१५ सनकादिशापः

[पञ्चदशोऽध्यायः]

भागसूचना

जय-विजयको सनकादिका शाप

श्लोक-१

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

प्राजापत्यं तु तत्तेजः परतेजोहनं दितिः।
दधार वर्षाणि शतं शङ्कमाना सुरार्दनात्॥

मूलम्

प्राजापत्यं तु तत्तेजः परतेजोहनं दितिः।
दधार वर्षाणि शतं शङ्कमाना सुरार्दनात्॥ १ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजीने कहा—विदुरजी! दितिको अपने पुत्रोंसे देवताओंको कष्ट पहुँचनेकी आशंका थी, इसलिये उसने दूसरोंके तेजका नाश करनेवाले उस कश्यपजीके तेज (वीर्य)-को सौ वर्षोंतक अपने उदरमें ही रखा॥ १॥

वीरराघवः

एवं देवर्षि-ब्रह्म-वाद-रूपेतिहासोपोद्धात-रूपम् इतिहासान्तरं प्रस्तुत्येदानीं ब्रह्म-नारद-संवादं प्रस्तोतुं तावद् देवानां ब्रह्मणः सन्निधाव् उपसत्ति-हेतुं वदन् वृत्तम् इतिहासं वर्त्तिष्यमाणेतिहासेन सङ्गमयति मैत्रेयः । प्राजापत्यम् इति । परेषां तेजो हन्तीति तथा प्राजापत्यं कश्यप-सम्बन्धि तेजो वीर्यं दितिर् असुरार्-दनाच् आशङ्कमाना इन्द्रः कदाचित् किं कुर्याद् इति शङ्कमाना सती शतं वर्षाणि दधार गर्भं धृतवतीत्य् अर्थः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

लोके तेन हतालोके लोकपाला हतौजसः।
न्यवेदयन् विश्वसृजे ध्वान्तव्यतिकरं दिशाम्॥

मूलम्

लोके तेन ह1तालोके लोकपाला हतौजसः।
न्यवेदयन् विश्वसृजे ध्वान्तव्यतिकरं दिशाम्॥ २ ॥

अनुवाद (हिन्दी)

उस गर्भस्थ तेजसे ही लोकोंमें सूर्यादिका प्रकाश क्षीण होने लगा तथा इन्द्रादि लोकपाल भी तेजोहीन हो गये। तब उन्होंने ब्रह्माजीके पास जाकर कहा कि सब दिशाओंमें अन्धकारके कारण बड़ी अव्यवस्था हो रही है॥ २॥

वीरराघवः

तेन गर्भ-तेजसा हतालोके निरस्त-सूर्यादि-प्रकाशे हतौजसो हत-प्रभा लोक-पाला दिशां ध्वान्तेनान्ध-तमसेन व्यतिकरं व्यत्यासम् इयं पूर्वा दिग् इति पश्चिमेति ज्ञानाभावं विश्व-सृजे चतुर्मुखाय न्यवेदयन् ब्रह्म-समीपम् आगत्य विज्ञापयामासुर् इत्य् अर्थः ॥ २ ॥

श्लोक-३

मूलम् (वचनम्)

देवा2 ऊचुः

विश्वास-प्रस्तुतिः

तम एतद्विभो वेत्थ संविग्ना यद्वयं भृशम्।
न ह्यव्यक्तं भगवतः कालेनास्पृष्टवर्त्मनः॥

मूलम्

तम एतद्विभो वेत्थ संविग्ना यद्वयं भृशम्।
न ह्यव्यक्तं भगवतः कालेनास्पृष्टवर्त्मनः॥ ३ ॥

अनुवाद (हिन्दी)

देवताओंने कहा—भगवन्! काल आपकी ज्ञानशक्तिको कुण्ठित नहीं कर सकता, इसलिये आपसे कोई बात छिपी नहीं है। आप इस अन्धकारके विषयमें भी जानते ही होंगे, हम तो इससे बड़े ही भयभीत हो रहे हैं॥ ३॥

वीरराघवः

निवेदनम् एवाह । त्वम् इति । हे विभो! ब्रह्मन्! त्वम् एवैतद् वेत्थ जानासि किन् तद् इत्य् अत्राहुः । यद् यस्माद् वयं भृशं सम्विग्नाः भीताः तत् त्वम् एवेत्य् अर्थः । अहम् अपि त्वादृश एवातः कथं जानामीत्य् आशङ्कायां परमात्मनः आवेशावतारत्वात् त्वं सर्वं जानासीत्य् अभिप्रेत्याहुः । न हीति । कालेनास्पष्टं वर्त्म ज्ञानं यस्य काल-वशाद् असङ्कुचित-ज्ञानिनो भगवतः, “सृष्टिं ततः करिष्यामि त्वाम् आविश्य प्रजापते” इत्य् उक्तेः । ते त्वया व्यक्तम् अविदितं भगवच्-छरीर-भूतस्य ते न ह्य् अस्ति इत्य् अर्थः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

देवदेव जगद्धातर्लोकनाथशिखामणे।
परेषामपरेषां त्वं भूतानामसि भाववित्॥

मूलम्

देवदेव जगद्धातर्लोकनाथशिखा3मणे।
परेषामपरेषां त्वं भूतानामसि भाववित्॥ ४ ॥

अनुवाद (हिन्दी)

देवाधिदेव! आप जगत‍्के रचयिता और समस्त लोकपालोंके मुकुटमणि हैं। आप छोटे-बड़े सभी जीवोंका भाव जानते हैं॥ ४॥

वीरराघवः

एतद् एव विशदयन्ति । हे देव-देव! देवानाम् इन्द्रादीनाम् अपि देव! हे जगद्-घातः! जगन्-निर्मातः! लोक-नाथ-शिखामणे! लोक-नाथानां शिखामणे परेषाम् अपरेषाम् अस्मद्-अपेक्षया पूर्वेषाम् अर्वाचीनानां च भाव-विद् अभिप्रायज्ञो ऽसि इति ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

नमो विज्ञानवीर्याय माययेदमुपेयुषे।
गृहीतगुणभेदाय नमस्तेऽव्यक्तयोनये॥

मूलम्

नमो विज्ञानवीर्याय माययेदमुपेयुषे।
गृहीतगुणभेदाय नमस्तेऽव्यक्तयोनये॥ ५ ॥

अनुवाद (हिन्दी)

देव! आप विज्ञानबलसम्पन्न हैं; आपने मायासे ही यह चतुर्मुख रूप और रजोगुण स्वीकार किया है; आपकी उत्पत्तिके वास्तविक कारणको कोई नहीं जान सकता। हम आपको नमस्कार करते हैं॥ ५॥

वीरराघवः

एवं परमात्मावेशावतारत्वेन ब्रह्म-शरीरक-परमात्म-दृष्ट्या तस्य सर्वज्ञताम् अभिधाय पुनस् तद्-दृष्ट्या तद्-धर्मैर् विशिष्टत्वेन नमस् कुर्वन्ति । नम इति । ते तुभ्यं नमः कथं-भूताय ते व्यक्त-योनये व्यक्तं कार्यावस्थं जगत्-त्रयस्य योनये कारणाय नाहं व्यक्त-योनिः किन्तु परमात्मेत्य् अत्राहुः । गृहीत-गुण-भेदाय गुणानां भेदः रजोगुणो यस्य स गुण-भेदः ब्रह्मा गृहीतः शरीरत्वेन गुण-भेदः रजो-गुण-प्रधानः ब्रह्मा येन तस्मै रजो-गुण-प्रधान-ब्रह्म-शरीरक-परमात्मा यो जगत्-स्रष्टा स त्वम् एवेत्य् अर्थः । नेदं त्वद्-रूपेणावस्थानं परमात्मनः कर्मायत्तम् इत्य् आह । मायया सङ्कल्प-रूप-ज्ञानेनैव इदं ब्रह्माख्यं शरीरम् उपेपुषे गताय एतद्-उपपादकत्वेन विशिनष्टि विज्ञान-वीर्यायेति । विज्ञानम् एव वीर्यं बलं यस्य तस्मै ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

ये त्वानन्येन भावेन भावयन्त्यात्मभावनम्।
आत्मनि प्रोतभुवनं परं सदसदात्मकम्॥

मूलम्

ये त्वा4नन्येन भावेन भावयन्त्यात्मभावनम्।
आत्मनि प्रोतभुवनं परं सदसदात्मकम्॥ ६ ॥

वीरराघवः

एवं-विधस्य तव प्रजानां त्वन्-निर्देश-वर्तिनाम् अस्माकम् अन्यैः परिभवो ऽनुचित इति सूचयन्तो नमस् कुर्वन्ति त्रिभिः । ये त्व् इति । आत्मनो जीवान् देव-मनुष्यादि-रूपेण भावयतीत्यात्म-भावनस् तम् आत्मनि स्वात्मन्य् एव प्रोतं सन्दर्भितं भुवनं येन तमत एव सद्-असद्-आत्मकं कार्य-कारण-रूपं वस्तुतस् ताभ्यां परं विलक्षणं त्वाये ऽनन्येनाव्यभिचारेण भावेन भक्त्या भावयन्त्य् उपासते ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

तेषां सुपक्वयोगानां जितश्वासेन्द्रियात्मनाम्।
लब्धयुष्मत्प्रसादानां न कुतश्चित्पराभवः॥

मूलम्

तेषां सुपक्वयोगानां जितश्वासेन्द्रियात्मनाम्।
लब्धयुष्मत्प्रसादानां न कुतश्चित्पराभवः॥ ७ ॥

अनुवाद (हिन्दी)

आपमें सम्पूर्ण भुवन स्थित हैं, कार्य-कारणरूप सारा प्रपंच आपका शरीर है; किन्तु वास्तवमें आप इससे परे हैं। जो समस्त जीवोंके उत्पत्तिस्थान आपका अनन्यभावसे ध्यान करते हैं, उन सिद्ध योगियोंका किसी प्रकार भी ह्रास नहीं हो सकता; क्योंकि वे आपके कृपाकटाक्षसे कृतकृत्य हो जाते हैं तथा प्राण, इन्द्रिय और मनको जीत लेनेके कारण उनका योग भी परिपक्व हो जाता है॥ ६-७॥

वीरराघवः

तेषां कथं-भूतानाम् जित-श्वासेन्द्रियात्मनां जिताः श्वासाः प्राणा इन्द्रियाणि ज्ञान-कर्मोभयेन्द्रियाण्य् आत्मान्तःकरणं च यैस् तेषाम् अत एव सु-पक्वः परिपक्वः योगः भक्ति-योगो येषां तेषाम् अत एव लब्धः युष्मत्-प्रसादः भवद्-अनुग्रहः यैस् तेषां कुतश्चिद् अपि पराभवो नास्ति ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

यस्य वाचा प्रजाः सर्वा गावस्तन्त्येव यन्त्रिताः।
हरन्ति बलिमायत्तास्तस्मै मुख्याय ते नमः॥

मूलम्

यस्य वाचा प्रजाः सर्वा गावस्तन्त्येव यन्त्रिताः।
हरन्ति बलिमायत्तास्तस्मै मुख्या5य ते नमः॥ ८ ॥

अनुवाद (हिन्दी)

रस्सीसे बँधे हुए बैलोंकी भाँति आपकी वेदवाणीसे जकड़ी हुई सारी प्रजा आपकी अधीनतामें नियमपूर्वक कर्मानुष्ठान करके आपको बलि समर्पित करती है। आप सबके नियन्ता मुख्य प्राण हैं, हम आपको नमस्कार करते हैं॥ ८॥

वीरराघवः

यस्य तव वाचा वेदात्मिकया सर्वाः प्रजास् तन्त्या दामन्या गाव इव यन्त्रिताः बद्धाः आयत्तास् त्वद्-अधीनाः सत्यः बलिं त्वत्-पूजाम् हरन्ति कुर्वन्ति तस्मै मुख्याय श्रेष्ठाय ते नमः । अनेन स्व-संबन्धिनां स्व-निर्देश-वर्तिनाम् अन्यैः परिभवो ऽनुचित इति सूचितं भवति ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

स त्वं विधत्स्व शं भूमंस्तमसा लुप्तकर्मणाम्।
अदभ्रदयया दृष्ट्या आपन्नानर्हसीक्षितुम्॥

मूलम्

स त्वं विधत्स्व शं भूमंस्त6मसा लुप्तकर्मणाम्।
अदभ्रदयया दृष्ट्या आपन्नानर्हसीक्षितुम्॥ ९ ॥

अनुवाद (हिन्दी)

भूमन्! इस अन्धकारके कारण दिन-रातका विभाग अस्पष्ट हो जानेसे लोकोंके सारे कर्म लुप्त होते जा रहे हैं, जिससे वे दुःखी हो रहे हैं; उनका कल्याण कीजिये और हम शरणागतोंकी ओर अपनी अपार दयादृष्टिसे निहारिये॥ ९॥

वीरराघवः

एवं नमस्कृत्य स्वाभीप्सितं प्रार्थयन्ते । स त्वम् इति । हे भूमन् ! स उक्त-विधस् त्वं तमसाहोरात्र-विभागाभावेन लुप्तानि कर्माणि येषाम् अस्माकं शं सुखं विधत्स्व कुरु आपन्नानापद्गतान्नो ऽस्मान् अदभ्रा अनल्पा दया यस्यास् तया दृष्ट्या ईक्षणेन ईक्षितुं द्रष्टुम् अर्हसि ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

एष देव दितेर्गर्भ ओजः काश्यपमर्पितम्।
दिशस्तिमिरयन् सर्वा वर्धतेऽग्निरिवैधसि॥

मूलम्

एष देव दितेर्गर्भ ओजः काश्यपमर्पितम्।
दिशस्तिमिरयन् सर्वा वर्धते7ऽग्निरिवैधसि॥ १० ॥

अनुवाद (हिन्दी)

देव! आग जिस प्रकार ईंधनमें पड़कर बढ़ती रहती है, उसी प्रकार कश्यपजीके वीर्यसे स्थापित हुआ यह दितिका गर्भ सारी दिशाओंको अन्धकारमय करता हुआ क्रमशः बढ़ रहा है॥ १०॥

