[एकोनविंशोऽध्यायः]
भागसूचना
हिरण्याक्षवध
श्लोक-१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः।
प्रहस्य प्रेमगर्भेण तदपाङ्गेन सोऽग्रहीत्॥
मूलम्
अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः।
प्रहस्य प्रेमगर्भेण तदपाङ्गेन सोऽग्रहीत्॥ १ ॥
अनुवाद (हिन्दी)
मैत्रेयजी कहते हैं—विदुरजी! ब्रह्माजीके ये कपटरहित अमृतमय वचन सुनकर भगवान्ने उनके भोलेपनपर मुसकराकर अपने प्रेमपूर्ण कटाक्षके द्वारा उनकी प्रार्थना स्वीकार कर ली॥ १॥
वीरराघवः
एवं ब्रह्मणा भाषितो भगवांस्-तद्वचो ऽभिनन्द्यासुराणां बलकर्याम् अपि वेलायां स्व-पराक्रमम् एव प्रदिदर्शयिषया पुनर् युयुध इत्य् आह मुनिः । अवधार्येति । विरिञ्चस्य ब्रह्मणो निर्व्यलीकं निर्दोषम् अमृततुल्यं च वचो ऽवधार्य श्रुत्वा प्रहस्य कालात्मना सर्वं संहर्तुर् ममापि शत्रुबलाद् भयं ब्रवीतीति विहस्य स भगवान् प्रेम-गर्भेण प्रेम-सहितेनापाङ्गेन कटाक्षेण तद् विक्रम्यैनं मृधे हत्वा लोकान् आधेहि शर्मणीति वचो गृहीतवान् ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
ततः सपत्नं मुखतश्चरन्तमकुतोभयम्।
जघानोत्पत्य गदया हनावसुरमक्षजः॥
मूलम्
ततः सपत्नं मुखतश्चरन्तमकुतोभयम्।
जघानोत्पत्य गदया ह1नावसुरमक्षजः॥ २ ॥
वीरराघवः
ततः वचो-ग्रहणानन्तरम् अकुतोभयं कुतश्चिद्-भीति-रहितम् अत एव मुखतः अभिमुखतश् चरन्तं सपत्नम् असुरम् अक्षजो ब्रह्मणो घ्राणेन्द्रियाद् आविर्भूतो भगवान् उत्पत्योद्धृत्य गदया हनौ कपोलस्याधोदेशे जघान ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
सा हता तेन गदया विहता भगवत्करात्।
विघूर्णितापतद्रेजे तदद्भुतमिवाभवत्॥
मूलम्
सा हता तेन गदया विहता भगवत्करात्।
वि2घूर्णितापतद्रेजे तदद्भुतमिवाभवत्॥ ३ ॥
अनुवाद (हिन्दी)
फिर उन्होंने झपटकर अपने सामने निर्भय विचरते हुए शत्रुकी ठुड्डीपर गदा मारी। किन्तु हिरण्याक्षकी गदासे टकराकर वह गदा भगवान्के हाथसे छूट गयी और चक्कर काटती हुई जमीनपर गिरकर सुशोभित हुई। किंतु यह बड़ी अद्भुत-सी घटना हुई॥ २-३॥
वीरराघवः
सा भगवत्-प्रयुक्ता प्राप्तैव गदा तेनासुरेण कर्त्रा गदया हता भगवत्-कराद् विहता च्युता सती विधूर्णिता ध्वनयन्ती अपतत् ततो रेजे रराज तद् भगवत् कराद् विहत्य पतनम् अद्भुतं पश्यताम् आश्चर्यम् इवाभवत् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
स तदा लब्धतीर्थोऽपि न बबाधे निरायुधम्।
मानयन् स मृधे धर्मं विष्वक्सेनं प्रकोपयन्॥
मूलम्
स तदा लब्धतीर्थोऽपि न बबाधे निरायुधम्।
मानयन् स मृधे धर्मं विष्वक्सेनं प्रकोपयन्॥ ४ ॥
अनुवाद (हिन्दी)
उस समय शत्रुपर वार करनेका अच्छा अवसर पाकर भी हिरण्याक्षने उन्हें निरस्त्र देखकर युद्धधर्मका पालन करते हुए उनपर आक्रमण नहीं किया। उसने भगवान्का क्रोध बढ़ानेके लिये ही ऐसा किया था॥ ४॥
वीरराघवः
सो ऽसुरस् तदा लब्ध-तीर्थो लब्धावकाशो ऽपि निरायुधम् आयुध-रहितं विष्वक्सेनं भगवन्तं मृधे युद्धे धर्मं स मानयन् प्रकोपयन् न बबाधे न प्राहरत् । समृधे इति पाठे तु स लब्ध-तीर्थो ऽपि न बाधे समानयन् बभूवेति वाक्यभेदेनान्वयाद् अपौनरुक्त्यं बोध्यम् ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
गदायामपविद्धायां हाहाकारे विनिर्गते।
मानयामास तद्धर्मं सुनाभं चास्मरद्विभुः॥
मूलम्
गदायामपविद्धायां हाहाकारे वि3निर्गते।
मानयामास तद्धर्मं सुनाभं चास्मरद्विभुः॥ ५ ॥
अनुवाद (हिन्दी)
गदा गिर जानेपर और लोगोंका हाहाकार बंद हो जानेपर प्रभुने उसकी धर्मबुद्धिकी प्रशंसा की और अपने सुदर्शनचक्रका स्मरण किया॥ ५॥
वीरराघवः
गदायाम् अपविद्धायां स्वहस्ताद् विहतायां सत्यां पश्यतां हाहाकारे च विनिर्गते च सति विभुर् भगवानस् तस्य दैत्यस्य धर्मं निरायुधाबाधन-रूपं धर्मं मानयामास बह्व् अमन्यत सुनाभं चक्रम् अस्मरच् च स्मरणेन स्व-हस्त-गतम् अकरोद् इत्य् अर्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
तं व्यग्रचक्रं दितिपुत्राधमेन
स्वपार्षदमुख्येन विषज्जमानम्।
चित्रा वाचोऽतद्विदां खेचराणां
तत्रास्मासन् स्वस्ति तेऽमुं जहीति॥
मूलम्
तं व्यग्रचक्रं दितिपुत्राधमेन स्वपार्षदमुख्येन विषज्जमानम्।
चित्रा वाचोऽतद्विदां खेचराणां तत्रास्मासन् स्वस्ति तेऽमुं जहीति॥ ६ ॥
अनुवाद (हिन्दी)
