१७

[सप्तदशोऽध्यायः]

भागसूचना

हिरण्यकशिपु और हिरण्याक्षका जन्म तथा हिरण्याक्षकी दिग्विजय

श्लोक-१

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

निशम्यात्मभुवा गीतं कारणं शङ्कयोज्झिताः।
ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः॥

मूलम्

निशम्यात्मभुवा गीतं कारणं शङ्कयोज्झिताः।
ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः॥ १ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजीने कहा—विदुरजी! ब्रह्माजीके कहनेसे अन्धकारका कारण जानकर देवताओंकी शंका निवृत्त हो गयी और फिर वे सब स्वर्गलोकको लौट आये॥ १॥

वीरराघवः

एवम् अथात्रापीति हासो ऽयं श्रुतो मे वर्णितः पुरा । ब्रह्मणा देव-देवेन देवानाम् अनुपृच्छताम् इत्य् उपक्रान्त-देव ब्रह्म-संवाद-रूपम् इतिहासं प्रस्तुत्य तम् एव निगमयन् परम-प्रकृतं हिरण्याक्ष-वधं प्रतुष्टूषुर् ब्रह्म-नारद संवादोपोद्धातम् इतिहासान्तरं परम-प्रकृतेन सङ्गमयन् हिरण्याक्ष-जन्म-प्रभृति-वृत्तान्तम् आह मैत्रेयः । आत्मभुवा ब्रह्मणा गीतं कारणं व्यसन-कारणं निशम्य शङ्कया उज्झिताः क्षेमं विधास्यतीति वचनात् शङ्कया त्यक्ताः सर्वे त्रि-दिवौकसः देवास् ततः ब्रह्म-लोकात् त्रि-दिवाय त्रि-दिवं स्वर्गं प्रति जग्मुः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

दितिस्तु भर्तुरादेशादपत्यपरिशङ्किनी।
पूर्णे वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौ॥

मूलम्

दितिस्तु भर्तुरादेशादपत्यपरिशङ्किनी।
पूर्णे वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौ॥ २ ॥

अनुवाद (हिन्दी)

इधर दितिको अपने पतिदेवके कथनानुसार पुत्रोंकी ओरसे उपद्रवादिकी आशंका बनी रहती थी। इसलिये जब पूरे सौ वर्ष बीत गये, तब उस साध्वीने दो यमज (जुड़वे) पुत्र उत्पन्न किये॥ २॥

वीरराघवः

दितिस् तु भर्तुः कश्यपस्यादेशात् ‘लोकान् सपालान् स्त्रीश् चण्डि मुहुर् आक्रन्दयिष्यत’ इति वाक्यात् स्वापत्याभ्यां देवोपद्रवम् आशङ्कमाना सती वर्षशते पूर्णे सति यमौ द्वौ पुत्रौ प्रसुषुवे प्रसूतवती युगपज् जातौ यमाव् इत्य् उच्येते ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

उत्पाता बहवस्तत्र निपेतुर्जायमानयोः।
दिवि भुव्यन्तरिक्षे च लोकस्योरुभयावहाः॥

मूलम्

उत्पाता बहवस्तत्र निपेतुर्जायमानयोः।
दिवि भुव्यन्तरिक्षे च लोकस्योरुभयावहाः॥ ३ ॥

अनुवाद (हिन्दी)

उनके जन्म लेते समय स्वर्ग, पृथ्वी और अन्तरिक्षमें अनेकों उत्पात होने लगे—जिनसे लोग अत्यन्त भयभीत हो गये॥ ३॥

वीरराघवः

तत्र तज् जन्म-देशे तयोर् जायमानयोः सतोर् दिवि भुवि अन्तरिक्षे बहवः विचित्राः लोकस्योरु भृशं भयावहाः भयंकरा उत्पाताः निपेतुः पतिता उद्बभूवुर् इत्य् अर्थः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

सहाचला भुवश्चेलुर्दिशः सर्वाः प्रजज्वलुः।
सोल्काश्चाशनयः पेतुः केतवश्चार्तिहेतवः॥

मूलम्

सहाचला भुवश्चेलुर्दिशः सर्वाः प्रजज्वलुः।
सोल्काश्चाशनयः पेतुः केतवश्चार्तिहेतवः॥ ४ ॥

अनुवाद (हिन्दी)

जहाँ-तहाँ पृथ्वी और पर्वत काँपने लगे, सब दिशाओंमें दाह होने लगा। जगह-जगह उल्कापात होने लगा, बिजलियाँ गिरने लगीं और आकाशमें अनिष्टसूचक धूमकेतु (पुच्छल तारे) दिखायी देने लगे॥ ४॥

वीरराघवः

तान् एव प्रपञ्चयति । सहेत्य् आदिभिर् एकादशभिः । सहाचला सपर्वता भुवः भूभागाः चेलुश् चलितवत्यः सर्वा दिशः प्रजज्वलुः वह्नि-ज्वाला युक्ता बभूवुः सोल्काः साङ्गाराः अशनयश् च पेतुः पतिताः आर्तिहेतवः लोक-पीडासूचकाः केतवः धूमकेत्वादयः उद्बभूवुर् इति शेषः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