वीरराघवः

ननु किम् इदानीं भवतां व्यसनम् उपस्थितम् इत्य् अत्राहुः । एष इति । हे देव! दितेर् गर्भेऽर्पितः निहितं काश्यपं कश्यप-सम्बन्ध्य् ओजः वीर्यं सर्वा दिशस् तिमिरयन् अन्धीकुर्वन्न् एधसि दारु-निचये ऽग्निर् इवैधते वर्द्धते ॥ १० ॥

श्लोक-११

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

स प्रहस्य महाबाहो भगवान् शब्दगोचरः।
प्रत्याचष्टात्मभूर्देवान् प्रीणन् रुचिरया गिरा॥

मूलम्

स प्रहस्य महाबाहो भगवान् शब्दगोचरः।
प्रत्याचष्टात्मभूर्देवान् प्रीणन् रुचिरया गिरा॥ ११ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—महाबाहो! देवताओंकी प्रार्थना सुनकर भगवान् ब्रह्माजी हँसे और उन्हें अपनी मधुर वाणीसे आनन्दित करते हुए कहने लगे॥ ११॥

वीरराघवः

एवं देवैर् उक्तो ब्रह्मा तान् प्राहेत्य् आह मुनिः । स इति । शब्द-गोचरः वेद-वेद्यः स भगवान् स्वभूर् ब्रह्मा प्रहस्य विहस्य हे महाबाहो विदुर! मधुरया गिरा प्रीणयन्स् तर्पयन् देवान् प्रत्याचष्ट उक्तवान् ॥ ११ ॥

श्लोक-१२

मूलम् (वचनम्)

ब्रह्मोवाच

विश्वास-प्रस्तुतिः

मानसा मे सुता युष्मत्पूर्वजाः सनकादयः।
चेरुर्विहायसा लोकाल्ँलोकेषु विगतस्पृहाः॥

मूलम्

मानसा मे सुता युष्मत्पूर्वजाः सनकादयः।
चेरुर्विहायसा लोकाॅंल्लोकेषु विगतस्पृहाः॥ १२ ॥

अनुवाद (हिन्दी)

श्रीब्रह्माजीने कहा—देवताओ! तुम्हारे पूर्वज, मेरे मानसपुत्र सनकादि लोकोंकी आसक्ति त्यागकर समस्त लोकोंमें आकाशमार्गसे विचरा करते थे॥ १२॥

वीरराघवः

उक्तिम् एवाह मानसा इत्य् आरभ्याध्याय-शेषेण मे मानसाः मनसः समुत्पन्नाः युष्मत्-पूर्वजाः युष्मद्-अपेक्षया पूर्वं जाताः सनकादयः लोकेषु विगता स्पृहा विषयाभिलाषो येषां ते तथोक्ता अपि लोकान् विहायसा नभो-मार्गेण चेरुः सञ्चरितवन्तः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

त एकदा भगवतो वैकुण्ठस्यामलात्मनः।
ययुर्वैकुण्ठनिलयं सर्वलोकनमस्कृतम्॥

मूलम्

त एकदा भगवतो वैकुण्ठस्यामलात्मनः।
ययुर्वैकुण्ठनिलयं सर्वलोकनमस्कृतम्॥ १३ ॥

अनुवाद (हिन्दी)

एक बार वे भगवान् विष्णुके शुद्ध-सत्त्वमय सब लोकोंके शिरोभागमें स्थित, वैकुण्ठधाममें जा पहुँचे॥ १३॥

वीरराघवः

ते सनकादयः एकदा एकस्मिन् काले ऽमलात्मनः शुद्ध-सत्त्वमय-दिव्य-मङ्गल-विग्रहस्य वैकुण्ठस्याप्रतिहतैश्वर्यस्य भगवतः वैकुण्ठस्य सम्बन्धि-निलयं स्थानं प्रति कथं-भूतं सर्व-लोकैर् अर्वाचीनैर् लोक-वासिभिर् नमस्कृतं ययुर् गतवन्तः तत्र वैकुण्ठ-निलयम् इति विष्णुलोकोपरिस्थानम् उच्यते न तु नित्य-विभूतिः । अष्टम-स्कन्धे “वैकुण्ठः कल्पितो येन लोको लोक-नमस्कृतः” इति वक्ष्यमाणत्वात् ब्रह्मणापि समधिगम्यस्य परमाकाश-प्रकृति-युक्तैर् गन्तुम् अशक्यत्वात् ख-चूडामणिम् आत्म-धिष्ण्यम् इति स्वर्ग-लोक-चूडामणित्वेन वक्ष्यमाणत्वाच् च, कैवल्यम् इव मूर्तिमद् इति वक्ष्यमाणत्वेन मुक्त-प्राप्य-भूमित्वाभावावगमाच् च वैकुण्ठ-शब्द-वाच्यत्वं च विकुण्ठस्य भगवतः स्थानत्वाद् उपपन्नम् इति विज्ञेयम् ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः।
येऽनिमित्तनिमित्तेन धर्मेणाराधयन् हरिम्॥

मूलम्

वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः।
येऽनिमित्तनिमित्तेन धर्मेणाराधयन् हरिम्॥ १४ ॥

अनुवाद (हिन्दी)

वहाँ सभी लोग विष्णुरूप होकर रहते हैं और वह प्राप्त भी उन्हींको होता है, जो अन्य सब प्रकारकी कामनाएँ छोड़कर केवल भगवच्चरण-शरणकी प्राप्तिके लिये ही अपने धर्मद्वारा उनकी आराधना करते हैं॥ १४॥

वीरराघवः

तम् एव वैकुण्ठं वर्णयति । वसन्तीत्य्-आदि-द्वादशभिः । यत्र वैकुण्ठे अनिमित्त-निमित्तेन निमित्तं फलम् अनिमित्तेन निमित्तम् अप्रवर्तकं निमित्तं फलं यस्मिन् कामादि-निमित्त-रहितेनेत्य् अर्थः । धर्मेण हरिम् आराधयन् आराधितवन्तः ये पुरुषा वसन्ति ते सर्वे वैकुण्ठस्य भगवतः मूर्तिर् आकारो येषां ते तथोक्ताः आराधयन् वसन्तीत्य्-अनेन विष्णु-लोक-वासिनाम् अपि भगवद्-उपासकत्वम् उक्तं, “धर्म-ध्रुवाद्यास् तिष्ठन्ति यत्र ते लोक-साक्षिण” इत्यादिनैकार्थ्यात् पूर्वम् आराध्येहागत्य वसन्तीत्यर्थे ऽपि न विरोधः । नन्व् अकामेन धर्मेण भगवन्तम् आराधयतां नित्य-भूतिर् एव प्राप्या न त्व् असाव् अण्डान्तर्-वर्ति वैकुण्ठ-लोकः । सत्यं त एव कुतश्चित् प्रतिबन्धात् प्रथमं नित्य-विभूतिम् अनवाप्येमं वैकुण्ठम् आगत्य तत्र भगवद्-अनुभवेन निरस्त-प्रतिबन्धाः कल्पान्ते ततो नित्य-विभूतिं गमिष्यन्तीत्यतो न विरोधः । अत्र यत्रेत्यादीनां यच्-शब्दानां यद्-विश्व-गुर्व्-अधिकृतम् इत्य् अत्रान्वयः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

यत्र चाद्यः पुमानास्ते भगवान् शब्दगोचरः।
सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन् वृषः॥

मूलम्

यत्र चाद्यः पुमानास्ते भगवान् शब्दगोचरः।
सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन् वृषः॥ १५ ॥

अनुवाद (हिन्दी)

वहाँ वेदान्तप्रतिपाद्य धर्ममूर्ति श्रीआदिनारायण हम अपने भक्तोंको सुख देनेके लिये शुद्धसत्त्वमय स्वरूप धारणकर हर समय विराजमान रहते हैं॥ १५॥

वीरराघवः

यत्र च वैकुण्ठे शब्द-गोचरः शास्त्रैक-प्रमाणकः भगवान् षाड्गुण्य-पूर्णः आद्यः परम-कारण-भूतः वृषः श्रेष्ठः पुमान् परम-पुरुषः विरजं रजोगुणेनाननुविद्धं सत्त्वं शुद्ध-सत्त्वमयं देहं विष्टभ्य धृत्वा स्वानां नः स्वकीयान् अस्मान् मृडयन् सुखयन् आस्ते ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

यत्र नैःश्रेयसं नाम वनं कामदुघैर्द्रुमैः।
सर्वर्तुश्रीभिर्विभ्राजत्कैवल्यमिव मूर्तिमत्॥

मूलम्

यत्र नैःश्रेयसं नाम वनं कामदुघैर्द्रुमैः।
सर्वर्तुश्रीभिर्विभ्राजत्कैवल्यमिव मूर्तिमत्॥ १६ ॥

अनुवाद (हिन्दी)

उस लोकमें नैःश्रेयस नामका एक वन है, जो मूर्तिमान् कैवल्य-सा ही जान पड़ता है। वह सब प्रकारकी कामनाओंको पूर्ण करनेवाले वृक्षोंसे सुशोभित है, जो स्वयं हर समय छहों ऋतुओंकी शोभासे सम्पन्न रहते हैं॥ १६॥

वीरराघवः

यत्र श्री-वैकुण्ठे निःश्रेयसं नाम निःश्रेयसाख्यं वनम् अस्ति कथं-भूतं सर्वर्-तुश्रीभिः सर्वेषु ऋतुषु या श्रीः पुष्पादि-सम्पत् सा येषां तैः काम-दुघैर् अभीष्टानि वर्षद्भिर् दुमैर् विभ्राजद्-विशेषेण भ्राजमानं मूर्तिमत् कैवल्यम् इव स्थितम् ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

वैमानिकाः सललनाश्चरितानि यत्र
गायन्ति लोकशमलक्षपणानि भर्तुः।
अन्तर्जलेऽनुविकसन्मधुमाधवीनां
गन्धेन खण्डितधियोऽप्यनिलं क्षिपन्तः॥

मूलम्

वैमानिकाः सललनाश्चरितानि यत्र गायन्ति लोकशमलक्षपणानि भर्तुः।
अन्तर्जलेऽनु8विकसन्मधुमाधवीनां गन्धेन खण्डितधियोऽप्यनिलं क्षिप9न्तः॥ १७ ॥

अनुवाद (हिन्दी)

वहाँ विमानचारी गन्धर्वगण अपनी प्रियाओंके सहित अपने प्रभुकी पवित्र लीलाओंका गान करते रहते हैं, जो लोगोंकी सम्पूर्ण पापराशिको भस्म कर देनेवाली हैं। उस समय सरोवरोंमें खिली हुई मकरन्दपूर्ण वासन्तिक माधवी लताकी सुमधुर गन्ध उनके चित्तको अपनी ओर खींचना चाहती है; परन्तु वे उसकी ओर ध्यान ही नहीं देते वरं उस गन्धको उड़ाकर लानेवाले वायुको ही बुरा-भला कहते हैं॥ १७॥

वीरराघवः

पुनस् तम् एव वर्णयति त्रिभिः । वैमानिकाः विमानारूढाः स-ललनाः सस्त्रीकाः यत्र नैःश्रेयसे वने लोक-भर्तुर् भगवतो लोकानां यानि शमलानि क्षपयन्ति निरस्यन्तीति तथा चरितानि चरित्राणि गायन्ति कथं-भूताः सन्तो गायन्ति अन्तर्-जले ऽनुविकसद्-अनुस्यन्दमानं मधु-मकरन्दो यासां माधवीनां वासन्तिक-माधवी-पुष्पाणां गन्धेन सु-गन्धेन पीडिता अन्तरिता धीर् येषां तथा-भूता अपि अनिलं तत्-प्रापकं वायुं क्षिपन्तः चरितानि गायन्तीत्य् अर्थः । अनेन भोग्य-भोगोपकरण-भोग-स्थान-सान्निध्ये ऽपि तद्-अनादरेण तल्-लोक-स्थानां भगवद्-गुणानुभव एव निरतिशयाभिलाषः सूचितः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

पारावतान्यभृतसारसचक्रवाक-
दात्यूहहंसशुकतित्तिरिबर्हिणां यः।
कोलाहलो विरमतेऽचिरमात्रमुच्चै-
र्भृङ्गाधिपे हरिकथामिव गायमाने॥

मूलम्

पारावतान्यभृतसारसचक्रवाकदात्यूहहंसशुकतित्तिरिबर्हिणां यः।
कोलाहलो विरमतेऽचिरमात्रमुच्चैर्भृङ्गाधिपे हरिकथामिव गायमाने॥ १८ ॥

अनुवाद (हिन्दी)

जिस समय भ्रमरराज ऊँचे स्वरसे गुंजार करते हुए मानो हरिकथाका गान करते हैं, उस समय थोड़ी देरके लिये कबूतर, कोयल, सारस, चकवे, पपीहे, हंस, तोते, तीतर और मोरोंका कोलाहल बंद हो जाता है—मानो वे भी उस कीर्तनानन्दमें बेसुध हो जाते हैं॥ १८॥

वीरराघवः

किम् उत तद्-वन-स्थानां पुरुषाणां गुणानुभवासक्तिर् इति यतस् तिरश्चां तत्र-स्थानां भगवत्-परताम् आह । पारावतादयः शकुनि-विशेषाः अन्य-भृताः कोकिला दात्यूहाश् चातकाः बर्हिणो मयूराः पारावतादीनां यः कोलाहलः कलकलो भृङ्गाधिपे भृङ्ग-श्रेष्ठे हरि-कथाम् इव उच्चैर् गायमाने गानं कुर्वति सत्य् अचिर-मात्रं क्षण-मात्रं विरमते समाप्तो भवति । वन-स्थाः पारावतादयः कोलाहलं कुर्वन्तो भृङ्ग-ध्वनिम् आश्रुत्य किम् अयं भृङ्ग-राजो हरि-कथां गायतीति वयं श्रवणं कुर्मह इत्य्-अभिप्रायेण स्व-कोलाहलं त्यक्त्वा क्षण-मात्रं भृङ्ग-ध्वनिम् एवोपशृण्वन्तीत्य् अर्थः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