चक्र तुरंत ही उपस्थित होकर भगवान्के हाथमें घूमने लगा। किंतु वे अपने प्रमुख पार्षद दैत्याधम हिरण्याक्षके साथ विशेषरूपसे क्रीडा करने लगे। उस समय उनके प्रभावको न जाननेवाले देवताओंके ये विचित्र वचन सुनायी देने लगे—‘प्रभो! आपकी जय हो; इसे और न खेलाइये, शीघ्र ही मार डालिये’॥ ६॥
वीरराघवः
तं भगवता स्मृतं दितिपुत्राभिधेन दितिपुत्र इति नाम्ना व्यवह्रियमाणेन स्वपार्षद-मुख्येन विषज्जमानं विशेषेण सङ्गं प्राप्नुवन्तं व्यग्र-चक्रं संभ्रम-युक्त-चक्रं प्रति दृष्टेति शेषो वा । अतद्-विदां तच्-चक्र-प्रभावम् अविदां खेचराणां चित्रा बहुविधा वाचः अमुम् असुरं जहि ते तुभ्यं स्वस्त्य् अस्त्व् इत्य् एवम्-आदिकाः तत्र युद्ध-देशे आसन् स्म बभूवुर् इत्य् अर्थः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
स तं निशाम्यात्तरथाङ्गमग्रतो
व्यवस्थितं पद्मपलाशलोचनम्।
विलोक्य चामर्षपरिप्लुतेन्द्रियो
रुषा स्वदन्तच्छदमादशच्छ्वसन्॥
मूलम्
स तं निशाम्यात्तरथाङ्गमग्रतो व्यवस्थितं पद्मपलाशलोचनम्।
विलोक्य चामर्षपरिप्लुतेन्द्रियो रुषा स्वदन्तच्छदमादशच्छ्वसन्॥ ७ ॥
मूलम् - कर्णावती
स तं निशाम्यात्तरथाङ्गमग्रतो व्यस्थितं पद्मपलाशलोचनम्।
विलोक्य चामर्षपरिप्लुतेन्द्रियो रुषा स्वदन्तच्छदमादशच्छ्वसन्॥ ७ ॥
अनुवाद (हिन्दी)
जब हिरण्याक्षने देखा कि कमल-दल-लोचन श्रीहरि उसके सामने चक्र लिये खड़े हैं, तब उसकी सारी इन्द्रियाँ क्रोधसे तिलमिला उठीं और वह लम्बी साँसें लेता हुआ अपने दाँतोंसे होठ चबाने लगा॥ ७॥
वीरराघवः
सो ऽसुरः पद्म-पलाशाक्षम् आत्तं रथाङ्गं चक्रं येन तं भगवन्तं निशाम्य दृष्ट्वाग्रतो व्यवस्थितं च विलोक्यामर्षेण क्रोधेन परिप्लुतानि क्षुभितानीन्द्रियाणि यस्य सः रुषा क्रोधेन श्वसन् स्वदन्तच्छदं स्वाधरोष्ठम् आदशत् समन्ताद् दष्टवान् ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
करालदंष्ट्रश्चक्षुर्भ्यां सञ्चक्षाणो दहन्निव।
अभिप्लुत्य स्वगदया हतोऽसीत्याहनद्धरिम्॥
मूलम्
करालदंष्ट्रश्चक्षुर्भ्यां सञ्चक्षाणो दहन्निव।
अभिप्लुत्य स्वगदया हतोऽसीत्याहनद्धरिम्॥ ८ ॥
अनुवाद (हिन्दी)
उस समय वह तीखी दाढ़ोंवाला दैत्य, अपने नेत्रोंसे इस प्रकार उनकी ओर घूरने लगा मानो वह भगवान्को भस्म कर देगा। उसने उछलकर ‘ले, अब तू नहीं बच सकता’ इस प्रकार ललकारते हुए श्रीहरिपर गदासे प्रहार किया॥ ८॥
वीरराघवः
कराल-दंष्ट्रः दंष्ट्रो ऽसुरः चक्षुर्भ्यां दहन्न् इव संचक्षाणो सम्यक् पश्यन् अभिद्रुत्य अभिमुखम् आगत्य हरिं भगवन्तं हतो ऽसीत्य् उच्चरन् स्वगदयाहनत् प्रजघान ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
पदा सव्येन तां साधो भगवान् यज्ञसूकरः।
लीलया मिषतः शत्रोः प्राहरद्वातरंहसम्॥
मूलम्
पदा सव्येन तां साधो भगवान् यज्ञसूकरः।
लीलया मिषतः शत्रोः प्राहरद्वातरंहसम्॥ ९ ॥
वीरराघवः
यज्ञ-सूकरः यज्ञमूर्तिर् आदि-सुकरो भगवान् वात-रंहसं वायु-वेगां ताम् अप्राप्ताम् एव गदां सव्येन पदा वाम-पादेन शत्रोर् मिषतः पश्यतः सतः लीलया प्राहरत् ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
आह चायुधमाधत्स्व घटस्व त्वं जिगीषसि।
इत्युक्तः स तदा भूयस्ताडयन् व्यनदद् भृशम्॥
मूलम्
आह चायुधमाधत्स्व घटस्व त्वं जिगीषसि।
इत्युक्तः स तदा भूयस्ताडयन् व्यनदद् भृशम्॥ १० ॥
अनुवाद (हिन्दी)
साधुस्वभाव विदुरजी! यज्ञमूर्ति श्रीवराहभगवान्ने शत्रुके देखते-देखते लीलासे ही अपने बायें पैरसे उसकी वह वायुके समान वेगवाली गदा पृथ्वीपर गिरा दी और उससे कहा, ‘अरे दैत्य! तू मुझे जीतना चाहता है, इसलिये अपना शस्त्र उठा ले और एक बार फिर वार कर।’ भगवान्के इस प्रकार कहनेपर उसने फिर गदा चलायी और बड़ी भीषण गर्जना करने लगा॥ ९-१०॥
वीरराघवः
ततः आयुधम् आधत्स्व गृहाण घटस्व यतस्व त्वम् अवश्यं जिगीषसीत्य् आह च उक्तवांश् च । एवम् उक्तः स असुरः तया पदा ताडितया पुनः गृहीतया गदया भूयः पुनर् भगवन्तं ताडयन् भृशं व्यनदत् नादं चकार ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
तां स आपततीं वीक्ष्य भगवान् समवस्थितः।
जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम्॥
मूलम्
तां स आपततीं वीक्ष्य भगवान् समवस्थितः।
जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम्॥ ११ ॥
अनुवाद (हिन्दी)
गदाको अपनी ओर आते देखकर भगवान् ने, जहाँ खड़े थे वहींसे, उसे आते ही अनायास इस प्रकार पकड़ लिया, जैसे गरुड साँपिनको पकड़ ले॥ ११॥
वीरराघवः
ताम् असुरेण प्रयुक्ताम् आपतन्तीम् आगच्छन्तीं गदां वीक्ष्य भगवान् गरुत्मान् पन्नगीं सर्पम् इव प्राप्तां समीपं प्राप्तां लीलया जग्राह ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
