१६

[षोडशोऽध्यायः]

भागसूचना

जय-विजयका वैकुण्ठसे पतन

श्लोक-१

मूलम् (वचनम्)

ब्रह्मोवाच

विश्वास-प्रस्तुतिः

इति तद् गृणतां तेषां मुनीनां योगधर्मिणाम्।
प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुः॥

मूलम्

इति तद् गृ1णतां तेषां मुनीनां योगधर्मिणाम्।
प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुः॥ १ ॥

अनुवाद (हिन्दी)

श्रीब्रह्माजीने कहा—देवगण! जब योगनिष्ठ सनकादि मुनियोंने इस प्रकार स्तुति की, तब वैकुण्ठ-निवास श्रीहरिने उनकी प्रशंसा करते हुए यह कहा॥ १॥

वीरराघवः

एवं मुनिभिर् आवेदित-स्वरूप-गुण-रूप-विभूतिस् तत्-प्रसादितो भगवान् आश्रित-सुलभः । प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः । ज्ञानी त्व् आत्मैव मे मतम् इति । स्व-गीतोक्त-रीत्या निरतिशय-स्वप्रीति-विषयान् मुनीन् प्रसादयितुम् उवाचेत्य् आह ब्रह्मा । इतीति । मुनीनां शुभाश्रय-संशीलन-शीलानां योगधर्मिणां भगवद्-भक्ति-योग एव धर्मो येषाम् अस्तीति तेषाम् इत्य् उक्त-प्रकारेण गृणतां स्तुवतां तेषां सनकादीनां तद्-भाषितं प्रतिनन्द्य शिरसा संश्लाध्य विकुण्ठ-स्थानं निलयो यस्य स विभुर् भगवान् इदं वक्ष्यमाणं जगाद् उक्तवान् ॥ १ ॥

श्लोक-२

मूलम् (वचनम्)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

एतौ तौ पार्षदौ मह्यं जयो विजय एव च।
कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम्॥

मूलम्

एतौ तौ पार्षदौ मह्यं जयो विजय एव च।
कदर्थीकृत्य मां यद्वो बह्वक्रान्ता[?]मतिक्रमम्॥ २ ॥

अनुवाद (हिन्दी)

श्रीभगवान‍्ने कहा—मुनिगण! ये जय-विजय मेरे पार्षद हैं। इन्होंने मेरी कुछ भी परवा न करके आपका बहुत बड़ा अपराध किया है॥ २॥

वीरराघवः

उक्तिम् एवाह । एकादशभिः । एताविति । जयो विजय एव चेत्य् एतौ मह्यं मम पार्षदौ मां कदर्थीकृत्यावज्ञाय यद्युष्मद्वः युष्मभ्यं बहु भृशम् अतिक्रमणम् अपचारम् अकार्ष्टाम् अकुरुताम् ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

यस्त्वेतयोर्धृतो दण्डो भवद‍्भिर्मामनुव्रतैः।
स एवानुमतोऽस्माभिर्मुनयो देवहेलनात्॥

मूलम्

यस्त्वेतयोर्धृतो दण्डो भवद‍्भिर्मा2मनुव्रतैः।
स एवानुमतोऽस्माभिर्मुनयो देवहेलनात्॥ ३ ॥

अनुवाद (हिन्दी)

आपलोग भी मेरे अनुगत भक्त हैं; अतः इस प्रकार मेरी ही अवज्ञा करनेके कारण आपने इन्हें जो दण्ड दिया है, वह मुझे भी अभिमत है॥ ३॥

वीरराघवः

तस्मान् माम् अनुव्रतैर् भजद्भिर् भवद्भिर् एतयोर् यो दण्डः धृतः कृतः स एव दण्डः अस्माभिर् हे मुनयः! देव-हेलनात् देवानां युष्माकं हेलनाद् अवज्ञानान् निमित्ताद् अनुमतो ऽस्त्व् इत्यङ्गीकृतः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

तद्वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे।
तद्धीत्यात्मकृतं मन्ये यत्स्वपुम्भिरसत्कृताः॥

मूलम्

तद्वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे।
तद्धीत्यात्मकृतं मन्ये यत्स्वपुम्भिरसत्कृताः॥ ४ ॥

अनुवाद (हिन्दी)

ब्राह्मण मेरे परम आराध्य हैं; मेरे अनुचरोंके द्वारा आपलोगोंका जो तिरस्कार हुआ है, उसे मैं अपना ही किया हुआ मानता हूँ। इसलिये मैं आपलोगोंसे प्रसन्नताकी भिक्षा माँगता हूँ॥ ४॥

वीरराघवः

तत् तस्माद् अस्मद्-भृत्य-कृत-युष्मद्-विषयापचरणाद् वः युष्मान् अद्याधुना प्रसादयामि क्षमापयामि ननु सत्यप्य् अपराधे उत्कृष्टा एव क्षमापयितव्या इत्य् अत्राह । हि यस्माद् ब्रह्म ब्राह्मणा मे मम परम् उत्कृष्टं दैवम् अतो वः प्रसादयामि । ननु किम् अपराद्धं भवता येन प्रसादयामीति भाषसे इत्य् अत्राह । स्व-पुंभिः मदीयैः पुंभिर् असत्कृता अवज्ञाता इति यत् तद् धि आत्म-कृतं मया कृतम् इत्य् एव मन्ये ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

यन्नामानि च गृह्णाति लोको भृत्ये कृतागसि।
सोऽसाधुवादस्तत्कीर्तिं हन्ति त्वचमिवामयः॥

मूलम्

यन्नामानि च गृह्णाति लोको भृत्ये कृतागसि।
सोऽसाधुवादस्तत्कीर्तिं हन्ति त्वचमिवामयः॥ ५ ॥

अनुवाद (हिन्दी)

सेवकोंके अपराध करनेपर संसार उनके स्वामीका ही नाम लेता है। वह अपयश उसकी कीर्तिको इस प्रकार दूषित कर देता है, जैसे त्वचाको चर्मरोग॥ ५॥

वीरराघवः

भृत्यकृतमगः स्वामिन्य् एव पर्यवस्यतीत्य् आह । यद् इति । भृत्ये कृतागसि कृतापराधे सति यन् नामानि यस्य स्वामिनो नामानि च जनः गृह्णाति । अनेन स्वामिना भृत्य-द्वारा एवम् एवम् असाधु-कृतम् अतो ऽयं दुरात्मेत्य् आदि विनिन्दक-नामापि लोको वदति सः असाधुवादः तत्-कीर्त्तिं तस्य स्वामिनः कीर्तिं हन्ति नाशयति त्वचम् आमय इवामयो ऽत्र श्वेत-कुष्ठादि-रोगः स यथा त्वच्य् उत्पन्नः तद्-गतं सौन्दर्यं हन्ति तथेत्य् अर्थः । भृत्य-कृतापराध-निमित्तो ऽसाधुवादः स्वामिनि पर्यवसन्नस् तत्-कीर्त्तिम् एव नाशयतीति भावः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

यस्यामृतामलयशः श्रवणावगाहः
सद्यः पुनाति जगदाश्वपचाद्विकुण्ठः।
सोऽहं भवद‍्भ्य उपलब्धसुतीर्थकीर्ति-
श्छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम्॥

मूलम्

यस्यामृतामलयशः श्रवणावगाहः सद्यः पुनाति जगदाश्वपचाद्विकुण्ठः।
सोऽहं भवद‍्भ्य उपलब्धसुतीर्थकीर्तिश्छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम्॥ ६ ॥

मूलम् - कर्णावती

यस्यामृतामलयशःश्रवणावगाहः सद्यः पुनाति जगदा श्वपचाद्विकुण्ठः।
सोऽहं भवद‍्भ्य उपलब्धसुतीर्थकीर्तिश्छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम्॥ ६ ॥

अनुवाद (हिन्दी)

मेरी निर्मल सुयश-सुधामें गोता लगानेसे चाण्डालपर्यन्त सारा जगत् तुरंत पवित्र हो जाता है, इसीलिये मैं ‘विकुण्ठ’ कहलाता हूँ। किन्तु यह पवित्र कीर्ति मुझे आपलोगोंसे ही प्राप्त हुई है। इसलिये जो कोई आपके विरुद्ध आचरण करेगा, वह मेरी भुजा ही क्यों न हो—मैं उसे तुरन्त काट डालूँगा॥ ६॥