मन्दारकुन्दकुरबोत्पलचम्पकार्ण-
पुन्नागनागबकुलाम्बुजपारिजाताः।
गन्धेऽर्चिते तुलसिकाभरणेन तस्या
यस्मिंस्तपः सुमनसो बहु मानयन्ति॥

मूलम्

मन्दारकुन्दकुरवोत्पलचम्पकार्णपुन्नागनागबकुलाम्बुजपारिजाताः।
गन्धे10ऽर्चिते तुलसिकाभरणेन तस्या यस्मिंस्तपः सुमनसो बहु मानयन्ति॥ १९ ॥

अनुवाद (हिन्दी)

श्रीहरि तुलसीसे अपने श्रीविग्रहको सजाते हैं और तुलसीकी गन्धका ही अधिक आदर करते हैं—यह देखकर वहाँके मन्दार, कुन्द, कुरबक (तिलकवृक्ष), उत्पल (रात्रिमें खिलनेवाले कमल), चम्पक, अर्ण, पुन्नाग, नागकेसर, बकुल (मौलसिरी), अम्बुज (दिनमें खिलनेवाले कमल) और पारिजात आदि पुष्प सुगन्धयुक्त होनेपर भी तुलसीका ही तप अधिक मानते हैं॥ १९॥

वीरराघवः

वन-स्थानां स्थावराणाम् अपि भगवत्-परताम् आह । मन्दार-पारिजातौ सुर-तरु-विशेषौ कुन्दो ऽतिमुक्त-लताः कुरवकस् तिलक-वृक्ष-विशेषः उत्पलं रात्रि-विकासि अम्बुजं दिवा-विकासि नागो नाग-केसरः अर्णः पुष्प-वृक्ष-विशेषः मन्दारादयः सुमनसः सु-गन्धा अपि तुलसिका-भरणेन भगवता तस्याः तुलस्या गन्धे ऽर्चिते सम्मानिते सति यस्मिन् वने तस्या तुलस्याः तपः बहुमानयन्ति तद्-वन-स्थाः पारिजातादयो मादृशेषु सत्स्व् अपि तुलस्यालंकृतो भगवान् तुलसीम् एव बहुमनुते । अहो तुलस्या आभरणेन भगवद्-आभरणं दृष्ट्वा तस्याः तुलस्यास् तपो महत् पुरा-कृतम् इति बहु मानयन्तीत्य् अर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

यत्संकुलं हरिपदानतिमात्रदृष्टै-
र्वैदूर्यमारकतहेममयैर्विमानैः।
येषां बृहत्कटितटाः स्मितशोभिमुख्यः
कृष्णात्मनां न रज आदधुरुत्स्मयाद्यैः॥

मूलम्

यत्संकुलं हरिपदानतिमात्रदृष्टैर्वैदूर्यमारकतहेममयैर्विमानैः।
येषां बृहत्कटितटाः स्मितशोभिमुख्यः कृष्णात्मनां न रज आदधुरुत्स्मयाद्यैः॥ २० ॥

अनुवाद (हिन्दी)

वह लोक वैदूर्य, मरकत-मणि (पन्ने) और सुवर्णके विमानोंसे भरा हुआ है। ये सब किसी कर्मफलसे नहीं, बल्कि एकमात्र श्रीहरिके पादपद्मोंकी वन्दना करनेसे ही प्राप्त होते हैं। उन विमानोंपर चढ़े हुए कृष्णप्राण भगवद‍्भक्तोंके चित्तोंमें बड़े-बड़े नितम्बोंवाली सुमुखी सुन्दरियाँ भी अपनी मन्द मुसकान एवं मनोहर हास-परिहाससे कामविकार नहीं उत्पन्न कर सकतीं॥ २०॥

वीरराघवः

एवं निःश्रेयस-वनम् उपवर्ण्य पुनस् तम् एव लोकं वर्णयति । यद् इति । यद् वैकुण्ठ-निलयं भक्तानां विमानैः संकुलं व्याप्तं कथं-भूतैर् विमानैर् हरेर् भगवतः पादयोर् या आनतिः प्रह्वी-भावः अनेन तत्-पूर्वका भक्तिर् लक्ष्यते आनति-मात्र-दृष्टैर् न कर्म-योगादिभिः प्रीतैर् इत्य् अर्थः । वैडूर्यादीनां विकारैर् येषां यद्-विमानारूढानां कृष्णात्मनां बृहन्ति कटि-तटानि यासां स्मितेन शोभीनि मुखानि यासां ता अपि स्त्रियः उत्स्मयाद्यैः परिहसन्त्यः अपि स्त्रियः उत्स्मयाद्यैः परिहासादिभिः रजः रजोगुण-समुद्भवं कामं नादधुर् न जनायामासुः कृष्णात्मनाम् इति हेतु-गर्भ-विशेषणं कृष्णे भगवत्य् एव निहित-चित्तत्वान् न कामम् आदधुर् इत्य् अर्थः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

श्री रूपिणी क्वणयती चरणारविन्दं
लीलाम्बुजेन हरिसद्मनि मुक्तदोषा।
संलक्ष्यते स्फटिककुड्य उपेतहेम्नि
सम्मार्जतीव यदनुग्रहणेऽन्ययत्नः॥

मूलम्

श्री रूपिणी क्वणयती चरणारविन्दं लीलाम्बुजेन हरिसद्मनि मुक्तदोषा।
संलक्ष्यते स्फटिककुड्य उपेतहेम्नि सम्मार्जतीव यदनुग्रहणेऽन्ययत्नः॥ २१ ॥

अनुवाद (हिन्दी)

परम सौन्दर्यशालिनी लक्ष्मीजी, जिनकी कृपा प्राप्त करनेके लिये देवगण भी यत्नशील रहते हैं, श्रीहरिके भवनमें चंचलतारूप दोषको त्यागकर रहती हैं। जिस समय अपने चरणकमलोंके नूपुरोंकी झनकार करती हुई वे अपना लीलाकमल घुमाती हैं, उस समय उस कनकभवनकी स्फटिकमय दीवारोंमें उनका प्रतिबिम्ब पड़नेसे ऐसा जान पड़ता है मानो वे उन्हें बुहार रही हों॥ २१॥

वीरराघवः

श्रीर्-लक्ष्मी रूपिणी मूर्तिमती हरि-सद्मनि यद्-वैकुण्ठ-लोक-स्थे भगवद्-वेश्मनि लीलाम्बुजेन लीलार्थं धृतेन कमलेन सम्मार्जती सम्मार्जनं कुर्वती संलक्ष्यते इव । कथं-भूता श्रीः चरणारविन्दं कणयती नूपुरेण शब्दयन्ती मुक्त-दोषा मुक्तो दोषो ऽनित्यत्व-रूपो यया सा । यद्वा मुक्त-दोषेति लीलाम्बुज-विशेषणं मुक्तः प्रसारितो दोः भुजो यस्य तेनेति । कथं-भूते वेश्मनि स्फटिक-मयानि कुड्यानि यस्मिन् उपेत-हेम्नि शोभार्थं मध्ये तत्र तत्रोपेतं संयुक्तं हेम सुवर्णं यस्मिन् तस्मिन् इति । पुनः श्रियं विशिनष्टि । यद्-अनुग्रहणे यस्याः श्रियः अनुग्रहे निमित्ते श्रीर् अस्मास्व् अनुग्रहं कुर्याद् इति त्व् अन्येषां ब्रह्मादीनां यत्नः आराधन-रूपो यत्नः स्याद् इत्य् अर्थः । यद्यपि भगवद्-वेश्मनि सम्मार्जतीति रजो नास्त्य् एव तथापि स्वर्ण-पट्टिकायां लाञ्छित-स्फटिक-मय-भित्ति-भागेषु हेम-चूर्णैर् इव लीलया राग-पुञ्जैर् विचित्री-करणार्थं सम्मार्जती निरतिशय-निर्मलासु स्फटिक-मय-भित्तिषु प्रतिफलिता सती तत्रैवं लक्ष्यते इवाभूद् इति भावः अलम् अति-विस्तरेण ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

वापीषु विद्रुमतटास्वमलामृताप्सु
प्रेष्यान्विता निजवने तुलसीभिरीशम्।
अभ्यर्चती स्वलकमुन्नसमीक्ष्य वक्त्र-
मुच्छेषितं भगवतेत्यमताङ्ग यच्छ्रीः॥

मूलम्

वापीषु विद्रुमतटास्वमलामृताप्सु प्रेष्यान्विता निजवने तुलसीभिरीशम्।
अभ्यर्चती स्वलकमुन्नसमीक्ष्य वक्त्रमुच्छेषितं भगवतेत्यमताङ्ग यच्छ्रीः॥ २२ ॥

अनुवाद (हिन्दी)

प्यारे देवताओ! जिस समय दासियोंको साथ लिये वे अपने क्रीडावनमें तुलसीदलद्वारा भगवान‍्का पूजन करती हैं, तब वहाँके निर्मल जलसे भरे हुए सरोवरोंमें, जिनमें मूँगेके घाट बने हुए हैं, अपना सुन्दर अलकावली और उन्नत नासिकासे सुशोभित मुखारविन्द देखकर ‘यह भगवान‍्का चुम्बन किया हुआ है’ यों जानकर उसे बड़ा सौभाग्यशाली समझती हैं॥ २२॥

वीरराघवः

वापीष्व् इति । अङ्ग! हे देवाः! यद् यत्र लोके श्रीः भगवतोच्छ्रेषितं चुम्बितम् इत्य् अमन्यतामन्यत । किं कुर्वती किं कृत्वा विद्रुम-मयानि तटानि यासां तासु अमल-निर्मला अमृत-तुल्या आपो यासु वापीषु निज-वने स्वकीय-क्रीडा-वने प्रेष्याभिः स्वकीय-परिचारिकाभिः स्त्रीभिर् अन्विता तुलसीभिर् ईशं भगवन्तम् अर्भ्यचन्ती पूजयन्ती तदोदके प्रतिबिम्बितं स्वलकं शोभना अलकाश् चूर्ण-कुन्तला यस्य उद्गता नासिका यस्य तत् स्वं वक्त्रं वीक्ष्य दृष्ट्वा निरतिशय-विमलासु वापीनाम् अप्सु तुलसीभिर् ईशम् अर्चयन्ती लक्ष्मीर् उदक-समीपे स्व-मुखं निधाय तत्र प्रतिबिम्बितं स्व-मुखं भगवन्-मुखम् अनुसन्धायाहो! भगवान् मन्-मुखं चुम्बतीति मेने इत्य् अर्थः । अनेन लक्ष्म्या मौर्ग्ध्यं लक्ष्यते ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

श्लोक-२३
यन्न व्रजन्त्यघभिदो रचनानुवादा-
च्छृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः।
यास्तु श्रुता हतभगैर्नृभिरात्तसारा-
स्तांस्तान् क्षिपन्त्यशरणेषु तमःसु हन्त॥

मूलम्

यन्न व्रजन्त्यघभिदो रचनानुवादाच्छृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः।
यास्तु श्रुता हतभगैर्नृभिरात्तसा11रास्तांस्तान् क्षिपन्त्यशरणेषु तमः सुहन्त॥ २३ ॥

अनुवाद (हिन्दी)

जो लोग भगवान‍्की पापापहारिणी लीलाकथाओंको छोड़कर बुद्धिको नष्ट करनेवाली अर्थ-कामसम्बन्धिनी अन्य निन्दित कथाएँ सुनते हैं, वे उस वैकुण्ठलोकमें नहीं जा सकते। हाय! जब वे अभागे लोग इन सारहीन बातोंको सुनते हैं, तब ये उनके पुण्योंको नष्टकर उन्हें आश्रयहीन घोर नरकोंमें डाल देती हैं॥ २३॥

वीरराघवः

पुनः कथं-भूतं तद्-वैकुण्ठ-स्थानम् इत्य् अत्राह । यद्-वैकुण्ठ-निलयं ते न व्रजन्ति नाप्नुवन्ति के त इत्य् अत्राह । अघं पापं भिनत्ति निरस्यतीत्य् अघ-भित् हरिस् तस्माद् अन्य-विषयाः अर्थ-कामादि-विषयाः अत एव रचनानुवादाद् रच्यन्ते सम्पाद्यते ऽनयेति रचनानुवादस् तस्माद् अनुवादाद् अनुवर्तनात् स्व-संपादनोपाय-बोधक-दण्ड-नीति-काम-तन्त्रद्य्-अनुवर्तनात् मति-घ्नीः बुद्धि-भ्रंश-कराः कु-कथा ये शृण्वन्ति ते इत्य् अर्थः । पुनः कु-कथा एव विशिनष्टि यास् तु कु-कथाः हत-भगैर् विभाग्यैर् नृभिर् नरैः श्रुताः । अत एव आत्त-साराः आत्तः स्वीकृतः सारः श्रोतॄणां पुण्यं याभिर् एवं-भूताः सत्यस् तान् श्रोतॄन् अशरणेषु निरालम्बेषु तमस्सु नरकेषु क्षिपन्ति पातयन्ति ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

येऽभ्यर्थितामपि च नो नृगतिं प्रपन्ना
ज्ञानं च तत्त्वविषयं सहधर्म यत्र।
नाराधनं भगवतो वितरन्त्यमुष्य
सम्मोहिता विततया बत मायया ते॥

मूलम्

येऽभ्य12र्थितामपि च नो नृगतिं प्रपन्ना ज्ञानं च तत्त्वविषयं सहधर्म यत्र।
नाराधनं भगवतो वितरन्त्यमुष्य सम्मोहिता विततया 13बत मायया ते॥ २४ ॥

अनुवाद (हिन्दी)

अहा! इस मनुष्ययोनिकी बड़ी महिमा है, हम देवतालोग भी इसकी चाह करते हैं। इसीमें तत्त्वज्ञान और धर्मकी भी प्राप्ति हो सकती है। इसे पाकर भी जो लोग भगवान‍्की आराधना नहीं करते, वे वास्तवमें उनकी सर्वत्र फैली हुई मायासे ही मोहित हैं॥ २४॥