ववौ वायुः सुदुःस्पर्शः फूत्कारानीरयन्मुहुः।
उन्मूलयन्नगपतीन्वात्यानीको रजोध्वजः॥

मूलम्

ववौ वायुः सुदुःस्पर्शः फूत्कारानीरयन्मुहुः।
उन्मूलयन्नगपतीन्वात्यानीको रजोध्वजः॥ ५ ॥

अनुवाद (हिन्दी)

बार-बार सायँ-सायँ करती और बड़े-बड़े वृक्षोंको उखाड़ती हुई बड़ी विकट और असह्य वायु चलने लगी। उस समय आँधी उसकी सेना और उड़ती हुई धूल ध्वजाके समान जान पड़ती थी॥ ५॥

वीरराघवः

सुदुः-स्पर्शः कठिन-स्पर्शः फूत्कारान् इति तीव्र-वायु-शब्दानुकरणम्, तान् मुहुर् ईरयन् ध्वनयन् नगपतीन् वृक्षश्रेष्ठान् उन्मूलयन् वात्याश् चक्रवायवः तेषाम् अनीकः समूहो यस्य रज एव ध्वजो यस्य वात्यानीतेति । पाठे वात्याभिर् आनीतम् उद्धतं रज एव ध्वजो यस्येत्य् अर्थः । एवंविधो वायुर् ववौ प्रासरत् ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

उद्धसत्तडिदम्भोदघटया नष्टभागणे।
व्योम्नि प्रविष्टतमसा न स्म व्यादृश्यते पदम्॥

मूलम्

उद्धसत्तडिदम्भोदघटया नष्टभागणे।
व्योम्नि प्रविष्टतमसा न स्म व्यादृश्यते पदम्॥ ६ ॥

अनुवाद (हिन्दी)

बिजली जोर-जोरसे चमककर मानो खिलखिला रही थी। घटाओंने ऐसा सघन रूप धारण किया कि सूर्य, चन्द्र आदि ग्रहोंके लुप्त हो जानेसे आकाशमें गहरा अँधेरा छा गया। उस समय कहीं कुछ भी दिखायी न देता था॥ ६॥

वीरराघवः

उच्चैर् हसन्त्य इव तडितो येषु तेषाम् अम्भोदानां मेघानां घटया समूहेन नष्टो भागणः सूर्यादौ प्रभा-समूहो यस्मिन् तस्मिन् व्योम्नि प्रविष्ट-तमसा प्रविष्ट-गाढान्धकारेण तत्-पदं तत्-स्थानं न व्यादृश्यत ईषद् अपि नादृश्यतेत्य् अर्थः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

चुक्रोश विमना वार्धिरुदूर्मिः क्षुभितोदरः।
सोदपानाश्च सरितश्चुक्षुभुः शुष्कपङ्कजाः॥

मूलम्

चुक्रोश विमना वार्धिरु1दूर्मिः क्षुभितोदरः।
सोदपानाश्च सरितश्चुक्षुभुः शुष्कपङ्कजाः॥ ७ ॥

अनुवाद (हिन्दी)

समुद्र दुःखी मनुष्यकी भाँति कोलाहल करने लगा, उसमें ऊँची-ऊँची तरंगें उठने लगीं और उसके भीतर रहनेवाले जीवोंमें बड़ी हलचल मच गयी। नदियों तथा अन्य जलाशयोंमें भी बड़ी खलबली मच गयी और उनके कमल सूख गये॥ ७॥

वीरराघवः

वार्धिः समुद्रः विमना दुःखित-चित्त इव उदूर्मिभिः क्षुभितम् उदरम् उदर-स्था मकरादयो यस्य स चुकोश । शुष्कानि पङ्कजानि यासु ताः उदपानाः उदकानि पिबत्य् अस्मिन्न् इति वापी-कूप-तडागादयः तैः सहिताः नद्यश् चुक्षुभुः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

मुहुः परिधयोऽभूवन् सराह्वोः शशिसूर्ययोः।
निर्घाता रथनिर्ह्रादा विवरेभ्यः प्रजज्ञिरे॥

मूलम्

मुहुः परिधयोऽभूवन् सराह्वोः शशिसूर्ययोः।
निर्घाता रथनिर्ह्रादा विवरेभ्यः प्रजज्ञिरे॥ ८ ॥

अनुवाद (हिन्दी)

सूर्य और चन्द्रमा बार-बार ग्रसे जाने लगे तथा उनके चारों ओर अमंगलसूचक मण्डल बैठने लगे। बिना बादलोंके ही गरजनेका शब्द होने लगा तथा गुफाओंमेंसे रथकी घरघराहटका-सा शब्द निकलने लगा॥ ८॥

वीरराघवः

सराह्नो राहु-ग्रस्तयोः शशि-सूर्ययोः मुहुः पुनः पुनः परिधयः परिवेशाः अभवन् निर्घाता निरभ्र-गर्जितानि रथ-निर्ह्रादाः रथ-ध्वनि-तुल्य-ध्वनयः विवरेभ्यः गिरि-गह्वरेभ्यः प्रजज्ञिरे जाताः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम्।
सृगालोलूकटङ्कारैः प्रणेदुरशिवं शिवाः॥

मूलम्

अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम्।
सृगालोलूकटङ्कारैः प्रणेदुरशि2वं शिवाः॥ ९ ॥