वीरराघवः

तस्माद् आश्रित-सौलभ्यादि-कल्याणगुण इति यशः-सम्पन्नो ऽहं निरतिशय-प्रियाणां भवतां विरोधी चेत् स्वाङ्गम् अपि लुनामीत्य् आह । यस्येति । यस्य ममामलामृत-यशः-श्रवणावगाहः अमलं पवित्रम् अमृत-तुल्यं यद् यशः तस्य श्रवणावगाहः श्रोत्र-प्रवेशः आश्वपचं श्व-पाक-पर्यन्तं जगत् सद्यः पुनाति पवित्रयति सो ऽहं विकुण्ठः श्रोत्र-प्रवेश-मात्रेण सद्यो जगत्-पावन-कर-यशः-सम्पन्नः विकुण्ठः प्रतिहति-रहितः भवद्भिर् निमित्त-भूतैर् भवद्भ्य इति पञ्चम्यन्त-पाठो ऽपि तदा भवद्भ्यो हेतुभ्यः उपलब्ध-सुतीर्थ-कीर्तिः आश्रित-दुर्लभ इत्य् अधिक्षिप्त-कीर्तिर् अहं वः युष्माकं प्रतिकूला वृत्तिर् यस्य तं स्व-बाहुम् अपि छिन्द्यां वः प्रतिकूल-वृत्तिश् चेत् स्व-बाहुम् अपि लुनीये इत्य् अर्थः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

यत्सेवया चरणपद्मपवित्ररेणुं
सद्यः क्षताखिलमलं प्रतिलब्धशीलम्।
न श्रीर्विरक्तमपि मां विजहाति यस्याः
प्रेक्षालवार्थ इतरे नियमान् वहन्ति॥

मूलम्

यत्सेवया चरणपद्मपवित्ररेणुं सद्यःक्षताखिलमलं प्रतिलब्धशीलम्।
न श्रीर्विरक्तमपि मां विजहाति यस्याः प्रेक्षालवार्थ इतरे नियमान् वहन्ति॥ ७ ॥

अनुवाद (हिन्दी)

आपलोगोंकी सेवा करनेसे ही मेरी चरणरजको ऐसी पवित्रता प्राप्त हुई है कि वह सारे पापोंको तत्काल नष्ट कर देती है और मुझे ऐसा सुन्दर स्वभाव मिला है कि मेरे उदासीन रहनेपर भी लक्ष्मीजी मुझे एक क्षणके लिये भी नहीं छोड़तीं—यद्यपि इन्हींके लेशमात्र कृपाकटाक्षके लिये अन्य ब्रह्मादि देवता नाना प्रकारके नियमों एवं व्रतोंका पालन करते हैं॥ ७॥

वीरराघवः

एवं स्वस्य भक्तेषु निरतिशय-प्रीतिं तद्-विरोधि-निरसनं चाभिप्रेतम् आविष्कृत्य “प्रशस्तिः सा राज्ञो यद् अपि च पुरी-कोश-कथनम्” इति न्यायेन स्व-प्रशंसार्थं स्व-भक्तान् ब्राह्मणान् प्रशंसति । यत्-सेवयेत्य् आदि-पञ्चभिः । ननु कथम् आत्म-प्रशंसा निन्दिता भगवता क्रियते इति न शङ्कनीयम् अविद्यमान-गुणारोपणेनात्म-प्रशंसाया निन्दितत्वाद् इयं तु प्रशंसा “स्वाभाविकी ज्ञान-बल-क्रिया च” इति श्रुत्य्-उक्त-विधया स्वाभाविक-गुणानुकथन-रूपेति न दोषः । यत्-सेवया येषां ब्राह्मणानां सेवया चरण-पद्मयोः स्थितः पवित्रो रेणुर् यस्य तं स्व-पाद-रेणूनां पवित्रत्वं ब्राह्मण-सेवया लब्धम् इति भावः, अत एव सद्यः क्षतो निरस्तः अखिलस्य लोकस्य मलो येन तं प्रतिलब्धं प्राप्तं शीलं येन तम् । एते गुणा ब्राह्मण-सेवयैव स्वेन लब्धा इति भावः । एवंविधं विरक्तम् अनादृतम् अपि मां श्रीलक्ष्मीर् न जहाति तद् अत्यागो ऽपि ब्राह्मण-सेवयैवेति हृदयं कीदृशी चासौ लक्ष्मीर् या मां न जहाति इत्य् उच्यते तत्राह । यस्या लक्ष्म्याः प्रेक्षा-लवार्थं कटाक्ष-लेश-प्रसारणायेतरे ब्रह्मादयः नियमान् व्रतानि वहन्ति कुर्वन्ति । ब्रह्मादिभिर् उपास्यासौ लक्ष्मीर् अनादृतवन्तम् अपि मां ब्राह्मण-सेवा-प्रभावेणैव न विजहातीत्य् अर्थः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

नाहं तथाद्मि यजमानहविर्विताने
श्च्योतद्‍घृतप्लुतमदन् हुतभुङ्‍मुखेन।
यद‍्ब्राह्मणस्य मुखतश्चरतोऽनुघासं
तुष्टस्य मय्यवहितैर्निजकर्मपाकैः॥

मूलम्

नाहं तथाद्मि यजमानहविर्विताने श्च्योतद्‍घृतप्लुतमदन् हुतभुङ्‍मुखेन।
यद‍्ब्राह्मणस्य मुखतश्चरतोऽनुघासं तुष्टस्य मय्यवहितैर्निजकर्मपाकैः॥ ८ ॥

मूलम् - कर्णावती

नाहं तथाद्मि यजमानहविर्विताने श्च्योतद्‍घृतप्लुतमदन् हुतभुङ्‍मुखेन।
यद‍् ब्राह्मणस्य मुखतश्चरतोऽनुघासं तुष्टस्य मय्यवहितैर्निजकर्मपाकैः॥ ८ ॥

अनुवाद (हिन्दी)

जो अपने सम्पूर्ण कर्मफल मुझे अर्पणकर सदा सन्तुष्ट रहते हैं, वे निष्काम ब्राह्मण ग्रास-ग्रासपर तृप्त होते हुए घीसे तर तरह-तरहके पकवानोंका जब भोजन करते हैं, तब उनके मुखसे मैं जैसा तृप्त होता हूँ वैसा यज्ञमें अग्निरूप मुखसे यजमानकी दी हुई आहुतियोंको ग्रहण करके नहीं होता॥ ८॥

वीरराघवः

किञ् च । विताने यज्ञे श्च्योतद्-घृत-प्लुतं श्च्योतता क्षरता घृतेन प्लुतं विलोडितं यजमान-हविः यजमान-सम्बन्धि हविः तेन देवतोद्देशेन त्यक्तं चरु-पुरोडाशादि-रूपं हविर् इत्य् अर्थः । हुतभुङ्-मुखेनाग्नि-मुखेनादन्न् अश्नन् अप्य् अहं तथा नाद्मि नाश्नामि यद् यथा मय्य् अवसितैर् अर्पितैर् निज-कर्म-पाकैः स्व-वर्णाश्रमोचित-कर्म-फलैस् तुष्टस्य निज-कर्म-फलानि मयि समर्प्य स्वत एव तुष्टस्येत्य् अर्थः । अनुग्रासं प्रति-कवलं चरतो भुञ्जानस्य ब्राह्मणस्य मुखतः मुखेनाद्मि । ‘अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च’ इत्य् उक्त-रीत्या सर्व-यज्ञ-फल-प्रदः तद् एवाग्निस् तद् वायुर् इति श्रुत्य्-उक्त-रीत्याग्न्य्-आद्य्-अन्तर्यामित्वेन यागीयं हविर् भुञ्जानो भगवान् यथा ब्राह्मण-मुखेन भुञ्जानस् तुष्यति तथा न तुष्यतीत्य् अर्थः । यजमान-हविर्-वितानैर् इत्य् अपि पाठः । तदा निज-कर्म-पाकैः स्व-पुण्य-फल-रूपैः मय्य् अवसितैर् अर्पितैर् यजमान-हविर्-वितानैः यजमान-सम्बन्धि-हविर्-विस्तारैर् हुतभुङ्-मुखेन तथा नाद्मि यथा श्च्योतद्-घृत-प्लुतम् अनुग्रासं चरतः स्वत एव तुष्टस्य ब्राह्मणस्य मुखेनाद्मीत्य् अन्वयः । फलाभिसन्धि-रहित-यज्ञैर् भगवद्-आराधक-निष्काम-भगवद्-भक्त-ब्राह्मण-मुखेन भगवद्-आराधनस्य भगवत्-सन्तोषातिशयाधायक-त्वम् अत्रोक्तं भवति ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

येषां बिभर्म्यहमखण्डविकुण्ठयोग-
मायाविभूतिरमलाङ्घ्रिरजः किरीटैः।
विप्रांस्तु को न विषहेत यदर्हणाम्भः
सद्यः पुनाति सहचन्द्रललामलोकान्॥

मूलम्

येषां बिभर्म्यहमखण्डविकुण्ठयोगमायाविभूतिरमलाङ्घ्रिर3जः किरीटैः।
विप्रांस्तु को न विषहेत यदर्हणाम्भः सद्यः पुनाति सहचन्द्रललामलोकान्॥ ९ ॥

अनुवाद (हिन्दी)

योगमायाका अखण्ड और असीम ऐश्वर्य मेरे अधीन है तथा मेरी चरणोदकरूपिणी गंगाजी चन्द्रमाको मस्तकपर धारण करनेवाले भगवान् शंकरके सहित समस्त लोकोंको पवित्र करती हैं। ऐसा परम पवित्र एवं परमेश्वर होकर भी मैं जिनकी पवित्र चरण-रजको अपने मुकुटपर धारण करता हूँ, उन ब्राह्मणोंके कर्मको कौन नहीं सहन करेगा॥ ९॥