स्वपौरुषे प्रतिहते हतमानो महासुरः।
नैच्छद्गदां दीयमानां हरिणा विगतप्रभः॥
मूलम्
स्वपौरुषे प्रतिहते हतमानो महासुरः।
नैच्छद्गदां दीयमानां हरिणा विगतप्रभः॥ १२ ॥
अनुवाद (हिन्दी)
अपने उद्यमको इस प्रकार व्यर्थ हुआ देख उस महादैत्यका घमंड ठंडा पड़ गया और उसका तेज नष्ट हो गया। अबकी बार भगवान्के देनेपर उसने उस गदाको लेना न चाहा॥ १२॥
वीरराघवः
एवं स्व-पौरुषे स्व-वीर्ये प्रतिहते विहते सति हतः विगतः मानो गर्वो यस्य सो ऽसुरः अतः एव विगत-प्रभः विनष्ट-तेजाः हरिणा दीयमानाम् अपि गदां नैच्छत् ग्रहीतुम् इति शेषः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
जग्राह त्रिशिखं शूलं ज्वलज्ज्वलनलोलुपम्।
यज्ञाय धृतरूपाय विप्रायाभिचरन् यथा॥
मूलम्
जग्राह त्रिशिखं शूलं ज्वलज्ज्वलनलोलुपम्।
यज्ञाय धृतरूपाय विप्रायाभिचरन् यथा॥ १३ ॥
अनुवाद (हिन्दी)
किंतु जिस प्रकार कोई ब्राह्मणके ऊपर निष्फल अभिचार (मारणादि प्रयोग) करे—मूठ आदि चलाये, वैसे ही उसने श्रीयज्ञपुरुषपर प्रहार करनेके लिये एक प्रज्वलित अग्निके समान लपलपाता हुआ त्रिशूल लिया॥ १३॥
वीरराघवः
किंतु त्रि-शिखं तिस्रः शिखा अग्र-भागा यस्य तं ज्वलन् यो ज्वलनः अग्निस् तद्वल्-लोलुपं स्व-कार्य-करण-व्यग्रं शूलं धृत-वाराह-रूपाय यज्ञाय यज्ञ-मूर्तये जग्राह प्राहिणोत् यज्ञाय धृत-रूपायेति सर्व-यज्ञ-लिङ्गे सर्व-यज्ञ-भोक्तरि तत्-फल-प्रदे स्वेच्छोपात्ताप्राकृत-दिव्य-वराह-रूपे भगवति शूलस्य स्व-कार्य-करणं सूचितम् । एतद् एव दृष्टान्तेन स्पष्टयति । विप्राय ब्रह्म-विद्-विप्रम् उद्दिश्य अभिचरन्-मारण-योगं कुर्वन् यथा न मारयति तथा इत्य् अर्थः । ज्वलन् समिद्धः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
तदोजसा दैत्यमहाभटार्पितं
चकासदन्तः ख उदीर्णदीधिति।
चक्रेण चिच्छेद निशातनेमिना
हरिर्यथा तार्क्ष्यपतत्त्रमुज्झितम्॥
मूलम्
तदोजसा दैत्यमहाभटार्पितं चकासदन्तः ख उदीर्णदीधिति।
चक्रेण चिच्छेद निशातनेमिना हरिर्यथा तार्क्ष्यपतत्त्रमुज्झितम्॥ १४ ॥
अनुवाद (हिन्दी)
महाबली हिरण्याक्षका अत्यन्त वेगसे छोड़ा हुआ वह तेजस्वी त्रिशूल आकाशमें बड़ी तेजीसे चमकने लगा। तब भगवान्ने उसे अपनी तीखी धारवाले चक्रसे इस प्रकार काट डाला, जैसे इन्द्रने गरुडजीके छोड़े हुए तेजस्वी पंखको काट डाला था*॥ १४॥
पादटिप्पनी
- एक बार गरुडजी अपनी माता विनताको सर्पोंकी माता कद्रूके दासीपनेसे मुक्त करनेके लिये देवताओंके पाससे अमृत छीन लाये थे। तब इन्द्रने उनके ऊपर अपना वज्र छोड़ा। इन्द्रका वज्र कभी व्यर्थ नहीं जाता, इसलिये उसका मान रखनेके लिये गरुडजीने अपना एक पर गिरा दिया। उसे उस वज्रने काट डाला।
वीरराघवः
ओजसा वीर्येण दैत्यानां मध्ये महा-भटेन महा-शूरेणार्पितं प्रयुक्तम् । उदीर्णा उद्गता दीधितयो यस्य तद् अन्तः खे आकाश-मध्ये चकासतं प्रकाशमानं तत् त्रिशूलं निशात-नेमिना निशित-धारेण चिच्छेद हरिर् इन्द्रो यथा तार्क्ष्य-पतत्रं तार्क्ष्येणोज्झितं त्यक्तं पक्षम् इवेत्य् अर्थः । पुरा खलु देवान् निर्जित्यामृत-कलशं नयता गरुडेनेन्द्र-प्रयुक्तस्य वज्रायुधस्यामोघस्य मानं दातुं पत्रम् एकं त्यक्तं तच् चेन्द्रो वज्रेण चिच्छेदेतीतिहासो ऽत्रानुसन्धेयः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
वृक्णे स्वशूले बहुधारिणा हरेः
प्रत्येत्य विस्तीर्णमुरो विभूतिमत्।
प्रवृद्धरोषः स कठोरमुष्टिना
नदन् प्रहृत्यान्तरधीयतासुरः॥
मूलम्
वृक्णे स्वशूले बहुधारिणा हरेः प्रत्येत्य विस्तीर्णमुरो विभूतिमत्।
प्रवृद्धरोषः स कठोरमुष्टिना नदन् प्रहृत्यान्तरधीयतासुरः॥ १५ ॥
अनुवाद (हिन्दी)
भगवान्के चक्रसे अपने त्रिशूलके बहुत-से टुकड़े हुए देखकर उसे बड़ा क्रोध हुआ। उसने पास आकर उनके विशाल वक्षःस्थलपर, जिसपर श्रीवत्सका चिह्न सुशोभित है, कसकर घूँसा मारा और फिर बड़े जोरसे गरजकर अन्तर्धान हो गया॥ १५॥
वीरराघवः
अरिणा चक्रेण स्व-शूले बहुधा वृक्णे छिन्ने सति प्रवृद्धः रोषो यस्य सो ऽसुरः प्रत्येत्याभिमुखम् आगत्य स्व-कठिन-तर-मुष्टिना विभूतिम् अलक्ष्म्या आश्रय-भूतं विस्तीर्णं हरेर् भगवतः उरः वक्षः प्रहृत्य प्रताड्यान्तर-धीयतान्तर्-हितवान् ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
तेनेत्थमाहतः क्षत्तर्भगवानादिसूकरः।
नाकम्पत मनाक् क्वापि स्रजा हत इव द्विपः॥
मूलम्