मूलम् - कर्णावती

अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम्।
सृगालोलूकटङ्कारैः प्रणेदुरशिवं शिवा॥ ९ ॥

अनुवाद (हिन्दी)

गाँवोंमें गीदड़ और उल्लुओंके भयानक शब्दके साथ ही सियारियाँ मुखसे दहकती हुई आग उगलकर बड़ा अमंगल शब्द करने लगीं॥ ९॥

वीरराघवः

अन्तर् ग्रामेषु ग्राम-मध्येषु मुखतो मुखैः उल्वणं वह्निं वमन्त्यः उद् गिरन्त्यः शिवा गोमायवः सृगालानाम् उलूकानां च टङ्कारैर् ध्वनिभिः सहाशिवं यथा तथा प्रणेदुः ध्वनितवत्यः शिवाः शृगाल-जात्य्-अवान्तर-जातीयाः ग्रामेषु यासां ध्वनिम् अत्यन्तारिष्ट-सूचकं लोका वदन्ति ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

सङ्गीतवद्रोदनवदुन्नमय्य शिरोधराम्।
व्यमुञ्चन् विविधा वाचो ग्रामसिंहास्ततस्ततः॥

मूलम्

सङ्गीतवद्रोदनवदुन्नमय्य शिरोधराम्।
व्यमुञ्चन् विविधा वाचो ग्रामसिंहास्ततस्ततः॥ १० ॥

अनुवाद (हिन्दी)

जहाँ-तहाँ कुत्ते अपनी गरदन ऊपर उठाकर कभी गाने और कभी रोनेके समान भाँति-भाँतिके शब्द करने लगे॥ १०॥

वीरराघवः

ग्राम-सिंहाः श्वानः शिरोधरां कन्धराम् उन्नमय्योद्धृत्य संगीतवद् रोदनवच् च विविधाः वाचो भषणानि ततस् ततः तत्र तत्र व्यमुञ्चन्न् अकुर्वन् इत्य् अर्थः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

खराश्च कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम्।
खार्काररभसा मत्ताः पर्यधावन् वरूथशः॥

मूलम्

खराश्च कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम्।
खार्काररभसा मत्ताः पर्यधावन् वरूथशः॥ ११ ॥

अनुवाद (हिन्दी)

विदुरजी! झुंड-के-झुंड गधे अपने कठोर खुरोंसे पृथ्वी खोदते और रेंकनेका शब्द करते मतवाले होकर इधर-उधर दौड़ने लगे॥ ११॥

वीरराघवः

खुराः गर्दभाः कर्कशैः कठिनैः खुरैर् धरातलं ध्नन्तः ताडयन्तः खरखार्कारो गर्द्दभ-जाति-शब्दः तस्मिन् रभसः सम्भ्रमस् तेन मत्ताः, रभसः सम्भ्रमो येषां त इति वा वरूथशः सङ्घशः पर्यधावन् ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

रुदन्तो रासभत्रस्ता नीडादुदपतन् खगाः।
घोषेऽरण्ये च पशवः शकृन्मूत्रमकुर्वत॥

मूलम्

रुदन्तो रासभत्रस्ता नीडादुदपतन् खगाः।
घोषेऽरण्ये च पशवः शकृन्मूत्रमकुर्वत॥ १२ ॥

अनुवाद (हिन्दी)

पक्षी गधोंके शब्दसे डरकर रोते-चिल्लाते अपने घोंसलोंसे उड़ने लगे। अपनी खिरकोंमें बँधे हुए और वनमें चरते हुए गाय-बैल आदि पशु डरके मारे मल-मूत्र त्यागने लगे॥ १२॥

वीरराघवः

रासभ-त्रस्ताः रासभ-ध्वनि-भीताः खगाः रुदन्तो ध्वनिं कुर्वन्तो नीडात् कुलायाद् उदपतन्न् उद्गम्य निपेतुः । घोषे आभीरपल्ल्याम् अरण्ये च ये पशवः ते शकृत्-पुरीषं मूत्रं चाकुर्वत उत्ससर्जुः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

गावोऽत्रसन्नसृग्दोहास्तोयदाः पूयवर्षिणः।
व्यरुदन्देवलिङ्गानि द्रुमाः पेतुर्विनानिलम्॥

मूलम्

गावोऽत्रसन्नसृग्दोहास्तोयदाः पूयवर्षिणः।
व्यरुदन्देवलिङ्गानि द्रुमाः पेतुर्विनानिलम्॥ १३ ॥

अनुवाद (हिन्दी)

गौएँ ऐसी डर गयीं कि दुहनेपर उनके थनोंसे खून निकलने लगा, बादल पीबकी वर्षा करने लगे, देवमूर्तियोंकी आँखोंसे आँसू बहने लगे और आँधीके बिना ही वृक्ष उखड़-उखड़कर गिरने लगे॥ १३॥

वीरराघवः

गावो ऽसृग्-दोहाः रक्तं दुहन्त्यः अत्र सन्नुद्वेजितवत्यः तोयदाः मेघाः पूय-वर्षिणः कश्मल-वर्षिणो ऽभूवन् देवता-प्रतिमाः व्यरुदन्न् अश्रूण्य् अमुञ्चन्न् अनिलं वायुं विनान्तरेणापि द्रुमाः पेतुः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