वीरराघवः

किञ्च येषां ब्राह्मणानाम् अमलं पवित्रं यद् अङ्घ्रि-रजः पाद-रजस् तद् अहं किरीटैर् बिभर्मि तान् विप्रान् को न विषहेत तिरस्कुर्वता ऽपि ब्राह्मणान् को न क्षाम्येत कथंभूतो ऽहम् अखण्डानन्ता विकुण्ठाप्रतिहतिरहिता योग-माया विभूतिः स्वापृथक्सिद्धत्वेन युज्यमानाश्चर्य-शक्तिर्-विभूति-कार्यात्मका विभवा यस्य सः । यस्य ममार्हणाम्भः तीर्थोदकरूपा गङ्गा सह चन्द्र-ललाम-लोकान् चन्द्रो ललाम चिह्नं यस्य स महादेवस् तत्-सहितांल् लोकान् पुनाति । तथा च वक्ष्यते

यच् छौच-निःसृत-सरित्-प्रवरोदकेन तीर्थेन मूर्ध्न्य् अधिकृतेन शिवः शिवो ऽभूत्

इत्य् एवम् । परम-पावनो ऽप्य् अहन् तत्-पाद-रजो बिभर्मीति भावः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

ये मे तनूर्द्विजवरान्दुहतीर्मदीया
भूतान्यलब्धशरणानि च भेदबुद्ध्या।
द्रक्ष्यन्त्यघक्षतदृशो ह्यहिमन्यवस्तान्
गृध्रा रुषा मम कुषन्त्यधिदण्डनेतुः॥

मूलम्

ये मे तनूर्द्विजवरान्दुहतीर्मदीया भूतान्यलब्धशरणानि च भेदबुद्ध्या।
द्रक्ष्यन्त्यघक्षतदृशो ह्यहिमन्यवस्तान् गृध्रा रुषा मम कुषन्त्यधिदण्डनेतुः॥ १० ॥

अनुवाद (हिन्दी)

ब्राह्मण, दूध देनेवाली गौएँ और अनाथ प्राणी—ये मेरे ही शरीर हैं। पापोंके द्वारा विवेकदृष्टि नष्ट हो जानेके कारण जो लोग इन्हें मुझसे भिन्न समझते हैं, उन्हें मेरे द्वारा नियुक्त यमराजके गृध्र-जैसे दूत—जो सर्पके समान क्रोधी हैं—अत्यन्त क्रोधित होकर अपनी चोंचोंसे नोचते हैं॥ १०॥

वीरराघवः

एवं ब्राह्मणान् प्रस्तुत्य अथ तान् एव स्तुवन् तेषु कृतापराधिनो मन्-निग्रह-विषयाः कृतोपचारास् तु मद्-अनुग्रह-विषया इत्य् आह द्वाभ्याम् ये म इति । मे तनूः शरीर-भूतान् द्विज-वरान् मदीयः मच्-छरीर-भूताः दुहतीः गाश्च प्रशंसा-प्रसङ्गाद् दुहत्य्-आद्य्-उक्तिः अलब्ध-शरणानि रक्षक-हीनानि भूतानि मच्-छरीराणि भूतान्तराणि च ये पुरुषा अघं पापं तेन क्षताः अनुविद्धाः दृशो नेत्राणि येषां ते ऽत एवाहिमन्यवः अहेः सर्पस्येव मन्युः क्रोधो येषां तथा-भूताः सन्तो बुद्ध्या मद्-आत्मत्व-विरुद्ध-बुद्ध्या द्रक्ष्यन्ति तान् मम मन्-नियाम्यस्य दण्ड-नेतुः यमस्याधीना गृध्रा अयो-मुखाः गृध्राः कुषन्ति तेषां नेत्राणि तुदन्तीत्य् अर्थः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

ये ब्राह्मणान्मयि धिया क्षिपतोऽर्चयन्त-
स्तुष्यद्‍धृदः स्मितसुधोक्षितपद्मवक्त्राः।
वाण्यानुरागकलयाऽऽत्मजवद् गृणन्तः
सम्बोधयन्त्यहमिवाहमुपाहृतस्तैः॥

मूलम्

ये ब्राह्मणान्मयि धिया क्षिपतोऽर्चयन्तस्तुष्यद्‍धृदः स्मितसुधोक्षितपद्मवक्त्राः।
वाण्यानुरागकलयाऽऽत्मजवद् गृणन्तः सम्बोधयन्त्यहमिवाहमुपाहृतस्तैः॥ ११ ॥

अनुवाद (हिन्दी)

ब्राह्मण तिरस्कारपूर्वक कटुभाषण भी करे, तो भी जो उसमें मेरी भावना करके प्रसन्नचित्तसे तथा अमृतभरी मुसकानसे युक्त मुखकमलसे उसका आदर करते हैं तथा जैसे रूठे हुए पिताको पुत्र और आपलोगोंको मैं मनाता हूँ, उसी प्रकार जो प्रेमपूर्ण वचनोंसे प्रार्थना करते हुए उन्हें शान्त करते हैं, वे मुझे अपने वशमें कर लेते हैं॥ ११॥

वीरराघवः

ये पुनः क्षिपतः तिरस्कुर्वतो ऽपि ब्राह्मणान् अपि धिया मद्-आत्मक-बुद्ध्या ऽर्चयन्तः पूजयन्तः तुष्यद्-धृदः सन्तुष्ट-चित्ताः स्मितं हासः तद् एव सुधा तयोक्षितं सिक्तं पद्मम् इव मुखं येषां ते अनुराग-कलया ऽनुरागेण कलया कलितया युक्तया वाचा गिरा आत्मजवत् पुत्रवत् पुत्रम् इव भणन्तो भाषन्तः सन्बोधयन्ति तैर् अहम् इव उपाकृतः उपकारितः ते मद्-अनुग्रह-विषया इति भावः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

तन्मे स्वभर्तुरवसायमलक्षमाणौ
युष्मद्‍व्यतिक्रमगतिं प्रतिपद्य सद्यः।
भूयो ममान्तिकमितां तदनुग्रहो मे
यत्कल्पतामचिरतो भृतयोर्विवासः॥

मूलम्

तन्मे स्वभर्तुरवसायमलक्षमाणौ युष्मद्‍व्यतिक्रमगतिं प्रतिपद्य सद्यः।
भूयो ममान्तिकमितां तदनुग्रहो मे यत्कल्पतामचिरतो भृतयोर्विवासः॥ १२ ॥

अनुवाद (हिन्दी)

मेरे इन सेवकोंने मेरा अभिप्राय न समझकर ही आपलोगोंका अपमान किया है। इसलिये मेरे अनुरोधसे आप केवल इतनी कृपा कीजिये कि इनका यह निर्वासनकाल शीघ्र ही समाप्त हो जाय, ये अपने अपराधके अनुरूप अधम गतिको भोगकर शीघ्र ही मेरे पास लौट आयें॥ १२॥

वीरराघवः

एवं ब्राह्मणान् प्रशस्याथ मुनि-विहितं दण्डं स्वयम् अप्य् अनुमनुते । तन् मे इति । तस्मात् स्व-भर्तुः स्वयोर् आत्मनोर् भर्तुर् ममावसायम् उक्त-विधं निश्चयम् अलक्षमाणावजानन्तौ युष्मासु यो व्यतिक्रमो ऽपराधः तस्य गतिं फलं प्रतिपद्य सद्य आशु भूयः पुनः ममान्तिकं समीपम् इतां प्राप्नुताम् यद्य् अस्मद्-धृतो दण्ड एव भवतानुमतश् चेत् तव का भृत्यानुग्रह-कारितेत्य् अत्राह । भृतयोर् भृत्ययोर् अचिरत आशु विवासः युष्मद्-व्यतिक्रम-गति-समाप्तिः कल्पतां कल्पत इति यत् तद् एव मे ऽनुग्रहः महद्-अतिक्रम-फलम् अवाप्य पुनर् आशु मत्-समीपागमनम् एव मद्-अनुग्रह इत्य् अर्थः ॥ १२ ॥

श्लोक-१३

मूलम् (वचनम्)

ब्रह्मोवाच

विश्वास-प्रस्तुतिः

अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम्।
नास्वाद्य मन्युदष्टानां तेषामात्माप्यतृप्यत॥

मूलम्

अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम्।
नास्वाद्य मन्युदष्टानां तेषामात्माप्यतृप्यत॥ १३ ॥

मूलम् - कर्णावती

अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम्।
नास्वाद्य मन्युदष्टानां तेषामात्मायतृप्यत॥ १३ ॥

अनुवाद (हिन्दी)

