१८

[अष्टादशोऽध्यायः]

भागसूचना

हिरण्याक्षके साथ वराहभगवान‍्का युद्ध

श्लोक-१

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

तदेवमाकर्ण्य जलेशभाषितं
महामनास्तद्विगणय्य दुर्मदः।
हरेर्विदित्वा गतिमङ्ग नारदाद्
रसातलं निर्विविशे त्वरान्वितः॥

मूलम्

तदेवमाकर्ण्य जलेशभाषितं महामनास्तद्विगणय्य दुर्मदः।
हरेर्विदित्वा गतिमङ्ग नारदाद् रसातलं निर्विविशे त्वरान्वितः॥ १ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजीने कहा—तात! वरुणजीकी यह बात सुनकर वह मदोन्मत्त दैत्य बड़ा प्रसन्न हुआ। उसने उनके इस कथनपर कि ‘तू उनके हाथसे मारा जायगा’ कुछ भी ध्यान नहीं दिया और चट नारदजीसे श्रीहरिका पता लगाकर रसातलमें पहुँच गया॥ १॥

वीरराघवः

एवं वरुणेनाभाषितो ऽसुरस् तं भगवन्तम् अन्वेषयन् गत इत्याह मुनिः । तत् एवम् उक्त-प्रकारेण जलेश-भाषितं वरुण-भाषितम् आकर्ण्य निशम्य महामनाः प्रतियोद्धारं श्रुत्वा दृष्ट-चित्तः दुर्मद अत एव शयिष्यस इति यद् उक्तं तद् अविगणय्य अङ्ग हे विदुर ! हरेर् भगवतो गतिं मार्गं नारदाद् विदित्वा ज्ञात्वा त्वरान्वितः रसातलं निर्विवेश प्रविष्टवान् ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

श्लोक-२
ददर्श तत्राभिजितं धराधरं
प्रोन्नीयमानावनिमग्रदंष्ट्रया।
मुष्णन्तमक्ष्णा स्वरुचोऽरुणश्रिया
जहास चाहो वनगोचरो मृगः॥

मूलम्

ददर्श तत्राभिजितं धराधरं प्रोन्नीयमानावनिमग्रदंष्ट्रया।
मुष्णन्तमक्ष्णा स्वरुचोऽरुणश्रिया जहास चाहो वनगोचरो मृगः॥ २ ॥

अनुवाद (हिन्दी)

वहाँ उसने विश्वविजयी वराहभगवान‍्को अपनी दाढ़ोंकी नोकपर पृथ्वीको ऊपरकी ओर ले जाते हुए देखा। वे अपने लाल-लाल चमकीले नेत्रोंसे उसके तेजको हरे लेते थे। उन्हें देखकर वह खिलखिलाकर हँस पड़ा और बोला, ‘अरे! यह जंगली पशु यहाँ जलमें कहाँसे आया’॥ २॥

वीरराघवः

तत्र रसातले ऽभितः सर्वतो जयतीत्य् अभिजित्तं हरिं कथंभूतं धराधरं भूधरं पर्वत इव स्थितम् अग्रदंष्ट्रया दंष्ट्राग्रेण प्रोन्नीयमानोर्ध्वं नीयमानावनिर् येन तम् अक्षण-श्रियाक्ष्णा स्व-रुचा हिरण्याक्ष-तेजांसि हरन्तम् अम्बुरुहारुणश्रियम् इति पाठे ऽक्ष्णारुणाम्बुरुहश्रियम् उष्णन्तम् इत्य् अर्थः, ददर्श । अहो वन-गोचरः वनेषु अलक्ष्यमाणः मृगो ऽत्र दृश्यते इति जहासापहसितवांश् च ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

आहैनमेह्यज्ञ महीं विमुञ्च नो
रसौकसां विश्वसृजेयमर्पिता।
न स्वस्ति यास्यस्यनया ममेक्षतः
सुराधमासादितसूकराकृते॥

मूलम्

आहैनमेह्यज्ञ महीं विमुञ्च नो रसौकसां विश्वसृजेयमर्पिता।
न स्वस्ति यास्यस्यनया ममेक्षतः सुराधमासादितसूकराकृ1ते॥ ३ ॥

अनुवाद (हिन्दी)

फिर वराहजीसे कहा, ‘अरे नासमझ! इधर आ, इस पृथ्वीको छोड़ दे; इसे विश्वविधाता ब्रह्माजीने हम रसातलवासियोंके हवाले कर दिया है। रे सूकररूपधारी सुराधम! मेरे देखते-देखते तू इसे लेकर कुशलपूर्वक नहीं जा सकता॥ ३॥

वीरराघवः

तत एवं भगवन्तम् आहोवाच च उक्तिम् एवाह । एह्य् आगच्छाज्ञ ! महीं विमुञ्च रसौकसां पाताल-वासिनां नो ऽस्माकं विश्वसृजा ब्रह्मणा इयं समर्पितान्यथा पातालावतरणम् अस्या न घटत इति भावः । हिरण्याक्षेणाधिक्षेपार्थं प्रयुक्तापीयं भारती वस्तुतो भगवन्तं स्तौति । तथाहि वनगोचरः जलशयो नारायणः स एव योगिभिः मृग्यते इति मृगः दुष्टान् निहन्तुं मृगयत इति वा अज्ञ नास्ति ज्ञो यस्मात् सर्वज्ञेत्य् अर्थः । हे सुराधम ममेक्षतः पश्यतः सत अनया भूम्या सह स्वस्ति मङ्गलं यथा तथा यास्यसि । स्तुति-पक्षे तु सुरा अधमाः यस्मात् हे सुरोत्तम! ममेक्षमाणस्यापि सतः माम् अनादृत्य त्वम् अनया सह वर्तमानो नो ऽस्मदीयं समस्तं मङ्गलं राज्यं यास्यसि तथाप्य् अस्मत्-कृपया विमुञ्चेत्य् अर्थः । आसादिता लीलया स्वीकृता सूकराकृतिर् येन स तत् सम्बोधनम् ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