वीरराघवः

प्रसङ्गाद् एवार्थपरान् श्रोतॄन् शोचति । य इति । ये हत-भाग्या अभ्यर्थितां प्रार्थनीयां नृ-गतिं मनुष्य-जन्म प्रपन्ना अपि यत्र मनुष्य-जन्मनि सह-धर्म-निवृत्ति-धर्म-सहितं ज्ञानेन तत्त्व-ज्ञानेनोपपन्नाः प्राप्ताः अत एव भगवत आराधनं संसिद्धि-साधनं भजनं न विन्दन्ति न कुर्वन्ति किं त्व् अमुष्य भगवतः विततया मायया ते हत-भाग्याः सम्मोहिता भवन्ति बतेति खेदे । यद्वा तत्त्व-ज्ञानं सह-धर्मं यत्र यस्मिन् मनुष्य-जन्मनि यन् मनुष्य-साध्यं तादृशीं नृ-गतिं प्रपन्नाः भगवत आराधनं न कुर्वन्ति किं त्व् अस्य मायया संमोहिता एव इत्य् अर्थः । अस्मिन् पक्षे ऽभ्यर्थिताम् अपि नो इत्य् अत्र नो अस्माभिर् अभ्यर्थनीयां प्रार्थनीयां नृ-गतिम् इत्य् अर्थः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या
दूरेयमा ह्युपरि नः स्पृहणीयशीलाः।
भर्तुर्मिथः सुयशसः कथनानुराग-
वैक्लव्यबाष्पकलया पुलकीकृताङ्गाः॥

मूलम्

यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या दूरेयमा ह्युपरि नः स्पृहणीयशीलाः।
भर्तुर्मिथः सुयशसः कथनानुरागवैक्लव्यबाष्पकलया पुलकीकृताङ्गाः॥ २५ ॥

अनुवाद (हिन्दी)

देवाधिदेव श्रीहरिका निरन्तर चिन्तन करते रहनेके कारण जिनसे यमराज दूर रहते हैं, आपसमें प्रभुके सुयशकी चर्चा चलनेपर अनुरागजन्य विह्वलतावश जिनके नेत्रोंसे अविरल अश्रुधारा बहने लगती है तथा शरीरमें रोमांच हो जाता है और जिनके-से शील स्वभावकी हमलोग भी इच्छा करते हैं—वे परमभागवत ही हमारे लोकोंसे ऊपर उस वैकुण्ठधाममें जाते हैं॥ २५॥

वीरराघवः

एवं भगवत्-कथादिषु विमुखानां तल्-लोकाप्राप्तिम् अभिधाय तान् चानुशोच्य तत्-कथा-श्रवण-प्रवण-चित्तैस् तल्-लोकस्य प्राप्यत्वम् आह । यच् चेति । यद्-वैकुण्ठ-निलयम् अनिमिषां देवानाम् ऋषभः श्रेष्ठो भगवान् तस्यानुवृत्त्या भक्त्या व्रजन्ति कथं-भूता व्रजन्ति दूरे यमाद्य्-उपचित-सत्-स्पृहणीय-शीलाः दूरे चिर-कालेन यमाद्य्-उचित-श्लाघ्य-शीलाः दूरे यमाद्य् उपरि नः स्पृहणीय-शीला इत्य् अपि पाठः । तत्र उपरि-स्थितं यद् वैकुण्ठ-निलयं व्रजन्ति कथं-भूताः नः अस्माभिर् अपि स्पृहणीयं श्लाघनीयं शीलं येषां ते दूरे चिर-कालेन यमोपलाक्षितः शम-दमादि-गुणो येषां ते । किञ्च भर्तुर् हरेः सु-यशसः मिथः परस्परं कथनेन यो ऽनुरागस् तेन यद् वक्तव्यम् अधार्ष्ट्यं तेन या बाष्प-कला तया पुलकी-कृतं उदञ्चित-रोम अङ्गं शरीरं येषां ते व्रजन्तीत्य् अर्थः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

तद्विश्वगुर्वधिकृतं भुवनैकवन्द्यं
दिव्यं विचित्रविबुधाग्र्यविमानशोचिः।
आपुः परां मुदमपूर्वमुपेत्य योग-
मायाबलेन मुनयस्तदथो विकुण्ठम्॥

मूलम्

तद्विश्वगुर्वधिकृतं भुवनैकवन्द्यं दिव्यं विचित्रविबुधाग्र्यविमानशोचिः।
आपुः परां मुदमपूर्वमुपेत्य योगमायाबलेन मुनयस्तदथो विकुण्ठम्॥ २६ ॥

अनुवाद (हिन्दी)

जिस समय सनकादि मुनि विश्वगुरु श्रीहरिके निवास-स्थान, सम्पूर्ण लोकोंके वन्दनीय और श्रेष्ठ देवताओंके विचित्र विमानोंसे विभूषित उस परम दिव्य और अद‍्भुत वैकुण्ठधाममें अपने योगबलसे पहुँचे, तब उन्हें बड़ा ही आनन्द हुआ॥ २६॥

वीरराघवः

एवं वैकुण्ठ-निलयम् अनुवर्ण्याथानन्तर-कथां प्रस्तौति । तद् इति । मुनयः सनकादयः तद्-उक्त-विधं वैकुण्ठ-निलयं योग-माया-बलेनाणिमाद्य्-ऐश्वर्य-बलेन उपेत्य प्राप्याथ कार्त्स्न्येन पराम् उत्कृष्टां मुदं सन्तोषम् आपुः प्रापुः । कथं-भूतं वैकुण्ठम् अपूर्वम् अदृष्ट-पूर्वं विबुधाग्र्या देव-श्रेष्ठास् तेषां विमानैः शोचिः प्रकाशो यस्मिन् । विचित्रम् अद्भुतं, दिव्यम् अमानुषं, भुवनैः एकं प्राधान्येन वन्द्यं बहु-मन्तव्यं तत्र हेतुः विश्व-गुरुणा भगवताधिकृतम् अधिष्ठितम् ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

तस्मिन्नतीत्य मुनयः षडसज्जमानाः
कक्षाः समानवयसावथ सप्तमायाम्।
देवावचक्षत गृहीतगदौ परार्घ्य-
केयूरकुण्डलकिरीटविटङ्कवेषौ॥

मूलम्

तस्मिन्नतीत्य मुनयः षडसज्जमानाः कक्षाः समानवयसावथ सप्तमायाम्।
देवावचक्षत गृहीतगदौ परार्घ्यकेयूरकुण्डलकिरीटविटङ्कवेषौ॥ २७ ॥

अनुवाद (हिन्दी)

भगवद्दर्शनकी लालसासे अन्य दर्शनीय सामग्रीकी उपेक्षा करते हुए वैकुण्ठधामकी छः ड्यौढ़ियाँ पार करके जब वे सातवींपर पहुँचे, तब वहाँ उन्हें हाथमें गदा लिये दो समान आयुवाले देवश्रेष्ठ दिखलायी दिये—जो बाजूबंद, कुण्डल और किरीट आदि अनेकों अमूल्य आभूषणोंसे अलंकृत थे॥ २७॥

वीरराघवः

तस्मिन् वैकुण्ठे षट् कक्षाः प्राकार-द्वाराणि अतीत्यातिक्रम्य असज्जमानाः भगवद्-दिदृक्षा-श्रद्धया तत्राद्भुत-दर्शने आसक्तिम् अकुर्वाणा मुनयः सनकादयः अथानन्तरं सप्तमायां कक्षायां देवाव् अचक्षत दृष्टवन्तः । कथं-भूतौ देवौ समानं वयो ययोस् तौ गृहीते गदे याभ्यां तौ । परार्ध्यैः श्रेष्ठैः केयूरादिभिः विटङ्को रुचिरः वेषो ययोस् तौ । देवौ इति ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

मत्तद्विरेफवनमालिकया निवीतौ
विन्यस्तयासितचतुष्टयबाहुमध्ये।
वक्त्रं भ्रुवा कुटिलया स्फुटनिर्गमाभ्यां
रक्तेक्षणेन च मनाग्रभसं दधानौ॥

मूलम्

मत्तद्विरेफवनमालिकया निवीतौ विन्यस्तयासितचतुष्टयबाहुमध्ये।
वक्त्रं भ्रुवा कुटिलया स्फुटनिर्गमाभ्यां रक्तेक्षणेन च मनाग्रभसं दधानौ॥ २८ ॥

अनुवाद (हिन्दी)

उनकी चार श्यामल भुजाओंके बीचमें मतवाले मधुकरोंसे गुंजायमान वनमाला सुशोभित थी तथा बाँकी भौंहें, फड़कते हुए नासिकारन्ध्र और अरुण नयनोंके कारण उनके चेहरेपर कुछ क्षोभके-से चिह्न दिखायी दे रहे थे॥ २८॥

वीरराघवः

पुनस् ताव् एव वर्णयति । असितं नीलं यद् बाहु-चतुष्टयं तस्य मध्ये विन्यस्तया मत्ता द्वि-रेफाः भ्रमरा यस्यां तया वन-माला कण्ठावलम्बिनीं कृतवन्तौ इत्य् अर्थः । किञ्च कुटिलया भ्रुवा स्फुटौ विकसितौ यौ निर्गमौ श्वास-मार्गौ नासा-पुटे ताभ्यां च रक्तेक्षणौ रक्त-नेत्रेण च मनाग् ईषद्-रभसम् उग्रं यथा भवति तथा वक्त्रं दधानौ देवौ ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

द्वार्येतयोर्निविविशुर्मिषतोरपृष्ट्वा
पूर्वा यथा पुरटवज्रकपाटिका याः।
सर्वत्र तेऽविषमया मुनयः स्वदृष्ट्या
ये सञ्चरन्त्यविहता विगताभिशङ्काः॥

मूलम्

द्वार्येतयोर्निविविशुर्मिषतोरपृष्ट्वा पूर्वा यथा पुरटवज्रकपाटिका याः।
14र्वत्र तेऽविषमया मुनयः स्वदृष्ट्या ये सञ्चरन्त्यविहता विगताभिशङ्काः॥ २९ ॥

अनुवाद (हिन्दी)

उनके इस प्रकार देखते रहनेपर भी वे मुनिगण उनसे बिना कुछ पूछताछ किये, जैसे सुवर्ण और वज्रमय किवाड़ोंसे युक्त पहली छः ड्यौढ़ी लाँघकर आये थे, उसी प्रकार उनके द्वारमें भी घुस गये। उनकी दृष्टि तो सर्वत्र समान थी और वे निःशंक होकर सर्वत्र बिना किसी रोक-टोकके विचरते थे॥ २९॥

वीरराघवः

द्वारीति । एतयोर् देवयोर् मिषतोः पश्यतोः सतोः ताव् अनादृत्यापृष्ट्वैव याः पूर्वा द्वारः कनक-वज्रमय-कपाटिकाः यथा निविविशुः तथास्यां सप्तमायां द्वारि निविविशुर् इत्य् अर्थः । अपृष्ट्वैव निवेशे कारणम् आह । यद् यस्मात् ते मुनयः अविषमया समया “विद्या-विनय-सम्पन्ने ब्राह्मणे गवि हस्तिनि” इत्य् उक्त-विधया स्व-दृष्ट्या विगताभिशङ्का अत एव सर्वत्राविहता अनिवारिताश् चरन्ति ये सञ्चरन्ति इति पाठे ये मुनयः सर्वत्राविहताश् चरन्ति ते निविविशुर् इत्य् एकान्वयः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

तान् वीक्ष्य वातरशनांश्चतुरः कुमारान्
वृद्धान्दशार्धवयसो विदितात्मतत्त्वान्।
वेत्रेण चास्खलयतामतदर्हणांस्तौ
तेजो विहस्य भगवत्प्रतिकूलशीलौ॥

मूलम्

तान् वीक्ष्य वातरशनांश्चतुरः कुमारान् वृद्धान्दशार्धवयसो विदितात्मतत्त्वान्।
वेत्रेण चास्खलयतामतदर्हणांस्तौ तेजो15 विहस्य भगवत्प्रतिकूलशीलौ॥ ३० ॥

अनुवाद (हिन्दी)

वे चारों कुमार पूर्ण तत्त्वज्ञ थे तथा ब्रह्माकी सृष्टिमें आयुमें सबसे बड़े होनेपर भी देखनेमें पाँच वर्षके बालकों-से जान पड़ते थे और दिगम्बरवृत्तिसे (नंग-धड़ंग) रहते थे। उन्हें इस प्रकार निःसंकोचरूपसे भीतर जाते देख उन द्वारपालोंने भगवान‍्के शील-स्वभावके विपरीत सनकादिके तेजकी हँसी उड़ाते हुए उन्हें बेंत अड़ाकर रोक दिया, यद्यपि वे ऐसे दुर्व्यवहारके योग्य नहीं थे॥ ३०॥

वीरराघवः

तान् इति । भगवत्-प्रतिकूल-शीलौ तौ देवौ वात-रशनान् नग्नान् वृद्धान् अपि दशार्द्ध वयसः पञ्च-वर्ष-बालकवद् अवस्थितान् विदितम् आत्म-तत्त्वं परमात्म-याथात्म्यं यैस् तान् मुनीन् वीक्ष्य तेजः तेषां प्रभावं विहस्याहो अत्रापि भवतां धार्ष्ट्यम् इत्य् एवं परिहस्य इत्य् अर्थः अ-तद्-अर्हान् वेत्रेण चकाराद् वाचा च अस्खलयतां निवारितवन्तौ भगवत्-प्रतिकूल-शीलाव् इति हेतु-गर्भं भगवत्-प्रतिकूल-शीलत्वान् निवारितवन्ताव् इति भावः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

ताभ्यां मिषत्स्वनिमिषेषु निषिध्यमानाः
स्वर्हत्तमा ह्यपि हरेः प्रतिहारपाभ्याम्।
ऊचुः सुहृत्तमदिदृक्षितभङ्ग ईष-
त्कामानुजेन सहसा त उपप्लुताक्षाः॥

मूलम्

ताभ्यां मिषत्स्वनिमिषेषु निषिध्यमानाः स्वर्हत्तमा ह्यपि हरेः प्रतिहारपाभ्याम्।
ऊचुः सुहृत्तमदिदृक्षितभङ्ग ईषत्कामानुजेन सहसा त उपप्लुताक्षाः॥ ३१ ॥

अनुवाद (हिन्दी)