ग्रहान् पुण्यतमानन्ये भगणांश्चापि दीपिताः।
अतिचेरुर्वक्रगत्या युयुधुश्च परस्परम्॥

मूलम्

ग्रहान् पुण्यतमानन्ये भगणांश्चापि दीपिताः।
अतिचेरुर्वक्रगत्या युयुधुश्च परस्परम्॥ १४ ॥

अनुवाद (हिन्दी)

शनि, राहु आदि क्रूर ग्रह प्रबल होकर चन्द्र, बृहस्पति आदि सौम्य ग्रहों तथा बहुत-से नक्षत्रोंको लाँघकर वक्रगतिसे चलने लगे तथा आपसमें युद्ध करने लगे॥ १४॥

वीरराघवः

पुण्यतमान् शुभकरान् ग्रहान् गुरु-बुधादीन् भगणान् बहूनि नक्षत्राणि चान्ये क्रूर-ग्रहा अङ्गारकादयो ऽतिपीडिताः यद्वा कर्तरि क्तः आर्षत्वात् पीडा-कराः अतिचेरुर् अतिक्रम्य जग्मुः वक्र-गत्या प्रत्यावृत्य परस्परं युयुधुश् च ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

दृष्ट्वान्यांश्च महोत्पातानतत्तत्त्वविदः प्रजाः।
ब्रह्मपुत्रानृते भीता मेनिरे विश्वसम्प्लवम्॥

मूलम्

दृष्ट्वान्यांश्च महोत्पातानतत्तत्त्वविदः प्रजाः।
ब्रह्मपुत्रानृते भीता मेनिरे विश्वसम्प्लवम्॥ १५ ॥

अनुवाद (हिन्दी)

ऐसे ही और भी अनेकों भयंकर उत्पात देखकर सनकादिके सिवा और सब जीव भयभीत हो गये तथा उन उत्पातोंका मर्म न जाननेके कारण उन्होंने यही समझा कि अब संसारका प्रलय होनेवाला है॥ १५॥

वीरराघवः

अन्याश्चोक्तान् अन्यांश् च महोत्पातान् दृष्ट्वा अत तत्त्वविदस्तद् उत्पात-फलम् अजानत्यः ब्रह्म-पुत्रान् मरीच्यादीन् ऋते ऽन्तरेण सर्वाः प्रजाः भीताः विश्व-सम्प्लवं जगत्-संहारं मेनिरे ऽमन्यन्त । ब्रह्म-पुत्रास् तु त्रैकाल्य-वस्तु-विषय-ज्ञान-सम्पन्ना न भीता इत्य् अर्थः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

तावादिदैत्यौ सहसा व्यज्यमानात्मपौरुषौ।
ववृधातेऽश्मसारेण कायेनाद्रिपती इव॥

मूलम्

तावादिदैत्यौ सहसा व्यज्यमानात्मपौरुषौ।
ववृधातेऽश्मसारेण कायेनाद्रिपती इव॥ १६ ॥

अनुवाद (हिन्दी)

वे दोनों आदिदैत्य जन्मके अनन्तर शीघ्र ही अपने फौलादके समान कठोर शरीरोंसे बढ़कर महान् पर्वतोंके सदृश हो गये तथा उनका पूर्व पराक्रम भी प्रकट हो गया॥ १६॥

वीरराघवः

तौ जाताव् आदि-दैत्यौ सहसा आशु व्यज्यमानम् आत्म-पौरुषं पूर्व-सिद्धं स्व-पौरुषं ययोस् ताव् अश्म-सारेणायस्-तुल्येन कायेनाद्रि-पती इव पर्वत-श्रेष्ठौ इव ववृधाते ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

दिविस्पृशौ हेमकिरीटकोटिभि-
र्निरुद्धकाष्ठौ स्फुरदङ्गदाभुजौ।
गां कम्पयन्तौ चरणैः पदे पदे
कट्या सुकाञ्‍च्‍यार्कमतीत्य तस्थतुः॥

मूलम्

दिविस्पृशौ हेमकिरीटकोटिभिर्निरुद्धकाष्ठौ स्फुरदङ्गदाभु3जौ।
गां कम्पयन्तौ चरणैः पदे पदे कट्या सुकाञ्‍च्‍यार्कमतीत्य तस्थतुः॥ १७ ॥

अनुवाद (हिन्दी)

वे इतने ऊँचे थे कि उनके सुवर्णमय मुकुटोंका अग्रभाग स्वर्गको स्पर्श करता था और उनके विशाल शरीरोंसे सारी दिशाएँ आच्छादित हो जाती थीं। उनकी भुजाओंमें सोनेके बाजूबंद चमचमा रहे थे। पृथ्वीपर जो वे एक-एक कदम रखते थे, उससे भूकम्प होने लगता था और जब वे खड़े होते थे, तब उनकी जगमगाती हुई चमकीली करधनीसे सुशोभित कमर अपने प्रकाशसे सूर्यको भी मात करती थी॥ १७॥