त्वं नः सपत्नैरभवाय किं भृतो
यो मायया हन्त्यसुरान् परोक्षजित्।
त्वां योगमायाबलमल्पपौरुषं
संस्थाप्य मूढ प्रमृजे सुहृच्छुचः॥

मूलम्

त्वं नः सपत्नैरभ2वाय किं भृतो यो मायया हन्त्यसुरान् परोक्षजित्।
त्वां योगमायाबलमल्पपौरुषं संस्थाप्य मूढ प्रमृजे सुहृच्छुचः॥ ४ ॥

अनुवाद (हिन्दी)

तू मायासे लुक-छिपकर ही दैत्योंको जीत लेता और मार डालता है। क्या इसीसे हमारे शत्रुओंने हमारा नाश करानेके लिये तुझे पाला है? मूढ़! तेरा बल तो योगमाया ही है और कोई पुरुषार्थ तुझमें थोड़े ही है। आज तुझे समाप्तकर मैं अपने बन्धुओंका शोक दूर करूँगा॥ ४॥

वीरराघवः

किंच त्वम् इति । सपत्नैः सुरैर् नो ऽस्माकम् अभवाय नाशाय त्वं भृतः पुष्टः किं परोक्षजित् परोक्षं जयतीति परोक्षजिद्यो मायया सुरान् हंसि त्वां योगमाया आत्मीय-मायैव बलं यस्य तम् अत एवाल्प-पौरुषम् अल्प-बलं संस्थाप्य हत्वा हे मूढ सुहृदां शुचः अश्रूणि प्रसृजे । स्तुति-पक्षे नः सपत्नैर् अभवाय मोक्षाय भृतः किम् आश्रितः यो भवान् परोक्षेणेन्द्रादि-द्वारेण जिन् मायया आत्मीय-सङ्कल्पेनासुरान् हंसि न तु तवास्ति वैषम्यं किन्तु लीलयैवेत्य् अर्थः । योगमायाबलम् आत्मीयम् अचिन्त्यबलम् अथवा ऽल्प-पौरुषम् अल्पं पौरुषं यस्मात् तं त्वां संस्थाप्य हृदि सम्यक् भक्त्या स्थापयित्वा दृढीकृत्येत्य् अर्थः । हे मूढप्र ! मूढान् प्राति आप्याययतीति मूढ-प्रः तत्संबोधनं प्रा पूर्णाव् इति धातुः सुहृदां बन्धूनां शुचः संसार-दुःखानि मृजे नाशयामि यतस् त्वं स्मर्तुर् बान्धवान् अपि मोचयसीत्य् अर्थः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

त्वयि संस्थिते गदया शीर्णशीर्ष-
ण्यस्मद‍्भुजच्युतया ये च तुभ्यम्।
बलिं हरन्त्यृषयो ये च देवाः
स्वयं सर्वे न भविष्यन्त्यमूलाः॥

मूलम्

त्वयि संस्थिते गदया शीर्णशीर्षण्यस्मद‍्भुजच्युतया ये च तुभ्यम्।
बलिं हरन्त्यृषयो ये च देवाः स्वयं सर्वे न भविष्यन्त्यमूलाः॥ ५ ॥

अनुवाद (हिन्दी)

जब मेरे हाथसे छूटी हुई गदाके प्रहारसे सिर फट जानेके कारण तू मर जायगा, तब तेरी आराधना करनेवाले जो देवता और ऋषि हैं, वे सब भी जड़ कटे हुए वृक्षोंकी भाँति स्वयं ही नष्ट हो जायँगे’॥ ५॥

वीरराघवः

त्वयीति । अस्मद्-भुज-च्युतया अस्मद्-वस्त-विसृष्टया गदया शीर्णं भिन्नं शिरो यस्य तस्मिन् स्वयं संस्थिते हते सति तुभ्यं बलिं पूजां ये च ऋषयो देवाश् च हरन्ति कुर्वन्ति ते सर्वे स्वयम् एव प्रयत्नम् अन्तरेण अमूला अनाश्रयाः सन्तः न भविष्यन्ति नक्ष्यन्तीत्य् अर्थः । स्तुति-पक्षे त्व् अस्मद्-भुज-च्युतया गदया शीर्णशीर्षण्य् अपि त्वयि संस्थिते सम्यक् स्थिते सति तुभ्यं बलिं हरन्ति ऋषयो देवाश् च ते सर्वे अमूला न भविष्यन्ति किन्तु दृढमूला एव भविष्यन्तीत्य् अर्थः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

स तुद्यमानोऽरिदुरुक्ततोमरै-
र्दंष्ट्राग्रगां गामुपलक्ष्य भीताम्।
तोदं मृषन्निरगादम्बुमध्याद्
ग्राहाहतः सकरेणुर्यथेभः॥

मूलम्

स तुद्यमानोऽरिदुरुक्ततोमरैर्दंष्ट्राग्रगां गामुपलक्ष्य भीताम्।
तोदं मृषन्निरगादम्बुमध्याद् ग्राहाहृतः सकरेणुर्यथेभः॥ ६ ॥

अनुवाद (हिन्दी)

हिरण्याक्ष भगवान‍्को दुर्वचन-बाणोंसे छेदे जा रहा था; परन्तु उन्होंने दाँतकी नोकपर स्थित पृथ्वीको भयभीत देखकर वह चोट सह ली तथा जलसे उसी प्रकार बाहर निकल आये, जैसे ग्राहकी चोट खाकर हथिनीसहित गजराज॥ ६॥