जब उन द्वारपालोंने वैकुण्ठवासी देवताओंके सामने पूजाके सर्वश्रेष्ठ पात्र उन कुमारोंको इस प्रकार रोका, तब अपने प्रियतम प्रभुके दर्शनोंमें विघ्न पड़नेके कारण उनके नेत्र सहसा कुछ-कुछ क्रोधसे लाल हो उठे और वे इस प्रकार कहने लगे॥ ३१॥

वीरराघवः

ताभ्याम् इति । हरेर् भगवतः प्रतिहार-पाभ्यां ताभ्यां देवाभ्याम् अनिमिषेष्व् अन्येषु देवेषु मिषत्सु पश्यत्सु सत्सु अर्हत्-तमाः स्वयं पूज्या अपि निषिध्यमाना निवारणेन परिभूता अत एव सुहृत्-तमो भगवांस् तस्य दिदृक्षितं दर्शनेच्छा तस्य भङ्गेनेषत्-कामानुजो ऽल्प-क्रोधः तेन सहसाशूपप्लुतान्याकुलानि व्याप्तान्य् अक्षीणि येषां तथा-भूताः सन्त ऊचुः ॥ ३१ ॥

श्लोक-३२

मूलम् (वचनम्)

मुनय16 ऊचुः

विश्वास-प्रस्तुतिः

को वामिहैत्य भगवत्परिचर्ययोच्चै-
स्तद्धर्मिणां निवसतां विषमः स्वभावः।
तस्मिन् प्रशान्तपुरुषे गतविग्रहे वां
को वाऽऽत्मवत्कुहकयोः परिशङ्कनीयः॥

मूलम्

को वामिहैत्य भगवत्परिचर्ययोच्चैस्त17द्धर्मिणां निवसतां विषमः स्वभावः।
तस्मिन् प्रशान्तपुरुषे गतविग्रहे वां को वाऽऽत्मवत्कुहकयोः परिशङ्कनीयः॥ ३२ ॥

अनुवाद (हिन्दी)

मुनियोंने कहा—अरे द्वारपालो! जो लोग भगवान‍्की महती सेवाके प्रभावसे इस लोकको प्राप्त होकर यहाँ निवास करते हैं, वे तो भगवान‍्के समान ही समदर्शी होते हैं। तुम दोनों भी उन्हींमेंसे हो, किन्तु तुम्हारे स्वभावमें यह विषमता क्यों है? भगवान् तो परम शान्तस्वभाव हैं, उनका किसीसे विरोध भी नहीं है; फिर यहाँ ऐसा कौन है, जिसपर शंका की जा सके? तुम स्वयं कपटी हो, इसीसे अपने ही समान दूसरोंपर शंका करते हो॥ ३२॥

वीरराघवः

उक्तिम् एवाह त्रिभिः । क इति । उच्चैर् महत्या भगवत्-परिचर्यया इहास्मिन् वैकुण्ठ-लोके एत्य प्राप्येमं लोकं प्राप्येत्य् अर्थः निवसतां तत्-कर्मणां तत्-समान-धर्मिणां मध्ये को वां विषमः स्वभावः इह वसतां विषम-स्वभावो ऽनुपपन्न इत्य् अर्थः । ननु द्वार-पालयोर् आवयोर् अयं धर्म एव नूतन-पुरातन-प्रतिनिरोधाव् अन्यथा स्वामि-कृत-दण्ड-पातापत्तेर् इत्य् आशङ्कायाम् आहुः । अस्मिन्न् इति । प्रशान्ताः पुरुषा यस्मिन् गतो विग्रहः कलहो यस्मात् तस्मिन् लोके वाक्-पारुष्य-विवाद-दोष-रहिते ऽस्मिन् लोके आत्मवद् आवाम् इवान्यो ऽपि कश्चित् कुटिलः प्रविशेद् इत्य् एवं परिशङ्कनीयः कुहकयोः कुटिल-चित्तयोर् वां युवयोः को वास्ति यदि परिशङ्कनीयः त्वादृशः कश्चित् कुटिलो ऽत्रास्ति चेद् वयं शङ्कनीया वारणीयाश् च अन्यथा प्रभोर् दण्ड-पातापत्तिश् च यतश् च खलु प्राकृत-वाक्-पारुष्य-विवादादि-दोष-रहितो ऽयन् देशः अत इयम् आशङ्कानुपपन्नेत्य् अर्थः ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

न ह्यन्तरं भगवतीह समस्तकुक्षा-
वात्मानमात्मनि नभो नभसीव धीराः।
पश्यन्ति यत्र युवयोः सुरलिङ्गिनोः किं
व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य॥

मूलम्

न ह्यन्तरं भगवतीह समस्तकुक्षावात्मानमात्मनि नभो नभसीव धीराः।
पश्यन्ति यत्र युवयोः सुरलिङ्गिनोः किं व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य॥ ३३ ॥

अनुवाद (हिन्दी)

भगवान‍्के उदरमें यह सारा ब्रह्माण्ड स्थित है; इसलिये यहाँ रहनेवाले ज्ञानीजन सर्वात्मा श्रीहरिसे अपना कोई भेद नहीं देखते, बल्कि महाकाशमें घटाकाशकी भाँति उनमें अपना अन्तर्भाव देखते हैं। तुम तो देवरूपधारी हो; फिर भी तुम्हें ऐसा क्या दिखायी देता है, जिससे तुमने भगवान‍्के साथ कुछ भेदभावके कारण होनेवाले भयकी कल्पना कर ली॥ ३३॥

वीरराघवः

नन्व् अस्त्व् अयं लोक एवं विधिः न अप्य् अत्रत्यः कश्चित् कुहकः तथापि भगवताम् अन्तः प्रवेशो भगवतो ऽनिष्ट इति मत्वा वारयाम इत्य् अत्राहुः । नहीति । समस्तं विश्वं कुक्षौ यस्य तस्मिन् भगवत्य् अन्तरम् अयम् अन्तःप्रवेशयोग्यो नायम् इत्य् एतद् अन्तरं वैषम्यं नह्य् अस्तीत्य् अर्थः । समस्त-कुक्षाव् इति विशेषणेन भगवता स्वोदरे निवेश्यमानं जगद् भवद्भ्यां किं निवारितम् इत्य् अभिप्रेतम् भगवत्य् अन्तराभावम् एवाह । यत्र यस्मिन् आत्मनि परमात्मनि आत्मानं जीवात्मानं नभसि महाकाशे नभः घटाद्य्-आकाशम् इव धीराः योगिनः पश्यन्ति अपृथक्सिद्धत्वेनानुसन्दधते इत्य् अर्थः । अत्राविभागेन साम्ये एव नभो दृष्टान्तः न तु तादात्म्यं दृष्टान्ते ऽप्य् आकाश-प्रदेशानां पार्थिवानां घट-पटादीनाम् अभिन्नत्वेन तादात्म्यासम्भवाद् आकाशस्य प्रदेश-भेदानभ्युपगमे घटादेर् विभुत्वम् आकाशस्याल्पत्वं वा प्रसज्जेत । तथा हि, किं घटादेः कृत्स्नाकाशेन सम्बन्धः उत प्रदेश-भेदेन, पूर्वस्मिन् पक्षे घटादेर् विभुत्वम् आकाशस्याल्पपरिमाणत्वं वा, द्वितीये तु प्रदेश-भेदाङ्गीकार एव वेदान्तिभिर् नभसो निरवयव-वादो ऽपसिद्धान्तितः । वेदान्तेषु तस्यांश-भेदेन पञ्जीकरणोपदेशाद् एकदेशांशेन वायुत्वेन परिणाम-वादाद् उत्पत्ति-प्रलय-दर्शनाच् च अत एव, “घटध्वंसे घटाकाशो न भिन्नो नभसा यथा । ब्रह्मणा हेयविध्वंसे विष्ण्व्-आख्येण तथा पुमान्” इति शौनक-वचनम् अपि नभस्यंश-भेदाभिप्रायेण जीवस्य परस्माद् आत्मन औपाधिक-वैषम्य-विरहे दृष्टान्त-समर्थन-परं वेदितव्यं, यथाग्निर् अग्नौ सङ्क्षिप्तः समानत्वम् अनुव्रजेद् इति तत्रैव साम्य-दृष्टान्ताभिधानात् तस्माज् जीवात्मनः परमात्मानं प्रति शरीरत्वाच् छरीरस्यापृथक्सिद्धतैक-स्वाभाव्याज् जीवपरयोर् अवान्तर-वैषम्ये ऽपि ज्ञानैकाकारत्वेन साम्याच् चाविभाग एव नभो-दृष्टान्तः । अत एव ह्य् अविभागेनोपासनं मुक्ताव् अनुभवश् च सूचितम् “आत्मेति तूपगच्छन्ति ग्राहयन्ति चाविभागेन दृष्टत्वात्” इति चातो यथोक्त एवार्थः । अतो भगवतः सर्वात्मकत्वात् न वैषम्यम् अस्तीत्य् अर्थः । सुर-लिङ्गिनोर् अनुकूल-वेशयोर् युवयोः सुर-लिङ्गिभ्यां युवाभ्याम् इत्य् अर्थः । किं व्युत्पादितं राग-द्वेष-रहिते ऽस्मिन् देशे किं भवद्भ्याम् अन्य-निवारण-व्युत्पत्तिः कृता न ह्य् अत्रेदृश-व्युत्पत्ति-सम्भवः, अस्य देशस्य उदरभेदि उत् अपि अरं भेदो ऽन्तरं वैषम्यम् इति यावत् अल्पम् अप्य् अन्तर-निमित्तम् इत्य् अर्थः एवंविधं भयं यतः कारणाद् अवगम्यते तादृशी व्युत्पत्तिः किं कृतेत्य् अर्थः । यद् वा यथान्यस्य रोगादेर् उदर-युक्तं भयं भवति तथास्य हरेस् तादृग् भयं येन कारणेन सुर-वेष-धारिणोर् युवयोः विशेषेणोत्पादितं तत् किन् न किञ्चिद् इत्य् अर्थः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

तद्वाममुष्य परमस्य विकुण्ठभर्तुः
कर्तुं प्रकृष्टमिह धीमहि मन्दधीभ्याम्।
लोकानितो व्रजतमन्तरभावदृष्ट्या
पापीयसस्त्रय इमे रिपवोऽस्य यत्र॥

मूलम्

तद्वाममुष्य परमस्य विकुण्ठभर्तुः कर्तुं प्रकृष्टमिह धीमहि मन्दधीभ्याम्।
लोकानितो व्रजतमन्तरभावदृष्ट्या पापीयसस्त्रय इमे रिपवोऽस्य यत्र॥ ३४ ॥

अनुवाद (हिन्दी)

तुम हो तो इन भगवान् वैकुण्ठनाथके पार्षद, किन्तु तुम्हारी बुद्धि बहुत मन्द है। अतएव तुम्हारा कल्याण करनेके लिये हम तुम्हारे अपराधके योग्य दण्डका विचार करते हैं। तुम अपनी मन्द भेदबुद्धिके दोषसे इस वैकुण्ठलोकसे निकलकर उन पापमय योनियोंमें जाओ, जहाँ काम, क्रोध, लोभ—प्राणियोंके ये तीन शत्रु निवास करते हैं॥ ३४॥

वीरराघवः

तत् तस्माद् अमुष्य परमस्य समाभ्यधिक-रहितस्य विकुण्ठ-भर्तुर् वैकुण्ठ-नाथस्य मन्द-बुद्धिभ्यां वां युवाभ्यां वैकुण्ठ-नाथ-सम्बन्धिभ्यां कर्तुं यत् प्रष्टुं युक्तं तद् धीमहि विचारयामः । किन् तद् इति चेत् इतः लोकाल् लोकान् व्रजतं गच्छतं कान् लोकान् इत्य् अत्राहुः अन्तर-भाव-दृष्ट्या परकीय-स्वीय-वैषम्य-सद्भाव-बुद्ध्या पापीयसः त्रयः काम-क्रोध-लोभ-रूपाः रिपवः शत्रवः यत्र येषु लोकेषु भवन्ति तान् व्रजतम् इत्य् अर्थः । यदि भगवद्-अभिप्रायेण वयं नापराधिनः युवाम् एवापराधिनौ ततो व्रजतम् इत्य् आशयः, “अस्मासु वा य उचितो ध्रियतां स दण्डो ये ऽनागसो वयम् अयुङ्क्ष्महि किल्बिषेणे"ति वक्ष्यमाणत्वात् । ननु “स महात्मा सुदुर्लभः” इति भगवता गीतत्वात् कथं नित्य-सिद्धानां शापानुभवः । ते हि सदा समस्त-हेय-रहिताः नित्याः सङ्कुचित-ज्ञानैश्वर्यादि-गुणाश् च “नित्य-ज्ञान-क्रियैश्वर्य-योगोपकरणान्विता” इति ह्य् उच्यते । सत्यं तथाविधाः परमाकाश-वर्तिनः पुरुषाः, इमौ तु द्वारपालौ, परम-व्योम-निलय-नित्य-सिद्ध-भगवत्-परिजन-समान-रूपौ तु सुकृत-विशेषाल् लब्ध-द्वाःस्थाधिकारौ । अन्यथा भगवद्-भक्त-प्रातिकूल्यायोगाल् लक्ष्म्याः प्रवेश-निवारणायोगाच् च साक्षाद् भगवत्-परिजनानां हि नित्यं ज्ञान-क्रियैश्वर्य-वचनाद् भगवद्-अभिप्रायानभिज्ञत्वं नोपपद्यते । भगवद्-अनुचरत्व-प्राप्तिश् चानुष्ठान-विशेषाद् भवतीति स्मर्यते “भूमौ प्रस्तरशायी च विष्णोर् अनुचरो भवेत्” इत्य् आदि यथा ऽनन्त-वैनतेय-व्यतिरेकेण नाग-सुपर्ण-जातीया बहवो विद्यन्ते एवं सुकृत-वशाद् भगवत्-परिजन-तुल्य-रूपताम् आपन्ना बहवः सम्भवन्ति अत्रापि “वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठ-मूर्तयः । ये ऽनिमित्त-निमित्तेन धर्मेणाराधयन् हरिम्” इति सामान्यत उक्ताः । ‘को वाम् इहेत्य भगवत्-परिचर्ययोच्चैर्’ इत्य् अनयोर् भगवद्-आराधनेन तद्-देश-प्राप्तिर् विशेषत उक्ता’ किञ् च “नन्दः सुनन्दो ऽथ जयो विजयः प्रबलो बलः । कुमुदः कुमुदाक्षश् च विष्वक्सेनः पतत्रि-राट् । जयश् चाश्रुतदेवश् च पुष्पदन्तश् च सात्वतः । सर्वे नागायुत-प्राणा ह्य् अजेयाश् च सुरासुरैः॥” इति त्रिविक्रम-काले जय-विजय-स्थानावगमाच् च शापाभिभूतौ जय-विजयौ साक्षाज् जय-विजयाभ्याम् अन्यौ निश्चितौ कृष्णावतारे शापान् मोक्ष्यमाणयोस् तयोर् वामनावतारे तयोः पारिषदत्वापत्त्य्-अनुपपत्तेः । अस्य लोकस्य परमाकाशाद् अन्यत्वं पूर्वम् उपपादितम् । अतस् त्रिपाद्-विभूति-वर्ति-भगवत्-परिजन-व्यतिरिक्तत्वम् अनयोः सिद्धम् इति न प्रमाणान्तर-विरोधः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