वीरराघवः

पुनस् ताव् एव विशिनष्टि । दिवीति । हेम-किरीट-कोटिभिः स्वर्णमय-मुकुटाग्रैः दिवि-स्पृशौ तौ निरुद्धा काष्ठा दिशो याभ्यां तौ निरुद्ध-कोष्ठाव् इति पाठे भूषण-बद्ध-कोष्ठाव् इत्य् अर्थः । स्फुरन्त्य् अङ्गदानि येषु ते भुजा ययोस् तौ अङ्गदेत्य् आब्-अन्तत्वम् आर्षं चरणैः पादैः पदे पदे प्रति-पाद-विन्यासं गां भूमिं कम्पयन्तौ सुशोभना काञ्ची मेखला यस्यां तया कट्यार्कं सूर्यम् अतीत्यातिक्रम्य तस्थतुः स्थितवन्तौ ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

प्रजापतिर्नाम तयोरकार्षीद्
यः प्राक् स्वदेहाद्यमयोरजायत।
तं वै हिरण्यकशिपुं विदुः प्रजा
यं तं हिरण्याक्षमसूत साग्रतः॥

मूलम्

प्रजापतिर्नाम तयोरकार्षीद् यः प्राक् स्वदेहाद्यमयोरजायत।
तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षमसूत साग्रतः॥ १८ ॥

अनुवाद (हिन्दी)

वे दोनों यमज थे। प्रजापति कश्यपजीने उनका नामकरण किया। उनमेंसे जो उनके वीर्यसे दितिके गर्भमें पहले स्थापित हुआ था, उसका नाम हिरण्यकशिपु रखा और जो दितिके उदरसे पहले निकला, वह हिरण्याक्षके नामसे विख्यात हुआ॥ १८॥

वीरराघवः

तयोर् यमयोर् मध्ये यः स्वदेहात् प्रथमम् अजायत तं हिरण्यकशिपुं यथा विदुः सा दितिः यं प्रथमम् असूत तं हिरण्याक्षं यथा विदुः तथा नामधेयं प्रजापतिः कश्यपः अकार्षीत् कृतवान् । अयं भावः यदा हि गर्भाधान-समये योनि-पुष्पं विशद् वीर्यं द्विधा विभक्तम् आदितः प्राक्-पश्चात्-भावेन प्रविशति तदा यमौ भवतः स्वपितृतः प्रवेश-क्रम-विपर्ययेण मातृतः प्रसूतिः । यदा विशद् द्विधा-भूतं वीर्यं पुष्पं परिक्षरत् द्वौ तदा भवन्तौ गर्भौ सूतिर् वेश-विपर्ययाद् इति । पिण्ड-सिद्धि-स्मरणात् । अतः स्वदेहात् पूर्वं यो जातस् तस्य हिरण्यकशिपुर् इति दितेः प्रथमं प्रसूतस्य हिरण्याक्ष इति नाम कृतवान् इत्य् अर्थः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

चक्रे हिरण्यकशिपुर्दोर्भ्यां ब्रह्मवरेण च।
वशे सपालाल्ँलोकांस्त्रीनकुतोमृत्युरुद्धतः॥

मूलम्

चक्रे हिरण्यकशिपुर्दोर्भ्यां ब्रह्मवरेण च।
वशे सपालाॅंल्लोकांस्त्रीनकुतोमृत्युरुद्धतः॥ १९ ॥

अनुवाद (हिन्दी)

हिरण्यकशिपु ब्रह्माजीके वरसे मृत्युभयसे मुक्त हो जानेके कारण बड़ा उद्धत हो गया था। उसने अपनी भुजाओंके बलसे लोकपालोंके सहित तीनों लोकोंको अपने वशमें कर लिया॥ १९॥

वीरराघवः

हिरण्यकशिपुः स्वदोर्भ्यां भुजाभ्याम् उद्धतः ब्रह्मणश् चतुर्मुखस्य वरेणाकुतो-मृत्युः कुतश्चिद् अपि मृत्यु-रहितः सपालाल्ँ लोकपाल-सहितान् लोकान् वशे चक्रे स्वाधीनान्न् अकार्षीत् ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

हिरण्याक्षोऽनुजस्तस्य प्रियः प्रीतिकृदन्वहम्।
गदापाणिर्दिवं यातो युयुत्सुर्मृगयन् रणम्॥

मूलम्

हिरण्याक्षोऽनुजस्तस्य प्रियः प्रीतिकृदन्वहम्।
गदापाणिर्दिवं यातो युयुत्सुर्मृगयन् रणम्॥ २० ॥

अनुवाद (हिन्दी)

वह अपने छोटे भाई हिरण्याक्षको बहुत चाहता था और वह भी सदा अपने बड़े भाईका प्रिय कार्य करता रहता था। एक दिन वह हिरण्याक्ष हाथमें गदा लिये युद्धका अवसर ढूँढ़ता हुआ स्वर्गलोकमें जा पहुँचा॥ २०॥

वीरराघवः

तस्य हिरण्यकशिपोर् अनुजः पितृ-क्रमाद् अनुजः हिरण्याक्षः प्रियः प्रीति-विषयः अन्वहं स्वयम् अग्रे प्रीतिकृङ्गदा पाणौ यस्य स युयुत्सुर् योद्धुम् इच्छुर् अत एव रणं युद्धं मृगयन् दिवं यातः गतः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

तं वीक्ष्य दुःसहजवं रणत्काञ्चननूपुरम्।
वैजयन्त्या स्रजा जुष्टमंसन्यस्तमहागदम्॥

मूलम्

तं वीक्ष्य दुःसहजवं रणत्काञ्चननूपुरम्।
वैजयन्त्या स्रजा जुष्टमंसन्यस्तमहागदम्॥ २१ ॥