श्रीब्रह्माजी कहते हैं—देवताओ! सनकादि मुनि क्रोधरूप सर्पसे डसे हुए थे, तो भी उनका चित्त अन्तःकरणको प्रकाशित करनेवाली भगवान‍्की मन्त्रमयी सुमधुर वाणी सुनते-सुनते तृप्त नहीं हुआ॥ १३॥

वीरराघवः

एवम् आश्रित-सौलभ्य-सौशील्यादि-गुण-संपन्नेन भगवतोक्तानि ‘ब्रह्म दैवं परं हि मे’, ‘यत्-सेवया चरण-पद्म-पवित्र-रेणुं न श्रीर् विरक्तम् अपि मां विजहाति’, ‘येषाम् अमलाङ्घ्रि-रजः किरीटैर् बिभर्भि’इत्य्-आदि-वचांस्य् आश्रुत्य मुनयः “तं देवतानां परमं च दैवतम्" इत्य्-आदि-श्रुतिभिः परम-दैवतत्वेन कीर्तितो भगवान् किम् अस्मद्-वञ्चनायैव वदत्य् आहोस्विद् धर्म-संस्थापनाय यद्यद् आचरति श्रेष्ठस् तत्तद् एवेतरो जन इति स्व-गीतानुसारेण वदतीति तात्पर्यम् अजानन्तो नूनम् असौ न भक्तान् वञ्चयति किंतु धर्म-संस्थापनार्थायैव वदतीति पुनर् निश्चिचीषया तद् उक्तानि वाक्यान्य् अन्य-तात्पर्यकत्वेन प्रतिपादयिष्यन्तः सम्प्रत्यूचुर् इत्य् आह । ब्रह्मा त्रिभिः । अथोक्त-विध-भगवद्-वाक्य-श्रवणानन्तरं तस्य भगवतः ऋषिकुल्यां वेद-सजातीयाम् उशतीं कमनीयां दैवीम् अमानुषां सरस्वतीं श्रुतां गिरम् आखाद्यानुभूय मन्युना विष-समानेन क्रोधेन दग्धानां व्याप्तानां तेषां मुनीनाम् आत्मान्तःकरणं नातृप्यत तद्-वाक्य-तात्पर्याज्ञानान् मन्युदष्टत्वाच् च चित्तं नातिप्रसन्नम् अभूद् इत्य् अर्थः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्वर्थगह्वराम्।
विगाह्यागाधगम्भीरां न विदुस्तच्चिकीर्षितम्॥

मूलम्

सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्वर्थगह्वराम्।
विगाह्यागाधगम्भीरां न विदुस्तच्चिकीर्षितम्॥ १४ ॥

अनुवाद (हिन्दी)

भगवान‍्की उक्ति बड़ी ही मनोहर और थोड़े अक्षरोंवाली थी; किन्तु वह इतनी अर्थपूर्ण, सारयुक्त, दुर्विज्ञेय और गम्भीर थी कि बहुत ध्यान देकर सुनने और विचार करनेपर भी वे यह न जान सके कि भगवान् क्या करना चाहते हैं॥ १४॥

वीरराघवः

सतीं साध्वीम् अल्पाक्षरां गुरुभिर्-बहुवैद्यैर्-अर्थैर् अभिधेयैर् गह्वरां दुर्विज्ञेयाम् अगाधां गम्भीराम् अभिप्रायेणागाधाम् अर्थतो गम्भीरां सरस्वतीम् इत्य् अनुषङ्गः, शृण्वन्तः विगाह्य विलोड्यादायाहृत्येदम् एषां वाक्यानां तात्पर्यम् इति परिष्कृत्येत्य् अर्थः । तेन भगवता चिकीर्षितं कर्तुम् इष्टं न विदुः विचार्य परिष्कृत्य न विदुः किंतु तुष्णीम् आपाततो विदुर् इत्य् अर्थः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

ते योगमाययाऽऽरब्धपारमेष्ठ्यमहोदयम्।
प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः क्षुभितत्वचः॥

मूलम्

ते योगमाययाऽऽरब्धपारमेष्ठ्यमहोदयम्।
प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः क्षु4भितत्वचः॥ १५ ॥

अनुवाद (हिन्दी)

भगवान‍्की इस अद‍्भुत उदारताको देखकर वे बहुत आनन्दित हुए और उनका अंग-अंग पुलकित हो गया। फिर योगमायाके प्रभावसे अपने परम ऐश्वर्यका प्रभाव प्रकट करनेवाले प्रभुसे वे हाथ जोड़कर कहने लगे॥ १५॥

वीरराघवः

योग-माययात्मीय-विचित्र-सर्ग-कारिण्या प्रकृत्या आरब्धस्य कृत्स्नस्य जगतः यत्-पारमेष्ठ्यं सर्वोत्कृष्टम् आधिपत्यं तस्योदयो यस्मात् तम् अस्मद्-आधिपत्य-प्रदातारम् इत्य् अर्थः, तं भगवन्तं ते विप्राः कुपित-त्वचः संशयावह-वाक्य-श्रवणेन क्रुद्धा त्वग् येषां ते प्रहृष्टाः निरतिशय-कल्याण-गुण-गणाकरस्यात्म-दैवतस्य भगवतो दर्शन-तत्-संभाषण-तत्-कृपावलोकनादि-जनित-हर्ष-युक्ताश् च प्राञ्जलयः प्रोचुः ॥ १५ ॥

श्लोक-१६

मूलम् (वचनम्)

ऋषय ऊचुः

विश्वास-प्रस्तुतिः

न वयं भगवन् विद्मस्तव देव चिकीर्षितम्।
कृतो मेऽनुग्रहश्चेति यदध्यक्षः प्रभाषसे॥

मूलम्

न वयं भगवन् विद्मस्तव देव चिकीर्षितम्।
कृतो मेऽनुग्रहश्चेति यदध्यक्षः प्रभाषसे॥ १६ ॥

अनुवाद (हिन्दी)

मुनियोंने कहा—स्वप्रकाश भगवन्! आप सर्वेश्वर होकर भी जो यह कह रहे हैं कि ‘यह आपने मुझपर बड़ा अनुग्रह किया’ सो इससे आपका क्या अभिप्राय है—यह हम नहीं जान सके हैं॥ १६॥

वीरराघवः

उक्तम् एवाहुर् दशभिः । नेति । हे भगवन् ! देव त्वया चिकीर्षितं वयं न विद्मः किं भवान् अस्मान् अनुजिघृक्षति उत निजिघृक्षतीति त्वत्-तात्पर्यं विशिष्य न जानीमः किंतु मे मह्यं प्रत्येकाभिप्रायेणैकवचनम् । अनुग्रहश् चेत्य् अनुग्रहः कृत इत्य् आपाततो विद्मः, आपाततो वानुग्रहः कृतः । कथं जानथेत्य् अत्राहुः । यद् यस्माद् अध्यक्षः वाङ्मनसागोचरस् त्वम् अक्षिविषयः प्रभाषसे ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो।
विप्राणां देवदेवानां भगवानात्मदैवतम्॥

मूलम्

ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो।
विप्राणां देवदेवानां भगवानात्मदैवतम्॥ १७ ॥

अनुवाद (हिन्दी)

प्रभो! आप ब्राह्मणोंके परम हितकारी हैं; इससे लोकशिक्षाके लिये आप भले ही ऐसा मानें कि ब्राह्मण मेरे आराध्यदेव हैं। वस्तुतः तो ब्राह्मण तथा देवताओंके भी देवता ब्रह्मादिके भी आप ही आत्मा और आराध्यदेव हैं॥ १७॥

वीरराघवः

एवं स्वात्मनां तद्-अभिप्रायानभिज्ञत्वम् आवेद्य तद्-उक्तीनां तात्पर्यं क्रोडीकुर्वन्तो ब्रह्म दैवं परं हि मे इत्याद्य् उक्तयो धर्म-मर्यादा-स्थापनायैव प्रवृत्ता उपपन्ना नान्यथेत्य् आहुः । ब्रह्मण्यस्येति अष्टभिः । हे प्रभो ! ब्रह्मण्यस्य ब्राह्मण-तन्-मर्यादा-पालकस्य तव ब्राह्मणाः परं दैवतं किलेत्य् अनेन लोक-शिक्षा सूचिता । यदि भगवान् ब्राह्मणान् पर-दैवत-भावेन नानुवर्त्तसे ततस् त्वत्तो ऽवरजना ब्राह्मणान् न बहु मन्यन्तो नश्येयुर् अतो लोक-शिक्षार्थम् एव ब्रह्म दैवं परं हि मे इत्य् उक्तम् इति भावः । वस्तुतस् तु देव-देवानां देवेन त्वयापि देवानां बहु-मन्तव्यानां विप्राणां भगवान् षाड्गुण्य-पूर्ण आत्म-दैवतम् आत्म-दैवतम् इति हेतुगर्भम् आत्म-दैवतस्य तव न देवतान्तरं सम्भवतीत्य् अर्थः । तथा च श्रूयते “पतिं विश्वस्यात्मेश्वरं यस्मात् परं नापरम् अस्ति न तस्येशे कश्चन तस्य नाम महद् यशः स्वे महिम्नि प्रतिष्ठित” इत्यादि ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव।
धर्मस्य परमो गुह्यो निर्विकारो भवान्मतः॥