वीरराघवः

स भगवान् अरेर् असुरस्य दुरुक्तय एव तोमराः शस्त्रविशेषास् तैस् तुद्यमानः व्यथ्यमानः भीतां दंष्ट्राग्र-गतां गां भूमिम् उपलक्ष्य तोदं दुरुक्ति-व्यथां मृषन् सहमानः अम्बु-मध्यात् ग्राहेण मकरेण हस्तिनी सहितः इभो गज इव निरगान् निर्गतः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

तं निःसरन्तं सलिलादनुद्रुतो
हिरण्यकेशो द्विरदं यथा झषः।
करालदंष्ट्रोऽशनिनिःस्वनोऽब्रवीद्
गतह्रियां किं त्वसतां विगर्हितम्॥

मूलम्

तं निःसरन्तं सलिलादनुद्रुतो हिरण्यकेशो द्विरदं यथा झषः।
करालदंष्ट्रोऽशनिनिःस्वनोऽब्रवीद् गतह्रियां किं त्वसतां विगर्हितम्॥ ७ ॥

मूलम् - कर्णावती

तं निःसरन्तं सलिलादनुद्रुतो हिरण्यकेशो द्विरदं यथा झषः।
करालदंष्ट्रोऽशनिनिस्वनोऽब्रवीद् गतह्रियां किं त्वसतां विगर्हितम्॥ ७ ॥

अनुवाद (हिन्दी)

जब उसकी चुनौतीका कोई उत्तर न देकर वे जलसे बाहर आने लगे, तब ग्राह जैसे गजका पीछा करता है, उसी प्रकार पीले केश और तीखी दाढ़ोंवाले उस दैत्यने उनका पीछा किया तथा वज्रके समान कड़ककर वह कहने लगा, ‘तुझे भागनेमें लज्जा नहीं आती? सच है, असत् पुरुषोंके लिये कौन-सा काम न करनेयोग्य है?’॥ ७॥

वीरराघवः

निःसरन्तं सलिलान् निर्गच्छन्तं भगवन्तं गजं यथा झषो मकरस् तथानुद्रुतः अनुधावन् हिरण्यकेशो हिरण्याक्षः कराला भयंकारा दंष्ट्रा यस्य सः अशनिर् इव निःस्वनो यस्य सः अब्रवीत् तद् एवाह । गतह्रियां निर्लज्जानाम् असतां किन्तु विगर्हितम् अस्ति निन्दा-भावात् पलायनं नायुक्तम् इति भावः । स्तुति-पक्षे तु गतह्रियाम् अस्माकं किं विगर्हितम् अस्ति लोकोपकारार्थं भुवम् उद्धरन्तं प्रत्यसताम् अस्माकम् अनुद्रवणम् अनुचितम् एवेत्य् अर्थः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

स गामुदस्तात्सलिलस्य गोचरे
विन्यस्य तस्यामदधात्स्वसत्त्वम्।
अभिष्टुतो विश्वसृजा प्रसूनै-
रापूर्यमाणो विबुधैः पश्यतोऽरेः॥

मूलम्

स गामुदस्तात्सलिलस्य गोचरे विन्यस्य तस्यामदधात्स्वसत्त्वम्।
अभिष्टुतो विश्वसृजा प्रसूनैरापूर्यमाणो विबुधैः पश्यतोऽरेः॥ ८ ॥

अनुवाद (हिन्दी)

भगवान‍्ने पृथ्वीको ले जाकर जलके ऊपर व्यवहारयोग्य स्थानमें स्थित कर दिया और उसमें अपनी आधारशक्तिका संचार किया। उस समय हिरण्याक्षके सामने ही ब्रह्माजीने उनकी स्तुति की और देवताओंने फूल बरसाये॥ ८॥

वीरराघवः

स भगवान् सलिलस्योदस्ताद् उपरि गोचरे व्यवहार-गोचरे देशे गां भूमिं विन्यस्य विनिधाय तस्यां गवि स्व-सत्त्वं स्व-बल-रूपाम् आधार-शक्तिम् अदधान् निहितवान् अरेः शत्रोर् हिरण्याक्षस्य पश्यतः सतः विश्वसृजा ब्रह्मणा ऽभिष्टुतः त्वया साधु कृतम् इत्य् एवम् उक्तः विबुधैर् दैवैः कर्तृभिः प्रसूनैः पुष्पैः करणैर् आपूर्यमाणः विकीर्यमाणः । यद् वाभिष्टुतः तं हिरण्याक्षं बभाषे इत्य् उत्तरेणान्वयः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

परानुषक्तं तपनीयोपकल्पं
महागदं काञ्चनचित्रदंशम्।
मर्माण्यभीक्ष्णं प्रतुदन्तं दुरुक्तैः
प्रचण्डमन्युः प्रहसंस्तं बभाषे॥

मूलम्

परानुषक्तं तपनीयोपकल्पं महागदं काञ्चनचित्रदंशम्।
मर्माण्यभीक्ष्णं प्रतुदन्तं दुरुक्तैः प्रचण्डमन्युः प्रह2संस्तं बभाषे॥ ९ ॥

अनुवाद (हिन्दी)

तब श्रीहरिने बड़ी भारी गदा लिये अपने पीछे आ रहे हिरण्याक्षसे, जो सोनेके आभूषण और अद‍्भुत कवच धारण किये था तथा अपने कटु वाक्योंसे उन्हें निरन्तर मर्माहत कर रहा था, अत्यन्त क्रोधपूर्वक हँसते हुए कहा॥ ९॥