मूलम् - कर्णावती

तं वीक्ष्य दुःसहजवं रणत्काञ्चननूपुरम्।
वजयन्त्या स्रजा जुष्टमंसन्यस्तमहागदम्॥ २१ ॥

अनुवाद (हिन्दी)

उसका वेग बड़ा असह्य था। उसके पैरोंमें सोनेके नूपुरोंकी झनकार हो रही थी, गलेमें विजयसूचक माला धारण की हुई थी और कंधेपर विशाल गदा रखी हुई थी॥ २१॥

वीरराघवः

तं हिरण्याक्षं दुःसह-बलं रणन्ती काञ्चनमये नूपुरे यस्य तं वैजयन्त्या स्रजा पुष्प-पल्लवादि-निर्मित-स्रग्-विशेषो वैजयन्ती तया स्रजा जुष्टम् अलंकृतम् । अंसे स्कन्धे न्यस्ता निहिता महती गुर्वी गदा येन तम् ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

मनोवीर्यवरोत्सिक्तमसृण्यमकुतोभयम्।
भीता निलिल्यिरे देवास्तार्क्ष्यत्रस्ता इवाहयः॥

मूलम्

मनोवीर्यवरोत्सिक्तमसृण्यमकुतोभयम्।
भीता निलिल्यिरे देवास्तार्क्ष्यत्रस्ता इवाहयः॥ २२ ॥

अनुवाद (हिन्दी)

उसके मनोबल, शारीरिक बल तथा ब्रह्माजीके वरने उसे मतवाला कर रखा था; इसलिये वह सर्वथा निरंकुश और निर्भय हो रहा था। उसे देखकर देवतालोग डरके मारे वैसे ही जहाँ-तहाँ छिप गये, जैसे गरुड़के डरसे साँप छिप जाते हैं॥ २२॥

वीरराघवः

मनसा वीर्येण बलेन वरेण च उद्रिक्तं गर्वितम् असृण्यं निरङ्कुशम् अकुतो ऽभयं कुतश्चिद् भीतिम् अकुर्वाणं वीक्ष्य भीताः सन्तो निलिल्यिरे ऽन्तर्हिताः । तत्र दृष्टान्तः तार्क्ष्यात् गरुत्मतः त्रस्ता अहयः सर्पा इवेति ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्यराट्।
सेन्द्रान्देवगणान् क्षीबानपश्यन् व्यनदद् भृशम्॥

मूलम्

स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्यराट्।
सेन्द्रान्देवगणान् क्षीबानपश्यन् व्यनदद् भृशम्॥ २३ ॥

अनुवाद (हिन्दी)

जब दैत्यराज हिरण्याक्षने देखा कि मेरे तेजके सामने बड़े-बड़े गर्वीले इन्द्रादि देवता भी छिप गये हैं, तब उन्हें अपने सामने न देखकर वह बार-बार भयंकर गर्जना करने लगा॥ २३॥

वीरराघवः

स दैत्य-राट् हिरण्याक्षः स्वेन महसा तेजसा तिरोहितान् इन्द्र-सहितान् देव-समूहान् ज्ञात्वा क्षीबो मत्तः न पश्यन् तान् न पश्यन् क्लीबान् अपश्यद् इति पाठे पौरुष-हीनान् अपश्यत् ज्ञातवान् अत एव भृशं व्यनदत् अध्वनत् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

ततो निवृत्तः क्रीडिष्यन् गम्भीरं भीमनिस्वनम्।
विजगाहे महासत्त्वो वार्धिं मत्त इव द्विपः॥

मूलम्

ततो निवृत्तः क्रीडिष्यन् गम्भीरं भीमनिस्वनम्।
विजगाहे महासत्त्वो वार्धिं मत्त इव द्विपः॥ २४ ॥

अनुवाद (हिन्दी)

फिर वह महाबली दैत्य वहाँसे लौटकर जलक्रीडा करनेके लिये मतवाले हाथीके समान गहरे समुद्रमें घुस गया, जिसमें लहरोंकी बड़ी भयंकर गर्जना हो रही थी॥ २४॥

वीरराघवः

ततो दिवः निवृत्तः प्रत्यागतः क्रीडिष्यन् विहरिष्यन् गम्भीरम् अगाधं भीमः निस्वनः तरङ्ग-जन्यो ध्वनिर् यस्मिंस् तं वार्धिं समुद्रं महा-सत्त्वो महा-बलः हिरण्याक्षः द्विपो गज इव विजगाहे विलोडितवान् ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

तस्मिन् प्रविष्टे वरुणस्य सैनिका
यादोगणाः सन्नधियः ससाध्वसाः।
अहन्यमाना अपि तस्य वर्चसा
प्रधर्षिता दूरतरं प्रदुद्रुवुः॥

मूलम्

तस्मिन् प्रविष्टे वरुणस्य सैनिका यादोगणाः सन्नधियः ससाध्वसाः।
अहन्यमाना अपि तस्य वर्चसा प्रधर्षिता दूरतरं प्रदुद्रुवुः॥ २५ ॥

अनुवाद (हिन्दी)