तेनेत्थमाहतः क्षत्तर्भगवानादिसूकरः।
नाकम्पत मनाक् क्वापि स्रजा हत इव द्विपः॥ १६ ॥
अनुवाद (हिन्दी)
विदुरजी! जैसे हाथीपर पुष्पमालाकी चोटका कोई असर नहीं होता, उसी प्रकार उसके इस प्रकार घूँसा मारनेसे भगवान् आदिवराह तनिक भी टस-से-मस नहीं हुए॥ १६॥
वीरराघवः
हे क्षत्तः ! तेनासुरेणेत्थं मुष्टिना आहतस् ताडित आदि-वाराहो भगवान् मनागीषद् अपि नाकम्पत न चलितवान् स्रजा पुष्प-दाम्ना हतो गज इवेति ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
अथोरुधासृजन्मायां योगमायेश्वरे हरौ।
यां विलोक्य प्रजास्त्रस्ता मेनिरेऽस्योपसंयमम्॥
मूलम्
अथोरुधासृजन्मायां योगमायेश्वरे हरौ।
यां विलोक्य प्रजास्त्रस्ता मेनिरेऽस्योपसंयमम्॥ १७ ॥
अनुवाद (हिन्दी)
तब वह महामायावी दैत्य मायापति श्रीहरिपर अनेक प्रकारकी मायाओंका प्रयोग करने लगा, जिन्हें देखकर सभी प्रजा बहुत डर गयी और समझने लगी कि अब संसारका प्रलय होनेवाला है॥ १७॥
वीरराघवः
अथान्तर्धानानन्तरं योग-मायेश्वरे युज्यन्ते इति योगाः तासां मायानाम् ईश्वरे स्व-सम्बन्धिनीनाम् आश्चर्य-शक्तीनां नेतरि हरौ भगवत्य् उरुधा माया असृजत् । कथंभूतां मायाम् असृजद् इत्य् अत्राह । यां विलोक्य दृष्ट्वा त्रस्ता भीताः सर्वाः प्रजा अस्य विश्वस्योपसंयमं प्रलयं मेनिरे अमन्यन्त ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
प्रववुर्वायवश्चण्डास्तमः पांसवमैरयन्।
दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इव॥
मूलम्
प्रववुर्वायवश्चण्डास्तमः पांसवमैरयन्।
दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इव॥ १८ ॥
अनुवाद (हिन्दी)
बड़ी प्रचण्ड आँधी चलने लगी, जिसके कारण धूलसे सब ओर अन्धकार छा गया। सब ओरसे पत्थरोंकी वर्षा होने लगी, जो ऐसे जान पड़ते थे मानो किसी क्षेपणयन्त्र (गुलेल)-से फेंके जा रहे हों॥ १८॥
वीरराघवः
मायाः प्रपञ्चयति । प्रववुर् इत्य्-आदिभिश् चतुर्भिः । प्रचण्डाः प्रचण्ड-वायवः पांसवं पांसुकुतं तम् ऐरयन् प्रसृतवन्तः सन्तः प्रववुः ग्रावाणः अश्मानः दिग्भ्यः क्षेपणैः यन्त्र-विशेषैः प्रहिताः प्रयुक्ता इव निपेतुः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
द्यौर्नष्टभगणाभ्रौघैः सविद्युत्स्तनयित्नुभिः।
वर्षद्भिः पूयकेशासृग्विण्मूत्रास्थीनि चासकृत्॥
मूलम्
द्यौर्नष्टभगणाभ्रौघैः सविद्युत्स्तनयित्नुभिः।
वर्षद्भिः पूयकेशासृग्विण्मूत्रास्थीनि चासकृत्॥ १९ ॥
अनुवाद (हिन्दी)
बिजलीकी चमचमाहट और कड़कके साथ बादलोंके घिर आनेसे आकाशमें सूर्य, चन्द्र आदि ग्रह छिप गये तथा उनसे निरन्तर पीब, केश, रुधिर, विष्ठा, मूत्र और हड्डियोंकी वर्षा होने लगी॥ १९॥
वीरराघवः
पूयं दुर्गन्धि असृक् रक्तं विट्-विष्ठा-पूयादीन् असकृत् पुनः पुनः वर्षद्भिः स-विद्युत्-स्तनयित्नुभिः विद्युत्-सहितं यथा तथा ध्वनयद्भिर् मेघौघैः नष्ट-भगणा नष्टो नक्षत्र-गणो यस्याः तथा-भूता भूद् इत्य् अर्थः । नष्ट-भगणेत्य् अनेन चतुर्मुखोक्त-संध्या वेलातिक्रमः सूचितः, अह्नि नक्षत्राणाम् असम्भवाद् इति भावः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
गिरयः प्रत्यदृश्यन्त नानायुधमुचोऽनघ।
दिग्वाससो यातुधान्यः शूलिन्यो मुक्तमूर्धजाः॥
मूलम्
गिरयः प्रत्यदृश्यन्त नानायुधमुचोऽनघ।
दिग्वाससो यातुधान्यः शूलिन्यो मुक्तमूर्धजाः॥ २० ॥
अनुवाद (हिन्दी)
विदुरजी! ऐसे-ऐसे पहाड़ दिखायी देने लगे, जो तरह-तरहके अस्त्र-शस्त्र बरसा रहे थे। हाथमें त्रिशूल लिये बाल खोले नंगी राक्षसियाँ दीखने लगीं॥ २०॥
वीरराघवः
गिरयः पर्वताः नानायुध-मुचः नानायुधानि मुञ्चन्तः प्रत्यदृश्यन्त दृष्टा बभूवुः तथा यातु-धान्यश् च प्रत्यदृश्यन्त कथं-भूता दिग्वाससः दिगम्बराः शूलिन्यः शूलधारिण्यः मुक्ताः प्रसारिताः मूर्द्ध-जाः केशा यासां ताः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
बहुभिर्यक्षरक्षोभिः पत्त्यश्वरथकुञ्जरैः।
आततायिभिरुत्सृष्टा हिंस्रा वाचोऽतिवैशसाः॥
मूलम्
बहुभिर्यक्षरक्षोभिः पत्त्यश्वरथकुञ्जरैः।
आततायिभिरुत्सृष्टा हिंस्रा वाचोऽति4वैशसाः॥ २१ ॥
अनुवाद (हिन्दी)
बहुत-से पैदल, घुड़सवार, रथी और हाथियोंपर चढ़े सैनिकोंके साथ आततायी यक्ष-राक्षसोंका ‘मारो-मारो, काटो-काटो’ ऐसा अत्यन्त क्रूर और हिंसामय कोलाहल सुनायी देने लगा॥ २१॥
वीरराघवः
