनस्वी ब्रह्माजीने उनके लिये अपना पुरुषाकार शरीर त्याग दिया। मनुओंको देखकर उनसे पहले उत्पन्न हुए देवता-गन्धर्वादि ब्रह्माजीकी स्तुति करने लगे॥ ५०॥
वीरराघवः
तेभ्यो मनुभ्यः स ब्रह्मा आत्मनः स्वस्य पुरुषं पुरुषाकारं पुरं देहम् अत्यसृजद् ददौ आत्मवत्-पुरुषाकार-देह-विशिष्टान् अकरोद् इत्य् अर्थः । पुरा पुरुषाकार-देहेन तद्-विशिष्टत्वेन रूपेणेत्य् अर्थः । ये पुरा सृष्टा इति हेतु-गर्भं यतः पुरुषाकार-देह-विशिष्टत्वेन सृष्टा अतस् ते पुरं दृष्ट्वा प्रजापतिं प्रशशंसुः ॥ ५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
अहो एतज्जगत्स्रष्टः सुकृतं बत ते कृतम्।
प्रतिष्ठिताः क्रिया यस्मिन् साकमन्नमदामहे॥
मूलम्
अहो एतज्जगत्स्रष्टः सुकृतं बत ते कृतम्।
प्रतिष्ठिताः क्रिया यस्मिन् साकमन्नमदामहे॥ ५१ ॥
अनुवाद (हिन्दी)
वे बोले, ‘विश्वकर्ता ब्रह्माजी! आपकी यह (मनुओंकी) सृष्टि बड़ी ही सुन्दर है। इसमें अग्निहोत्र आदि सभी कर्म प्रतिष्ठित हैं। इसकी सहायतासे हम भी अपना अन्न (हविर्भाग) ग्रहण कर सकेंगे’॥ ५१॥
वीरराघवः
प्रशंसाम् एवाह । अहो इति हे जगत्-स्रष्टः ! ते त्वया कृतं निर्मितं एतत्-पुरुषाकारं शरीरम् अहो सुकृतं सुष्ठु कृतं यस्मिन् पौरुषे देहे क्रियाः स्वर्गापवर्ग-साधन-भूताः क्रियाः प्रतिष्ठिताः सर्वाः क्रियाः पौरुष-शरीर-साध्या इत्य् अर्थः । अतः साकं पौरुष-शरीरेण सहान्नं भोग्य-जातम् अदामहे ऽनुभवेम ॥ ५१ ॥
श्लोक-५२
विश्वास-प्रस्तुतिः
तपसा विद्यया युक्तो योगेन सुसमाधिना।
ऋषीनृषिर्हृषीकेशः ससर्जाभिमताः प्रजाः॥
मूलम्
तपसा विद्यया युक्तो योगेन सु16समाधिना।
ऋषीनृषिर्हृषीकेशः ससर्जाभिमताः प्रजाः॥ ५२ ॥
वीरराघवः
विद्या भगवद्-उपासना तपः विवेकादि-साधन-सप्तकं ताभ्यां युक्तः हृषीकाणां व्यष्टीन्द्रियाणाम् ईशः जितेन्द्रियः ऋषिर् ब्रह्मा योगेन प्रकृति-विविक्तात्म-याथात्म्य-ज्ञान-योगेन समाधिना चित्तैकाग्र्येण च ऋषीन् ऋषि-रूपा अभिमताः प्रजाः ससर्ज ॥ ५२ ॥
श्लोक-५३
विश्वास-प्रस्तुतिः
तेभ्यश्चैकैकशः स्वस्य देहस्यांशमदादजः।
यत्तत्समाधियोगर्द्धितपोविद्याविरक्तिमत्॥
मूलम्
तेभ्यश्चैकैकशः स्व17स्य देहस्यांशमदादजः।
यत्तत्समाधियोगर्द्धितपोविद्याविरक्तिमत्॥ ५३ ॥
अनुवाद (हिन्दी)
फिर आदिऋषि ब्रह्माजीने इन्द्रियसंयमपूर्वक तप, विद्या, योग और समाधिसे सम्पन्न हो अपनी प्रिय सन्तान ऋषिगणकी रचना की और उनमेंसे प्रत्येकको अपने समाधि, योग, ऐश्वर्य, तप, विद्या और वैराग्यमय शरीरका अंश दिया॥ ५२-५३॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विंशोऽध्यायः॥ २०॥
वीरराघवः
अजः ब्रह्मा स्वस्य देहस्य शरीरस्य एकैकम् अंशं तेभ्य ऋषिभ्यो ऽदाद् ददौ किन् तच् छरीरं यस्यैकैकम् अदाद् इत्य् अत आह । यच् छरीरं तपो-विद्या-समाधि-योगाः पूर्वोक्ताः ऋद्धिर् अणिम्-आद्य्-ऐश्वर्यं विरक्तिर् विषयेषु निःस्पृहत्वम् एभिर् युक्तम् इत्य् अर्थः ॥ ५३ ॥
इति श्रीमद्-भागवते महा-पुराणे तृतीय-स्कन्धे श्रीमद्-वीर-राघवाचार्य-कृत-भागवत-चन्द्र-चन्द्रिकायां विंशो ऽध्यायः ॥ २० ॥
-
प्रा. पा. - मध्यास्या । ↩︎
-
प्रा. पा. - सारवित् । ↩︎
-
प्रा. पा. - भूतानि विय । ↩︎
-
प्रा. पा. - मोहं । ↩︎
-
प्रा. पा. - त्युच्चैः । ↩︎
-
प्रा. पा. - तेऽहारिषुर्दे । ↩︎
-
प्रा. पा. - त्वमेव । ↩︎
-
प्रा. पा. - का स्वास्त्वम । ↩︎
-
प्रा. पा. - भीत्या । ↩︎
-
प्रा. पा. - रचला । ↩︎
-
प्रा. पा. - तन्त्रिणः । ↩︎
-
प्रा. पा. - विभोः । ↩︎
-
प्रा. पा. - ऽहीयन्तशिरः केशा । ↩︎
-
प्रा. पा. - ते च । ↩︎
-
प्रा. पा. - ऽसृजद्देहं पुरं पुरुषमात्मनः । ↩︎
-
प्रा. पा. - स समा । ↩︎
-
प्रा. पा. - कशस्तस्य । ↩︎