मूलम्

त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव।
धर्मस्य परमो गुह्यो निर्विकारो भवान्मतः॥ १८ ॥

अनुवाद (हिन्दी)

सनातनधर्म आपसे ही उत्पन्न हुआ है, आपके अवतारोंद्वारा ही समय-समयपर उसकी रक्षा होती है तथा निर्विकारस्वरूप आप ही धर्मके परम गुह्य रहस्य हैं—यह शास्त्रोंका मत है॥ १८॥

वीरराघवः

ब्रह्मण्यत्वम् एव प्रपञ्चयन्ति । त्वत्त इति । धर्मश् चातुर्वर्ण्य-चातुराश्रम्य-व्यवस्थयावस्थितः सनातनो धर्मः त्वत्त एव प्रवृत्तः तव तनुभिर् अवतारै रक्ष्यते चेदृशस्य धर्मस्य परमः नित्यो निरतिशय-गुह्यः फलं निर्विकारो भवान् एव मतः ज्ञातः श्रुतिभिर् इति शेषः । तथा च श्रूयते “इष्टापूर्त्तं बहुधा जातं जायमानं विश्वं बिभर्त्ति भुवनस्य नाभिः एष भूत-पाल एष सेतुर् विधरणः अविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते” इत्यादि निर्विकार इत्य् अनेन कर्मसु रुचि-मात्र-जनकानाम् अवान्तर-फलानां क्षयिष्णुत्वं सातिशयत्वं भगवत्य् अनन्त-स्थिर-फलत्वं च सूचितम् ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

तरन्ति ह्यञ्जसा मृत्युं निवृत्ता यदनुग्रहात्।
योगिनः स भवान् किंस्विदनुगृह्येत यत्परैः॥

मूलम्

तरन्ति ह्यञ्जसा मृत्युं निवृत्ता यदनुग्रहात्।
योगिनः स भवान् किंस्विदनुगृ5ह्येत यत्परैः॥ १९ ॥

अनुवाद (हिन्दी)

आपकी कृपासे निवृत्तिपरायण योगीजन सहजमें ही मृत्युरूप संसार-सागरसे पार हो जाते हैं; फिर भला, दूसरा कोई आपपर क्या कृपा कर सकता है॥ १९॥

वीरराघवः

प्रभो ! धर्म-संस्थापनार्थायैव ब्रह्म-दैवम् इत्य् उक्तम् अन्यथेदम् अनुपपन्नम् इत्य् आहुः । तरन्तीति । निवृत्ताः निवृत्ति-धर्म-निष्ठाः योगिनः मृत्युं संसारं यद्-अनुग्रहाद् यस्य तवानुग्रहाद् अञ्जसा सुखेन तरन्ति तथा च श्रुतिः अमृतस्यैष सेतुर् इति सेतुः प्रापकः स भगवान् परैर् अन्यैर् अनुगृह्येत किंस्विद् इति काकुः नानुगृह्येत इत्य् अर्थः । अनुग्राहयते परम् इति पाठान्तरं तदा परं ब्राह्मणम् अनुग्रह-कर्त्तारं करोषि किम् इत्य् अर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

यं वै विभूतिरुपयात्यनुवेलमन्यै-
रर्थार्थिभिः स्वशिरसा धृतपादरेणुः।
धन्यार्पिताङ्घ्रितुलसीनवदामधाम्नो
लोकं मधुव्रतपतेरिव कामयाना॥
भगवन्! दूसरे अर्थार्थी जन जिनकी चरण-रजको सर्वदा अपने मस्तकपर धारण करते हैं, वे लक्ष्मीजी निरन्तर आपकी सेवामें लगी रहती हैं; सो ऐसा जान पड़ता है कि भाग्यवान् भक्तजन आपके चरणोंपर जो नूतन तुलसीकी मालाएँ अर्पण करते हैं, उनपर गुंजार करते हुए भौंरोंके समान वे भी आपके पादपद्मोंको ही अपना निवासस्थान बनाना चाहती हैं॥ २०॥

मूलम्

यं वै विभूतिरुपयात्यनुवेलमन्यैरर्थार्थिभिः स्वशिरसा धृतपादरेणुः।
धन्यार्पिताङ्घ्रितुलसीनवदामधाम्नो लोकं मधुव्रतपतेरिव कामयाना॥ २० ॥

अनुवाद (हिन्दी)

भगवन्! दूसरे अर्थार्थी जन जिनकी चरण-रजको सर्वदा अपने मस्तकपर धारण करते हैं, वे लक्ष्मीजी निरन्तर आपकी सेवामें लगी रहती हैं; सो ऐसा जान पड़ता है कि भाग्यवान् भक्तजन आपके चरणोंपर जो नूतन तुलसीकी मालाएँ अर्पण करते हैं, उनपर गुंजार करते हुए भौंरोंके समान वे भी आपके पादपद्मोंको ही अपना निवासस्थान बनाना चाहती हैं॥ २०॥

वीरराघवः

यद् उक्तं न श्रीर् विरक्तम् अपि मां विजहातीति । तद् अपि यथा-श्रुताभिप्रायकत्वे ऽत्यन्तानुपपन्नम् इति मत्वा तत्-तात्पर्यं परिष्कुर्वन्त आहुः सार्द्धेन । यम् इति । यं त्वां विभूतिर् लक्ष्मीः कथंभूता अर्थार्थिभिश् चतुर्विध-पुरुषार्थार्थिभिः स्व-शिरसा धृतः पाद-रेणुर् यस्याः सा । तथा चोक्तम् ‘अकिञ्चन्यैक-शरणाः केचिद् भाग्याधिकाः पुनः । तत्-पादाम्भोरुह-द्वन्द्वं प्रपद्य प्रीत-मानसाः । लक्ष्मीं पुरुष-कारेण वृतवन्तो वरानने !’ इति । एवं-भूता लक्ष्मीः धन्यार्चिताङ्घ्रि-तुलसी-नव-दाम-धाम्नः धन्यैर् भागवतैर् अर्चितं नूतन-तुलसी-मालायाः स्थानं यस्य तस्य मधुव्रत-पतेर् भृङ्ग-राजस्य लोकं स्थानं श्री-पाद-पद्मं प्रकामयमानेव यं त्वाम् अनुवेलं तत्-तद्-उचितावसरेषु उपयाति सेवते ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

यस्तां विविक्तचरितैरनुवर्तमानां
नात्याद्रियत्परमभागवतप्रसङ्गः।
स त्वं द्विजानुपथपुण्यरजः पुनीतः
श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम्॥

मूलम्

यस्तां विविक्तचरितैरनुवर्तमा6नां नात्याद्रियत्परमभागवतप्रसङ्गः।
स त्वं द्विजानुपथपुण्यरजः पुनीतः श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम्॥ २१ ॥

अनुवाद (हिन्दी)

किन्तु अपने पवित्र चरित्रोंसे निरन्तर सेवामें तत्पर रहनेवाली उन लक्ष्मीजीका भी आप विशेष आदर नहीं करते, आप तो अपने भक्तोंसे ही विशेष प्रेम रखते हैं। आप स्वयं ही सम्पूर्ण भजनीय गुणोंके आश्रय हैं; क्या जहाँ-तहाँ विचरते हुए ब्राह्मणोंके चरणोंमें लगनेसे पवित्र हुई मार्गकी धूलि और श्रीवत्सका चिह्न आपको पवित्र कर सकते हैं? क्या इनसे आपकी शोभा बढ़ सकती है?॥ २१॥