तथा आततायिभिर् हिंसाशीलैर् बहुभिर् यक्ष-रक्षोभिः पत्तिः पदातिः पत्त्यादिभिश् चोत्सृष्टाः प्रयुक्ता अति-वैशसा अत्य्-उग्रा हिंस्राः क्रूराः छिन्धि भिन्धीत्य् एवं-रूपाः वाचः प्रत्यसृज्यन्त अश्वादि-शब्दैर् अश्वाद्यारूढा उच्यन्ते ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
प्रादुष्कृतानां मायानामासुरीणां विनाशयत्।
सुदर्शनास्त्रं भगवान् प्रायुङ्क्त दयितं त्रिपात्॥
मूलम्
प्रादुष्कृतानां मायानामासुरीणां विनाशयत्।
सुदर्शनास्त्रं भगवान् प्रायुङ्क्त दयितं त्रिपात्॥ २२ ॥
अनुवाद (हिन्दी)
इस प्रकार प्रकट हुए उस आसुरी माया-जालका नाश करनेके लिये यज्ञमूर्ति भगवान् वराहने अपना प्रिय सुदर्शनचक्र छोड़ा॥ २२॥
वीरराघवः
प्रादुष्कृतानां प्रादुर्भूतानाम् आसुरीणाम् असुर-सम्बन्धिनीनां मायानां विनाशयन् विनाशयितुं मायानाम् इति द्वितीयार्थे षष्ठी । विनाशनम् इति पाठे तु यथाश्रुतैव षष्ठ्य् उपपन्ना । दयितं स्वस्य निरतिशय-प्रियं सुदर्शनास्त्रं त्रिपाद् भगवान् त्रिपाच्-छब्देन त्रिपाद्-विभूतिमान् उपचाराद् विवक्षितः प्रायुङ्क्त प्रयुक्तवान् ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
तदा दितेः समभवत्सहसा हृदि वेपथुः।
स्मरन्त्या भर्तुरादेशं स्तनाच्चासृक् प्रसुस्रुवे॥
मूलम्
तदा दितेः समभवत्सहसा हृदि वेपथुः।
स्मरन्त्या भर्तुरादेशं स्तनाच्चासृक् प्रसुस्रुवे॥ २३ ॥
अनुवाद (हिन्दी)
उस समय अपने पतिका कथन स्मरण हो आनेसे दितिका हृदय सहसा काँप उठा और उसके स्तनोंसे रक्त बहने लगा॥ २३॥
वीरराघवः
तदा भर्तुः कश्यपस्यादेशं लोक-भावनो भगवान् अवतीर्योर्व्याम् इत्य् एवं-रूपं निदेशं स्मरन्त्या दितेर् हृदि सहसा आशु वेपथुः कम्पः समभवद् उत्पन्नः स्तनाद् असृग्-रुधिरं च प्रसुस्रुवे ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
विनष्टासु स्वमायासु भूयश्चाव्रज्य केशवम्।
रुषोपगूहमानोऽमुं ददृशेऽवस्थितं बहिः॥
मूलम्
वि5नष्टासु स्वमायासु भूयश्चाव्रज्य केशवम्।
रुषोपगूहमानोऽमुं ददृशेऽवस्थितं बहिः॥ २४ ॥
अनुवाद (हिन्दी)
अपना माया-जाल नष्ट हो जानेपर वह दैत्य फिर भगवान्के पास आया। उसने उन्हें क्रोधसे दबाकर चूर-चूर करनेकी इच्छासे भुजाओंमें भर लिया, किंतु देखा कि वे तो बाहर ही खड़े हैं॥ २४॥
वीरराघवः
स्व-मायासु विनष्टासु असुरः भूयः पुनश् चाभिमुखम् आगत्य रुषा केशवम् उपगूहमानः बाह्वोर् अन्तरे निधाय संघट्टयन्न् अमुं केशवं बहिर् बाहु-मध्याद् बहिर् अवस्थितं ददर्श ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
तं मुष्टिभिर्विनिघ्नन्तं वज्रसारैरधोक्षजः।
करेण कर्णमूलेऽहन् यथा त्वाष्ट्रं मरुत्पतिः॥
मूलम्
तं मुष्टिभिर्विनिघ्नन्तं वज्रसारैरधोक्षजः।
करेण कर्णमूलेऽहन् यथा त्वाष्ट्रं मरुत्पतिः॥ २५ ॥
अनुवाद (हिन्दी)
अब वह भगवान्को वज्रके समान कठोर मुक्कोंसे मारने लगा। तब इन्द्रने जैसे वृत्रासुरपर प्रहार किया था, उसी प्रकार भगवान्ने उसकी कनपटीपर एक तमाचा मारा॥ २५॥
वीरराघवः
वज्र-सारैर् वज्रवद् एवाभेद्यैर् मुष्टिभिर् निघ्नन्तं ताडयन्तं तम् असुरं करेण हस्तेन कर्ण-मूले ऽहन् जघान यथा मरुत्पतिर् इन्द्रस् त्वाष्ट्रं विश्वरूपम् ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
स आहतो विश्वजिता ह्यवज्ञया
परिभ्रमद्गात्र उदस्तलोचनः।
विशीर्णबाह्वङ्घ्रिशिरोरुहोऽपतद्
यथा नगेन्द्रो लुलितो नभस्वता॥
मूलम्
स आहतो विश्वजि6ता ह्यवज्ञया परिभ्रमद्गात्र उदस्तलोचनः।
वि7शीर्णबाह्वङ्घ्रिशिरोरुहोऽपतद् यथा नगेन्द्रो लुलितो नभस्वता॥ २६ ॥
अनुवाद (हिन्दी)
विश्वविजयी भगवान्ने यद्यपि बड़ी उपेक्षासे तमाचा मारा था, तो भी उसकी चोटसे हिरण्याक्षका शरीर घूमने लगा, उसके नेत्र बाहर निकल आये तथा हाथ-पैर और बाल छिन्न-भिन्न हो गये और वह निष्प्राण होकर आँधीसे उखड़े हुए विशाल वृक्षके समान पृथ्वीपर गिर पड़ा॥ २६॥
वीरराघवः
विश्वसृजा भगवताज्ञया निमित्त-भूतया आहतः सो ऽसुरः भगवद्-भागवतावहेलनम् एव तद्-वध-निमित्तम् इत्य् अवज्ञयेत्य् अनेन सूचितं परिभ्रमद्-गात्रं शरीरं यस्य उदस्ते बहिर् निर्गते लोचने यस्य विशीर्णा विक्षिप्ता बाह्व्-आदयो यस्य सो ऽपतत् यथा नभस्वता वायुना लुलित उत्पाटितः नगेन्द्रः महा-द्रुमः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
क्षितौ शयानं तमकुण्ठवर्चसं
करालदंष्ट्रं परिदष्टदच्छदम्।
अजादयो वीक्ष्य शशंसुरागता
अहो इमां को नु लभेत संस्थितिम्॥
मूलम्
क्षितौ शयानं तमकुण्ठवर्चसं करालदंष्ट्रं परिदष्टदच्छदम्।
अजादयो वीक्ष्य शशंसुरागता अहो इमां को नु लभेत8 संस्थितिम्॥ २७ ॥