वीरराघवः

परानुषक्तं परा पृष्ठतो ऽनुषक्तम् अनुलग्नम् अनुद्रुतं तपनीयं सुवर्णं तन्मयान्य् उपकल्पानि भूषणानि यस्य तं महती गुर्वी गदा यस्य तं काञ्चनमयं देशं यस्य तं दुरुक्तैर् दुर्वाक्यैर् अभीक्ष्णं पुनः पुनः मर्माणि प्रतुदन्तं व्यधन्तम् असुरं प्रति प्रचण्ड उत्कृष्टः मन्युः क्रोधो यस्य सः भगवान् प्रहसन् सन् बभाषे उवाच सोपालम्भम् इति शेषः ॥ ९ ॥

श्लोक-१०

मूलम् (वचनम्)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

सत्यं वयं भो वनगोचरा मृगा
युष्मद्विधान्मृगये ग्रामसिंहान्।
न मृत्युपाशैः प्रतिमुक्तस्य वीरा
विकत्थनं तव गृह्णन्त्यभद्र॥

मूलम्

सत्यं वयं भो वनगोचरा मृगा युष्मद्विधा3न्मृगये ग्रामसिंहा4न्।
न मृत्युपाशैः प्रतिमुक्तस्य वीरा विकत्थनं तव गृह्णन्त्यभद्र॥ १० ॥

अनुवाद (हिन्दी)

श्रीभगवान‍्ने कहा—अरे! सचमुच ही हम जंगली जीव हैं, जो तुझ-जैसे ग्रामसिंहों (कुत्तों)-को ढूँढ़ते फिरते हैं। दुष्ट! वीर पुरुष तुझ-जैसे मृत्युपाशमें बँधे हुए अभागे जीवोंकी आत्मश्लाघापर ध्यान नहीं देते॥ १०॥

वीरराघवः

तद् वचनम् एवाह । सत्यम् इति । भो ! असुर ! वयं वन-गोचराः मृगा इति यद् उक्तं तत् सत्यम् एव किन्तु युष्मद्-विधान् भवादृशान् ग्राम-सिंहान् शुनः मृगयन् मृगः अन्वेषयन् मृगयितुम् अहं मृगो जात इत्य् अर्थः । मृगय इति पाठे तु मृगये ऽन्वेषयामीत्य् अर्थः । मृत्योः पाशैः प्रतिमुक्तस्य बद्धस्य तवाभद्रम् अमङ्गलं विकत्थनं श्लाघनं धीराः शूरा न गृह्णन्ति नाभिनन्दन्ति । मृत्यु-पाशैः प्रतिमुक्तस्येति हेतु-गर्भं मृत्यु-पाश-प्रतिबद्धत्वाद् यद् विकत्थनं तन् न गृह्णन्तीत्य् अर्थः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

एते वयं न्यासहरा रसौकसां
गतह्रियो गदया द्रावितास्ते।
तिष्ठामहेऽथापि कथञ्चिदाजौ
स्थेयं क्व यामो बलिनोत्पाद्य वैरम्॥

मूलम्

एते वयं न्यासहरा रसौकसां गतह्रियो गदया द्रावितास्ते।
तिष्ठामहेऽथा5पि कथञ्चिदाजौ स्थेयं क्व या6मो बलिनोत्पाद्य वैरम्॥ ११ ॥

अनुवाद (हिन्दी)

हाँ, हम रसातलवासियोंकी धरोहर चुराकर और लज्जा छोड़कर तेरी गदाके भयसे यहाँ भाग आये हैं। हममें ऐसी सामर्थ्य ही कहाँ कि तेरे-जैसे अद्वितीय वीरके सामने युद्धमें ठहर सकें। फिर भी हम जैसे-तैसे तेरे सामने खड़े हैं; तुझ-जैसे बलवानोंसे वैर बाँधकर हम जा भी कहाँ सकते हैं?॥ ११॥

वीरराघवः

तद्-उक्तिं विपर्यये पर्यवसाययन्न् आह । रसौकसां रसातल-वर्तिनां युष्माकं बल-वर्जिता न्यास-हरा एते वयं न्यस्यन्ति निक्षिपन्ति पादाव् अस्मिन्न् इति न्यास आधारः भवताम् आधार-भू-हरा वयम् अयं काकुः । न हि इयं भूमिः रसातल-वर्त्तिनां न्यास इत्य् अर्थः । एते वयं गत-लज्जाः ते त्वया कर्त्रा गदया द्राविताः धाविताः अयम् अपि काकुः अस्माभिर् एव यूयं द्रावयिष्यन्त इत्य् अर्थः । अथापि गदया द्राविता अपि कथंचित् केनापि प्रकारेणाजौ तिष्ठामहे स्थातुम् इच्छामहे । बलिना त्वया सह वैरं विरोधम् उत्पाद्य क्व यामः क्व गमिष्यामः । अत्रापि भवद्-अपेक्षया विलक्षणेनैव प्रकारेणाजौ तिष्ठामहे स्थातुम् इच्छामहे बलिभिर् अस्माभिर् विरोधम् उत्पाद्य क्व यास्यसीति विपर्यये पर्यवसानम् अभिप्रेतम् ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

त्वं पद्रथानां किल यूथपाधिपो
घटस्व नोऽस्वस्तय आश्वनूहः।
संस्थाप्य चास्मान् प्रमृजाश्रु स्वकानां
यः स्वां प्रतिज्ञां नातिपिपर्त्यसभ्यः॥

मूलम्

त्वं पद्रथानां किल यूथपाधिपो घटस्व नोऽस्वस्तय आश्वनूहः।
संस्थाप्य चास्मान् प्रमृजाश्रु स्वकानां यः स्वां प्रतिज्ञां नातिपिपर्त्यसभ्यः॥ १२ ॥

अनुवाद (हिन्दी)