वीरराघवः

तां लक्ष्मीं विविक्तैः परिशुद्धैः चरितैः समर्हणैर् अनुवर्तमानां यो भगवान् नात्याद्रियन्न्-आदृतवान् कुतः यतः यतस् त्वं परम-भागवतैर् एव प्रकृष्ट-संगवान् । अयं भावः एवं हि सा लक्ष्मीर् मेने अयं हि सार-ग्राही मधुव्रतो ऽतिचञ्चलश् चार्चिताङ्घ्रि-गतायां तुलस्यां सपरिवारो निश्चलः सन् रमते ऽतो ऽङ्घ्रि-लावण्यम् अधिकं स्यात् ततो ऽहं वक्षसि स्थितापि योगि-जनादि-बहु-सेवक-संमर्दम् अङ्गीकृत्यापि तुलस्या सह सापत्न्येनापि चरणौ सेविष्ये इति एवम् औत्सुक्येनानुवर्त्तमानाम् अपि तां त्वं परम-भागवत-प्रसङ्गेनावसरम् अलभमानो नातीवादृतवान् इति यद् उक्तं यत्-सेवया चरण-पद्म-पवित्र-रेणुम् इति तद् अपि पावित्र्यम् इच्छद्भिर् ब्राह्मणाः सेवितव्या इत्य् एतत्-तात्पर्यकम् इत्य् अभिप्रेत्याथ येषाम् अमलाङ्घ्रि-रजो बिभर्मीत्य् अस्य तात्पर्यं परिष्कुर्वन्तः आहुर् अर्द्धेन । तम् इति । तं धर्म-मर्यादा-प्रतिष्ठापयितारं श्रियो ऽपि समाश्रणीयं लावण्य-निधिं त्वां द्विजानाम् अनुपथं पथि पथि लग्नं यत् पुण्यं रजः तथा श्रीवत्स-लक्ष्म च श्रीवत्स-चिह्नं च किं पुनीतः पवित्रीकुरुतः किं किम् अर्थं च ते उभे भग-भाजनः निरतिशय-सौन्दर्याश्रयः त्वम् अगाः प्राप्तवान् असि भूषणत्वेन स्वीकृतवान् असि पुनीतेति पाठान्तरं तदा द्विजानुपथ-पुण्य-रजः पुनीते किं न पुनीत इत्य् अर्थः । तर्हि कथं रजो बिभर्षीति श्रीवत्स-लक्ष्म किं किम् अर्थम् अगा भूषणत्वेनेति चेद् रजो ऽपि तथैव बिभर्षीति शङ्कोत्तरत्वेन व्याख्येयम् ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः
पद‍्भिश्चराचरमिदं द्विजदेवतार्थम्।
नूनं भृतं तदभिघाति रजस्तमश्च
सत्त्वेन नो वरदया तनुवा निरस्य॥

मूलम्

धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः पद‍्भिश्चराचरमिदं द्विजदेवतार्थम्।
नूनं भृतं तदभिघाति रजस्तमश्च सत्त्वेन नो वरदया तनुवा निरस्य॥ २२ ॥

अनुवाद (हिन्दी)

भगवन्! आप साक्षात् धर्मस्वरूप हैं। आप सत्यादि तीनों युगोंमें प्रत्यक्षरूपसे विद्यमान रहते हैं तथा ब्राह्मण और देवताओंके लिये तप, शौच और दया—अपने इन तीन चरणोंसे इस चराचर जगत‍्की रक्षा करते हैं। अब आप अपनी शुद्धसत्त्वमयी वरदायिनी मूर्तिसे हमारे धर्मविरोधी रजोगुण-तमोगुणको दूर कर दीजिये॥ २२॥

वीरराघवः

एवम् अलंकारायैव रजो बिभर्षीत्य् अभिधायाथ लोक-मर्यादा-पालकेन भवतावश्यं तत्-कर्तव्यम् एवेति प्रतिपादयिषवो ऽवश्यं लोक-मर्यादा भवता पाल्या, अन्यथोत्सीदेयुर् इमे लोका इत्य् अमुम् अर्थम् अन्वय-व्यतिरेकाभ्याम् उपादयन्त आहुस् त्रिभिः । हे त्रियुग ! त्रीणि युगानि युग्मानि ज्ञान-शक्त्यादि-गुणानां षण्णां यस्येति त्रियुगस् तस्य संबोधनं धर्मस्य धर्म-रूपस्य ते तव त्रिभिः स्वैर् असाधारणैः पद्भिस् तपो-दान-दयात्मकैर् द्विज-देवतार्थं द्विज-देवता-संरक्षणार्थं तद्-अभिघाति तेषां धर्म-पादानाम् अविघातुकं यद् रजस्-तमश् च रजस्-तमः-प्रचुरांस् तान् सत्त्वेन शुद्ध-सत्त्व-मयेन तन्वा मूर्त्त्यावतारैर् इत्य् अर्थः । निरस्य चराचरात्मकम् इदं जगद् भृतं नूनं स्वेच्छोपात्त-प्राकृत-दिव्य-मङ्गल-शुद्ध-सत्त्व-मय-मूर्त्या द्विज-देवतार्थं धर्म-विरोधिनो रजस्-तमः-प्रचुरान् निरस्य कृत्स्न-जगत् तपो-दान-दयाख्यैः धर्म-पदैः पोषयसीत्य् अर्थः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

न त्वं द्विजोत्तमकुलं यदिहात्मगोपं
गोप्ता वृषः स्वर्हणेन ससूनृतेन।
तर्ह्येव नङ्क्ष्यति शिवस्तव देव पन्था
लोकोऽग्रहीष्यदृषभस्य हि तत्प्रमाणम्॥

मूलम्

न त्वं द्विजोत्तमकुलं यदिहात्मगोपं गोप्ता वृषः स्वर्हणेन ससूनृतेन।
तर्ह्येव नङ्क्ष्यति शिवस्तव देव पन्था लोकोऽग्रहीष्यदृषभस्य हि तत्प्रमाणम्॥ २३ ॥

अनुवाद (हिन्दी)

देव! यह ब्राह्मणकुल आपके द्वारा अवश्य रक्षणीय है। यदि साक्षात् धर्मरूप होकर भी आप सुमधुर वाणी और पूजनादिके द्वारा इस उत्तम कुलकी रक्षा न करें तो आपका निश्चित किया हुआ कल्याणमार्ग ही नष्ट हो जाय; क्योंकि लोक तो श्रेष्ठ पुरुषोंके आचरणको ही प्रमाणरूपसे ग्रहण करता है॥ २३॥

वीरराघवः

न त्वम् इति आत्मना भगवता गोपं गोपनीयं रक्षणीयं द्विजोत्तमानां कुलम् अर्हणेन समर्हणेन सूनृतेन प्रिय-वाक्येन च यदि श्रेष्ठस् त्वं गोप्ता रक्षिता न चेत् स्वयं धर्मान् अनुतिष्ठल्ँ लोकांस् तेषु प्रवर्तयसे न चेद् इत्य् अर्थः । तर्ह्य् एव तदैव शिवः श्रेयः-संपादकः तव त्वत्-संबंधी वेद-पथः वेद-मार्गः कर्मोपासनात्मकः नङ्क्ष्यति । हि यस्माद् ऋषभस्य यद् आचरितं तद् एव लोकः प्रमाणं प्रमाणत्वेनाग्रहीष्यत् । तद् एव गीतम्

यद् यद् आचरति श्रेष्ठस् तत्-तद् एवेतरो जनः । स यत्-प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः
क्षेमं जनाय निजशक्तिभिरुद्‍धृतारेः।
नैतावता त्र्यधिपतेर्बत विश्वभर्तु-
स्तेजः क्षतं त्ववनतस्य स ते विनोदः॥

मूलम्

तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः क्षेमं जनाय निजशक्तिभिरुद्‍धृतारेः।
नैतावता त्र्यधिपतेर्बत विश्वभर्तुस्तेजः क्षतं त्ववनतस्य स ते विनोदः॥ २४ ॥

अनुवाद (हिन्दी)

प्रभो! आप सत्त्वगुणकी खान हैं और सभी जीवोंका कल्याण करनेके लिये उत्सुक हैं। इसीसे आप अपनी शक्तिरूप राजा आदिके द्वारा धर्मके शत्रुओंका संहार करते हैं; क्योंकि वेदमार्गका उच्छेद आपको अभीष्ट नहीं है। आप त्रिलोकीनाथ और जगत्प्रतिपालक होकर भी ब्राह्मणोंके प्रति इतने नम्र रहते हैं, इससे आपके तेजकी कोई हानि नहीं होती; यह तो आपकी लीलामात्र है॥ २४॥

वीरराघवः

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि ॥ यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः । मम वर्त्मामानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् । संकरस्य च कर्त्ता स्याम् उपहन्याम् इमाः प्रजाः ॥

इति त्वयैव गीतत्वाद् वेद-मार्ग-नाशनं तवानुचितम् एवेत्य् आहुः । तद् इति । सत्त्व-निधेः शुद्ध-सत्त्वाश्रयात् एवं जनाय क्षेमं विधातुं कर्तुम् इच्छोः निज-शक्तिभिः निजावतारैर् उद्धृताः निर्मूलिताः अरयो धर्म-विरोधिनो यस्य तव तद्-वेद-मार्ग-नाशनम् अनभीष्टम् इवानभीष्टम् एवेत्य् अर्थः । हे त्र्य्-अधिपते त्रि-लोकाधिपते विश्वस्य भर्तुर् उद्धारकस्य पोषकस्य वावनतस्य ब्राह्मणान् प्रणतस्य अत्र प्रणतस्येति रजो-धारणस्याप्य् उपलक्षणं तावता प्रणति-मात्रेण तेजः प्रभावः न क्षतं न विहतं किंतु स प्रणामः ते विनोदः लोक-प्रेरण-रूपः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

यं वानयोर्दममधीश भवान् विधत्ते
वृत्तिं नु वा तदनुमन्महि निर्व्यलीकम्।
अस्मासु वा य उचितो ध्रियतां स दण्डो
येऽनागसौ वयमयुङ्क्ष्महि किल्बिषेण॥

मूलम्

यं वानयोर्दममधीश भवान् वि7धत्ते वृत्तिं नु वा तदनुमन्महि निर्व्यलीकम्।
अस्मासु वा य उचितो ध्रियतां स दण्डो येऽनागसौ वयमयुङ्क्ष्महि किल्बिषेण॥ २५ ॥