ज्यों ही उसने समुद्रमें पैर रखा कि डरके मारे वरुणके सैनिक जलचर जीव हकबका गये और किसी प्रकारकी छेड़छाड़ न करनेपर भी वे उसकी धाकसे ही घबराकर बहुत दूर भाग गये॥ २५॥

वीरराघवः

तस्मिन् हिरण्याक्षे प्रविष्टे सति वरुण-सैनिका यादो-गणाः ससाध्वसा भय-युक्ताः अत एव सन्न-धियः विषण्ण-बुद्धयः यद् वा ऽवसन्न-बुद्धयः दुःखित-चित्ता इति यावत् । अहन्यमाना अपि तस्यासुरस्य वर्चसा तेजसा प्रधर्षिता अभिभूताः सन्तो दूरतरं प्रदुद्रवुः पलायितवन्तः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

स वर्षपूगानुदधौ महाबल-
श्चरन्महोर्मीञ्छ्वसनेरितान्मुहुः।
मौर्व्याभिजघ्ने गदया विभावरी-
मासेदिवांस्तात पुरीं प्रचेतसः॥

मूलम्

स वर्षपूगानुदधौ महाबलश्चरन्महोर्मी4ञ्छ्वसनेरितान्मुहुः।
मौर्व्याभि5जघ्ने गदया विभावरीमासेदिवांस्तात पुरीं6 प्रचेतसः॥ २६ ॥

अनुवाद (हिन्दी)

महाबली हिरण्याक्ष अनेक वर्षोंतक समुद्रमें ही घूमता और सामने किसी प्रतिपक्षीको न पाकर बार-बार वायुवेगसे उठी हुई उसकी प्रचण्ड तरंगोंपर ही अपनी लोहमयी गदाको आजमाता रहा। इस प्रकार घूमते-घूमते वह वरुणकी राजधानी विभावरीपुरीमें जा पहुँचा॥ २६॥

वीरराघवः

वर्ष-पूर्गान् बृहत्-संवत्सरान् उदधौ समुद्रे चलन् चरन् श्वसनेनेरितान् उत्थितान् महोर्मीनुच्चैस् तरङ्गान् मुहुर् मुहुः मौर्व्या ऽयोमय्या गदया अभिजघ्ने प्रजहार । तत्र विभावरीं प्रचेतसः वरुणस्य पुरीम् आसेदिवान् प्राप्तः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

तत्रोपलभ्यासुरलोकपालकं
यादोगणानामृषभं प्रचेतसम्।
स्मयन् प्रलब्धुं प्रणिपत्य नीचव-
ज्जगाद मे देह्यधिराज संयुगम्॥

मूलम्

तत्रोपलभ्यासुरलोकपालकं यादोगणानामृषभं प्रचेतसम्।
स्मयन् प्रलब्धुं प्रणिपत्य नीचवज्जगाद मे देह्यधिराज संयुगम्॥ २७ ॥

अनुवाद (हिन्दी)

वहाँ पाताललोकके स्वामी, जलचरोंके अधिपति वरुणजीको देखकर उसने उनकी हँसी उड़ाते हुए नीच मनुष्यकी भाँति प्रणाम किया और कुछ मुसकराते हुए व्यंगसे कहा—‘महाराज! मुझे युद्धकी भिक्षा दीजिये॥ २७॥

वीरराघवः

तत्र विभावर्याम् असुराणां यो लोकः पातालः तस्य पालकं यादो-गणाम् ऋषभम् अधिपतिं प्रचेतसं वरुणम् उपलभ्य समीपे प्राप्य स्मयन् ईषद्-धसन् प्रलब्धुं नीचवत् प्रणिपत्य प्रणम्य हे अधिराज ! वरुण मे मह्यं संयुगं देहीति जगाद मया सह युध्यस्वेत्य् उक्तवान् ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

त्वं लोकपालोऽधिपतिर्बृहच्छ्रवा
वीर्यापहो दुर्मदवीरमानिनाम्।
विजित्य लोकेऽखिलदैत्यदानवान्
यद्राजसूयेन पुरायजत्प्रभो॥

मूलम्

त्वं लोकपालोऽधिपतिर्बृहच्छ्रवा वीर्यापहो दुर्मदवीरमानिनाम्।
विजित्य लोकेऽखिल7दैत्यदानवान् यद्राजसूयेन पुरायजत्प्र8भो॥ २८ ॥

अनुवाद (हिन्दी)

प्रभो! आप तो लोकपालक, राजा और बड़े कीर्तिशाली हैं। जो लोग अपनेको बाँका वीर समझते थे, उनके वीर्यमदको भी आप चूर्ण कर चुके हैं और पहले एक बार आपने संसारके समस्त दैत्य-दानवोंको जीतकर राजसूययज्ञ भी किया था’॥ २८॥

वीरराघवः

तस्य युयुत्साम् उत्पादयिषुर् आह । त्वं लोक-पालानाम् अधिपतिः बृहच्-छ्रवा महा-यशाः दुर्मदा ये वीरम् आत्मानं मन्यन्ते तेषां वीर्यापहर्ता कथम् अहम् एवंविधस् त्वया निश्चित इत्य् अत्राह । यद् यस्मात् पुराखिलान् दैत्यान् दानवांश् च विजित्य राजसूयेनायजद् इष्टवान् ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