तू पैदल वीरोंका सरदार है, इसलिये अब निःशंक होकर—उधेड़-बुन छोड़कर हमारा अनिष्ट करनेका प्रयत्न कर और हमें मारकर अपने भाई-बन्धुओंके आँसू पोंछ। अब इसमें देर न कर। जो अपनी प्रतिज्ञाका पालन नहीं करता, वह असभ्य है—भले आदमियोंमें बैठने लायक नहीं है॥ १२॥

वीरराघवः

त्वम् इति पद्-रथानां पदातीनां ये यूथपास् तेषाम् अधिपस् त्वं नो ऽस्माकम् अस्वस्तये परिभवायाशु घटस्व यतस्व । अनूहः अशङ्कस् त्वम् अस्मान् संस्थाप्य हत्वा स्वकानाम् अश्रूणि प्रसृज यः पुमान् स्व-प्रतिज्ञां नातिपिपर्ति न पूरयति प्रतिज्ञातार्थ-निवर्तनेन न समापयति स असभ्यः सभायाम् अनर्हः अत्रापि त्वं पद्-रथानाम् इत्यादि-शब्दानां विपर्यय-पर्यवसायित्वं भगवतो ऽभिप्रेतम् ॥ १२ ॥

श्लोक-१३

मूलम् (वचनम्)

मैत्रेय7 उवाच

विश्वास-प्रस्तुतिः

सोऽधिक्षिप्तो भगवता प्रलब्धश्च रुषा भृशम्।
आजहारोल्बणं क्रोधं क्रीड्यमानोऽहिराडिव॥

मूलम्

सोऽधिक्षिप्तो भगवता प्रलब्धश्च रुषा भृशम्।
आजहारोल्बणं क्रोधं क्रीड्यमानोऽहिराडिव॥ १३ ॥

अनुवाद (हिन्दी)

मैत्रेयजी कहते हैं—विदुरजी! जब भगवान‍्ने रोषसे उस दैत्यका इस प्रकार खूब उपहास और तिरस्कार किया, तब वह पकड़कर खेलाये जाते हुए सर्पके समान क्रोधसे तिलमिला उठा॥ १३॥

वीरराघवः

भगवताधिक्षिप्तः तिरस्कृतः उक्त-रीत्या सः रुषा भृशं प्रलब्धः प्रहसितश् चासुरः उल्बणं क्रोधम् आजहार स्वीकृतवान् चुक्रो धेत्य् अर्थः यथा क्रीड्यमानः अहिराट् सर्प-श्रेष्ठः तथेति दृष्टान्तः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

सृजन्नमर्षितः श्वासान्मन्युप्रचलितेन्द्रियः।
आसाद्य तरसा दैत्यो गदयाभ्यहनद्धरिम्॥

मूलम्

सृ8जन्नमर्षितः श्वासान्मन्युप्रचलितेन्द्रियः।
आसाद्य तरसा दैत्यो गदयाभ्यहनद्धरिम्॥ १४ ॥

अनुवाद (हिन्दी)

वह खीझकर लम्बी-लम्बी साँसें लेने लगा, उसकी इन्द्रियाँ क्रोधसे क्षुब्ध हो उठीं और उस दुष्ट दैत्यने बड़े वेगसे लपककर भगवान् पर गदाका प्रहार किया॥ १४॥

वीरराघवः

अमर्षितः क्रुद्धः अत एव निश्वासं सृजन् अत एव मन्युना प्रचलितानीन्द्रियाणि यस्य स दैत्यः आसाद्य समीपम् आगत्य तरसा बलेन गदया हरिम् अभ्यहनत् ताडितवान् ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

भगवांस्तु गदावेगं विसृष्टं रिपुणोरसि।
अवञ्चयत्तिरश्चीनो योगारूढ इवान्तकम्॥

मूलम्

भगवांस्तु गदावेगं विसृष्टं रिपुणोरसि।
अवञ्चयत्तिरश्चीनो योगारूढ इवान्तकम्॥ १५ ॥

अनुवाद (हिन्दी)

किन्तु भगवान‍्ने अपनी छातीपर चलायी हुई शत्रुकी गदाके प्रहारको कुछ टेढ़े होकर बचा लिया—ठीक वैसे ही, जैसे योगसिद्ध पुरुष मृत्युके आक्रमणसे अपनेको बचा लेता है॥ १५॥

वीरराघवः

भगवांस् तु रिपुणासुरेण उरसि विसृष्टं गदाया वेगं तिरश्चीनः तिर्यग्गमनः सन् अन्तकं मृत्युं योगारूढः निष्पन्नयोगीवावञ्चयत् परिहृतवान् इत्य् अर्थः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

पुनर्गदां स्वामादाय भ्रामयन्तमभीक्ष्णशः।
अभ्यधावद्धरिः क्रुद्धः संरम्भाद्दष्टदच्छदम्॥

मूलम्

पुनर्गदां स्वा9मादाय भ्रामयन्तमभीक्ष्णशः।
अभ्यधावद्धरिः क्रुद्धः संरम्भाद्दष्टदच्छदम्॥ १६ ॥

अनुवाद (हिन्दी)

फिर जब वह क्रोधसे होठ चबाता अपनी गदा लेकर बार-बार घुमाने लगा, तब श्रीहरि कुपित होकर बड़े वेगसे उसकी ओर झपटे॥ १६॥

वीरराघवः

पुनस् ताम् अप्राप्ताम् एव गदाम् अभीक्ष्णशः पुनः पुनर् भ्रामयन्तम् असुरं प्रति क्रुद्धो हरिर् अत एव संरम्भात् क्रोधाद् दष्टदच्छदः दष्टाधरः अभ्यधावत् अभिमुखम् अगात् ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

ततश्च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः।
आजघ्ने स तु तां सौम्य गदया कोविदोऽहनत्॥