अनुवाद (हिन्दी)

सर्वेश्वर! इन द्वारपालोंको आप जैसा उचित समझें वैसा दण्ड दें अथवा पुरस्काररूपमें इनकी वृत्ति बढ़ा दें—हम निष्कपटभावसे सब प्रकार आपसे सहमत हैं अथवा हमने आपके इन निरपराध अनुचरोंको शाप दिया है, इसके लिये हमींको उचित दण्ड दें; हमें वह भी सहर्ष स्वीकार है॥ २५॥

वीरराघवः

एवं यथामति भगवद्-उक्तीनां तात्पर्यं परिष्कृत्य तच्-चिकीर्षितम् अजानन्तः स्वापराधानुगुणं दण्ड-धारणं च निवेदयन्त आहुः । वयम् इति । हे अधीश ! तवानयोर् भृत्ययोः यं वा दमम् अस्माभिर् विहितम् अन्यं वा दण्डं वृत्तिं यथापूर्वम् अत्र लोके वर्तनं च विधत्ते तन् निर्व्यलीकं सत्यं यथानुमन्महे ऽनुमान्यामहे ऽस्मासु चोचितः स्वापराधानुरूपः यो दण्डः स क्रियतां भवद्भिः किम् अपराद्धम् इति चेत् ये वयम् अनागसौ निरपराधिनौ किल्बिषेण शापेनायुंक्ष्महि योजितवन्तः द्वाःस्थयोर् अपूर्व-जन-निवारणं स्वाभाविकम् इत्य्-अभिप्रायेणानागसाव् इत्य् उक्तम् ॥ २५ ॥

श्लोक-२६

मूलम् (वचनम्)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

एतौ सुरेतरगतिं प्रतिपद्य सद्यः
संरम्भसम्भृतसमाध्यनुबद्धयोगौ।
भूयः सकाशमुपयास्यत आशु यो वः
शापो मयैव निमितस्तदवैत विप्राः॥

मूलम्

एतौ सुरेतरगतिं प्रतिपद्य सद्यः संरम्भसम्भृतसमाध्यनुबद्धयोगौ।
भूयः सकाशमुपयास्यत आशु यो वः शापो मयैव नि8मितस्तदवैत विप्राः॥

अनुवाद (हिन्दी)

श्रीभगवान‍्ने कहा—मुनिगण! आपने इन्हें जो शाप दिया है—सच जानिये, वह मेरी ही प्रेरणासे हुआ है। अब ये शीघ्र ही दैत्ययोनिको प्राप्त होंगे और वहाँ क्रोधावेशसे बढ़ी हुई एकाग्रताके कारण सुदृढ़ योगसम्पन्न होकर फिर जल्दी ही मेरे पास लौट आयेंगे॥ २६॥

वीरराघवः

एवं मुनिभिर् आवेदित-हार्दो मुनीनां भृत्ययोश् चानुग्रहं कर्तु-मना भगवान् मुनीन् प्रत्याहैकेन एतौ पार्षदौ सुरेतर-गतिम् आसुरं जन्म प्रतिपद्य जन्म-प्रभृति मयि यः संरम्भः क्रोधस् तेन संभृतः संजातः समाधिर् अनवरत-भावना तेनानुबद्धो ऽनुवृत्तः योगः मत्-संबन्धो ययोस् तावत् एव पुनः सकाशं मत्-समीपम् उपयास्यतः । हे विप्राः ! च युष्माकं यः शापः स मयैव युष्मन्-मुखेन विहित इत्य् अवैतावगच्छत जानीतेति यावत् ॥ २६ ॥

श्लोक-२७

मूलम् (वचनम्)

ब्रह्मोवाच

विश्वास-प्रस्तुतिः

अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम्।
वैकुण्ठं तदधिष्ठानं विकुण्ठं च स्वयंप्रभम्॥

मूलम्

अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम्।
वैकुण्ठं तदधिष्ठानं विकुण्ठं च स्वयंप्र9भम्॥ २७ ॥

वीरराघवः

एवं भगवतोक्ता मुनयो ययुर् इत्य् आह द्वाभ्याम् । अथानन्तरं नयनयोर् य आनन्दस् तस्य भाजनं विषयं वैकुण्ठं तस्याधिष्ठानं स्थानं स्व-प्रकाशं विकुण्ठ-लोकं च दृष्ट्वा ते मुनयः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च।
प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम्॥

मूलम्

भगवन्तं परिक्रम्य प्रणिपत्यानुमा10न्य च।
प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम्॥ २८ ॥

अनुवाद (हिन्दी)

श्रीब्रह्माजी कहते हैं—तदनन्तर उन मुनीश्वरोंने नयनाभिराम भगवान् विष्णु और उनके स्वयंप्रकाश वैकुण्ठधामके दर्शन करके प्रभुकी परिक्रमा की और उन्हें प्रणामकर तथा उनकी आज्ञा पा भगवान‍्के ऐश्वर्यका वर्णन करते हुए प्रमुदित हो वहाँसे लौट गये॥ २७-२८॥

वीरराघवः

भगवन्तं परिक्रम्य प्रदक्षिणीकृत्य प्रणम्यानुमान्यानुज्ञाप्य वैष्णवीं भागवतीं श्रियं संपदं शंसन्तः प्रशंसन्तः मुदिताः प्रतिजग्मुः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

भगवाननुगावाह यातं मा भैष्टमस्तु शम्।
ब्रह्मतेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे॥

मूलम्

भगवाननुगावाह यातं मा भैष्टमस्तु शम्।
ब्रह्मतेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे॥ २९ ॥

अनुवाद (हिन्दी)

फिर भगवान‍्ने अपने अनुचरोंसे कहा, ‘जाओ, मनमें किसी प्रकारका भय मत करो; तुम्हारा कल्याण होगा। मैं सब कुछ करनेमें समर्थ होकर भी ब्रह्मतेजको मिटाना नहीं चाहता; क्योंकि ऐसा ही मुझे अभिमत भी है॥ २९॥

वीरराघवः

मुनि-गमनानन्तरं द्वाःस्थौ सान्त्वयन् भगवान् उवाचेत्य् आह । त्रिभिः । भगवान् अनुगौ भृत्यौ प्रत्याह उवाच उक्तिम् एवाह । यातं गच्छतं मा भैष्टं भयं मा कुरुतं शं सुखम् एव गच्छतोर् अपि युवयोर् अस्तु । यद्य् आवयोर् अनुग्रह एव भवता क्रियते तर्हि ब्रह्म-दण्ड एव किं न निरस्यते इत्य् अत्राह । ब्रह्म-तेजः ब्रह्म-दण्डस् तेजः कार्यत्वाद् दण्डस्यापि तेजः-शब्देन निर्देशः, हन्तुं निरसितुं समर्थो ऽपि नेच्छे कुतः हि यस्मान् मे मम मतं संमतम् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

एतत्पुरैव निर्दिष्टं रमया क्रुद्धया यदा।
पुरापवारिता द्वारि विशन्ती मय्युपारते॥

मूलम्

एतत्पुरैव निर्दिष्टं रमया क्रुद्धया यदा।
पुरापवारिता द्वारि विशन्ती मय्युपारते॥ ३० ॥

अनुवाद (हिन्दी)

एक बार जब मैं योगनिद्रामें स्थित हो गया था, तब तुमने द्वारमें प्रवेश करती हुई लक्ष्मीजीको रोका था। उस समय उन्होंने क्रुद्ध होकर पहले ही तुम्हें यह शाप दे दिया था॥ ३०॥

वीरराघवः

न केवलं ममैवेदं ब्रह्मतेजो मतं किन्तु लक्ष्म्या अपीत्य् आह । एतद् इति । एतद् युवयोर् इतो निर्गमनं पुरा पूर्व-काले क्रुद्धया रमया लक्ष्म्यैव निर्दिष्टं पुरा कदेत्य् अत्राह । मयि उपारते प्रणय-कलह-वशात् तूष्णीं शयाने सति मन्-निलयाद् बहिर् निर्गत्य पुनर् अन्तः प्रविशन्ती द्वारि युवाभ्यां यद् यदा निवारिता तदेत्य् अर्थः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम्।
प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः॥

मूलम्

मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम्।
प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः॥ ३१ ॥

अनुवाद (हिन्दी)

अब दैत्ययोनिमें मेरे प्रति क्रोधाकार वृत्ति रहनेसे तुम्हें जो एकाग्रता होगी, उससे तुम इस विप्र-तिरस्कारजनित पापसे मुक्त हो जाओगे और फिर थोड़े ही समयमें मेरे पास लौट आओगे॥ ३१॥

वीरराघवः

अन्ते मयि संरम्भः क्रोधस् तस्य योगो ऽनवरत-सम्बन्धः तेन ब्रह्म-विद्-अपराध-जन्यं फलं निस्तीर्य निरवशेषम् अपोह्याल्पीयसैव कालेन पुनर् मे निकाशं समीपं प्रत्येष्यतं प्रत्यागच्छतम् ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