अनुवाद (हिन्दी)
हिरण्याक्षका तेज अब भी मलिन नहीं हुआ था। उस कराल दाढ़ोंवाले दैत्यको दाँतोंसे होठ चबाते पृथ्वीपर पड़ा देख वहाँ युद्ध देखनेके लिये आये हुए ब्रह्मादि देवता उसकी प्रशंसा करने लगे कि ‘अहो! ऐसी अलभ्य मृत्यु किसको मिल सकती है॥ २७॥
वीरराघवः
क्षितौ भूम्यां शयानं तथाप्य् अप्रतिहत-तेजस्कं भयङ्कर-दंष्ट्रं परितो दष्टाधरोष्ठं तम् असुरम् आगता अजादयो दृष्ट्वा शशंसुः । तद् एवाह आश्चर्यम् इमाम् ईदृशीं भगवतेत्य् अर्थः । संस्थितिं मरणं को नु लभेत न को ऽपीत्य् अर्थः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
यं योगिनो योगसमाधिना रहो
ध्यायन्ति लिङ्गादसतो मुमुक्षया।
तस्यैष दैत्यऋषभः पदाहतो
मुखं प्रपश्यंस्तनुमुत्ससर्ज ह॥
मूलम्
यं योगिनो योगसमाधिना रहो ध्यायन्ति लिङ्गादसतो मुमुक्षया।
तस्यैष दैत्यऋषभः पदाहतो मुखं प्रपश्यंस्तनुमुत्ससर्ज ह॥ २८ ॥
अनुवाद (हिन्दी)
अपनी मिथ्या उपाधिसे छूटनेके लिये जिनका योगिजन समाधियोगके द्वारा एकान्तमें ध्यान करते हैं, उन्हींके चरण-प्रहारसे उनका मुख देखते-देखते इस दैत्यराजने अपना शरीर त्यागा॥ २८॥
वीरराघवः
एतद् एव प्रपञ्चयति द्वाभ्याम् । योगिनो ऽसतः अचेतन-परिणामाल् लिङ्गाद् देहान् मुमुक्षया मोक्तुम् इच्छया संसार-निवृत्तय इत्य् अर्थः । योग-समाधिना समाधि-योगेन यद् वा कर्म-ज्ञान-योगाभ्यां युक्तो यः समाधिस् तेन यद् वा युज्यन्ते इति योगा विवेक-विमोकादयः तद्-युक्तो यः समाधिस् तेन रह एकान्ते यं भगवन्तं ध्यायन्ति भजन्ति तस्यैव भगवतः पदा पादेन दैत्य-श्रेष्ठो हतः वराह-पूर्व-पादयोर् एव करत्वात् करेणाहन्न् इति चाविरुद्धं मुखं भगवतो मुखं प्रपश्यंस् तनुं शरीरम् उत्ससर्ज तत्याज हेत्य् आश्चर्यम् ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
एतौ तौ पार्षदावस्य शापाद्यातावसद्गतिम्।
पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः॥
मूलम्
एतौ तौ पार्षदावस्य शापाद्यातावसद्गतिम्।
पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः॥ २९ ॥
अनुवाद (हिन्दी)
ये हिरण्याक्ष और हिरण्यकशिपु भगवान्के ही पार्षद हैं। इन्हें शापवश यह अधोगति प्राप्त हुई है। अब कुछ जन्मोंमें ये फिर अपने स्थानपर पहुँच जायँगे’॥ २९॥
वीरराघवः
एतौ हिरण्याक्ष-हिरण्यकशिपू अस्य भगवतः पार्षदौ शापाद् ब्राह्मण-शापाद् असद्गतिम् असुर-योनिं यातौ प्राप्तौ पुनः कतिपयैर् जन्मभिः स्थानं भगवत्-स्थानं प्रपत्स्येते गमिष्यतः ॥ २९ ॥
श्लोक-३०
मूलम् (वचनम्)
देवा ऊचुः
विश्वास-प्रस्तुतिः
नमो नमस्तेऽखिलयज्ञतन्तवे
स्थितौ गृहीतामलसत्त्वमूर्तये।
दिष्ट्या हतोऽयं जगतामरुन्तुद-
स्त्वत्पादभक्त्या वयमीश निर्वृताः॥
मूलम्
नमो नमस्तेऽखिलयज्ञतन्तवे स्थितौ गृहीतामलसत्त्वमूर्तये।
दिष्ट्या हतोऽयं जगतामरुन्तुदस्त्वत्पादभक्त्या वयमीश निर्वृताः॥ ३० ॥
अनुवाद (हिन्दी)
देवतालोग कहने लगे—प्रभो! आपको बारम्बार नमस्कार है। आप सम्पूर्ण यज्ञोंका विस्तार करनेवाले हैं तथा संसारकी स्थितिके लिये शुद्धसत्त्वमय मंगलविग्रह प्रकट करते हैं। बड़े आनन्दकी बात है कि संसारको कष्ट देनेवाला यह दुष्ट दैत्य मारा गया। अब आपके चरणोंकी भक्तिके प्रभावसे हमें भी सुख-शान्ति मिल गयी॥ ३०॥
वीरराघवः
एवं तत्-संस्थितिं प्रशस्य भगवन्तं प्रणमन्त आहुर् देवाः । अखिल-यज्ञ-तन्तवे समस्त-यज्ञोत्पत्ति-हेतवे प्रवर्तकायेत्य् अर्थः । स्थितौ जगद्-रक्षणे निमित्ते गृहीता स्वेच्छयोपात्ता अमला रजस्-तमोभ्याम् अननुविद्धा सत्त्व-मूर्तिर् येन तस्मै ते नमो नमः आदराद् द्विरुक्तिः जगतां लोकानाम् अरुन्तुदः मर्म-च्छेत्ता अयम् असुरः दिष्ट्या दैवाद् धतः । हे ईश ! त्वत्-पादयोर् भक्त्या वयं निर्वृताः सुखिताः । त्वत्-पाद-भक्तिर् एवाभिलषित-श्रेयः-साधनी अत एव वयं निरस्त-शत्रवः सुखिता इति भावः ॥ ३० ॥
श्लोक-३१
मूलम् (वचनम्)
मैत्रेय9 उवाच
विश्वास-प्रस्तुतिः
एवं हिरण्याक्षमसह्यविक्रमं
स सादयित्वा हरिरादिसूकरः।
जगाम लोकं स्वमखण्डितोत्सवं
समीडितः पुष्करविष्टरादिभिः॥
मूलम्
एवं हिरण्याक्षमसह्यविक्रमं स सादयित्वा हरिरादिसूकरः।
जगाम लोकं स्वमखण्डितोत्सवं समीडितः10 पुष्करविष्टरादिभिः॥ ३१ ॥
अनुवाद (हिन्दी)
मैत्रेयजी कहते हैं—विदुरजी! इस प्रकार महापराक्रमी हिरण्याक्षका वध करके भगवान् आदिवराह अपने अखण्ड आनन्दमय धामको पधार गये। उस समय ब्रह्मादि देवता उनकी स्तुति कर रहे थे॥ ३१॥
वीरराघवः