मूलम्

ततश्च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः।
आजघ्ने स तु10 तां सौम्य गदया कोविदोऽहनत्॥ १७ ॥

अनुवाद (हिन्दी)

सौम्यस्वभाव विदुरजी! तब प्रभुने शत्रुकी दायीं भौंहपर गदाकी चोट की, किन्तु गदायुद्धमें कुशल हिरण्याक्षने उसे बीचमें ही अपनी गदापर ले लिया॥ १७॥

वीरराघवः

ततः अभिधावनानन्तरं प्रभुर् भगवान् स्वगदयारातिं शत्रुं दक्षिणस्यां भ्रुवि दक्षिण-पार्श्वे आजघ्ने प्रजहार हे सौम्य ! विदुर ! स त्व् असुरः कोविदः गदायुद्धे कुशलो ऽत एव तां स्वदक्षिणस्यां भुवि हरिणा युक्ताम् अप्राप्ताम् एव गदयाभ्यहनद् आजघ्ने ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिरेव च।
जिगीषया सुसंरब्धावन्योन्यमभिजघ्नतुः॥

मूलम्

एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिरेव च।
जिगीषया सुसंरब्धावन्योन्यमभिजघ्नतुः॥ १८ ॥

अनुवाद (हिन्दी)

इस प्रकार श्रीहरि और हिरण्याक्ष एक-दूसरेको जीतनेकी इच्छासे अत्यन्त क्रुद्ध होकर आपसमें अपनी भारी गदाओंसे प्रहार करने लगे॥ १८॥

वीरराघवः

हर्यक्षो हिरण्याक्षः हरिश् च सुसंरब्धौ जिगीषयान्यो ऽन्यं जेतुम् इच्छया गुर्वीभ्यां गदाभ्याम् अन्यो ऽन्यं परस्परम् अधिजघ्नतुः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

तयोः स्पृधोस्तिग्मगदाहताङ्गयोः
क्षतास्रवघ्राणविवृद्धमन्य्वोः।
विचित्रमार्गांश्चरतोर्जिगीषया
व्यभादिलायामिव शुष्मिणोर्मृधः॥

मूलम्

तयोः स्पृ11धोस्तिग्मगदाहताङ्गयोः क्षतास्रवघ्राणविवृद्ध12मन्य्वोः।
विचित्रमार्गांश्चरतोर्जिगीषया व्यभादिलायामिव शुष्मिणोर्मृधः॥ १९ ॥

अनुवाद (हिन्दी)

उस समय उन दोनोंमें ही जीतनेकी होड़ लग गयी, दोनोंके ही अंग गदाओंकी चोटोंसे घायल हो गये थे, अपने अंगोंके घावोंसे बहनेवाले रुधिरकी गन्धसे दोनोंका ही क्रोध बढ़ रहा था और वे दोनों ही तरह-तरहके पैतरे बदल रहे थे। इस प्रकार गौके लिये आपसमें लड़नेवाले दो साँड़ोंके समान उन दोनोंमें एक-दूसरेको जीतनेकी इच्छासे बड़ा भयंकर युद्ध हुआ॥ १९॥

वीरराघवः

तयोर् हर्यसुरयोः स्पृधोः स्पर्धमानयोः तिग्माभ्यां गदाभ्याम् आहतानि ताडितान्य् अङ्गानि ययोर् अत एव क्षताद् गदाघाताद् आस्रवतीत्य् आस्रवं रुधिरं तस्य घ्राणेन विवृद्धः मन्युर् ययोस् तयोर् अत एवेलायां भूम्यां निमित्त-भूतायाम् इलार्थम् इत्य् अर्थः जिगीषया परस्पर-जयेच्छया विचित्र-मार्गान् गदा-युद्ध-क्रमेण प्रभेदांश् चरतोर् मृधः संग्रामः शुष्मिणोर् मत्त-वृषभयोर् इव व्यभाद् वभौ ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

दैत्यस्य यज्ञावयवस्य माया-
गृहीतवाराहतनोर्महात्मनः।
कौरव्य मह्यां द्विषतोर्विमर्दनं
दिदृक्षुरागादृषिभिर्वृतः स्वराट्॥

मूलम्

दैत्यस्य यज्ञावयवस्य मायागृहीतवाराहतनोर्महात्मनः।
कौरव्य मह्यां द्विषतोर्विमर्दनं दिदृक्षुरागादृषिभिर्वृतः स्वराट्॥ २० ॥

अनुवाद (हिन्दी)

विदुरजी! जब इस प्रकार हिरण्याक्ष और मायासे वराहरूप धारण करनेवाले भगवान् यज्ञमूर्ति पृथ्वीके लिये द्वेष बाँधकर युद्ध करने लगे, तब उसे देखनेके लिये वहाँ ऋषियोंके सहित ब्रह्माजी आये॥ २०॥

वीरराघवः

दैत्यस्य हिरण्याक्षस्य यज्ञावयवस्य यज्ञमूर्त्तेर् मायया स्वसंकल्पेन गृहीता वाराहतनुर् यस्य तस्य महात्मनः दैत्ये ऽप्य् अनुग्रह-प्रवण-चित्तस्य भगवतश् च हे कौरव्य विदुर ! मह्यां भूम्यां निमित्तभूतायां द्विषतोर् युध्यमानयोर् विमर्दनं युद्धं दिदृक्षुर् द्रष्टुम् इच्छुः स्वराट् ब्रह्मा ऋषिभिर् मरीच्यादिभिर् वृतः अगात् आगतवान् ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

आसन्नशौण्डीरमपेतसाध्वसं
कृतप्रतीकारमहार्यविक्रमम्।
विलक्ष्य दैत्यं भगवान् सहस्रणी-
र्जगाद नारायणमादिसूकरम्॥