तेषामितीरितमुभाववधार्य घोरं
तं ब्रह्मदण्डमनिवारणमस्त्रपूगैः।
सद्यो हरेरनुचरावुरु बिभ्यतस्तत्
पादग्रहावपततामतिकातरेण॥

मूलम्

तेषामितीरितमुभाववधाय घोरं तं ब्रह्मदण्डमनिवारणमस्त्रपूगैः।
सद्यो हरेरनुचरावुरु बिभ्यतस्तत् पादग्रहावपततामतिकातरेण॥ ३५ ॥

अनुवाद (हिन्दी)

सनकादिके ये कठोर वचन सुनकर और ब्राह्मणोंके शापको किसी भी प्रकारके शस्त्रसमूहसे निवारण होनेयोग्य न जानकर श्रीहरिके वे दोनों पार्षद अत्यन्त दीनभावसे उनके चरण पकड़कर पृथ्वीपर लोट गये। वे जानते थे कि उनके स्वामी श्रीहरि भी ब्राह्मणोंसे बहुत डरते हैं॥ ३५॥

वीरराघवः

अथैवं मुनिभिर् उक्तौ भगवद्-द्वाःस्थौ तेषां पाद-मूले पतितौ विज्ञापयामासतुर् इत्य् आह ब्रह्मा तेषाम् इत्य् आदि द्वाभ्याम् । तेषां मुनीनां तद् ईरितं भाषितं कथम्-भूतं ब्रह्म-दण्डं ब्रह्म-शाप-रूपम् अत एवात्र पूगैर् अस्त्र-समूहैर् निवारितम् अनिवारणीयम् । इत्य् उक्त-प्रकारेणावधार्य श्रुत्वा सद्यः तदैव हरेर् अनुचरौ भृत्याव् अतिकातरेण तत्-पाद-ग्रहौ तेषां मुनीनां पाद-ग्रहौ पादौ गृहीतवन्तौ उरु बिभ्यतः उरु अधिकं बिभ्यतः भीतान् अहो अस्माभिर् निरपराधाभ्यां भगवद्-भक्ताभ्याम् अपराधम् अनेन भागवतापचारेण वयम् अपि संसरेमेति भय-कम्पितान् मुनीन् प्रति अपततां दण्डवत्-प्राणाम-पूर्वकं विज्ञापयामासतुर् इत्य् अर्थः ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

भूयादघोनि भगवद‍्भिरकारि दण्डो
यो नौ हरेत सुरहेलनमप्यशेषम्।
मा वोऽनुतापकलया भगवत्स्मृतिघ्नो
मोहो भवेदिह तु नौ व्रजतोरधोऽधः॥

मूलम्

भूयादघोनि भगवद‍्भिरकारि दण्डो यो नौ हरेत सुरहेलनमप्यशेषम्।
मा वोऽनुतापकलया भगवत्स्मृतिघ्नो मोहो भवेदिह तु नौ व्रजतोरधोऽधः॥ ३६ ॥

अनुवाद (हिन्दी)

फिर उन्होंने अत्यन्त आतुर होकर कहा—‘भगवन्! हम अवश्य अपराधी हैं; अतः आपने हमें जो दण्ड दिया है, वह उचित ही है और वह हमें मिलना ही चाहिये। हमने भगवान‍्का अभिप्राय न समझकर उनकी आज्ञाका उल्लंघन किया है। इससे हमें जो पाप लगा है, वह आपके दिये हुए दण्डसे सर्वथा धुल जायगा। किन्तु हमारी इस दुर्दशाका विचार करके यदि करुणावश आपको थोड़ा-सा भी अनुताप हो, तो ऐसी कृपा कीजिये कि जिससे उन अधमाधम योनियोंमें जानेपर भी हमें भगवत्स्मृतिको नष्ट करनेवाला मोह न प्राप्त हो॥ ३६॥

वीरराघवः

विज्ञापनम् एवाह । भूयाद् इति । अघोन्य् अपराधवति य उचितो दण्डः स भगवद्भिर् युष्माभिर् अकारि कृतः नात्र कश्चिद् भवताम् अपराध इति भावः, अतो ऽसौ दण्डः नाव् आवयोर् भूयात् अशेष-सुर-हेलनं भवत्-तिरस्कार-रूपं पापं च हरेत् आपनुद्याच् च । किन्त्व् अधो ऽधः मूढ-योनिषु व्रजतोर् अपि नाव् आवयोर् भगवद्-विषय-स्मृति-नाशकः मोहः वः युष्माकम् अनुताप-कलया यः कृपा-निमित्तो ऽनुतापः तस्य कलया लेशेन मा भवेत् न न भवेद् इत्य् अनुगृह्णीतेत्य् अर्थः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

एवं तदैव भगवानरविन्दनाभः
स्वानां विबुध्य सदतिक्रममार्यहृद्यः।
तस्मिन् ययौ परमहंसमहामुनीना-
मन्वेषणीयचरणौ चलयन् सहश्रीः॥

मूलम्

एवं तदैव भगवानरविन्दनाभः स्वानां विबुध्य स18दतिक्रममार्यहृद्यः।
तस्मिन् ययौ परमहंसमहामुनीनामन्वेषणीयचरणौ चलयन् सहश्रीः॥ ३७ ॥

अनुवाद (हिन्दी)

इधर जब साधुजनोंके हृदयधन भगवान् कमलनाभको मालूम हुआ कि मेरे द्वारपालोंने सनकादि साधुओंका अनादर किया है, तब वे लक्ष्मीजीके सहित अपने उन्हीं श्रीचरणोंसे चलकर ही वहाँ पहुँचे, जिन्हें परमहंस मुनिजन भी ढूँढ़ते रहते हैं—सहजमें पाते नहीं॥ ३७॥

वीरराघवः

एवं स्वानां महद्-व्यतिक्रमम् अपराधं तदैव तत्-क्षणम् एवावबुध्य ज्ञात्वा आर्याणां भक्तानां हृद्यः, मनोज्ञः, अरविन्द-नाभो भगवान् तस्मिन् यत्र देशे सनकादयो द्वाःस्थौ च, तत्र देशे ययौ जगाम । कथम्-भूतः सन् सह-श्रीः लक्ष्मी-सहितः परमहंसा ये महा-मुनयः सनकादयस् तैर् अन्वेषणीयौ संशीलनौ चरणौ चलयन् मच्-चरण-दर्शन-प्रतिघात-हेतुकं क्रोधं तौ दर्शयित्वा शमयिष्यामीति त्वरा-व्याजेन पद्भ्याम् एव ययौ इति भावः । मिथुनस्यैव उपास्यत्व-प्राप्यत्व-द्योतनाय मातृ-सन्निधौ सुतरां तेषां कोपम् उपशमयितुं च सश्रियः आगमनम् इत्य् अभिप्रायः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

तं त्वागतं प्रतिहृतौपयिकं स्वपुम्भि-
स्तेऽचक्षताक्षविषयं स्वसमाधिभाग्यम्।
हंसश्रियोर्व्यजनयोः शिववायुलोल-
च्छुभ्रातपत्रशशिकेसरशीकराम्बुम्॥

मूलम्

तं त्वागतं प्रतिहृ19तौपयिकं स्वपुम्भिस्तेऽचक्षताक्षविषयं स्वसमाधिभाग्यम्।
हंसश्रियोर्व्यजनयोः शिववायुलोलच्छुभ्रातपत्रशशिकेसरशीकराम्बुम्॥ ३८ ॥

अनुवाद (हिन्दी)

सनकादिने देखा कि उनकी समाधिके विषय श्रीवैकुण्ठनाथ स्वयं उनके नेत्रगोचर होकर पधारे हैं, उनके साथ-साथ पार्षदगण छत्र-चामरादि लिये चल रहे हैं तथा प्रभुके दोनों ओर राजहंसके पंखोंके समान दो श्वेत चँवर डुलाये जा रहे हैं। उनकी शीतल वायुसे उनके श्वेत छत्रमें लगी हुई मोतियोंकी झालर हिलती हुई ऐसी शोभा दे रही है मानो चन्द्रमाकी किरणोंसे अमृतकी बूँदें झर रही हों॥ ३८॥

वीरराघवः

अथागच्छन्तं भगवन्तम् अनुवर्णयति पञ्चभिः तम् इति । आगतम् आगच्छन्तं भगवन्तं मुनयः अचक्षतापश्यन् । आ-पञ्चमाद् इदम् एव क्रिया-पदं कथम्-भूतं भगवन्तं स्व-पुंभिः स्व-पार्षदैः प्रतिहृतं प्रत्याहृतम् औपयिकं छत्र-चामर-व्यजन-पादुकादि यस्य तं, स्वानां भक्तानां यः समाधिस् तस्य भाग्यं फलम् अक्ष्णोर् विषयं समाधि-भाग्यम् अधुनाक्षि-विषयतां गतम् इव स्थितम् इत्य् अभिप्रायः । हंसवच्-छ्रीर् ययोस् तयोर् व्यजनयोश् चामरयोर् यः शिवः सुरभिः सुमन्दो वायुस् तेन यल् लोलच्-छुभ्रम् आतपत्रं छत्रं स एव शशी तस्य केसर-मुक्ता-दाम-विलम्बास् तेभ्यः शीकराम्बूनि तेभ्यो गलन्ति अम्बु-कणानि यस्मिन् तं हंस-सदृश-चामर-सुरभि-सुमन्द-सुख-स्पर्श-वायव्-मलौल-चन्द्र-मण्डल-सदृश-शुभ्रातपत्र-विलम्बि-मुक्ता-दाम-गलद्-अमृत-बिन्दु-सन्दोहालंकृतम् इत्य् अर्थः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

कृत्स्नप्रसादसुमुखं स्पृहणीयधाम
स्नेहावलोककलया हृदि संस्पृशन्तम्।
श्यामे पृथावुरसि शोभितया श्रिया स्व-
श्चूडामणिं सुभगयन्तमिवात्मधिष्ण्यम्॥

मूलम्

कृत्स्नप्रसादसुमुखं स्पृहणीयधाम स्नेहावलोककलया हृदि संस्पृशन्तम्।
श्यामे पृथावुरसि शोभितया श्रिया स्व20श्चूडामणिं सुभगयन्तमिवात्मधिष्ण्यम्॥ ३९ ॥

अनुवाद (हिन्दी)

प्रभु समस्त सद‍्गुणोंके आश्रय हैं, उनकी सौम्य मुखमुद्राको देखकर जान पड़ता था मानो वे सभीपर अनवरत कृपासुधाकी वर्षा कर रहे हैं। अपनी स्नेहमयी चितवनसे वे भक्तोंका हृदय स्पर्श कर रहे थे तथा उनके सुविशाल श्याम वक्षःस्थलपर स्वर्णरेखाके रूपमें जो साक्षात् लक्ष्मी विराजमान थीं, उनसे मानो वे समस्त दिव्यलोकोंके चूडामणि वैकुण्ठधामको सुशोभित कर रहे थे॥ ३९॥

वीरराघवः

किञ् च कृत्स्न-प्रसाद-सुमुखं कृत्स्न-प्रसादः संपूर्णानुग्रहः तस्मिन् सुमुखं पूर्णमनुग्रहं कुर्वन्तम् इव स्थितम् इत्य् अर्थः । स्पृहणीयानां कान्ति-सौकुमार्यादि-गुणानां धामाश्रयं स्नेह-युक्तो यो ऽवलोकः तस्य कलया प्रसरणेन हृदि संस्पृशन्तं चित्तम् अपहरन्तम् इत्य् अर्थः । पृथौ पीने विशाले च श्यामे उरसि शोभितया प्रकाशमानया श्रिया लक्ष्म्या स्वर्लोकस्य चूडामणिम् इव स्थितम् आत्म-धिष्ण्यम् आत्मनः स्वस्य धिष्ण्ये स्थानं वैकुण्ठ-लोकं सुभगयन्तम् इव शोभयन्तम् इव स्थितम् ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

पीतांशुके पृथुनितम्बिनि विस्फुरन्त्या
काञ्‍च्‍यालिभिर्विरुतया वनमालया च।
वल्गुप्रकोष्ठवलयं विनतासुतांसे
विन्यस्तहस्तमितरेण धुनानमब्जम्॥

मूलम्

पीतांशुके पृथुनितम्बिनि विस्फुरन्त्या काञ्‍च्‍यालिभिर्विरुतया वनमालया च।
वल्गुप्रकोष्ठवलयं विनतासुतांसे विन्यस्तहस्तमितरेण धुनानमब्जम्॥ ४० ॥

अनुवाद (हिन्दी)

उनके पीताम्बरमण्डित विशाल नितम्बोंपर झिलमिलाती हुई करधनी और गलेमें भ्रमरोंसे मुखरित वनमाला विराज रही थी; तथा वे कलाइयोंमें सुन्दर कंगन पहने अपना एक हाथ गरुड़जीके कंधेपर रख दूसरेसे कमलका पुष्प घुमा रहे थे॥ ४०॥