एवं विदुरेण । तेनैव तु मुनि-श्रेष्ठ हरिणा यज्ञ-मूर्तिना इत्य्-आदिना पृष्ठं हिरण्याक्ष-वध-वृत्तं सप्रपञ्चम् अभिधाय तन् निगमयति मैत्रेयो द्वाभ्याम् । असह्य-विक्रमं दुर्धर्ष-पराक्रमं हिरण्याक्षम् एवम् उक्त-प्रकारेण सादयित्वा निहत्य आदि-सूकरः भगवान् पुष्कर-विष्टरादिभिः समीडितः संस्तुतः अखण्डितः अनन्तः उत्सवो यस्मिन् तं स्वं स्वीयं लोकं वैकुण्ठं जगाम ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
मया यथानूक्तमवादि ते हरेः
कृतावतारस्य सुमित्र चेष्टितम्।
यथा हिरण्याक्ष उदारविक्रमो
महामृधे क्रीडनवन्निराकृतः॥
मूलम्
मया यथानूक्तमवादि ते हरेः कृतावतारस्य सुमित्र चेष्टितम्।
यथा हिरण्याक्ष उदारविक्रमो महामृधे क्रीडनवन्निराकृतः॥ ३२ ॥
मूलम् - कर्णावती
मया यथानूक्तमवादि ते हरेः कृतावतारस्य सुमित्र चेष्टितम्।
यथा हिरण्याक्ष उदारविक्रमो प्रहामृधे क्रीडनवन्निराकृतः॥ ३२ ॥
अनुवाद (हिन्दी)
भगवान् अवतार लेकर जैसी लीलाएँ करते हैं और जिस प्रकार उन्होंने भीषण संग्राममें खिलौनेकी भाँति महापराक्रमी हिरण्याक्षका वध कर डाला, मित्र विदुरजी! वह सब चरित जैसा मैंने गुरुमुखसे सुना था, तुम्हें सुना दिया॥ ३२॥
वीरराघवः
अति-दुष्करम् इदं भगवता कृतम् इति त्वया न विस्मयः कार्य्य इत्य् आह । मयेति । हे सुमित्र ! विदुर कृतावतारस्य धृत-वराह-रूपस्य हरेः चेष्टितं से मया ते तुभ्यम् अनूक्तम् उक्तस्योक्तं यथा तथा यथानायासेनैवावादि कथितं तथा उदार-विक्रम उदार-पराक्रमः हिरण्याक्षः मृधे युद्धे क्रीडनवत् क्रीडनम् इव निराकृतः भगवता इति शेषः । यथा हिरण्याक्ष इति पाठे यथा येन प्रकारेण क्रीडनवद् भगवता हिरण्याक्षो निराकृतः तं प्रकारम् अनतिक्रम्यैव यथानूक्तं गुरुक्तिम् अनतिक्रम्य हरेश् चेष्टितं मयावादीति निगमन-परत्वेनान्वेतव्यम् ॥ ३२ ॥
श्लोक-३३
मूलम् (वचनम्)
सूत उवाच
विश्वास-प्रस्तुतिः
इति कौषारवाख्यातामाश्रुत्य भगवत्कथाम्।
क्षत्ताऽऽनन्दं परं लेभे महाभागवतो द्विज॥
मूलम्
इति कौषारवाख्यातामाश्रुत्य भगवत्कथाम्।
क्षत्ताऽऽनन्दं परं लेभे महाभागवतो द्विज॥ ३३ ॥
अनुवाद (हिन्दी)
सूतजी कहते हैं—शौनकजी! मैत्रेयजीके मुखसे भगवान्की यह कथा सुनकर परम भागवत विदुरजीको बड़ा आनन्द हुआ॥ ३३॥
वीरराघवः
एवं निशम्य वाचो वदतो मुनेर् इत्य् आदिनोपक्रान्तं भगवच्-चरित्र-प्रसक्तानुप्रसक्त्या स्वायंभुव-मनु-चरित्र-तद् अनुप्रसक्त-वराह-चरित्र-प्रश्नोत्तर-रूपं विदुर-मैत्रेय-सम्वादम् उपसंहरति भगवान् श्रीशुकः यावद् अध्याय-समाप्ति इत्य् उक्त-प्रकारेण कौषारवाख्यातां मैत्रेय-कथितां भगवत्-कथां भगवत्-कथा-गर्भा स्वायंभुव-कथाम् इत्य् अर्थः । भगवत्-कथाया एव प्राधान्येन कथनीयत्वाद् भगवत्-कथाम् इति निर्देशः । यद् वा भगवत्-कथा निगमतेनैव तद् उपक्रम-रूपा स्वायंभुव-कथा निगमित-प्रायैवेत्य् अभिप्रेत्य भगवत्-कथाम् इत्य् उक्तम् । आश्रुत्याकर्ण्य महा-भागवतः क्षत्ता विदुरः उत्कृष्टम् आनन्दं लेभे लब्धवान् । हे नृप ! परीक्षिद् राजन् । महा-भागवत इति हेतु-गर्भं यतो ऽसौ क्षत्ता महा-भागवस् ततो भगवत्-कथाम् आश्रुत्य परमानन्दं लेभे इत्य् अर्थः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
अन्येषां पुण्यश्लोकानामुद्दामयशसां सताम्।
उपश्रुत्य भवेन्मोदः श्रीवत्साङ्कस्य किं पुनः॥
मूलम्
अन्येषां पुण्यश्लोकानामुद्दामयशसां सताम्।
उपश्रुत्य भवेन्मोदः श्रीवत्साङ्कस्य किं पुनः॥ ३४ ॥
अनुवाद (हिन्दी)
जब अन्य पवित्रकीर्ति और परम यशस्वी महापुरुषोंका चरित्र सुननेसे ही बड़ा आनन्द होता है, तब श्रीवत्सधारी भगवान्की ललित-ललाम लीलाओंकी तो बात ही क्या है॥ ३४॥
वीरराघवः
एतद् एव कैमुत्यन्यायेनाह । अन्येषाम् इति । पुण्य-शीलानां पुण्यैकाचाराणाम् उद्दाम-यशसाम् उदीर्ण-कीर्तीनाम् अन्येषाम् अपि कथाम् आश्रुत्य मोदो भवेच् श्रीवत्साङ्कस्य भगवतः कथाम् उपश्रुत्य मोदो भवेद् इति किं पुनर् वक्तव्यम् इत्य् अर्थः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
यो गजेन्द्रं झषग्रस्तं ध्यायन्तं चरणाम्बुजम्।
क्रोशन्तीनां करेणूनां कृच्छ्रतोऽमोचयद् द्रुतम्॥
मूलम्
यो गजेन्द्रं झषग्रस्तं ध्यायन्तं चरणाम्बुजम्।
क्रोशन्तीनां करेणूनां कृच्छ्रतोऽमोचयद् द्रुतम्॥ ३५ ॥
वीरराघवः