मूलम्

आसन्नशौण्डीरमपेतसाध्वसं कृतप्रतीकारमहार्यविक्रमम्।
विलक्ष्य दैत्यं भगवान् सहस्रणीर्जगाद नारायणमादिसूकरम्॥ २१ ॥

अनुवाद (हिन्दी)

वे हजारों ऋषियोंसे घिरे हुए थे। जब उन्होंने देखा कि वह दैत्य बड़ा शूरवीर है, उसमें भयका नाम भी नहीं है, वह मुकाबला करनेमें भी समर्थ है और उसके पराक्रमको चूर्ण करना बड़ा कठिन काम है, तब वे भगवान् आदिसूकररूप नारायणसे इस प्रकार कहने लगे॥ २१॥

वीरराघवः

आगतश् च सहस्रणीः देव-सहस्रं नयतीति देव-सहस्र-नेता भगवान् ब्रह्मा दैत्यम् आलक्ष्यादि-सूकरं नारायणं जगाद कथंभूतं दैत्यम् ? आसन्नं प्राप्तं शौण्डीरं मदो येन तम् अपेतो ऽपगतः साध्वसः यस्मात् तं कृतः प्रतीकारः प्रतिहरण-रूपा प्रतिक्रिया यस्य असह्यः विक्रमो यस्य तम् इति ॥ २१ ॥

श्लोक-२२

मूलम् (वचनम्)

ब्रह्मोवाच

विश्वास-प्रस्तुतिः

एष ते देव देवानामङ्घ्रिमूलमुपेयुषाम्।
विप्राणां सौरभेयीणां भूतानामप्यनागसाम्॥

मूलम्

एष ते देव देवानामङ्घ्रिमूलमुपेयुषाम्।
विप्राणां सौरभेयीणां13 भूतानामप्यनागसाम्॥ २२ ॥

वीरराघवः

उक्तिम् एवाह । एष इत्य् आदिना यावद् अध्याय-समाप्ति एष दैत्यः हे देव नारायण ! ते त्वाङ्घ्रि-मूलं पाद-मूलम् उपेयुषां शरणागतानां विप्राणां सौरभेयीणां धेनूनाम् अनागसां निरपराधिनाम् अपि भूतानां सर्व-जीवानां च ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

आगस्कृद‍्भयकृद्दुष्कृदस्मद्राद्धवरोऽसुरः।
अन्वेषन्नप्रतिरथो लोकानटति कण्टकः॥

मूलम्

14गस्कृद‍्भयकृद्दुष्कृदस्मद्राद्धवरोऽसुरः।
अन्वेषन्नप्रतिरथो लोकानटति कण्टकः॥ २३ ॥

अनुवाद (हिन्दी)

श्रीब्रह्माजीने कहा—देव! मुझसे वर पाकर यह दुष्ट दैत्य बड़ा प्रबल हो गया है। इस समय यह आपके चरणोंकी शरणमें रहनेवाले देवताओं, ब्राह्मणों, गौओं तथा अन्य निरपराध जीवोंको बहुत ही हानि पहुँचानेवाला, दुःखदायी और भयप्रद हो रहा है। इसकी जोड़का और कोई योद्धा नहीं है, इसलिये यह महाकण्टक अपना मुकाबला करनेवाले वीरकी खोजमें समस्त लोकोंमें घूम रहा है॥ २२-२३॥

वीरराघवः

आगस्कृत् निर्निमित्तम् अपराधकृत् तत्-परिहाराय प्रवृत्तौ भयकृद् भीतान् ज्ञात्वा दुष्कृद् अर्थ-प्राणादि-हर्त्ता अस्मत्तो राद्धो लब्धो वरो येन सः स्वयम् अप्रतिरथः प्रतिपक्ष-रहितः अन्वेषयन् प्रतिरथं मृगयन् कण्टक इव लोकान् प्रत्यटति चरति ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

मैनं मायाविनं दृप्तं निरङ्कुशमसत्तमम्।
आक्रीड बालवद्देव यथाऽऽशीविषमुत्थितम्॥

मूलम्

मैनं15 मायाविनं दृप्तं निरङ्कुशमसत्तमम्।
आक्रीड बालवद्देव यथाऽऽशीविषमुत्थितम्॥ २४ ॥

अनुवाद (हिन्दी)

यह दुष्ट बड़ा ही मायावी, घमण्डी और निरंकुश है। बच्चा जिस प्रकार क्रुद्ध हुए साँपसे खेलता है; वैसे ही आप इससे खिलवाड़ न करें॥ २४॥

वीरराघवः

हे देव ! मायाविनं विचित्र-चतुरङ्गादि-बलोत्पादकाश्चर्य-शक्ति-सम्पन्नम् अत एव दृप्तं गर्वितं निरङ्कुशं निरङ्कुश-गजम् इव स्थितम् असत्तमं दुरात्मानम् एनं दैत्यं प्रत्युत्थितम् आशीविषं सर्पं पुच्छाकर्षणादिना बालकवत् मा क्रीड ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

न यावदेष वर्धेत स्वां वेलां प्राप्य दारुणः।
स्वां देव मायामास्थाय तावज्जह्यघमच्युत॥

मूलम्

न यावदेष वर्धेत स्वां वेलां प्राप्य दारुणः।
स्वां देव मायामास्थाय तावज्जह्यघमच्युत॥ २५ ॥

अनुवाद (हिन्दी)

देव! अच्युत! जबतक यह दारुण दैत्य अपनी बल-वृद्धिकी वेलाको पाकर प्रबल हो, उससे पहले-पहले ही आप अपनी योगमायाको स्वीकार करके इस पापीको मार डालिये॥ २५॥