स एवमुत्सिक्तमदेन विद्विषा
दृढं प्रलब्धो भगवानपां पतिः।
रोषं समुत्थं शमयन् स्वया धिया
व्यवोचदङ्गोपशमं गता वयम्॥

मूलम्

स एवमुत्सिक्तमदेन विद्विषा दृढं प्रलब्धो भगवानपां पतिः।
रोषं समुत्थं शमयन् स्वया धिया व्यवोचदङ्गोपशमं गता वयम्॥ २९ ॥

अनुवाद (हिन्दी)

उस मदोन्मत्त शत्रुके इस प्रकार बहुत उपहास करनेसे भगवान् वरुणको क्रोध तो बहुत आया, किंतु अपने बुद्धिबलसे वे उसे पी गये और बदलेमें उससे कहने लगे—‘भाई! हमें तो अब युद्धादिका कोई चाव नहीं रह गया है॥ २९॥

वीरराघवः

हे प्रभो! स भगवान् अपां पतिः वरुणः उद्रिक्तम् अदेन विद्विषा असुरेणैवम् उक्तः दृढं यथा तथा प्रलब्धो विप्रलब्धः समुत्थ-रोषं स्वया धिया शमयन्न् उवाच हे असुर ! वयम् उपशमं युयुत्सायाम् उपरमं गताः प्राप्ताः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

पश्यामि नान्यं पुरुषात्पुरातनाद्
यः संयुगे त्वां रणमार्गकोविदम्।
आराधयिष्यत्यसुरर्षभेहि तं
मनस्विनो यं गृणते भवादृशाः॥

मूलम्

पश्यामि नान्यं पुरुषात्पुरातनाद् यः संयुगे त्वां रणमार्गकोविदम्।
आराधयिष्यत्यसुरर्षभेहि तं मनस्विनो यं गृणते भवादृशाः॥ ३० ॥

अनुवाद (हिन्दी)

भगवान् पुराणपुरुषके सिवा हमें और कोई ऐसा दीखता भी नहीं जो तुम-जैसे रणकुशल वीरको युद्धमें सन्तुष्ट कर सके। दैत्यराज! तुम उन्हींके पास जाओ, वे ही तुम्हारी कामना पूरी करेंगे। तुम-जैसे वीर उन्हींका गुणगान किया करते हैं॥ ३०॥

वीरराघवः

किञ्च सनातनात् पुरुषात् परम-पुरुषात् हे असुरर्षभ ! युद्ध-मार्गेषु कोविदं निपुणं त्वां यः संयुगे आराधयिष्यति तम् अन्यं न पश्यामः अतस् त्वं पुरुषम् एहि गच्छ कीदृशो ऽसौ पुरुषः यम् इहीत्य् उच्यत इत्य् अत्राह । भवादृशा मनस्विनः स्वैराः यं पुरुषं गृणते स्तुवन्ति ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

तं वीरमारादभिपद्य विस्मयः
शयिष्यसे वीरशये श्वभिर्वृतः।
यस्त्वद्विधानामसतां प्रशान्तये
रूपाणि धत्ते सदनुग्रहेच्छया॥

मूलम्

तं वीरमारादभिपद्य विस्मयः शयिष्यसे वीरशये श्वभिर्वृतः।
यस्त्वद्विधानामसतां प्रशान्तये रूपाणि धत्ते सदनुग्रहेच्छया॥ ३१ ॥

अनुवाद (हिन्दी)

वे बड़े वीर हैं। उनके पास पहुँचते ही तुम्हारी सारी शेखी पूरी हो जायगी और तुम कुत्तोंसे घिरकर वीरशय्यापर शयन करोगे। वे तुम-जैसे दुष्टोंको मारने और सत्पुरुषोंपर कृपा करनेके लिये अनेक प्रकारके रूप धारण किया करते हैं’॥ ३१॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे हिरण्याक्षदिग्विजये सप्तदशोऽध्यायः॥ १७ ॥

वीरराघवः

वीरं तं परम-पुरुषम् आरात् समीपे ऽभिपद्य विस्मयो विगत-गर्वः वीर-शये रण-प्रदेशे श्वभिर् वृतः परिवेष्टितः शयिष्यसे भवान् इव सो ऽपि न युयुत्सति चेत् किं विधेयम् इत्य् अत्राह । यो हि भगवांस् त्वद्-विधानाम् असतां प्रशान्तये विनाशाय सताम् अनुग्रहेच्छया रूपाणि वराहाद्य् अवतारान् धत्ते बिभर्ति ॥ ३१ ॥

इति श्रीमद्-भागवत महा-पुराणे तृतीय-स्कन्धे श्रीमद्-वीर-राघवाचार्य-कृत-भागवत-चन्द्र-चन्द्रिकायां सप्त-दशो ऽध्यायः ॥ १७ ॥


  1. प्रा. पा. - रूर्मिभिः क्षुभि । ↩︎

  2. प्रा. पा. - शिवाः । ↩︎

  3. प्रा. पा. - दावुभौ । ↩︎

  4. प्रा. पा. — महोम्युच्छ्वस । ↩︎

  5. प्रा. पा. - मौर्व्या निज । ↩︎

  6. प्रा. पा. - पुरं । ↩︎

  7. प्रा. पा. - खिलदेवदानः । ↩︎

  8. प्रा. पा. - प्रभुः । ↩︎