द्वाःस्थावादिश्य भगवान् विमानश्रेणिभूषणम्।
सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यमाविशत्॥

मूलम्

द्वाःस्थावादिश्य भगवान् विमानश्रेणिभूषणम्।
सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यमाविशत्॥ ३२ ॥

अनुवाद (हिन्दी)

द्वारपालोंको इस प्रकार आज्ञा दे, भगवान‍्ने विमानोंकी श्रेणियोंसे सुसज्जित अपने सर्वाधिक श्रीसम्पन्न धाममें प्रवेश किया॥ ३२॥

वीरराघवः

एवं द्वाःस्थाव् आदिश्य भगवान् स्वस्थानम् आविवेशेत्य् आह । भगवान् द्वाःस्थाव् आदिश्याज्ञाप्य विमान-श्रेणय एव भूषणं यस्मिन् सर्वातिशयया निरतिशयया लक्ष्म्या संपदा जुष्टं यद्वा प्रियं स्वधिष्ण्यं स्वकीय-स्थानं लक्ष्म्या सहाविशत् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

तौ तु गीर्वाणऋषभौ दुस्तराद्धरिलोकतः।
हतश्रियौ ब्रह्मशापादभूतां विगतस्मयौ॥

मूलम्

तौ तु गीर्वाणऋषभौ दुस्तराद्धरिलोकतः।
हतश्रियौ ब्रह्मशापादभूतां विगतस्मयौ॥ ३३ ॥

अनुवाद (हिन्दी)

वे देवश्रेष्ठ जय-विजय तो ब्रह्म-शापके कारण उस अलंघनीय भगवद्धाममें ही श्रीहीन हो गये तथा उनका सारा गर्व गलित हो गया॥ ३३॥

वीरराघवः

अथ तौ किम् अभूतां किम् अकुर्वताम् इत्य् अत्राह । ताव् इति । ग्रीर्वाण-ऋषभौ पार्षद-प्रवरौ तौ द्वाःस्थौ दुस्तराद् ब्रह्म-शापाद् धेतोर् हरि-लोकतः हरि-लोक एव हत-श्रियौ भ्रष्ट-तेजस्कौ अत एव विगत-स्मयौ विनष्ट-गर्वाव् अभूताम् ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

तदा विकुण्ठधिषणात्तयोर्निपतमानयोः।
हाहाकारो महानासीद्विमानाग्र्येषु पुत्रकाः॥

मूलम्

तदा विकुण्ठधिषणात्तयोर्निपतमानयोः।
हाहाकारो महानासीद्विमानाग्र्येषु पुत्रकाः॥ ३४ ॥

अनुवाद (हिन्दी)

पुत्रो! फिर जब वे वैकुण्ठलोकसे गिरने लगे, तब वहाँ श्रेष्ठ विमानोंपर बैठे हुए वैकुण्ठवासियोंमें महान् हाहाकार मच गया॥ ३४॥

वीरराघवः

तदा विकुण्ठ-स्थानाद् उभयोर् निपतमानयोः सतोः हे पुत्रकाः ! देवाः विमानाग्र्येषु वसतां महान् उच्चैर् हाहाकार आसीत् ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

तावेव ह्यधुना प्राप्तौ पार्षदप्रवरौ हरेः।
दितेर्जठरनिर्विष्टं काश्यपं तेज उल्बणम्॥

मूलम्

तावेव ह्यधुना प्राप्तौ पार्षदप्रवरौ हरेः।
दितेर्जठरनिर्विष्टं काश्यपं तेज उल्बणम्॥ ३५ ॥

अनुवाद (हिन्दी)

इस समय दितिके गर्भमें स्थित जो कश्यपजीका उग्र तेज है, उसमें भगवान‍्के उन पार्षदप्रवरोंने ही प्रवेश किया है॥ ३५॥

वीरराघवः

ताव् एव हरेः पार्षद-श्रेष्ठौ दितेर् जठरे कुक्षौ निविष्टं प्रविष्टं कश्यप-सम्बन्धि उल्बणम् उग्रं तेजः वीर्यं प्रत्यधुना आशु प्राप्तौ भवतः ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

तयोरसुरयोरद्य तेजसा यमयोर्हि वः।
आक्षिप्तं तेज एतर्हि भगवांस्तद्विधित्सति॥

मूलम्

तयोरसुरयोरद्य तेजसा यमयोर्हि वः।
आक्षिप्तं तेज एतर्हि भगवांस्तद्विधित्सति॥ ३६ ॥

अनुवाद (हिन्दी)

उन दोनों असुरोंके तेजसे ही तुम सबका तेज फीका पड़ गया है। इस समय भगवान् ऐसा ही करना चाहते हैं॥ ३६॥

वीरराघवः

तयोर् असुरयोर् आसुर-जन्मनोर् यमयोः सहैव गर्भं प्रविश्य उत्पत्स्यमानयोस् तेजसाद्य वः युष्माकं तेजः आक्षिप्तम् अभिभूतम् एतर्हि इदानीं भगवान् तद् भवतां तेजः विधास्यति करिष्यतीत्य् अर्थः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

विश्वस्य यः स्थितिलयोद‍्भवहेतुराद्यो
योगेश्वरैरपि दुरत्यययोगमायः।
क्षेमं विधास्यति स नो भगवांस्त्र्यधीश-
स्तत्रास्मदीयविमृशेन कियानिहार्थः॥

मूलम्

विश्वस्य यः स्थितिलयोद‍्भवहेतुराद्यो योगेश्वरैरपि दुरत्यययोगमायः।
क्षेमं विधास्यति स नो भगवांस्त्र्यधीशस्तत्रास्मदीयविमृशेन कियानिहार्थः॥ ३७ ॥

अनुवाद (हिन्दी)

जो आदिपुरुष संसारकी उत्पत्ति, स्थिति और लयके कारण हैं, जिनकी योगमायाको बड़े-बड़े योगिजन भी बड़ी कठिनतासे पार कर पाते हैं—वे सत्त्वादि तीनों गुणोंके नियन्ता श्रीहरि ही हमारा कल्याण करेंगे। अब इस विषयमें हमारे विशेष विचार करनेसे क्या लाभ हो सकता है॥ ३७॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे षोडशोऽध्यायः ॥ १६ ॥

वीरराघवः

भगवान् कदा विधास्यति विधातुं स प्रभवेन् न वेति शङ्का-द्वयं परिहरन्न् इतिहासं निगमयति । विश्वस्येति । विश्वस्य जगतः स्थिति-लयोत्पत्ति-हेतुर् अत एवाद्यः सृष्टेः प्राग् अपि निर्विकारत्वेन स्थितः कथं निर्विकारस्य सृष्ट्यादि-हेतुत्वम् इत्य् अत्राह । योगेश्वरैर् अपि योग-परिशुद्ध-मानसैर् अपि दुरत्यया दुर्विवेचनीया आत्मीया विचित्र-सर्ग-कारिणी शक्तिर् यस्मात् तेन संहार-सृष्ट्यादि-हेतुत्वम् इति फलितम् । एवं भूतस् त्र्य्-अधीशः त्रिलोकाधिपतिः यो भगवान् स एव नो ऽस्माकं क्षेमं विधास्यति सत्त्व-गुणोत्कर्ष-काले करिष्यति तत्रेह तथाभूते एतस्मिन् भगवत्य् अस्मदीयस्यास्मदिष्टस्य विमृशेन कियान् अर्थः कियत्-प्रयोजनम् । कृत्स्न-विश्व-स्थिति-लयोद्भव-लीलस्याचिन्त्य-विविध-विचित्र-रचना-समर्थ-मायाधीशस्य षाड्गुण्य-पूर्णस्य त्रि-लोकाधिपतेः स्वाश्रितास्मदीय-विमर्शनम् अत्यल्पं प्रयोजनम् इत्य् अर्थः ॥ ३७ ॥

इति श्री-भागवत-महापुराणे तृतीय-स्कंधे श्रीमद्-वीरराघवाचार्य-कृत-भागवत-चन्द्रिकायां षोडशो ऽध्यायः ॥ १६ ॥


  1. प्रा. पा. - तद्वदतां । ↩︎

  2. प्रा. पा. - र्मय्यनुव्रतैः । ↩︎

  3. प्राचीने पाठे । रजः शब्दादारभ्यैकादश श्लोकस्थ, ‘क्षिप शब्दावधिकोंऽशो मूले लेखकप्रमादान्नोधृतः । टिप्पण्यां तु वर्तते । ↩︎

  4. प्रा. पा. - कुपितं वचः । ↩︎

  5. प्रा. पा. - नुग्राहयते परम् । ↩︎

  6. प्रा. पा. - मानो । ↩︎

  7. प्रा. पा. - विचष्टे । ↩︎

  8. प्रा. पा. - निहित । ↩︎

  9. प्रा. पा. - प्रभुः । ↩︎

  10. प्रा. पा. - भाव्य च । ↩︎