वीरराघवः

दारुण उग्रः एष दैत्यः यावत् स्वां स्व-बल-करीं वेलां संध्यां प्राप्य न वर्द्धेत तावद् एव स्वाम् आत्मीयां मायां बलम् आस्थायाश्रित्य जहि यद् वा स्वां पूर्वोक्त-विधां मायाम् आस्थाय स्वां वेलां प्राप्य यावद् एष न वर्द्धेत तावज् जहीत्य् अन्वयः । हे अच्युताश्रितान् न च्यवते इत्य् अच्युत ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

एषा घोरतमा सन्ध्या लोकच्छम्बट्करी प्रभो।
उपसर्पति सर्वात्मन् सुराणां जयमावह॥

मूलम्

एषा घोरतमा सन्ध्या लोकच्छम्ब16ट्करी प्रभो।
उपसर्पति सर्वात्मन् सुराणां जयमावह॥ २६ ॥

अनुवाद (हिन्दी)

प्रभो! देखिये, लोकोंका संहार करनेवाली सन्ध्याकी भयंकर वेला आना ही चाहती है। सर्वात्मन्! आप उससे पहले ही इस असुरको मारकर देवताओंको विजय प्रदान कीजिये॥ २६॥

वीरराघवः

का सा वेला या आयास्यति यां प्राप्य वर्द्धेत इत्य् उच्यते इत्य् अत्राह । हे प्रभो लोक-छम्बट्करी लोकानां प्रतिकूल-करी लोक-च्छम्बट्करी इति पाठे मोहन-करीत्य् अर्थः । घोरतमा भयङ्करी एषा संध्या उपसर्पति सा आयास्यति हे सर्वात्मन् सुराणां जयम् आवह सम्पादय असुराणां जयापहेति पाठे संध्या-विशेषणम् ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

अधुनैषोऽभिजिन्नाम योगो मौहूर्तिको ह्यगात्।
शिवाय नस्त्वं सुहृदामाशु निस्तर दुस्तरम्॥

मूलम्

अधुनैषोऽभिजिन्नाम योगो मौहूर्तिको ह्यगात्।
शिवाय नस्त्वं सुहृदामाशु निस्तर दुस्तरम्॥ २७ ॥

अनुवाद (हिन्दी)

इस समय अभिजित् नामक मंगलमय मुहूर्तका भी योग आ गया है। अतः अपने सुहृद् हमलोगोंके कल्याणके लिये शीघ्र ही इस दुर्जय दैत्यसे निपट लीजिये॥ २७॥

वीरराघवः

अधुना इदानीम् एष अभिजिन्-नामाभिजिद्-आख्यः मौहूर्तिकः मध्याह्न-मुहूर्त-रूपः योग-युक्तः कालः अगाद् आगतः तत् तस्मात् सुहृदां त्वत्-सुहृदां नः शिवाय स्वस्तये दुस्तरं दुर्जयं दैत्यम् आशु निस्तर जहि ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

दिष्ट्या त्वां विहितं मृत्युमयमासादितः स्वयम्।
विक्रम्यैनं मृधे हत्वा लोकानाधेहि शर्मणि॥

मूलम्

दिष्ट्या त्वां विहितं मृत्युमयमासादितः स्वयम्।
विक्रम्यैनं मृधे हत्वा लोकानाधेहि शर्मणि॥ २८ ॥

अनुवाद (हिन्दी)

प्रभो! इसकी मृत्यु आपके ही हाथ बदी है। हमलोगोंके बड़े भाग्य हैं कि स्वयं ही अपने कालरूप आपके पास आ पहुँचा है। अब आप युद्धमें बलपूर्वक इसे मारकर लोकोंको शान्ति प्रदान कीजिये॥ २८॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे हिरण्याक्षवधेऽष्टादशोऽध्यायः॥ १८ ॥

दिष्ट्येति । विहितं त्वयैव शापानुग्रह-काले विहितम् । यद् वा ।

तदा विश्वेश्वरः क्रुद्धो भगवांल् लोक-भावनः । हनिष्यत्य् अवतीर्यासौ यथाद्रीन् शत-पर्व-धृक् ॥

इति पित्रा कश्यपेनैव विहितं मृत्युं त्वाम् अयम् असुरः स्वयं दिष्ट्या दैवेनैनासादितः एतम् असुरं मृधे युद्धे विक्रम्य पराक्रम्य हत्वेत्य् अर्थः लोकान् शर्मणि सुखे आधेहि सुखोत्तरान् कुर्व् इत्य् अर्थः ॥ २८ ॥

इति श्रीमद्-भागवते महा-पुराणे तृतीय-स्कंधे श्रीमद्-वीर-राघवाचार्य-कृत-भागवत-चन्द्र-चन्द्रिकायाम् अष्टादशो ऽध्यायः ॥ १८ ॥


  1. प्रा. पा. - कृति । ↩︎

  2. प्रा. पा. - रभयाय । ↩︎ ↩︎

  3. प्रा. पा. - द्विधं मृग । ↩︎

  4. प्रा. पा. - सिंहम् । ↩︎

  5. प्रा. पा. - महे चापि । ↩︎

  6. प्रा. पा. - त्वया । ↩︎

  7. प्राचीने पाठे ‘मैत्रेय उवाच’ न । ↩︎

  8. प्रा. पा. - विसु । ↩︎

  9. प्रा. पा. - समा । ↩︎

  10. च तं । ↩︎

  11. प्रा. पा. – तयोर्मृधे तिग्मगदाह । ↩︎

  12. प्रा. पा. - युद्धयोः । ↩︎

  13. प्रा. पा. - भेयाणां । ↩︎

  14. प्राचीने पाठे “आगस्कुद्…” पूर्वार्द्धाऽयं मूले नास्ति । ↩︎

  15. प्रा. पा. - नैनं । ↩︎

  16. प्रा. पा. - च्छह्मकरी । ↩︎