वीरराघवः

किञ् च, पृथनितम्बिन विपुल-नितम्बवति पीताम्बरे विस्फुरन्त्या काञ्च्या मेखलया पृथु-नितम्बोपरि धृत-पीताम्बरोपरि विराजमानया काञ्च्येत्य् अर्थः । अलिभिर् भ्रमरैर् विरुतया नादितया वनमालया च मधु-पान-मत्तनदद्-भ्रमरयेत्य् अर्थः उपलक्षितम् इत्य् अध्याहारः यद् वा सुभगयन्तम् इति पूर्वेणैव सम्बन्धः वल्गुषु सुन्दरेषु प्रकोष्ठेषु वलयानि यस्य तं विनता-सुतो गरुडस् तस्यांसे स्कन्धे विन्यस्तः निहितः हस्तः वाम-हस्तो येन तम् इतरेण दक्षिण-हस्तेनाब्जं सनालं कमलं धुनानं लीलया भ्रामयन्तम् इत्य् अर्थः ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

विद्युत्क्षिपन्मकरकुण्डलमण्डनार्ह-
गण्डस्थलोन्नसमुखं मणिमत्किरीटम्।
दोर्दण्डषण्डविवरे हरता परार्घ्य-
हारेण कन्धरगतेन च कौस्तुभेन॥

मूलम्

विद्युत्क्षिपन्मकरकुण्डलमण्डना21र्हगण्डस्थलोन्नसमुखं मणिमत्किरीटम्।
दोर्दण्डषण्डविवरे हरता परार्घ्यहारेण कन्धरगतेन च कौस्तुभेन॥ ४१ ॥

अनुवाद (हिन्दी)

उनके अमोल कपोल बिजलीकी प्रभाको भी लजानेवाले मकराकृत कुण्डलोंकी शोभा बढ़ा रहे थे, उभरी हुई सुघड़ नासिका थी, बड़ा ही सुन्दर मुख था, सिरपर मणिमय मुकुट विराजमान था तथा चारों भुजाओंके बीच महामूल्यवान् मनोहर हारकी और गलेमें कौस्तुभमणिकी अपूर्व शोभा थी॥ ४१॥

वीरराघवः

किञ् च, विद्युतं तडितं क्षिपती तिरस्कुर्वती ये मकराकृतिनी कुण्डले ताभ्यां यन्-मण्डनम् अलंकरणं तस्मिन्न् अर्हे गण्ड-स्थले यस्मिन् तच् च तद् उन्नसं चोद्-अग्र-नासिकं मुखं च यस्य तं मणिमत् मणियुक्तं किरीटं यस्य तं दोर्-दण्डानां भुज-दण्डानां यः खण्डः समूहः तस्य विवरे मध्ये स्थितेन हरता मनोहरेण परार्ध्य उत्कृष्टो हारो मुक्ता-हारस् तेन कन्धरायां कण्ठे गतेन स्थितेन कौस्तुभेन च उपलक्षितम् ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

अत्रोपसृष्टमिति चोत्स्मितमिन्दिरायाः
स्वानां धिया विरचितं बहुसौष्ठवाढ्यम्।
मह्यं भवस्य भवतां च भजन्तमङ्गं
नेमुर्निरीक्ष्य नवितृप्तदृशो मुदा कैः॥

मूलम्

अत्रोपसृष्टमिति चोत्स्मितमिन्दिरायाः स्वानां धिया विरचितं बहुसौष्ठवाढ्यम्।
मह्यं भवस्य भवतां च भजन्तमङ्गं नेमुर्निरीक्ष्य नवितृप्तदृशो मुदा कैः॥ ४२ ॥

अनुवाद (हिन्दी)

भगवान‍्का श्रीविग्रह बड़ा ही सौन्दर्यशाली था। उसे देखकर भक्तोंके मनमें ऐसा वितर्क होता था कि इसके सामने लक्ष्मीजीका सौन्दर्याभिमान भी गलित हो गया है। ब्रह्माजी कहते हैं—देवताओ! इस प्रकार मेरे, महादेवजीके और तुम्हारे लिये परम सुन्दर विग्रह धारण करनेवाले श्रीहरिको देखकर सनकादि मुनीश्वरोंने उन्हें सिर झुकाकर प्रणाम किया। उस समय उनकी अद‍्भुत छविको निहारते-निहारते उनके नेत्र तृप्त नहीं होते थे॥ ४२॥

वीरराघवः

किञ् च इन्दिराया इति । अहं निरतिशय-सौन्दर्य-निधिर् इति यल्-लक्ष्म्या उत्स्मितम् उत्स्मयं विस्मय इति यावत् तद् अत्र भगवतो दिव्य-देह-विषये उपसृष्टम् अन्तर्भूतम् अहो ममेदं निरतिशयं सौन्दर्यम् इति यल्-लक्ष्म्या उत्स्मितं तद् अत्र दिव्य-देहे ऽन्तर्भूतं निरतिशय-सौन्दर्यवत्या लक्ष्म्या अतिसुन्दरम् इत्य् अर्थः । स्वानां भक्तानां धिया विरचितं भृत्यैः स्व-मनस्येवं वितर्कितम् इत्य् अर्थः । बहु-सौष्ठवेन निरतिशय-सौन्दर्येणाढ्यं युक्तं मह्यं मम ब्रह्मणः भवस्य रुद्रस्य भवतां देवतानां च भजन्तं भजनीयं कर्मणि शतृ-प्रत्ययः आर्षत्वात् । अङ्ग हे देवाः! निरीक्ष्य दृष्ट्वा न वितृप्त-दृशः न वितृप्ता दिदृक्षा-पर्याप्तिम् अप्राप्ताः दृशः अक्षीणि येषां ते मुनयः कैः शिरोभिः मुदा नेमुर् नमश् चक्रुः ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

तस्यारविन्दनयनस्य पदारविन्द-
किञ्जल्कमिश्रतुलसीमकरन्दवायुः।
अन्तर्गतः स्वविवरेण चकार तेषां
सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः॥

मूलम्

तस्यारविन्दनयनस्य पदारविन्दकिञ्जल्कमिश्रतुलसीमकरन्दवायुः।
अन्तर्गतः स्वविवरेण चकार तेषां सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः॥ ४३ ॥

अनुवाद (हिन्दी)

सनकादि मुनीश्वर निरन्तर ब्रह्मानन्दमें निमग्न रहा करते थे। किन्तु जिस समय भगवान् कमलनयनके चरणारविन्दमकरन्दसे मिली हुई तुलसीमंजरीके गन्धसे सुवासित वायुने नासिकारन्ध्रोंके द्वारा उनके अन्तःकरणमें प्रवेश किया, उस समय वे अपने शरीरको सँभाल न सके और उस दिव्य गन्धने उनके मनमें भी खलबली पैदा कर दी॥ ४३॥

वीरराघवः

तस्यारविन्द-नयनस्य पुण्डरीकाक्षस्य भगवतः पदारविन्दयोः किञ्जल्का अङ्गुलयः तैर् मिश्रितो यस् तुलसी-मकरन्दस् तस्य वायुः च स्व-विवरेण स्व-नासा-रन्ध्रेणान्तर्गतः सन्न् अक्षर-जुषाम् अप्य् आत्मानुसन्धानेनाविकृत-मनसाम् अपि तेषां मुनीनां चित्त-तन्वोः संक्षोभं चकार चित्त-संक्षोभ आनन्द-पारवश्यं तनु-क्षोभो रोमाञ्चः ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

ते वा अमुष्य वदनासितपद्मकोश-
मुद्वीक्ष्य सुन्दरतराधरकुन्दहासम्।
लब्धाशिषः पुनरवेक्ष्य तदीयमङ्घ्रि-
द्वन्द्वं नखारुणमणिश्रयणं निदध्युः॥

मूलम्

ते वा अमुष्य वदनासितपद्मकोशमुद्वीक्ष्य सुन्दरतराधरकुन्दहासम्।
लब्धाशिषः पुनरवेक्ष्य तदीयमङ्घ्रिद्वन्द्वं नखारुणमणिश्रयणं निदध्युः॥ ४४ ॥

अनुवाद (हिन्दी)

भगवान‍्का मुख नील कमलके समान था, अति सुन्दर अधर और कुन्दकलीके समान मनोहर हाससे उसकी शोभा और भी बढ़ गयी थी। उसकी झाँकी करके वे कृतकृत्य हो गये और फिर पद्मरागके समान लाल-लाल नखोंसे सुशोभित उनके चरण-कमल देखकर वे उन्हींका ध्यान करने लगे॥ ४४॥

वीरराघवः

सांक्षोभ-कारितं संभ्रमम् आह । त इति । ते मुनयः अमुष्य भगवतः वदनम् एवासित-पद्म-कोशस् तम् उद्वीक्ष्य ऊर्ध्वं वीक्ष्य श्याम-वर्णत्वाद् असित-पद्म-कोशो दृष्टान्तितः अभूतोपमा चेयं कथम्-भूतं सुन्दरतराधर-कुन्द-हासं सुन्दरतरे अरुणे ऽधरोष्ठे कुन्दवद् भासो यस्मिंस् तं लब्धाशिषः लब्ध-मनोरथाः सन्तः पुनस् तदीयं भगवत्-सम्बन्धि-नखा एवारुण-मणयस् तेषां श्रयणम् आश्रयम् अङ्घ्रि-द्वन्द्वं निरीक्ष्य पुनर् एवं निरीक्ष्य युगपत्-सर्वाङ्ग-लावण्य-ग्रहणासक्ताः पश्चानि दध्युर् ध्यातवन्तः ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

पुंसां गतिं मृगयतामिह योगमार्गै-
र्ध्यानास्पदं बहु मतं नयनाभिरामम्।
पौंस्नं वपुर्दर्शयानमनन्यसिद्धै-
रौत्पत्तिकैः समगृणन् युतमष्टभोगैः॥

मूलम्

पुंसां गतिं मृगयतामिह योगमार्गैर्ध्यानास्पदं बहु मतं नयनाभिरामम्।
पौंस्नं वपुर्दर्शयानमनन्यसिद्धैरौत्पत्तिकैः समगृणन् युतमष्टभोगैः॥ ४५ ॥

अनुवाद (हिन्दी)

इसके पश्चात् वे मुनिगण अन्य साधनोंसे सिद्ध न होनेवाली स्वाभाविक अष्टसिद्धियोंसे सम्पन्न श्रीहरिकी स्तुति करने लगे—जो योगमार्गद्वारा मोक्षपदकी खोज करनेवाले पुरुषोंके लिये उनके ध्यानका विषय, अत्यन्त आदरणीय और नयनानन्दकी वृद्धि करनेवाला पुरुषरूप प्रकट करते हैं॥ ४५॥

वीरराघवः

एवं निरतिशय-सर्व-लावण्य-युक्तं भगवन्तं स्व-हृदि ध्यात्वा अथास्तुवन्न् इत्य् आह । पुंसाम् इति । इहास्मिल् लोके योगानां कर्म-योग-ज्ञान-योग-भक्ति-योगादीनां ये मार्गाः प्रकारास् तैर् गतिं स्वरूपं मृगयतां चिन्तयतां कर्म-ज्ञान-योगयोः प्रकारौ भक्ति-योग-साधनतैक-रूपौ भक्ति-योगस्य तु मुक्ति-साधनतैक-रूपः प्रकारः तैर् मृगयतां ज्ञान-कर्म-योगानुगृहीत-भक्ति-योगेन गतिं स्व-स्वरूपं चिन्तयताम् इत्य् अर्थः । तेषां पुंसां ध्यानास्पदं ध्यानस्य विषय-भूतम् अतं बहुमतम् अत्यादरास्पदम् अत एव नयनयोर् अभिरामं पौस्नं पौरुषं वपुः शरीरं दर्शयानं दर्शयन्तम् अनन्य-सिद्धैः स्व-साधारणैर् औत्पत्तिकैः स्वाभाविकैर् अष्ट-भोगैर् अणिमाद्य्-अष्ट-विभूतिभिः यद् वा “अहिंसा प्रथमं पुष्पं पुष्पम् इन्द्रिय-निग्रहः” इत्य्-आद्य्-उक्तैः भोगैर् युतं युक्तं भगवन्तं समगृणन् सम्यग् अस्तुवन् ॥ ४५ ॥

श्लोक-४६

मूलम् (वचनम्)

कुमारा ऊचुः

विश्वास-प्रस्तुतिः

योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वं
सोऽद्यैव नो नयनमूलमनन्त राद्धः।
यर्ह्येव कर्णविवरेण गुहां गतो नः
पित्रानुवर्णितरहा भवदुद‍्भवेन॥

मूलम्

योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां22 त्वं सोऽद्यैव नो नयनमूलमनन्त राद्धः।
यर्ह्येव कर्णविवरेण गुहां गतो नः पित्रानुवर्णितरहा भवदुद‍्भवेन॥ ४६ ॥

अनुवाद (हिन्दी)

सनकादि मुनियोंने कहा—अनन्त! यद्यपि आप अन्तर्यामीरूपसे दुष्टचित्त पुरुषोंके हृदयमें भी स्थित रहते हैं, तथापि उनकी दृष्टिसे ओझल ही रहते हैं। किन्तु आज हमारे नेत्रोंके सामने तो आप साक्षात् विराजमान हैं। प्रभो! जिस समय आपसे उत्पन्न हुए हमारे पिता ब्रह्माजीने आपका रहस्य वर्णन किया था, उसी समय श्रवणरन्ध्रोंद्वारा हमारी बुद्धिमें तो आप आ विराजे थे; किन्तु प्रत्यक्ष दर्शनका महान् सौभाग्य तो हमें आज ही प्राप्त हुआ है॥ ४६॥