एवं कैमुत्यन्यायेन भगवत्-कथा-श्रवणाद् आनन्दावाप्तिम् अभिधायाश्रितार्ति-निरसनैक-शीलस्याश्रित-सुलभस्यार्थित-पुरुषार्थदस्य भगवतः कथां कृत-घ्नम् अन्तरेण को न सेवेतेत्य् आह द्वाभ्याम् । य इति । झषेण ग्रस्तं मकरेण गृहीतं स्व-चरणाम्बुजं ध्यायन्तं गजेन्द्रं करेणूनां हस्तिनीनां क्रोशन्तीनां रुदन्तीनां सतीनां यो भगवान् कृच्छ्रात् झष-ग्रहणेन दुःखाद् द्रुतम् आशु अमोचयत् त्याजितवान् इत्य् अर्थः ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
तं सुखाराध्यमृजुभिरनन्यशरणैर्नृभिः।
कृतज्ञः को न सेवेत दुराराध्यमसाधुभिः॥
मूलम्
तं सुखाराध्यमृजुभिरनन्यशरणैर्नृभिः।
कृतज्ञः को न सेवेत दुराराध्यमसाधुभिः॥ ३६ ॥
अनुवाद (हिन्दी)
जिस समय ग्राहके पकड़नेपर गजराज प्रभुके चरणोंका ध्यान करने लगे और उनकी हथिनियाँ दुःखसे चिग्घाड़ने लगीं, उस समय जिन्होंने उन्हें तत्काल दुःखसे छुड़ाया और जो सब ओरसे निराश होकर अपनी शरणमें आये हुए सरलहृदय भक्तोंसे सहजमें ही प्रसन्न हो जाते हैं, किंतु दुष्ट पुरुषोंके लिये अत्यन्त दुराराध्य हैं—उनपर जल्दी प्रसन्न नहीं होते, उन प्रभुके उपकारोंको जाननेवाला ऐसा कौन पुरुष है, जो उनका सेवन न करेगा?॥ ३५-३६॥
वीरराघवः
तं भगवन्तं कथंभूतम् अनन्य-शरणैः रक्षकान्तर-रहितैः नृभिर्-नरैः ऋजुभिर् उपायैर् इति शेषः । सुखेनाराधयितुं शक्यम् असाधुभिर् दुराराध्यं कृतज्ञः को न सेवेत कृत-घ्नम् अन्तरेण सर्वो ऽपि सेवेतैवेत्य् अर्थः ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
यो वै हिरण्याक्षवधं महाद्भुतं
विक्रीडितं कारणसूकरात्मनः।
शृणोति गायत्यनुमोदतेऽञ्जसा
विमुच्यते ब्रह्मवधादपि द्विजाः॥
मूलम्
यो वै हिरण्याक्षवधं महाद्भुतं विक्रीडितं कारणसूकरात्मनः।
शृणोति गायत्यनुमोदतेऽञ्जसा वि11मुच्यते ब्रह्मवधादपि द्वि12जाः॥ ३७ ॥
अनुवाद (हिन्दी)
शौनकादि ऋषियो! पृथ्वीका उद्धार करनेके लिये वराहरूप धारण करनेवाले श्रीहरिकी इस हिरण्याक्ष-वध नामक परम अद्भुत लीलाको जो पुरुष सुनता, गाता अथवा अनुमोदन करता है, वह ब्रह्महत्या-जैसे घोर पापसे भी सहजमें ही छूट जाता हैं॥ ३७॥
वीरराघवः
एवं भगवत्-कथा सर्वैर् उपादैयेत्य् अभिधाय प्रकृत-हिरण्याक्ष-वध-वृत्तान्त-श्रवण-कीर्तनानुमोदन-फलम् अवान्तर-प्रधानं चाह - य इति द्वाभ्याम् । महाद्-भुतं भृशं विस्मयनीयं कारण-सूकरात्मनः जगद्-रक्षण-धृत-सूकर-शरीरस्य भगवतो विक्रीडितं क्रीडा-रूपं हिरण्याक्ष-वधं यो द्विजः शृणोति गायति कथयति अनुमोदते ऽभिनन्दति वा स अञ्जसा आशु ब्रह्म-वधात् “ब्रह्म-हत्याश्वमेधाभ्यां नापरं पुण्य-पापयोः” इति निरतिशय-पापत्वेनकीर्तिताद् ब्रह्मवधाद् अपि विमुच्यते त्यज्यते ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
एतन्महापुण्यमलं पवित्रं
धन्यं यशस्यं पदमायुराशिषाम्।
प्राणेन्द्रियाणां युधि शौर्यवर्धनं
नारायणोऽन्ते गतिरङ्ग शृण्वताम्॥
मूलम्
एतन्महापुण्यम13लं पवित्रं धन्यं यशस्यं पदमायुराशिषाम्।
प्राणेन्द्रियाणां युधि शौर्यवर्धनं नारायणोऽन्ते गतिरङ्ग शृण्वताम्॥ ३८ ॥
अनुवाद (हिन्दी)
यह चरित्र अत्यन्त पुण्यप्रद परम पवित्र, धन और यशकी प्राप्ति करानेवाला आयुवर्द्धक और कामनाओंकी पूर्ति करनेवाला तथा युद्धमें प्राण और इन्द्रियोंकी शक्ति बढ़ानेवाला है। जो लोग इसे सुनते हैं, उन्हें अन्तमें श्रीभगवान्का आश्रय प्राप्त होता है॥ ३८॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे हिरण्याक्ष14वधो नामैकोनविंशोऽध्यायः॥ १९ ॥
वीरराघवः
एतद् धिरण्याक्ष-वध-वृत्तान्त-रूपं भगवच्-चरितम् महा-पुण्य-संपादकम् अत एवालं च शौर्य-वर्द्धनं सामर्थ्य-वर्द्धनम् अत एवम् अवान्तर-फल-युक्तं प्रधान-फलम् आह । अङ्ग हे राजन् ! शृण्वतां नृणाम् अन्ते देहान्ते नारायणो गतिः फलं तत् प्राप्तिर् एव फलम् इत्य् अर्थः ॥ ३८ ॥
इति श्रीमद्-भागवते महापुराणे तृतीय-स्कन्धे श्रीमद्-वीर-राघवाचार्य-कृत-भागवत-चन्द्र-चन्द्रिकायाम् एकोनविंशो ऽध्यायः ॥ १९ ॥
-
प्रा. पा. - विननादाथ सुस्वरम् । ↩︎
-
प्राचीने पाठे ‘विघूर्णिता’ भयमुत्तरार्थे नास्ति । ↩︎
-
प्रा. पा. - च निर्गते । ↩︎
-
प्रा. पा. - ऽभिवै । ↩︎
-
प्रा. पा. - व्युदस्तासु च मायासु । ↩︎
-
प्रा. पा. - विश्वसृजा । ↩︎
-
प्रा. पा. - विकीर्णबाह्वङ्घ्रिशिरोधरो । ↩︎
-
प्रा. पा. - कोऽत्र । ↩︎
-
प्राचीने पाठे ‘मैत्रेय उवाच’ अयं पाठो न । ↩︎
-
प्रा. पा. - समीलितः । ‘वधो नाम’ इत्यत्र ‘वधे’ इति पाठः । ↩︎
-
प्रा. पा. - स मुख्यते । ↩︎
-
प्रा. पा. - ध्रुवम् । ↩︎
-
प्रा. पा. - फलं । ↩︎
-
प्राचीने पाठे ‘बधो नाम’ स्थाने ‘वधे’ इति पाठः । ↩︎