वीरराघवः

स्तुतिम् एवाह यावद् अध्याय-समाप्ति । तत्र चिरम् अस्माभिर् हृदये ध्यातम् अतस् त्वम् अस्मद्-भाग्य-वशाद् अद्य नयन-विषयतां गतो ऽसीत्य् आत्मनः कृतार्थताम् आहुः । य इति । दुरात्मनाम् अयोगिनां हृदि गतो ऽपि विद्यमानो ऽपि अन्तर्हितस् तिरोहितः यस् त्वम् अद्यैव नो ऽस्माकं नयन-मूलं नयन-विषयतां हे अनन्त! राद्धः प्राप्तः । यर्ह्य् एव यदैव तव उत्पन्नेन पित्रा ऽस्मत्-पित्रा चतुर्मुखेनानुवर्णित-रहा उपदिष्ट-स्वस्वरूप-गुणाविभूतिर् भवान् अभूत् तर्ह्य् एव कर्ण-विवरेण नो ऽस्माकं गुहां हृदय-गुहां प्रविष्टः त्वत्-पुत्राद् अस्मत्-पितुश् चतुर्मुखाद् उपदिष्टं रहस्यं तत् प्रभृत्य् एतावन्तं हृदये ध्यात इदानीं नयन-मूलं गतो ऽसि । अतो वयं कृतार्था इति भावः ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

तं त्वां विदाम भगवन् परमात्मतत्त्वं
सत्त्वेन सम्प्रति रतिं रचयन्तमेषाम्।
यत्तेऽनुतापविदितैर्दृढभक्तियोगै-
रुद‍्ग्रन्थयो हृदि विदुर्मुनयो विरागाः॥

मूलम्

तं त्वां विदाम भगवन् परमात्मतत्त्वं सत्त्वेन सम्प्रति रतिं रचयन्तमेषाम्।
तत्तऽनुतापविदितैर्दृढभक्ति23योगैरुद‍्ग्रन्थयो हृदि विदुर्मुनयोविरागाः॥ ४७ ॥

अनुवाद (हिन्दी)

भगवन्! हम आपको साक्षात् परमात्मतत्त्व ही जानते हैं। इस समय आप अपने विशुद्ध सत्त्वमय विग्रहसे अपने इन भक्तोंको आनन्दित कर रहे हैं। आपकी इस सगुण-साकार मूर्तिको राग और अहंकारसे मुक्त मुनिजन आपकी कृपादृष्टिसे प्राप्त हुए सुदृढ़ भक्तियोगके द्वारा अपने हृदयमें उपलब्ध करते हैं॥ ४७॥

वीरराघवः

ननु भवत्-पित्रोपदिष्टम् आत्म-तत्त्वम् अन्यद् अहन् त्व् अन्यस् तत् कथं मद्-दर्शनेन कृतार्थतेत्य् अत्राहुः । तम् इति । हे परम! परो मा यस्मात् स परमः सर्वोत्कृष्टस् तस्य सम्बोधनं हे सर्वोत्कृष्ट भगवन् सत्त्वेन शुद्ध-सत्त्वमय-देहेन एषां भक्तानां संप्रति सम्यक् प्रतिक्षणं रतिम् अनुरागं रचयन्तम् अनेन “न वा अरे पत्युः कामाय पतिः प्रियो भवति आत्मनस् तु कामाय” इति स्मारितं पूर्वोक्त-विधं त्वाम् एवात्म-तत्त्वं पित्रोपदिष्टम् आत्म-तत्त्वं विदाम प्रत्यभिजानीमः । किं तद् आत्म-तत्त्वं यन् मद्-भिन्नं जानीथेत्य् अत्राहुः अनुताप-विदितैर् अनुतापः संसार-निर्वेदस् तेन लब्धे दृढे भक्ति-योगे निश्चल-भक्ति-योगैः विरागा विगत-शब्दादि-विषयाभिलाषा उद्ग्रन्थयो निरहङ्कारास् ते प्रसिद्धा मुनयो हृदि यद् आत्म-तत्त्वं विदुः। स्थासीरन् मुनिभिर् उपास्यं शुद्ध-सत्त्वमय-विग्रहवद् एवात्म-तत्त्वम् अस्मत्-पित्राप्य् उपदिष्टम् इति प्रत्यभिज्ञातस् त्वाम् एव जानीम इति कृतार्थतोपपन्नेति भावः ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

नात्यन्तिकं विगणयन्त्यपि ते प्रसादं
किन्त्वन्यदर्पितभयं भ्रुव उन्नयैस्ते।
येऽङ्ग त्वदङ्घ्रिशरणा भवतः कथायाः
कीर्तन्यतीर्थयशसः कुशला रसज्ञाः॥

मूलम्

नात्यन्तिकं विगणयन्त्यपि ते प्रसादं किन्त्वन्यदर्पितभयं भ्रुव उन्नयैस्ते।
येऽङ्ग24त्वदङ्घ्रिशरणा भगवतः कथायाः कीर्तन्यतीर्थयशसः कुशला रसज्ञाः॥ ४८ ॥

अनुवाद (हिन्दी)

प्रभो! आपका सुयश अत्यन्त कीर्तनीय और सांसारिक दुःखोंकी निवृत्ति करनेवाला है। आपके चरणोंकी शरणमें रहनेवाले जो महाभाग आपकी कथाओंके रसिक हैं, वे आपके आत्यन्तिक प्रसाद मोक्षपदको भी कुछ अधिक नहीं गिनते; फिर जिन्हें आपकी जरा-सी टेढ़ी भौंह ही भयभीत कर देती है, उन इन्द्रपद आदि अन्य भोगोंके विषयमें तो कहना ही क्या है॥ ४८॥

वीरराघवः

ननु कथं मद्-दर्शन-मात्रेण कृतार्थता यतो धर्मादीनाम् एव पुरुषार्थत्वम् इत्य् आशङ्क्य कैमुत्य-न्यायेन दर्शनस्यैव कृतार्थतापादकत्वम् आहुः । नेति । अङ्ग हे भगवन्! ये त्वद्-अङ्घ्रिर् एव शरणं स्व-रक्षणोपायो येषां ते भगवच्-छरणागता इत्य् अर्थः । अत एव कुशला दुष्करोपायेभ्यो निवृत्तत्वात् कीर्तन्यं कीर्तनीयं तीर्थं पवित्रं यशो यस्य तस्य भगवतः कथाया रसज्ञाः रसानुभव-पराः सन्तः ते तव प्रसाद-रूपम् आत्यन्तिकं मोक्षम् अपि न विगणयन्ति ते तव भ्रुवः उन्नपैर् विक्षेपैर् अर्पितं निहितं भयं यस्मिंस् तत् स्वर्ग-स्वराज्यादिकं न विगणयन्तीति किम् उ वक्तव्यम् इत्य् अर्थः । त्वत्-कथा-श्रवण-मात्रेण स्वात्मनः कृतार्थतां मन्यमानाः त्वच्-छरणागताः परम-पुरुषार्थ-मोक्षम् अपि नाद्रियन्ते किम् उत वाङ्-मनसागोचर-स्वरूप-स्वभाव-भवद्-दर्शनेनास्माकं कृतार्थतेति भावः ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

कामं भवः स्ववृजिनैर्निरयेषु नः स्ता-
च्चेतोऽलिवद्यदि नु ते पदयो रमेत।
वाचश्च नस्तुलसिवद्यदि तेऽङ्घ्रिशोभाः
पूर्येत ते गुणगणैर्यदि कर्णरन्ध्रः॥

मूलम्

कामं भवः स्ववृजिनैर्निरयेषु नः स्ताच्चेतोऽलिवद्यदि नु ते पदयो रमेत।
वाचश्च नस्तुलसिवद्यदि तेऽङ्घ्रिशोभाः पूर्येत ते गुणगणैर्यदि कर्णरन्ध्रः॥ ४९ ॥

अनुवाद (हिन्दी)

भगवन्! यदि हमारा चित्त भौंरेकी तरह आपके चरणकमलोंमें ही रमण करता रहे, हमारी वाणी तुलसीके समान आपके चरणसम्बन्धसे ही सुशोभित हो और हमारे कान आपकी सुयश-सुधासे परिपूर्ण रहें तो अपने पापोंके कारण भले ही हमारा जन्म नरकादि योनियोंमें हो जाय—इसकी हमें कोई चिन्ता नहीं है॥ ४९॥

वीरराघवः

किं बहुना दर्शनस्य कृतार्थतापादकत्वं कथनीयम् एतावतैव सर्वेषां कृतार्थता स्याद् इति सूचयन्तस् तद् एव प्रार्थयन्तो नमस्कुर्वन्ति । द्वाभ्यां श्लोकाभ्याम् । कामम् इति । हे भगवन्! स्व-वृजिनैः स्वेषाम् अस्माकं वृजिनैर् दुरितैः कामं नो ऽस्माकं निरयेषु निरय-प्रायेषु नीच-योनिषु भवो जन्म स्यान् नु वितर्के यदि नूनं ते तव पदयोर् नश् चेतश् चित्तम् अलिवद् भृङ्गवद् रमेत यदि नः वाचः गिरः तुलसीवत् ते ऽङ्घ्रि-शोभाः अङ्घ्री शोमयन्तीत्य् अङ्घ्रि-शोभाः स्तुति-पराः स्युर् इत्य् अर्थः । यदि नः कर्ण-रन्ध्रं ते गुण-गणैः पूर्येत नित्यं त्वद्-गुण-गण-श्रवण-परं स्याद् इत्य् अर्थः । इदं शिरः पाण्यादीनां भगवद्-वन्दनार्चनादेर् उपलक्षणं तत्-तद्-दुरितानुसारेण जन्म स्यान् न तत्र शोकः इदन् तु भगवन्तं प्रति प्रार्थनीयम् अवशिष्यते यच् चेत आदीनां भगवत्-पादारविन्द-ध्यानादि-प्रावण्यम् इत्य् एतावतैव कृतार्था भवेयुर् इत्य् अर्थः । इदं तु लोक-दृष्ट्योक्तम् ॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

प्रादुश्चकर्थ यदिदं पुरुहूत रूपं
तेनेश निर्वृतिमवापुरलं दृशो नः।
तस्मा इदं भगवते नम इद्विधेम
योऽनात्मनां दुरुदयो भगवान् प्रतीतः॥

मूलम्

प्रादुश्चकर्थ यदिदं पुरुहूत रूपं तेनेश निर्वृतिमवापुरलं दृशो नः।
तस्मा25 इदं भगवते नम इद्विधेम योऽनात्मनां दुरुदयो भगवान् प्रतीतः॥ ५० ॥

अनुवाद (हिन्दी)

विपुलकीर्ति प्रभो! आपने हमारे सामने जो यह मनोहर रूप प्रकट किया है, उससे हमारे नेत्रोंको बड़ा ही सुख मिला है; विषयासक्त अजितेन्द्रिय पुरुषोंके लिये इसका दृष्टिगोचर होना अत्यन्त कठिन है। आप साक्षात् भगवान् हैं और इस प्रकार स्पष्टतया हमारे नेत्रोंके सामने प्रकट हुए हैं। हम आपको प्रणाम करते हैं॥ ५०॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे ज26यविजययोः सनकादिशापो नाम पञ्चदशोऽध्यायः॥ १५ ॥

वीरराघवः

अथ स्व-दृष्ट्या स्व-कृतार्थतां वदन्तो नमन्ति प्रादुर् इति । हे पुरुहूत! पुरुभिः बहुभिः हूत, स्तुत्य, सर्वोपनिषद्-वेद्येत्य् अर्थः । यद् वा रूप-विशेषणं पुरुभिर् हूतं वेद्यं पञ्चोपनिषत्-प्रतिपाद्यम् इत्य् अर्थः । यद् इदं रूपं दिव्य-मङ्गल-विग्रहं प्रादुश् चकर्थ प्रकटीकृतवान् असि तेन रूपेण तद्-दर्शनेनेत्य् अर्थः । हे ईशास्माकं दृशः नेत्राणि निर्वृतिं सुखम् अलं भृशम् अवापुः प्रापुः । अनात्मनां न विद्यते आत्मा अन्तः-करणं स्व-वशं येषां तेषाम् अयोगिनां दुरुदयः दुरवगमः यो भगवानित् इत्थम् अवधारणे वा प्रतीतः दृष्टः अस्माभिर् इति शेषः, तस्मै भगवते तुभ्यं इदं नमः कुर्म इत्य् अर्थः ॥ ५० ॥

इति श्रीमद्-भागवते महा-पुराणे तृतीय-स्कन्धे श्रीमद्-वीर-राघवाचार्य-कृत-भागवत-चन्द्र-चन्द्रिकायां पञ्चदशो ऽध्यायः॥ १५ ॥


  1. प्रा. पा. - कृतालोके । ↩︎

  2. प्राचीने पाठे ‘देवा ऊचुः’ अयमंशो न । ↩︎

  3. प्रा. पा. - शिरोमणे । ↩︎

  4. प्रा. पा. - ये त्वामनन्यभावेन । ↩︎

  5. प्रा. पा. - मुख्यात्मने नमः । ↩︎

  6. प्रा. पा. - भूमँल्लोकानां । ↩︎

  7. प्रा. पा. - एधते । ↩︎

  8. प्रा. पा. - जले तु विक । ↩︎

  9. प्रा. पा. - क्षिपन्ति । ↩︎

  10. प्रा. पा. - गन्धेऽन्विते । ↩︎

  11. प्रा. पा. - त्तवीर्या । ↩︎

  12. प्रा. पा. - ऽभ्यर्चिता । ↩︎

  13. प्रा. पा. - ननु । ↩︎

  14. प्रा. पा. - सर्वेऽपि ते । ↩︎

  15. प्रा. पा. - सम्यग्विहस्य । ↩︎

  16. प्राचीने पाठे ‘मुनय ऊचुः’ अयमंशो न । ↩︎

  17. प्रा. पा. - तद्धर्माणां । ↩︎

  18. प्रा. पा. - तममिक्रम । ↩︎

  19. प्रा. पा. - प्रतिहृतौ । ↩︎

  20. प्रा. पा. - च चूडा । ↩︎

  21. प्रा. पा. - मण्डलार्ह । ↩︎

  22. प्रा. पा. - त्वमद्यैव । ↩︎

  23. प्रा. पा. - भक्तियुक्तै । ↩︎

  24. प्रा. पा. - ये वा । ↩︎

  25. प्रा. पा. - तस्मादिदं । ↩︎

  26. प्राचीने पाठे ‘जयविजययोः सनकादिशापो नाम’ अयमंशो न । ↩︎